प्रतिकूलतर्कहताश्चैते
३५. मिथ्यात्वहेतूनां प्रतिकूलतर्काः
न्यायामृतम्
प्रतिकूलतर्कहताश्चैते । तथा हि– यदि विश्वं कल्पितं स्यात्, तदा साधिष्ठानादिकं स्यात् । भ्रान्तेस्सदृशं सत्यं चाधिष्ठानं प्रधानं दोषमज्ञानं बाधकज्ञानं द्रष्टारं देहेन्द्रियादिकं च विनाऽयोगात् । निस्सामान्ये निर्विशेषे चात्मनि अधिष्ठानत्वे तन्त्रस्य सामान्यतो ज्ञातत्वे सत्यज्ञातविशेषवत्त्वस्या भावात् । उक्तं हि–
अधिष्ठानस्य कार्त्स्येन ज्ञानेऽज्ञाने च न भ्रमः ।
ज्ञाताज्ञातविभागस्तु निर्विशेषे न युज्यते ॥ इति ।
ननु न सामान्यज्ञानं सद्विशेषाज्ञानं च तत्र तन्त्रम्, गौरवात् । किन्तु स्वरूपज्ञानं विशेषाज्ञानं च, लाघवात् । तच्च स्वप्रकाशे निर्विशेषे चात्मन्य-स्तीति चेन्न । त्वन्मतेऽपि भ्रान्तेस्संस्कारादित्रयजन्यत्वात् । सामान्याकारा ज्ञाने च संस्कारानुद्बोधात् । असद्विशेषाज्ञानस्य च बाधकालेऽपि सत्त्वात् । वल्मीके स्थाणुत्वभ्रमनिवर्तकस्यापि पुंस्त्वभ्रमस्य वल्मीकत्वप्रमानिवर्त्यत्वे-नान्ततो भ्रमकालाज्ञाताधिष्ठानविशेषप्रमां विना भ्रमानिवृत्तेश्च । नन्वथ भ्रम विरोधिज्ञानाभावस्तत्र तन्त्रं, न तु विशेषाज्ञानम् । विश्वभ्रमोपादानाज्ञानस्य च श्रवणादिजन्यमात्ममात्रविषयं वृत्तिज्ञानं विरोधि न तु चिद्रूपज्ञानमिति चेन्न । त१स्याविद्याविषयभङ्गे निरसिष्यमाणत्वात् ।
किञ्चात्मानात्मनोर्दृग्दृश्यत्वात्मत्वानात्मत्वादिना भेदज्ञानान्नाधिष्ठानाध्यस्त -भावः । उक्तं हि त्वयैव–
तत्तेदन्ते स्वतान्यत्वे त्वत्ताहन्ते२ परस्परम् ।
प्रतिद्वन्द्वितया लोके प्रसिद्धे नास्ति संशयः ॥ इति ॥
‘स्वयमात्मेति पर्ययौ’ इति च । अपि चाधिष्ठानतिरोधानं विनाऽध्यासा-सम्भवस्य तवापि सम्मतत्वात् प्रकाशमात्रस्वभावस्य चात्मनस् तिरोधाने प्रकाशनिह्नवेन कथं तदधीनप्रकाशस्याविद्यादेरध्यस्तस्य प्रकाशः । किञ्च घटाद्य- नुविद्धत्वेनाप्रतीतस्यात्मनः कथं तदधिष्ठानत्वम् । न च ‘सन्घटः’ इति ‘स्फुरति घटः’ इति चात्मा तदनुविद्धतया भातीति युक्तम् । चाक्षुषादिज्ञाने रूपादिहीनात्माप्रतीतेरित्युक्तत्वात् । न च स्वप्रकाशसदर्थभूतं घटाधिष्ठानं चैतन्यं स्वत एव भातीति युक्तम् । घटस्यापि तत्सम्बन्धेन स्फुरणसम्भवे वृत्तिवैयर्थ्यात् । घटः स्फुरतीत्यस्य च स्फुरणानुभवत्वेन घटानुभवत्वायोगात् ।
अद्वैतसिद्धिः
ननु– मिथ्यात्वानुमानं प्रतिकूलतर्कपराहतम् । तथा हि विश्वं यदि कल्पितं स्यात्, साधिष्ठानं स्यात् । न चैवम्, सामान्यतो ज्ञातत्वे सत्यज्ञातविशेषवत्त्वस्याधिष्ठानत्वप्रयोज-कस्य निर्विशेषे निस्सामान्ये च ब्रह्मण्यसम्भवादिति चेन्न । स्वरूपेण ज्ञातत्वे सति विशेषेणाज्ञातत्वस्याधिष्ठानत्वप्रयोजकत्वेनाज्ञातविशेषवत्त्वस्याप्रयोजकत्वात् । तथा च नि-स्सामान्ये निर्विशेषे च ब्रह्मणि स्वप्रकाशत्वेन ज्ञानात् परिपूर्णत्वानन्दत्वादिना चाज्ञाना-दधिष्ठानत्वमुपपन्नम् । वस्तुतस्तु कल्पितसामान्यविशेषवत्त्वं ब्रह्मण्यपि सुलभमेव । अकल्पितसामान्यविशेषवत्त्वं चाप्रसिद्धम् । न च तत्कल्पनेऽन्योन्याश्रयः । कल्पित-सामान्यविशेषाणां प्रवाहानादित्वात् । सत्त्वानन्दत्वादीनामेव कल्पितव्यक्तिभेदेन सामान्य-त्वात् । परिपूर्णानन्दत्वादीनां च विशेषत्वात् । अत एव सामान्याकारज्ञानं विना संस्कारानुद्बोधात् कथमध्यास इति न वाच्यम् । सदात्मना स्वरूपज्ञानस्यैव सामान्य-ज्ञानत्वात् । न ह्यध्यसनीयं सदात्मना न भाति । एतावानेव विशेषः यदधिष्ठानं स्वत एव तदात्मना भाति । अध्यसनीयं तु तत्सम्बन्धात् ।
ननु अधिष्ठानतिरोधानं विना भ्रमासम्भवः । प्रकाशरूपतिरोधाने तु तदध्यस्ताविद्यादेः प्रकाशानुपपत्तिरिति चेन्न । एकस्यैवानन्दाद्यात्मना तिरोहितस्य सदात्मना प्रकाशसम्भवात् । तदुक्तं वार्त्तिककारपादैः–
यत्प्रसादादविद्यादि सिध्यतीव दिवानिशम् ।
तमप्यपह्नुतेऽविद्या नाज्ञानस्यास्ति दुष्करम् ॥ इति ।
न च बाधकालेऽपि सद्विशेषाज्ञानमस्तीति वाच्यम् । परिपूर्णानन्दत्वादेः सत एव विशेषत्वेन तदा तदज्ञानाभावात् । धर्मत्वमात्रस्यैव कल्पितत्वात् । यद्वा, भ्रमविरोधि ज्ञानाभाव एव तन्त्रम् । न तु विशेषाज्ञानम् । विश्वोपादानगोचराज्ञानस्य श्रवणादि-जन्यमात्ममात्रविषयकं वृत्तिरूपं ज्ञानं विरोधि, न तु चिद्रूपं स्वतःसिद्धं ज्ञानम् । भ्रमविरोधिनश्च वृत्तिरूपस्य ज्ञानस्येदानीमभावोऽस्त्येव । नन्वात्मानात्मनोर्दृग्दृश्यत्वात्मा-नात्मत्वादिना भेदज्ञानात्कथमध्यस्ताधिष्ठानभाव इति चेन्न । इदमनिदं न भवतीति पुरोवर्त्त्यपुरोवर्तिनोर्भेदग्रहेऽपीदं रजतमित्यध्यासवत् सन् घट इत्याद्यध्यासो भविष्यति । न हि रूपान्तरेण भेदग्रहो रूपान्तरेणाध्यसविरोधी । सन् घट इत्यादिप्रत्यये च सद्रूपस्यात्मनो घटाद्यनुविद्धतया भानान्न तस्य घटाद्यध्यासाधिष्ठानताऽनुपपत्तिः । सद्रूपेण च सर्वज्ञान-विषयतोपपत्तेर्न रूपादिहीनस्याप्यात्मनः कालस्येव चाक्षुषत्वाद्यनुपपत्तिः ।
न्यायामृततरङ्गिणी
विश्वमिति ॥ मिथ्यात्वानुमाने यः पक्षः स एवेह विश्वशब्देनाभिमतः ॥ साधिष्ठानेति ॥ सामान्यतो ज्ञातत्वे सति विद्यमानविशेषवत्तयाऽज्ञायमानधर्मिमत् स्यादित्यर्थः । आदिपदेन प्रधानादिकम् । अत्र च प्रत्येकं तर्का अभिमता इति न वैयर्थ्यमिति ध्येयम् । प्रथमेऽप्रयोजकत्वं निरस्यति– भ्रान्तेरिति ॥ सदृशमित्यधि- ष्ठानेन सम्बध्यते । सत्यमित्यधिष्ठानादिना । सत्यत्वं च कल्पिताधिकसत्ताकत्वम् । अतो न दृष्टान्तासिद्धिः । आदिशब्देन देशकालादृष्टादि । यथाश्रुते प्रथमतर्के आपाद्य- स्येष्टत्वं परिहरति– निःसामान्य इति ॥ कार्त्स्न्येनेति ॥ विशेषवत्त्वेनापीत्यर्थः ॥ अज्ञान इति ॥ सामान्यतोऽपीत्यर्थः ॥ ज्ञातेति ॥ सामान्यविशेषाभ्यामिति शेषः ॥ तच्चेति ॥ स्वरूपज्ञानं स्वप्रकाशत्वाद्विशेषाज्ञानं निर्विशेषत्वादस्तीत्यर्थः ॥ संस्कारेति ॥ संस्कारसम्प्रयोगदोषरूपकारणत्रयजन्यत्वादित्यर्थः ।
ननु भ्रमस्य संस्कारजन्यत्वमधिष्ठानस्वरूपाज्ञानजन्यत्वेनापि निर्वक्ष्यतीत्यत आह– सामान्येति ॥ असदिति ॥ तथा च बाधकालव्यावृत्तं विशेषाज्ञानं तथा वक्तव्यम् । तच्च सद्विशेषाणामेवेत्यर्थः । ननु न सत्सामान्यविशेषज्ञानाज्ञाने भ्रमहेतू । सत्त्वांशप्रवेशेऽप्रसिद्धेर् गौरवाच्च । कल्पितसामान्यविशेषवत्त्वं च ब्रह्मण्यपि सुलभमेव । न च तत्कल्पनेऽन्योन्याश्रयः । कल्पितसामान्यविशेषाणां प्रवाहा-नादित्वात् । सत्त्वादीनामेव कल्पितव्यक्तिभेदेन सामान्यत्वात् । परिपूर्णानन्द-त्वादीनां च विशेषत्वात् । अत एव संस्कारोद्वोधोऽपीति चेन्मैवम् । न ह्यधिष्ठान चिन्मात्रस्य सत्त्वपरिपूर्णानन्दत्वादीनां निर्विशेषब्रह्मवादे विशेषोऽस्ति । येनाधिष्ठान स्फुरणेऽपि तेषामज्ञानम् । तस्मादधिष्ठानज्ञाने सति न विशेषाज्ञानं, तस्मिंश्च नाधिष्ठानज्ञानमित्युभयथाऽपि न भ्रम इति भावः ॥
वल्मीक इति ॥ प्रथमं वल्मीके स्थाणुत्वभ्रमः । अनन्तरं तत्रैव पुंस्त्वभ्रमः । अनन्तरं तत्रैव वल्मीकत्वप्रमा । तया प्रमया प्राचीनं भ्रमद्वयं निवर्तते । प्रमायाः स्वविरोधिभ्रममात्रनिवर्तकत्वादित्यर्थः ॥ अन्तत इति ॥ चरमं गत्वाऽपीत्यर्थः ॥ भ्रमेति ॥ पुंस्त्वज्ञानस्य वल्मीके स्थाणुत्वभ्रमनिवर्तकत्वेऽपि भ्रममात्रनिवर्तकत्वं तत्र तस्य नास्त्येव । पुंस्त्वज्ञानस्यापि वल्मीके भ्रमत्वात् । तेन च तदनिवर्त-नादिति भावः । नन्वधिष्ठानगतविशेषप्रमैव भ्रमविरोधिनीति तदभाव एव हेतुः स्यादित्यत आह– विश्वभ्रमेति ॥ अस्येति ॥ मुख्याज्ञानविरोधिन्या वृत्तेर् मुख्यज्ञानत्वस्य चिद्रूपज्ञानाविरोधिनो वा अमुख्याज्ञानत्वस्य वाऽपातादित्यादेर्वक्ष्य-माणत्वादित्यर्थः ॥ तत्तेदन्ते इति ॥ एतच्च दृष्टान्तार्थमुक्तम् । ननु स्वत्वान्यत्वयो- र्भेदग्रहेऽपि नात्मानात्मनोस्तद्ग्रह इत्यत आह– स्वयमिति ॥ प्रकाशमात्रेति ॥
नन्वेकस्यैवानन्दाद्यात्मना तिरोहितस्य सदात्मना प्रकाश उपपत्स्यते । तदुक्तं वार्तिके–
‘यत्प्रसादादविद्यादि सिध्यतीव दिवानिशम् ।
तमप्यपह्नुतेऽविद्या न ज्ञानस्यास्ति दुष्करम्’ ॥
इतीति शङ्कापरिहारार्थमुक्तम् मात्रेति ॥ प्रकाशमात्रस्वभावे निर्विशेष आत्मनि सत्त्वानन्दयोः प्रकाशाप्रकाशयोरयोगादिति भावः ॥ घटादीति ॥ इदमंशानुविद्धतया रजतस्येवात्मा घट इति तदनुविद्धतया प्रतीत्यभावादिति भावः ॥ सन्निति ॥ सत्स्फुरणयोरात्मरूपत्वादित्यर्थः ॥ चाक्षुषादीति ॥ ‘ध्वस्तो घटः, रूपी घटः’ इत्यादिवद् घट एव सत्ता प्रतीयते । न तु सदनुवेधो घटस्येति भावः । ननु रूपादि हीनस्याप्यात्मनः सद्रूपेण चाक्षुषादिज्ञानविषयता भविष्यतीति चेन्न । घटज्ञानादेव मोक्षापातादित्युक्तत्वात् । निर्विशेषे प्रकारभेदाभावाच्च । तदिदमुक्तमित्युक्तम् इत्युक्तत्वादिति ॥ ननु नात्मा चाक्षुषादिज्ञाने भातीति ब्रूमः, किन्तु स्वत एव सन्निति स्फुरति तदनुविद्धतया च घटोऽपीति शङ्कां परिहरति– न चेति ॥ घटस्येति ॥ प्रकाशमानचैतन्यसम्बन्धादिति भावः ॥ वृत्तीति ॥ न चावरणनिवृत्त्यर्थं वृत्तिरिति वाच्यम् । तथात्वेऽधिष्ठानप्रकाशायोगात् । प्रकारभेदस्तु निरस्त इति भावः ॥ घट इति ॥ यथा देवदत्तः पचतीत्यत्र देवदत्तकर्तृकपाकः प्रतीयते न तु पाकानुविद्धतया देवदत्तस् तथा घटः स्फुरतीत्यत्रापि क्रियाश्रयभूतघटकर्तृकस्फुरणं प्रतीयते, न तु स्फुरणानुविद्धतया घट इत्यर्थः ।
न्यायामृतकण्टकोद्धारः
