११ विश्वामिथ्यात्वस्यागमादिबाधः

किञ्च ‘‘विश्वं सत्यं’’ ‘‘यच्चिकेत सत्यमित्तन्न मोघम्’’

३०. अथ विश्वामिथ्यात्वस्यागमादिबाधः

न्यायामृतं

किञ्च ‘‘विश्वं सत्यं’’ ‘‘यच्चिकेत सत्यमित्तन्न मोघम्’’, ‘याथातथ्यतोऽर्थान् व्यदधाच्छाश्वतीभ्यः समाभ्यः’’ इत्यादिश्रुतिभिः, ‘‘असत्यमप्रतिष्ठं ते जगदाहु-रनीश्वरम्’’ इत्यादिस्मृतिभिः ‘‘नाभाव उपलब्धेः, वैधर्म्याच्च न स्वप्नादिवत्’’ इत्यादिसूत्रैश्च बाधिता दृश्यत्वादयः ।

न चायं प्रत्यक्षप्राप्तानुवादः । त्वन्मते सन् घट इत्यस्य सदर्थस्य व्यावृत्त-घटाद्यन्यानुवृत्तब्रह्मत्वेन घटादिसत्त्वस्याप्राप्तेः । यच्चिकेतेत्यादिवाक्यद्वये ईश्वरस्य मानान्तराप्राप्तसत्यजगत्स्रष्टृत्वस्यैवोक्तेश्च । ‘‘पृथिवी इतरभिन्ना,’’ ‘‘न हिंस्यात्सर्वा भूतानि’’ इत्यादाविव एकदेशे विधेयसिद्धावपि विश्वमात्रे तदसिद्ध्याऽननुवाद-कत्वाच्च । अनुवादकत्वं हि वाक्यस्य न ज्ञातज्ञापकत्वमात्रम्, अतिप्रसङ्गात् । किन्तु ज्ञातमात्रज्ञापकत्वम् । एकशाखास्थविधिवाक्यैकार्थशाखान्तरस्थविधिवाक्यस्य पुरुषान्तरं प्रतीव येन पुंसा वादिविप्रतिपत्त्यादिना प्रत्यक्षेण विश्वसत्यता न निर्णीता तं प्रत्यर्थवत्त्वाच्च । अनुवादकत्वं तु सर्वाविवादस्थले सावकाशम् ।

अत एव त्वयापि बृहदारण्यकभाष्ये देहान्यात्मबोधिकायाः ‘‘अस्तीत्येवोप-लब्धव्यः’’ इति श्रुतेः प्रत्यक्षप्राप्तानुवादित्वमाशङ्क्य वादिविप्रतिपत्तिदर्शना-दित्यादिना तत्परिहृतम् । ‘‘द्वयोः प्रणयन्ति’’ इति वाक्यस्यावैयर्थ्याय चातुर्मास्य-मध्यपर्वणोश्चोदका प्राप्तप्रणयनान्तरप्रापकत्ववद् इहापि श्रुतेरवैयर्थ्याय ‘‘तत्सत्यं’’ इत्यादिश्रुतिवद् वर्तमानमात्रग्राहिप्रत्यक्षाप्राप्तकालत्रयाबाध्यत्वरूपसत्यत्वप्रापक-त्वाच्च । अन्यथा आत्मन आनन्दत्वश्रुतिरपि सुखं सुप्तोऽस्मीति प्रत्यक्षप्राप्ता-तात्त्विकानन्दत्वानुवादिनी स्यात् । अनुवादकत्वं तु अप्राप्तविषयान्तराभावे सावकाशम् । निगमनवत्, तत्त्वमसीति नवकृत्वोऽभ्यासवत्, पिपासितस्य एकजलविषयकलिङ्गशब्दप्रत्यक्षरूपप्रमाणसंप्लववत् त्व(न्मते)त्पक्षे प्रत्यक्षसिद्धे भावरूपाज्ञाने ‘‘तम आसीत्’’ इत्यादिश्रुतिवत्, श्रुतेरैक्यतात्पर्ये षड्विधलिङ्गवच्च प्रत्यक्षानाश्वासनिरासेन दार्ढ्यार्थत्वाच्च । अनुवादकत्वं तु यत्र दार्ढ्यं प्रागेव सिद्धं, तत्रैव । तदुक्तम्– ‘‘बहुप्रमाणसंवादश्च दार्ढ्यहेतुरेव’’ इति ।

