यच्चोक्तम्– ‘यथा तटाकोदकं छिद्रान्निर्गत्य कुल्यात्मना केदारान्प्रविश्य
श्रीवेदव्यासाय नमः
पदवाक्यप्रमाणपारावारपारीण–सर्वतन्त्रस्वतन्त्र–श्रीव्यासतीर्थविरचितम्
न्यायामृतम्
प्रथमपरिच्छेदे द्वितीयो भागः
३४. प्रतिकर्मव्यवस्थाभङ्गः
न्यायामृतं
यच्चोक्तम्– ‘यथा तटाकोदकं छिद्रान्निर्गत्य कुल्यात्मना केदारान्प्रविश्य तद्वदेव चतुष्कोणाद्याकारं भवति, तथा विषयेन्द्रियसम्प्रयोगादिके सति सावयवं तैजसमन्तःकरणं चक्षुरादिद्वारेण निर्गत्य ध्रुवादिविषयपर्यन्तं चक्षुर्वच्छीघ्रं दीर्घ-प्रभाकारेण परिणम्य विषयं व्याप्य तदाकारं भवति, सेयं वृत्तिरित्युच्यते । तत्र जीवचैतन्यम् अविद्योपाधिकं सत् सर्वगतम्, अन्तःकरणोपाधिकं सत्परिच्छिन्नं चेति मतद्वयम् । तत्राऽद्ये विषयप्रकाशकं जीवचैतन्यं, द्वितीये ब्रह्मचैतन्यम् । सर्वगतत्वपक्षेऽपि जीवचैतन्यम् अविद्यानावृतम् आवृतं चेति मतद्वयम् । तत्राऽद्ये वृत्तिर्जीवचैतन्यस्य विषयोपरागार्था, द्वितीये त्वावरणाभिभवार्था ।
परिच्छिन्नत्वपक्षे तु जीवचैतन्यस्य विषयप्रकाशकब्रह्मचैतन्याभेदाभि व्यक्त्यर्था । अनावृतत्वपक्षे ह्यनावृतं सर्वगतमपि जीवचैतन्यं तत्तदाकार वृत्त्यैवोपरज्यते, न तु विषयैः, असङ्गत्वात् । यथा गोत्वादिकं सर्वगतमपि सास्नादिमद्व्यक्त्यैवोपरज्यते, न तु केसरादिमद्व्यक्त्या, यथा वा प्रदीपप्रभा आकाशगन्धरसादिप्रदेशव्यापिन्यपि तान्न प्रकाशयति, रूपिसंसर्गितया तदेव प्रकाशयति, तद्वत् केवलाग्न्यदाह्यस्यापि अयःपिण्डसमारूढाग्निदाह्यत्ववच्च केवल चैतन्याप्रकाश्यस्यापि घटादेस्तदाकारवृत्त्युपारूढचैतन्यप्रकाश्यत्वं युक्तम् । एवं चानावृतत्वपक्षे तत्तदाकारवृत्तिद्वारा चैत(न्यस्य)न्ये च तत्तदुपरागे तत्तत्प्रकाशः । आवृतत्वपक्षेऽपि तत्तदाकारवृत्त्या तत्तदवच्छिन्नचैतन्यावरणाभिभवे तत्त-त्प्रकाशः । परिच्छिन्नत्वपक्षेऽपि तत्तज्जीवावच्छेदकान्तःकरणीयतत्तद्विषयाकार-वृत्त्या तत्तद्विषयावच्छिन्नब्रह्मचैतन्याभिव्यक्तौ तत्तत्प्रकाश इति नातिप्रसङ्गः । विषयानुभवस्य ब्रह्मचित्त्वेऽपि वृत्त्या जीवचैतन्याभेदेनाभिव्यक्तत्वात्, जीवचित्त्वम् अविरुद्धमिति प्रतिकर्मव्यवस्था युक्ता’ इति ।
श्रीमधुसूदनसरस्वतीविरचिता
अद्वैतसिद्धिः
ननु विश्वस्याध्यासिकत्वे प्रातिभासिकस्थल इव विषयेन्द्रियसन्निकर्षाधीनायाः प्रतिकर्म व्यवस्थाया अनुपपत्तिरिति चेन्न । वृत्तेः पूर्वमेव घटादीनां चैतन्येऽध्यासेन प्रातिभासिक स्थलापेक्षया वैलक्षण्यात् । तथा हि– अन्तःकरणं चक्षुर्वत्तेजोवयवि । तच्चेन्द्रियद्वारेण तत्संयुक्तं विषयं व्याप्य तदाकारं भवति । यथा नद्याद्युदकं प्रणाल्या निःसृत्य केदाराद्याकारं भवति । सैव वृत्तिरित्युच्यते । तत्र जीवचैतन्यमविद्योपाधिकं सत् सर्वगतं, अन्तःकरणोपा धिकं सत् परिच्छिन्नमिति मतद्वयम् । तत्राऽद्ये विषयप्रकाशकं जीवचैतन्यम् । द्वितीये ब्रह्मचैतन्यम् । आद्ये पक्षेऽपि जीवचैतन्यमविद्यानावृतम्, आवृतं च । तत्राऽद्ये वृत्तिर्जीव-चैतन्यस्य विषयोपरागार्था । द्वितीये त्वावरणाभिभवार्था ।
परिच्छिन्नत्वपक्षे तु जीवचैतन्यस्य विषयप्रकाशकतदधिष्ठनचैतन्याभेदाभिव्यक्त्यर्था । अनावृतत्वपक्षे ह्यनावृतं सर्वगतमपि जीवचैतन्यं तत्तदाकारवृत्त्यैवोपरज्यते, न तु विषयैः, असङ्गत्वात्, यथा गोत्वं सर्वगतमपि सास्नादिमद्व्यक्त्याऽभिव्यज्यते, न तु केसरादि मद्व्यक्त्या । यथा वा प्रदीपप्रभा आकाशगन्धरसादिव्यापिन्यपि तानप्रकाशयन्ती रूपसंसर्गि तया रूपमेव प्रकाशयति तद्वत् केवलाग्न्यदाह्यस्यापि अयःपिण्डादिसमारूढाग्निदाह्यत्ववच्च केवलचैतन्याप्रकाश्यस्यापि घटादेस्तत्तदाकारवृत्त्युपारूढचैतन्यप्रकाश्यत्वं युक्तम् । एवञ्चाना-वृतत्वपक्षे तत्तदाकारवृत्तिद्वारा चैतन्यस्य तत्तदुपरागे तत्तदर्थप्रकाशः । आवृतत्वपक्षे तत्त-दाकारवृत्त्या तत्तद्विषयावच्छिन्नचैतन्यावरणाभिभवेन तत्तदर्थप्रकाशः । अन्तःकरणावच्छिन्न-चैतन्यरूपत्वे जीवस्यावच्छेदकान्तःकरणतत्तद्विषयाकारवृत्त्या तत्तद्विषयावच्छिन्नचैतन्याभि-व्यक्तौ तत्तत्प्रकाशः । यद्यपि प्रकाशकमधिष्ठानचैतन्यं सर्वगतं, जीवचैतन्यं चान्तःकरणा-वच्छिन्नम्, तथापि चैतन्याभेदेनाभिव्यक्तत्वाद् व्यवस्थोपपत्तिः ।
श्रीव्यासरामाचार्यविरचिता
न्यायामृततरङ्गिणी
दृश्यस्य दृगध्यस्तत्वे प्रातिभासिकस्थल इव इन्द्रियसन्निकर्षायोगेन त्वदुक्तप्रति-कर्मव्यवस्थाऽयोग इति वक्तुं प्रस्तौति– यच्चोक्तमिति ॥ कुल्या कृत्रिम जलप्रवाहः । केदाराः क्षेत्राणि ॥ सावयवमिति ॥ अत एव विषयाकारेण परिणमते ॥ तैजसम् ॥ अत एव चक्षुरादिसूक्ष्मद्वारेण निर्गच्छति । तत्र एतादृशी वृत्तिरिति मते ॥ जीवचैतन्यमिति ॥ सर्वगतं परिच्छिन्नमिति मतद्वयमित्यन्वयः । अविद्यायाः सर्वगतत्वात्तदुपाधिको जीवोऽपि सर्वगत इत्यर्थः ॥ अन्तःकरणेति ॥ अन्तःकरणस्यासर्वगतत्वात्तदुपाधिको जीवोऽपि तथेत्यर्थः ॥ तत्राऽद्य इति ॥ जीवचैतन्यस्य सर्वगतत्वात्तत्रैव विषयस्याध्यस्तत्वेन जीवचैतन्यमेव विषयप्रकाशक- मित्यर्थः ॥ सर्वगतत्वपक्ष इति ॥ असर्वगतत्वपक्षे त्वनावृतमेवेति बोध्यम् ॥ विषयेति ॥ विषयेण सहोपरागः संश्लेषविशेषः । स च वृत्तिद्वारकः । आवरण विरहस्य स्वतः सिद्धत्वादिति भावः ॥ आवरणेति ॥ स्वत एव चैतन्यमुपरज्यत इति नोभयार्था वृत्तिरिति भावः ।
परिच्छिन्नत्वपक्षे वृत्त्युपयोगमाह– परिच्छिन्नत्वेति ॥ ब्रह्मचैतन्ये विषय-स्याध्यासात्तदेव विषयप्रकाशकम् । जीवोपाधेरन्तःकरणस्य परिणामे च वृत्त्या ब्रह्माकारया विषयाधिष्ठानब्रह्मचैतन्येऽप्यावृते जीवब्रह्मचैतन्ययोरेकान्तःकरणोपाधि- युक्तत्वेन ब्रह्मचैतन्येन सह जीवचैतन्यस्याभेदाभिव्यक्त्या जीवोऽपि घटप्रकाशको भवतीत्यर्थवती वृत्तिरिति भावः । वृत्तिर्विषयोपरागार्थेति पक्षमुपपादयति– अनावृतत्वपक्ष इति ॥ वृत्त्यैवेति ॥ स्वत इति शेषः । ननु वृत्तिरुपरागार्थेति न युक्तम् । असङ्गस्यापि चैतन्यस्य वृत्त्येव विषयेणाप्युपरागसम्भवात् । गोत्व-दृष्टान्तोऽप्ययुक्तः । तस्य सास्नादिमद्व्यक्त्युपरागो नाम तज्ज्ञेयत्वम् । ब्रह्म तु न वृत्त्या ज्ञायते । किन्तु तया घटादिज्ञानरूपं ब्रह्म भवति । प्रभादृष्टान्तोऽप्ययुक्तः । तस्याः प्रकाशकत्वं नाम विषयदेशस्थतमोनिवर्तकत्वमेव नान्यत् ।
एवं प्रभा रूपसंसर्गितमो निवर्तयन्ती रूपं प्रकाशयतीत्युच्यते । तथा आकाश गन्धरससंसर्गितमोऽपि निवर्तयन्ती आकाशादीनपि प्रकाशयत्येव । न ह्याकाशादि संसर्गितमो न निवर्तयति । अन्यथा तद्देशे रूपप्रकाशोऽपि न स्यादित्यत उदाहरणान्तरमाह– केवलेति ॥ तथा च विषयप्रकाशनशक्तिरेव विषयोपरागः । स च चैतन्यस्य वृत्त्यधीन इति वृत्तिरुपरागार्थेति भावः । वृत्तिरावरणाभिभवार्थेति पक्षमुपपादयति– आवृतत्वेति ॥ ननु जीवचैतन्यमसर्वगतमिति पक्षे तदनावृत मित्यङ्गीकारादावरणविरहस्य स्वतः सिद्धतया वृत्तिर्व्यर्थेति शङ्कां परिहरति– परिच्छिन्नत्वपक्ष इति ॥ एतच्चोपपादितम् ॥ ब्रह्मचित्त्वेऽपीति ॥ अस्मिन्पक्षे ब्रह्मचित्येव विषयाध्यासादिति भावः ॥ जीवचित्त्वमिति ॥ विषयानुभवस्येत्यनु- षङ्गः ॥ इतीति ॥ इतिशब्दः प्रकारवचनः । वृत्तिर्विषयोपरागार्थेति पक्षे, आवरणा भिभवार्थेति पक्षे, प्रमातृजीवचैतन्यस्य विषयप्रकाशकब्रह्मचैतन्याभेदाभिव्यक्त्यर्थेति पक्षे चेति पक्षत्रयेऽपीत्यर्थः ॥ प्रतिकर्मेति ॥ व्यापकचैतन्येऽध्यासेऽपि तस्य घटादिकं कर्म प्रति नियम इत्यर्थः ।
पाण्डुरङ्गि आनन्दभट्टारकविरचितः
न्यायामृतकण्टकोद्धारः
किञ्च दृग्दृश्ययोराध्यासिकसम्बन्धे दृश्यस्य प्रातिभासिकत्वापत्त्या विषयसन्निकर्ष- साध्यवृत्त्ययोगेन तत्प्रयुक्तप्रतिकर्मव्यवस्था न स्यादिति वक्तुं परोक्तप्रतिकर्मव्यवस्थाप्रकारं दर्शयति– यच्चोक्तमिति ॥ अविद्येति ॥ अविद्याया अपरिच्छिन्नत्वादिति भावः । अन्तःकरणेति । तस्य परिच्छिन्नत्वादिति भावः । तत्रेति । सर्वगतत्वपरिच्छिन्नत्व- पक्षयोरित्यर्थः । आद्ये सर्वगतत्वपक्षे । तत्र अनावृतत्वावृतत्वपक्षयोः । आद्ये अनावृतत्वपक्षे । विषयेति । स्वच्छस्य चैतन्यस्य वृत्तिं विनाऽस्वच्छेन विषयेणा-सम्बन्धाद् वृत्तेश्च स्वच्छत्वात्सम्बन्धोपपत्तिरिति भावः । द्वितीये आवृतत्वपक्ष इत्यर्थः । चैतन्यस्यावरणाभिभवहेतुत्वे तस्य सर्वदा विद्यमानत्वेन सर्वदाऽऽवरणनिवृत्तौ सर्वदा प्रकाशः स्यादिति भावः । अनावृतत्वपक्षे वृत्त्युपयोगमुपपादयति– अनावृतत्वपक्ष इति ॥ केवलाप्रकाश्यं वृत्त्युपारूढे घटादिकं प्रकाश्यमित्युपपादयति– केवलेति । नन्वावरणाभिभवपक्षे वृत्त्याऽऽवरणस्य निवृत्तत्वात्सर्वदा प्रकाशः स्यादित्यत आह– आवृतत्वपक्षेऽपीति ॥ ननु परिच्छिन्नत्वपक्षे ब्रह्मचैतन्यस्य प्रकाशत्वात्तस्य च सर्वसाधारणत्वात् सर्वप्रकाशत्वापत्तिरित्यतिप्रसङ्ग इत्यत आह– परिच्छिन्नत्वपक्षेऽ-पीति ॥ ब्रह्मचैतन्यस्य प्रकाशत्वेऽप्यभिव्यक्तस्यैव प्रकाशत्वाद् अभिव्यञ्जिकायाश्च वृत्तेस्तत्तदन्तःकरणीयत्वान्नातिप्रसङ्ग इति भावः । नन्वस्मिन् पक्षे विषयप्रकाशस्य ब्रह्मचित्त्वाज्जीवचित्त्वं न स्यात् । तथा च जीवचैतन्येन प्रकाश इति न स्यादित्यत आह– विषयानुभवस्येति ।
श्रीनिवासतीर्थविरचितः
न्यायामृतप्रकाशः
