अनुकूलतर्कहीनाश्च मिथ्यात्वहेतवः
३३. दृग्दृश्यसम्बन्धानुपपत्तिभङ्गः
न्यायामृतम्
अनुकूलतर्कहीनाश्च मिथ्यात्वहेतवः । अत्र केचिन्मायिभिक्षवः–
अन्यच्चेत्संविदो नीलं न तद् भासेत संविदि ।
भासते चेत्कुतः सर्वो न भासेतैकसंविदि ॥
नियामकं न सम्बन्धं पश्यामो नीलतद्धियोः ।
इत्यादि वदद्भिरात्मख्यातिवादिभिरुक्तं ग्राह्यलक्षणाभावाख्यं तर्कं भिक्षित्वाऽऽहुः । दृश्यस्य सत्यत्वे न तावज्ज्ञानं तदसम्बद्धं प्रकाशकम्, अतिप्रसङ्गात् । नापि सम्बद्धम् । आत्मगुणस्य ज्ञानस्य ज्ञेयेन संयोगसमवाययोरयोगात् । अन्यस्य च सम्बन्धस्याभावात् । विषयविषयिभावस्य चाद्विष्ठत्वेनासम्बन्धत्वाद् दुर्निरूपत्वाच्च ।
तथा हि– विषयत्वं किं ज्ञानजन्यफलाधारत्वम् ? ज्ञानजन्यहानादिबुद्धिगोचरत्वं वा ? ज्ञानकर्मत्वं वा ? ज्ञानाकारार्पकत्वं वा? दृश्यमानत्वे सति तत्त्वं वा? ज्ञानजन्यव्यवहारयोग्यत्वं वा ? यत्सन्निकृष्टकरणेन यज्ज्ञानमुत्पद्यते, स तस्य विषय इति वा? यस्यां संविदि योऽर्थोऽवभासते स तस्या विषय इति वा ? सम्बन्धान्तर-मन्तरेण यो यज्ज्ञानावच्छेदकः स तस्य विषय इति वा ?
आद्येऽपि फलं न तावज्ज्ञातता, अनङ्गीकारात् । अतीतादावसम्भवाच्च । नापि हानादिः, गगनादौ तदयोगात् । कलधौतमलादेरपि तज्ज्ञानविषयत्वापाताच्च । नाप्यभिज्ञाभिलपने, तयोर्ज्ञेयानिष्ठत्वात् । न द्वितीयः । हानादिबुद्धीनां तदजन्यत्वात् । गोचरताया एवाद्याप्यनिरूपणाच्च । न तृतीयः । ईश्वरज्ञान-स्यातीतादिज्ञानस्य च कर्मकारकाजन्यत्वात् । न चतुर्थः, ज्ञानतदाकारयोरभेदेन सर्वेषां ज्ञानहेतूनां विषयत्वापातात् । न पञ्चमः । दृश्यमानताया एवाद्याप्य-निरूपणात् । न षष्ठः । योग्यतायां योग्यतान्तराभावात् । न सप्तमः । नित्येश्वरज्ञानस्य निर्विषयत्वापातात् ।
अष्टमेऽपि संविदीति न तावदधिकरणसप्तमी । ज्ञानस्य ज्ञेयं प्रत्यनधिकरण-त्वात् । नापि विषयसप्तमी । तस्यैव निरुच्यमानत्वात् । संविदो विषयत्वमर्थस्य विषयित्वमिति वैपरीत्यापाताच्च । नापि सति सप्तमी । भासमानताया एवाद्याप्य-निरूपणात् । न नवमः । य(म)त्समवेतं रूपज्ञानमित्यत्र रूपज्ञानात्मसमवायस्य सम्बन्धान्तरं विनैव रूपज्ञानावच्छेदकस्य तद्विषयत्वापातात् । तस्मात्सत्यत्वे दृश्यत्वानुपपत्तेर्दृग्दृश्ययोराध्यासिक एव सम्बन्ध इति ।
अद्वैतसिद्धिः
ननु मिथ्यात्वानुमानमप्रयोजकम्, सत्यत्वेऽपि दृश्यत्वोपपत्तेरिति चेन्न । दृग्दृश्य-सम्बन्धानुपपत्तेः । न हि ज्ञानं ज्ञेयासम्बद्धमेव प्रकाशकम्, अतिप्रसङ्गात् । नापि सम्बद्धम्, आत्मस्वरूपस्य तद्गुणस्य वा ज्ञानस्य ज्ञेयेन संयोगसमवाययोरभावात् । अन्यस्य चानाध्यासिकस्य सम्बन्धस्याभावात् । न च विषयविषयिभावः सः । तस्य विषयत्व-विषयित्वरूपस्य एकैकमात्रनिष्ठत्वेन द्विष्ठसम्बन्धात्मकत्वासम्भवाद्, दुर्निरूपत्वाच्च । तथा हि (१) विषयत्वं किं ज्ञानजन्यफलाधारत्वम्? किं वा (२) ज्ञानजन्यहानादिबुद्धिगोचरत्वम् ? उत (३) ज्ञानकर्मत्वम् ? (४) ज्ञानाकारार्पकत्वं वा ? (४) दृश्यमानत्वे सति तत्त्वं वा ? (६) ज्ञानजन्यव्यवहारयोग्यत्वं वा ? (७) यत्सन्निकृष्टकरणेन यज्ज्ञानमुत्पाद्यते तत्त्वं वा ? (८) यस्यां संविदि योऽर्थोऽवभासते स तस्या विषयः, तथा च संविदि भास-मानत्वमिति वा ? (९) सम्बन्धान्तरमन्तरा ज्ञानावच्छेदकत्वं वा ? आद्ये फलं न तावज् ज्ञातता, अनङ्गीकाराद्, अतीतादावभावाच्च । नापि हानादिः । गगनादौ तदभावात् । कलधौतमलादेरपि तज्ज्ञानविषयत्वप्रसङ्गाच्च । नाप्यभिज्ञाभिलपने, तयोर्ज्ञेयावृत्तित्वात् ।
न च विषयविषयिभावेन ते तत्र स्थ इति वाच्यम् । तस्यैव विचार्यमाणत्वात् । अत एव न द्वितीयोऽपि । न तृतीयः । ईश्वरज्ञानस्यातीतादिज्ञानस्य च कर्मकारकाजन्यत्वेन निर्विषयत्वप्रसङ्गात् । न चतुर्थः । ज्ञानतदाकारयोरभेदेन सर्वेषां ज्ञानहेतूनां विषयत्वापातात् । अनुमित्यादिविषये तदभावापाताच्च । न पञ्चमः । दृश्यमानत्वस्य विषयत्वघटितत्वेनात्मा-श्रयात् । न षष्ठः । योग्यतायां योग्यतान्तराभावात् । न च योग्यता योग्यतां विनैव योग्या, यथा दृश्यत्वं दृश्यत्वान्तरं विनैव दृश्यमिति वाच्यम् । अवच्छेदकरूपापरिचये योग्यताया एव ग्रहीतुमशक्यत्वात् । न च ज्ञानविषयत्वं तदवच्छेदकम्, आत्माश्रयात् । न सप्तमः । नित्येश्वरज्ञानस्य निर्विषयत्वप्रसङ्गात् । नाष्टमः, संविदीति न तावदधिकरणसप्तमी । ज्ञानस्य ज्ञेयानधिकरणत्वात् । नापि विषयसप्तमी, तस्यैव निरूप्यमाणत्वात् । संविदो विषयत्वं संवेद्यस्य च विषयित्वमिति वैपरीत्यापाताच्च । नापि सति सप्तमी । भासमानत्वस्य विषयता-घटितत्वेनाऽत्माश्रयात् । नापि नवमः । मत्समवेतं रूपज्ञानमित्यत्र रूपज्ञानसमवायस्य सम्बन्धान्तरं विनैव रूपज्ञानावच्छेदकस्य ‘इदं रूपम्’ इति ज्ञानेऽपि विषयत्वापातात् ।
न्यायामृततरङ्गिणी
दृग्दृश्यसम्बन्धानुपपत्तिरूपं पूर्वोक्तं तर्कं निराकर्तुमुत्थापयति ॥ अनुकूलेति ॥ मायिभिक्षव इति ॥ अस्य आहुरित्यनेन सम्बन्धः ॥ अन्यच्चेति ॥ नीलसंविदोर्भेदे नीलसंविदि नीलस्य भानं न स्यात् । भिन्नस्यापि भाने नीलसंविदि नीलेतरस्य धवलादेरपि भानं स्यात् । ननु नीलसंविदि नीलस्य सम्बन्धोऽस्तीति नीलं भासते, धवलादेस्तु तत्र न सम्बन्ध इति न भानमित्यत आह ॥ नियामकमिति ॥ नीलस्य नीलबुद्धेश्च वक्ष्यमाणरीत्याऽन्यः सम्बन्धो न सम्भवति । येन नियमः स्यात् । तस्मात्संविदि नीलादेरारोपितत्वमेव सम्बन्ध इति सत्यत्वे नीलादेर् दृक्दृश्यसम्बन्धानुपपत्तिरूपो बाधक-स्तर्कोऽस्ति विपक्षे इत्यर्थः । आत्मख्यातिवादिभिर् विज्ञानवादिभिः ॥ ग्राह्यलक्षणा-भावाख्यमिति ॥ ग्राह्यांशस्य घटादेरलीकत्वमभिदधाना विज्ञानवादिनो ग्राह्यलक्षणा-भावं युक्तिं तत्र वदन्ति । ग्राह्यस्य घटादेर्विषयस्य, लक्षणं विषयत्वं, तस्याभावः । तस्मा-द्विज्ञानात्मा अर्थः । अर्थस्य विज्ञानाद्भेदे तत्र विषयत्वं न स्यात् । लक्षणानिर्वचने
(कारण) सामर्थ्येनापि ज्ञानविज्ञानविषयत्वं न सम्भवतीत्यादि । एतच्च बौद्धधिक्कारे स्पष्टम् ।
ननु दृग्दृश्ययोः सम्बन्धाभावेऽपि असम्बद्धस्यैव तया प्रकाशनमस्त्वित्यत आह ॥ दृश्यस्येति । दृक्दृश्ययोराध्यासिकसम्बन्धं वक्तुं सम्बन्धान्तरं निराकरोति ॥ नापीति ॥ आत्मेति ॥ गुणत्वान्न ज्ञेयेन घटादिना सम्योगः, आत्मगुणत्वान्न समवायः सम्भव-तीत्यर्थः ॥ ज्ञानजन्यहानादीति ॥ यद्यप्येतत् करिष्यमाणप्रथमपक्षविकल्परीत्या प्रथमपक्षेऽन्तर्भवति तथापि बुद्धिगोचरत्वमित्यत्रात्माश्रयं वक्तुं पृथग्विकल्पितमिति ध्येयम् ॥ ज्ञानकर्मत्वं वेति ॥ कर्मत्वं च क्रियाजन्यफलाश्रयत्वातिरिक्तं करणव्यापार-विषयत्वादिकमत्राभिमतमतो न प्रथमविकल्पान्तर्गतिरिति बोध्यम् ॥ कलधौतेति । रूप्यज्ञानाविषयस्य रूप्यमलादेः रूप्येण सहोपादीयमानत्वाद्रूप्यज्ञानविषयत्वं स्यादित्यर्थः॥ तयोरिति ॥ तथा चासम्भव इति भावः ॥ हानादीति ॥ कण्टकादिज्ञानं कण्टकादि-कमेव प्रकाशयति । ततः कण्टकान्तरेऽनिष्टसाधनत्वं जानतः पुरुषस्य पुरोवर्तिकण्टकेऽपि तदनुमानं भवति । अनिष्टसाधनत्वाच्च हेयताबुद्धिर्जायत इत्यङ्गीकारात् हानादिबुद्धीनां कण्टकादिप्रत्यक्षजन्यत्वासम्भव इत्यर्थः ॥ विषयत्वेति ॥ अनुमित्यादिविषयेऽव्याप्तिश्च बोध्या ॥ दृश्यमानताया इति ॥ दृश्यमानत्वस्य दृग्विषयत्वरूपत्वादित्यर्थः ॥ योग्यतायामिति ॥ न च योग्यता योग्यतान्तरं विनैव योग्या यथा दृश्यत्वं दृश्यत्वान्तरं विनैव दृश्यमिति वाच्यम् । अवच्छेदकरूपापरिचये योग्यताया एव ग्रहीतुमशक्यत्वात् । ननु यस्यां संविदीत्यत्र सप्तम्यर्थो न विवक्षित इत्यत आह ॥ संविद इति ॥ नापीति ॥ यस्यां संविदि सत्यां योऽर्थोऽवभासते स विषयो भवतीत्यर्थे आत्माश्रय इत्यर्थः ॥ मत्समवेतमिति ॥ यथा रूपज्ञानमिष्टं ध्वस्तमित्यादौ इच्छादीनां रूपज्ञानावच्छेदकत्वं तथा मत्समवेतं रूपज्ञानमित्यत्र रूपज्ञानात्मसमवायस्य रूपज्ञानावच्छेदकत्वमस्तीत्यर्थः ॥ तद्विषयत्वेति ॥ इदं रूपमिति ज्ञाने विषयत्वापातादित्यर्थः ॥
न्यायामृतकण्टकोद्धारः