अद्वैतसिद्धिः

ननु – अस्तु शब्दबाधः, तथाहि – ‘विश्वं सत्यम्’, ‘यच्चिकेत सत्यमित्तन्न मोघम्’, ‘याथातथ्यतोऽर्थान् व्यदधाच्छाश्वतीभ्यः समाभ्यः’ इत्यादिश्रुतिभिः, ‘असत्यमप्रतिष्ठं ते जगदाहुरनीश्वर’ मित्यदिस्मृतिभिः, ‘नाभाव उपलब्धेः’ ‘वैधर्म्याच्च न स्वप्नादिवत्’ इत्यादि-सूत्रैश्च विश्वस्य सत्यत्वप्रतिपादनादिति – चेन्न । श्रुतेस्तत्परत्वाभावात् । तथा हि–

‘विश्वं सत्यं मघवाना युवोरिदापश्च न प्रमिनन्ति व्रतं वाम् ।

अच्छेन्द्राब्रह्मणस्पती हविर्नोऽन्नं युजेव वाजिना जिगातम्’ –ऋ.२/७/३

इति ऋक्संहिताद्वितीयाष्टकवाक्यस्यायमर्थः – हे इन्द्राब्रह्मणस्पती मघवाना मघवानौ धनवन्तौ । मघमिति धननाम, मखवन्ताविति वा । विश्वं सर्वं, सत्यं कर्म, सद्भूतत्वात्, फलस्यावश्यंभावित्वाद्वा । तादृशं कर्म, युवोरिद् युवयोर् इद् इत्थमवधारणे वा । युवामेवो-द्दिश्य सर्वाणि कर्माण्यनुष्ठेयानीत्यर्थः । आपो व्यापनशीला देवताः । चनेत्येतत्पदद्वय-समुदायः, ऐकपद्यं त्वध्यापकसम्प्रदायसिद्धम् । वां युवयोर्व्रतं सङ्कल्पं कर्म वा न प्रमिनन्ति न हिंसन्ति (मीङ्हिंसायां, क्रैयादिकः) किन्त्वनुमोदन्त इति यावत् । नोऽस्माकं हविर्दध्यादिकम् अन्नं च पुरोडाशादिकं च । अच्छ अभिलक्ष्य । वाजिना वेगवन्तावश्वाविव । युजा युक्तौ सन्तौ । जिगातं देवयजनमागच्छतम् । (जिगातिर्गतिकर्मा जौहोत्यादिकः) अन्नं घासं प्रति अश्वाविवेति वा । यद्वा– हे इन्द्राब्रह्मस्पती विश्वं सर्वं, सत्यं सत्यत्वेन परिदृश्यमानं जगत्, युवोरिद् युवयोरेव, युवाभ्यामेव सृष्टम् । अथवा – युवयोरेव विश्वं सर्वं स्तोत्रं, सत्यं यथार्थम्, यद्यद् गुणजातं स्तुत्या प्रतिपाद्यते तत्सर्वं युवयोर्विद्यमानमेव न त्वारोपित-मित्यर्थः । आपो व्यापनशीला देवताः, अबुपलक्षितानि पञ्चमहाभूतानि वा । युवयोर्व्रतं जगदुत्पादानाख्यं कर्म न हिंसन्ति । इत्थं महानुभावौ युवां जिगातम् । शेषं पूर्ववद्व्याख्ये-यम् । तथा च स्तुतिपरतया नास्य विश्वसत्यत्वे तात्पर्यम् ॥

‘शाक्मना शाको अरुणः सुपर्ण आ यो महः शूरः सनादनीलः ।

यच्चिकेत सत्यमित्तन्न मोघं वसु स्पार्हमुत जेतोत दाता’ –ऋ.सं. ८.१.१७

इत्यस्यापि अष्टमाष्टकस्थस्येन्द्रस्तुतिपरतया न विश्वसत्यत्वे तात्पर्यम् । तथा हि-शाक्मना शक्मैव शाक्म तेन शाक्मना बलेन । शाकः शक्तः, स्वशक्त्यैव सर्वं कर्तुं शक्त इत्यर्थः । न हीन्द्रस्य सहायान्तरापेक्षास्ति, इन्द्रत्वादेव । अरुणो ऽरुणवर्णः कश्चित् शोभनवर्णः पक्षी, आ गच्छतीत्यध्याहारः, उपसर्गश्रुतेः । यो महो महान्, शूरः विक्रान्तः, सनात् पुराणः, अनीलो ऽनीडः नीडस्याकर्ता । न हीन्द्रो ऽग्निवत् कुत्रचिदपि यज्ञे निकेतनं करोति । एवं सुपर्ण इत्यादिरूपकेणेन्द्रमाह । स इन्द्र ‘इदमिदानीं कर्तव्यमिति’ यच्चिकेत जानाति, तत्सत्यमित् सत्यमेव, न मोघं न व्यर्थम् । स्पार्हं स्पृहणीयं वसु निवासार्हं धनं, जेता जयति शत्रुभ्यः सकाशात् । उत अपि, दाता ददाति च स्तोतृभ्यः । जेता दातेति तृन् । तेन ‘न लोके’त्यादिना षष्ठीप्रतिषेधः । एवमेवान्यदपि सत्यत्व-प्रतिपादकमुन्नेयम् ।