दृश्यस्य दृगध्यस्तत्वे प्रातिभासिकस्थले इवेन्द्रियसन्निकर्षायोगेन त्वदुक्तप्रतिकर्म व्यवस्थाऽयोग इति वक्तंु शिष्याणां स्पष्टं दूषणज्ञानाय तत्प्रक्रियामनुवदति यच्चोक्तम् इत्यादिना प्रतिकर्मव्यवस्था युक्तेत्यन्तेन । कुल्या कृत्रिमजलप्रवाहः । केदाराः क्षेत्राणि । विषयाकारेण परिणामोपपादनायोक्तं सावयवमिति ॥ शीघ्रगमनोपपादनायोक्तं तैजसमिति ॥ ध्रुवादिविषयेति ॥ तन्मण्डलादिरूपविषयेत्यर्थः । तत्रेति ॥ जीवचैतन्यं सर्वगतं परिच्छिन्नं चेति मतद्वयमित्यन्वयः ॥ अविद्येति ॥ अविद्यायास्सर्वगतत्वेन तदुपाधिकजीवचैतन्यमपि सर्वगतमित्यर्थः ॥ अन्तःकरणेति ॥ अन्तःकरणस्यासर्वगतत्वा- त्तदुपाधिकजीवोऽप्यसर्वगत इत्यर्थः ॥ तत्राऽद्य इति ॥ जीवचैतन्यस्य सर्वगतत्वात्तत्रैव विषयस्याध्यस्तत्वेन जीवचैतन्यमेव विषयप्रकाशकं घटादिज्ञानमित्युच्यत इति यावदित्यर्थः ॥ द्वितीय इति ॥ अन्तःकरण(णोपाधि)परिच्छिन्नस्याऽन्तरत्वेन बाह्यप्रपञ्चाध्यासाधिष्ठान- त्वाभावाद् ब्रह्मचैतन्यं यदनावृतं तत्रैवाध्यस्तं तदेव च विषयप्रकाशकमित्यर्थः ॥ सर्वगत- त्वेति ॥ अविद्योपाधिकं सत् सर्वगतमिति पक्षेऽप्यविद्यावृतस्वभावं तदनावृतस्वभावं चेति मतद्वयमित्यर्थः । असर्वगतत्वपक्षे त्वनावृतमेवेति बोध्यम् ।
नन्वेतेषु मतेषु वृत्तेः क्वोपयोग इत्यतस्तदुपयोगमाह– तत्राऽद्य इति ॥ अविद्योपाधिकं यत्सर्वगतं जीवचैतन्यं तदविद्यानावृतमेव विषयाध्यासाधिष्ठानम्, अत एव विषयप्रकाशक-मिति मत इत्यर्थः ॥ विषयेति ॥ सर्वगते जीवचैतन्ये विषयादिकमस्ति । तत्संश्लेषो जीवचैतन्ये नास्ति । असङ्गत्वात् । वृत्तिरगत्याऽसङ्गेऽपि तत्संश्लेषं सम्पादयतीत्यर्थः । आवरणविरहस्य स्वतः सिद्धत्वेनावरणाभिभवार्थत्वमेतन्मते नास्तीति ध्येयम् ॥ द्वितीय इति ॥ अविद्योपाधिकं जीवचैतन्यं सर्वगतमविद्यावृतमिति मत इत्यर्थः ॥ आवरणेति ॥ आवरणे चाभिभूते चैतन्यं स्वत एव विषयेणोपरज्यतेऽत आवरणाभिभवार्थैव वृत्तिर्न संश्लेषार्थेति भावः ।
अन्तःकरणोपाधिकं जीवचैतन्यं परिच्छिन्नं ब्रह्मचैतन्यमेव विषयप्रकाशमिति मते वृत्त्युपयोगमाह– परिच्छिन्नत्वपक्षे त्विति ॥ अभेदेति ॥ वृत्त्या आवरणेऽभिभूते सति वृत्तिप्रतिबिम्बितचैतन्यस्य विषयाधिष्ठानचैतन्यस्य च वस्तुगत्याऽभेदोऽस्ति । स व्यज्यत इत्यर्थः । तथा च वृत्तिप्रतिबिम्बितचैतन्येनाभिव्यक्ताभेदमधिष्ठानचैतन्यं भवतीति यावत् । अविद्योपाधिकं सर्वगतं जीवचैतन्यमनावृतं विषयाध्यासाधिष्ठानमिति मते वृत्तिश्चिदुपरागार्था नावरणाभिभवार्थेत्युक्तम् । तत्राऽवरणाभावेन चैतन्यस्य स्वत एव विषयेण संश्लिष्टत्वाद्वृत्ति- र्व्यर्थेत्यतस्तत्सार्थक्यमुपपादयति– अनावृतत्वेति ॥ जीवचैतन्यम् असङ्गत्वाद्विषयासंश्लिष्ट-मेवावतिष्ठत इति शेषः ॥ उपरज्यत इति ॥ विषयैरिति शेषः । विषयाकारवृत्तिरगत्याऽ- सङ्गत्वं परिहृत्य संश्लेषापरपर्यायमुपरागं सम्पादयतीत्यर्थः ॥ न त्विति ॥ वृत्तिं विना पूर्वं विषयैः स्वतो नोपरज्यतेऽसङ्गत्वादित्यर्थः ।
ननु सर्वगतस्यानावृतस्य विषयाध्यासाधिष्ठानस्य विषयैः सह वृत्तेः पूर्वमुपरागो नास्ति, वृत्त्यैवोपरज्यता इत्येतदयुक्तम् अदृष्टत्वादित्यतोऽत्र तार्किकादिसम्मतं दृष्टान्तमाह– यथेति ॥ सास्नेति ॥ केसरादिमत्सिंहादिव्यक्तावप्यस्ति गोत्वं, परं तु तस्य तदुपरागः संश्लेषविशेषः समवायरूपो नास्ति । सास्नादिमद्व्यक्त्यैव तूपरज्यत इत्यर्थः ॥ आकाशेति ॥ आकाश-देशव्यापिनी तथा घटादिपदार्थस्थितगन्धरसादिप्रदेशव्यापिनीत्यर्थः ॥ रूपीति ॥ रूपोपेत-पदार्थेत्यर्थः । अनावृतत्वपक्षे केवलजीवचैतन्याप्रकाश्यस्यापि घटादेस्तदाकारवृत्त्युपारूढ-सर्वगतचैतन्येन प्रकाश्यत्वं युक्तमित्यत्र दृष्टान्तमाह– केवलेति ॥ वृत्त्युपारूढे ति ॥ वृत्तिसहकृतेत्यर्थः । एवं वृत्तेरुपयोगमुपपाद्य चैतन्यस्य सर्वान्प्रत्यविशिष्टत्वात्सर्वस्य सर्वं प्रतीयेतेत्यतिप्रसङ्गं परिहरन्, एतेषु पक्षेषु घटप्रकाशकं चैतन्यं विवेचयन् प्रतिकर्मव्यवस्था-मुपपादयति– एवं चेत्यादिना ॥ ननु जीवचैतन्यस्य परिच्छिन्नत्वपक्षे ब्रह्मचित एव विषयाध्यासाधिष्ठानतया विषयप्रकाशकत्वेन विषयानुभवरूपत्वादिदं जीवज्ञानमिति व्यवहारः कथम् । ब्रह्मचैतन्यज्ञानमित्येव व्यवहारः स्यादित्यत आह– विषयानुभवस्येति ॥ जीवचैतन्येन वृत्त्युपारूढज्ञातृचैतन्येन साकं योऽभेदस्तद्वत्त्वेन घटाधिष्ठानभूतब्रह्मचैतन्य- स्याभिव्यक्तत्वाज्जीवचित्त्वं विषयानुभवस्य युक्तमित्यर्थः ।
श्रीकूर्मनरहरिआचार्यविरचिता
न्यायकल्पलता
विश्वस्य दृगध्यस्तत्वे प्रातिभासिकस्थल इव विषयेन्द्रियसन्निकर्षायोगेन भवदुक्तप्रतिकर्म व्यवस्थाया अनुपपत्तिरिति प्रस्तौति– यच्चोक्तमिति ॥ कुल्या अल्पा कृत्रिमा सरित् । केदाराः क्षेत्राणि । विषयाकारेण परिणामोपपादनायोक्तं सावयवमिति ॥ तैजसं चक्षुर्वत्तेजोवयवि । अत एव चक्षुरादीन्द्रियसूक्ष्मद्वारेणान्तःकरणं बहिर्निर्गच्छति । इन्द्रिय-द्वारेण तत्संयुक्तं विषयं व्याप्य तदाकारं भवति । यथा नद्याद्युदकं प्रणाड्या निःसृत्य क्षेत्राद्याकारं जायते । सेयं वृत्तिरित्युच्यते । औतिभिरिति शेषः । तत्र एतादृशी वृत्तिरिति मतेऽपि । जीवचैतन्यमिति सर्वगतं परिच्छिन्नमिति मतद्वयमित्यन्वयः । अविद्यायाः सर्व-गतत्वात्तदुपाधिको जीवोऽपि तथा । अन्तःकरणस्यासर्वगतत्वात्तदुपाधिको जीवोऽपि तथेत्यर्थः ॥ तत्राद्य इति । जीवचैतन्यस्य सर्वगतत्वात्तत्रैव विषयस्याध्यस्तत्वेन जीव- चैतन्यमेव विषयप्रकाशकमित्यर्थः ॥ सर्वगतत्वपक्ष इति । असर्वगतत्वपक्षे तु अनावृतमेवेति बोध्यम् ।
विषयेति । विषयेण सहोपरागः संश्लेषविशेषः । स च वृत्तिद्वारकः । आवरणविरहस्य स्वतः सिद्धत्वादिति भावः ॥ आवरणेति ॥ स्वत एव चैतन्यमुपरज्यत इति नोभयार्था वृत्तिरिति भावः । परिच्छिन्नत्वपक्षे वृत्त्युपयोगमाह– परिच्छिन्नत्वेति । ब्रह्मचैतन्ये विषय-स्याध्यासात्तदेव विषयप्रकाशकम् । जीवोपाध्यन्तःकरणपरिणतिवृत्त्या ब्रह्माकारया विषयाधिष्ठानब्रह्मचैतन्येऽविद्यावृतेऽपि जीवब्रह्मचैतन्ययोरेकान्तःकरणरूपोपाधियुक्तत्वेन ब्रह्म- चैतन्येन सह जीवचैतन्याभेदाभिव्यक्त्या जीवोऽपि घटप्रकाशको भवतीत्यर्थवती वृत्ति-रित्यर्थः । वृत्तिर्विषयोपरागार्थेति पक्षमुपपादयति– अनावृत्तत्वपक्ष इति ॥ वृत्त्यैवेति । स्वत इति शेषः ।
ननु वृत्तिरुपरागार्थेति न युक्तम् । असङ्गस्यापि चैतन्यस्य वृत्त्येव विषयेणाप्युपराग- सम्भवात् । गोत्वदृष्टान्तोऽप्ययुक्तः । तस्य सास्नादिमद्व्यक्त्युपरागो नाम तज्ज्ञेयत्वम् । ब्रह्म तु न वृत्त्या ज्ञायते किन्तु तया घटादिविज्ञानरूपं ब्रह्म भवति । प्रभादृष्टान्तोऽप्यनुपपन्नः । तस्याः प्रकाशकत्वं नाम विषयदेशस्थतमोनिवर्तकत्वमेव नान्यत् । एवं यथा प्रभा रूपसंसर्गितमो निवर्तयन्ती रूपं प्रकाशयतीत्युच्यते तथा आकाशगन्धरसादिसंसर्गितमोऽपि निवर्तयन्ती आकाशादीनपि प्रकाशयत्येव । न हि सा आकाशादिसंसर्गितमो न निवर्तयति । अन्यथा तद्देशे रूपप्रकाशोऽपि न स्यादित्यरुचेरुदाहरणान्तरं वक्ति– केवलेति । तथा च विषयप्रकाशनशक्तिरेव विषयोपरागः । स च चैतन्यस्य वृत्त्यधीन इति वृत्तिरुपरागार्थेति भावः ।
वृत्तिरावरणाभिभवार्थेति पक्षमुपपादयति– आवृतत्वेति । ननु जीवचैतन्यम् असर्वगत- मिति पक्षे तदनावृतमित्यङ्गीकारादावरणविरहस्य स्वतः सिद्धत्वाद्वृत्तिर्व्यर्थेति शङ्काम् अपा- करोति– परिच्छिन्नत्वपक्ष इति । एतच्चोपपादितम् ॥ ब्रह्मचित्वेऽपीति । अस्मिन्पक्षे ब्रह्मचित्येव विषयाध्यासादिति भावः ॥ जीवचित्वमिति । विषयानुभवस्येत्यनुषङ्गः ॥ इतीति ॥ इतिशब्दः प्रकारवचनः । वृत्तिर्विषयोपरागार्थेति पक्षे, आवरणाभिभवार्थेति पक्षे, प्रमातृजीवचैतन्यस्य विषयप्रकाशकब्रह्मचैतन्याभेदाभिव्यक्त्यर्थेति पक्षत्रयेऽपीत्यर्थः ॥ प्रति-कर्मेति । व्यापकचैतन्येऽध्यासेऽपि तस्य घटादिकं कर्म प्रति नियम इत्यर्थः ॥
श्री वनमालिमिश्रविरचितम्
न्यायामृतसौगन्ध्यं
यच्चोक्तं ‘यथा तटाकोदकं छिद्रान्निर्गत्य कुल्यात्मना केदारान्प्रविश्य तद्वदेव चतुष्कोण- त्वाद्याकारं भवति तथा विषयेन्द्रियसम्प्रयोगे सति सावयवं तैजसम् अन्तःकरणं चक्षुरादि- द्वारेण निर्गत्य ध्रुवादिविषयपर्यन्तं चक्षुर्वच्छीघ्रं दीर्घप्रभाकारेण परिणम्य विषयं व्याप्य तदाकारं भवति । सेयं वृत्तिरित्युच्यते । तत्र जीवचैतन्यम् अविद्योपाधिकं सत्सर्वगतं, अन्तःकरणोपाधिकं सत्परिच्छिन्नं चेति मतद्वयम् । तत्राद्ये विषयप्रकाशकं जीवचैतन्यम् । द्वितीये ब्रह्मचैतन्यम् । सर्वगतत्वपक्षेऽपि चैतन्यम् अविद्यानावृतम् आवृतं चेति मतद्वयम् । तत्राद्ये वृत्तिर्जीवचैतन्यस्य विषयोपरागार्था । द्वितीये त्वावरणाभिभवार्था । परिच्छिन्नत्वपक्षे तु जीवचैतन्यस्य विषयप्रकाशकब्रह्मचैतन्याभेदाभिव्यक्त्यर्था । अनावृतत्वपक्षे ह्यनावृतं सर्वगतमपि जीवचैतन्यं तत्तदाकारवृत्त्यैवोपरज्यते न तु विषयैः । असङ्गत्वात् । यथा गोत्वादिकं सर्वगतमपि सास्नादिमद्व्यक्त्यैवोपरज्यते न तु केसरादिमद्व्यक्त्या । यथा वा प्रदीपप्रभा, आकाशगन्धरसादिव्यापिन्यपि तानप्रकाशयन्ती रूपसंसर्गितया तदेव प्रकाशयति तद्वत् । केवलाग्न्यदाह्यस्याप्ययःपिण्डसमारूढाग्निदाह्यत्ववच्च केवलचैतन्या प्रकाश्यस्य घटादे-स्तत्तदाकारवृत्त्युपारूढचैतन्यप्रकाश्यत्वं युक्तम् ।
एवञ्चानावृतत्वपक्षे तत्तदाकारवृत्तिद्वारा चैतन्यस्य तत्तदुपरागे तत्तदर्थप्रकाशः । आवृतत्वपक्षेऽपि तत्तदाकारवृत्त्या तत्तद्विषयावच्छिन्नचैतन्यावरणाभिभवेन तत्तदर्थप्रकाशः । परिच्छिन्नत्वपक्षेऽपितत्तज्जीवावच्छेदकान्तःकरणीय तत्तद्विषयाकारवृत्त्या तत्तद्विषयावच्छिन्न ब्रह्मचैतन्याभिव्यक्तौ तत्तत्प्रकाश इति नातिप्रसङ्गः । विषयानुभवस्य ब्रह्मचित्वेऽपि वृत्त्या जीवचैतन्येनाभेदेनाभिव्यक्तत्वाज्जीव चित्वम् अविरुद्धमिति प्रतिकर्मव्यवस्था युक्ता’ इति ।