॥ अत्र केचिदिति । अत्र केचिन्मायिभिक्षव आत्मख्यातिवादिभिरुक्तं ग्राह्यविषया-भावलक्षणं तर्कं भिक्षित्वाऽऽहुरित्यन्वयः । कीदृशस्तर्क इत्यत उक्तम् । अन्यच्चेदिति । अस्यार्थः – नीलं नीलशब्दोपलक्षितो विषयः, संविदोऽन्यच्चेज् ज्ञानादन्यश्चेत्, तत् तर्हि, तन्नीलशब्दोपलक्षितो विषयः, संविदि, न भासेत न प्रकाशेत । सम्बन्धं विना अन्यस्मिन् अन्यप्रकाशे काश्मीरस्थेन दीपेन केरलदेशस्थोऽपि प्रकाशेतेति । यद्येवमपि भासेत तदैकस्मिन् सर्वमपि प्रकाशेत । नियामकसम्बन्धाभावादित्यतिप्रसङ्गान् नीलशब्दोपलक्षितविषयसंविदो-राध्यासिक एव नियामकसम्बन्धः स्वीकर्तव्यः । सम्बन्धान्तरानुपपत्तेरिति सम्बन्धान्तरानु-पपत्तिपूर्वकं तर्कं वक्तुमुपोद्धातमाह ॥ दृश्यस्येति ॥ अतिप्रसङ्गादिति । उक्तातिप्रसङ्गा-दित्यर्थः । आत्मगुणस्येति ॥ अत्र गुणत्वाज् ज्ञानस्य विषयेण संयोगो न सम्भवति । द्रव्ययोरेव संयोगात् । आत्मातिरिक्तविषयेण समवायो न सम्भवति । यो यस्य गुणस्तस्य तेन समवायात् । समवायस्य प्रकाशताप्रयोजकत्वे घटज्ञानमात्मप्रकाशकं स्यादित्यपि द्रष्टव्यम् ॥ अन्यस्य चेति ॥ संयोगसमवायादन्यस्येत्यर्थः । ननु विषयविषयिभावस्योक्तसम्बन्ध-द्वयातिरिक्तस्य सम्बन्धस्य सत्त्वादयुक्तमेतदित्यत आह ॥ विषयेति ॥ अद्विष्ठत्वेनेति ॥ विषयत्वस्य विषयमात्रनिष्ठत्वाद् विषयित्वस्य ज्ञानमात्रनिष्ठत्वात् तदुभयाश्रितत्वाभावादद्विष्ठ-त्वम् । सम्बन्धिद्वयाश्रितस्तदतिरिक्तः स्वयमेक एव चेत्यस्य तल्लक्षणत्वादिति भावः । ननूभय-सम्बन्धिनिरूप्यत्वं सम्बन्धसामान्यलक्षणमस्तु । न तूक्तविशेषणघटितम् । तस्य च सत्त्वादित्यत आह ॥ दुर्निरूपत्वाच्चेति ॥ विषयत्वस्येति शेषः ॥ ज्ञानजन्येति ॥ अत्र कर्तुरन्यत्वे सतीति विशेषणम् । तेन ज्ञानजन्येच्छाधारत्वेनात्मनि नातिव्याप्तिरिति द्रष्टव्यम् । यद्वा, ज्ञानत्वा-वच्छिन्नजन्यत्वं विवक्षितम् । इष्टसाधनज्ञानजन्येच्छायां ज्ञानत्वावच्छिन्नजन्यत्वाभावात् तामादाय नातिव्याप्तिरिति ॥ ज्ञानजन्यहानादीति ॥ अत्र ज्ञानजन्यहानाद्यन्यतरबुद्धिगोचरत्व-मित्यर्थः । तेनैकैकगोचरे त्रितयगोचरत्वाभावान्नासम्भव इति द्रष्टव्यम् ॥ ज्ञानकर्मत्वं वेति ॥ अत्र कर्मत्वं कर्मकारकतया जनकत्वम् । न तु तज्जन्यफलशालित्वम् । अतो न प्रथमाभेदः । कर्मत्वप्रवेशेन तज्जन्यफलाश्रयत्वप्राप्तावपि प्रकृते तादृशकर्मकारकतया जनकत्वरूपत्वेन विवक्षणान्न प्रथमाभेदः । अत एवैतत्पक्षनिराकरणावसरे कर्मकारकाजन्यत्वादिति वक्ष्यतीति भावः ॥ यत्सन्निकृष्टेति ॥ न चेन्द्रियसन्निकृष्टविषयेण जन्यज्ञाने इन्द्रियादेरपि विषयत्वं स्यादिति वाच्यम् । ज्ञाने विषयस्य करणत्वाभावात् । विषयाभावेऽपि अनुमानादिना ज्ञानजननात् । न च विषयाभावेऽनुमानादेः करणस्य तत्सन्निकर्षानुपपत्तिरिति वाच्यम् । सन्निकर्षमात्रे सम्बन्धिद्वयानपेक्षणात् । अत एव प्रतियोग्यनुयोग्यादिः सन्निकर्ष इति सर्व एव सम्प्रदायविद आहुरिति भावः ॥ अनङ्गीकारात् ॥ मायावादितत्त्ववादिभ्यामिति शेषः । तथा च तद्धटितत्वे उभयासिद्धिरिति भावः ।
ननु भट्टमतानुसारिणा मायावादिना ज्ञातताऽङ्गीक्रियत एवेत्यत आह ॥ अतीता-दाविति ॥ ननु कार्यकारणयोरभेदात् कार्याकारस्य नाशेऽपि कारणाकारस्य विद्यमानत्वात् तदाश्रिता ज्ञातता भविष्यतीति चेन्न । न हि कारणाकारज्ञानेन कार्याकारो ज्ञात इति व्यवहारः किन्तु कार्याकारज्ञानेन । तथा च यदाकारज्ञानानन्तरं ज्ञातता प्रतीयते तदाकारनिष्ठा ज्ञातता वक्तव्या । कार्याकारस्य च नष्टत्वेन तदाश्रिता ज्ञातता वक्तुं न शक्यत इति भावः ॥ कलधौतमलादेरिति ॥ यद्यपि कलधौतमलादौ हानबुद्धिर्न कलधौतमलज्ञानसाध्या । तद्धान-बुद्धेस्तदनिष्टसाधनतानुमितिसाध्यत्वात् । तद्बुद्धौ च कलधौतमलस्य पक्षत्वेन विषयत्वादिष्टा-पादनम् । तथापि कलधौतमलस्य पक्षत्वे विशेषणीभूतकलधौतस्यापि पक्षत्वात् तज्ज्ञानस्यापि परम्परया कलधौतमलहानादिबुद्धिजनकत्वात् तद्विषयत्वापादनमिति नेष्टापत्तिरिति भावः ॥ तयोरिति ॥ न चाभिज्ञाभिपलपनयोरपि विषयविषयिभावेन ज्ञेयनिष्ठत्वादिदमयुक्तमिति वाच्यम् । विषयत्वस्यैव निर्वक्तव्यत्वेनात्माश्रयात् । न च विषयत्वस्य प्रवेशो न तत्त्वेन, किन्त्वाधारत्वेनैवेति नात्माश्रय इति (वाच्यम्) । आधारत्वस्य प्रकृते विषयत्व एव पर्यवसाने-नात्माश्रयापरिहारादिति भावः ॥ न द्वितीय इति ॥ हानादिबुद्धीना(मनि)मिष्टसाधनतादि-ज्ञानसाध्यत्वादिति भावः ॥ गोचरताया इति ॥ तथा चात्माश्रय इति भावः ॥ ईश्वरस्येति ॥ कर्मत्वस्य कर्मकारकतया जनकत्वस्य विवक्षितत्वादिति भावः ॥ योग्यताया-मिति ॥ व्यवहारादियोग्योऽयमिति ज्ञाने विषयभूतायां योग्यतायां सैव योग्यता उत योग्यतान्तरम् । आद्ये आत्माश्रयात् । सैव स्वनिर्वाहिका अभिधेयत्वे अभिधेयत्ववदिति चेद् योग्यतावच्छेदकापरिचयेन योग्यत्वस्यैव ज्ञातुमशक्यत्वात् । द्वितीयेऽनवस्थापत्तेरिति भावः ॥ नित्येति ॥ अनादीत्यपि बोध्यम् । न च जन्यज्ञानविषयत्वस्यैवेदं लक्षणमिति नातिव्याप्तिरिति वाच्यम् । सामान्येन विषयत्वमात्रजिज्ञासायां विशेषलक्षणाभिधानस्यार्थान्तरग्रस्तत्वात् ।
॥ संविद इति ॥ न च संविदो विषयत्वेऽर्थस्य कथं विषयित्वम् । न ह्यर्थं प्रति विषयत्वं ज्ञानस्य विवक्षितमिति वाच्यम् । ज्ञानस्य विषयत्वं न तावत् स्वं प्रति । एकस्य विषयत्व-विषयित्वयोर्विरोधात् । नाप्यन्यं प्रति । तस्मिन्नर्थभाननियमाभावात् । अतः परिशेषादर्थं प्रत्येव विषयत्वमित्यर्थस्य विषयित्वमित्यभिप्रायेण दूषणाभिधानमिति भावः ॥ भासमानताया इति ॥ तथा चात्माश्रय इत्यर्थः । न च भासमानत्वं व्यवह्रियमाणत्वं विवक्षितमिति नोक्तदोष इति वाच्यम् । व्यवह्रियमाणत्वस्यापि व्यवहारविषयत्वरूपत्वेनात्माश्रयात् । न च तद्योग्यत्वं तत् । तदवच्छेदकापरिचयेन तस्य दुर्ज्ञानत्वादिति भावः ॥ मत्समवेतमिति ॥ इत्यत्रेत्यस्य अवच्छेदकस्येत्यनेनान्वयः । तथा चायमर्थः – रूपज्ञानात्मसमवायस्य घटो रूपवानिति ज्ञान-विषयत्वं स्यात् । तस्य रूपज्ञानं प्रति सम्बन्धान्तरं विनैवावच्छेदकत्वात् । कथं तस्या-वच्छेदकत्वमित्यत उक्तं मत्समवेतमिति ॥ अत्र हि मत्समवेतमित्यनेनान्यसमवेतरूप-ज्ञानाद्रूपज्ञानं व्यावर्त्यते । अवच्छेदकत्वस्यैव व्यावर्तकत्वात् । तथा चैवंविधविषयत्वलक्षणे रूपज्ञानात्मसमवायेऽतिव्याप्तिरिति । उपसंहरति ॥ तस्मादिति ॥
न्यायामृतप्रकाशः
दृग्दृश्ययोस्सम्बन्धानुपपत्तिरूपतर्कं निराकर्तुमुत्थापयति ॥ अनुकूलेति ॥ मायिभिक्षव इत्यस्याऽऽहुरित्यनेन सम्बन्धः । विज्ञानवादिमते ज्ञानज्ञेययोरधिष्ठानाध्यस्तभावेनाऽभेदाज् ज्ञानातिरिक्तज्ञेयप्रपञ्चः परमार्थसन्नास्त्येव । यद्यस्तीति कश्चिद्ब्रूयात्तदा तं प्रति कथयति विज्ञानवादी ॥ अन्यच्चेदिति ॥ संविदः=प्रतीतेः सकाशात्, नीलरूपादि अन्यच्चेदिति सच्चेदित्यपि ग्राह्यम् । तथा च संविन्नीलयोर्भेदे नीलं संविदि न भासेत संविदि नीलस्य भानं न स्यात् । ननु भिन्नस्यापि भानमस्तु को दोष इत्यत आह ॥ भासते चेदिति ॥ भिन्नमपि भासते चेद्विज्ञानतत्वस्यैकत्वा त्तस्मिन्भासमाने सति नीलेतरस्य धवलपीतादेरपि भानं स्यात् । ननु नीलसंविदि नीलस्य सम्बन्धोऽस्तीति नीलं भासते धवलादेस्तु न तत्र सम्बन्ध इति न भान-मित्यत आह ॥ नियामकमिति ॥ नीलस्य नीलबुद्धेश्च वक्ष्यमाणरीत्याऽन्यः सम्बन्धो न सम्भवति येन विषयनियमः स्यात् । तस्मात्संविदि नीलादेरारोपितत्वमेव सम्बन्ध इति सत्यत्वे नीलादेर्विज्ञानसम्बन्धानुपपत्तिरूपो विपक्षे बाधकतर्कोऽस्तीत्यर्थः ॥ आत्मेति ॥ आत्मा विज्ञानस्वरूपमेव नैल्याद्यात्मना ख्यायत इति वदद्भिर्विज्ञानवादिभिरित्यर्थः ॥ ग्राह्येति ॥ ग्राह्यस्य नीलादेस्सर्वथाऽलीकत्वमभिदधाना विज्ञानवादिनो ग्राह्यलक्षणाभावं तद्रूपां युक्तिं वदन्ति नीलतद्धियोः संयोगादेः सम्बन्धस्याभावाद्विषयविषयिभाव एव वक्तव्यः । अर्थस्य च विज्ञानाद्भेदे ग्राह्यस्य विषयस्य यल्लक्षणं विषयत्वं तस्याभावः । विषयत्वं निर्वक्तुमशक्यमिति यावत् । तथा चार्थस्य विषयत्वं न स्यादिति विषयस्याऽऽरोपितत्वमेव सम्बन्ध इत्याशयः ॥ भिक्षित्वेति ॥ इमं तर्कं तैर्भिक्षारूपेण गृहीत्वेति यावत् । अत एव पूर्वं मायिभिक्षव इति भिक्षास्वभावस्तेषामुक्तः । तथा च विज्ञानवाद्युक्तयुक्तिछर्दिमात्रमित्यत्र तात्पर्यम् ।
ननु दृग्दृश्ययोः सम्बन्धाभावेऽपि असम्बद्धस्यैव प्रकाशनमस्त्वित्यत आह ॥ दृश्यस्येति ॥ अतिप्रसङ्गादिति ॥ घटज्ञानं पटादेः, नीलज्ञानं धवलादेरपि प्रकाशकं स्यादित्यर्थः । दृग्दृश्य-योराध्यासिकं सम्बन्धं वक्तुं सम्बन्धान्तरं निराकरोति ॥ नापीति ॥ आत्मेति ॥ गुणत्वान्न ज्ञेयेन घटादिना संयोगः । आत्मगुणत्वान्न समवायः सम्भवतीत्यर्थः ॥ अन्यस्येति ॥ संयोगसमवायातिरिक्तद्विष्ठसम्बन्धाभावादित्यर्थः ॥ असम्बन्धत्वादिति ॥ सम्बन्धो हि सम्बन्धिभ्यां भिन्नस्तावाश्रितश्चैकश्चेति तल्लक्षणाभावादिति भावः ॥ दुर्निरूपत्वाच्चेति ॥ विषयत्वस्येति शेषः । अनेन ग्राह्यलक्षणाभावरूपस्तर्क एव विवृत इति ज्ञातव्यम् ॥ ज्ञानाकारेति ॥ ज्ञाने स्वाकारार्पकत्वमित्यर्थः । ज्ञेयस्य घटादेर्यः पृथुबुध्नोदराकारः स एव ज्ञाने भासत इति तत्सिद्धान्तः । आकाराकारिणोरभेदेन ज्ञानार्पकत्वमेवोक्तं स्यात् । तच्चेन्द्रियादिषु ज्ञानहेतुष्वतिव्याप्तमत उक्तम् ॥ दृश्यमानत्वे सतीति ॥ एतज्ज्ञानेन दृश्यमानत्वे सतीत्यर्थः ॥ इन्द्रियादेः स्वकर्मकज्ञानेन दृश्यमानत्वेऽपि स्वजन्यैतज्ज्ञानेन दृश्यमानत्वाभावान्नाति व्याप्ति-रिति भावः ॥ सम्बन्धान्तरमिति ॥ यो यज्ज्ञानावच्छेदकः स तस्य विषय इत्येवोक्ते ज्ञातर्यतिव्याप्तिः । ज्ञानावच्छेदको हि ज्ञेयः ज्ञाता च भवति । यज्ञदत्तीयं ज्ञानं, घटीयं ज्ञान-मिति व्यवहारात् । अतो ज्ञातर्यतिव्याप्तिवारणाय सम्बन्धान्तरमन्तरेणेत्युक्तम् । स तु ज्ञाता विषयविषयिभावातिरिक्तद्विष्ठसमवायरूपसम्बन्धान्तरेणैव ज्ञानावच्छेदको न तमन्तरेणेति तद्व्यवच्छेद इति भावः ॥ अतीतादाविति ॥ असति धर्मिणि धर्माजननादिति भावः ॥ गगनादाविति ॥ तज्ज्ञानानन्तरं व्याप्तत्वेन तत्र हानादेरभावादव्याप्तिरिति भावः ॥ कल-धौतेति ॥ रूप्यज्ञानादिविषयस्य रूप्यमलादेः रूप्येण सहोपादीयमानत्वाद्रूप्यज्ञानविषयत्वं स्यादित्यर्थः । अभिज्ञेति ॥ प्रत्यभिज्ञेत्यर्थः । तस्या अपि ज्ञानजन्यत्वादिति द्रष्टव्यम् ॥ प्रत्यभिज्ञाव्यवहारयोर्ज्ञातृनिष्ठत्वेन ज्ञेये तदाश्रयत्वाभावादसम्भव इत्यर्थः ॥ हानादीति ॥ कण्टकादिज्ञानं कण्टकादिस्वरूपमेव प्रकाशयति । ततः कण्टकान्तरेऽनिष्टसाधनत्वं जानतः पुरुषस्य तद्दृष्टान्तेन पुरोवृत्तिकण्टकेऽपि तदनुमानं भवति । तदनन्तरं हेयबुद्धिर्भवति इत्यस्ति क्रमः । ततश्च हानादिबुद्धीनाम् अनिष्टसाधनानुमितिजन्यत्वेन कण्टकादिप्रत्यक्षाजन्यत्वाद-सम्भव इत्यर्थः । न तृतीयः । ईश्वरज्ञानविषये घटेऽतीतादिज्ञानविषये च घटे ज्ञानकर्मत्वं नास्तीत्यव्याप्तिः । कुत इत्यत आह ॥ ईश्वरेति ॥ क्रियां कुर्वद्धि कारकम् । कर्म च कारक-विशेषः । एवञ्चेश्वरज्ञानस्य नित्यस्य कर्मजन्यत्वाभावेन विषयस्यैवाभावे अतीतादिज्ञानस्य च तदजन्यत्वात्तद्विषये ज्ञानकर्मत्वाभावेनाव्याप्तिरित्यर्थः ॥ ज्ञानहेतूनामिति ॥ ज्ञानतदाकारयोर-भेदेन ज्ञानस्वरूपार्पकत्वमेवोक्तं भवति । तच्च ज्ञानजनकेन्द्रियादिष्वतिव्याप्तमित्यर्थः ॥ न पञ्चम इति ॥ एतज्ज्ञानेन दृश्यमानत्वे सति तत्त्वमिति विवक्षायां नेन्द्रियादावतिव्याप्तिः । तेषामे-तज्ज्ञानेन दृश्यमानत्वाभावादिति पञ्चमो नेत्यर्थः ॥ दृश्यमानताया इति ॥ दृश्यमानत्वस्य दृग्विषयत्वरूपत्वादित्यर्थः ॥ योग्यतायामिति ॥ ततश्च स्वज्ञानविषयीभूतायां योग्यतायाम-व्याप्तिरिति भावः ॥ संविदो विषयत्वमिति ॥ सप्तम्या विषयार्थत्वाद्यस्यां संविदि विषय-भूतायामित्यर्थप्राप्त्या संविदो विषयत्वमापन्नमित्यर्थः ॥ सति सप्तमीति ॥ यस्यां संविदि सत्यां योऽर्थोऽवभासते विषयो भवतीत्यर्थप्राप्त्या आत्माश्रयादित्यर्थः ॥ यत्समवेतमिति ॥ रूपज्ञानं यन्निरूपितसमवायवदित्यर्थः ॥ विनैवेति ॥ रूपज्ञानात्मसमवाययोः संयोगसमवाययोर-भावादित्यर्थः । तथा च तस्य वस्तुगत्या रूपज्ञानादिकं प्रत्यवच्छेदकत्वेन इदं रूपमिति जाय-मानस्य केवलरूपज्ञानस्यापि विषयः स्यादित्यतिव्याप्तिरिति भावः । तस्माद् विषयत्वस्य दुर्निरूपत्वादित्यर्थः ॥ दृश्यत्वानुपपत्तेरिति ॥ दृग्विषयत्वानुपपत्तेरित्यर्थः ।
न्यायकल्पलता
दृग्दृश्यत्वसम्बन्धानुपपत्तिरूपं परोक्तं तर्कं निराचिकीर्षुरुत्थापयति । अनुकूलेति । मायिभिक्षव इति । अस्य आहुरित्यनेनान्वयः । अन्यच्चेदिति । संविन्नीलयोर्भेदे नीलसंविदि नीलस्य भानं न स्यात् । भिन्नस्यापि भाने नीलसंविदि नीलेतरस्य धवलपीतादेरपि भानं स्यात् । ननु नीलसंविदि नीलस्य सम्बन्धोऽस्तीति नीलं भासते । धवलादेस्तु तत्र न सम्बन्ध इति न भानमित्यत उक्तम् । नियामकमिति । नीलस्य नीलबुद्धेश्च वक्ष्यमाणरीत्याऽन्यः सम्बन्धो न सम्भवति । येन विषयनियमः स्यात् । तस्मात्संविदि नीलादेरारोपितत्वमेव सम्बन्ध
इति सत्यत्वे नीलादेर्दृश्यत्वसम्बन्धानुपपत्तिरूपो विपक्षे बाधकस्तर्कोऽस्तीत्यर्थः । आत्मख्याति- वादिभिर् विज्ञानवादिभिः । ग्राह्यलक्षणभावाख्यमिति । ग्राह्यांशस्य घटादेः सर्वथा अलीकत्व-मभिदधाना विज्ञानवादिनो ग्राह्यलक्षणाभावं युक्तिं तत्र वदन्ति । ग्राह्यस्य घटादेर् विषयस्य लक्षणं विषयत्वं तस्याभावः । तस्माद्विज्ञानात्माऽर्थः । अर्थस्य विज्ञानादन्यत्वे तत्र विषयत्वं न स्यात् । लक्षणानिर्वचने कारणसामर्थ्येनापि ज्ञानविषयत्वं न सम्भवति । नापि स्वतः । अमूर्तस्य विप्रकृष्ट-गमनाद्यनुपपत्तेरित्यादि । एतच्च बौद्धधिक्कारे स्पष्टम् । ननु दृग्दृश्ययोः सम्बन्धाभावेऽपि असम्बद्ध-स्यैव दृशा प्रकाशनमस्त्वित्यत आह– दृश्यस्येति । दृग्दृश्ययोराध्यासिकं सम्बन्धमवधारयितुं सम्बन्धान्तरं निराकरोति– नापीति । आत्मेति । गुणत्वान् न ज्ञेयेन घटादिना संयोगः । आत्मगुणत्वान्न समवायः । सम्भवतीत्यर्थः । अन्यस्यचेति । अनाध्यासिकस्येत्यर्थः। न च विषयविषयिभावः सम्बन्ध इत्याह– विषयेति । तस्य विषयत्वविषयित्वरूपस्यैकमात्रनिष्ठत्वेन द्विष्ठ-सम्बन्धात्मकत्वासम्भवादित्यर्थः । अनिर्वचनीयत्वं वक्तुं नवधा विकल्पयति । विषयत्वं किमिति । ज्ञानजन्यहानादीति । यद्यप्येतद्वक्ष्यमाणप्रथमपक्षीयविकल्परीत्या प्रथमपक्षेऽन्तर्भवति । तथापि बुद्धिगोचरत्वमित्यत्रात्माश्रयतां वक्तुं पृथग्विकल्पितमिति ज्ञेयम् । ज्ञानकर्मत्वं वेति । कर्मत्वं क्रियाजन्यफलाश्रयत्वातिरिक्तं करणव्यापारविषयत्वादिकमत्राभिमतमतो न प्रथमविकल्पान्तर्गति-रिति बोध्यम् । कलधौतेति । रजतज्ञानाविषयस्य रूप्यमलादेः रूप्येण सहोपादीयमानत्वाद्रज-तज्ञानविषयत्वं स्यादित्यर्थः । तयोरिति । तथा चासम्भव इति भावः । न च विषयविषयिभावेन ते तत्र स्त इति देश्यम् । तस्यैव विचार्यमाणत्वात् ।
हानादीति । क्षीरादिज्ञानं क्षीरादिकमेव प्रकाशयति । ततः क्षीरान्तरे इष्टसाधनत्वं जानतः पुरुषस्य पुरोवर्तिक्षीरेऽपीष्टसाधनत्वानुमानम् । इष्टसाधनत्वाच्च तत्रोपादेयताबुद्धिर्भवति । एवं कण्टकादिज्ञानं कण्टकादिकमेव गृह्णाति ततः कण्टकान्तरे अनिष्टसाधनत्वमनुभूतवतः पुरुषस्य कण्टकत्वेन पुरोवर्तिकण्टकेऽप्यनिष्टसाधनत्वमनुमिमानस्य तेन हेयताबुद्धिर्जायते । तथा चोपादानबुद्धेरिष्टसाधनताज्ञानजन्यत्वेन हानबुद्धेरनिष्टसाधनाताज्ञानसाध्यत्वेन हानादिबुद्धीनां कण्टकादिगोचरप्रत्यक्षाजन्यत्वादसम्भव इत्यर्थः । विषयत्वेति । अनुमित्यादिविषये अव्याप्तिश्च बोध्या । दृश्यमानताया इति । दृग्विषयत्वरूपत्वात्तस्या इत्यर्थः । योग्यतायामिति । न च योग्यता योग्यतान्तरं विनैव योग्या यथा दृश्यत्वं दृश्यत्वान्तरं विनैव दृश्यमिति वाच्यम् । अवच्छेदकरूपापरिचये योग्यताया एव गृहीतुमशक्यत्वात् । नच ज्ञानविषयत्वं तदवच्छेदकम् । आत्माश्रयात् । ननु यस्यां संविदीत्यत्र औपश्लेषिकाधिकरणकरूपः सप्तम्यर्थो न विवक्षितः । किन्तु विषयरूप इत्यत आह । नापीति । यस्य च भावेन भावलक्षणमिति सूत्रविहिता भावगम्यभावार्था सप्तमीत्याशंक्य निराकरोति । नापि सति सप्तमीति । सति भावार्थे या सप्तमीत्यर्थः । यस्यां संविदि सत्यां योऽर्थो भासते विषयो भवतीत्यर्थे आत्माश्रय इति भावः । मत्समवेतमिति । यथा रूपज्ञानमिष्टं ध्वस्तमित्यादाविच्छादीनां रूपज्ञानावच्छेदकत्वं तथा मत्समवेतं रूपज्ञानमित्यत्र रूपज्ञानात्मसमवायस्य रूपज्ञानावच्छेदकत्वमस्तीति इदं रूपम् इति ज्ञाने विषयत्वापातादित्यर्थः ।
न्यायामृतसौगन्ध्यम्
अनुकूलतर्कहीनाश्च दृश्यत्वादयः । न च दृक्दृश्यसम्बन्धान्यथानुपपत्या विश्वमिथ्यात्व-सिद्धिः । दृश्यस्य सत्यत्वे न तावज्ज्ञानं तदसम्बद्धं प्रकाशकं, अतिप्रसङ्गात् । नापि सम्बद्धम् । ज्ञानस्य विषयेण संयोगसमवायाद्यसम्भवात् । नापि विषयविषयिभावः, दुर्निरूप-त्वादिति आध्यासिक एव सम्बन्धः स्वीकार्यः । स च तयोर्न सम्भवतीत्यन्यतरस्य मिथ्यात्वम् । ज्ञानस्य तदसम्भवेन ज्ञेयस्यैव तदिति वाच्यम् । सर्वस्यापि दृश्यस्य ब्रह्मात्मक दृगध्यस्तत्वेऽपि कस्यचित्कदाचित् कञ्चित्प्रति प्रकाशाय त्वयापि तत्तत्सन्निकृष्टेन्द्रियजन्य-तत्तदाकारवृत्तिद्वारक एवानावृतदृक्सम्बन्धः स्वीकृतः । तथा च सत्यत्वेऽपि तत्तद्द्वारक एव सम्बन्धोऽस्तु किमाध्यासिकसम्बन्धदुर्व्यसनेन । न हि भवति विज्ञानवादिनामिव तत्तज्ज्ञाने तत्तदध्यासस्वीकारः । शुद्धदृशः स्वतो भेदाभावात् । उपाधिविशिष्टाया भेदेऽपि घटादिवत् तस्य मिथ्यात्वेनाधिष्ठानत्वायोगात् ।
न्यायामृतमाधुरी
पूर्वाभिहितदृग्दृश्यसम्बन्धानुपपत्तिरूपतर्कं प्रत्याचिख्यासुः प्रसञ्जयति । अनुकूलेति । अन्यदित्यादि । नीलरूपं संवित्प्रतियोगिकभेदविशेषितमित्युपगमे तादृशसंविदि नीलरूपा-वगाहिता न स्यात् । तुल्यदिशा नीलगोचरप्रतीतौ पीतादिभानापत्तिवारणाय स्वस्मिन् स्वभिन्नं न प्रतीयत इति नियमस्यावश्याश्रवणीयत्वात् । नीलप्रतीतौ नीलभाननियामकस्य संसर्गविशेषस्य सत्वेन तत्र तद्भानं सङ्गच्छते । पीतादौ तु तदभावेन तदापादनायोग इति तु न शङ्कनीयम् । संविदयोगिकनीलप्रतियोगिकसंसर्गस्यापि दुर्निरूपत्वात् । अतस्तादात्म्येन तादृशप्रतीतौ नीलादेरनध्यस्तत्वमेव तत्र तद्भानबीजतया स्थेयम् । तच्च तस्य विपर्यस्ततायां च सङ्गच्छत इति दृग्दृश्यसम्बन्धानुपपत्तिरूपो विपक्षे बाधकस्तर्कोऽवतरतीत्याशयः । आत्मख्यातिवादिभिर् विज्ञानवादिभिः । ग्राह्येत्यादि । ग्राह्यांशस्य घटादेरलीकतामुप-गच्छन्तो विज्ञानवादिनो ग्राह्यलक्षणाभावं तत्र युक्तिमभिदधति । ग्राह्यस्य ग्रहणयोग्यस्य घटादेर्लक्षणं विषयत्वं तदभावस्तस्माद्विज्ञानादित्यर्थः । अर्थस्य विज्ञानाद्भेदे तत्र विषयत्वं न स्यात् । लक्षणानिर्वचने कारणसामर्थ्येनापि ज्ञानविषयत्वं न सम्भवतीत्यादि स्फुटञ्चैतद्बौद्ध-धिक्कारे । अतिप्रसङ्गाद् असन्निकृष्टपदार्थविषयकप्रसङ्गात् । पारिशेष्येणाध्यासिकसम्बन्धं सिषाधयिषुः प्रसक्तान्प्रतिषेधति । नापीत्यादिना चेत्यन्तेन । यद्यपि विषयत्वगोचरनवकल्पो घटकादिप्रकल्प एव । तृतीयस्यान्तर्भावेन न तस्याद्यतुल्यकक्ष्यापन्नता, तथापि आत्माश्रय-स्याधिकस्याभिधित्सया तथाभावचिन्तनमित्यवसेयम् । प्रकृते तृतीयस्य क्रियाजन्यफल-शालित्वातिरिक्तस्य पारिभाषिककरणव्यापारविषयत्वरूपस्याभिप्रेततया तथात्वं ध्येयम् । कलधौतेति । मलस्य रजतज्ञानाविषयत्वेऽपि तेन सहोपादानादिति हृदयम् । हानादीति । भुजङ्गप्रत्यक्षोत्तरम् । अयं भुजङ्गो ऽनिष्टसाधनं भुजङ्गत्वाद्भुजङ्गान्तरवदित्यनिष्टसाधनत्वानु-मित्या हानबुद्धेर्जननादिति भावः ।
अत्रोच्यते–सर्वस्यापि दृश्यस्य ब्रह्मात्मैकदृगध्यस्तत्वेऽपि ..