‘‘अधिष्ठानं च सदृशम्’’ इति तत्त्वनिर्णयटीकानुसारेण अनुकूलतर्काभावमुपपाद्य प्रतिकूलतर्कमुपपादयितुं प्रतिजानीते प्रतिकूलतर्केति । यदीति । अत्र विश्वशब्दो विप्रतिपत्त्युक्तधर्मिपरः । तेनांशे विपर्ययपर्यवसाने न बाधसिद्धसाधनते इति द्रष्टव्यम् । भ्रान्तेरिति । अत्र सदृशं सत्यमिति प्रधानाधिष्ठानयोरुभयोर्विशेषणम् । सादृश्यं चाधिष्ठान प्रधानयोरिति ज्ञातव्यम् । अत्र प्रधानत्वं भ्रमप्रकाराश्रयधर्मित्वं वा भ्रमकारण-संस्कार विषयतावच्छेदकधर्मवत्त्वं वेति द्रष्टव्यम् । अधिष्ठानस्येति । अत्र कार्त्स्न्ये-नेत्यस्यासाधारणधर्मरूपेणेत्यर्थः । अन्यथाऽसम्भवदुक्तिकं स्यात् । न हि भ्रमनिवृत्तिकाले कार्त्स्न्येन ज्ञानं सम्भवति । अज्ञाने । सर्वथेति शेषः । ननु तर्हि केनचिद्रूपेण ज्ञानं, केनचिद्रूपेण न ज्ञानमित्यस्तु । तथा चाधिष्ठानत्वं भविष्यतीत्यत आह ज्ञाताज्ञातेति । न च वस्तुतो निर्विशेषत्वेऽपि कल्पितसामान्यविशेषवत्त्वादधिष्ठानत्वं भविष्यतीति वाच्यम् । अन्योन्याश्रयत्वात् । अधिष्ठानत्वे सिद्धे कल्पितसामान्यविशेषवत्त्वसिद्धिः । तत्सिद्धौ चाधिष्ठानत्वसिद्धिरिति ।
लाघवादिति । सद्विशेषाज्ञानत्वापेक्षया विशेषाज्ञानत्वस्य सदसद्विशेषसाधारणतया सामान्यतया सत्पदार्थाघटिततया च लघुत्वादिति भावः । सामान्याकाराज्ञाने चेति । अधिष्ठानज्ञानस्य संस्कारोद्बोधकतयैव प्रयोजकत्वादिति भावः । न च सदात्मना स्वरूप ज्ञानमेव सामान्यज्ञानमिति वाच्यम् । किमतोऽन्यद् विशेषज्ञानं यद् भ्रमनिवर्तकम् ? सत्त्वस्य ब्रह्मस्वरूपलक्षणत्वेन तद्भानस्यैव विशेषज्ञानत्वात् । परिपूर्णानन्दत्वादिना ज्ञानं विशेषज्ञानमिति चेन्न । परिपूर्णानन्दत्वादेः सद्रूपब्रह्माभिन्नत्वेन सत्त्वानतिरेकात् । निर्विशेष आकारद्वयायोगात् । ब्रह्मातिरिक्तत्वे मिथ्यात्वेन तस्य भ्रमनिवर्तकत्वायोगात् । वेदान्तानाम् अखण्डार्थत्वेन तेन रूपेण ज्ञानजनकत्वासम्भवाच्च । तस्मान्न सामान्याकार ज्ञानम् । असद्विशेषेति । तथा चातिप्रसङ्गितया न भ्रमप्रयोजकत्वमिति भावः ।
किञ्चासद्विज्ञेषाज्ञानस्य भ्रमप्रयोजकत्वेऽसद्विशेषज्ञानं तन्निवर्तकमिति वाच्यम् । तच्चायुक्तम् । आत्यन्तिकभ्रमनिवृत्तेरधिष्ठानगतविशेषप्रमानिवर्त्यत्वात् । न च वल्मीके स्थाणुत्वभ्रमनिवृत्तौ पुंस्त्वभ्रमनिवर्त्यायां व्यभिचारः । तस्या आत्यन्तिकभ्रमनिवृत्तित्वा भावादित्याह– वल्मीक इति । चिद्रूपज्ञानापेक्षया वृत्तिज्ञानस्यानधिकविषयत्वे तद्विरोधि, नेदं विरोधीति वक्तुमशक्यम् । भ्रमाविरोधित्वेऽज्ञानाविरोधित्वापत्त्या ज्ञानत्वं च न स्यादित्यादिवक्ष्यमाणदूषणगणादयुक्तमेतदित्यभिप्रायेण परिहरति– अस्येति ।
किञ्चेति । नन्विदमनिदं न भवतीति पुरोवर्त्त्यपुरोवर्तिनोर्भेदग्रहेऽपि इदं रजत-मित्यध्यासवत् सन् घट इत्यध्यासो भविष्यति । न च रूपान्तरेण विरुद्धधर्माध्यासो रूपान्तरेणाध्यासविरोधी नेति वाच्यम् । प्रकृतेऽपि तुल्यत्वादिति चेन्न । येन रूपेणाविरुद्धधर्माध्यासस् तेन रूपेणारोपो न भवति । न हीदमनिदं न भवतीत्यादिज्ञाने इदमनिदम् इत्यारोपो दृष्टचरः । प्रकृते च प्रत्यक्चैतन्यमस्मत्प्रत्ययविषयत्वेन वा दृक्त्वेन वा सत्त्वेनानृतविरोधित्वरूपेण वा भासते । तस्मिंश्च तथा भासमाने इदन्त्वेन
दृश्यत्वेनानृतत्वेन निश्चितस्यारोपो न सम्भवति । रजतस्यानिदन्त्वेऽपि तथा निश्चया-भावादारोपो युक्तः । न च चैतन्येऽपि तथा प्रकाशोऽसिद्ध इति वाच्यम् । घटः प्रकाशते, घटः सन्, अज्ञोऽस्मि इत्यादौ चैतन्यस्योक्तरूपेण घटादेरुक्तरूपेण निश्चयस्यानुभव-सिद्धत्वात् । तथा च विरुद्धधर्मवत्त्वेन निश्चितयोर्नाध्यस्ताधिष्ठानभाव इति भावः ।
अपि चेति । अत्राधिष्ठानतिरोधानं नामाधिष्ठानयाथात्म्यादर्शनम् । न तु सर्वथाऽ-प्रकाशः । तथात्वे क्वापि भ्रमो न स्यात् । सर्वत्र सामान्येनाधिष्ठानप्रकाशात् । एवं तर्हीदं निःसामान्येत्यादिना पुनरुक्तमिति न वाच्यम् । तत्राधिष्ठानत्वखण्डने तात्पर्यम् । प्रकृते तु आरोपान्यथानुपपत्त्याऽधिष्ठानतिरोभावो वक्तव्यः । स च सर्वथाऽप्रकाश एव । केनचिद्रूपेण प्रकाशः केनचिद्रूपेणाप्रकाश इत्येवंरूपतिरोभावस्य निर्विशेषेऽसम्भवात् । तथा चाविद्यादेः प्रकाशो न स्यात् । सर्वथाधिष्ठानाप्रकाशे भ्रमोऽपि न स्यादित्यत्र तात्पर्यम् । तदनुविद्धत्वेन प्रतीतत्वं तदधिष्ठानत्वव्यापकम् । एवं च व्यापकाभावाद् व्याप्याभाव इति प्रकारान्तरेणाधिष्ठानत्वं निराकरोति– किञ्चेति । चाक्षुषादिज्ञान इति । इदं च पुरैवोपपादितम् ।
न्यायामृतप्रकाशः
यदि विश्वमिति ॥ विश्वमिथ्यात्वानुमाने यः पक्षः स एव विश्वशब्देनाभिप्रेतो द्रष्टव्यः । ‘साधिष्ठानादिकम्’ इत्यत्रादिपदेन प्रधानादिकं ग्राह्यम् । तथा च यदि विश्वं कल्पितं स्यात्तदा साधिष्ठानं स्यात्, सत्यप्रधानं स्यात्, सत्यसादृश्योपेतं स्यात्, सत्यदोषो पेतं स्यात्, सत्याज्ञानोपेतं स्यात्, सत्यबाधकज्ञानोपेतं स्यात्, सत्यद्रष्ट्रुपेतं स्यात्, सत्य-देहेन्द्रियादिसापेक्षं स्यादिति प्रत्येकं तर्का अभिमता इति न वैयर्थ्यमिति द्रष्टव्यम् । तर्केऽ-प्रयोजकतां परिहरति– भ्रान्तेरिति ॥ सदृशम् अधिष्ठानप्रधानयोस्सादृश्यं सत्यमिति सर्वत्र सम्बध्यते । आदिपदेन देशकालादृष्टादिकं ग्राह्यम् । इदं प्रतिज्ञावाक्यम् । उत्तरत्रैकैक-स्तर्कस्सम्यगप्रयोजकतादिपरिहारेणोपपाद्यते । तत्रादौ विश्वं यदि कल्पितं स्यात्तदा साधिष्ठानं स्यादिति तर्कस्तावदुपपाद्यते । (नन्वत्रेष्टापत्तिः । ब्रह्मणोऽधिष्ठनस्य सत्यत्वाङ्गीकारादिति चेन्न । त्वन्मते ब्रह्मणोऽधिष्ठानत्वासम्भवात् । अधिष्ठानत्वे सामान्यतो ज्ञातत्वे सत्यज्ञात-विशेषवत्त्वस्य प्रयोजकत्वात् । ब्रह्मणः सामान्यधर्मोपेतत्वादिना तावज् ज्ञातत्वं न सम्भवति । निस्सामान्यत्वात् । अज्ञातविशेषवत्त्वं च न सम्भवति । निर्विशेषत्वाङ्गीकारादित्याह– निस्सामान्य इति । इति पाठान्तरं क्वचिद् दृश्यते ।)
ननु यदि विश्वं कल्पितं स्यात्तदा सत्याधिष्ठानोपेतं स्यादित्ययुक्तम् । सत्यस्यात्म-नोऽधिष्ठानत्वाङ्गीकारादिति चेन्न । सामान्यतो ज्ञातत्वे सत्यज्ञातविशेषवत्वस्याधिष्ठानत्वे तन्त्रत्वात् । त्वया चात्मनि निस्सामान्यविशेषत्वेनाङ्गीकृते सामान्यतो ज्ञातत्वे सत्यज्ञात विशेषत्वानङ्गीकारादित्याह– निःसामान्ये इति ॥ उक्तं हीति । ‘अधिष्ठानत्वे तन्त्रभूतं सामान्यतो ज्ञातत्वे सत्यज्ञातविशेषवत्वं ब्रह्मणि नास्ति । निस्सामान्यत्वान्निर्विशेषत्वाच्च’ इत्युक्तं हीत्यर्थः । कार्त्स्न्येन सर्वविशेषवत्त्वेन । अज्ञाने सामान्यतोऽप्यज्ञाने चेत्यर्थः ॥ ज्ञातेति ॥ सामान्यविशेषाभ्यामित्यर्थः ॥ निर्विशेष इति ॥ सामान्यधर्मशून्ये विशेषधर्म शून्ये चेत्यर्थः ।
यदुक्तं ब्रह्मणो नाधिष्ठानत्वमिति तदयुक्तम् । त्वदुक्तस्याधिष्ठानत्वेऽतन्त्रत्वादित्याशङ्कते– नन्विति ॥ सद्विशेषेति ॥ विशेषाणां सत्त्वं नापेक्षितमिति भावः । तत्र अधिष्ठानत्वे ॥ तच्चेति ॥ स्वरूपज्ञानं स्वप्रकाशत्वाद्युक्तम् । विशेषाणामभावादेव विशेषाज्ञानं चास्तीत्यर्थः । सामान्यतो ज्ञातत्वमेवाऽधिष्ठानत्वे प्रयोजकम् । न स्वरूपेण ज्ञानम् । कुत इत्यत आह– त्वन्मतेऽपीति ॥ संस्कारादीति ॥ संस्कारसम्प्रयोगदोषरूपकारणत्रयजन्यत्वादित्यर्थः । ततः किमित्यत आह– सामान्याकारेति ॥ ‘सदृशादृष्टचिन्ताद्याः स्मृतिबीजस्य बोधकाः’ इत्युक्तत्वात्संस्कारोद्बोधार्थं सामान्याकारेण ज्ञातत्वमपेक्षितम् । तथा हि । चाकचक्यादि सादृश्यदर्शनेन प्रधानसंस्कारोद्बोधानन्तरं भ्रमो भवति । ब्रह्मणश्च निस्सामान्यत्वेन सामान्यतो ज्ञातत्वासम्भवान्नाधिष्ठानत्वमिति भावः । तथा सद्विशेषाज्ञानस्यैव भ्रमकारणत्वं वक्तव्यम् । कुत इत्यत आह– असदिति ॥ बाधकालव्यावृत्तभ्रमकालीनाधिष्ठानत्वेऽसद्विशेषाज्ञानं न प्रयोजकम् । बाधकालेऽपि असद्विशेषाज्ञानस्यैव सत्त्वेन तदानीमप्यधिष्ठानत्वव्यवहारस्स्याद्, अतस्सद्विशेषाज्ञानमेव तत्र प्रयोजकं, तच्च बाधकाले नास्तीति भावः ।
ननु सद्विशेषाज्ञानस्य भ्रमाधिष्ठानत्वप्रयोजकत्वे सद्विशेषज्ञानं, विशेषप्रमेति यावत्, भ्रमनिवृत्तौ प्रयोजकमित्युक्तं स्यात् । तच्च न सम्भवति । तथा हि । आदौ वल्मीके स्थाणुत्वभ्रमो जातः । अनन्तरं तत्रैव पुंस्त्वभ्रमो जातः । अनेनैव पूर्वभ्रमो निवर्तते । तत्र पुंस्त्वस्यासत्वेन विशेषप्रमाया अभावात् पूर्वभ्रमानिवृत्तिः स्यादित्यत आह– वल्मीक इति ॥ तत्र पुंस्त्वभ्रमस्य पश्चात्तनत्वेऽपि न निवर्तकत्वं किं नाम पुंस्त्वभ्रमानन्तरं पुनरयं वल्मीक एवेति यदा वल्मीकत्वप्रमा भवति तदैव तद्भ्रमद्वयं निवर्तते नान्यथेति विशेषप्रमैव बाधकत्वेन भ्रमनिवृत्तौ हेतुरिति सद्विशेषत्वाज्ञानमेवाधिष्ठानत्वे प्रयोजकमिति भावः । यद्यप्युत्तरभ्रमः पूर्वभ्रमनिवर्तको भवति तथापि तस्योत्तरज्ञानत्वेनैव निवर्तकत्वं न तु बाधकत्वेन तन्निवर्तकत्वम् । प्रकृते च तादृशमेव विवक्षितमिति भावः ।
जगद्भ्रमे युक्तं ब्रह्मणोऽधिष्ठानत्वमित्याशेयनाधिष्ठानत्वे प्रयोजकान्तरमाशङ्कते– (नन्विति) ॥ अथेति ॥ तत्र अधिष्ठानत्वे ॥ न त्विति ॥ येन निर्विशेषत्वेनाज्ञात विशेषत्वं नास्तीत्यधिष्ठानत्वाभावः स्यादित्यर्थः । ननु नात्र भ्रमविरोधिज्ञानाभावोऽस्ति । अधिष्ठानचैतन्यरूपज्ञानस्यैव विश्वभ्रमविरोधित्वादिति चेत्तत्राह– विश्वभ्रमेति ॥ अस्येति ॥ चिद्रूपज्ञानस्यैव त्वन्मते ज्ञप्तिरूपमुख्यज्ञानत्वात्तदविरोधिनोऽज्ञानस्य मुख्याज्ञानत्वं न स्यात् । वृत्तेश्च ज्ञायतेऽनया चैतन्यमिति करणव्युत्पत्त्याऽमुख्यज्ञानत्वाङ्गीकारेण तस्या एव वृत्तेर्मुख्या-ज्ञानविरोधित्वाङ्गीकारेण मुख्यज्ञानत्वमेव स्यादित्यादिकं वक्ष्यत इत्यर्थः ।
आत्मानात्मनोर्विरुद्धधर्माधिकरणत्वेन प्रतीयमानत्वान्नानात्मन आत्मन्यध्यास इत्याह– किञ्चेति ॥ दृग्दृश्यत्वादिरूपं यदात्मत्वानात्मत्वादिकं तदादिनेत्यर्थः । दृक्त्वरूपं यदात्मत्वं दृश्यत्वरूपं यदनात्मत्वमिति विवेकः । यद्वा, दृक्त्वदृश्यत्वादिना आत्मत्वानात्म त्वादिनेत्यर्थः । आत्मत्वानात्मत्वे विरुद्धे इत्यत्र सम्मतिमाह– उक्तं हीति ॥ तत्तेदन्ते इति ॥ तद्देशकालसम्बन्धैतद्देशकालसम्बन्धावित्यर्थः । स्वस्य भावः स्वता, अन्यस्य भावोऽन्यत्वं, तव भावस्त्वत्ता, मम भावो मत्ता । प्रतिद्वन्द्वितया प्रतिस्पर्धितया । नन्वात्मत्वानात्मत्वयोर्भेदग्रहः कथमनेन लब्ध इत्यत आह– स्वयमात्मेति ॥ पर्ययौ पर्यायौ । तथा च स्वतान्यत्वयोरात्मानात्मरूपत्वाद्भेदेन ग्रहो युक्त इत्यर्थः ।