तन्न । स्वसन्निकृष्टेन्द्रियजन्यस्वज्ञानात्पूर्वं घटादेः प्रतीतिमात्रशरीरत्वव्याप्यकल्पित त्वायोगात् । न च कल्पितत्वविशेषः प्रातिभासिकत्वमेव तद्व्याप्यं, गौरवात् । वह्निं प्रति, अपर्वतीयधूमस्याप्रामाणिकत्वादिकं च प्रति प्रातिभासिकत्वस्यैव व्याप्यत्वापातात् । न च प्रतीतिमात्रशरीरत्वाभावेऽपि ज्ञाननिवर्त्यत्वादिना कल्पितत्वोपपत्तिः । प्रतीतिमात्रशरीरत्वा भावेनैव ज्ञाननिवर्त्यत्वाभावस्याप्यापादनात् । प्रतीतेस्तु विश्वसत्यत्वेन वा मिथ्यात्वेऽपि स्वप्नादिवदिन्द्रियसन्निकर्षानपेक्षतयैव वोपपत्तेश्च । व्यावहारिकत्वस्य भ्रान्तिदैर्घ्यमात्रेणोप पत्तेश्च । (अयं भागः न्यायामृतमूलम् ।)
तन्न
न्यायामृतं
तन्न । स्वसन्निकृष्टेन्द्रियजन्यस्वज्ञानात्पूर्वं घटादेस्सत्त्वे प्रतीतिमात्रशरीरत्व- व्याप्यकल्पितत्वायोगात् । न च कल्पितत्वविशेषः प्रातिभासिकत्वमेव तद्व्याप्यम् । गौरवात् । वह्निं प्रत्यपर्वतीयधूमस्य, अप्रामाणिकत्वादिकं च प्रति प्रातिभासिकत्वस्यैव व्याप्यत्वापाताच्च । न च प्रतीतिमात्रशरीरत्वाभावेऽपि ज्ञाननिवर्त्यत्वादिना कल्पितत्वोपपत्तिः । प्रतीतिमात्रशरीरत्वाभावेनैव ज्ञान-निवर्त्यत्वाद्यभावस्याप्यापादनात् । प्रतीतेश्च विश्वस्य सत्यत्वेन वा, मिथ्या-त्वेऽपि स्वप्नवदिन्द्रियसन्निकर्षानपेक्षतयैवोपपत्तेश्च । व्यावहारिकत्वस्य च भ्रान्तिदैर्ध्यमात्रेणोपपत्तेश्च । तत्तदाकारपरोक्षवृत्तेरिवापरोक्षवृत्तेरेव तत्तत्प्रकाश-कत्वोपपत्तावपरोक्षवृत्त्युपरागादिमतश्चैतन्यस्य तत्तत्प्रकाशत्वकल्पनायोगाच्च । विषयापरोक्ष्यं त्वावश्यकेन वृत्तिगतविशेषेणैवेत्युक्तम् ।
न च परोक्षवृत्तिविषयस्यापि चैतन्योपरागाद्यस्ति । अभिव्यक्तापरोक्षैकरस- चिदुपरागेण विषयस्याप्यापरोक्ष्यापातात् । वृत्तेरेवापरोक्षानुभवत्वे तत्प्रयुक्तं स्वप्रकाशत्वमपीच्छात्वज्ञानत्वादिकमिवान्तःकरणानिष्ठमपि तदुपादेयवृत्तिनिष्ठ- मस्तु । अन्यथा अपरोक्षानुभवस्यापि तन्न स्यात् । न च ‘घटं जानामि’ इति सकर्मकज्ञानरूपवृत्त्यन्या ‘घटः प्रकाशते’ इत्यकर्मकप्रकाशरूपा चिदनुभव- सिद्धेति वाच्यम् । क्रियैक्येऽपि ‘करोति प्रयतते गच्छति चलति’ इत्यादविव धात्वोः कर्मोपरागवाचित्वतदभाव स्वभावत्वोपपत्तेः । अन्यथा त्वत्पक्षेऽपि परिणतेरकर्मकत्वात्परिणतिविशेषस्य वृत्तेस्सकर्मकज्ञानत्वं न स्यात् ।
१अतीतं प्रकाशत इति धीश्च न स्यात् । एवं चेष्यमाणे इच्छादेरिवानु भाव्ये स्वतःप्रवणस्यानुभवस्यान्यद्वारा तदुपरक्तत्वं, तत्प्रत्यावृतत्वं, घटाज्ञान- विरोधिन्या वृत्तेर्न घटानुभवत्वं, तदविरोधिचैतन्यस्य तु तदित्यादिकं दृष्टविरुद्धं न कल्प्यम् । अन्यथा द्वेषविरोधिन्या वृत्तेर्नेच्छात्वं, किन्त्वन्यस्यै वेत्यादि स्यात् । ‘तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति’ इति श्रुतिस्तु सूर्यादिप्रकाशस्येशाधीनत्वमेवाह, न त्वस्मदादिगतघटादिज्ञानस्य ब्रह्मत्वम् । सर्वशब्दस्य ‘सर्वेभ्यः कामेभ्यो दर्शपूर्णमासौ’ इत्यादाविव ‘न तत्र सूर्यो भाति न चन्द्रतारकम्’ इति प्रकृतसूर्यादिपरत्वात् । त्वन्मतेऽपि नित्यातीन्द्रियस्य चित्प्रकाश्यत्वाभावेन सर्वशब्दसङ्कोचाच्च । प्रकृतपरेदंशब्द- समभिव्याहाराच्च । एतद्वाक्यनिर्णायके ‘अपि स्मर्यते’ इति सूत्रे त्वद्भाष्येऽपि ‘यदादित्यगतं तेजः’ इत्यादिस्मृतेरेवोदाहृतत्वाच्च । त्वन्मते ब्रह्मणो भानमात्रत्वेन भान्तमिति शतृप्रत्ययस्य, तस्य भासेति षष्ठ्याः, प्रपञ्चे ब्रह्मभानान्यभानाभावेनानुशब्दस्य चायोगाच्च । ‘गच्छन्तम् अनुगच्छति’ इत्यादौ गमनादिभेदे सत्येवानुशब्दो दृष्टः ।
अद्वैतसिद्धिः
ननु– इयं प्रतिकर्मव्यवस्था नोपपद्यते । तथा हि स्वसन्निकृष्टेन्द्रियजन्यस्वज्ञानात् पूर्वं घटादेस्सत्त्वे प्रतीतिमात्रशरीरत्वव्याप्तकाल्पनिकत्वायोगः । न च काल्पनिकत्वविशेषः प्रातिभासिकत्वादिरेव तद्व्याप्तः, गौरवात् । न च प्रतीतिमात्रशरीरत्वाभावेऽपि ज्ञान-निवर्त्यत्वादिनैव कल्पितत्वं भविष्यति । प्रतीतिमात्रशरीरत्वाभावेन ज्ञानविर्त्यत्वाभाव-स्याप्यापाद्यत्वात् । प्रतीतेर्विश्वसत्यत्वेन वा मिथ्यात्वेऽपि स्वप्नादिवदिन्द्रियसन्निकर्ष-निरपेक्षतयैवोपपत्तेः । व्यावहारिकत्वस्यापि भ्रान्तिदैर्ध्यमात्रेणोपपत्तेश्चेति चेत्, मैवम् । प्रतीतिमात्रशरीरत्वस्य कल्पितत्वं न व्याप्यम् । दृग्दृश्यसम्बन्धानुपपत्त्यादिसहकृतोक्तानु-मानात् प्रपञ्चे कल्पितत्वे सिद्धे प्रत्यभिज्ञाबलाच्च स्थायित्वे तत्रैव व्यभिचारात् ।
न च शुक्तिरूप्यादिप्रत्यभिज्ञासाम्यं प्रकृतप्रत्यभिज्ञाया इति वाच्यम् । प्रतीत्यविशेषेऽपि वणिग्वीथीस्थशुक्तिरूप्ययोः परीक्षितत्वापरीक्षितत्वाभ्यां स्थायित्वास्थायित्वरूपविशेष-सम्भवात् । तथापि परोक्षवृत्तेरिवापरोक्षवृत्तेरपि प्रकाशकत्वमस्तु, किं तदुपरक्तचैतन्येनेति चेन्न । परोक्षस्थलेऽपि परोक्षवृत्युपरक्तचैतन्यस्यैव प्रकाशकत्वात् । अथ तत्राप्यपरोक्षैक-रसचैतन्योप रागे विषयापरोक्ष्यप्रसङ्गः, न । विषयचैतन्याभिव्यक्तावेव विषयस्यापरोक्ष्यम् । न च परोक्षस्थले तदस्ति । विषयेन्द्रियसन्निकर्षाभावेन विषयपर्यन्तं वृत्तेरगमनात् । अन्तरेव
तत्र धीसमुल्लासात् । अपरोक्षस्थले तु प्रमातृचैतन्याभेदाभिव्यक्ताधिष्ठानचैतन्योपरागो विषयेऽस्ति । तत्र विषयस्य कर्मकारकत्वात् । न च वृत्तिगतविशेषादापरोक्ष्यम्, तत्र हि विशेषो विषयकृतश्चेदोमिति ब्रूमः । जातिकृतस्तु विशेषो न सम्भवति । सोऽयमिति प्रत्यभिज्ञायां परोक्षत्वापरोक्षत्वयोः सङ्करप्रसङ्गात्, अव्याप्यवृत्तित्वात्, प्रमात्वादिना सङ्करप्रसङ्गाच्च ।
किञ्च वृत्तेर्जडत्वादेव न प्रकाशकत्वम् । न च वृत्तावन्तःकरणावृत्त्यपि स्वप्रकाशकत्वं ज्ञानत्ववदिति वाच्यम् । स्वप्रकाशात्मसम्बन्धेनैव तस्याः प्रकाशत्वोपपत्तौ तत्स्वप्रकाशत्वे मानाभावात् । किञ्च घटं जानामीत्यनुभूयमानसकर्मकवृत्त्यन्या संविद् घटप्रकाशरूपा, ‘घटः प्रकाशते’ इत्याकारकानुभवसिद्धैव । न च करोति, यतते, चलति, गच्छतीत्यादावेकार्थत्वेऽपि सकर्मकाकर्मकत्वस्वभावत्वदर्शनाद् अत्राप्येकार्थत्वेऽपि तथा स्यादिति वाच्यम् । तत्राप्ये-कार्थत्वाभावात् । अनुकूलयत्नो हि कृञ्धात्वर्थः । यत्यर्थस्तु यत्नमात्रम् । एवं गम्यर्थ उत्तर संयोगफलकः स्पन्दः । चलत्यर्थस्तु स्पन्दमात्रम् । तथा चैकार्थकत्वे कुत्रापि न सकर्म-
कत्वाकर्मकत्वव्यवस्था । न च त्वन्मते परिणतेरकर्मकत्वात् । परिणतिविशेषभूताया वृत्तेः कथं सकर्मकत्वमिति वाच्यम् । एकस्य हि सकर्मकत्वाकर्मत्वे एकरूपेण विरुद्धे, न तु रूपान्तरेणापि, मानाभावात् । यथा स्थितेरकर्मिकाया अपि अगमनत्वेन रूपेण सकर्मकत्वम्, तथा परिणतित्वेन रूपेणाकर्मिकाया अपि वृत्तेर् ज्ञानत्वेन सकर्मकत्वं भविष्यतीत्यदोषः ।
ननु तर्ह्यतीतः प्रकाशते इति धीर्न स्यात्, इष्टापत्तेः । तत्रापि वृत्तिप्रतिबिम्बितचैतन्य- सत्त्वेन प्रकाशत इत्यादिप्रयोगसम्भवाच्च । ननु यथा अज्ञानविरोधिवृत्तावनुभवत्वं नास्ति, किन्तु अन्यत्र, तथा द्वेषविरोधिवृत्तेरन्यत्रेच्छात्वमित्यपि स्यादिति चेन्न । बाधकसत्त्वा सत्त्वाभ्यां विशेषात् । अत्रेव तत्र सकर्मकाकर्मकविलक्षणक्रियाननुभवाच्च । यथा च वृत्त्यति- रिक्तभानसिद्धिस्तथा स्वयंज्योतिष्ट्वप्रस्तावे विस्तरेण वक्ष्यामः ।
न्यायामृततरङ्गिणी
तन्नेति ॥ स्यादिति शेषः । इति च यदुक्तं तन्न स्यादिति पूर्वेणान्वयः । दृश्यस्य दृगध्यस्तत्वे प्रातिभासिकस्थल इव इन्द्रियसन्निकर्षाधीना प्रतिकर्मव्यवस्था न स्यादित्यर्थः । ननु वृत्तेः पूर्वमेव घटादीनां चैतन्येऽध्यासेन प्रातिभासिकवैलक्षण्य- मित्यत आह– स्वसन्निकृष्टेति ॥ स्वज्ञानात्पूर्वं घटादेः सत्त्वे प्रतीतिमात्रशरीरत्वा- भावेन तस्य कल्पितत्वव्यापकस्य घटादेः सकाशान्निवृत्तौ प्रतीतिमात्रशरीरत्वस्य व्याप्यभूतं यत्कल्पितत्वं तदपि घटादौ न स्यादित्यर्थः । यद्वा, सर्वस्यापि दृश्य-स्यैकस्यां दृश्यध्यस्तत्वे प्रकाशसाङ्कर्यमाशङ्क्य वृत्तिद्वारा प्रतिकर्मव्यवस्थया न साङ्कर्यमिति यच्चोक्तं परैस्तन्नेति यथान्यासमेव वाक्यार्थः । विषयेन्द्रियसन्निकर्षे बाह्येन्द्रियद्वारा निस्सृतान्तःकरणीयविषयाकारवृत्तौ प्रतिबिम्बितचैतन्येनाभिव्यक्तं विषयाधिष्ठानचैतन्यं घटादिज्ञानमिति परप्रक्रियां क्रमेणापाकर्तुं प्रथमं सन्निकर्षं दूषयति– स्वेति ॥ स्वज्ञानात्पूर्वं घटादेः सत्त्वे कल्पितत्वायोगः, असत्त्वे सन्निकर्षायोग इत्यर्थः ।
ननु कल्पितस्यैकः सामान्यधर्मः कल्पितत्वम्, अन्यस्तु प्रातिभासिकत्वं विशेषधर्मः । तत्र विशेषस्यैव प्रतीतिमात्रशरीरत्वं प्रति व्याप्यता नान्यस्येत्याशङ्क्य परिहरति– न चेति ॥ कल्पितत्वविशेषः कल्पितत्वात्सकाशाद्विशेष इत्यर्थः । यथाश्रुते प्रातिभासिकत्वस्य कल्पितत्वे अवृत्तेर्न तस्य तद्विशेषत्वमिति ध्येयम् ॥ गौरवादिति ॥ यद्यपि कल्पितत्वप्रातिभासिकत्ववृत्तिधर्मयोस्तत्तद्वृत्तिव्याप्त्य-वच्छेदकयोर्नैकत्र समावेश इति न नीलधूमादिवद्गौरवमव्याप्यताबीजं सम्भवति । तथापि सामान्यस्यैव व्याप्यत्वे सम्भवति न विशेषस्य तथात्वम् । यथा कर्तृजन्यत्वव्याप्यं जन्यत्वमेव न तु शरीरजन्यत्वमिति भावः । नन्वपर्वतीयधूमे धूमत्वस्यापर्वतीयधूमत्वस्य च व्याप्यतावच्छेदकत्वेन प्रसक्तौ गुरोस्त्यागेन धूमत्वस्य लघोस् तदवच्छेदकत्वे सिद्धे धूममात्रस्य वह्निव्याप्यत्वम् । प्रकृते तु न तथेत्यनुशयेन दृष्टान्तान्तरमाह– अप्रामाणिकत्वादिकमिति ॥