‘याथातथ्यतोऽर्थान् व्यदधा’दित्यपि वाक्यं न प्रपञ्चसत्यत्वे प्रमाणम् । तस्य पूर्वसृष्ट-प्रकारेण सर्जनमर्थः, न तु जगत्सत्यत्वं जगत्सर्जनगतसत्यत्वं वा । यत्र च स्तुत्यादिपरत्वं नास्ति, तत्रापि प्रत्यक्षसिद्धानुवादकतया ‘अग्निर्हिमस्य भेषज’मित्यादिवाक््यवन्न तत्परत्वम् । न च – त्वन्मते सर्वत्र ब्रह्मसत्त्वस्यैव स्फुरणात्तदतिरिक्तस्य कालत्रयाबाध्यत्वरूपस्य घटादि-सत्त्वस्य प्रत्यक्षेणाप्राप्तेस् तद्बोधकत्वेन श्रुतेर्नानुवादकत्वमिति वाच्यम् । इतरसत्त्वबाध-पुरस्सरत्वाद् ब्रह्मसत्त्वस्फुरणाभ्युपगमस्य तत्रैव सत्यादिपदप्रवृत्तिस्वीकारेण तदतिरिक्तविश्व-सत्यत्वस्य शाब्दबोधाविषयत्वात् तदादायानुवादकत्वापरिहारात् । अथ– ‘पृथिवी इतर-भिन्ना, ‘न हिंस्यात्सर्वा भूतानी’त्यादौ घटादावेकदेशे प्रत्यक्षेण, ब्राह्मणादावेकदेशे वाक्यान्तरेण, विधेयसिद्धावपि सर्वत्रासिद्धत्वाद् यथा नानुवादकत्वं, तथा विश्वमात्र-सत्यत्वस्य प्रत्यक्षेणाप्राप्तत्वान् नानुवादकत्वमिति – मैवम्; दृष्टान्ते हि पृथिवीत्वं हिंसात्वं च एकोऽनुगतो धर्म इति तदवच्छेदेन विधेयस्याप्राप्तत्वेन तत्र नानुवादकत्वं युक्तम्, इह तु विश्वत्वं नाम नैको धर्मोऽस्ति, किन्तु विश्वशब्दः सर्वनामत्वात्तेन तेन रूपेण घटपटादीना-मुपस्थापकः । तेषु च प्रत्येकं सत्त्वं गृहीतमेवेति कथं नानुवादकत्वम् ? प्रकारवैलक्षण्या-भावात् । न च एकशाखास्थविधिवाक्यैकार्थशाखान्तरस्थविधिवाक्यस्य पुरुषान्तरं प्रतीव येन पंुसा वादिविप्रतिपत्त्यादिना घटादिसत्ता प्रत्यक्षेण न निर्णीता, तं प्रत्यर्थवत्त्वेन नानुवाद-कत्वमिति – वाच्यम्, एवं सत्यनुवादस्थलस्यैवाभावप्रसङ्गात् । न च सर्वाविवाद-स्थलमेवोदाहरणम् । सर्वाविवादस्य निश्चेतुमशक्यत्वात् । पुरोवादपूर्वकत्वादनुवादस्यात्रायं पुरोवाद इत्यस्यैवाभावान् न शाखान्तरस्थवाक्यस्यानुवादकत्वप्रसङ्गः ।