स्वरूपज्ञानमेवाधिष्ठानत्वे प्रयोजकं, तच्च स्वप्रकाशत्वाद्ब्रह्मणो युक्तमित्यत्र दूषणान्तर-माह– अपि चेति ॥ प्रकाशनिह्नवेन प्रकाशापलापेन प्रकाशमात्रस्वभावत्वापगताविति यावत् ॥ तदधीनेति ॥ आत्मप्रकाशाधीनेत्यर्थः । अविद्यादेः प्रातिभासिकत्वेन प्रतिभास-शरीरत्वादविद्याप्रकाशस्य साक्षिचैतन्यरूपत्वात् तस्याप्रकाशेऽविद्यादेः प्रकाश एव न सम्भव-तीत्यर्थः ॥ घटादीति ॥ इदं रजतमिति इदमंशानुविद्धतया रजतस्येव आत्मा घट इति तदनुविद्धतया प्रतीत्यभावादित्यर्थः ॥ भातीति ॥ सत्स्फुरणयोरात्मरूपत्वादिति भावः ॥ इत्युक्तत्वादिति ॥ रूपी घट इत्यादौ रूपादिकमिव सन्घट इत्यत्रापि सत्ता घटनिष्ठैव प्रतीयते, स्फुरतीत्यत्रापि ज्ञानविषयत्वमेव घटे प्रतीयते न त्वधिष्ठानानुवेध इत्युक्तत्वादिति भावः । ननु चाक्षुषज्ञाने रूपादिहीन आत्मा प्रतीयत एव । घटादेरेव चाक्षुषप्रकाशा-धीनत्वात् । आत्मनस्सदर्थतया स्वत एव भानाङ्गीकारेण चाक्षुषप्रकाशाधीन प्रकाशत्वा-भावाद्युक्तो घटादेस्तदनुवेध इति मन्दाशङ्कामपाकरोति– न चेति ॥ तत्सम्बन्धेनेति ॥ स्वतः प्रकाशमानात्मसम्बन्धेनेत्यर्थः ॥ घट इति ॥ घटः स्फुरतीति घटानुभवे घटानु-विद्धत्वेन स्फुरणं प्रतीयत इत्ययुक्तम् । विज्ञायते घट इत्यादाविव स्फुरतीत्यस्यापि घ(ट-ज्ञानानु)टानुव्यवसायरूपत्वेन घटस्फुरणानुभवतया घटानुभवत्वाभावान्न घटानुभवे स्फुरणानु-विद्धतया घटः प्रतीयत इत्यर्थः ।
न्यायकल्पलता
एवं विश्वमिथ्यात्वानुमानानामनुकूलतर्काभावमुपपाद्य प्रतितर्कपराहतिमपि प्रतिजानीते–प्रतिकूलेति ॥ विश्वमिति । मिथ्यात्वानुमाने यः पक्षः स एवेह विश्वशब्देनाभिमतः ॥ साधिष्ठानेति । सामान्यतो ज्ञायमानत्वे सति विद्यमानविशेषवत्तयाऽज्ञायमानधर्मिकं स्यादित्यर्थः । आदिपदेन प्रधानादिकम् । अत्र च प्रत्येकं तर्का अभिमता इति न वैय्यर्थ्य-मिति बोध्यम् । प्रथमे तर्केऽप्रयोजकत्वं निरस्यति– भ्रान्तेरिति । ‘सदृशम्’ इत्यधिष्ठानेन सम्बध्यते । ‘सत्यम्’ इत्यधिष्ठानादिना । सत्यत्वं च कल्पिताधिकसत्ताकत्वम् । अतो न दृष्टान्तासिद्धिः । आदिशब्देन देशकालादृष्टादि । यथाश्रुते प्रथमतर्के आपाद्यस्येष्टत्वं परिहरति– निःसामान्यमिति ॥ कार्स्न्येति विशेषवत्त्वेन । स्वेतरावृत्ति स्ववृत्तिरूपा-साधारणधर्मोपरक्तत्वेनापीत्यर्थः ॥ अज्ञान इति । सामान्यतोऽपीत्यर्थः । ज्ञातेति । सामान्यविशेषाभ्यामिति शेषः ॥ तच्चेति । स्वरूपज्ञानं स्वप्रकाशत्वात्, विशेषाज्ञानं चास्ति निर्विशेषत्वादित्यर्थः ॥ संस्कारेति ॥ संस्कारसंप्रयोगदोषरूपकारणत्रयजन्य त्वादित्यर्थः । ननु भ्रमस्य संस्कारजन्यत्वमधिष्ठानस्वरूपाज्ञानजन्यत्वेनापि निर्वक्ष्यतीत्यत आह– सामान्येति ॥ असदिति । एवं च बाधकालव्यावृत्तं विशेषाज्ञानं तथा वक्तव्यम् । तच्च सविशेषाणामेवेत्यर्थः ।
ननु स्वरूपेण ज्ञातत्वे सति विशेषेणाज्ञातत्वस्याधिष्ठानत्वप्रयोजकत्वं न तु सत्सामान्य विशेषज्ञानाज्ञाने भ्रमहेतू । सत्वांशप्रवेशेऽप्रसिद्धेर्गौरवाच्च । कल्पितसामान्यविशेषवत्वं च ब्रह्मण्यपि सुलभमेव । न च तत्कल्पनेऽन्योन्याश्रयः । कल्पितसामान्यविशेषाणां प्रवाहा-नादित्वात् । सत्वानन्दत्वादीनामेव कल्पितव्यक्तिभेदेन सामान्यत्वात् । परिपूर्णानन्द त्वादीनां च विशेषत्वात् । सदात्मना स्वरूपज्ञानस्यैव सामान्यज्ञानत्वात्संस्कारोद्बोधः । न ह्यध्यसनीयसदात्मना (न) भाति । एतावानेव विशेषः । यदधिष्ठानं स्वत एव सदात्मना भाति । अध्यसनीयं तु तत्सम्बन्धादिति । मैवम् । न ह्यधिष्ठानभूतचिन्मात्रस्य सत्त्व-परिपूर्णानन्दत्वादीनां निर्विशेषब्रह्मवादे विशेषोऽस्ति । येनाधिष्ठानस्फुरणेऽपि तेषामज्ञानम् । तस्मादधिष्ठानाज्ञाने सति न विशेषाज्ञानम् । तस्मिंश्च नाधिष्ठानज्ञानमित्युभयथापि न भ्रम इति भावः ।
नन्वधिष्ठानवृत्तिविशेषदर्शनस्य तदधिष्ठानभ्रमविरोधित्वे वल्मीके पुंस्त्वभ्रमेण स्थाणुत्वभ्रमो न निवर्तेतेत्याशङ्क्य समाधत्ते– वल्मीक इति । प्रथमं वल्मीके स्थाणुत्वभ्रमः । अनन्तरं तत्रैव पुरुषत्वभ्रमः । ततस्तत्रैव वल्मीकत्वप्रमा । तया प्रमया भ्रमद्वयं प्राचीनं निवर्तते । प्रमाया स्वविरोधिभ्रममात्रनिवर्तकत्वादित्यर्थः ॥ अन्तत इति । चरमं गत्वाऽपीत्यर्थः ॥ भ्रमानिवृत्तेश्चेति । पुरुषत्वज्ञानस्य वल्मीके स्थाणुत्वारोपनिवर्तकत्वेऽप्यारोपमात्रनिवर्तकत्वं तस्य तत्र नास्त्येव । पुरुषत्वज्ञानस्यापि वल्मीके भ्रमत्वात्तेन च तदनिवर्तनादिति भावः । नन्वधिष्ठानगतविशेषप्रमैव भ्रमविरोधिनीति तदभाव एव भ्रमहेतुः स्यादित्यत आह– विश्व-भ्रमोपादानेति ॥ अस्येति । मुख्याज्ञानविरोधिन्या वृत्तेर्मुख्यज्ञानत्वस्य वा मुख्यचिद्रूप ज्ञानाविरोधिनोऽज्ञानस्य चामुख्याज्ञानत्वस्य वाऽऽपातादित्यादेर्वक्ष्यमाणत्वादित्यर्थः ॥ तत्ते-दन्ते इति । एतच्च दृष्टान्तार्थमुक्तम् । ननु स्वतान्यत्वयोर्भेदग्रहेऽपि नात्मानात्मनोस्तद्ग्रह इत्यत आह– स्वयमिति ॥ प्रकाशमात्रेति । नन्वेकस्यैवानन्दाद्यात्मना तिरोहितस्य सदा प्रकाश उपपत्स्यते । तदुक्तं वार्तिके ।
यत्प्रसादादविद्यादि सिद्ध्यतीव दिवा निशम् ।
तमप्यपह्नुतेऽविद्या नाज्ञानस्यास्ति दुष्करम् ॥ इति शङ्कापरिहारार्थमुक्तं मात्रेति ॥
प्रकाशमात्रस्वभावे निर्विशेषे आत्मनि सत्वानन्दयोः प्रकाशाप्रकाशयोरयोगादिति भावः । आत्मा न घटाद्यधिष्ठानं तदनुविद्धत्वेनाप्रतीयमानत्वादियुक्तिमभ्युच्चिनोति– किञ्चेति ॥ घटादीति ॥ इदमंशानुविद्धतया रजतस्येव, आत्मा घट इति तदनुविद्धतया प्रतीत्य भावादिति भावः । हेत्वसिद्धिमाशङ्क्य निराचष्टे– न चेति । सत्स्फुरणयोरात्मरूपत्वादिति भावः ॥ चाक्षुषादीति । इष्टो घटः, प्रध्वस्तो घटः, रूपी घटः, इत्यादिवद् घट एव सत्ता प्रतीयते न त्वधिष्ठानसदनुवेधो घटस्येति भावः । ननु रूपादिहीनस्याप्यात्मनः सद्रूपेण चाक्षुषादिज्ञानविषयता भविष्यतीति चेत् । न । घटज्ञानादेव मोक्षापातादित्युक्तत्वात् । निर्विशेषे प्रकारभेदाभावाच्च । तदिदमुक्तम् इत्युक्तत्वादिति । ननु नात्मा चाक्षुषादिज्ञाने भातीति ब्रूमः, किन्तु स्वत एव सन्निति स्फुरति । तदनुविद्धतया घटोऽपीति शङ्कां निराह– न चेति । घटः स्फुरति, घटः प्रकाशत इत्यकर्मकस्वप्रकाशरूपचिदुल्लेखादिति भावः ।
घटस्यापीति । प्रकाशमानचैतन्यसम्बन्धादिति भावः ॥ वृत्तीति । न चावरण-निवृत्त्यर्थं वृत्तिरिति युक्तम् । तथात्वेऽधिष्ठानप्रकाशायोगात् । प्रकारभेदस्तु निरस्त इति भावः । यथा ‘देवदत्तः पचति’ इत्यत्र देवदत्तकर्तृकः पाकः प्रतीयते न तु पाकानुविद्धतया देवदतस् तथा घटो न स्फुरणानुविद्धतया प्रतीयते । किं नाम घटे ज्ञानमितिवद्घटः स्फुरति, घटः प्रकाशते इति तद्विषयतया तदाश्रयस्फुरणप्रकाशापरपर्यायज्ञानविषयतया प्रतीयते । एवं च ‘ज्ञातो घटः’ ‘घटं जानामि’ इतिवद्घटज्ञानानुभवः साक्षिणो बहिरस्वातन्त्र्यात् । अन्यथा वृत्तिवैय्यर्थ्यप्रसङ्ग इत्याह– घटः स्फुरतीति ।
न्यायामृतसौगन्ध्यं
तथा हि । दृश्यं यदि कल्पितं स्यात्तदा साधिष्ठानं स्यात् । न चैवं, सामान्यतो ज्ञातत्वे सत्यज्ञातविशेषवत्वं हि तन्त्रम् । तत्र निर्विशेषे निःसामान्ये ब्रह्मणि च तदभावात् । ननु स्वरूपेण ज्ञातत्वे सति विशेषेणाज्ञातत्वमेव प्रयोजकं न त्वज्ञातविशेषवत्वमिति चेन्न । स्वरूपेण ज्ञातस्य विशेषेणाज्ञातत्वे हि तन्निष्ठविशेषाज्ञानमादाय पर्यवस्यति । न च पुरुषो न वेति संशयधर्मिणः स्थानादप्यन्यत्र ज्ञातविशेषवत्वमस्तीति वाच्यम् । यन्निष्ठतया ज्ञातं सद् भ्रमनिवृत्तिप्रयोजकं तन्निष्ठतयैव ह्यज्ञातं वाच्यम् । अन्यत्र ज्ञातत्वादिकं हि प्रकृतेऽनुप-युक्तम् । ननु निस्सामान्ये निर्विशेषे च ब्रह्मणि स्वप्रकाशत्वेन ज्ञानात्परिपूर्णानन्दत्वादिना चाज्ञानादधिष्ठानत्वमुपपन्नम् । तदुभयं च कल्पितमेव । अकल्पितसामान्यविशेषवत्वं चाप्रसिद्धमिति चेन्न । कल्पितपूर्णानन्दत्वादिविशिष्टस्य मिथ्यात्वेन विश्वाधिष्ठानत्वासम्भवात्, मिथ्याभूतपूर्णानन्दत्वादेस्त्वदभिमतविश्वबाधकश्रुतिजन्यप्रमाविषयत्वासम्भवाच्च । एतेन अज्ञातस्वरूपमेव भ्रमे प्रयोजकं न त्वज्ञातविशेषवत्वम् । ‘सोऽयम्’ इत्यादिभ्रमे तथा दर्शनात् । शुक्तिरूप्यादिभ्रमे प्रयोजकस्याज्ञातत्वस्य विशेषावच्छिन्नत्वेनाज्ञातविशेषवत्वं प्रयोजकमिति ते भ्रमः विशेषस्य हि शुक्तित्वादेर्जडत्वेनाज्ञातत्वासम्भवाद् इति निरस्तम् । अज्ञातस्वरूपस्य केनचिद्रूपेण ज्ञानाभावे ज्ञाताज्ञातविभागहीनत्वेनाधिष्ठानत्वासम्भवात् । शुक्तित्वादिवज्जडत्वावच्छिन्नस्य चैतन्यस्य प्रसक्तप्रकाशस्याज्ञातत्वासम्भवाच्च ‘सोऽयम्’ इत्यशुद्धम् । स्वरूपाज्ञाने हि धर्मिज्ञानाभावेन भ्रमाद्ययुक्तम् । अन्यस्मिन् सोऽयमिति भ्रमस्थलेऽपि बाधकज्ञानविषयीभूतविशेषस्यावश्यकत्वात् । कल्पितसामान्यविशेषयोः सामान्यविशेषान्तरापेक्षत्वेनान्योन्याश्रयाद्यापाताच्च ।
एतेन कल्पितसामान्यविशेषाणां प्रवाहानादित्वान्न दोष इति निरस्तम् । अनवस्थादि दोषदुष्टानां व्यावहारिकत्वासिद्धेः । अत एव कपालादिसामान्ये घटादेरध्यासेऽपि घटादि सामान्ये न कपालादेरध्यासः किन्त्वयवे । तस्यापि स्वावयवे इति तत्तत्सामान्यप्रवाहानादि त्वान्नान्योन्याश्रया इति निरस्तम् । घटकपालादीनां परस्पराध्यासस्य…. कत्वात्प्रकृते-रेवान्यत्रानध्यस्ताया अनाद्याया विश्वाधिष्ठानत्वापत्तेः । एतेन सत्वानन्दत्वादिसामान्य-स्यानादिसंसर्ग एव ब्रह्मणि स्वीकृत इति नान्योन्याश्रयशङ्का । तस्य सादित्वस्वीकारेऽप्य-ज्ञानविषयत्वमेव तदध्यासे सामान्यं नान्यत् । तच्चानाद्येवेति न तदध्यासेऽन्यसामान्यापेक्षेति निरस्तम् । कल्पितधर्मसंसृष्टस्य मिथ्याभूतस्याध्यसनीयानधिकसत्ताकत्वेनाधिष्ठानत्वा-सम्भवात् । बाधकज्ञानेन विषयीकर्तव्यस्याज्ञातस्य विशेषस्य ब्रह्मण्यभावे किञ्चिदध्यासेऽ-प्यधिष्ठानत्वासम्भवाच्च ।