प्रातिभासिकत्वस्यैवेति ॥ न तु कल्पितत्वस्येत्येवशब्दार्थः । तथा च कल्पितत्वेनाप्रामाणिकत्वानुमानं न स्यादित्यर्थः । ननु कल्पितत्वस्य व्यापकं न प्रतीति मात्रशरीरत्वम् । येन तन्निवृत्त्या तन्निवर्तेत । किन्तु ज्ञाननिवर्त्यत्वमेवेत्याशङ्क्य परिहरति– न चेति ॥ दोषप्रयुक्तभानत्वमादिशब्दार्थः ॥ प्रतीतिमात्रेति ॥ तस्यापि तद्व्याप्यत्वादिति भावः । ननु कल्पितस्यापि दृश्यस्य प्रतीतिः सर्वसिद्धा । सा च तदिन्द्रियसन्निकर्षं विनाऽनुपपन्नेतीन्द्रियसन्निकर्षार्थं स्वज्ञानात्पूर्वं दृश्यस्य सत्त्वमाक्षेप्स्यतीत्यत आह– प्रतीतेस्त्विति ॥ अन्यथोपपन्नाया दृश्यप्रतीतेर्न तदाक्षेपकत्वमित्यर्थः । ननु कल्पितत्वाविशेषेऽपि वणिग्वीथिस्थरूप्यस्य शुक्तिरूप्यस्य च परीक्षितत्वापरीक्षितत्वाभ्यां स्थायित्वास्थायित्वरूपविशेषे सिद्धे स्वज्ञानात्पूर्वं सत्वं सेत्स्यतीत्यत आह– व्यावहारिकत्वस्येति ॥ स्थायित्वादे-रित्यर्थः ॥ भ्रान्तीति ॥ स्वप्नेऽपि परीक्षादेः सत्त्वादिति भावः ।
दृश्यस्य दृश्यनध्यासाय दृशं निरूपयति– तत्तदिति ॥ अपरोक्षेति ॥ तस्यां च न ज्ञेयस्याध्यास इति भावः ॥ उक्तमिति ॥ दृश्यत्वभङ्ग इति शेषः ॥ अभिव्यक्तेति ॥ एतच्चावरणदशाव्यवच्छेदाय । अपरोक्षैकरसेति घटादि-सम्बन्धेऽपि न पटादीनामापरोक्ष्यं यथा तथा चैतन्यसम्बन्धेऽपि न स्यादिति शङ्कापरिहाराय । ननु परोक्षस्थले परोक्षवृत्त्युपरक्तचैतन्यं प्रकाशः । न तु वृत्तिः । अप्रकाशरूपान्तःकरण परिणामरूपायास्तस्याः प्रकाशत्वे मानाभावात् । न च तत्र तद्विषयस्यापरोक्षप्रसङ्गः । विषये चैतन्याभिव्यक्तावेव विषयस्यापरोक्ष्यम् । न हि परोक्षस्थले तदस्ति । विषयेन्द्रियसन्निकर्षाभावेन विषयपर्यन्तं वृत्तेरगमनात् । अन्तरेव तत्र धीसमुल्लासात् । अपरोक्षस्थले तु प्रमातृचैतन्याभेदाभिव्यक्ताधिष्ठान-चैतन्योपरागो विषयेऽस्ति । अत एव तत्र विषयस्यापरोक्ष्यम् । एवं चापरोक्ष-स्थलेऽपि वृत्तिर्न विषयप्रकाशः । नतरां परोक्षस्थल इत्याशङ्क्य प्रथममपरोक्षवृत्तौ प्रकाशत्वमाह– वृत्तेरेवेति ॥ यथेच्छोपादाने अन्तःकरणे अविद्यमानमपीच्छात्वं तदुपादेयायामिच्छायामस्ति तथा प्रकाशत्वमपि वृत्तावस्त्वित्यर्थः ।
ननु अपरोक्षवृत्तेरस्तु प्रकाशत्वं, न तु परोक्षवृत्तेः प्रकाशत्वमित्यत आह ॥ अन्यथेति ॥ परोक्षवृत्तेरप्रकाशत्व इत्यर्थः । तदिति ज्ञानत्वं परामृश्यते । तेन ‘अपि’ शब्दः सम्बध्यते । ‘तदपि’ ज्ञानत्वमपि । परोक्षानुभवस्य न स्यादित्यर्थः । यथाश्रुते तु परोक्षस्थलेऽपि वृत्तेरप्रकाशत्वस्य परेणाशङ्कितत्वादसङ्गतिः स्यादिति बोध्यम् । तस्माद्वृत्तिभिन्ने घटादिज्ञाने उक्तप्रक्रियायां मानाभावात्सर्वत्र वृत्तिरेव घटादे र्ज्ञानं प्रकाशश्च । तस्यां च न ज्ञेयस्याध्यास इति भावः । वृत्तिभिन्नं घटादि-ज्ञानमस्तीत्याशङ्क्य निराकरोति– न चेति ॥ एकस्या एव वृत्तेरुभयरूपत्वं विरुद्धमिति भावः ॥ क्रियैक्य इति ॥ वृत्तेरेकत्वेऽपि तत्प्रतिपादकशब्दभेदा-त्कर्मसम्बन्धप्रतीत्यप्रतीती न विरुद्धे इति भावः । धात्वोर् जानातिकाशत्योः । उपरागः सम्बन्धः ।
ननु अर्थैक्ये शब्दभेदमात्रेण नोभयसम्भवः । करोति प्रयतत इत्यादावपि नार्थैक्यम् । अनुकूलयत्नो हि कृञ्धात्वर्थः । यत्यर्थस्तु यत्नमात्रम् । एवं गत्यर्थ उत्तरसंयोगफलकः स्पन्दः । चलत्यर्थस्तु स्पन्दमात्रमिति । मैवम् । भावनैक्येऽपि नामपदाख्यातपदाभ्यां कारकान्वयायोग्यतदन्वययोग्यरूपभावनायाः प्रतीतेरा-घोषितत्वात् । न हि भवति यागेन भावनेति । भवति तु यागेन कुर्यादिति । तदुक्तं वार्तिके । ‘यस्मादाख्यातशब्दस्य न व्यक्त्याकृतिवाचिता’ इति । प्रत्ययो भावनाया व्यक्तिमाकृतिं वा न वदति । किन्तु अव्यपदेश्यां भावनां वदतीत्यर्थः । एकमेव च कारकं कारकान्तरान्वयायोग्यं तदन्वययोग्यं च विभक्तिकारकशब्दाभ्यामभिधीयते । न हि यागेनेत्यत्र तृतीयाभिहिते कारके कारकान्तरान्वयोऽस्ति । कारकशब्दाभिहिते तु कारके कारकं कारकेणेति कारकान्तरान्वयो दृश्यते ।
तदुक्तं वार्तिके ‘कृदन्तेन हि कारकविशिष्टं द्रव्यमेवोच्यते न विभक्तिवन् निष्कृष्टशक्तिः, तथा च करणं करणेन करणायेति कारकान्तरयोगो दृश्यते इति करोतियतत्योरपि न भिन्नार्थत्वम् । उभयोरपि यत्नार्थत्वात् । तदुक्तं मणौ ‘कृञो यत्नार्थत्वात् तेनाख्यातविवरणात् तस्यापि यत्नोऽर्थ’ इति । कुसुमाञ्जलावप्युक्तं –
‘कृताकृतविभागेन कर्तृरूपव्यवस्थया ।
यत्न एव कृतिः पूर्वा परस्मिन् सैव भावना’ ॥ इति ।
यततेर्भावे नङि प्रत्यये यत्न इति भवति । करोतेः क्तिनि कृतिरिति भवतीति यत्नकृत्योरेकत्वाच्च तयोरेकार्थत्वमिति भावः ॥ अन्यथेति ॥ शब्द स्वभावानादर इत्यर्थः । परिणतेः परिणामस्य, अकर्मकत्वाद् घटः परिणमत इत्यकर्मकधातु-प्रयोगविषयत्वात् । यद्यपि नमतिः सकर्मकस् तथाप्यर्थान्तरे वर्तमानोऽकर्मकः । यथाहुः ‘धातोरर्थान्तरे वृत्तेः’ इत्यादि । सकर्मकज्ञानत्वं सकर्मकजानातिप्रयोग-विषयत्वम् । तथा च वृत्तेः परिणामत्वं वा सकर्मकजानातिप्रयोज्यत्वं वा न स्यादित्यर्थः ।
ननु एकस्य सकर्मकत्वाकर्मकत्वे एकरूपेण विरुद्धे । न तु रूपान्तरेणापि । मानाभावात् । यथा स्थितेरकर्मिकाया अप्यगमनत्वेन सकर्मकत्वं, तथा परिणति-त्वेनाकर्मिकाया अपि वृत्तेर् ज्ञानत्वेन सकर्मकत्वं भविष्यतीति चेत्, न । अत्रापि ज्ञानत्वप्रकाशत्वाभ्यामुभयरूपतोपपत्तेः । न च तयोरभेदः । तेजोज्ञानयोः साधारण- स्योपाधिरूपस्य प्रकाशत्वस्य त्वयापि वक्तव्यत्वात् । अत एव विवरणे दीपप्रभा दृष्टान्तीकृताऽविद्यानुमाने ।
अतीतमिति ॥ वृत्त्यतिरिक्तचैतन्यरूपज्ञानस्य प्रकाशत्वे अतीते चैतन्यरूप- ज्ञानाभावेन प्रकाशाभावादतीतं प्रकाशत इति धीर्न स्यादित्यर्थः । यथा च परोक्षस्थले चिद्रूपज्ञानाभावस् तथोक्तम् । घटादिषु वृत्त्यतिरिक्तचिद्रूपज्ञानानङ्गीकारे मदिष्टसिद्धिरित्याह– एवं चेति ॥ अन्यद्वारा वृत्तिद्वारा । तदुपरक्तत्वम् अनुभाव्येन सम्बन्धत्वम् । तत्प्रति अनुभाव्यं प्रति । आदिशब्देन मुख्याज्ञानाविरोधिनोऽपि मुख्यज्ञानत्वादि दृष्टविरुद्धम्, इच्छादिषु यादृशं साक्षादेवेष्यमाणोपरक्तत्वम् इष्यमाणं प्रत्यनावृतत्वम् इष्यमाणे द्वेषविरोधित्वं दृष्टं तदपेक्षया विरुद्धमित्यर्थः ॥ अन्यथेति ॥ दृष्टविरुद्धस्यापि कल्पन इत्यर्थः ।
ननु ‘तमेव भान्तमनुभाति सर्वम्’ इति श्रुत्या ब्रह्मप्रकाशमानमनुसृत्य सर्वस्य प्रकाश उच्यते । अतश्चिद्रूपघटादिज्ञानं सिध्यतीत्यत आह– तमेवेति ॥ मुण्डके ‘न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमग्निः । तमेव भान्तम् अनुभाति सर्वम्’ इत्यत्र प्रकृतस्य सूर्यप्रकाशस्येत्यर्थः । ननु सर्वशब्देन कारणाभावे सूर्यादिमात्रग्रहो न युक्तः, तस्य सर्वोपस्थापकत्वादित्यत आह– सर्वशब्दस्येति ॥ नित्यातीन्द्रियस्येति ॥ अतीतादिषु वर्तमानतादशायां चित्प्रकाश्यत्वेऽपि नित्यातीन्द्रिये सर्वदापि चित्प्रकाश्यत्वाभाव इत्यभिसन्धिः ॥
प्रकृतेति ॥ अस्य लोकस्य का गतिरित्यादाविदंशब्दः प्रकृतपर इति ‘प्रकृतां पृथिवीं वक्ति प्रश्नस्थं सर्वनाम यत्’ इति वदद्भिर्भवद्भिरप्यङ्गीकारात् । ‘तस्य भासा सर्वमिदं विभाति’ इत्यत्रेदंशब्दस्य प्रकृतपरत्वे सिद्धे तदेकार्थस्यापि सर्वशब्दस्य प्रकृत सूर्यादिपरत्वं न घटादिपरत्वमपीत्यर्थः ॥ यदादित्येति ॥ ‘यदादित्यगतं तेजः’ इत्यादिसूत्रोदाहृतस्मृतौ सूर्यादितेजसां भगवदधीनत्वरूपतत्सम्बधित्वस्यैवोक्तेरित्यर्थः ॥ शतृप्रत्ययस्येति ॥ कर्त्रर्थे लडादेशत्वाच्छतुर्भानकर्त्रुपस्थापकत्वं, तस्येति षष्ठ्या तत्पदार्थस्य ब्रह्मणो भासा सह सम्बन्धो बोध्यते । भानरूपे ब्रह्मणि भानकर्तृत्वभान- सम्बन्धस्याप्यसम्भवात्तयोरनुपपत्तिः ॥ प्रपञ्च इति ॥ ‘तमेव भान्तमनुभाति सर्वम्’ इत्यत्र प्रपञ्चकर्तृकभानरूपक्रियायाः, भान्तमिति ब्रह्मज्ञानक्रियातो भेदाव-गमादनुशब्दस्याप्यनुपपत्तिरित्यर्थः । गच्छन्तमिति । ‘अथातोऽग्निमग्निष्टोमेनानु-यजन्ति’ इत्यादौ सजातीयक्रियाभेदाभावेऽप्यनुशब्दद्योतितावधेः सकाशात्तदन्वि-तार्थस्य भेदोऽस्त्येवेति भावः ।
न्यायामृतकण्टकोद्धारः
एतावता वृत्त्या प्रतिकर्मव्यवस्थोक्ता । वृत्तिश्च विषयेन्द्रियसन्निकर्षजत्वात् स्वस्मात् पूर्वं विषयसत्त्वापेक्षा । तथा च विषयस्य सत्त्वमवश्यं स्वीकर्तव्यम् । तदङ्गीकारे कल्पितत्वं न स्यात् । तस्य प्रतीतिमात्रशरीरत्वव्याप्यत्वादित्याह– स्वसन्निकृष्टेति । ननु कल्पितत्वं न प्रतीतिमात्रशरीरत्वव्याप्यम् । प्रपञ्चे दृग्दृश्यसम्बन्धानुपपत्ति सहितोक्तानुमानेन कल्पितत्वे सिद्धे तत्सत्त्वेऽपि तदभावाद् व्यभिचारः । न च प्रपञ्चोऽपि प्रतीतिमात्रशरीर इति वाच्यम् । तस्य प्रत्यभिज्ञया स्थायित्वावगमात् । न च शुक्तिरूप्यतुल्येयं प्रत्यभिज्ञेति वाच्यम् । परीक्षितत्वापरीक्षितत्वाभ्यां विशेषादिति चेत्, मैवम् । दृग्दृश्यसम्बन्धानुपपत्तेः परिहृतत्वेन अप्रयोजकत्वेन तेन कल्पितत्वासिद्धेः प्रपञ्चे व्यभिचाराभावात् ।