यत्तु – बृहदारण्यकभाष्ये देहभिन्नात्मबोधिकायाः ‘अस्तीत्येवोपलब्धव्यः’ इत्यादिश्रुतेः प्रत्यक्षप्राप्तानुवादित्वमाशङ्क्य वादिविप्रतिपत्तिदर्शनादित्यादिना तत्परिहृतम् । तथा च प्रत्यक्षसिद्धसत्त्वग्राहकत्वेऽपि वादिविप्रतिपत्तिनिरासार्थकत्वेन नानुवादकत्वं प्रकृतेऽपीत्युक्तं तदयुक्तम् । भाष्यार्थानवबोधात् । तथा हि– तत्र वादिविप्रतिपत्तिदर्शनेन देहव्यतिरिक्त-त्वेनात्मनः प्रत्यक्षतैव नास्ति । अन्यथा प्रत्यक्षप्रामाण्यवादिनश्चार्वाकादेस्तत्र विप्रतिपत्तिर्न स्यादित्युक्तम्, न तु वादिविप्रतिपत्तिनिरासेनास्तीत्यादेस्सार्थकत्वम्, अननुवादकत्वं वा । तथा चोक्तं तत्रैव – तस्माज्जन्मान्तरसम्बन्ध्यात्मास्तित्वे जन्मान्तरेष्टानिष्टप्राप्तिपरिहारा-विशेषोपाये च शास्त्रं प्रवर्तत इति ।

ननु – चातुर्मास्यमध्यपर्वणोः ‘द्वयोः प्रणयन्ति’ इति वाक्यस्य चोदकप्राप्ताग्निप्रणयन-व्यतिरिक्ताग्निप्रणयनविधायकत्ववत् प्रत्यक्षप्राप्तव्यावहारिकसत्त्व विलक्षणत्रिकालनिषेधा-प्रतियोगित्वरूपसत्त्वप्रापकत्वं प्रकृतेऽस्त्विति – चेन्न । त्रैकालिकसत्त्व निषेधकश्रुतिविरोधेन विश्वसत्यत्वश्रुतेस्त्रैकालिकसत्त्वपरत्वाभावात् । न च – वैपरीत्यमेव किं न स्यात् ? विनिगमकाभावादिति वाच्यम् । तात्पर्यान्यथानुपपत्तिगतिसामान्यानामेव विनिगमकत्वात् । अद्वैतश्रुतिर्हि षड्विधतात्पर्यलिङ्गोपेता । तत्र त्रिविधं तात्पर्यलिङ्गं प्रामाण्यशरीरघटक-मर्थनिष्ठमज्ञातत्वमबाधितत्वं प्रयोजनवत्त्वं च । त्रिविधं तु शब्दनिष्ठमतिप्रसङ्गवारकमुपक्रमोप-संहारयोरैकरूप्यम्, अभ्यासः, अर्थवादश्चेति । तत्र शब्दनिष्ठलिङ्गत्रये तावन्न विवादः । सर्वासामेवोपनिषदामेवं प्रवृत्तत्वात् । मानान्तरासिद्धतया मोक्षहेतुज्ञानविषयतया च अज्ञातत्वं सप्रयोजनत्वं च निर्विवादमेव । अबाधितत्वमात्रं सन्दिग्धम् । तच्चान्यथानुपपत्त्या गति-सामान्येन च निर्णीयते । न हि सर्वप्रपञ्चनिषेधरूपमद्वैतं व्यावहारिकम् । येन तत्र श्रुते-र्व्यावहारिकं प्रामाण्यं स्यात् । अतस्तत्र तात्त्विकमेव प्रामाण्यम्, द्वैतसत्यत्वं तु व्यावहारिकम् । अतस्तत्र न श्रुतेस्तात्त्विकं प्रामाण्यम् । परस्परविरुद्धयोर्द्वयोस्तात्त्विकत्वा-योगाद्, वस्तुनि च विकल्पासम्भवात्, तात्त्विक व्यावहारिकप्रामाण्यभेदेन च व्यवस्थोपपत्तेः, अतत् (स्तुति)परत्वेनावधारितस्य विश्वसत्यत्ववाक्यस्यैवान्यथा व्याख्यातुमुचितत्वात् । तथा हि – चतुर्धा हि सामानाधिकरण्यम् – अध्यासे ‘इदं रजत’मित्यादौ, बाधायां ‘स्थाणुः पुमानि’त्येवमादौ, विशेषणविशेष्यभावेन ‘नीलमुत्पलमित्यादौ, अभेदेन ‘तत्त्वमसी’-त्येवमादौ । अत्र च बाधायामध्यासे वा सामानाधिकरण्योपपत्तेर्न सत्यत्वबोधकश्रुतेः षड्-विधतात्पर्यलिङ्गोपेताद्वैतश्रुतिबाधकत्वम् । ननु आत्मन आनन्दत्वबोधिका श्रुतिरपि ‘सुखं सुप्तोऽस्मि’ इति साक्षिप्रत्यक्षसिद्धानन्दानुवादिनी सत्त्वश्रुतिवद्भवेद् इति चेन्न, साक्षिण उपहितानन्दविषयत्वेन श्रुतेश्च निरुपाधिकानन्दविषयत्वेन भिन्नविषयत्वादनुवादत्वायोगात् । तदा हि स्वरूपानन्दो गृह्यते । स्वरूपं चाज्ञानोपहितमेव साक्षिविषयः । ननु– ‘तत्त्वमसी’-त्यादौ नवकृत्वोऽभ्यासवत्, पिपासितस्य जलगोचरप्रमाणसंप्लववत्, ऐक्ये षड्विधतात्पर्य-लिङ्गवत्, भावरूपाज्ञाने प्रत्यक्षसिद्धे ‘तम आसी’दित्यादिश्रुतिवत्, सत्त्वश्रुतिर्दार्ढ्यार्था – इति चेन्न । अशेषविशेषग्राहिप्रत्यक्षप्राप्तदार्ढ्यार्थमन्यानपेक्षणात् । पिपासितस्य शब्दलिङ्गा-नन्तरं जले प्रत्यक्षमपेक्षितम्, न तु प्रत्यक्षानन्तरं शब्दलिङ्गे । न च तर्हि ‘तम आसी’-दित्यादेर् न किञ्चिदवेदिषमिति प्रत्यक्षसिद्धाज्ञानदार्ढ्यार्थत्वं न स्यादिति वाच्यम् । ‘तम आसी’दित्यस्य सृष्टिपूर्वकालसम्बन्धित्वेनाज्ञानग्राहितया सुषुप्तिकालसम्बन्धित्वेनाज्ञानग्राहकं प्रत्यक्षमपेक्ष्य भिन्नविषयत्वेनैव प्रामाण्यसम्भवात् ।