किञ्चाध्यसनीयापेक्षया अधिकसत्ताको योऽज्ञातो विशेषस्तद्वत्वम् अधिष्ठानत्वे तन्त्रम् । शुक्तौ रूप्यारोपे तथा दर्शनात् । किञ्चिद्धर्मेणाधिष्ठानतिरोधानं विना भ्रमासम्भवः । स्वरूप प्रकाशस्यैव तिरोधाने तु तत्राध्यस्तप्रकाशानुपपत्तेः । न चैकस्यैवानान्दाद्यात्मना तिरोधानं सदात्मना च प्रकाश इति वाच्यम् । निरस्तत्वात् । यत्तु भ्रमविरोधिज्ञानाभाव एवाधिष्ठानत्वे तन्त्रं न तु विशेषाज्ञानम् । विश्वोपादानगोचराज्ञानस्य श्रवणादिजन्यचिन्मात्रविषयकं वृत्ति-रूपं ज्ञानविरोधि न तु चिद्रूपं स्वतःसिद्धं ज्ञानम् । भ्रमविरोधिनश्च वृत्तिरूपज्ञानस्येदानीम् अभावोऽस्त्येवेति । तत्तुच्छम् । श्रवणादिजन्यत्वेन ज्ञानस्य निवर्तकत्वं हि त्वया न वाच्यम् । दृष्टान्तासिद्धेः । बन्धसत्यत्वापत्तेः । स्वरूपज्ञानस्य भ्रमकालेऽपि सत्वेन विशेषेणाधिष्ठानज्ञानं हि भ्रमविरोधीति विशेषस्यैव ज्ञानाभावो वाच्य इति सिद्धम् अधिष्ठानस्याज्ञातविशेषवत्वम् । किञ्चात्मानात्मनोर्दृग्दृश्यत्वात्मत्वानात्मत्वादिना भेद-ज्ञानान्नाधिष्ठानाध्यस्तभावः । उक्तं हि त्वयैव ।
‘तत्तेदन्ते स्वतान्यत्वे त्वत्ता(हन्ते)मत्ते परस्परम् ।
प्रतिद्वन्द्वितया लोके प्रसिद्धे नास्ति संशयः ॥
इति ‘स्वयमात्मेति पर्ययौ’ इति च । ननु इदम् अनिदं भवतीति पुरोवर्त्यपुरोवर्तिनोर्भेद ग्रहेऽपि इदं रजतमित्यध्यासवत् ‘सन् घटः’ इत्याद्यध्यासो भविष्यति । न हि रूपान्तरेण भेदग्रहो रूपान्तरेणाध्यासविरोधी । सन् घट इत्यादिप्रत्यये च सद्रूपस्यात्मनो घटाद्यनु विद्धतया भानान्न तस्य घटाद्यध्यासाधिष्ठानत्वोपपत्तिः । सद्रूपेण च सर्वज्ञानविषयतोपपत्तेर्न रूपादिहीनस्याप्यत्मनः कालस्येव चाक्षुषत्वाद्यनुपपत्तिरिति चेन्न । रूपी घटः, ध्वस्तो घट इतिवत् सन् घट इत्यस्यापि घटनिष्ठसत्वस्यैव प्रतीतेः । चाक्षुषादिज्ञानविषयस्य सत्वस्य त्वदभिमतब्रह्मरूपत्वासम्भवात् । अन्यथा सप्रकारकशब्दाजन्यवृत्तिविषयत्वदभिमतदृश्यत्वेन मिथ्यात्वापत्तेः रूपादिवृत्तिविषयत्वस्य निरस्तत्वात् ।
नन्वथापि न प्रधानं भ्रमहेतुः, किन्तु तत्संस्कारः
न्यायामृतं
नन्वथापि न प्रधानं भ्रमहेतुः, किन्तु तत्संस्कारः । स च तत्प्रमयेव तद्भ्रमेणापि । अत्र च पूर्वपूर्वप्रपञ्चभ्रम अनादिः । न च प्रमाजन्य एव संस्कारो भ्रमहेतुः । सत्यपि संस्कारे प्रमाजन्यत्वाभावेन भ्रमाभावादर्शनात् । न च तार्किकस्येवाध्यस्तमेव देशान्तरादौ सदित्यावयोर्मतम् । मैवम् । एवं सत्यधिष्ठानधीरेव भ्रमहेतुः, तद्धीश्च भ्रमरूपाऽनादिरिति शून्यवादिरीत्याऽधि-ष्ठानस्याप्यसत्त्वापातेनाधिष्ठानत्वेन ब्रह्म सदिति त्वदुक्त्ययोगात् । अधिष्ठान वत्प्रधानस्याप्यबाधात् । तथा च–
प्रधानमिव धीमात्रादधिष्ठानमपि भ्रमे ।
हेतुस्सुगतरीत्या स्यादबाधस्तु द्वयोस्समः ॥
एतत्प्रपञ्चासाध्यार्थक्रियाकारिणश्च तात्त्विकप्रपञ्चान्तरस्याभावे स्वोचितार्थ क्रियाकारिणः श्रुत्यादिसिद्धोत्पत्त्यादिकस्यास्यैवात्मन इव स्वोपाधौ निषेधा योगेन तत्र तात्त्विकत्वापाताच्च । त्वन्मते प्रातिभासिकरूप्ये त्रैकालिक निषेधस्य व्यावहारिकरूप्यविषयत्ववद् व्यावहारिकप्रपञ्चेऽपि नेह नानेति त्रैकालिकनिषेधस्य पारमार्थिकप्रपञ्चान्तरविषयत्वावश्यम्भावाच्च । प्रातिभासिक स्यैव पारमार्थिकत्वाकारेण त्रैकालिकनिषेध इति तु निरस्तम् । कल्पाद्यभ्रमा योगाच्च । कल्पान्तरीयसंस्काराद् भ्रमोत्पत्तौ च नारिकेद्वीपवासिनो गुञ्जा-पुञ्जादावग्न्यारोपः स्यात् । एतज्जन्मन्यननुभूततिक्तरसस्यापि बालस्य गुडादावास्यगतपित्तद्रव्यनिष्ठतिक्तत्वारोपस्तु अनन्यगतिकत्वाज्जन्मान्तरीय संस्कारजन्यः ।
यद्वा माषराशिस्थमष्यां माषाभेदारोप इव गृह्यमाणारोपोऽयं न तु संस्कार-जन्यः । किञ्च चैत्रेण मैत्रे संस्काराध्यासेऽपि मैत्रस्य भ्रमादर्शनाद् जगद्भ्रम-हेतुसंस्कारस्य सत्त्वं दुर्वारम् । न च स्वेनाध्यस्तसंस्कारादेव भ्रमः । भ्रमात्पूर्वं स्वस्य कार्यानुमेयसंस्काराध्यासनियमाभावात् । १यत्तूक्तं विवरणे गुणादिहीने ब्रह्मणि गुणादिकृतसादृश्याभावेऽपि केतकीगन्धसदृशस्सर्पगन्ध इति धीबलाद् गन्ध इवेहापि सादृश्यान्तरं वा, रक्तः स्फटिक इत्यादिवत् सादृश्यं विनैवाध्या-सोऽस्त्विति । तन्न । इह कल्पितस्य सादृश्यस्याप्यविद्याध्यासाधीन त्वेनान्योन्याश्रयात् । रक्तः स्फटिक इत्यस्य सोपाधिकभ्रमत्वेन निरुपाधिके सादृश्यनियमाच्च । रक्तद्रव्यस्फटिकयोरपि द्रव्यत्वादिना सदृशत्वाच्च ।
अद्वैतसिद्धिः
ननु विश्वं यदि कल्पितं स्यात्तदा सप्रधानं स्यात् । न चैवं, तस्मान्न कल्पितमिति चेन्न । अत्रापि प्रधानस्य सजातीयस्य सत्त्वात् । पूर्वप्रपञ्चसजातीयस्यैवोत्तरप्रपञ्च-स्याध्यसनात् । अध्यासो हि स्वकारणतया संस्कारमपेक्षते । न तु संस्कारविषयस्य सत्यताम्, अनुपयोगात् । न च प्रमाजन्य एव संस्कारो भ्रमहेतुः । अतो विषयसत्यत्व-मावश्यकमिति वाच्यम् । मानाभावात्, विपरीते लाघवाच्च । अत एव अध्यस्तसजातीयं पूर्वमध्यस्तापेक्षयाऽधिकसत्ताकमपेक्षणीयमित्यपि निरस्तम् । सत्यतावदधिकसत्ताया अप्यनुपयोगात् । पूर्वं तज्ज्ञानमात्रमपेक्ष्यते, तच्चास्त्येव ।
नन्वेवमधिष्ठानस्यापि ज्ञानमात्रमेव हेतुः, न तु तदिति न सदधिष्ठानापेक्षा स्यादिति शून्यवादापत्तिरिति चेन्न । अधिष्ठानस्य ज्ञानद्वारा भ्रमाहेतुत्वेऽप्यज्ञानस्य भ्रमहेतुत्वेन सत्त्व नियमात् । भ्रमोपादानाज्ञानविषयो ह्यधिष्ठानमित्युच्यते । तच्च सत्यमेव । असत्यस्य सर्वस्याप्यज्ञानकल्पितत्वेनाज्ञानाविषयत्वात् । तदसत्यत्वे तज्ज्ञानस्य भ्रमाबाधकत्व-प्रसङ्गात् । जगति भ्रमबाधव्यवस्था च न स्यात् । बाधेन हि किञ्चिद्विरुद्धं तत्त्वमुपदर्शयता आरोपितमतत्त्वं बाधनीयम् । उभयाध्यासे तु किं केन बाध्येत ? अत एव भगवता भाष्यकारेण ‘‘सत्यानृते मिथुनीकृत्य’’ इत्युक्तम् ।
ननु एतत्प्रपञ्चासाध्यार्थक्रियाकारिणः प्रपञ्चान्तरस्याभावेन स्वोचितार्थक्रियाकारिणोऽस्य न मिथ्यात्वमिति चेन्न, स्वाप्नमायादौ व्यभिचारात् । स्वोचितार्थक्रियाकारित्वस्य पारमार्थिक सत्त्वाप्रयोजकत्वात् । नापि श्रुत्यादिसिद्धोत्पत्त्यादिमत्त्वं सत्त्वे तन्त्रम् । स्वप्नप्रपञ्चे व्यभिचारात् । तस्यापि ‘‘न तत्र रथा न रथयोगा न पन्थानो भवन्त्यथ रथान् रथयोगान् पथस्सृजते’’ इत्यादिश्रुत्योत्पत्त्यादिप्रतिपादनात् । न च कल्पाद्यभ्रमायोगः । कल्पान्तरीय संस्कारस्य तत्र हेतुत्वात् । न च जन्मान्तरीयसंस्कारस्य कार्यजनकत्वेऽतिप्रसङ्गः । अदृष्टादिवशेन क्वचिदुद्बोधेऽप्यन्यत्रानुद्बोधोपपत्तेः । कार्योन्नेयधर्माणां यथाकार्यमुन्नयनात् । अन्यथा जातस्य स्तन्यपानादौ प्रवृत्तिर्न स्यात् ।
ननु चैत्रेण मैत्रे संस्काराध्यासेऽपि मैत्रस्य भ्रमादर्शनाज्जगद्भ्रमहेतुसंस्कारस्य सत्त्वं दुर्वारम् । न च स्वेनाध्यस्तात्संस्काराद्भ्रमः । भ्रमात् पूर्वं स्वस्य कार्यानुमेयसंस्काराध्यास-नियमाभावादिति चेन्न । शुक्तिरूप्यस्य कुण्डलाजनकत्ववच्चैत्राध्यस्तसंस्कारस्य मैत्रभ्रमाजन-कत्वेऽपि वणिग्वीथीस्थरूप्यस्य कुण्डलजनकत्ववत् स्वेनाध्यस्तस्य संस्कारस्य वियदाद्य-ध्यासजनकत्वोपपत्तेः । तत्प्रतीत्यभावेऽपि तदध्यासस्य पूर्वं सत्त्वात् कृत्स्नस्यापि व्यावहारिकपदार्थस्याज्ञातसत्त्वाभ्युपगमात् ।
ननु प्रातिभासिकरूप्ये त्रैकालिकनिषेधस्य त्वन्मते व्यावहारिकरूप्यविषयत्ववद् व्यावहारिकप्रपञ्चेऽपि ‘नेह नाना’ इति त्रैकालिकनिषेधस्य पारमार्थिकप्रपञ्चान्तरविषयताऽ-वश्यं वाच्येति चेन्न । भ्रमबाधवैयधिकरण्यापातेनास्य पक्षस्यानङ्गीकारपराहतत्वात् । अङ्गीकारेऽपि व्यावहारिकनिषेधे पारमार्थिकविषयत्वं न सम्भवति । अप्रतीतस्य निषेधा योगात् । प्रतीत्या सहाध्यासातिरिक्तसम्बन्धाभावेन पारमार्थिके प्रतीतत्वाभावात् । ननु प्रधानाधिष्ठानयोः सादृश्याभावात्कथमध्यासः ? अथ निर्गुणयोरपि गुणयोः सादृश्यवदत्रापि किञ्चित्सादृश्यं भविष्यतीति, तन्न । निर्धर्मके ब्रह्मणि तस्याप्यध्यासाधीनत्वेनान्योन्याश्रयात् । यद्यपि सादृश्यं सोपाधिकाध्यासे न कारणं, व्यभिचारात् । तथापि निरुपाधिकाध्यासेऽन्वय व्यतिरेकाभ्यां तस्यावश्यमपेक्षणीयत्वात् । सोपाधिकेऽपि ‘रक्तः स्फटिकः’ इत्यादौ द्रव्यत्वादिना सादृश्यस्य सत्वाच्चेति चेन्न । अविद्याध्यासस्यानादित्वेन कारणानपेक्षस्य सादृश्यानपेक्षत्वात् । अन्तःकरणाध्यासे त्वविद्यासम्बन्धित्वस्यैव सादृश्यस्य विद्यमानत्वात् । वस्तुतस्तु न भ्रमे सादृश्यापेक्षानियमः । निरुपाधिकेऽपि ‘पीतः शङ्खः’ इत्यादौ व्यभिचारात् । ‘रक्तः स्फटिकः’ इत्यादावपि द्रव्यत्वादिना सादृश्यमस्तीत्यपि न । प्रधानमात्रवृत्तितया प्रागवगतमध्याससमये चाधिष्ठान वृत्तितया गृहीतं यत् तदेव हि सादृश्यं विपर्ययप्रयोजकमिति त्वयापि वाच्यम् । न तु प्रागेव प्रधानाधिष्ठानोभयवृत्तितया गृहीतम् । तस्य संशायकत्वात् । द्रव्यत्वादि च लोहितालोहितवृत्तितया प्राग्गृहीतमिति न विपर्यय-प्रयोजकम् ।
किञ्च सादृश्यं न स्वतो भ्रमकारणं, मानाभावात् । किन्तु संस्कारोद्बोधेन सामग्री सम्पादकतया । संस्कारोद्बोधश्च न सादृश्यैकनियतः । अदृष्टादिनाऽपि तत्सम्भवात् । तदुक्तम् ‘सदृशादृष्टचिन्ताद्याः स्मृतिबीजस्य बोधकाः’ इति । चिन्तादिकं च प्रणिधानसूत्रे व्याख्यातम् । तथा चान्यतः संस्कारोद्बोधे सति सादृश्यमनुपयोगि । तदुक्तं विवरणे ‘निरुपाधिकभ्रमकार्यदर्शनमेव गुणावयवसामान्याभावेऽपि केतकीगन्धसदृशः सर्पगन्ध इतिवत् सादृश्यान्तरं वा, शङ्खपीतिमादाविव कारणान्तरं वा कल्पयति’ इति ।