न्यायामृतम्
अत्रोच्यते–सर्वस्यापि दृश्यस्य ब्रह्मात्मैकदृगध्यस्तत्वेऽपि कस्यचित्कदाचित्कञ्चित् प्रति प्रकाशाय त्वयाऽपि तत्तत्सन्निकृष्टेन्द्रियजन्यतत्तदाकारवृत्तिद्वारक एवाऽनावृत-दृक्सम्बन्धः स्वीकृतः । तथा च सत्यत्वेऽपि तद्द्वारक एव सम्बन्धोऽस्तु, किमाध्यासिकसम्बन्धदुर्व्यसनेन ? न हि त्वन्मते विज्ञानवादिमत इव तत्तदर्थास्त-त्तज्ज्ञानेऽध्यस्ताः । सत्यायाः शुद्धदृशः स्वतो भेदाभावादुपाधिविशिष्टाया भेदेऽपि घटादिवन्मिथ्यात्वेन तदधिष्ठानत्वायोगात् । उपाध्युपलक्षितायास्सत्यत्वेऽप्यभेदात् । कथञ्चिद्भेदेऽपि वृत्तिद्वारकसम्बन्धात्प्रागध्यस्तत्वरूपे सम्बन्धे सत्यपि दृश्याप्रतीतेः ।
किञ्च किं घटाकारवृत्तिप्रतिबिम्बितं चैतन्यं घटप्रकाशकम्? किं वा तदभिव्यक्तं घटाधिष्ठानचैतन्यम्? नाद्यः, आध्यासिकसम्बन्धस्यातन्त्रत्वापातात् । नान्त्यः, आवश्यकेन वृत्तिप्रतिबिम्बितेनैव प्रकाशोपपत्तौ तेनाधिष्ठानचिदभिव्यक्त्यादिकल्पना-योगात् ।
किञ्च घटाधिष्ठानस्य सत्यस्य चिन्मात्रस्य चरमसाक्षात्कारात्पूर्वं नाभिव्यक्तिः । अभिव्यक्तस्य तु घटाधिष्ठानचैतन्यस्य न तदधिष्ठानत्वम्, आत्माश्रयात् । किञ्च घटप्रकाशिकाया दृशो घटवन्मिथ्यात्वे न तदधिष्ठानत्वम् । सत्यत्वे दोषाजन्यत्वेन प्रमात्वात् सत्यं स्वविषयं प्रति नाधिष्ठानत्वमित्युभयतः पाशारज्जुः ।
यत्तूक्तं ज्ञानज्ञेययोर्न सम्बन्ध इति तन्न, गुणगुण्यादेस्संयोगासम्भवे समवायवज् ज्ञानज्ञेययोरुभयासम्भवेऽन्यस्य सम्भवात् ।
अभाववद् भूतलं, ज्ञातो घटः, इष्टो घटः, घटस्याभाव इत्यादिका परस्परा-संयुक्तासमवेतविशेषणविशेष्यविषयकविशिष्टधीः, विशेषणविशेष्यतत्सम्बन्ध-विषयिका, विशिष्टधीत्वात्, दण्डीतिविशिष्टधीवत् ।
उक्ता जन्यप्रमा विशेषणविशेष्यसम्बन्धनिमित्तिका, अबाधितविशिष्टजन्यधी-त्वात्, सम्मतवत् ।
विमता धीः, अबाधितविशेषणविशेष्यसम्बन्धविषयिका, अबाधितविशिष्टधी-त्वाद्, दण्डीति प्रमावदित्यनुमानात्तत्सिद्धेः ।
गोमांश्चैत्र इत्यादिधीरपि पक्ष एव ।
अद्वैतसिद्धिः
स्यादेतत्–सर्वस्यापि दृश्यस्य ब्रह्मात्मकदृगध्यस्तत्वेऽपि कस्यचित् कदाचित् कञ्चित् प्रति प्रकाशाय त्वयाऽपि तत्तत्सन्निकृष्टेन्द्रियजन्यतत्तदाकारवृत्तिद्वारक एवानावृतदृक्सम्बन्धः स्वीकृतः । तथा च सत्यत्वेऽपि तद्द्वारक एव सम्बन्धोऽस्तु, किमाध्यासिकसम्बन्धदुर्व्यस-नेन ? न हि भवतां विज्ञानवादिनामिव तत्तज्ज्ञाने तत्तदर्थाध्यासस्वीकारः, शुद्धदृशः स्वतो भेदाभावात् । उपाधिविशिष्टाया भेदेऽपि घटादिवत्तस्या अपि मिथ्यात्वेनाधिष्ठानत्वा-योगादिति, – चेन्न, प्रकाशस्य साक्षात् स्वसंसृष्टप्रकाशकत्वनियमेन चैतन्यस्य परम्परा-सम्बन्धेन विषयप्रकाशकत्वायोगात् । न हि प्रदीपः परम्परासम्बद्धं प्रकाशयति, अतो विषयाधिष्ठानचैतन्यमनावृतमेव प्रकाशकम्, आवरणभङ्गश्च वृत्त्या, अतो वृत्तेः पूर्व-माध्यासिकसम्बन्धे विद्यमानेऽपि दृश्याऽप्रतीतिरुपपन्ना । अत एव वृत्तिप्रतिबिम्बित चैतन्यस्य घटप्रकाशकत्वे आध्यासिकसम्बन्धस्यातन्त्रतापातः, घटाभिव्यक्तचैतन्यस्य घट-प्रकाशकत्वे आवश्यकेन वृत्तिप्रतिबिम्बितचैतन्येनैव घटप्रकाशोपपत्तौ तदधिष्ठानचिदभि-व्यक्तिकल्पनायोग इति निरस्तम् । परोक्षविलक्षणस्फुटतरव्यवहारार्थं विषयाधिष्ठानचैतन्याभि-व्यक्तिकल्पनाया युक्तत्वात् । न च – शुद्धचैतन्यस्य चरमसाक्षात्कारात्पूर्वं नाभिव्यक्तिः, अभिव्यक्तस्य च घटाद्यवच्छिन्नचैतन्यस्य न तदधिष्ठानत्वम्, आत्माश्रयादिति वाच्यम् । चरमसाक्षात्कारात् पूर्वमपि शुद्धचैतन्यस्याविद्यावशादधिष्ठानभूतस्य मूलाज्ञाननिवृत्ति-लक्षणाभिव्यक्त्यभावेऽपि तदवस्थाविशेषादिनिवृत्तिलक्षणाभिव्यक्त्या विषयप्रकाशकत्वो-पपत्तेः । न च – घटप्रकाशिकाया दृशो मिथ्यात्वे नाधिष्ठानत्वं, सत्यत्वे दोषाजन्यत्वेन प्रमात्वात् सत्यं स्वविषयं प्रति नाधिष्ठानत्वमित्युभयतः पाशारज्जुरिति वाच्यम् । यतो दोषाजन्यत्वं न प्रमात्वप्रयोजकम्, चैतन्यस्य सर्वत्र दोषाजन्यत्वात्, किन्तु दोषाजन्य-वृत्त्यवच्छिन्नत्वम्, प्रकृते च तदभावान् न विषयस्य सत्यत्वम्, अतो मिथ्याभूतविषयं प्रत्यधिष्ठानत्वं सत्याया दृशो युक्तम् ।
ननु – तात्त्विकसम्बन्धासम्भवे आध्यासिकसम्बन्धकल्पनम् ? स एव तु कुतः ? क्लृप्त-संयोगबाधे गुणगुणिनोः समवायवत्तदुभयबाधे तृतीयस्य सम्भवात् । न च तत्र मानाभावः, समवायवदनुमानाध्यक्षयोः सत्त्वात् । तथा हि परस्परासंयुक्तासमवेत विशेषणविशेष्यक-विशिष्टधीर्विशेषणविशेषसम्बन्धविषया, विशिष्टधीत्वाद् दण्डीति विशिष्ट धीवत्; उक्ता जन्यप्रमा, विशेषणविशेष्यसम्बन्धनिमित्तिका, अबाधितजन्यविशिष्टधीत्वात्, सम्मतवत्, विमता धीः, अबाधितविशेषणविशेष्यसम्बन्धविषया, अबाधितविशिष्टधीत्वाद्दण्डीति विशिष्ट- धीवत् । गोमांश्चैत्र इत्यादिबुद्धेरपि पक्षकुक्षिनिक्षेप एवेति न तत्र व्यभिचारशङ्का । तथा च संयोगसमवायातिरिक्तसम्बन्धसिद्धिरिति – चेन्न, प्रथमे द्वितीये चार्थान्तरम्, आध्यासिक-सम्बन्धस्यैव विषयत्वेन निमित्तत्वेन चोपपत्तेः । द्वितीये परोक्षधीषु व्यभिचारश्च । तृतीयेऽपि ब्रह्मज्ञानपर्यन्ताबाधितत्वेन सिद्धसाधनमेव । सर्वथा अबाधितधीविषयत्वे साध्ये साध्यवैकल्यम् ।
न्यायामृततरङ्गिणी
तथा चेति ॥ सत्यभूतानामेव घटादीनां स्वाकारवृत्तिद्वारा चैतन्यसम्बन्धोऽ-स्त्वित्यर्थः । ननु प्रकाशस्य साक्षात्स्वसंसृष्टप्रकाशकत्वनियमेन चैतन्यस्य परम्परासम्बन्धेन विषयप्रकाशकत्वायोगः । न हि प्रदीपः परम्परासम्बद्धं प्रकाशयतीति चेन्न । न हि वृत्तिद्वारक इत्यस्य परम्परासम्बन्ध इत्यर्थः किन्तु सर्वव्यापिचैतन्यस्याविद्यावृतस्य वृत्त्याऽवरणे निवृत्ते अनावृतेन चैतन्येन सत्यानामेव घटादीनां साक्षात्सम्बन्धोऽस्तु । किमर्थमाध्यासिकसम्बन्धकल्पनमित्यर्थः । ननु न वयं प्रपञ्चस्य ब्रह्मात्मकदृगध्यस्तत्वं वदामहे । येन सर्वस्य सर्वदा सर्वं प्रति प्रकाशप्रसङ्गरूपानिष्टप्रसङ्गपरिहाराय तत्तदाकार-वृत्तिद्वारकसम्बन्धापेक्षा स्यात् । किन्तु तत्तदाकारवृत्त्याऽनावृते चैतन्ये तादृशचैतन्येन साक्षादेव घटादेः सम्बन्धो घटते । अतो न तदर्थं वृत्तिरूपद्वारानुसरणमित्यत आह ॥ न हीति ॥ विज्ञानवादिमत इति । यदाहुर्विज्ञानवादिनः –
स्वप्नधीसाम्यतो बुद्धेर्बुध्द्याऽर्थस्य सहेक्षणात् ।
तद्भेदेनानिरूप्यत्वाज् ज्ञानाकारार्थ इष्यताम् ॥ इति ।
भवतां मते तु दृश्यस्य न तज्ज्ञानेऽध्यासः । किन्तु ब्रह्मात्मकदृश्ये वेत्यर्थः । ततः किमित्यत आह ॥ सत्याया इति ॥ तथा चोक्तातिप्रसङ्गभङ्गाय वृत्तिरनुसरणीयेति भावः । नन्वस्तु मम मतेऽपि घटादेस् तत्तज्ज्ञान एवाध्यास इत्यत आह ॥ उपाधीति ॥ मिथ्यात्वेनेति ॥ अधिष्ठेयाधिकसत्ताकत्वस्याधिष्ठानत्वौपयिकस्याभावादिति भावः । ननूपाध्युपलक्षितेऽप्युपाधिकृतो भेदोऽप्यस्तीत्यत आह ॥ कथञ्चिदिति ॥ दृश्याप्रतीते-रिति ॥ तथा च वृत्तिरावश्यकीत्यर्थः ॥ आध्यासिकेति ॥ घटाकारवृत्तिप्रतिबिम्बित-चैतन्ये घटप्रकाशके घटानध्यासेन दृक्दृश्ययोराध्यासिकसम्बन्धसत्त्वात् प्रकाश्यप्रकाशभाव इति कल्पनाऽनुपपन्ना स्यादित्यर्थः ॥ आवश्यकेनेति ॥ घटाधिष्ठानभूतचैतन्यं घट-प्रकाशकमिति मतेऽपि तदभिव्यक्त्यर्थं घटकारवृत्तिप्रतिबिम्बितस्य चैतन्यस्यानुसरणीयत्वा-त्तेनैव घटानधिष्ठानेन सत्यस्य घटस्य प्रकाशोऽस्तु । तरणिकिरणैरिव स्वानधिष्ठितस्य घटादेरित्यर्थः । न च परोक्षविलक्षणस्फुटतरव्यवहारार्थं विषयाधिष्ठानचैतन्याभिव्यक्ति-कल्पनेति वाच्यम् । आवश्यकेन्द्रियजन्यवृत्तिप्रतिबिम्बितचैतन्येनैव तदुपपत्तेरिति भावः । अधिष्ठानचैतन्यमधिष्ठेयस्य प्रकाशकमिति मते दोषान्तरमाह ॥ किञ्चेति ॥ सत्य-स्येत्यधिष्ठानत्वोपपादनाय ॥ नाभिव्यक्तिरिति ॥ तथा च न तेन घटादेः प्रकाशः स्यादित्यर्थः ॥ न तदधिष्ठानत्वमिति ॥ तथा च न तदपि घटादिप्रकाशकमित्यर्थः । आत्माश्रयादिति । स्वावच्छिन्नस्य स्वाधिष्ठानत्वे स्वस्यापि स्वाधिष्ठानत्वप्रसङ्गेनात्माश्रय इति । यद्वा घटस्याध्यासे सति घटस्वरूपप्रसिद्धौ चैतन्यस्य घटावच्छिन्नत्वं, तदवच्छिन्ने चैतन्ये सत्यधिष्ठानलाभे घटादेरध्यास इत्यात्माश्रय इत्यर्थः ।
ननु शुद्धचैतन्यस्यैव घटाद्यधिष्ठानत्वम् । तस्य च चरमसाक्षात्कारात्पूर्वं मूलाज्ञान-निवृत्तिरूपव्यक्त्यभावेऽपि तदवस्थाविशेषादिनिवृत्तिलक्षणाभिव्यक्त्यादिविषयप्रकाशो-पपत्तिरिति चेन्मैवम् । मूलाज्ञानं यदि नावरणं, न तर्हि तत्सिद्धिः । आवरणार्थमेव त्वयाऽज्ञानस्य साधितत्वात् । यदि तदावरणं तर्ह्येकावरणनिवृत्तावप्यावरणान्तरस्य सत्त्वे न शुद्धचैतन्यस्य घटाधिष्ठानस्याभिव्यक्तिरिति भावः । दोषान्तरमाह । किञ्च घटेति ॥ घटाधिष्ठानचैतन्यं घटप्रकाशकमिति मते मिथ्याभूतस्य घटवद् घटाधिष्ठानत्वाभावेन घटा-प्रकाशकत्वात्सत्यमेव घटाधिष्ठानं घटप्रकाशकमिति वाच्यम् । तस्य च सत्यत्वेन दोषा-जन्यतयाऽबाधितार्थकत्वरूपप्रमात्वयोगित्वेन तद्विरुद्धस्वविषयमिथ्यात्वापादनशीलं स्वविषयं प्रत्यधिष्ठानत्वं न सम्भवतीत्यर्थः । ननु दोषाजन्यत्वं न प्रमात्वप्रयोजकम् । चैतन्यस्य सर्वत्र दोषाजन्यत्वात् । किन्तु दोषाजन्यवृत्त्यवच्छिन्नत्वम् । प्रकृते च तदभावान्न विषयस्य सत्यत्वम् । अतो मिथ्याभूतस्वविषयं प्रत्यधिष्ठानत्वं सत्याया दृशोयुक्तमिति चेन्मैवम् । घटाद्याकारवृत्तेरपि सम्भावितेन्द्रियादिदोषजन्यत्वात् । अविद्यायाश्च दोषत्वा-सम्प्रतिपत्तेः । अन्यथा औतागमविषयश्रोत्रादिवृत्तेरपि अविद्यारूपदोषजन्यत्वेना-प्रमात्वापत्त्याऽद्वैतागमस्यासिद्धिप्रसङ्गादिति ।