न्यायामृततरङ्गिणी

विश्वमिथ्यात्वस्यागमबाधमाह ॥ किञ्चेति ॥ विश्वं सत्यमित्यादि ॥ ‘‘विश्वं सत्यं मघवाना युवोरिदापश्चन प्रमिनन्ति व्रतं वाम् । अच्छेन्द्रा ब्रह्मणस्पती हविर्नो अन्नं युजेव वाजिना जिगातम्’’ इति मन्त्रस्यायमर्थः । हे मघवन्तौ धनवन्तौ मखवन्ताविति वा । इन्द्राब्रह्मणस्पती, युवोर् युवयोः सम्बन्धि, विश्वं जगत्, सत्यमित् सत्यमेव । वां युवयोर् व्रतं सत्यजगत्सर्जनादि आपश्चन व्यापनशीला देवता अपि प्रमिनन्ति जानन्ति । डु मिञ्प्रक्षेपणे क्य्रादिः । नो ऽस्मदीयं हविर्दध्यादिकं प्रति अन्नं च पुरोडाशादिकं च प्रति अच्छजिगातं सम्यक् आगच्छतम् । जिगातिर् गतिकर्मा जौहोत्यादिकः । काविव? वाजिनौ अन्नवन्तौ युजेव सखायाविवेति । यस्तु – विश्वं सर्वं, सद्भावत्वाद्वा फलस्यावश्यकत्वाद्वा सत्यं कर्म, युवोरिद् युवाभ्यामेवोद्दिश्य क्रियते । वां युवयोर्व्रतं जगत्सर्जनादि आपो देवता अपि न हिंसन्ति । चनेत्येतत्पदद्वयम् । अध्यापकप्रसिद्ध्या त्वेकं पदमित्याह । तन्न । सत्यशब्दस्य कर्मण्यप्रसिद्धेर् अबाध्य एव प्रसिद्धेश्च । अन्यथा सत्यं ज्ञानमित्यादावपि सद्धेतुत्वादिस्तदर्थः स्यात् । पदगणनाया-मध्यापकेषु चैकपदत्वेन प्रसिद्धस्य भिन्नपदत्वे मानाभावात् । नुकम् इत्यादिवच् चन-शब्दस्याव्ययेषु चनाभ्यां पृथक् पाठाच्च । ममच्चनत्वा युवतिः परासममच्चनत्वा कुषवा जगारेत्यादिषु चनशब्दस्यैकपदत्वेनैव माधवीये व्याख्यातत्वेनेहापि तथात्वस्यैवोचितत्वात् । नेह नानास्ति किञ्चनेत्यादिषु तदेकपदत्वस्य स्वयमप्यङ्गीकृतत्वाच्च ।