न्यायामृततरङ्गिणी
विश्वं यदि कल्पितं स्यात् तदा सप्रधानं स्यादिति द्वितीयतर्के व्याप्त्यभावं शङ्कते– नन्विति ॥ प्रधानमिति ॥ सजातीयमित्यर्थः ॥ भ्रमेति ॥ देशान्तरे विद्यमानस्य तस्य कारणप्रत्यासत्तिरूपसमवधानाभावादिति भावः ॥ स चेति ॥ संस्कारो नार्थजन्यः । येन प्रधानमावश्यकं भवेत् । किं त्वर्थज्ञानजन्यः । ज्ञानं च प्रमेव भ्रमोऽपीत्यर्थः ॥ प्रमाजन्य इति ॥ प्रमात्वार्थं विषयसत्त्वमावश्यकमिति भावः । ननु न भ्रमे प्रधानमारोप्यजातीयमपेक्षते । अपि त्वारोप्यमेव । तच्च देशान्तरे सदेव वाच्यम् । असतः शशविषाणादेरनारोपादित्याशङ्क्य परिहरति ॥ न चेति ॥ अध्यस्तं भ्रमे प्रतीतम् ॥ देशान्तरेति ॥ तव मतेऽसत्त्वात् । मम मते अनिर्वचनीयत्वादित्यर्थः ॥ एवमिति ॥ संस्कारसत्त्वे प्रधानतत्प्रमयोरिवाधिष्ठान सत्त्वेऽप्यधिष्ठानव्यतिरेकेण भ्रमव्यतिरेकस्यादर्शनादित्यपि वक्तुं शक्यमित्यर्थः ।
नन्वधिष्ठानस्य ज्ञानद्वारा भ्रमाहेतुत्वेऽज्ञानद्वारा भ्रमहेतुत्वेन तत्सत्वनियमः । भ्रमोपादानाज्ञानविषयो ह्यधिष्ठानमित्युच्यते । तच्च सत्यमेव । असत्यस्य सर्वस्या ज्ञानकल्पितत्वेनाज्ञानाविषयत्वादिति चेत्, मैवम् । ज्ञानवदज्ञानस्यापि वस्तुसद्विषयं विनैव पूर्वकल्पितविषयादिमत्त्वोपपत्तेः । अस्यास्मिन्नज्ञानमितिवज्ज्ञानेऽपि द्वय प्रतीतेस्तुल्यत्वादिति । नन्वधिष्ठानस्यासत्त्वे तद्बाधापत्तिः । तज्ज्ञानस्य भ्रमाबाधक त्वप्रसङ्गाज्जगति भ्रमबाधव्यवस्था न स्यात् । बाधेन हि किञ्चिद्विरुद्धं तत्त्वमुप दर्शयता आरोपितमतत्त्वं बाधनीयम् । उभयसाम्ये तु किं केन बाध्येतेति शङ्कां परिहरति– अधिष्ठानेति ॥ तथा चाधिष्ठानवत्प्रधानस्यापि सत्त्वं स्यादित्यर्थः । भ्रमबाधव्यवस्था तु त्वन्मत एवानुपपन्ना । तथाहि । तत्त्वशब्देन किं स्वरूपमेव वा असाधारणधर्मो वा अबाधितं वा ? नाद्यः । तस्य भ्रमेऽपि प्रकाशात् । न द्वितीयः । जगद्बाधे त्वन्मते तदभावात् । न तृतीयः । अन्योन्याश्रयात् । त्रिचतुर कक्ष्यास्वर्थक्रियानिर्वोढत्वेन स्वप्नबाधवदस्यापि बाधकत्वमुपपन्नम् । उभयसाम्यम् आधिक्यं वा बाधकत्वेन प्रयोजकम् । विषयतो न्यूनस्यापि बाधकत्वात्परीक्षाया न्यूनत्वस्यासिद्धेः । तस्मात्,
प्रधानस्यानपेक्षायामधिष्ठानं न सिध्यति ।
भ्रमे नृप इवेत्येतत्सङ्गृह्णीते तथेति गीः ॥
एतत्प्रपञ्चेति ॥ प्रपञ्चान्तरसत्त्वे तु एतत्प्रपञ्चासाध्यत्वेन सम्भाविता याऽर्थ-क्रिया श्रुत्यादिसिद्धोत्पत्त्यादिकं च प्रपञ्चान्तरविषयमेव स्यात् । शुक्तिरूप्येऽ-सम्भाविताया अर्थक्रियाया आपणस्थरूप्यविषयत्ववत् । प्रपञ्चान्तराभावे तु एतस्यैव प्रपञ्चस्य सम्भावितार्थक्रिया श्रुत्यादिसिद्धोत्पत्त्यादिकं च स्यात् । तथा च श्रुतिसिद्धस्यात्मन इव निषेधायोगेन स्वोपाधौ सत्त्वापातादित्यर्थः । साध्या साधनार्हा । आत्मन इति श्रुतिसिद्धत्वमात्रे दृष्टान्तः । एवं तर्हि नेह नानेति निषेधो निर्विषयः स्यादित्यत आह– त्वन्मत इति ॥ प्रतीतिकाले सत्त्वेन शुक्तौ रूप्यस्य तत्र त्रैकालिकनिषेधायोगाद्यथा नेदं रजतमिति निषेधस्य कान्ताकरकलित-कलधौतविषयत्वं तथा श्रुतिसिद्धोत्पत्त्यादिकस्य प्रपञ्चस्य नेह नानेति श्रुत्या निषेधायोगेन तथा निषेद्धुं प्रपञ्चान्तरं सत्यमावश्यकमित्यर्थः ।
पारमार्थिकेति ॥ निषेधस्य प्रसक्ताधिकसत्ताकनिषेध्यविषयत्वस्य रूप्यनिषेधे दर्शनादित्यर्थः । ननु ‘न तत्र रथा रथयोगा न पन्थानो भवन्ति अथ रथान् रथयोगान् पथस्सृजते’ इति श्रुतिसिद्धोत्पत्तिकस्यापि स्वप्नस्य स्वरूपेण निषेध इव प्रपञ्चस्यापि तथा भविष्यतीत्यत आह– प्रातिभासिकस्यैवेति ॥ स्वप्नस्य रूप्यस्य चेत्यर्थः । स्वरूपेणानिषेधे त्वदभिमतस्य प्रतिपन्नोपाधौ त्रैकालिकनिषेध-प्रतियोगित्वरूपमिथ्यात्वस्यासिद्धेः । पारमार्थिकत्वाकारेण निषेधे विशेष्यवति विशिष्टनिषेधस्य विशेषणनिषेधपर्यवसन्नतया ब्रह्मवत्पारमार्थिकत्वरूपधर्मरहितस्यापि प्रपञ्चस्य स्वरूपेण सत्यत्वोपपत्तिः । न चास्मिन्पक्षे ज्ञाननिवर्त्यत्वेन मिथ्यात्वम् । तथाप्यनित्यत्वमेव स्यान्न मिथ्यात्वमित्यादिना मिथ्यात्वनिरुक्तिभङ्गे निरस्तमित्यर्थः ॥ अनन्येति ॥ बालस्याद्यप्रवृत्तिहेत्विष्टसाधनताज्ञानस्य जन्मान्तरीयसंस्कार प्रयोज्यत्ववदस्यापि भ्रमस्य जन्मान्तरीयसंस्कारप्रयोज्यत्वम् । कार्योन्नेयधर्माणां यथाकार्यमुन्नयनादिति भावः ।
सति गत्यन्तरे जन्मान्तरीयसंस्कारादि न कल्प्यमित्यत आह– यद्वेति ॥ गृह्यमाणेति ॥ आस्यगतपित्तद्रव्यनिष्ठतिक्तिमानं गृहीत्वा गुडे आरोपयन्तीत्यर्थः ॥ न त्विति ॥ आरोप्यस्यानुभवत एवोपस्थित्या सोपाधिकारोपविशेषे गृह्यमाणारोपे संस्कारस्यानपेक्षणादिति भावः । प्रधानस्य भ्रमहेतुत्वमनङ्गीकर्तुं संस्कारस्य तथात्व-मङ्गीकृतम् । तत्र प्रधानकार्यकारिणः संस्कारस्य सत्त्वं स्यादित्याह– किञ्चेति ॥ नन्वध्यस्तादपि संस्काराद् भ्रमसम्भवेन तत्सत्त्वमावश्यकमत आह– चैत्रेणेति ॥ ननु अन्येनारोपितस्य संस्कारस्य स्वस्मिन् भ्रमाहेतुत्वेऽपि स्वेन स्वस्मिन्नारोपितस्य संस्कारस्य स्वस्मिन् भ्रमहेतुत्वं स्यादेवेत्याशङ्क्य निराकरोति– न चेति ॥ तत्र स्वस्मिन् शुक्तिरूप्यस्य कुण्डलादीन्प्रतीव चैत्राध्यस्तसंस्कारस्य मैत्रभ्रमं प्रत्यजनक त्वेऽपि वणिग्वीथिस्थरूप्यस्य कुण्डलादीन्प्रतीव स्वेनाध्यस्तसंस्कारस्य वियदाद्यध्यास जनकत्वं भविष्यतीत्यर्थः ॥ भ्रमादिति ॥ भ्रमात्पूर्वं संस्कारस्य नियत-प्रतीत्यभावेन तत्सत्त्वे मानाभावादित्यर्थः ।
ननु व्यावहारिकत्वात्संस्कारस्य प्रतीत्यभावेऽपि सत्त्वमस्त्वित्यत आह– कार्येति ॥ घटादीनां सत्त्वेऽपि स्मृत्यादिकार्यानुमेयसंस्कारसत्त्वे मानाभाव इत्यर्थः । ननु जगद्भ्रम एव तत्कार्यं तदनुमास्यतीति चेन्न । जगतः सत्त्वेनोपपत्त्या तद्भ्रमस्यासिद्धेरिति भावः । ननु यदि विश्वं कल्पितं स्यात् प्रधानसदृशाधिष्ठानकं स्यादिति तर्के इष्टापत्तिं व्यभिचारं च आशङ्क्य परिहरति– यत्तूक्तमिति ॥ विवरण एवान्यत्राप्युक्तम् । ‘‘निरुपाधिकभ्रमदर्शनमेव गुणावयवसामन्याभावेऽपि केतकी गन्धसदृशः सर्पगन्ध इतिवत् सादृश्यान्तरं वा, शङ्खपीतिमादाविव सादृश्यान्तरं वा कल्पयति’’ इति । यद्यप्येतदधिष्ठानप्रसङ्गे पूर्वं वक्तव्यं तथापि सादृश्यस्य प्रधानाधिष्ठानसम्बन्धित्वादुभयनिरूपणान्ते उक्तमिति न दोषः ॥ सादृश्यान्तर-मिति ॥ गुणादिरहिते गन्धादौ गुणादिकृतसादृश्याद् भिन्नं सादृश्यं यथा तथा ब्रह्मण्यपीत्यर्थः ॥ रक्त इति ॥ तत्रैव सादृश्यस्य व्यभिचार इत्यर्थः ।
इहेति ॥ अध्यासाधिष्ठाने ब्रह्मण्यविद्याध्यासात्पूर्वमविद्यास्वरूपासिद्ध्या तदधीन सादृश्यस्याभावादित्यर्थः ॥ अन्योन्येति ॥ अध्यासेनाविद्यायां सिद्धायां तदधीन सादृश्यसिद्धिः, तत्सिद्धौ चाविद्याध्यास इत्यर्थः । व्यभिचारं परिहरति– निरुपाधिक इति ॥ प्रकृतेऽपि कल्पितशब्देन सोपाधिकभिन्नभ्रमस्यैव विवक्षितत्वादिति भावः । न च पीतः शङ्ख इत्यादौ निरुपाधिकेऽपि व्यभिचार इति वाच्यम् । शुक्लवस्तुषु परिसर्पन्नयनगतपित्तपीतस्यैव शङ्खे ग्रहणेन तस्य गृह्यमाणारोपत्वात् । स्वनयनगत पित्तस्य स्वं प्रत्येवोपाधित्वान् नान्यस्य तथा भ्रम इति बोध्यम् ।
सामान्येऽपि न व्यभिचार इत्याह– रक्तेति ॥ ननु प्रधानमात्रवृत्तितया प्रागवगतमध्याससमये चाधिष्ठानवृत्तितया गृहीतं च यत् तदेव हि सादृश्यविपर्यय प्रयोजकमिति वाच्यम् । न तु प्रागेव प्रधानाधिष्ठानोभयवृत्तितया गृहीतम् । तस्य सांशयिकत्वेन द्रव्यत्वादि च प्राक् लोहितालोहितवृत्तितया गृहीतमिति न विपर्यय प्रयोजकमिति । मैवम् । सादृश्यं न स्वतो भ्रमहेतुः । मानाभावात् । किन्तु संस्कारोद्बोधकतया सामग्रीसम्पादकत्वेन । तदुद्बोधश्चादृष्टादिनेव द्रव्यत्वादिरूप सादृश्यादपि भवत्येव । तदुक्तं ‘सदृशादृष्टचिन्ताद्याः स्मृतिबीजस्य बोधकाः’ इति । चिन्तादिकं च प्रणिधानसूत्रे व्याख्यातम् ।
न्यायामृतकण्टकोद्धारः
किन्त्विति । संस्कारसत्त्वे प्रधानव्यतिरेकप्रयुक्तकार्यव्यतिरेकादर्शनादित्यर्थः । नन्वेवं प्रथमप्रपञ्चारोपे प्रपञ्चप्रमाजन्यसंस्कार एव हेतुत्वेन वाच्य इत्यत आह– अत्रेति । सत्यपीति । प्रमाजन्यसंस्कारापेक्षया ज्ञानजन्यत्वस्य लघुत्वाच्चेत्यपि द्रष्टव्यम् । नन्वन्यत्र प्रधानासत्वे कथमारोपः ? अन्यत्र सत एवान्यत्रारोपादित्यत आह– न चेति । एवं सतीति । नन्वधिष्ठानस्य ज्ञानद्वारा भ्रमहेतुत्वेऽपि अज्ञानद्वाराऽपि भ्रमहेतुत्वं कुतः ? भ्रमोपादानाज्ञानविषयो ह्यधिष्ठानमुच्यते । तच्च सत्यमेव । असत्यस्य सर्वस्याज्ञानकल्पितत्वेनाज्ञानविषयत्वासम्भवादिति चेन्न । प्रधानस्याप्यर्थक्रियासंस्कारद्वारा भ्रमकार्यप्रवृत्तिप्रयोजकत्वात् । अर्थक्रियायाश्चासत्यस्यासम्भवात् प्रधानस्यापि सत्त्वमङ्गी-कर्तव्यम् । न चार्थक्रियाऽप्यसत्यस्य युक्तेति वाच्यम् । तर्ह्यज्ञानविषयत्वमप्यसत्य-स्यास्तु । न चासत्यस्याज्ञानकल्पितत्वात् कथमज्ञानविषयत्वमिति वाच्यम् । अत्यन्तासतस्तदभावाद् अज्ञानविषयत्वसम्भवात् । न चात्यन्तासत आरोपाधिष्ठानत्व-मदृष्टमिति वाच्यम् । असदेवेदमग्र आसीदित्यादौ तद्दर्शनात् ।