अभाववद्भूतलमिति ॥ अत्र परस्परासंयुक्तासमवेतेत्यादिकमेव पक्षः । तत्परिचायकत्वेनाभाववद्भूतलमित्यादि ॥ उक्तेति ॥ परस्परासंयुक्तेत्यादिरूपेत्यर्थः ॥ अबाधितेति ॥ अपरोक्षत्वमपि विशेषणम् । तेन परोक्षधीषु न व्यभिचारः । न चोभयत्राध्यासिकसम्बन्धस्यैव विषयत्वेन निमित्तत्वेन चोपपत्तावर्थान्तरमिति वाच्यम् । तात्विकसम्बन्धबाधे आध्यासिकसम्बन्धसिद्धिः । तथा च संयोगसमवायातिरिक्ततात्विक-सम्बन्धपर्यन्तं नाध्यासिकसम्बन्धसम्भावनेति न तेनार्थान्तरं, व्यापकानुपलब्धिबाधश्च निरसिष्यत इत्यर्थः ॥ विमतेति ॥ आनन्दो, ब्रह्म वा स्फुरति इत्यादिकेत्यर्थः ॥ अबाधितविशेषणेति ॥ सम्बन्धिसमसत्ताकविशेषणविशेष्यसम्बन्धविषयेत्यर्थः । एतेन ब्रह्मज्ञानपर्यन्तमाध्यासिकसम्बन्धस्याबाधितत्वेन सिद्धसाधनं, सर्वथा अबाधितत्वे साध्ये साध्यवैकल्यं दृष्टान्तस्येति निरस्तम् । आनन्दस्य स्फुरणस्य ब्रह्मणो वा या सत्ता तद्वतः सम्बन्धस्य सिद्धेः । न च तत्र विशिष्टबुद्धित्वमसिद्धमिति वाच्यम् । घटश्चलतीत्यादि-वदस्या अपि तथात्वादिति । ननु गोमांश्चैत्र इत्यादौ विप्रकृष्टगवीनां तद्वतश्च संयोगाद्यभावाद् अन्यस्य च सम्बन्धस्य तत्राक्लृप्तत्वाद्विशिष्टबुद्धित्वं तत्र व्यभिचारीति शङ्कां परिहरति ॥ गोमानिति ॥ गोमांश्चैत्र इत्यादावपि सम्बन्धस्य तत एव साधनान्न तत्र व्यभिचार इत्यर्थः ।
न्यायामृतकण्टकोद्धारः
एतावता परस्य किमभिमतम्? किञ्चैतन्यमेव प्रकाशकं, वृत्तिरपीति वा । आद्ये परोक्षार्थ-प्रकाशो न स्यात् । तत्र चैतन्यस्यानभिव्यक्तत्वेनाप्रकाशकत्वात् । द्वितीये वृत्तिः सम्बद्धा प्रकाशिका असम्बद्धा वा? अन्त्येऽतिप्रसङ्गः । आद्ये वृत्त्या समम् आध्यासिक एव वा सम्बन्धः? अन्यो वा? नाद्योऽनङ्गीकारात् । न द्वितीयस्तदभावात् । भावे वा तेनैव सत्यत्वेऽपि दृश्यत्वोपपत्त्याऽनुकूलतर्काभावात् । अस्तु वा चैतन्यमेव प्रकाशकम् । तथापि विषयप्रकाशे आध्यासिक एव सम्बन्धस्तन्त्रमन्यो वा? नाद्यः । आध्यासिकसम्बन्धस्य दृश्यमात्र-साधारणत्वेन सर्वस्य सर्वदा सर्वं प्रति प्रकाशापत्तेः । अतो द्वितीय एवाङ्गीकर्तव्य इत्याह– सर्वस्यापीति ॥ तथा च चैतन्यसम्बन्धमात्रं न प्रकाशकं किन्त्वनावृततत्सम्बन्धः । एवञ्चावरणाभिभवप्रयोजकसम्बन्धेनैव प्रकाशोपपत्तौ तदर्थं नाऽध्यासिकसम्बन्धः स्वीकर्तव्य इति भावः । न च प्रकाशस्य साक्षात् स्वसंसृष्टप्रकाशकत्वनियमाच् चैतन्यस्य परम्परासम्बन्धेन न विषयप्रकाशकत्वम् । न हि दीपः परम्परासम्बद्धं प्रकाशयतीति वाच्यम् । अस्त्वेवं साक्षात् सम्बन्ध एव प्रयोजक इति । तावतापि न तस्याध्यासिकत्वं सिध्यति । सत्यत्वेऽपि विषय-प्रदीपयोरिवान्यस्यैव साक्षात्सम्बन्धस्य सम्भवात् । यथा चैतत् तथाऽग्रे स्फुटम् । किञ्च यत्र परम्परासम्बन्धस्यातिप्रसञ्जकत्वं तत्र साक्षात्सम्बन्धः स्वीकर्तव्यः । प्रकृते तु तत्तत्सन्निकर्ष-जन्यतत्तदाकारवृत्तिरूपपरम्परासम्बन्धे नातिप्रसङ्गः । तथा च परम्परासम्बन्धेन प्रकाशे किमाध्यासिकेन । न च प्रदीपादौ साक्षात्सम्बन्धेन प्रकाशकत्वं दृष्टमित्यन्यत्रापि तथा कल्पनीयमिति वाच्यम् । तथात्वे प्रदीपादौ संयोगेनैव प्रकाशकत्वं दृष्टमित्यन्यत्रापि तत्कल्पना स्यात् । तस्मादनतिप्रसञ्जकसम्बन्धः प्रकाशे तन्त्रमिति क्वचित् साक्षात्, क्वचिच्च परम्परेति न कश्चिद्विशेषः । अन्यथा ज्ञानेन स्ववृत्त्यप्रामाण्यादिकमपि प्रकाशेत । तेनापि समं साक्षा-त्सम्बन्धसत्त्वात् । तस्मादेतद् दुर्व्यसनम् ।
ननु तत्तदर्थानां तत्तज्ज्ञानेऽध्यस्तत्वादाध्यासिकः सम्बन्धः प्रयोजक इत्यभ्युपेयते इत्यत आह ॥ न हीति ॥ तथा च सति विज्ञानवादिमतप्रवेशः स्यादिति भावः । प्रकाशकता-प्रयोजकत्वं चास्य नोपपद्यते । तथा हि – किन्त्वन्मते शुद्धदृशः प्रकाशकत्वं, उपाधिविशिष्टाया अथ तदुपलक्षितायाः? नाद्य इत्याह ॥ शुद्धदृश इति ॥ तथा च सति सर्वं प्रति सर्वदा सर्वं प्रकाशः स्यादित्यतिप्रसङ्ग एवेति भावः । न द्वितीय इत्याह ॥ उपाधिविशिष्टाया इति ॥ तथा चाध्यासिकसम्बन्धस्यातन्त्रत्वापातादिति भावः । विशिष्टस्य मिथ्यात्वात् प्रकाशकत्वायोग इत्यपि द्रष्टव्यम् । न तृतीय इत्याह ॥ उपाध्युपलक्षिताया इति ॥ तथा च पूर्वोक्त एवातिप्रसङ्ग इति भावः । ननूपलक्षणभेदेनोपलक्ष्यभेदो भविष्यतीत्यत आह ॥ कथञ्चिदिति ॥ उपलक्षण-भेदस्य नोपलक्ष्यभेदप्रयोजकत्वम् । अन्यथा जन्मादिकारणत्वादीनामुपलक्षणानां भेदाद् ब्रह्मणोऽपि भेदप्रसङ्ग इति कथञ्चिच्छब्दाभिप्रायः । तथा चाध्यासिकसम्बन्धस्याति प्रसञ्जकत्वा-द्वृत्तिद्वारकसम्बन्धस्य तदभावात् स एव प्रकाशकत्वे तन्त्रमिति भावः ॥ आध्यासिकसम्बन्ध-स्येति ॥ प्रतिबिम्बितस्य विशिष्टत्वेनाधिष्ठानत्वाभावाद् अन्योन्याश्रयाच्चेति भावः ॥ आवश्यकेनेति ॥ न च परोक्षविवेकेन स्फुटतरव्यवहारार्थमधिष्ठानचैतन्याभिव्यक्तिकल्पनेति वाच्यम् । तदभावेऽपि तत्तत्सन्निकृष्टेन्द्रिय जन्यतत्तदाकारवृत्तिप्रतिबिम्बितचैतन्यसम्बन्धमात्रेण तादृशव्यवहारोपपत्तेः । न हि परोक्षस्थले वृत्तिप्रतिबिम्बितचैतन्यसम्बन्धोऽस्ति । अन्यथा तेनाधिष्ठानचैतन्याभिव्यक्तौ तदभेदेनाभिव्यक्तस्य विषयस्यापरोक्षत्वापातादिति ।
ननु चैतन्यप्रतिबिम्बमात्रेण न स्फुटतरापरोक्षव्यवहारः । प्रतिबिम्बितस्य मिथ्यात्वेना-परोक्षैकरसत्वाभावात् । किन्त्वभिव्यक्ताधिष्ठानचैतन्यसम्बन्धेन । तस्य सत्यत्वेनापरोक्षैकर-सत्वात् । तथा चाधिष्ठानचैतन्याभिव्यक्तिरवश्यं कल्पनीयैवेत्यरुचेराह ॥ किञ्चेति ॥ घटं प्रति किं शुद्धं चैतन्यमधिष्ठानम्? किं वा घटावाच्छिन्नचैतन्यम्? आद्य आह ॥ घटाधिष्ठान-चैतन्यस्येति ॥ यदि चरमसाक्षात्कारात् पूर्वं शुद्धस्य व्यक्तिरङ्गीक्रियते तदा शुद्धाभिव्यक्तेरेव मोक्षहेतुत्वात् तस्याञ्च जातत्वात् श्रवणादिवैयर्थ्यम् । तस्मान्न शुद्धव्यक्तिः । तथा चाधिष्ठानी-भूतशुद्धव्यक्तेरभावाद् घटप्रकाश एव न स्यादिति भावः । ननु शुद्धव्यक्तिर्द्विविधा । मूलाज्ञान-निवृत्तिलक्षणा तूलाज्ञाननिवृत्तिलक्षणा च । तत्राद्यायाश्चरमसाक्षात्कारात्पूर्वमभावेऽपि द्वितीयायास्तदवस्थालक्षणतूलाज्ञाननिवृत्तेः सत्त्वात् तावन्मात्रेण घटादिप्रकाशोपपत्तिरिति चेन्मैवम् । मूलाज्ञानतदवस्थालक्षणमज्ञानमेकमुत भिन्नम् ? नाद्यः । उभयोरभेदे एकसत्त्वे परापगमासम्भवात् । न चोपादानोपादेयभावादुपपत्तिः । अज्ञानस्यानादित्वाङ्गीकारात् । द्वितीये तदवस्थालक्षणाज्ञानं मूलाज्ञानं च प्रत्येकं शुद्धावरकं न वा? नेति पक्षे सर्वदा प्रकाशः । आद्ये एकावरणापगमेऽपि द्वितीयावरणसत्त्वाद् भित्तिद्वयव्यवहितघटस्यैकभित्त्यपगमेऽपि भित्त्यन्तरस्य सत्त्वादप्रकाशवद् एकावरकापगमेऽपि आवरकान्तरस्य सत्त्वाच्छुद्धाभिव्यक्तिरेव नेति पुनर्घट-प्रकाश एव स्यात् । अन्यथाऽदृष्टकल्पनापातात् । अदृष्टकल्पनाविशेषे आवरणानभिभवेऽप्यभि-व्यक्तिरिति कल्पनीयं स्यादिति । नान्त्य इत्याह । अभिव्यक्तस्येति ॥ ननु तत्तदाकारवृत्त्या आवरणीभूताज्ञानस्यापसरणं वा तत्प्रकाशप्रतिबन्धाक्षमत्वादिकं वा क्रियते । तावन्मात्रेणाभि-व्यक्तं शुद्धं घटप्रकाशकम् । चरमवृत्त्या तु तन्निवृत्तिरेवेति नोक्तदोष इत्यरुचेराह ॥ किञ्चेति ॥ घटप्रकाशिकाया इति ॥ मिथ्याभूतस्याप्यधिष्ठानत्वेऽधिष्ठानत्वान्यथानुपपत्त्या ब्रह्मसत्त्वं न स्यादिति भावः ॥ सत्यत्व इति ॥ ननु दोषाजन्यत्वं न प्रमात्वप्रयोजकम् । चैतन्यस्य सर्वत्र दोषाजन्यत्वात् । किन्तु दोषाजन्यवृत्त्यवच्छिन्नत्वम् । प्रकृते च तदभावान्न विषयस्य सत्यत्वम् । अतो मिथ्याभूतविषयं प्रति अधिष्ठानत्वं सत्याया दृशो युक्तमिति चेन्न प्रकाशकस्य ज्ञानस्य प्रमात्वे दोषाजन्यत्वमेव प्रयोजकम् । न दोषाजन्यवृत्यवच्छिन्नत्वम् । तथात्वे चरमवृत्तेः प्रमात्वं न स्यात् । तस्या दोषाजन्यवृत्त्यवच्छिन्नत्वाभावात् । न च तत्रापि चैतन्यस्यैव प्रमात्वम्, न वृत्तेरिति वाच्यम् । चरमवृत्त्या चैतन्यस्याभिव्यक्त्यनङ्गीकारात् । अङ्गीकारे च तद्वदत्रापि चैतन्यस्यैव प्रमात्वोपपत्तेः । न चात्र वृत्तेर्दोषजन्यत्वमिति वाच्यम् । क्लृप्तदोषाभावात् । तदभावेऽप्यक्लृप्तकल्पने चरमवृत्तावपि कल्पना स्यात् । न च चैतन्यमात्रस्य सर्वत्र दोषाजन्यत्वात् तद्विषयस्य शुक्तिरजतस्य सत्यत्वं स्यादिति वाच्यम् । तत्र चैतन्यमात्रस्य प्रकाश-कत्वानभ्युपगमात् । अविद्यावृत्तिप्रतिबिम्बितस्यैव प्रकाशकत्वात् । तस्य च दोषजन्यत्वनिय-मात् । न च प्रकृतेऽप्यन्तःकरणवृत्त्यवच्छिन्नस्य वा, तत्प्रतिबिम्बितस्य वा प्रकाशकत्वमिति वाच्यम् । आध्यासिकसम्बन्धस्यातन्त्रत्वप्रसङ्गेन निरस्तत्वादिति दिक् ।