यच्चोक्तं परीक्षितप्रत्यभिज्ञया प्रपञ्चस्य स्थायित्वसिद्धिरिति तदप्यशोभनम् । स्थायित्वे कल्पितत्वानुपपत्तेः । कल्पितत्वस्थायित्वयोः परस्परपरिहारेणैवोपलब्धेः । शुक्तिरजतस्य कल्पितत्वेन स्थायित्वाभावात्, ब्रह्मणः स्थायित्वेऽपि कल्पितत्वाभावात् । न च वास्तव- स्थायित्वाभावात् कल्पितत्वोपपत्तिरिति वाच्यम् । ब्रह्मणोऽपि तादृशस्थायित्वाभावेन कल्पितत्वापत्तेः । श्रुतिविरोधात्तत्र न कल्पितत्वमिति यदि, तदत्रापि तुल्यम् । तस्माद् घटादेः स्वज्ञानात्पूर्वं सत्त्वे प्रतीतिमात्रशरीरत्वव्याप्यकल्पितत्वानुपपत्तिरिति साधूक्तम् । गौरवादिति । कल्पितत्वविशेषापेक्षया कल्पितत्वमात्रस्य लघुत्वादित्यर्थः ।
ननु गौरवं प्रामाणिकमिति चेन्न । प्रमाणाभावस्योक्तत्वात् । उक्तानुमानस्य त्वप्रयोजकत्वात् । किञ्च यदि कल्पितत्वविशेषः प्रातिभासिकत्वमेव प्रतीतिमात्रशरीरत्व- व्याप्यं, न सामान्यं, तर्हि वह्नेः पर्वतातिरिक्तवृत्तिर्धूमः, अप्रामाणिकत्वं प्रति बाध्यत्व- विशेषः प्रातिभासिकत्वमेव व्याप्यं स्यात् । तथा च सर्वानुमानोच्छेदप्रपञ्चप्रामाणिकत्वे च स्यातामित्याह– वह्निमतीति । ननु घटादेः कल्पितत्वेन प्रातीतिकत्वे तत्प्रतीतिरेव न स्यात् । प्रतीतिकारणसन्निकर्षायोगादित्यत आह– प्रतीतेस्त्विति । तर्हि स्वप्नसाम्ये तद्वद् व्यावहारिकत्वं न स्यादित्यत आह– व्यावहारिकत्वस्य चेति । ननु दीर्घभ्रान्ति-विषयत्वमात्रेण कथं व्यावहारिकत्वम् ? शुक्तिरूप्यादावदर्शनादिति चेन्न । तर्हि व्यावहारिकत्वे प्रयोजकान्तराभावेन सत्त्वस्यैव स्वीकारप्रसङ्गात् । न चाप्रातिभासिकत्वं तत्र तन्त्रम् । तथा सति कल्पितत्वायोगादेरुक्तत्वात् । तत्तदाकारेति । प्रमाणाभावान्न चैतन्यकल्पना युक्तेति भावः ।
ननु विषयापरोक्षार्थम् अपरोक्षैकरसचैतन्यस्य तत्प्रकाशकत्वादि कल्प्यत इत्यत आह– विषयापरोक्ष्यं त्विति । उक्तम् । दृश्यत्वभङ्ग इति शेषः । ननु परोक्षवृत्त्याऽपि चैतन्य व्यक्त्यङ्गीकाराद् दृष्टान्तोऽसिद्ध इत्यत आह– न चेति । अभिव्यक्तेति । ननु विषयाधिष्ठानचैतन्याभिव्यक्तावेव विषयापरोक्ष्यम् । तदभिव्यक्तिश्च परोक्षस्थले नास्ति । विषयसन्निकर्षजन्यवृत्त्यैव हि तदभिव्यक्तिः । विषयसन्निकर्षश्च नास्ति । विषयस्य विप्रकृष्ट त्वादिति चेन्न । लाघवेन वृत्त्यभिव्यक्तचैतन्योपरागमात्रस्यैव विषयापरोक्ष्ये तन्त्रत्वेन परोक्षस्थले चैतन्योपरागे विषयापरोक्ष्यावश्यम्भावात् । अन्यथाऽविद्यावृत्ति-प्रतिबिम्बित चैतन्योपरागेण शुक्तिरूप्यस्याप्यापरोक्ष्यं न स्यात् । न च परोक्षस्थले चैतन्योपराग एव नेति वाच्यम् । तदुपरागाभावे तत्प्रकाश्यत्वानुपपत्तेः । न च वृत्तिद्वारकसम्बन्धात् तदुपपत्तिरिति वाच्यम् । वृत्तेरप्यान्तरत्वेन तत्सम्बन्धानुपपत्तेः । वृत्तिद्वारकसम्बन्धोपपत्तौ वा तत एवापरोक्षस्थलेऽपि प्रकाशोपपत्तावाध्यासिकसम्बन्ध-स्वीकारवैयर्थ्यापत्तेः ।
न चापरोक्षवृत्त्यभिव्यक्तचैतन्योपरागो विषयापरोक्ष्ये प्रयोजक इति वाच्यम् । एवं तर्ह्यावश्यकवृत्तिगतपरोक्षापरोक्षत्वाभ्यामेव विषयपरोक्षत्वापरोक्षत्वयोरुपपत्तौ चैतन्याभि व्यक्तिकल्पनावैयर्थ्यात् । न चाऽपरोक्ष्ययोग्यस्य चिदुपराग आपरोक्ष्यकारणमिति वाच्यम् । तथा सत्यापरोक्ष्ययोग्यतायां चिदुपरागः, सति च तस्मिन्नापरोक्ष्य योग्यत्व-मित्यन्योन्याश्रयात् । अत एव वृत्तिगतापरोक्षत्वजातिखण्डनमपि परास्तम् । प्रत्यभिज्ञायामपरोक्षत्वस्यैव स्वीकारेण जातिसाङ्कर्याभावात् । अंशे परोक्षत्वानङ्गीकारेण अव्याप्यवृत्तित्वाभावाच्च । इन्द्रियत्वेनेन्द्रियजन्यत्वादिरूपोपाधिरूपस्यापरोक्षत्वस्य सम्भवाच्च । परोक्षस्थले चैतन्याभिव्यक्तिस्वीकारे विवरणे परोक्षस्थले सुषुप्तिनिवृत्ति-मात्रमित्युक्तत्वेन तद्विरोधाच्च ।
ननु वृत्तेरपरोक्षानुभवत्वे स्वप्रकाशत्वमपि स्यात् । तस्य तन्नियतत्वादित्यत आह । वृत्तेरिति । न चान्तःकरणरूपोपादानानिष्ठं तदुपादेयनिष्ठं कथमिति वाच्यम् । ज्ञानत्वादि वदुपपत्तेः । अन्यथेति । यदि उपादानानिष्ठत्वात् तदुपादेयापरोक्षवृत्तेः स्वप्रकाशत्वं न स्यात् तदेत्यर्थः । तन्न स्याज् ज्ञानत्वादिकं न स्यादित्यर्थः । ज्ञानत्वादेरपरोक्षानु-भवोपादानानिष्ठत्वादिति भावः । इदं चापरोक्षानुभवस्य स्वप्रकाशत्ववचनं प्राभाकर-मतमाश्रित्योक्तम् । न वस्तुतः । परोक्षापरोक्षानुभवयोर्वृत्तिरूपयोः साक्षिवेद्यत्वादिति । ननु घटादौ वृत्त्यन्यानुभवो नास्ति, प्रमाणाभावादिति न युक्तम् । अनुभवस्यैव प्रमाणत्वादित्याशङ्क्य निषेधति– न चेति । एकस्या एव विलक्षणधातुप्रतिपाद्यत्वेन सकर्मकत्वाकर्मकत्वयोरुपपत्तौ न क्रियाभेदो युक्त इति सदृष्टान्तमाह– क्रियैक्येऽपीति ।
ननु दृष्टान्तेऽर्थैक्यमसिद्धम् । कृधातोरनुकूलयत्नोऽर्थः । यतिधातोस्तु यत्नमात्रम् । एवं गम्यर्थ उत्तरसंयोगफलकः स्पन्दः । चलत्यर्थस्तु स्पन्दमात्रम् । अन्यथा सकर्मकाकर्मकत्वव्यवस्था न स्यादिति चेन्न । एवं तर्हि वृत्तेरपि अनुकूलत्वादिना सकर्मकत्वम् । केवलाया अकर्मकत्वमित्यस्तु । यथा त्वन्मते वृत्तेः परिणति-त्वेनाकर्मकत्वं, ज्ञानत्वेन सकर्मकत्वं तथेत्यभ्युपगन्तव्यम् । न चैतन्यरूपं ज्ञानान्तरम् । अन्यथा यतिचलत्यादेर्यत्नाद्यन्य एवार्थः स्यात् ।
किञ्च कृयत्योर्न भिन्नार्थत्वम् । तथाऽननुभवात् । अनुकूलता तु पदान्तरसमभि- व्याहारलभ्या । न तु कृधात्वर्थः । अन्यथा यत्नार्थकाख्यातव्याख्यानं कृञा न स्यात् । व्याख्यानव्याख्येययोरेकार्थत्वात् । न हि भिन्नार्थेन व्याख्यानम् । अतिप्रसङ्गात् । एवं गमिचलत्योरेकार्थत्वमेव । उत्तरसंयोगस्तु फलम् । न हि फलं धात्वर्थे प्रविशति ।
अन्यथा स्वर्गस्यापि यज्यर्थत्वापत्तेः । सकर्मकत्वाकर्मकत्वव्यवस्था तु धातुस्वभावा-देवोपपन्ना । अयमेव धातुस्वभावो यत् कर्माकाङ्क्षाजनकक्रियाप्रतिपत्तिजनकत्वम् । अतो नोक्तदोषः । अथवा भिन्नभिन्नरूपेण सर्कमकत्वाकर्मकत्वे क्रियायामेव भवेताम् । तथापि न क्रियाभेदः । एवं वृत्तेरपीति क्व तदन्यचैतन्यरूपं ज्ञानमित्यलम् । अन्यथेति । यदि सकर्मकत्वाकर्मकत्वाभ्यां व्यक्तिभेदस्तदेत्यर्थः । अतीत इति । न च तत्रापि चैतन्याभिव्यक्तिरङ्गीक्रियत इति वाच्यम् । चैतन्याभिव्यक्तौ विषयापरोक्ष्यापातात् । अन्यथा तद्वैयर्थ्यात् । अनुभव विरुद्धा चैषा कल्पनेत्याह– एवं चेति ॥ अनुभव-विरोधान्नैवं कल्प्यमिति भावः ॥ अन्यथेति ॥ यद्यनुभवविरुद्धं घटाज्ञानाविरोधिचैतन्यं कल्प्यते तदेत्यर्थः । यथा चैतत्तथोक्तं दृश्यत्वभङ्गे ।
ननु श्रुत्या चैतन्यरूपं ज्ञानमङ्गीक्रियत इति तत्राह– तमेवेति ॥ ननु सर्वशब्दस्या-सङ्कुचितवृत्तित्वेन तं भान्तमनु सर्वं घटादिकं भातीत्यर्थे घटादिविषये चैतन्यरूपं ज्ञानमायातीति चेत् तत्राह सर्वशब्दस्येति । किञ्च सर्वमिदं विभातीति इदंशब्दप्रयोगाच्च सङ्कोचः सर्वशब्दस्य कार्यः । तस्य प्रकृतपरत्वात् । अन्यथा तस्य वैयर्थ्यादित्याह– प्रकृतेति ॥ स्मृतिसमाख्यानाच्च सर्वशब्दसङ्कोच इत्याह– एतदिति ॥ अन्यथैतद्वाक्य- निर्णायकसूत्रे सङ्कोचकस्मृत्युदाहरणं त्वद्भाष्यादौ न स्यादिति भावः । त्वन्मत इति । न च द्रष्टुर्दृष्टेरित्यादिवत् प्रत्ययादिकं भाक्तमिति वाच्यम् । बाधकं विना बहूनां भाक्तत्व- वर्णनस्यानुचितत्वात् । अन्यथा आनन्दादिरूपताऽप्यौपचारिकी स्यात् । अत्रापि आनन्दं ब्रह्मण इत्यादिश्रुतेः । नन्वनुशब्दस्य क्रियाभेदोपपादकत्वं क्व दृष्टमित्यत आह– गच्छन्तमिति । अन्यथैकस्मिन् गच्छत्यनुशब्दप्रयोगः स्यादिति भावः । तथा च प्रमाणा- भावान्न वृत्त्यतिरिक्तं चैतन्यरूपं ज्ञानं कल्पनीयम् ।
न्यायामृतप्रकाशः
एवमनूदितां प्रक्रियां दूषयति– तन्नेत्यादिना ॥ प्रतिकर्मव्यवस्थासिद्ध्यर्थं चैतन्यस्य विषयप्रकाशकत्वार्थम् इन्द्रियसन्निकर्षद्वारिका वृत्तिः कल्प्यते । तत्रादौ सन्निकर्ष एवायुक्तः । तथा च तदधीनवृत्तिद्वारकं यद् विषयोपरक्तत्वं तेन चैतन्यस्य विषयप्रकाशकत्वमयुक्तम् । अस्तु वा चैतन्यस्य विषयप्रकाशकत्वं तथापि देहान्तरेव वृत्त्यवस्थानोपपत्तेर्देहाद्बहिर्वृत्ते र्निर्गमनकल्पनमप्रामाणिकम् । अस्तु वा देहाद्बहिर्वृत्तेर्निस्सरणं, तथापि तस्या एवाज्ञान-निवर्तकत्वेन विषयप्रकाशकत्वोपपत्तौ तत्प्रतिबिम्बितचैतन्यं तदभेदेनाभिव्यक्ताधिष्ठान चैतन्य-मिति चैतन्यद्वयकल्पनमप्रामाणिकमित्येवमुत्तरग्रन्थप्रवृत्तिरिति निष्कर्षः । तत्र प्रतिकर्म व्यवस्था सिद्ध्यर्थं चैतन्यस्य विषयप्रकाशकत्वसिद्ध्यर्थं च विषयसन्निकृष्टेन्द्रियजन्यवृत्ति द्वारकस्सम्बन्धः कल्पितः ।
तत्रादौ सन्निकर्षं खण्डयति– स्वसन्निकृष्टेत्यादिना ॥ चैतन्यस्य विषयप्रकाशकत्व-सिद्ध्यर्थं सन्निकर्षकथनमयुक्तम् । तथात्वे सन्निकर्षात्पूर्वं घटादेः सत्त्वं स्यात् । अन्यथा सन्निकर्षस्यैवायोगात् । न च सन्निकर्षात्पूर्वं घटादिकमस्त्येवेति वाच्यम् । तथात्वे त्वदङ्गी-कृतकल्पितत्वायोगात् । कुत इति चेत् । कल्पितत्वे प्रतीतिमात्रशरीरकत्वस्य प्रयोजकत्वेन कल्पितत्वाङ्गीकारे प्रतीतिमात्रशरीरकत्वापत्त्या सन्निकर्षजन्यज्ञानात्पूर्वं घटादेरसत्त्वेन सन्निकर्षस्यैवायोगादित्यर्थः । एवमापादयतः प्रातिभासिकत्वातिरिक्तं व्यावहारिकत्वं नास्तीति हृदयम् । ननु न कल्पितत्वं प्रतीतिमात्रशरीरत्वव्याप्यं किन्तु कल्पितत्वविशेषः प्राति-भासिकत्वमेव । एवं च प्रकृते कल्पितत्वाङ्गीकारे न प्रतीतिमात्रशरीरत्वप्राप्तिः । तथा च सन्निकर्षात्पूर्वं घटादेः सत्त्वोपपत्त्या युक्तः सन्निकर्ष इत्याशङ्क्य निराकरोति– न चेति ॥ गौरवादिति ॥ कल्पितत्वं सामान्यरूपत्वेन सर्वग्राहकत्वाल्लघुभूतं, प्रातिभासिकत्वं तु कल्पितत्वविशेषरूपत्वाद्गुरुभूतमित्यर्थः ।