न चाधिष्ठानस्यासत्त्वे तज्ज्ञानस्य भ्रमबाधकत्वं न स्यादिति बाधभ्रमव्यवस्था न स्यादिति वाच्यम् । अत्यन्तासज्ज्ञानं बाधकम्, अनिर्वचनीयज्ञानं बाध्यमिति भ्रमबाध व्यवस्थासम्भवात् । न चाधिष्ठानस्य सत्त्वप्रतीतेस् तत्सत्त्वमिति वाच्यम् । प्रधानस्यापि तत्प्रतीतेः । न चाधिष्ठानसत्त्वस्याबाधात् तत् तात्विकमिति वाच्यम् । प्रधानसत्त्वस्यापि बाधाभावात् । श्रुतिबाधस्तु श्रुतिव्याख्यानेनैव निरसिष्यते । तस्मात् परिहराधिष्ठानसत्त्वं स्वीकुरु वा प्रधानसत्त्वमिति दुरुत्तरा प्रतिबन्दितरङ्गिणी । अत एवाह– अधिष्ठान-वदिति । उक्तमर्थं कारिकया सङ्गृह्णाति– तथा चेति । एतदिति । अत्र स्वोपाधौ निषेधाप्रतियोगित्वे स्वोचितार्थक्रियाकारिण इति, श्रुत्यादिसिद्धोत्पत्त्यादिकस्येति हेतुगर्भं विशेषणम् । न च स्वोपाधौ निषेधाप्रतियोगित्वरूपसत्यत्वेऽर्थक्रियाकारित्वं श्रुत्यादिसिद्धोत्पत्त्यादिकं वा न तन्त्रम् । स्वाप्नमायादावाद्यस्य व्यभिचारात् । द्वितीयस्य स्वाप्नरथादिषु व्यभिचारात् । तत्रापि ‘न तत्र रथाः’ इत्यादिश्रुत्योत्पत्तिश्रुतेरिति वाच्यम् । स्वाप्नमायादेरसत्त्वस्यास्माकम् असम्प्रतिपत्तेः । अत एव भगवता सूत्रकारेण ‘सन्ध्ये सृष्टिराह हि’ ‘मायामात्रम्’ इत्यादौ स्वाप्नमायादेः सत्यत्वं प्रतिपादितम् । अन्यथा तुच्छप्रातिभासिकयोरप्यर्थक्रियादिकं स्यात् । इदं च पुरैव विस्तरेणोपपादितम् ।
त्वन्मत इति । न चायं पक्षोऽनङ्गीकारपराहत इति वाच्यम् । अपसिद्धान्तात् । न च पारमार्थिकस्य प्रतीतिर्न सम्भवति, आध्यासिकसम्बन्धाभावादिति वाच्यम् । ब्रह्मवत् प्रतीत्युपपत्तेः, आध्यासिकसम्बन्धस्य निराकृतत्वाच्च । ननु नेदं रजतमिति न व्यावहारिकविषयत्वम् । किन्तु पारमार्थिकत्वाकारेण प्रातिभासिकमेव निषिध्यत इत्यत आह– प्रातिभासिकस्यैवेति । कल्पाद्येति । तत्र पूर्वभ्रमाहितसंस्काराभावादिति भावः । ननु कल्पान्तरीयसंस्काराद् भ्रमो भविष्यतीत्यत आह– कल्पान्तरीयेति । ननु यथाऽनन्यगतिकतया बालस्य गुडतिक्तताभ्रमादौ जन्मान्तरसंस्कारः प्रयोजक इत्यङ्गीक्रियते तथा जगद्भ्रमादावपि कल्पान्तरसंस्कारः प्रयोजकः किं न स्यादित्यत आह– एतज्जन्मनीति । तद्वदत्रानन्यगतिकत्वाभावादिति भावः ।
यद्वाऽयमनुभूयमानारोप एव । अनुभूयमानारोपे च न संस्कारापेक्षेत्याह– यद्वेति । एवं प्रधानस्य सत्यत्वमुपपाद्य भ्रमहेतुभूतसंस्कारस्य तदुपपादयति– किञ्चेति । भ्रमा-दिति । ननु शुक्त्यध्यस्तरूप्यस्य कुण्डलाजनकत्वेऽपि वणिग्वीथीस्थरूप्यस्य तज्जनकत्व-वच् चैत्राध्यस्तसंस्कारादेर्भ्रमाजनकत्वेऽपि स्वेनाध्यस्तस्य तद् भविष्यतीति चेन्न । स्वेनेति ईश्वरेण वा जीवेन वा ? नाद्यः । पूर्वोक्तातिप्रसङ्गात् । नान्त्यः । स्वेनाध्यासस्य तत्प्रतीतिजन्यतत्संस्कारपूर्वकत्वनियमे तत्प्रतीतेश्च कार्यानुमेयत्वेन कार्योत्पादं विनाऽ-योगेन कार्यात् पूर्वम् असत्त्वेन स्वेन संस्काराध्यासायोगात् । न चेश्वरपक्षे नातिप्रसङ्गः । ईश्वराध्यस्त(त्व) स्यैव प्रयोजकत्वादिति वाच्यम् । अस्याः कल्पनाया मिथ्यात्व-सिध्युत्तरकालीनत्वेनान्योन्याश्रयात् ।
किञ्चाधिष्ठानप्रधानयोः सादृश्ये सत्येव भ्रमो दृष्टः । न च प्रकृते सादृश्यं सम्भवति । सादृश्यं हि सदृशधर्मवत्त्वम् । न च निर्धर्मके ब्रह्मणि सादृश्यं सम्भवति । अत्र भ्रमोपपादकविवरणमतमाशङ्क्य निषेधति– यत्तूक्तमिति । अत्र हि न वास्तवं सादृश्य-मङ्गीकर्तुं शक्यम् । अपसिद्धान्तात् । अथ कल्पितं सादृश्यं तत्राह– इहेति । न चाविद्याध्यासस्यानादित्वेन कारणानपेक्षत्वान् न सादृश्यापेक्षत्वमिति वाच्यम् । तस्याकर एव खण्ड्यमानत्वात् । किञ्चानादित्वं प्रवाहतो वा स्वरूपेण वा ? नाद्यः । स्वरूपो-त्पत्तौ सादृश्यस्यावश्यापेक्षत्वात् । न द्वितीयः । स्वरूपतोऽनादित्वे ब्रह्मवत् सत्यत्वं स्यात् । निवृत्तिश्च न स्यात् । किञ्चाध्यासस्यानादित्वे दोषाजन्यत्वात् प्रमात्वं स्यात् । विषयबाधादप्रमात्वमिति तु न । प्रत्यक्षादेरबाधकत्वात् । श्रुतिबाधस्तूद्धरिष्यते ।
ननु सादृश्यं न भ्रममात्रकारणम् । रक्तः स्फटिक इत्यादौ व्यभिचारादित्यत आह– रक्त इति । अस्तु वा भ्रममात्रकारणम् । तथापि न व्यभिचार इत्याह– रक्तद्रव्येति । न च प्रधानमात्रवृत्तितया गृहीतं यत् तदेव सादृश्यं विपर्ययप्रयोजकम् । न तु प्रागेव प्रधानाधिष्ठानोभयवृत्तितया गृहीतं, तस्य सांशयिकत्वात् । द्रव्यत्वादि तथेति न विपर्यय प्रयोजकमिति वाच्यम् । प्रधानमात्रेत्यत्र मात्रेत्यस्य व्यर्थत्वात् । प्रधानवृत्तितया गृहीत- स्यैव प्रयोजकत्वात् । न हि चाकचिक्यादिकं प्रधानमात्रवृत्तितया गृहीतम् । सादृश्यस्य प्रधाने पुरोवर्तिन्यपि ग्रहणात् । न चोभयवृत्तितया गृहीतस्य सांशयिकत्वम् । अन्यतर कोट्यनुपस्थितौ विशेषदर्शनेन वा संशयाभावोपपत्तेः । तदभावे च संशयस्येष्टत्वात् । अत एवेदं रजतं रङ्गं वेति संशयः । अतो यथा रजतारजतवृत्तितया गृहीतस्य चाक-चिक्यादेर्भ्रमजनकत्वं तथा द्रव्यत्वादेरपीति न किञ्चिदनुपपन्नम् । न च सादृश्यस्य न भ्रमे साक्षादुपयोगः । किन्तु संस्कारोद्बोधद्वारोपयोग इति वाच्यम् । संस्कारोद्बोधश्चादृष्टेनैव भविष्यतीति किं सादृश्येनेति वाच्यम् । अन्यत्रादृष्टस्य संस्कारोद्बोधप्रयोजकत्वेऽपि भ्रमे सादृश्यमात्राधीनत्वाद् व्यभिचाराभावात् । अन्यथा विवरणादावपि सर्वत्र सादृश्योपपादन- प्रयासो न स्यादिति ।
न्यायामृतप्रकाशः
विश्वं यदि कल्पितं स्यात्तदा सत्यप्रधानोपेतं स्यादित्यत्राप्रयोजकत्वं शङ्कते– नन्विति ॥ स चेति ॥ प्रधानसंस्कारस्यैव भ्रमहेतुत्वेन प्रधानस्य भ्रमहेतुत्वाभावात्संस्कारस्य च प्रधानप्रमयेव प्रधानभ्रमेणाप्युपपत्तेः प्रधानसत्यत्वं नापेक्षितमित्यर्थः । ननु यथा जगद्भ्रमे प्रधानभ्रमजन्यसंस्कारः कारणं, एवं प्रधानभ्रमेपि तत्पूर्वप्रधानभ्रमजन्यसंस्कारः कारणं तत्राप्येवमित्यनवस्थेत्यतो भ्रमपरम्पराया अनादित्वान्नानवस्थेत्याह– अत्र चेति ॥ प्रमेति ॥ प्रधानप्रमेत्यर्थः । तथा सति हि प्रधानस्य सत्त्वमपेक्षितं स्यादित्यभिप्रायः ॥ सत्यपीति ॥ सत्यपि संस्कारे यदि तस्मिन् प्रधानप्रमाजन्यत्वाभावात्क्वचिद्भ्रमाभावो दृष्टः स्यात् तदैव परं प्रधानप्रमाजन्यस्यैव संस्कारस्य भ्रमहेतुत्वकल्पनया तत्सत्यत्वमपेक्षितं स्यादित्यर्थः ।
नन्वन्यत्र विद्यमानमेवान्यत्रारोप्यत इति नियमेन प्रधानस्य सत्त्वमपेक्षितं स्यादित्या शङ्क्य निराकरोति– न चेति ॥ आवयोरिति । शुक्तिरेवात्यन्तासद्रजतात्मना प्रतिभातीति त्वन्मतं, प्रातिभासिकमनिर्वचनीयं रजतं प्रतीयत इति मन्मतम् । उभयोर्मतेऽपि न तद्देशा- न्तरादौ सत्, येन प्रधानसत्यत्वं स्यादित्यर्थः ॥ एवमिति ॥ प्रधानज्ञानमेव संस्कारद्वारा भ्रमहेतुः । तच्च ज्ञानं भ्रमरूपमपि सम्भवतीति न प्रधानस्य सत्यतासिद्धिरित्यङ्गीकारे इत्यर्थः । धियश्च प्रमात्वेऽधिष्ठानसत्यतासिद्धिरित्यत आह– तद्धीश्चेति ॥ अधिष्ठानधियो भ्रमरूपत्वे तत्राप्यधिष्ठानान्तरपरम्परयाऽनवस्थापरिहारायानादिरित्युक्तम् । इष्टापत्तिपरिहाराय ‘अधिष्ठान- त्वेन’ इत्याद्युक्तम् । नन्वधिष्ठानस्य बाधाभावात्सत्यत्वमिति चेत्तत्राह– अधिष्ठानवदिति ॥ सङ्गृह्णाति– तथा चेति ॥ भ्रमे प्रधानमिवाधिष्ठानमपि सुगतरीत्या धीमात्रादेव हेतुः स्यात्, अधिष्ठानज्ञानमेव हेतुः स्यादिति यावत् । तथा चाधिष्ठानमप्यसत्स्यादिति भावः ॥ द्वयोरिति ॥ अधिष्ठानप्रधानयोरित्यर्थः ।
एतत्प्रपञ्चस्य मिथ्यात्वे प्रोच्यमानेऽस्माभिरुक्तम् एतत्प्रपञ्चस्य मिथ्यात्वे प्रधानभूतः प्रपञ्चः सत्यो भविष्यतीति । त्वया तस्यापि भ्रमसिद्धत्वेन मिथ्यात्वाङ्गीकारे त्वस्यैव प्रपञ्चस्य सत्यत्वं सिद्ध्यतीत्याह– एतदिति ॥ यथा शुक्तिरूप्यस्य मिथ्यात्वात्तदसाध्यार्थ क्रियाकारि आपणस्थं रजतं यथा सत्यमङ्गीक्रियते एवमस्य प्रपञ्चस्य मिथ्यात्वाङ्गीकारे एतत्प्रपञ्चासाध्यार्थक्रियाकारि प्रपञ्चान्तरमङ्गीकार्यम् । तस्यापि मिथ्यात्वाङ्गीकारेऽर्थक्रिया कारित्वादिना प्रमितस्यास्यैव प्रपञ्चस्य तात्विकत्वं स्यात् । कुत इति चेत् ‘आत्मन आकाशस्सम्भूतः’ इ(त्यादिश्रु)तिश्रुतिसिद्धोत्पत्त्यादिकत्वात् । तथा च श्रुतिसिद्धस्यात्मनः स्वोचितदेशकालाद्युपाधौ निषेधायोग इव स्वोपाधौ निषेधायोगेन स्वोपाधा (वेव सत्यत्वा-पातात्) वसत्यत्वाभावात् । श्रुत्यादिसिद्धस्यापि मिथ्यात्वे आत्मनोऽपि मिथ्यात्वं स्यादित्यर्थः ॥ व्यावहारिकेति ॥ आभासस्य प्रसक्त्याऽनाभासस्य निषेधाङ्गीकारा-दित्यर्थः ॥ पारमार्थिकेति ॥ अनाभासेत्यर्थः ।
नन्वाभासस्य प्रसक्त्याऽनाभासस्य निषेध इति मते पूर्वोक्तदूषणमस्तु । मया तु प्रातिभासिकस्यैव रजतस्य निषेधोऽङ्गीक्रियते । न च प्रातिभासिकसत्त्ववतो निषेधायोगः । स्वरूपतोऽनिषेधेऽपि पारमार्थिकत्वाकारेण निषेधाङ्गीकारात् । तथा च न पारमार्थिक प्रपञ्चान्तरविषयकत्वं ‘नेह नानास्ति’ इति निषेधस्य । किन्त्वेतस्मिन्नेव प्रपञ्चे पारमार्थिक- त्वविषयत्वमित्यत आह– प्रातिभासिकस्यैवेति ॥ निरस्तमिति ॥ पारमार्थिकत्वरूपधर्म रहितस्यापि प्रपञ्चस्य ब्रह्मवत्स्वरूपेणैव सत्त्वोपपत्तेरिति निरस्तमित्यर्थः । प्रधानस्यासत्यत्व- मङ्गीकृत्य तद्भ्रमजन्यसंस्कारस्यैव भ्रमहेतुत्वाङ्गीकारे दोषान्तरमाह– कल्पाद्येति ॥ तत्पूर्वं प्रधानरूपजगदन्तराभावेन तद्भ्रमजन्यसंस्काराभावेन कल्पाद्यभ्रमायोगादित्यर्थः ॥ कल्पान्त रीयेति ॥ कल्पान्तरीयजगद्भ्रमजन्यसंस्कारादित्यर्थः । भ्रमोत्पत्तौ कल्पाद्यभ्रमोत्पत्तौ ॥ नारिकेलेति ॥ तस्य जन्मान्तरीयस्याग्न्यनुभवजन्यसंस्कारस्यानादौ मनसि सत्त्वादित्यर्थः ।
ननु जन्मान्तरीयसंस्कारस्याप्येतज्जन्मीयभ्रमहेतुत्वमवश्यं वक्तव्यम् । अन्यथा जात मात्रस्य बालस्य गुडे तिक्तत्वारोपो न स्यात् । अस्मिञ्जन्मनि तिक्तद्रव्यनिष्ठस्य तिक्तत्वस्या- ननुभूतत्वेन संस्काराभावात् । अतो जन्मान्तरीयतिक्तरसानुभवजन्मसंस्कारोऽवश्यं भ्रमहेतुतया वक्तव्य एव । एवं जगद्भ्रमेऽपीत्यत आह– एतज्जन्मनीति ॥ अनन्यगतिकत्वादिति ॥ न चैवं प्रकृतेऽप्यनन्यगतिकत्वं वाच्यम् । सत्यत्वेनैवोपपत्तेरिति भावः । स्यादेतदेवं यद्ययं तिक्तताभ्रमः स्मर्यमाणारोपः स्यात्तदैवैतज्जनकतयाऽनन्यगतिकतया जन्मान्तरीयसंस्कारापेक्षा स्यात् । न चैवं किन्तु गृह्यमाणारोपोऽयम् । तत्र च न संस्कारापेक्षेत्याह– यद्वेति ॥ गृह्यमाणेति ॥ आस्यगतपित्तद्रव्यनिष्ठतिक्तिमानं गृहीत्वा गुडे आरोप्यत इत्यर्थः । गृह्यमाणारोपे दृष्टान्तः माषेति । मष्यां मषीखण्डे । शान्ताङ्गारकाष्ठैकदेशो मषीखण्ड इत्युच्यते । यथा माषं गृहीत्वा माषराश्युपरि पतिते मषीखण्डे माषवदेव परिदृश्यमाने माषाभेद आरोप्यते तद्वदित्यर्थः ।