ननु प्रमाणाभावात् कथं तदङ्गीकार इत्यतस्तत्र प्रमाणमाह ॥ अभाववदिति ॥ तत्र संयोगसमवायाभ्यामर्थान्तरतावारणाय परस्परेति पक्षे विशेषणम् । हेतौ विशिष्टपदं निर्विकल्प-काभ्युपगन्तृन्यायमतानुसारेण । अतो न तस्यास्मन्मते व्यर्थत्वमिति भावः ॥ उक्तेति ॥ अत्र पक्षहेत्वोः प्रत्यक्षेति विशेषणं देयम् । तेन न परोक्षबुद्धौ बाधो व्यभिचारो वेति द्रष्टव्यम् । नन्वत्र द्वितीयानुमाने अबाधितत्वं हेतावसिद्धम् । तृतीये साध्ये अबाधितत्वम् आब्रह्मज्ञानं, सर्वथा वा? आद्ये सिद्धसाधनम् । आध्यासिकसम्बन्धस्याब्रह्मज्ञानमबाधात् । द्वितीये दृष्टान्ते साध्यसाधनवैकल्ये । पक्षे च बाधस्वरूपासिद्धी इति चेत्, न । अन्त्यपक्षस्यैवाश्रयणात् । न च पूर्वोक्तदोषः । बाधे हि सप्रकारेण वा निष्प्रकारेण वा? नाद्यः । त्वयानङ्गीकारात् । न द्वितीयः । तदबाधकत्वस्य पूर्वमुपपादितत्वात् । तथा च यावद्विशेषाभावे बाधसामान्याभावः सिद्धो भवतीति कथमसिद्धत्वम् । न चानुमानद्वये आध्यासिकसम्बन्धेनार्थान्तरम् । तस्या-प्रामाणिकत्वेन, तेनार्थान्तरत्वानवकाशात् । किञ्चाध्यासिकसम्बन्धस्तात्त्विकः कल्पितो वा? नाद्यः । त्वयाऽनङ्गीकारात् । अङ्गीकारेऽपसिद्धान्तात् । न द्वितीयः । प्रमाणविषयतयाऽर्थे साध्यमाने कल्पितेनार्थान्तरशङ्कायाः क्वाप्यदर्शनात् । अन्यथा मिथ्यात्वस्वप्रकाशत्वानु-मानादिष्वपि कल्पितमिथ्यात्वादिना सिद्धसाधनार्थान्तरत्वाद्यन्यतरापातात् ।
किञ्च तात्विकसम्बन्धबाधे कल्पितसम्बन्धकल्पनम् । न च तद्बाधकं प्रकृतेऽस्तीति वक्ष्यते । तथापि गोमांश्चैत्र इत्यादौ हेतुसत्त्वेऽपि साध्यासत्त्वाद्व्यभिचार इत्यत आह ॥ गोमांश्चैत्र इति ॥ तथा च तस्यापि पक्षत्वान्न व्यभिचारः । न हि पक्षे व्यभिचारः । तथात्वे अनुमान-मात्रोच्छेदः स्यादिति भावः ।
न्यायामृतप्रकाशः
सिद्धान्ताभिधानं प्रतिजानीते ॥ अत्रोच्यत इति ॥ दृग्दृश्ययोराध्यासिकसम्बन्धस् त्वया कस्मात्स्वीकृत इति प्रष्टव्यम् । सम्बन्धान्तरानिरूपणादिति चेन्न । इन्द्रियसन्निकर्षजन्य-वृत्तिज्ञानद्वारक एव सम्बन्धोऽस्तु किमाध्यासिकसम्बन्धदुर्व्यसनेन ।
नन्विन्द्रियसन्निकर्षजन्यवृत्तिद्वारकसम्बन्धोऽप्रामाणिक इति चेन्न । अस्य सम्बन्धस्य तवाप्यावश्यकत्वात् । तथा हि । त्वन्मते सर्वमपि दृश्यं घटादिकं, सर्वगतं यदज्ञानानावृतं ब्रह्मचैतन्यं तत्रैवाध्यस्तम् । एवं चानावृतब्रह्मचैतन्यस्य सर्वान्प्रत्यविशिष्टत्वात्तत्रारोपितं घटादिकं सर्वं सर्वेषां सर्वदा प्रकाशेत न तु कश्चित्पदार्थः कदाचित्कञ्चित्प्रत्येव काशेत इत्यतिप्रसङ्गेऽभिहिते यत्सन्निकृष्टेन्द्रियजन्यवृत्तिर्यदाकारा यदा च भवति स एव तं प्रत्येव कदाचिदेव प्रकाशते न सर्वदेत्यतिप्रसङ्गः परिहर्तव्यः । तथा चेन्द्रियसन्निकर्षजन्यवृत्तिस्त-वाप्यावश्यकी । एवं च दृश्यत्वेऽपि सत्यत्वमेवाऽस्तु न मिथ्यात्वं, सम्बन्धानुपपत्तिस्तु नास्ति । इन्द्रियसन्निकर्षजन्यवृत्तिद्वारकसम्बन्धसम्भवात् । एवञ्च तवाप्यावश्यकेनानेन सम्बन्धेनोपपत्त्या आध्यासिकसम्बन्धदुर्व्यसनेन प्रयोजनाभावात् । ननु न वयं ब्रह्मात्मकाना-वृतैकदृगध्यस्तत्वम् अभिदध्महे । येन तस्य सर्वान्प्रत्यविशिष्टत्वात्सर्वदा सर्वस्य सर्वं प्रकाशे-तेत्यतिप्रसङ्गपरिहाराय तत्तदाकारकवृत्तिद्वारकसम्बन्धापेक्षा ममाप्यावश्यकी स्यात् । किंतु घटाद्यधिष्ठानभूतानां चैतन्यानां भेदाङ्गीकारेण तत्तदर्थास्तत्तदधिष्ठानभूतेषु चैतन्येष्वध्यस्ता इत्युच्यन्ते । एवं च वृत्तिं विनैतादृशेन चैतन्येनैव घटादेः साक्षादेव सम्बन्धाङ्गीकारेण तेनैव घटते । अतोऽतिप्रसङ्गाभावान्न तदर्थं वृत्तिद्वारकसम्बन्धानुसरणमिति चेन्न । यथा विज्ञान-वादिना तत्तदर्थास्तत्तज्ज्ञानेऽध्यस्ता इत्युच्यन्ते । यथाहुर्विज्ञानवादिनः । ‘‘तत्तज्ज्ञानेषु ते तेऽर्था अध्यस्ता इति नो मतमिति, तथा त्वया ते तेऽर्थास् तेषु तेष्वनेकेषु अधिष्ठानचैतन्येषु अध्यस्ता इति न ह्युच्यते । किन्तु ब्रह्मात्मकानावृतैकदृगध्यस्तत्वमेव । तत्राति प्रसङ्ग-परिहाराय वृत्तिरनुसरणीयैव ।
ननु विज्ञानवादिमत इव मम मतेऽपि घटादेस्तत्तदधिष्ठानचैतन्येषु अनेकेषु अध्यासोऽस्तु । अतो न वृत्तिरपेक्षितेति चेन्न । अनेकेष्वधिष्ठानेषु त्वन्मतेऽध्यासायोगात् । तथाहि । अध्यासाधिष्ठानभूता अनेकाश्चैतन्यरूपब्रह्मदृशः किं सत्यभूतशुद्धब्रह्मरूपा उत घटाद्युपाधि-विशिष्टा अथवोपाध्युपलक्षिता नाद्यः । एकमेवेत्यादिश्रुतिविरोधेन तत्र भेदाभावात् । न द्वितीयः । उपाधिविशिष्टानां चैतन्यरूपब्रह्मदृशां भेदेऽपि विशिष्टानां घटादिवन्मिथ्या-त्वेनाधिष्ठानत्वायोगात् । अध्यस्ताधिकसत्ताकत्वस्यैवाधिष्ठानत्वौपयिकत्वात् । न तृतीयः । यद्यप्युपाध्युपलक्षिताया ब्रह्मचैतन्यरूपदृशः सत्यत्वमस्ति उपाधेरुपलक्षणमात्रत्वात् । तथा चाधिष्ठानत्वमुपपद्यते तथाप्युपाध्युपलक्षिताया अधिष्ठानभूतायाः सत्याया दृशो ऽभेदस्य श्रुतिसिद्धत्वान्नानेकत्वमुपपद्यते ॥ तथाचानावृतैकदृगध्यस्तत्वे वाच्ये तत्रोक्तातिप्रसङ्गवारणाय वृत्तिरपेक्षणीयैव । उपाध्युपलक्षिते उपाधिकृतो भेदोऽस्तीति न वृत्तिरपेक्षितेति चेन्न । कथञ्चिदेव भेदेऽपि वृत्तिरावश्यक्येव । तथा हि । तत्तदर्थानां तत्तदधिष्ठानचैतन्येष्वध्यासमङ्गीकृत्या-स्मदभिमतवृत्तिद्वारकसम्बन्धानङ्गीकारे त्वन्मतेऽस्मदभिमतवृत्तिद्वारकसम्बन्धात्प्रागेव घटादीनां तत्तदधिष्ठानचैतन्ये स्वत एवाध्यस्तत्वेन आध्यासिकसम्बन्धस्य सत्त्वाद्धटादिरूपदृश्यप्रतीतिः सर्वदा स्यादेव । अतोऽध्यस्तत्वसम्बन्धे सत्यपि दृश्याप्रतीतेरतिप्रसङ्गपरिहारार्थं वृत्तिद्वारक-सम्बन्धोऽङ्गीकार्य एव । तत्रापि प्रपञ्चस्य सत्यत्वेऽपि इन्द्रियसन्निकर्षजन्यवृत्तिद्वारकसम्बन्धेनैव दृश्यत्वोपपत्तेराध्यासिकसम्बन्धाङ्गीकारो व्यर्थ एव । स च सम्बन्धो विषयविषयिभाव एव । विषयत्वनिरूपणं करिष्याम इत्याशयेनाह ॥ सर्वस्यापीत्यादिना दृश्याप्रतीतेरित्यन्तेन ॥ वृत्तेरनावश्यकत्वे घटप्रकाशश्चैतन्यसम्बन्धादेव साक्षाद्भवतीत्युच्यते तत्र विकल्पयति ॥ किञ्चेति ॥ अतन्त्रत्वेति ॥ चैतन्याभिव्यञ्जकेन्द्रियवृत्त्यैव घटप्रकाशोपपत्तावतिप्रसङ्गाभावेन घटादेश्चैतन्येऽध्यासकल्पनाया व्यर्थत्वेनाध्यासिकसम्बन्धस्य व्यर्थत्वापातात् । न हि वृत्ति-प्रतिबिम्बितचैतन्ये घटादिरध्यस्त इति भावः ॥ आवश्यकेनेति ॥ घटाधिष्ठानचैतन्यं घट-प्रकाशकमिति मतेऽपि तदभिव्यक्त्यर्थं घटाकारवृत्तिप्रतिबिम्बितचैतन्यस्याऽनुसरणीयत्वात् । तेनैव घटाधिष्ठानचैतन्येन सत्यस्य घटस्य प्रकाशोपपत्तौ तेनाधिष्ठानचैतन्याभिव्यक्तिकल्पना-योगादित्यर्थः ।
अधिष्ठानचैतन्यमध्यस्तस्य प्रकाशकमिति मते दोषान्तरमाह ॥ किञ्चेति ॥ सत्य-स्येत्यधिष्ठानत्वोपपादनाय ॥ नाभिव्यक्तिरिति ॥ वृत्तिप्रतिबिम्बितचैतन्येनेति शेषः । तथा च न तेन घटादेः प्रकाशः स्यादित्यर्थः ॥ न तदधिष्ठानत्वमिति ॥ तथा च न तदपि घटादिप्रकाशकमित्यर्थः ॥ आत्माश्रयादिति ॥ स्वावच्छिन्नस्य स्वाधिष्ठानत्वे स्वस्याप्य-धिष्ठानत्वेनात्माश्रय इत्यर्थः । केचित्त्वात्माश्रयशब्दोऽन्योन्याश्रयपरः । तथा च घटस्याध्यासे सति घटस्वरूपसिद्धौ चैतन्यस्य घटावच्छिन्नत्वम् । तदवच्छिन्ने चैतन्ये सति अधिष्ठानलाभेन घटादेरध्यास इत्यन्योन्याश्रयादित्यर्थः । तथैव क्वचित्पाठश्चेत्याहुः । दोषान्तरमाह ॥ किञ्चेति ॥ घटाधिष्ठानचैतन्यं घटप्रकाशकमिति मते मिथ्याभूतस्य घटवद्धटाधिष्ठानत्वाभावेन घटाप्रकाशकत्वात्सत्यमेव घटाधिष्ठानचैतन्यरूपं ज्ञानं घटप्रकाशकमिति वाच्यम् । तस्य च सत्यत्वेन दोषाजन्यतयाऽबाधितार्थविषयकत्वरूपप्रमात्वयोगित्वेन तद्विरुद्धं यत्स्वविषय-मिथ्यात्वापादनशीलं स्वविषयं प्रत्यधिष्ठानत्वं तन्न सम्भवतीत्यर्थः । उभयतः प्रकाशकदृशो मिथ्यात्वे सत्यत्वे चेत्यर्थः । पाशारज्जुरिति क्वचित्पाठः । गलबन्धकरज्जुरित्यर्थः । पाशेति पाठ एव स्वरसः । ‘‘पाशा स्याद्गलबन्धिक’’ इत्यभिधानात् ।