ननु विपरीतमेव गौरवं किं न स्यादित्यतोऽतिप्रसङ्गमाह– वह्निं प्रतीति ॥ वह्निमत्त्वं प्रति धूमविशेषोऽपर्वतीयधूम एवास्तु व्याप्यः । महानसादौ दर्शनात् । विशेषरूपत्वेन लाघवात् । ततश्चापर्वतीयधूमस्य पक्षेऽभावेन स्वरूपासिद्ध्या तेन वह्निर्न सिद्ध्येत् । तथाऽप्रामाणिकत्वं प्रति कल्पितत्वविशेषः प्रातिभासिकत्वमेव व्याप्यमस्तु न कल्पितत्वम् । तथा च तेनाप्रामाणिकत्वानुमानं न स्यात् । एवं च घटादीनां प्रामाणिकत्वापातः । अतस्त्वया विशेषस्य गुरुभूतत्वात्सामान्यं धूमवत्त्वमेव कल्पितत्वमेव च वह्निमत्त्वम् ।
अप्रामाणिकत्वं च प्रति व्याप्यमिति वाच्यम् । तत्प्रकृतेऽपि तुल्यमिति न विपरीत गौरवमिति भावः । दोषप्रयुक्तज्ञानत्वमादिशब्दार्थः । ननु प्रतीतिमात्रशरीरत्वव्याप्यं कल्पि-तत्वमित्ययुक्तम् । अप्रयोजकत्वात् । कल्पितत्वेऽपि प्रतीतिमात्रशरीरत्वाभावोपपत्तेः । ननु प्रतिभासमात्रशरीरत्वाभावे कल्पितत्वमेव न स्यादिति हेतूच्छित्तिरेव बाधिकेति चेन्न । प्रतिभासमात्रशरीरत्वाभावेऽपि ज्ञाननिवर्त्यत्वेन कल्पितत्वोपपत्तेरिति तर्केणाप्रयोजकत्वमेवेति न कल्पितत्वस्य प्रतीतिमात्रशरीरत्वव्याप्यत्वसिद्धिरित्याशङ्क्य निषेधति– न चेति ॥ प्रतीतिमात्रशरीरत्वाभावमङ्गीकृत्य कल्पितत्वस्य ज्ञाननिवर्त्यत्वेनोपपत्तिर्वक्तुं न युज्यते । प्रतीतिमात्रशरीरत्वाभावेनैव ज्ञाननिवर्त्यत्वाभावस्यापाद्यमानत्वादित्याह– प्रतीतीति ॥ तथा च नाप्रयोजकत्वमिति भावः । ननु कल्पितस्यापि दृश्यस्य प्रतीतिस्तावत्सर्वसिद्धा । सा चेन्द्रियसन्निकर्षं विनाऽऽनुपपन्नेतीन्द्रियसन्निकर्षार्थं स्वज्ञानात्पूर्वं दृश्यस्य सत्त्वमङ्गीकार्य- मित्यत आह– प्रतीतेश्चेति ॥ स्वप्नवदिति ॥ स्वाप्नप्रतीत्यन्यथानुपपत्त्या सन्निकर्षो वा तत्पूर्वं विषयसत्त्वं वा नाङ्गीक्रियते, तद्वदिति भावः ।
ननु स्वप्नवदिति दृष्टान्तो न युक्तस् तस्य प्रातिभासिकत्वेन तत्र सन्निकर्षापेक्षाभावात्, प्रपञ्चस्य तु व्यावहारिकत्वात्सन्निकर्षार्थं विषयसत्त्वमपेक्षितमिति चेत्तत्राह– व्यावहारिक त्वस्येति ॥ भ्रान्तिदैर्ध्यमात्रेणेति ॥ इदानीं बाधाभावमात्रेणेत्यर्थः ।
एवं सन्निकर्षं खण्डयित्वा वृत्त्युपारूढचैतन्येनाभेदेनाभिव्यक्ताधिष्ठानचैतन्यस्य विषय प्रकाशकत्वकल्पनप्रक्रियां खण्डयति– तत्तदाकारेति ॥ परोक्षधर्माद्याकारा वृत्तिरन्तरेव भवति । तत्र वृत्तेरेव धर्मादिप्रकाशरूपत्वं कल्पितं न चैतन्यस्य, तत्र चैतन्यप्रतिफलना-भावादित्युच्यते । तद्वदेवापरोक्षवृत्तावप्यस्त्विति भावः ॥ वृत्त्युपरागादीति ॥ वृत्त्युपारूढ- चैतन्येनाभेदेनाभिव्यक्ताधिष्ठानचैतन्यस्येत्यर्थः । ननु चैतन्यस्य विषयप्रकाशकत्वाभावे विषये आपरोक्ष्यं न स्यात् । अपरोक्षचित्सम्बन्धेनैवापरोक्ष्यस्य वक्तव्यत्वादित्यत आह– विषयेति ॥ वृत्तिगतेति ॥ वृत्तिगतापरोक्षत्वविशेषेणेत्यर्थः । परोक्षवृत्तेश्चैतन्याभिव्यञ्जकत्वाभावेन चैतन्याभिव्यञ्जकत्वार्थं स विशेषस्तवाप्यावश्यक इति भावः । तथा चापरोक्षवृत्तिविषयत्वा-देवाऽपरोक्षत्वमस्त्विति भावः । ननु परोक्षवृत्तेरिवेति दृष्टान्तो न युक्तः । तत्रापि परोक्ष-वृत्त्युपरक्तचैतन्यस्यैव विषयप्रकाशकत्वाङ्गीकारादित्यत आह– न चेति ॥ कुतो नास्तीत्यत आह– अभिव्यक्तेति ॥ एतच्चावरणदशाव्यवच्छेदाय ।
ननु चैतन्यस्य विषयप्रकाशकत्वेनापरोक्षानुभवत्वमनङ्गीकृत्य वृत्तेरेवापरोक्षत्व-मस्त्वित्युक्तमयुक्तम् । तथात्वेऽपरोक्षानुभवत्वप्रयुक्तं प्रकाशकत्वमपि वृत्तेरङ्गीकार्यं स्यात् । न चास्त्विति वाच्यम् । वृत्तेरन्तःकरणोपादानकतया उपादानेऽन्तःकरणे प्रकाशकत्वाभावेन तत्कार्यभूतायामपि वृत्तौ तदयोगादिति चेन्न । उपादानगतस्यैवोपादेये प्राप्तिरिति नियमा-भावात् । अन्तःकरणस्येच्छाकारेण परिणतत्वादुपादानान्तःकरणानिष्ठमपीच्छात्वमुपादेयेच्छा- वृत्तावङ्गीकृतम् । यथा वा अन्तःकरणानिष्ठमपि ज्ञानत्वं तदुपादेयवृत्तावङ्गीकृतम् । एवमन्तःकरणानिष्ठमपि प्रकाशकत्वं तदुपादेयवृत्तावस्तु । अन्यथा उपादानान्तःकरणा-निष्ठत्वादपरोक्षवृत्तौ प्रकाशकत्वं नास्तीत्यङ्गीकारे अन्तःकरणपरिणामपरोक्षवृत्तौ चैतन्य प्रतिफलनाभावेन तस्या एव विषयानुभवत्वप्रयुक्तं प्रकाशत्वमङ्गीकृतम् । तदपि न स्यात् । त्वन्मते उपादानेऽन्तःकरणे तस्याभावादित्याह– वृत्तेरेवेत्यादिना ॥ अन्तःकरणानिष्ठं तत् प्रकाशकत्वम् ।
अत्राद्वैतसिद्धिकारेणोक्तं सावयवं तैजसमन्तःकरणमिति परेणाङ्गीकृतत्वात्प्रकाशकत्वमपि अन्तःकरणेऽस्तीत्येतदयुक्तमिति । तन्न । न हि तैजसत्वं प्रकाशकत्वे तन्त्रम् । तथात्वे ‘तेजो वै घृतं’ ‘तेजो वै हिरण्यम्’ इत्यादिश्रुतेर्घृतादीनामपि प्रकाशकत्वापातात् । तत्र पार्थिवादिभागकल्पनेऽत्रापि तथास्त्विति तुल्यमिति । ननु वृत्तिरूपज्ञानस्य प्रकाशत्वम् अयुक्तम् । घटं जानामीति वृत्तिरूपज्ञानस्य सकर्मकत्वप्रतीतेः । घटः प्रकाशत इति प्रकाशस्याऽकर्मकत्वप्रतीतेः । अतोऽकर्मकप्रकाशश् चैतन्यरूपज्ञानमेवेत्यङ्गीकार्यमित्याशङ्क्य निराकरोति– न चेति ॥ क्रियैक्येऽपि तत्प्रतिपादकशब्दस्वभावादेव कर्मसम्बन्धप्रतीत्य-प्रतीती । यथा करोति, यतत इत्यत्र करणस्य प्रयत्नरूपत्वेन तेनैक्येऽपि करोतेः सकर्मकत्वं यततेस्त्वकर्मकत्वं दृष्टं, यथा वा गच्छति चलतीत्यत्र गमनस्य चलनत्वेऽपि गच्छतेः सकर्मकत्वं चलतेस्त्वकर्मकत्वं दृष्टमेवमिहापि वृत्तेरेव प्रकाशत्वेन तयोरैक्येऽपि ज्ञानरूपतया वृत्तेः सकर्मकत्वं, प्रकाशस्य त्वकर्मकत्वमुपपद्यत एव । सकर्मकत्वादेर्धातुस्वाभाव्या-दित्याह– क्रियैक्येऽपीति ॥
धात्वोर् जानातिकाशत्योः । उपरागः सम्बन्धः ॥ अन्यथेति ॥ शब्दस्वभावानादर इत्यर्थः । परिणतेरिति ॥ घटः परिणमत इति धात्वर्थभूतायाः परिणामरूपक्रियाया इत्यर्थः । अकर्मकत्वादिति ॥ अकर्मकधातुप्रयोगविषयत्वादित्यर्थः । परिणतिविशेषस्य अन्तःकरणपरिणतिरूपक्रियाया ज्ञानविशेषस्य । सकर्मकज्ञानत्वं सकर्मकजानातिप्रयोग-विषयत्वम् ॥ अतीतमिति ॥ वृत्तिव्यतिरिक्तस्य चैतन्यरूपज्ञानस्यैव । प्रकाशत्वेऽतीते चैतन्यरूपज्ञानाभावेन प्रकाशाभावादतीतं प्रकाशत इति धीर्न स्यादित्यर्थः । घटादौ वृत्त्यतिरिक्तचिद्रूपज्ञानाङ्गीकारे दृष्टविरुद्धं बहुकल्पनीयं स्यादित्याह– एवं चेति ॥ इष्यमाणे इच्छाविषये, यथा स्वविषये, इच्छा स्वत एव नान्यद्वारेणेत्यर्थः । अनुभाव्ये अनुभवविषये घटादौ, स्वतः प्रवणस्य स्वत एव प्रवणतास्वभावस्येत्यर्थः । अन्यद्वारा वृत्तिद्वारा । तदुपरक्तत्वम् अनुभाव्येन सम्बद्धत्वम् । तत्प्रति अनुभाव्यं प्रति । अज्ञानेनावृतत्वं वृत्त्यभावप्रयुक्तघटादिविषयकत्वाभाव इति यावत् ॥ घटाज्ञानेति ॥ घटज्ञानस्यैव घटाज्ञानविरोधित्वदर्शनादिति भावः ॥ तदिति ॥ घटाज्ञानेत्यर्थः । तदज्ञानस्फोरकत्वेन तदविरोधित्वम् । आदिपदेन सुखाज्ञानाविरोधिनश्चैतन्यस्य सुखज्ञानं त्वग्राह्यम् ॥ दृष्ट विरुद्धमिति ॥ इच्छादिषु यादृशं साक्षादेवेष्यमाणोपरक्तत्वम्, इष्यमाणं प्रत्यनावृतत्वम्, इष्यमाणे द्वेषविरोधित्वं दृष्टं तदपेक्षया विरुद्धमित्यर्थः ॥ अन्यथेति ॥ अज्ञानविरोधिन्या वृत्तेर्ज्ञानत्वानङ्गीकार इत्यर्थः । वृत्तेर् अन्तःकरणवृत्तेः । अन्यस्यैव इच्छाभिव्यक्त- चैतन्यस्यैव ।
ननु ‘तमेव भान्तम्’ इति श्रुत्या चैतन्यरूपब्रह्मप्रकाशमनुसृत्य घटादिसर्वप्रपञ्चस्य प्रकाश उच्यतेऽतश्चिद्रूपं वृत्त्यन्यज्ञानमङ्गीकार्यमित्यत आह– तमेवेति ॥ ननु सर्वशब्देन नियामकं विना सूर्यादिमात्रग्रहणमयुक्तम् । तस्य समस्तघटादिप्रपञ्चोपस्थापकत्वादित्यत आह– ॥ सर्वशब्दस्येति ॥ सर्वेभ्यः कामेभ्य इति ॥ ‘सर्वेभ्यः कामेभ्यो दर्शपूर्ण मासाभ्यां यजेत’ इति श्रूयते । चतुर्थी द्वितीयार्थे । सर्वान्कामानुद्दिश्येत्यर्थः । अत्र सर्व-शब्दः पशुपुत्रधनादिसमस्तवाची न वेति संशये नियामकं विना सर्वशब्दसङ्कोचायोगेन तस्य सर्वोपस्थापकत्वात्पशुपुत्रादिसमस्तकामनावान् दर्शपूर्णमासाभ्यां यजेतेति पूर्वपक्षे प्राप्ते सर्व-शब्दस्य सङ्कोच एव । न च नियामकाभावः । ‘दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत’ इति पूर्ववाक्ये स्वर्गकाम इत्युक्तत्वात्प्रकृतस्वर्गमात्रपरत्वमेवेति सिद्धान्तितं पूर्वतन्त्रे तद्वदित्यर्थः । सर्वशब्दस्तवापि सङ्कुचितार्थक इत्याह– त्वन्मतेऽपीति ॥ अतीतादेर्वर्तमानतादशायां चित्प्रकाश्यत्वेऽपि नित्यातीन्द्रिये कदापि चित्प्रकाश्यत्वं नास्तीत्याशयेन ‘नित्यातीन्द्रियस्य’ इत्युक्तम् ॥ सङ्कोचाच्चेति ॥ सङ्कोचस्यावश्यकत्वाच्चेत्यर्थः ।
सर्वशब्दस्य प्रकृतपरत्वज्ञापकमस्तीत्याह– प्रकृतपरेति ॥ स्मृतेरेवेति ॥ तत्र सूर्यादितेजसां मामकमिति मदधीनत्वरूपतत्सम्बन्धित्वस्यैवोक्तत्वादित्यर्थः ॥ शतृप्रत्यय-स्येति ॥ सन् सन्तौ सन्त इतिवद् भान् भान्तौ भान्त इति भाच्छब्दस्य भान्तमिति द्वितीया । शतुः कर्त्रर्थकलडादेशत्वाज्ज्ञानकर्त्रुपस्थापकत्वेन भानरूपे ब्रह्मणि भानकर्तृत्वस्या- सम्भवाच्छतृप्रत्ययस्यायोगः । तथा तस्य भासेति षष्ठ्या ब्रह्मणो भासा सम्बन्धो बोध्यते । भानरूपे च ब्रह्मणि तत्सम्बन्धासम्भवात् षष्ठ्या अयोगः । तथा ‘तमेव भान्तमनुभाति’ इत्यत्र प्रपञ्चकर्तृकभानरूपक्रियाया भान्तमित्युक्तब्रह्मभानरूपक्रियातो भेदावगमादनुशब्द-स्याप्यनुपपत्तिरित्यर्थः । क्रियाभेदे सत्येवानुशब्दप्रयोग इत्यत्रोदाहरणमाह– गच्छन्तमिति ॥