सत्यस्य प्रधानस्य भ्रमहेतुत्वमनङ्गीकुर्वता संस्कारस्य भ्रमहेतुत्वमङ्गीकृतम् । तथा च तस्यैव सत्यत्वं स्यादित्याह– किञ्चेति ॥ यदि सत्यः संस्कारो भ्रमहेतुर्न स्यात् तर्हि मैत्रे संस्कारोऽस्तीत्येवं चैत्रेणाध्यासः कृतः । तथा च चैत्राध्यस्तसंस्कारस्य मैत्रे विद्यमानत्वान् मैत्रस्य भ्रमः स्यात् । न ह्येवं दृश्यतेऽतस्सत्यभूतसंस्कारस्यैव भ्रमहेतुत्वमित्यर्थः । ननु न सत्यसंस्कारस्य भ्रमहेतुत्वम् । न चोक्तातिप्रसङ्गः । मयि संस्कारोऽस्तीति स्वाध्यस्तसंस्कार स्यैव भ्रमहेतुत्वाङ्गीकारेणान्याध्यस्तसंस्कारस्य तद्धेतुत्वानङ्गीकारादित्याशङ्क्य निराकरोति– न चेति ॥ तत्र स्वस्मिन् भ्रम इति सम्बन्धः । कदाचिन्मयि संस्कारोऽस्तीति बुद्धिपूर्वकं संस्काराध्यासं कृतवतोऽनन्तरं भ्रमोऽप्याहार्यो भवत्येवात उक्तं नियमेति । अनाहार्य स्मर्यमाणनिरुपाधिकभ्रमात्पूर्वं संस्कारस्य कारणत्वेन सत्त्वं वाच्यमेव । न तु तस्याध्य-स्तत्वम् । संस्कारस्याज्ञातकरणत्वात् । ननु तर्हि तत्सत्त्वं कथं ज्ञातव्यमिति चेन्न । भ्रम-रूपकार्ये सति अस्य संस्कारः पूर्वं वृत्त इति तस्य कार्यानुमेयत्वात् । ‘कार्योन्नेयधर्माणां यथा कार्यमुन्नयनात्’ इति वचनादिति भावः ।
यदि विश्वं कल्पितं स्यात्तदा प्रधानाधिष्ठानसादृश्योपेतं स्यात् । न च तदङ्गीकर्तुं शक्यम् । सादृश्यं हि गुणकर्मादिकृतं वाच्यम् । ‘सामान्यान्येव भूयांसि गुणावयवकर्मणाम्’ इत्यादि वचनाज्जगदारोपाधिष्ठानस्य ब्रह्मणः प्रधानसादृश्यं वक्तव्यम् । तन्न सम्भवति । गुणादिरहिते ब्रह्मणि गुणादिकृतसादृश्यायोगात् । अतः प्रधानप्रतियोगिकसादृश्यस्यापेक्षि-ताधिष्ठानेऽभावान्न विश्वं कल्पितमिति आदौ वक्तव्यम् । तदुपरि अस्मिंस्तर्के विवरणोक्ता-मिष्टापत्तिं व्यभिचारं चाशङ्क्य निषेधति– यत्तूक्तमिति ॥ विश्वस्य कल्पित(त्वपक्षेऽपि)-त्वेऽपि प्रधानसादृश्यम् अधिष्ठानेऽस्त्येव । न च गुणादिकृतसादृश्यं न सम्भवति । ब्रह्मणो निर्गुणत्वादिति वाच्यम् । यथा ‘केतकीगन्धसदृशः सर्पगन्धः’ इति प्रतीतिबलात्सर्पगन्धे केतकीगन्धसादृश्यं वर्तत इति वक्तव्यम् । तन्न सम्भवति । यथा केतकीसर्पयोर्गन्धरूपेण सादृश्यमस्ति तथा केतकीगन्धसर्पगन्धयोर्न गुणकृतं सादृश्यमस्ति । गुणे गुणानङ्गीकारात् । नाप्यवयवकृतं, गन्धयोर्निरवयवत्वात् । नापि कर्मकृतं, गन्धयोः कर्माभावात् । अतस्तत्र किञ्चिद्गुणादिकृतसादृश्यभिन्नं सादृश्यान्तरं गन्धे कल्पितमस्तीत्यङ्गीकृत्य कल्पितसादृश्येन यथा प्रतीतिर्भ्रमरूपा युक्तेति तार्किकैः कल्प्यते तथा प्रकृतेऽपि गुणादिहीने ब्रह्मणि वास्तवसादृश्याभावेऽपि सादृश्यान्तरं किञ्चित्कल्पनीयमितीष्टापत्तिः ।
अथवा ‘रक्तः स्फटिकः’ इत्यादौ रक्तद्रव्यस्फटिकयोः सादृश्याभावेऽपि तद्गतरक्तिमा यथा स्फटिके आरोप्यते एवमिहापि सादृश्यं विनैव विश्वभ्रमोऽस्त्विति व्यभिचार इत्यर्थः ॥ इहेति ॥ जगद्भ्रमहेतुसादृश्यस्य कल्पितत्वाङ्गीकारेऽविद्ययैव कल्पितत्वप्राप्त्याऽविद्याया अपि कल्पितत्वेन सादृश्याधीनतया अध्यासेनाविद्यायां सिद्धायां तदधीनसादृश्यसिद्धिस्तत्सिद्धौ चाविद्याध्याससिद्धिरित्यन्योन्याश्रय इत्यर्थः । तथा च नेष्टापत्तिरिति भावः । व्यभिचारं परिहरति– रक्त इति ॥ अभ्युपगमवादोऽयम् । सिद्धान्ते तस्य प्रतिबिम्बत्वादिति ध्येयम् ॥ निरुपाधिक इति ॥ निरुपाधिकानाहार्यभ्रम इत्यर्थः । जगद्भ्रमस्तु निरुपाधिक एवेति भावः । तथा च जगद्यदि निरुपाधिककल्पितं स्यादिति तर्कस्याभिप्रेततया तत्रापादकानागमान्न व्यभिचार इति भावः । प्रकारान्तरेण व्यभिचारं परिहरति– रक्तेति ॥ निरुपाधिकत्व-विशेषणस्यापादकेऽदानेऽपि न व्यभिचार; । न च सादृश्यं तत्र नास्तीति वाच्यम् । रक्तद्रव्यस्फटिकयोर्द्रव्यत्वादिना सादृश्यसद्भावादिति भावः ।
न्यायकल्पलता
विश्वं यदि कल्पितं स्यात्तदा सप्रधानं स्यादिति द्वितीयतर्के व्याप्त्यभावं शङ्कते– नन्विति । प्रधानम् आरोप्यसजातीयम् ॥ भ्रमेति । देशान्तरे विद्यमानस्य तस्य कारणप्रत्यासत्तिरूपसमवधानाभावादिति भावः । संस्कारो नार्थजन्यः । येन प्रधानमावश्यकं भवेत् । किन्त्वर्थज्ञानजन्यः । ज्ञानं च प्रमेव भ्रमोऽपीत्यर्थः ।
ननु प्रमात्वार्थमबाध्यत्वरूपविषयसत्वमावश्यकम् । एवं च प्रमाऽऽहितभावनाख्य संस्कारो भ्रमहेतुरित्याशङ्क्य निराचष्टे– न चेति ॥ सत्यपीति भ्रमस्य प्रमाऽऽहितसंस्कार व्यतिरेकप्रयुक्तव्यतिरेकप्रतियोगित्वादर्शनाद्गौरवाच्चेति भावः । ननु न ब्रूमो वयं प्रधानम् आरोप्यसजातीयमिति । अपि त्वारोप्यमेव । तद् देशान्तरे सदेव वाच्यम् । असतः शश विषाणादेरनारोपादित्याशङ्क्य परिहरति– न च तार्किकस्येवेति । अध्यस्तं भ्रम एव सत्वेन प्रतीतम् ॥ देशान्तरेति । तत्वविदस्तव मतेऽसत्वात् । मम मतेऽनिर्वचनीयत्वादित्यर्थः ॥ एवमिति । संस्कारसत्वे प्रधानतत्प्रमयोरिवाधिष्ठानज्ञानसत्वेऽप्यधिष्ठानव्यतिरेकेण भ्रम- व्यतिरेकस्यादर्शनादित्यपि वक्तुं शक्यमित्यर्थः । नन्वधिष्ठानस्य ज्ञानद्वारा भ्रमाहेतुत्वेऽप्य-ज्ञानद्वारा भ्रमहेतुत्वेन तत्सत्वनियमः । भ्रमोपादानाज्ञानविषयो ह्यधिष्ठानमित्युच्यते । तच्च सत्यमेव । असत्यस्य सर्वस्याज्ञानकल्पितत्वेनाज्ञानाविषयत्वादिति चेन्मैवम् । ज्ञानवद-ज्ञानस्यापि वस्तुसद्विषयं विनैव पूर्वकल्पितविषयादिमत्वोपपत्तेः । ‘अस्यास्मिन्नज्ञानम्’ इतिवज्ज्ञानेऽपि द्वयप्रतीतेस्तुल्यत्वात् ।
नन्वधिष्ठानासत्यत्वे तद्ज्ञानस्य भ्रमाबाधकत्वप्रसङ्गः । जगति भ्रमबाधव्यवस्था च न स्यात् । बाधेन हि किञ्चिद्विरुद्धं तत्वमुपदर्शयताऽऽरोपितमतत्वं बाधनीयम् । उभयसाम्ये तु किं केन बाध्येतेति चेत्, मैवम् । प्रधानस्य सत्त्वाभावेऽपि तज्ज्ञानस्यैवारोपहेतुत्ववदधिष्ठान ज्ञानस्यैव तद्धेतुत्वोपपत्तेः । भ्रमबाधव्यवस्थायाश्च काल्पनिकत्वस्य सुवचत्वादिति । यद्वा नन्वधिष्ठानस्यासत्वे तद्बाधापत्तिः । तद्ज्ञानस्य भ्रमाबाधकत्वप्रसङ्गश्च । जगति भ्रमबाध व्यवस्था च न स्यात् । बाधेन हि किञ्चिद्विरुद्धं तत्वमुपदर्शयताऽऽरोपितमतत्वं बाधनीयम् । उभयसाम्ये तु किं केन बाध्येतेति शङ्कां परिहरति– अधिष्ठानवदिति । तथा चाधिष्ठान वत्प्रधानस्यापि सत्त्वं स्यादित्यर्थः । भ्रमबाधव्यवस्था तु त्वन्मत एवानुपपन्ना । तथा हि । स(त)त्वशब्देन किं स्वरूपमेव उतासाधारणधर्मः । अथाबाधितत्वम् । नाद्यः । तस्य भ्रमेऽपि प्रकाशात् । न द्वितीयः । जगद्भाधे त्वन्मते तदभावात् । न तृतीयः । अन्योन्या श्रयात् । त्रिचतुरकक्ष्यास्वर्थक्रियानिर्वाह्यत्वेन स्वप्नबाधवदस्यापि बाधकत्वात् । परीक्षया न्यूनत्वस्यासिद्धेः । तस्मात्–
प्रधानस्यानपेक्षायामधिष्ठानं न सिद्ध्यति ।
भ्रमे नृप इवेत्येतत्सङ्गृह्णीते तथेति गीः ॥
सङ्गृह्णाति ॥ तथा च प्रधानमिवेति । यदनुभवजन्यसंस्कारादन्यत्रारोपस्तत्प्रधानम् । द्वयोः प्रधानाधिष्ठानयोः ॥ एतत्प्रपञ्चेति ॥ प्रपञ्चान्तरसत्वे तु एतत्प्रपञ्चासाध्यत्वेन सम्भाविता याऽर्थक्रिया श्रुत्यदिसिद्धोत्पत्त्यादिकं च प्रपञ्चान्तरविषयमेव स्यात् । शुक्ति-रूप्येऽसम्भाविताया अर्थक्रियाया आपणस्थरूप्यविषयत्ववत् । प्रपञ्चान्तराभावे त्वेतस्यैव प्रपञ्चस्य सम्भावितार्थक्रिया श्रुत्यादिसिद्धोत्पत्त्यादिकं च स्यात् । तथा श्रुतिसिद्धस्यात्मन इव निषेधायोगेन स्वोपाधौ सत्यत्वापातादित्यर्थः । साध्या साधनार्हा । आत्मन इति श्रुतिसिद्धत्वमात्रे दृष्टान्तः ।
तदयं प्रयोगः । यद्ययं प्रपञ्चः कल्पितः स्यात् तर्हि स्वासाध्यार्थक्रियाकार्यधिष्ठाना- भिमतसत्तासमसत्ताकप्रधानीभूतप्रपञ्चान्तरपूर्वकः स्यात् शुक्तिरूप्यवत् । न चायं तथा । तस्मान्न कल्पितः किन्त्वधिष्ठानाभिमतसमसत्ताक एवेति ॥ त्वन्मत इति । प्रतीतिकाले सत्वेन शुक्तौ रूप्यस्य तत्र त्रैकालिकनिषेधानुपपत्तेर्यथा नेदं रजतम् इति निषेधस्यापणस्थ कलधौतविषयत्वं तथा श्रुत्यादिसिद्धोत्पत्त्यादिकस्य प्रपञ्चस्य नेह नानेति श्रुत्या निषेधायोगेन तथा निषेद्धुं प्रपञ्चान्तरं सत्यमावश्यकमित्यर्थः ॥ पारमार्थिकेति । निषेधस्य प्रसक्ताधिक सत्ताकनिषेध्यविषयत्वस्य रूप्यनिषेधे दर्शनादित्यर्थः । ननु ‘न तत्र रथा न रथयोगा न पन्थानो भवन्त्यथ रथान्रथयोगान्पथश्च सृजते’ इत्यादिश्रुतिसिद्धोत्पत्तिकस्यापि स्वप्नस्य स्वरूपेण निषेध इव प्रपञ्चस्यापि वियदादेस्तथा भविष्यतीत्यत आह– प्रातिभासिक-स्यैवेति । स्वप्नस्य रूप्यस्य चेत्यर्थः ।
स्वरूपेणानिषेधे त्वदभिमतस्य प्रतिपन्नोपाधिस्थत्रैकालिकनिषेधप्रतियोगित्वरूपमिथ्यात्व- स्यासिद्धिः । पारमार्थिकत्वाकारेण निषेधे विशेष्यवति विशिष्टनिषेधस्य विशेषणनिषेधपर्यव- सन्नतया ब्रह्मवत्पारमार्थिकत्वरूपधर्मरहितस्यापि प्रपञ्चस्य स्वरूपेण सत्यत्वापत्तिः । न चास्मिन्पक्षे ज्ञाननिवर्त्यत्वेन मिथ्यात्वम् । तथाप्यनित्यत्वमेव स्यान्न मिथ्यात्वमित्यादिना मिथ्यात्वनिरुक्तिभङ्गे निरस्तमित्यर्थः ॥ अनन्येति । बालस्याद्यप्रवृत्तिहेत्विष्टसाधनताज्ञानस्य जन्मान्तरीयसंस्कारप्रयोज्यत्ववदस्यापि भ्रमस्य जन्मान्तरीयसंस्कारप्रयोज्यत्वम् । कार्योन्नेय धर्माणां यथाकार्यमुन्नयनादिति भावः । सति गत्यन्तरे जन्मान्तरीयसंस्कारादि न कल्प्य-मित्यत आह– यद्वेति ॥ गृह्यमाणेति ॥ पित्तज्वरवशादास्यगतपित्तद्रव्यनिष्ठतिक्तिमानं गृहीत्वा गुडे आरोपयतीत्यर्थः ॥ न त्विति । आरोप्यस्यानुभवत एवोपस्थित्या सोपाधि-कारोपविशेषे गृह्यमाणारोपे संस्कारस्यानपेक्षणादिति भावः । प्रधानस्य भ्रमाहेतुत्वेऽपि तत्संस्कारस्य तद्धेतुत्वमङ्गीकृतम् । तत्र प्रधानकार्यकारिणः संस्कारस्य सत्वं स्यादित्याह ॥ किञ्चेति । नन्वध्यस्तादपि संस्काराद्भ्रमसम्भवेन तत्सत्वमावश्यकमत उक्तम् ॥ चैत्रेणेति । नन्वन्येनारोपितस्य संस्कारस्य स्वस्मिन्भ्रमाहेतुत्वेऽपि स्वेन स्वस्मिन्नध्यस्तस्य संस्कारस्य स्वस्मिन्भ्रमहेतुत्वं स्यादेवेत्याशङ्क्य निराचष्टे– न च स्वेनेति ।