ननु दोषाजन्यत्वं न प्रमात्वप्रयोजकम् । चैतन्यस्य सर्वत्र दोषाजन्यत्वात् किन्तु दोषाजन्यवृत्त्यवच्छिन्नत्वं, प्रकृते च तदभावान्न विषयस्य सत्यत्वमतो मिथ्याभूतस्वविषयं प्रत्य-धिष्ठानत्वं सत्याया दृशो युक्तमिति नोभयतः पाशारज्जुरिति चेन्मैवम् । घटाकारवृत्तेरपि सम्भावितेन्द्रियादिदोषाजन्यत्वात् । आविद्यकत्वरूपप्रधानो दोष एवास्तीति चेन्न । अविद्याया दोषत्वासम्मतेः । अन्यथाऽद्वैतागमविषयक श्रोत्रादिवृत्तेरप्यविद्यारूपदोषजन्यत्वेना-प्रमात्वापत्त्याऽद्वैतागमस्याप्यसिद्धिप्रसङ्गः स्यादिति तरङ्गिण्युक्तं द्रष्टव्यम् । स्वरूपसम्बन्ध-स्थलेऽपि संयोगसमवायातिरिक्तमपि सम्बन्धं साधयति ॥ अभाववद्भूतलमिति ॥ विशेषण-विशेष्यकेति ॥ विशेषणविशेष्यभावावगाहीत्यर्थः । परस्परासंयुक्तेत्यादिकमेव पक्षः । अभाव-वद्भूतलमित्यादि तद्विवरणरूपमिति द्रष्टव्यम् । संयोगसमवायाभ्यामर्थान्तरतावारणाय पक्षे परस्परासंयुक्तेत्यादिविशेषणम् । दृष्टान्ते संयुक्तत्वमादाय साध्यपर्यवसानम् । पक्षे तु संयोग-समवायातिरिक्तमादायेति विवेकः । उक्तेति ॥ अभाववद्भूतलमित्याद्या परस्परासंयुक्तासमवेत-विशेषणविशेष्यकविशिष्टधीरित्यर्थः । ईश्वरप्रमामादाय बाधवारणाय जन्येत्युक्तम् ॥ सम्बन्ध-निमित्तिकेति ॥ तज्जन्येत्यर्थः । अबाधितपदाभावे ‘‘अत्र रजतत्वम्’’ इति भ्रमे व्यभिचारः । अत्र शुक्तौ रजतत्वसंयोगसमवाययोर्बाधेन साध्याभावात् । अतोऽबाधितपदम् । ईश्वरधियां व्यभिचारवारणाय हेतौ जन्यपदम् ॥ विमता धीरिति ॥ अभाववद्भूतलमित्यादिका परस्परा-संयुक्तेत्यादिरूपा जन्यप्रमाधीरित्यर्थः । तेन न बाधः ॥ तत्सिद्धेरिति ॥ ज्ञानज्ञेययोः संयोगसमवायातिरिक्तद्विष्ठसम्बन्धसिद्धेरित्यर्थः ।
ननु पल्लीस्थितगोमति चैत्रे गोमांश्चैत्र इति यदा विशिष्टधीर्भवति तदा विप्रकृष्टगवां तद्वत-श्चैत्रस्य च संयोगसमवायाभावादन्यस्य सम्बन्धस्य तत्राक्लृप्तत्वाद्विशिष्टधीत्वं व्यभिचारीत्यत आह ॥ गोमांश्चैत्र इति ॥ गोमांश्चैत्र इत्यादावपि तेनैव हेतुना संयोगाद्यतिरिक्तसम्बन्धसाधनान्न व्यभिचार इत्यर्थः ।
न्यायकल्पलता
आध्यासिकसम्बन्धं तित्याजयिषुः पीठिकामारचयति । सर्वस्यापीति । अवान्तरादे-र्घटादेरपीत्यर्थः । तथा चेति । सत्यभूतानामेव घटादीनां स्वाकारवृत्तिद्वारा चैतन्यसम्बन्धोऽ-स्तीत्यर्थः । ननु प्रकाशस्य साक्षात्स्वसन्निकृष्टप्रकाशकत्वनियमेन चैतन्यस्य परंपरासम्बन्धेन विषयप्रकाशकत्वायोगः। न हि प्रदीपः परम्परासम्बद्धमर्थं प्रकाशयतीति चेत् । मैवम् । न हि वृत्तिद्वारक इत्यस्य परम्परासम्बन्ध इत्यर्थः । किन्तु सर्वव्यापिचैतन्यस्याविद्यावृतस्य वृत्यावरणे निवृत्तेऽनावृतेन चैतन्येन सत्यानामेव घटादीनां साक्षात्सम्बन्धोऽस्तु किमर्थमाध्यासिकः सम्बन्धः कल्प्यत इति भावः । ननु न वयं प्रपञ्चस्य ब्रह्मात्मकदृगध्यस्तत्वमभिदद्महे । येन सर्वस्य सर्वदा सर्वं प्रति प्रकाशप्रसङ्गरूपानिष्टपरिहाराय तत्तदाकारवृत्तिद्वारकसम्बन्धापेक्षा स्यात् । किन्तु तत्तदाकारवृत्या अनावृते चैतन्ये तादृशचैतन्येन च साक्षादेव घटादेः सम्बन्धो घटते । अतो न तदर्थं वृत्तिरूपद्वारानुसरणमित्यत आह । नहीति । विज्ञानवादिमत इवेति । यथाहुर्विज्ञान-वादिनः–
स्वप्नधीसाम्यतो बुद्धेर् बुध्याऽर्थस्य सहेक्षणात् ।
तद्भेदेनानिरूप्यत्वाज् ज्ञानाकारार्थ इष्यताम् ॥ इति ।
विवर्तनये तु दृश्यत्वस्य न तज्ज्ञानेऽध्यासः । किन्तु ब्रह्मात्मकशुद्धदृश्ये वेत्यर्थः । ततः किमित्यत आह । सत्याया इति । तथा चोक्तातिप्रसङ्गभङ्गाय वृत्तिरनुसारिणीयेति भावः । नन्वस्तु मम मते घटादेः स्वस्य ज्ञान एवाध्यास इत्यत आह । उपाधिविशिष्टाया इति । मिथ्यात्वेनेति । अधिष्ठेयाधिकसत्ताकत्वस्याधिष्ठानत्वौपयिकस्याभावादित्यर्थः । उपाध्युपलक्षित-चैतन्ये उपाधिकृतभेदोऽप्यस्तीत्यत आह । कथञ्चिदिति । दृश्याप्रतीतेरिति । तथा च तत्तत्सन्निकृष्टेन्द्रियतत्तदाकारवृत्तिरावश्यकीति भावः । आध्यासिकेति । घटाकारावृत्ति-प्रतिबिम्बितचैतन्ये घटप्रकाशके घटस्यानध्यासेन दृग्दृश्ययोराध्यासिकसम्बन्धसत्वात् प्रकाश्य-प्रकाशभाव इति कल्पना नोपपद्यते इत्यर्थः । आवश्यकेनेति । घटाधिष्ठानचैतन्यं घटप्रकाशक-मिति मतेऽपि तदभिव्यक्त्यर्थं घटसन्निकृष्टेन्द्रियघटाकारवृत्तिप्रतिबिम्बितचैतन्यस्यानुसरणीयत्वात् तेनैव घटाधिष्ठानेन सत्यस्य घटस्य प्रकाशो अस्तु तरणिकिरणैरिव स्वानधिष्ठितस्य घटादे-रित्यर्थः । न च परोक्षविलक्षणस्य व्यवहारार्थं विषयाधिष्ठानचैतन्याभिव्यक्तिकल्पनेति वाच्यम् । आवश्यकेन्द्रियजन्यवृत्तिप्रतिबिम्बितचैतन्येनैव तदुपपत्तेरिति भावः । अधिष्ठानचैतन्यमधिष्ठेयस्य प्रकाशकमिति मते दोषान्तरमन्वाचिनोति । किञ्चेति । अधिष्ठानत्वोपपादनाय सत्यस्येति विशेषणम् । नाभिव्यक्तिरिति । तथा च न तेन घटादेः प्रकाशः स्यादित्यर्थः । न तद-धिष्ठानत्वमिति । तथा च न तदपि घटादिप्रकाशकमित्यर्थः । आत्माश्रयादिति । स्वा-वच्छिन्नस्य स्वाधिष्ठानत्वे स्वस्यापि स्वाधिष्ठानत्वापत्याऽऽत्माश्रयः। घटस्याध्यासे सति घटस्वरूपलाभे चैतन्यस्य घटावच्छिन्नत्वम् । तदवच्छिन्ने चैतन्ये सत्यधिष्ठानलाभे घटादेरध्यास इति वाऽऽत्माश्रय इत्यर्थः ।
ननु शुद्धचैतन्यस्यैव घटाद्यधिष्ठानत्वम् । तस्य च चरमसाक्षात्कारात्पूर्वं मूलाज्ञाननिवृत्ति-रूपाभिव्यक्त्याभावेऽपि तदवस्थाविशेषादिनिवृत्तिलक्षणाभिव्यक्त्या विषयप्रकाशोपपत्तिरिति चेत् । न । प्रकाशप्रतिबन्धार्थमेव ज्ञानोररीकरणात् । मूलाज्ञानं यदि नावरणं न तर्हि तत्सिद्धिः । आवरणार्थमेवाज्ञानस्य त्वया साधितत्वात् । यदि तदावरणं तर्ह्येकावरणनिवृत्तावप्यावरणान्तरस्य सत्वेन न शुद्धचैतन्यस्य घटाधिष्ठानस्याभिव्यक्तिरिति भावः । दूषणान्तरमभ्युच्चिनोति । किञ्च घटेति । घटाधिष्ठानचैतन्यं घटप्रकाशकमिति मते मिथ्याभूतस्य घटवद् घटाधिष्ठानत्वाभावेन घटाप्रकाशकत्वात् सत्यमेव घटाधिष्ठानं घटप्रकाशमिति वाच्यम् । तस्य च सत्यत्वेन दोषा-जन्यत्वादबाधितार्थकत्वरूपप्रमात्वयोगित्वेन तद्विरुद्धस्वविषयमिथ्यात्वापादनशीलस्वविषयं प्रत्य-धिष्ठानत्वं न सम्भवतीत्यर्थः ।
ननु दोषाजन्यत्वं न प्रमात्वप्रयोजकम् । चैतन्यस्य सर्वत्र दोषाजन्यत्वात् । किन्तु दोषाजन्यवृत्यवच्छिन्नत्वम् । प्रकृते च तदभावान्न विषयस्य सत्यत्वम् । अतो मिथ्याभूतं विषयं प्रत्यधिष्ठानत्वं सत्याया दृशोऽयुक्तमिति चेत् । मैवम् । घटाद्याकारवृत्तेरपि सम्भावतेन्द्रियादि-दोषाजन्यत्वात् । अविद्यायाश्च दोषत्वासम्प्रतिपत्तेः । अन्यथा औतागमविषयश्रावणादिवृत्तेरपि अविद्यारूपदोषजन्यत्वेनाप्रमात्वप्रसङ्गेनाद्वैतागमासिध्यापातादिति । अभाववद्भूतलमिति । अत्र परस्परासंयुक्तासमवेतविशेषणविशेष्यविषयकविशिष्ठधीरेव पक्षः । तत्परिचायकत्वेनाभाववद्भूतल-मित्यादि । उक्तेति । परस्परासंयुक्तेत्यादिरूपेत्यर्थः । अबाधितेति । अपरोक्षत्वमपि विशेषणम् । तेन परोक्षधीषु न व्यभिचारः । अत्र प्रथमानुमानं नैय्यायिकरीत्या । तन्मते समवायस्य प्रत्यक्ष-त्वात् । द्वितीयन्तु वैशेषिकसम्मत्या । तन्मते समवायस्यातीन्द्रियत्वेऽपि निमित्तत्वमस्त्येव । एवं चोभयसम्मत्या द्वितीयानुमानमिति बोध्यम् । न च प्रथमे द्वितीये चाध्यासिकसम्बन्धस्यैव विषयत्वेन निमित्तत्वेन चोपपत्तेरर्थान्तरमिति वाच्यम् । घटोऽयमिति लौकिकविशिष्टलौकिक-प्रत्यक्षप्रतीतावाध्यासिकसम्बन्धस्य विषयत्वानुपपत्तेः । तथाहि । अध्यासे निवृत्तम् आध्यासिकः सम्बन्धः । संयोगादिरूपो न सम्भवतीति अध्यासतत्वरूपो वाच्यः । अध्यस्तत्वस्य चाध्यास-विषयत्वरूपतया आत्माश्रयात् । निमित्तत्वानुपपत्तेश्च ।
किञ्च । तात्विकसम्बन्धबाधे आध्यासिकसम्बन्धसिद्धिः । तथा च संयोगसमवायातिरिक्त-तात्विकसम्बन्धबाधपर्यन्तं नाध्यासिकसम्बन्धसम्भावनेति न तेनार्थान्तरम् । व्यापकानुपलब्धि-बाधश्च निरसिष्यत इत्यभिसन्धिः । विमतेति । आनन्दो ब्रह्म वा स्फुरति इत्यादिकेत्यर्थः । अबाधितविशेषणेति । सम्बन्धिसमसत्ताकविशेषणविशेष्यसम्बन्धविषयेत्यर्थः । तेन ब्रह्मज्ञान-पर्यन्तमाध्यासिकसम्बन्धस्याबाधितत्वेन सिद्धसाधनम् । सर्वथा अबाधितत्वे साध्ये साध्यवैकल्यं दृष्टान्तस्येति निरस्तम् । आन्दस्य स्फुरणस्य ब्रह्मणो वा या सत्ता तद्वतः सम्बन्धस्य सिद्धेः । न च तत्र विशिष्टबुद्धित्वमसिद्धमिति देश्यम् । देवदत्तो गच्छतीत्यादिवद् अस्या अपि तथा-त्वात् । ननु गोमांश्चैत्र इत्यादौ विप्रकृष्टगवीनां तद्वतश्च संयोगाद्यभावादन्यस्य च सम्बन्धस्य
तत्राक्लृप्तत्वाद्विशिष्टबुद्धित्वं तत्र व्यभिचारीति शङ्कां परिहरति । गोमानिति । गोमांश्चैत्र इत्यादावपि सम्बन्धस्य ततश्च साधनान्न तत्र व्यभिचारः । नहि पक्षे पक्षसमे वा व्यभिचार इत्यर्थः ।
न्यायामृतसौगन्ध्यं
ननु प्रकाशस्य साक्षात्स्वसंसृष्टप्रकाशकत्वनियमेन चैतन्यस्य परम्परासम्बन्धेन विषय-प्रकाशकत्वायोगात् । न हि प्रदीपः परम्परासम्बद्धं प्रकाशयति । अतो विषयाधिष्ठानचैतन्य- मनावृतमेव प्रकाशकम्, आवरणभङ्गश्च वृत्या । अतो वृत्तेः पूर्वमाध्यासिकसम्बन्धे विद्यमानेऽपि दृश्याप्रतीतिरुपपन्नेति चेन्न । आलोकस्य स्वविषयावरणनिवृत्यर्थमालोकान्तरा-नपेक्षत्वेन, चैतन्यस्य तु स्वविषयावरणनिवृत्यर्थं ज्ञानान्तरस्यापेक्षत्वेन च वैलक्षण्यात् । अतो यद्विषयावरणनिवर्तकं तदेव विषयप्रकाशकं ज्ञानं तद्भिन्नस्य चैतन्यस्य घट(टादि)-ज्ञानत्वे मानाभावात् । ज्ञानज्ञेययोः सम्बन्धे विद्यमानेऽपि विषयाप्रकाश इत्युक्तेस्तुच्छत्वात् ।