न्यायकल्पलता
तन्नेति ॥ इति च यदुक्तं तन्न स्यादिति पूर्वोक्तेनान्वयः । दृश्यस्य स्वज्ञानाध्यस्तत्वे प्रातिभासिकस्थल इवेन्द्रियसन्निकर्षाधीना प्रतिकर्मव्यवस्था न स्यादित्यर्थः । ननु वृत्तेः पूर्वमेव घटादीनां चैतन्येऽध्यासेन प्रातिभासिकवैलक्षण्यमित्यत आह– स्वसन्निकृष्टेति । स्वज्ञानात्पूर्वं घटादेः सत्त्वे प्रतीतिमात्रशरीरत्त्वाभावेन तस्य कल्पितत्वव्यापकस्य घटादेः सकाशान्निवृत्तौ प्रतीतिमात्रशरीरत्त्वस्य व्याप्यभूतं यत्कल्पितत्वं तदपि घटादौ न स्यात् । व्यापकनिवृत्या व्याप्यनिवृत्तेरावश्यकत्वादित्यर्थः । अथवा सर्वस्यापि दृश्यस्यैकस्यां दृश्य-ध्यस्तत्वे प्रकाशसाङ्कर्यमाशङ्क्य तत्तद्वृत्तिद्वारा प्रतिकर्मव्यवस्थया न साङ्कर्यमिति यच्चोक्तं परैस्तन्नेति यथान्यासमेव वाक्यार्थः । विषयेन्द्रियसन्निकर्षे सति बाह्येन्द्रियद्वारा निःसृतान्तः- करणस्य प्रकाशस्वभावस्य परिणतौ विषयाकारवृत्तौ प्रतिबिम्बितचैतन्येनाभिव्यक्तविषयाधि- ष्ठानचैतन्यं घटादि ज्ञानमिति परप्रक्रियां क्रमेणपाकर्तुं प्रथमं सन्निकर्षं दूषयति– स्वेति । स्वज्ञानात्पूर्वं घटादेः सत्वे कल्पितत्वायोगः । असत्वे सन्निकर्षायोग इत्यर्थः ।
ननु कल्पितस्यैकः सामान्यधर्मः कल्पितत्वम् । अन्यस्तु विशेषधर्मः । तच्च प्राति-भासिकत्वम् । तत्र विशेषस्यैव प्रतीतिमात्रशरीरत्वं प्रति व्याप्यता नान्यस्येत्याशङ्क्य परिहरति– न चेति । कल्पितत्वविशेषः कल्पितत्वस्य विशेषः व्याप्यो धर्म इत्यर्थः । तेन (तरङ्गिणीकाराः) कल्पितत्वात्सकाशाद्विशेष इत्यपव्याख्याय यथाश्रुते प्रातिभासि-कत्वस्य कल्पितत्वेऽवृत्तेर्न तस्य तद्विशेषत्वम्’ इति यद्दूषणं तदलग्नं वेदितव्यम् ॥ गौरवादिति । यद्यपि कल्पितत्वप्रातिभासिकत्ववृत्तिधर्मयोस्तत्तद्वृत्तिव्याप्त्यवच्छेदकयोर्नैकत्र समावेश इति न नीलधूमादिवद्गौरवमव्याप्यत्वबीजं सम्भवति तथापि सामान्यस्यैव व्याप्यत्वे सम्भवति न विशेषस्य तत्वम् । यथा कर्तृजन्यत्वव्याप्यं जन्यत्वमेव न तु शरीरजन्यत्वमिति भावः ।
नन्वपर्वतीयधूमे धूमत्वापर्वतीयत्वधूमत्वयोर्व्याप्यतावच्छेदकत्वेन प्रसक्तयोः सतोर्गुरोर-पर्वतीयधूमत्वस्य परित्यागेन धूमत्वस्य लघोस्तदवच्छेदकत्वे सिद्धे धूममात्रस्य वह्नि व्याप्यत्वम् । प्रकृते तु न तथेति चेत्, न । उभयसङ्ग्राहकस्य काल्पनिकत्वस्यैव तद्व्याप्य- त्वोपपत्तेः । काल्पनिकत्वताया एव प्रतीतिमात्रशरीरत्वव्याप्यतावच्छेदकत्वात् । उभय सिद्धत्वेन लघुत्वाच्च ।
अपरितुष्यन्तं प्रति निदर्शनान्तरमाह– अप्रामाणिकत्वादिकमिति ॥ आदिपदेन बाध्यत्वादिकं गृह्यते ॥ प्रातिभासिकत्वस्यैवेति । न तु काल्पनिकत्वस्येत्यवधारणार्थः । तथा च कल्पितत्वेनाप्रामाणिकत्वानुमानं न स्यादिति भावः । ननु ज्ञाननिवर्त्यत्वं काल्पनिकत्वस्य व्यापकं न तु प्रतीतिमात्रशरीरत्वम् । येन तन्निवृत्या तन्निवर्तेत, किन्तु ज्ञाननिवर्त्यत्वस्येत्याशङ्कामपाकरोति– न चेति । दोषप्रयुक्तभानत्वमादिशब्दार्थः ॥ प्रतीतिमात्रेति । तस्यापि तद्व्याप्यत्वादिति भावः । ननु काल्पनिकस्यापि विश्वस्य प्रतीतिः सर्वजनसिद्धा । सा च तदिन्द्रियसन्निकर्र्षं विनाऽनुपपन्नेतीन्द्रियसन्निकर्षार्थं स्वज्ञानात्पूर्वं दृश्यस्य सत्त्वमाक्षेप्स्यतीत्यत आह– प्रतीतेस्त्विति । अन्यथोपपन्नाया दृश्यप्रतीतेर्न तदाक्षेपकत्वमित्यर्थः । ननु काल्पनिकत्वाविशेषेऽपि वणिग्वीथीस्थरूप्यस्य शुक्तिरूप्यस्य च परीक्षितत्वापरीक्षितत्वाभ्यां स्थायित्वास्थायित्वरूपविशेषे सिद्धे स्वज्ञानात्पूर्वं सत्वं सेत्स्य-तीत्यत आह– व्यावहारिकत्वस्येति । स्थायित्वादेरित्यर्थः ॥ भ्रान्तीति ॥ स्वप्नेऽपि परीक्षादेस्सत्वादिति भावः ।
दृश्यस्य घटादेर्दृश्यनध्यासाय दृशं निरूपयति– तत्तदिति ॥ अपरोक्षेति । तस्यां च न ज्ञेयस्याध्यास इति भावः ॥ उक्तमिति । दृश्यत्वहेतुभङ्ग इति शेषः ॥ अभिव्यक्तेति । एतच्चावरणदशाव्यवच्छेदायोक्तम् । यथा घटादिसम्बन्धेऽपि न पटादीनामापरोक्ष्यं तथा चैतन्यसम्बन्धेऽपि न स्यादिति शङ्कापरिहारायोक्तम् अपरोक्षैकरसेति । ननु परोक्षस्थलेऽपि परोक्षवृत्त्युपरक्तचैतन्यं प्रकाशः न तु वृत्तिः । वृत्तेर्जडत्वादेव न प्रकाशकत्वम् । अप्रकाश-रूपान्तःकरणपरिणामरूपायास्तस्याः प्रकाशत्वे मानाभावात् । न च वृत्तावन्तःकरणवृत्त्यपि प्रकाशत्वं ज्ञानत्ववदिति युक्तम् । स्वप्रकाशात्मसम्बन्धेनैव तस्याः प्रकाशत्वोपपत्तेः । न च तत्राप्यपरोक्षैकरसचैतन्योपरागे विषयापरोक्ष्यप्रसङ्ग इति वाच्यम् । विषयाधिष्ठानचैतन्याभि-व्यक्तावेव विषयस्यापरोक्ष्यम् । न हि परोक्षस्थले तदस्ति । विषयेन्द्रियसन्निकर्षाभावेन विषयपर्यन्तं वृत्तेरगमनात् । अन्तरेव तत्र धीसमुल्लासात् । अपरोक्षस्थले तु प्रमातृ-चैतन्याभेदाभिव्यक्ताधिष्ठानचैतन्योपरागो विषयेऽस्ति । अत एव तत्र विषयस्यापरोक्ष्यम् । कर्मकारकत्वात् ।
एवं चापरोक्षस्थलेऽपि वृत्तिर्न विषयप्रकाशः । नतरां परोक्षस्थल इत्याशङ्क्य प्रथमं तावदपरोक्षवृत्तेः प्रकाशत्वमाह– वृत्तेरेवेति । यथेच्छोपादानेऽन्तःकरणेऽविद्यमानमपी-च्छात्वं तदुपादेयायामिच्छायामस्ति तथा प्रकाशत्वमपि वृत्तावस्त्वित्यर्थः । अन्तःकरण-स्याप्रकाशत्वाङ्गीकारे ‘तैजसं प्रकाशस्वभावम्’ इति विवरणविरोधश्चेति ज्ञेयम् । नन्वपरोक्ष-वृत्तेरस्तु प्रकाशत्वम् । न तु परोक्षवृत्तेस्तदित्यत आह– अन्यथेति । परोक्षवृत्तेरप्रकाशत्व इत्यर्थः । तदिति ज्ञानत्वं परामृश्यते । तेनापिशब्दः सम्बध्यते । ‘तदपि’ ज्ञानत्वमपि । परोक्षानुभवस्य परोक्षवृत्तेर्ज्ञानत्वं न स्यादित्यर्थः । अनिष्टान्तरापादनार्थम् अनुभवपदम् । अनुभवत्वमपि न स्यादिति बोध्यम् । किञ्च परोक्षवृत्तेर्घटवदप्रकाशत्वे तदुपरक्तं चैतन्यं प्रकाशो न स्यात् । अज्ञप्तित्वे तु ‘धर्मं जानामि’ इति तदनुव्यवसायो न स्यात् । तस्मात्परपरिकल्पितप्रक्रियायां वृत्तिभिन्ने घटादिज्ञाने च प्रमाणाभावात्सर्वत्र वृत्तिरेव घटादे-र्ज्ञानं प्रकाशश्च । तस्यां च न ज्ञेयस्याध्यास इति भावः ।
वृत्तिभिन्नं घटादिज्ञानमस्तीत्याशङ्क्य निराकरोति– न चेति । एकस्या एव वृत्तेरुभय रूपत्वं विरुद्धमिति शङ्कमानस्याशयः ॥ क्रियैक्य इति । वृत्तेरेकविधत्वेऽपि तत्प्रतिपादक शब्दभेदात्कर्मसम्बन्धप्रतीत्यप्रतीती न विरुद्धे इति भावः । धात्वोर् जानातिकाशत्योः । उपरागः सम्बन्धः । नन्वेकार्थत्वे शब्दभेदमात्रेण नोभयसम्भवः । करोति प्रयतते इत्यादावपि नैकार्थत्वम् । अनुकूलयत्नो हि कृधात्वर्थः । यत्यर्थस्तु यत्नमात्रम् । एवं गम्य(त्य)र्थ उत्तरसंयोगफलकः स्पन्दः । चलत्यर्थस्तु स्पन्दमात्रम् । तथा चैकार्थकत्वे कुत्रापि न सकर्मकाकर्मकव्यवस्थेति । मैवम् । भावनैक्येऽपि नामाख्यातपदाभ्यां कारकान्वयायोग्यतदन्वययोग्यरूपाया भावनायाः प्रतीतेराघोषितत्वात् । न हि भवति यागेन भावनेति । भवति तु यागेन कुर्यादिति ।
तदुक्तं वार्तिके– ‘यस्मादाख्यातशब्दस्य न व्यक्त्याकृतिवाचिता’ इति । लिङादिप्रत्ययो भावनाया व्यक्तिमाकृतिं वा न वदति किन्त्वव्यपदेश्यां भावनां वदतीत्यर्थः । एकमेव च कारकं कारकान्तरान्वयायोग्यं तदन्वययोग्यं च विभक्तिकारकशब्दाभ्यामभिधीयते । न हि यागेनेत्यत्र तृतीयाभिहिते कारके कारकान्तरान्वयोऽस्ति । कारकशब्दाभिहिते तु कारके कारकं कारकेणेति कारकान्तरान्वयो दृश्यते । तदुक्तं वार्तिके– ‘कृदन्तेन हि कारकविशिष्टं द्रव्यमेवोच्यते । न विभक्तिवन्निष्कृष्टशक्तिः । तथा च करणं करणेन करणायेति कारकान्तरयोगो दृश्यत इति करोतियतत्योरपि न भिन्नार्थत्वम् । उभयोरपि यत्नार्थत्वात् । तदुक्तं मणौ– ‘कृञो यत्नार्थत्वात्तेन चाख्यात विवरणात्तस्यापि यत्नोऽर्थः’ इति । कुसुमाञ्जलावप्युक्तम्–
कृताकृतविभागेन कर्तृरूपव्यवस्थया ।
यत्न एव कृतिः पूर्वापरस्मिन्सैव भावना ॥ इति ।
यततेर्भावे नङिप्रत्यये यत्न इति भवति । करोतेः क्तिनि कृतिरिति भवतीति यत्नकृत्योरेकत्वाच्च तयोरेकार्थत्वमिति । तथा च जानामीत्यनुभवस्य स्वप्रकाशचिद्रूपतया साक्षित्वेऽपि जानातेः कर्मोपरक्तक्रियावाचित्वेन घटमिति कर्मकारकोल्लेखः । दीप्त्यर्थस्य काशतेः कर्मानुपरक्तक्रियावाचित्वस्वाभाव्यात्कर्मतया घटस्यानुल्लेखः । घटे ज्ञानमिति-वद्विषयतया प्रकाशस्फुरणापरपर्यायज्ञानाश्रय इति कर्माभूतोऽपि घटः प्रकाशत इति कर्तृतया व्यपदिश्यते साक्षिरूपानुभवत्वाविशेषेऽपीति भावः ॥ अन्यथेति ॥ शब्दस्वभावानादर इत्यर्थः । परिणतेः परिणामस्य । अकर्मकत्वात् क्षीरं परिणमते इत्यकर्मकधातु-प्रयोगविषयत्वात् । यद्यपि नमतिः सकर्मकस्तथाप्यर्थान्तरवृत्त्याऽकर्मकः । यथाऽऽहुः–
धातोरर्थान्तरे वृत्तेर्धात्वर्थेनोपसङ्ग्रहात् ।
प्रसिद्धेरविवक्षातः कर्मिणोऽकर्मिका क्रिया ॥ इति ।