भ्रमः स्वस्मिन्निति शेषः । शुक्तिरूप्यस्य कुण्डलादीन्प्रतीव चैत्राध्यस्तसंस्कारस्य मैत्रभ्रमं प्रत्यजनकत्वेऽपि वणिग्वीथीस्थरूप्यस्य कुण्डलजनकत्ववत् स्वेनाध्यस्तस्य संस्कार-स्य वियदाद्यध्यासजनकत्वं भविष्यतीति शङ्काभिप्रायः ॥ भ्रमादिति । संस्कारस्य भ्रमात्पूर्वं नियतप्रतीत्यभावेन तत्सत्वे मानाभावादित्यर्थः । ननु व्यावहारिकत्वात्संस्कारस्य प्रतीत्य-भावेऽपि सत्वमस्त्वित्यत उक्तं कार्येति । घटादीनां सत्वेऽपि स्मृत्यादिकार्यानुमेय संस्कारसत्वे मानाभाव इत्यर्थः । ननु जगद्भ्रम एव तत्कार्यं तदनुमास्यतीति चेन्न, ब्रह्म वज्जगतः सत्वेनोपपत्त्या तद्भ्रमस्यासिद्धेरित्याशयः ।
ननु यदि विश्वं कल्पितं स्यात्तर्हि प्रधानसदृशाधिष्ठानकं स्यादिति तर्के इष्टापत्तिं व्यभिचारं चाशङ्क्य परिहरति– यदुक्तमिति । विवरण एवान्यत्राप्युक्तम् । ‘निरुपाधिकभ्रम-कार्यदर्शनमेव गुणावयवसामान्याभावेऽपि केतकीगन्धसदृशः सर्पगन्ध इतिवत्सादृश्यान्तरं वा, शङ्खपीतिमादाविव सादृश्यान्तरं वा कल्पयति’ इति । यद्यप्येतदधिष्ठानप्रसङ्गे पूर्वं वक्तव्यं तथापि सादृश्यस्याधिष्ठानप्रधानसम्बन्धित्वादुभयनिरूपणान्ते उक्तमित्यदोषः । सादृश्यान्तरं वेति । गुणादिरहिते गन्धादौ गुणादिकृतसादृश्याद्भिन्नसादृश्यं यथा तथा ब्रह्मण्यपीत्यर्थः ॥ रक्त इति । तत्रैव सादृश्यस्य व्यभिचार इत्यर्थः ॥ इहेति । अध्यासाधिष्ठाने ब्रह्मण्य-विद्याध्यासात्पूर्वमविद्यास्वरूपासिद्ध्या तदधीनसादृश्याभावादित्यर्थः ॥ अन्योन्येति । अध्यासेनाविद्यायां सिद्धायां तदधीनसादृश्यसिद्धिः । तत्सिद्धौ चाविद्याध्याससिद्धिरित्यर्थः ।
व्यभिचारं परिहरति– निरुपाधिक इति । प्रकृतेऽपि कल्पितशब्देन सोपाधिक-भिन्नभ्रमस्यैव विवक्षितत्वादिति भावः । न च पीतः शङ्ख इत्यादौ निरुपाधिकेऽपि व्यभिचार इति वाच्यम् । शुक्लवस्तुषु परिसर्पन्नयनगतपित्तपीतस्यैव शङ्खे ग्रहणेन तस्य गृह्यमाणा-रोपत्वात् । स्वनयनगतपित्तस्य स्वं प्रत्येवोपाधित्वान्नान्यस्य तथा भ्रम इति बोध्यम् । सामान्येऽपि न व्यभिचार इत्याह ॥ रक्त इति । ननु प्रधानमात्रवृत्तितया प्रागवगतम् अध्याससमये चाधिष्ठानवृत्तितया गृहीतं यत्तदेव हि सादृश्यं विपर्ययप्रयोजकमिति वाच्यम् । न तु प्रागेव प्रधानाधिष्ठानोभयवृत्तितया गृहीतम् । तस्य संशायकत्वात् । द्रव्यत्वादि च लोहितालोहितवृत्तितया प्रगृहीतमिति न विपर्ययप्रयोजकमिति । मैवम् । सादृश्यं न स्वतो भ्रमहेतुः । मानाभावात् । किन्तु संस्कारोद्बोधकतया सामग्रीसम्पादकत्वेन । तदुद्बोधश्चा-दृष्टादिनेव द्रव्यत्वादिरूपसादृश्यादपि भवत्येव । तदुक्तं तत्त्वनिर्णये ।
अधिष्ठानं च सदृशं तथ्यवस्तुद्वयं विना ।
न भ्रान्तिर्भवति क्वापि स्वप्नमायादिकेष्वपि ॥ इत्यादि ।
अत्र चशब्देन प्रधानं समुच्चिनोति । सदृशमिति तदुभयविशेषणम् । अत एवाहुः । ‘सदृशादृष्टचिन्ताद्याः स्मृतिबीजस्य बोधकाः’ इति । तथा चोक्तं विवरणे ‘निरुपाधिकभ्रम कार्यदर्शनमेव गुणावयवसामान्याभावेऽपि केतकीगन्धसदृशः सर्पगन्ध इतिवत्सादृश्यान्तरं वा, शङ्खपीतिमादाविव कारणान्तरं वा कल्पयति’ इति । यदत्रोक्तम् ‘संस्कारोद्बोधश्च न सादृश्यैकनियतः । अदृष्टादिनापि तत्सम्भवात्’ इति । तदसत् । अदृष्टस्य दृष्टकारणकलाप सम्पादकतया कारणत्वेन पृथक्कारणत्वाभावात् ॥ अनुक्तोपालम्भाच्चेति ।
न्यायामृतसौगन्ध्यं
किञ्च विश्वं यदि कल्पितं स्यात्तदा सप्रधानं स्यात् । न चैवम् । तस्मान्न कल्पितम् । नन्वस्त्येव प्रधानम् अध्यसनीयसजातीयं पूर्वप्रपञ्चसजातीयस्यैवोत्तरप्रपञ्चस्याध्यसनादिति चेन्न । एकस्याधिष्ठानस्यापि प्रवाहः स्यात् । एतेनाध्यासः स्वकारणतया संस्कारमपेक्षते न तु संस्कारविषयस्य सत्यताम् । अनुपयोगात् । न च प्रमाजन्य एव संस्कारो भ्रमहेतुरिति नियमः । मानाभावात् । अत एवाध्यस्तसजातीयम् अध्यस्तापेक्षयाऽधिकसत्ताकम् इत्यपि नियमः । अधिकसत्ताया अनुपयोगात् । पूर्वं तु तज्ज्ञानमेवोपेक्षते तच्चास्त्येवेति निरस्तम् । लोके अधिष्ठानदोषसंस्कारादीनाम् अध्यस्ताधिकसत्ताकत्वनियमस्य दृश्यत्वात् । अन्यथा अधिष्ठानज्ञानमात्रमेव हेतुर् न तु तदिति न सदधिष्ठानापेक्षा स्यादिति शून्यवादापत्तिः ।
ननु अधिष्ठानस्य ज्ञानद्वारा भ्रमाहेतुत्वेऽप्यज्ञानद्वारा भ्रमहेतुत्वेन सत्वनियमः । भ्रमो-पादानाज्ञानविषयो ह्यधिष्ठानमित्युच्यते । तच्च सत्यमेव । असत्यस्य सर्वस्याप्यज्ञानकल्पित-त्वेनाज्ञानाविषयत्वात् । तदसत्यत्वे तज्ज्ञानस्य भ्रमबाधकत्वं न स्यात् । जगति भ्रम-बाधव्यवस्था च न स्यात् । बाधेन हि किञ्चिद्विरुद्धं तत्वमुपदर्शयता आरोपितमतत्वं बाधनीय् । उभयाध्यासे तु किं केन बाध्यते इति चेन्न पूर्वपूर्वाज्ञानकल्पितस्योत्तरोत्तराज्ञान-विषयत्वसम्भवाद् भ्रमबाधव्यवस्थानुपपत्तिरेव । तथा हि । बाधविषयस्तत्वं स्वरूपं तदति-रिक्तं वा तन्निष्ठाबाधितत्वं वा । नाद्यः । स्वरूपस्य भ्रमकालेऽपि स्फुरणात् । न द्वितीयः । स्वरूपातिरिक्तस्य तात्विकस्य त्वयाऽनङ्गीकारात् । नान्त्यो ऽन्योन्याश्रयात् ।
किञ्च एतत्प्रपञ्चसाध्यार्थक्रियाकारिणः प्रपञ्चान्तरस्याभावेन स्वोचितार्थक्रियाकारिणोऽस्य न मिथ्यात्वम् । न च स्वाप्नमायादौ व्यभिचारेण स्वोचितार्थक्रियाकारित्वस्य पारमार्थिक सत्यत्वं न प्रयोजकमिति वाच्यम् । परीक्षितप्रमाणसिद्धसत्वस्याभासदृष्टान्तेनापलापा सम्भवात् । अन्यथा स्वापि्नकश्रुतिबोधिताद्वैतमोक्षादेर्दृष्टान्तेन त्वदभिमताद्वैतश्रुतिबोधिता द्वैतमोक्षादेर्मिथ्यात्वापत्तेः । एतेन श्रुत्यादिसिद्धोत्पत्त्यादिमत्वं सत्वे न तन्त्रम् । स्वप्नप्रपञ्चे व्यभिचारात् । तस्यापि ‘न तत्र रथा न रथयोगा न पन्थानो भवन्त्यथ रथान् रथयोगान् सृजते’ इत्यादिश्रुत्या उत्पत्त्यादिप्रतिपादनादिति निरस्तम् । ‘वैधर्म्याच्च न स्वप्नादिवत्’ इति भगवता स्वप्नादिवैधर्म्योक्त्या पारमार्थिकत्वसिद्धेः रथादीनामुत्पत्तेः प्रागसामायिकात्यन्ताभावो अनन्तरं च सत्यानामेव सृष्टिरिति श्रुत्यर्थात् । न स्वप्नदृष्टमात्रं मिथ्यात्वम् । स्वप्नदृष्ट आत्मादीनां मिथ्यात्वाभावात् ।
किञ्च कल्पाद्यभ्रमायोगः । न च कल्पान्तरीयसंस्कारस्तत्र हेतुः । जगतोऽध्यस्तत्वसिद्धौ जन्मान्तरीयसंस्कारकल्पनम् । तत्कल्पने च तत्सिद्धिरित्यन्योन्याश्रयात् । किञ्च चैत्रेण मैत्रे संस्काराध्यासेऽपि मैत्रस्य भ्रमादर्शनाज्जगद्भ्रमहेतुसंस्कारस्य सत्यत्वं दुर्वारम् । न च स्वेनाध्यस्तात्संस्काराद् भ्रमः । भ्रमात्पूर्वं स्वस्य कार्यानुमेयसंस्काराध्यासासम्भवात् । एतेन शुक्तिरूप्यस्य कुण्डलाजनकत्ववच्चैत्राध्यस्तसंस्कारस्य मैत्रभ्रमाजनकत्वेऽपि वणिग्वीथी-स्थरूप्यस्य कुण्डलजनकत्ववत्स्वेनाध्यस्तस्य संस्कारस्य वियदाद्यध्यासजनकत्वोपपत्तिरिति निरस्तम् । प्रातिभासिकस्यापि स्वापि्नकप्रियासङ्गमादेरर्थक्रियाकारित्वस्य त्वयोक्तत्वाच्च । एतेन तत्प्रतीत्यभावेऽपि तदध्यासः पूर्वमस्ति । कृत्स्नस्यापि व्यावहारिकपदार्थस्याज्ञातसत्वा-भ्युपगमात् । प्रतीत्याभावे अध्यासोक्तेस्तुच्छत्वात् । प्रतीतिरेव हि तवाध्यस्ताधिष्ठानम् । प्रतीतेः प्राग्विद्यमानस्य हि पारमार्थिकत्वमेव ।
किञ्च प्रातिभासिकरूप्ये त्रैकालिकनिषेधस्य त्वन्मते व्यावहारिकरूप्यविषयत्ववद् व्यावहारिकप्रपञ्चेऽपि ‘नेह नाना’ इति त्रैकालिकनिषेधस्य पारमार्थिकप्रपञ्चविषयताऽवश्यं वाच्या । न च भ्रमबाधवैय्यधिकरण्यम् । स्वरूपेणैव शुक्तिरूप्यस्थत्वे हृदस्थारूप्यस्यैव निषेधप्रतियोगित्वस्वीकारान्मिथ्यात्वनिरुक्तौ त्वयापि तथैव व्याख्यातत्वाच्च । न च व्यवहारिकनिषेधे पारमार्थिकविषयत्वं न सम्भवति । अप्रतीतस्य निषेधायोगात्प्रतीत्या सहाध्यासातिरिक्तत्वस्य निषेधस्य त्वयोक्तत्वात् । पारमार्थिकब्रह्मणः प्रतीतिविषयत्ववत् पारमार्थिकजगतस्तद्विषयत्वोपपत्तेः ।
किञ्च प्रधानाधिष्ठानयोः सादृश्याभावात् कथम् अध्यासः । न हि निर्गुणं ब्रह्म कस्यापि सदृशम् । न चाविद्याद्यध्यासस्यानादित्वेन कारणानापेक्षस्य सादृश्यानपेक्षत्वम् । अन्तः-करणाद्यध्यासे त्वविद्यासम्बन्धित्वमेव सादृश्यमिति वाच्यम् । अनादेः सत्यत्वेनैवोपपत्त्याऽ-ध्यस्तत्वे मानाभावात् । ब्रह्मान्तःकरणयोरविद्यासम्बन्धित्वस्यैकस्याभावाच्च । अन्तःकरणादौ ह्यविद्याकार्यत्वं, ब्रह्मणि चाविद्याधिष्ठानत्वम् । न च भ्रमे सादृश्यापेक्षानियमः किन्तु क्वचित्संस्कारोद्बोधेन सामाग्रीसम्पादकतया । संस्कारोद्बोधश्च न सादृश्यैकनियतः । अदृष्टादिनापि तत्सम्भवात् । तथा चान्यतः संस्कारोद्बोधे सति सादृश्यमनुपयुक्तम् । अदृष्टे दृष्टकारणापलापासम्भवात् । अदृष्टचिन्तादिभिः संस्कारोद्बोधकैकरूप्यसादृश्यहानेदं रजतादौ रूप्यारोपादर्शनात् । न च पीतः शङ्ख इत्यादौ व्यभिचारः । नयनगतपित्तेन पीतभ्रम एव तत्रोपलब्धेस्तस्य सोपाधिकत्वान्निरुपाधिके हि तथा नियमः । अन्यथा कदाचिद्विशेष दर्शनादिनापि निवृत्तिः स्यात् । न च रूप्यपात्रस्थजले नैल्यारोपे व्यभिचारः स क्वचित् स्वरूप्यपात्रभृङ्गारादिस्थजले पात्रान्तस्थान्धकारनैल्योपलब्धेस्तस्य सोपाधिकत्वात् ।