किञ्च आवश्यकवृत्तिप्रतिबिम्बितचैतन्येनैव घटप्रकाशोपपत्तौ अधिष्ठानज्ञानस्य तदभि-व्यक्तेश्च कल्पनाया अप्रामाणिकत्वात् । प्रतिबिम्बिते तु न घटाध्यासः । न च परोक्ष-विलक्षणस्फुटतरव्यवहारार्थं विषयाधिष्ठानचैतन्याभिव्यक्तिकल्पनं, आवश्यकवृत्तिप्रतिबिम्बिते-नैव तदुपपत्तेः । न च शुद्धचैतन्यस्य चरमसाक्षात्कारात्पूर्वं नाभिव्यक्तिः । अभिव्यक्तस्य च घटपटावच्छिन्नचैतन्यस्य न तदधिष्ठानत्वम्, आत्माश्रयात् । न च चरमसाक्षात्कारात्पूर्वमपि शुद्धचैतन्यस्याविद्यावशादधिष्ठानभूतस्य मूलाज्ञाननिवृत्तिरूपाभिव्यक्त्यभावेऽपि तदवस्था-विशेषादिनिवृत्तिरूपाभिव्यक्त्या विषयप्रकाशकत्वोपपत्तिरिति वाच्यम् । आवरणभङ्गस्य वृत्यैव जातत्वात्् । तदतिरिक्तप्रकाशस्य परिभाषामात्रत्वात् । न हि सूर्यो अन्धकार-निवृत्यतिरिक्तविषये अन्यत् प्रकाशनं करोति । मूलाज्ञानावृतस्य अज्ञानावस्थानिवृत्तिमात्रेण प्रकाशानुपपत्तेः ।
न हि एकजवनिकानिवृत्तौ महाजवनिकावृत्तं वस्तु दृश्यते । किञ्च घटप्रकाशिकाया दृशो मिथ्यात्वे नाधिष्ठानत्वं सत्यत्वे दोषाजन्यत्वेन प्रमात्वात् सत्यं स्वविषयं प्रति नाधिष्ठानत्वमित्युभयतो दोषः । न च दोषाजन्यत्वं न प्रमात्वप्रयोजकं चैतन्यस्य सर्वत्र दोषाजन्यत्वात् । किन्तु दोषाजन्यवृत्त्यवच्छिन्नत्वम् । प्रकृते च तदभावान् न विषयस्य सत्यत्वम् । अतो मिथ्याभूतविषयं प्रत्यधिष्ठानत्वं सत्याया दृशो युक्तमिति वाच्यम् । दोषाजन्यवृत्त्यवच्छिन्नस्य घटादिसत्ताकत्वेनाधिष्ठानत्वासम्भवात् । न च वृत्यनवच्छिन्नमेव चैतन्यम्, अधिष्ठानदोषजन्यवृत्तेस्तदवच्छिन्नाद्वा ज्ञानस्य हि विषयः सत्य एवेति कथं तादृशविषयं प्रति शुद्धस्याधिष्ठानत्वम् । किञ्च तात्विकसम्बन्धासम्भवे आध्यासिकसम्बन्ध-कल्पनम् । स एव कुतः । क्लृप्तसंयोगबाधे गुणगुणिनोः समवायवत् तयोर्बाधे तृतीयस्य सम्भवात् । न च तत्र मानाभावः । समवायवदध्यक्षानुमानयोः सम्भवात् । तथा हि परस्परासंयुक्तासमवेतविशेषणविशेष्यकविशिष्टधीः, विशेषणविशेष्यान्यूनसत्ताकसम्बन्ध-विशिष्टविषया विशिष्टधीत्वाद् दण्डीति धीवत् । उक्ता जन्यापरोक्षप्रमा सम्बन्ध्यन्यूनसत्ताक-विशेषणविशेष्यसम्बन्धनिमित्तिका जन्यापरोक्षविशिष्टधीत्वात् सम्मतवत् । विमता धीर्धर्म्यन्यूनसत्ताकविशेषणविशेष्यसम्बन्धविषया अबाधितविशिष्टधीत्वाद् दण्डीति विशिष्ट-प्रमावत् । ‘गोमांश्चैत्रः’ इत्यादिविशिष्टबुद्धेरपि पक्षकुक्षिनिक्षेप एवेति न तत्र व्यभिचार-शङ्का । धर्म्यन्यूनसत्ताकमित्यत्र सम्बन्धत्वावच्छिन्नसम्बन्धिग्रहणं, तेन यत्किञ्चित्सम्बन्धि-समसत्ताकत्वमादाय न सिद्धसाधनम् । तथा च संयोगसमवायातिरिक्तसम्बन्धसिद्धिः ।
ननु प्रथमे द्वितीये च अर्थान्तरम् । आध्यासिकसम्बन्धस्यैव विषयत्वेन निमित्तत्वेन चोपपत्तेः । द्वितीये परोक्षधीषु व्यभिचारः । तृतीयेऽपि ब्रह्मज्ञानपर्यन्ताबाधितत्वेन सिद्ध-साधनमेव । सर्वथा अबाधितविषयत्वे साध्ये साध्यवैकल्यमिति चेत् । मैवम् । तात्विक-सम्बन्धबाधे हि आध्यासिकसम्बन्धसिद्धिः । तथा च संयोगसमवायातिरिक्ततात्विक-सम्बन्धबाधपर्यन्तं नाध्यासिकसम्बन्धसम्भावना । तथा च कथमर्थान्तरसिद्धसाधन-साध्यवैकल्यानीति ।
न्यायामृतमाधुरी
उच्यत इत्यादि । परमार्थभूतानामेव घटादीनां तत्तदाकारवृत्तिद्वारकः सम्बन्धश्चैतन्येन सूपगम इति भावः ।
अत्राद्वैतसिद्धिकारः । प्रकाशस्य साक्षात्स्वसंसृष्टप्रकाशकत्वनियमेन चैतन्यस्य परम्परा-सम्बन्धेन विषयप्रकाशकत्वायोगात् । न हि प्रदीपः परम्परासम्बद्धं प्रकाशयतीत्याह । तन्न साधीयः । सर्वाधिष्ठानभूतव्यापकचैतन्यस्य वृत्याऽविद्यावरणे भग्ने अनावृतचैतन्येन सत्या-नामेव घटादीनां साक्षादनध्यस्त एव संसर्गः स्वीक्रियतां किमित्याध्यासिकसम्बन्ध उपेय इति तात्पर्यात् । ननु न जगतो ब्रह्मात्मकदृगधिष्टानकाध्यासविषयत्वमुपेयते । किं तु तत्तदाकार-वृत्तिना वृत्यचैतन्याधिष्टानकविपर्यासविषयत्वमेव । तथा च तादृशचैतन्यानुयोगिकघटादि-प्रतियोगिकसंसर्गस्य साक्षादेव सम्भवेन न वृत्तिरूपद्वारानुसरणावश्यम्भाव इत्यत आह । न हीति । विज्ञानेत्यादि । स्वप्नधीसाम्यतो बुद्धेर्बुद्ध्यार्थस्य सहेक्षणात् । तद्भानानिरूप्य-त्वाज्ज्ञानाकारोऽर्थ इष्यतामिति विज्ञानवादिनां, औतिनान्तु दृश्यस्य न तज्ज्ञानेऽध्यासः किं तु ब्रह्मरूपदृश्ये वेति सिद्धान्तादित्यर्थः । सत्याया इति । तथा च वृत्तिस्त्ववश्याश्रय-णीयेति भावः । मिथ्यात्वेनेति । विपर्यस्तसत्ताधिकसत्ताकत्वस्याधिष्टानान्तरत्वादिति भावः । दृश्येति । एवं च वृत्तिरनुसरणीयेत्यर्थः । आध्यासिकेति । घटाद्याकार-वृत्तिप्रतिबिम्बितचैतन्ये घटादिप्रकाशे घटादेरनध्यासेन दृश्ययोरध्यासिकसम्बन्धनिबन्धनः प्रकाश्यप्रकाशकभाव इति कल्पनाया निष्प्रमाणत्वादित्यर्थः । आवश्यकेनेति । तत्तद्वस्त्व-धिष्ठानचैतन्यतत्तद्वस्तुप्रकाशकमिति मतेऽपि तत्तदभिव्यक्त्यर्थे तत्तदाकारवृत्तिप्रतिम्बितचैतन्य-स्याश्रयणीयतया तेनैव तत्तदनधिष्टानेन परमार्थभूततत्तदसत्प्रकाशस्य सावित्रतेजसा स्वानधिष्ठितघटादेः प्रकाशस्यैव सम्भवादित्यर्थः । अत्राद्वैतसिद्धिकृदाशशङ्के । परोक्ष-विलक्षणस्फुटतरव्यवहारार्थं विषयाधिष्ठानचैतन्याभिव्यक्तिकल्पना युक्तेति । तद्व्याकुर्वाणा आवश्यकेन्द्रियजन्यवृत्तिप्रतिबिम्बितचैतन्येनैव तदुपपत्तेरिति प्रत्याख्यासुः । आत्माश्रया-दिति । स्वावच्छिन्नस्य स्वाधिष्टानत्वे स्वस्यापि स्वाधिष्टानत्वप्रसङ्गेनात्माश्रयादित्यर्थः । अत्राद्वैतसिद्धिकारश् चरमसाक्षात्कारात्पूर्वमपि शुद्धचैन्यस्याविद्यावशादधिष्टानभूतस्य मूला-ज्ञाननिवृत्तिलक्षणाभिव्यक्त्यभावेऽपि तदवस्थाविशेषादिनिवृत्तिलक्षणाभिव्यक्त्या विषयप्रकाश-कत्वोपपत्तेरित्याह, तदतिस्थवीयः । आवरणैकफलकतया तदुपगतस्य मूलाज्ञानस्य संप्रत्या-वरणत्वानुपगमेन सिद्धिरेव न स्यात् । तस्यावरणत्वास्थितौ चैकावरणनिवृत्तावपि आवरणान्तरसत्वेन न शुद्धचैतन्यस्य घटाधिष्ठानस्याभिव्यक्तिरिति तात्पर्यात् ।
किञ्चेत्यादि । घटाधिष्टानचैतन्यं घटप्रकाशकमिति मतेऽलीकस्य घटवद्घटाधिष्टानत्वा-योगेन घटप्रकारकतया सत्वमेव घटाधिष्टानं घटप्रकाशकमास्थेयम् । तथा च सति तस्य दोषा- गम्यतानिबन्धनाबाधितार्थकत्वरूपप्रमात्वशालितया तद्विरुद्धस्वविषयालीकत्वापादनशीलं स्वविषयं प्रत्यधिष्टानत्वं न सङ्गच्छत इत्यर्थः । उभयतः पाशा स्पशबाधनस्पर्शनयोरिति धातुव्याख्यानाद्बाधनार्थस्य स्पशेर्घञि स्त्रीत्वविवक्षायां टापि निष्पन्नतयोभयतो बाधमाना रज्जुरित्यर्थः । पस्पशायामिति महाभाष्यकारीयप्रयोगस्य समर्थितत्वात् । अत्राद्वैतसिद्धि-कारः । यतो दोषाजन्यत्वं न प्रमात्वप्रयोजकम् । चैतन्यस्य सर्वत्र दोषाजन्यत्वात् । किं तु दोषाजन्यवृत्यवच्छिन्नत्वम् । प्रकृतेच तदभावान्न विषयस्य सत्यत्वम् । अतो मिथ्याभूतविषयं प्रत्यधिष्टानत्वं सत्याया दृशो युक्तमित्याह । घटाद्याकारवृत्तेरपि सम्भावितेन्द्रियादि-दोषाजन्यत्वात् । अविद्यायाश्च दोषत्वासंप्रतिपत्तेः । अन्यथाऽद्वैतागमविषयश्रोत्रादिवृत्तेरप्य-विद्यादिरूपदोषजन्यत्वेनाप्रमात्वापत्या द्वैतागमस्य प्रातिभासिकपरत्वापत्या द्वैतासिद्धि-प्रसङ्गादिति तद्व्याकर्त्तारः पराचक्रिरे ।
अभाववदित्यादि । परस्परासंयुक्तेत्यादिकविशिष्टधीत्वमेव पक्षतावच्छेदकः । इत्यादि-केत्यन्तांशस्तु परिचायक एव । विशेषणविशेष्यसम्बन्धविषयाविशेषणविशेष्योभयनिष्ट-प्रकारता मुख्यविशेष्यताख्यविषयताद्वयनिरूपितकिञ्चिन्निष्टसांसर्गिकविषयतानिरूपिता । तेन ज्ञानज्ञानत्वसमवायविषयकत्वमादाय सिद्धसाधनानवकाशः । संयोगसमवायविषयकत्व-मादायार्थान्तरवारणाय विशेष्यकान्तम् । स्वनिरूपितमुख्यविशेष्यतानिरूपितसंयोगसमवाय-निष्टसांसर्गिकविषयत्वनिरूपिकेत्यर्थकम् । उक्तेति । निरुक्तपक्षतावच्छेदकाक्रान्तार्थकम् । अबाधितेत्यादि । अत्र साक्षात्कारत्वांशस्य हेतुतावच्छेदककोटिनिवेशनस्याभिप्रेततया यथाश्रुतग्राहिणोऽद्वैतसिद्धिकृतः परोक्षधीष्वनैकान्त्यशङ्कानवकाशैव । अत्राद्वैतसिद्धिकारः– प्रथमेद्वितीये चार्थान्तरम् । आध्यासिकसम्बन्धस्यैव विषयत्वेन निमित्तत्वेन चोपपत्तेः । द्वितीये परोक्षधीषु व्यभिचारश्च । तृतीये ब्रह्मज्ञानपर्यन्ताबाधित्वेन सिद्धसाधनमेव । सर्वथा अबाधितविषयत्वे साध्यवैकल्यमेवेत्याह । तन्न साधीयः । तात्विकसम्बन्धसम्भावनेति नार्थान्तराद्यवकाशः । व्यापकानुपलब्धिबाधन्तु ग्रन्थकृदेवोपरिष्टात्प्रात्याख्यास्यति । विमतेति । आनन्दो ब्रह्मणः स्फुरणमित्यादिकेत्यर्थः । अबाधितेत्यादि । स्वप्रतियोग्यनु-योगिसत्तासजातीयसत्ताकस्य विषयकेत्यर्थः । षष्ठीदण्डक इति ग्रन्थविशेषस्य संज्ञेति पाणिनीयाः ।