सकर्मकज्ञानत्वं सकर्मकजानातिप्रयोगविषयत्वम् । तथा च वृत्तेरन्तःकरणपरिणामत्वं वा सकर्मकजानातिप्रयोज्यत्वं वा न स्यादित्यर्थः । नन्वेकस्य हि सकर्मकत्वाकर्मकत्वे एकरूपेण विरुद्धे । न तु रूपान्तरेणापि । मानाभावात् । यथा स्थितेरकर्मिकाया अप्यगम-नत्वेन रूपेण सकर्मकत्वं तथा परिणतित्वेनाकर्मिकाया अपि वृत्तेर्ज्ञानत्वेन सकर्मकत्वं भविष्यतीति चेत् । मैवम् । अत्रापि ज्ञानत्वप्रकाशत्वाभ्यामुभयरूपतोपपत्तेर् आयातोऽसि मार्गेण । न च तयोरभेदः । घटं ज्ञानामि घटः प्रकाशत इति शब्दभेदेन कर्मोपरक्तक्रिया-वाचित्वतदनुपरक्तक्रियावाचित्वस्वाभाव्येनार्थविशेषप्रतीतेरनुभवसिद्धत्वात् । तेजोज्ञानयोः साधारणस्योपाधिरूपस्य प्रकाशत्वस्य त्वयापि वक्तव्यत्वात् । व्यक्त्यैक्येऽपि प्रकारभेदो-पपत्तेश्च । अत एव विवरणे दीपप्रभा दृष्टान्तीकृताऽविद्यानुमाने ॥ अतीत इति । वृत्त्यतिरिक्तस्य चैतन्यरूपज्ञानस्य प्रकाशत्त्वेऽतीते चैतन्यरूपज्ञानाभावेन प्रकाशाभावात् ‘अतीतः प्रकाशते’ इति धीर्न स्यादित्यर्थः । न च तत्रापि वृत्तिप्रतिबिम्बतचैतन्यसत्वेन प्रकाशत इत्यादि व्यवहारसम्भव इति युक्तम् । वृत्तेरेव ज्ञानत्वप्रकाशत्वोपपत्या तदति-रिक्तचैतन्यप्रकाशकल्पनस्य कफोणिगुडायितत्वेनापहस्तितत्वात् ।
घटादिषु वृत्यतिरिक्तचिद्रूपज्ञानानङ्गीकृतौ बह्विष्टसिद्धिरित्याह– एवं चेति । अन्यद्वारा वृत्तिद्वारा । तदुपरक्तत्वम् अनुभाव्येन सम्बद्धत्वम् । तत्प्रति अनुभाव्यं प्रति । आदि-शब्देन मुख्याज्ञानाविरोधिनोऽपि मुख्यज्ञानत्वादि दृष्टविरुद्धम् । इच्छादिषु यादृशं साक्षा-देवेष्यमाणोपरक्तत्वम्, इष्यमाणं प्रत्यनावृतत्वम्, इष्यमाणे द्वेषविरोधित्वं दृष्टम् । तदपेक्षया विरुद्धमित्यर्थः ॥ अन्यथेति । दृष्टविरुद्धस्यापि कल्पन इत्यर्थः । ननु ‘तमेव भान्तमनुभाति सर्वम्’ इति श्रुत्या प्रकाशमानं ब्रह्मानुसृत्य सर्वस्य प्रकाश उच्यते । अतश्चिद्रूपघटादिज्ञानं सिद्ध्यतीत्यत आह– तमेवेति । आथर्वणोपनिषदि ‘न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमग्निः । तमेव भान्तम् अनुभाति सर्वम्’ इत्यत्र प्रकृतस्य सूर्यादि-प्रकाशस्येत्यर्थः । ननु सर्वशब्देन नियामकाभावे सूर्यादिमात्रग्रहो न युक्तः । तस्य सर्वोपस्थापकत्वादित्यत उक्तं सर्वशब्दस्येति ॥
त्वन्मतेऽपीति । अतीतादेर्वर्तमानतादशायां चित्प्रकाश्यत्वेऽपि नित्यातीन्द्रिये सर्वदापि चित्प्रकाश्यत्वाभाव इत्यभिसन्धिः ॥ प्रकृतपरेदमिति । ‘अस्य लोकस्य का गतिः’ इत्यादाविदंशब्दः प्रकृतपर इति ‘प्रकृतां पृथिवीं वक्ति प्रश्नस्थं सर्वनाम यत्’ इति वदद्भिर्भवदीयैरप्यङ्गीकारात् । ‘तस्य भासा सर्वमिदं विभाति’ इत्यत्रेदंशब्दस्य प्रकृतपरत्वे सिद्धे तदेकार्थस्य सर्वशब्दस्यापि प्रकृतसूर्यादिपरत्वम् । न तु घटादिपरत्वमपीत्यर्थः ॥ यदादित्येति । ‘यदादित्यगतं तेजो जगद्भासयतेऽखिलम् । यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम्’ इति सूत्रोदाहृतस्मृतौ सूर्यादितेजसां भगवदधीनत्वरूपतत्सम्बन्धित्व-स्यैवोक्तेरित्यर्थः ॥ शतृप्रत्ययस्येति । कर्त्रर्थे लडादेशत्वाच्छतुर्भानकर्त्रुपस्थापकत्वम् । तस्येति षष्ठ्या तत्पदार्थस्य ब्रह्मणो भासा सह सम्बन्धो बोध्यते । भानरूपे च ब्रह्मणि भानकर्तृत्वभानसम्बन्धस्यासम्भवात्तयोरनुपपत्तिः ॥ प्रपञ्च इति । ‘तमेव भान्तमनुभाति’
इत्यत्र प्रपञ्चकर्तृकभानरूपक्रियायाः, भान्तमिति ब्रह्मभानक्रियातो भेदावगमात्, अनुशब्द-स्याप्यनुपपत्तिरित्यर्थः ॥ गच्छन्तमिति । ‘अथातोऽग्निमग्निष्टोमेनानुयजति’ इत्यादौ सजातीयक्रियाभेदाभावेऽपि अनुशब्दद्योतितावधेः सकाशात्तदन्वितार्थस्य भेदोऽस्त्येवेति भावः ।
श्री वनमालिमिश्रविरचितम्
न्यायामृतसौगन्ध्यं
ननु प्रतीतिमात्रशरीरत्वस्य न कल्पितत्वं व्याप्यम् । दृग्दृश्यसम्बन्धानुपपत्यादिसह- कृतोक्तानुमानात् प्रपञ्चे कल्पितत्वे सिद्धे प्रत्यभिज्ञाबलाच्च स्थायित्वे सिद्धे तत्रैव व्यभिचार इति चेन्न । सत्यस्यैव विश्वस्य दृक्सम्बन्धस्योपपादितत्वात् । अनुमानस्यापि निरस्तत्वात्, इति न कल्पितत्वस्य प्रातिभासिकव्याप्यत्वोपपत्तेः । न च परीक्षितत्वापरीक्षितत्वाभ्यां स्थायित्वास्थायित्वाभ्यां च व्यावहारिकत्वप्रातिभासिकत्वसिद्धेर्व्यभिचार इति वाच्यम् । परीक्षया विश्वस्य पारमार्थिकत्वस्यैव सिद्धेर् अस्थायिनस्सुखादेः स्थायिनस्स्वनैल्यादेः पारमार्थिकत्वप्रातिभासिकत्वदर्शनात् त्वदुक्तनियमासिद्धेः । किञ्च परोक्षवृत्तेरिवापरोक्षवृत्तेरपि प्रकाशकत्वोपपत्तौ तदुपरक्तचैतन्ये मानाभावः । न च परोक्षस्थलेऽपि परोक्षवृत्त्युपरक्त चैतन्यस्यैव प्रकाशकत्वमिति वाच्यम् । अपरोक्षैकरसचैतन्योपरागे विषयापरोक्षापातात् । ? न च विषयचैतन्यस्य विषयाप्रकाशकत्वोक्तेरुन्मत्तप्रलपितत्वात् ।
किञ्च ज्ञानाकरणकज्ञानत्वादिरूपेणाखण्डेन विशेषेणैव विषयापरोक्षोपपत्तौ तदापरोक्ष्यार्थं घटादौ चिज्ज्ञानाङ्गीकारो निरर्थकः । न च वृत्तेर्जडत्वादेव न प्रकाशकत्वमिति वाच्यम् । जडस्यैवालोकस्य प्रकाशकत्वदर्शनात् । यथा वाद्यद्व्यावृत्यपि प्रकाशकत्वं तदुपादेये तेजस्यस्ति । चित्प्रतिफलनादिकं विनैव चरमवृत्या अज्ञाननिवर्तनात् तन्निवृत्यतिरिक्त प्रकाशकार्याभावाच्च वृत्तिं विना चिज्ज्ञानेन घटादिप्रकाशाभावेनान्वयव्यतिरेकाभ्यां (स्यां) वृत्तिरेव हि घटादिज्ञानम् । न च ‘घटं जानामि’ इत्यनुभूयमानसकर्मकवृत्त्यन्या संवित्, ‘घटः प्रकाशते’ इत्याकारा अकर्मिका अनुभवसिद्धेति वाच्यम् । यथा हि एकस्यैव ज्ञानस्य ‘परिणमते’ इति पदेनाकर्मकत्वं ‘जानाति’ इत्यनेन च सकर्मकत्वं बोध्यते तथा एकस्यैव वृत्तिरूपज्ञानस्य प्रकाशतिना अकर्मकत्वं जानातिना च सकर्मकत्वं बोध्यमिति ज्ञानवैजात्ये मानाभावात् । किञ्च गच्छति चलति करोति यततीनां च समभिव्याहारेणैव सकर्मकत्वोप पत्तिर्न त्वभेदेन । अविवक्षाविरहवैशिष्ट्यं च समभिव्याहारे विशेषणम् । तेनाविवक्षितकर्मसु नाव्याप्तिः । नन्वकूलयत्नः करोत्यर्थः, यत्नमात्रं यत्यर्थः । एवम् उत्तरसंयोगफलकः स्पन्दः गम्यर्थः, स्पन्दमात्रं चलत्यर्थ इत्यर्थभेद एवेति चेन्न । समभिव्याहारेणैव तदुपपत्तौ अर्थभेद कल्पनाया गौरवग्रस्तत्वात् । अत एव ‘यत्नत्वमेवाख्यातस्य शक्यतावच्छेदकं, अनुकूलत्वं तु धात्वर्थस्य सम्बन्धतया भासते’ इति पक्षधरादावुक्तम् ।
यत्तु ‘वर्तमानत्वादिसमानाधिकरणस्यानुकूलत्वस्य लडादिसमभिव्याहारे सम्बन्धतया भानापत्या लडादेर्वर्तमानत्वादौ शक्तिविलोपापत्तेः’ इति । तन्न । वर्तमानत्वस्य धात्वर्थ-त्वात् ‘वर्तमाने लट्’ वर्तमानक्रियावृत्तेर्धातोर्लट् स्यात्’ इति वैय्याकरणोक्ते ‘वर्तमाने लट्’ इत्यत्राधिकारात् ‘धातोः’ इत्येव लभ्यते तत्र धातोर्वर्तमानत्वं न विवक्षितमिति तदर्थस्य वाच्यम् । तदर्थोऽपि प्राधान्याद्व्यापार एव गृह्यत इति न कर्तृकर्मफलेषु तत्तदन्वय इत्यपि तैरेवोक्तम् । यत्तु ब्रह्मास्तीत्यादौ ब्रह्मणि सत्ताश्रयत्वबोधे निर्धर्मितावच्छेदकबोधापत्या वैय्याकरणरीत्या सत्तायां ब्रह्माश्रयकत्वबोधेऽपि तदापत्या सत्ताया ब्रह्मकर्तृकत्वबोधे बाधस्यापत्या ‘सत्यं ज्ञानम्’ इत्यादिवाक्यवदखण्डार्थकत्वाद् एको द्वावित्यादौ सर्वमते द्वित्वप्रत्ययः साधुत्वार्थः’ इति ।
तन्न । घटोऽस्तीत्यादौ घटत्वादेरिव ब्रह्मत्वस्यैव धर्मितावच्छेदकत्वात् । न ह्यद्यापि ब्रह्मणो धर्मसामान्यशून्यत्वं सिद्धम् । वैय्यकरणमतेऽपि सत्तात्वस्यैव ब्रह्माश्रयकत्वबोधे धर्मितावच्छेदकत्वात् । सत्तायां ब्रह्मकर्तृकत्वं हि ब्रह्माश्रयकत्वमेव । वैय्याकरणैरपि ‘आत्माऽस्ति, पर्वताः सन्ति’ इत्यादौ तत्कालिकानां राज्ञां क्रियाया अनित्यत्वात् तद्विशिष्टस्योत्पत्यादिकमादाय च वर्तमानत्वं बोध्यमित्युक्तवद्भिर्विशिष्टसत्ताया अनित्यत्वम् आदायैव ‘आत्माऽस्ति’ इति प्रयोग उपपादितः ।
उक्तं हि महाभाष्ये– ‘इह हि तत्तत्कालिका राज्ञां क्रियास्तिष्ठतेरधिकरणम्’ इति । तथा च व्यापारो धात्वर्थः, फलानुकूलत्वं धात्वर्थे संसर्गतया भासते । आख्यातार्थोऽपि व्यापारः कर्ता कर्म च तथा । संयोगरूपफलभाने गमेर्विभागरूपतद्भाने त्यजेर्धातोः समभिव्याहारस्या- नियामकत्वाच्च न ‘ग्रामं गच्छति, पतत्रं त्यजति’ इति प्रयोग एवम् ? अत्राप्य? समभि व्याहारेणैव करोतिगच्छत्यादीनां सकर्मकत्वं, यतिचलत्यादीनामकर्मकत्वम् । यतिकरोत्योश्च चलतिगम्योश्च पर्यायत्वे समभिव्याहारलब्धार्थभेदेन सार्थक्यात् । त्यजिगमिस्पन्दादीनां चलत्यपर्यायता । परस्परविलक्षणक्रियावाचकत्वात्, स्वान्वितप्रत्ययार्थफलव्यधिकरणव्यापार कत्वमेव सकर्मकत्वम् ।
नन्वेवम् अन्वयव्यतिरेकाभ्यां गम्यादेरिव संयोगादिरूपफले शक्तिसिद्धिः । अन्यथा सुपामेव घटादौ शक्तिः । घटादिबोधे तत्तत्प्रकृतिसमभिव्याहारस्य हेतुत्वान्नातिप्रसङ्ग इत्या-पत्तिरिति चेन्न । अन्वयव्यतिरेकयोः समभिव्याहारेणैवोपपत्तेर् दधिमधुपत्तदेतत्किमादीनां सुपा विनैव बोधकत्वेनोक्तापत्तेरसम्भवात् । धातोर्यत्समभिव्याहारेण सिद्धं प्रत्ययार्थोत्पाद्य-विकार्यान्यतरकर्मान्वितव्यापारार्थकत्वं, तदेव कर्मस्थक्रियात्वे तन्त्रम् । कर्मवत्कर्मणा तुल्यक्रिय इति सूत्रविषयत्वे तन्त्रम् । यथेकैव भावना नामाख्यातपदाभ्यां कारकान्वया-योग्यतदन्वयायोग्यरूपा प्रतीयते, एकमेव च कारकं कारकान्तरान्वयायोग्यं तदन्वययोग्यं च विभक्तिकारकशब्दाभ्याम् अभिधीयते तथैकमेव वृत्तिरूपं ज्ञानं जानातिना सकर्मकं प्रकाशतिना चाकर्मकं बोध्यते । अन्यथा अतीतः प्रकाशते इति धीर्नस्यात् । न च तत्रापि प्रतिबिम्बितचैतन्यसत्वेन प्रकाशत इत्यादि व्यवहारः । अपरोक्षैकरसचैतन्योपरागाद्विषया-परोक्ष्यापत्तेः ।
किञ्च यथा ज्ञानविरोधिनिवृत्तावनुभवत्वं नास्ति किं तु स्वतस्तदविरोधिन्यन्यत्रास्ति तथा विषयविरोधिवृत्तेरन्यत्रेच्छात्वं स्यात् । न चात्रेव तत्र सकर्मकाकर्मकविलक्षण क्रियानुभावो नास्तीति वाच्यम् । सकर्मकत्वाकर्मकत्वाभ्यां ज्ञानवैलक्षण्यस्य निरस्तत्वात् ।