शाक्मना शाको अरुणः सुपर्णः । आ यो महः शूरः सनादनीडः । यच्चिकेत सत्यमित्तन्न मोघं वसुस्पार्हमुत जेतोत दाता’’ । इतीन्द्रप्रतिपादकमन्त्रस्यायमर्थः । शाक्मना=शक्मैव शाक्म । तेन शाक्मना बलेन । शाकः शक्तः स्वशक्त्यैव सर्वं कर्तुं शक्त इत्यर्थः । न हि इन्द्रे सहायान्तरापेक्षाऽस्ति इन्द्रत्वादेव । अरुणोऽरुणवर्णः, सुपर्णः शोभनपतनः, यः प्रसिद्धः । आ अभिव्याप्तः, महः महान्, शूरः विक्रान्तः, सनात् पुराणो ऽनीडः नीडस्याकर्ता । न हीन्द्रोऽग्निवत्कुत्रचिदपि यज्ञे निकेतनं करोति । स्पार्हं स्पृहणीयं वसु धनं, जेता जयति शत्रुभ्यः सकाशाद् उत अपि दाता ददाति स्तोतृभ्यः । जेता दातेति तृन् । तेन न लोकेत्यादिना षष्ठीनिषेधः । एवंविध इन्द्रः यद् यस्मात् सत्यमित् सत्यमेव चिकेत तत्तस्मान्न मोघं न मिथ्या ।

कविर्मनीषी परिभूः स्वयम्भूर्याथातथ्यतोऽर्थान्व्यदधाच्छाश्वतीभ्यः समाभ्य इति मन्त्रस्यायमर्थः । कविर् ज्ञानी । मनसां मनसा वा ईष्टे इति मनीषी । परिभावयति सर्वानिति परिभूः सर्वोत्तमः । स्वयम्भूः स्वरूपसामर्थ्यः । शाश्वतीभ्यः समाभ्यः सर्वदा । याथातथ्यतः सत्यान् अर्थान् महदादीन् व्यदधान् निर्मितवान् । न च याथातथ्यत इत्यस्य पूर्वसृष्टप्रकारेण सर्जनमर्थ इति वाच्यम् । यथार्थशब्दसमानार्थात्ततोऽबाध्यत्वरूपार्थस्यैव प्रतीतेः । असत्यमिति । असत्यं, ब्रह्मण्यप्रतिष्ठितं जगद् ये आहुस् ते असुरा इत्यर्थः । नाभाव इति ॥ अभावः सद्भिन्नं जगन्न भवति उपलब्धेः सत्त्वेनोपलब्धेरित्यर्थः ॥ वैधर्म्यादिति ॥ जगत् स्वप्नमरीचितोयतुल्यं न भवति । वैधर्म्यात् स्वप्नादिवैलक्षण्यानु-भवादित्यर्थः । स्वप्नशब्देनात्र स्वप्नगजादिगतं जाग्रत्त्वं गृह्यते । जगतः स्वाप्नसाम्यस्य सिद्धान्तेऽपीष्टत्वादिति विभावनीयम् ॥ त्वन्मत इति ॥ परमते घटो नित्य इत्यादि-ष्विव सन् घट इत्यत्र घटे सत्त्वं न विषयः किन्त्वधिष्ठानभूतसद्ब्रह्मानुवेधमात्रमित्यङ्गी-काराद्धटादिषु सत्यत्वस्य प्रत्यक्षतोऽप्राप्तेरिति भावः ॥ यच्चिकेतेत्यादीति ॥ यच्चिकेतेत्यत्रेश्वरकृतजगदनुवादेन न सत्यत्वमात्रविधिः सम्भवति । जगत ईश्वरकृतत्वस्य केवलानुमानाद्यवेद्यतया मानान्तराप्राप्तत्वेनानुवाद्यत्वायोगात् । किन्तु सत्यकामादिवाक्य इव सत्यत्वविशिष्टजगत्स्रष्टृत्वमीश्वरस्योच्यते । विधानाभावाच्च न विशिष्टविधिशेषः । न चास्य स्तुतिपरतया न स्वार्थपरतेति वाच्यम् । मानान्तराविरोधे सति ‘‘आ ते सिञ्चामि कुक्ष्योः’’ इत्यादेर्देवताविग्रहस्येव जगत्सत्यत्वस्याप्येतस्मात्सिद्धेः । उक्तं चैतद्वाचस्पत्ये देवताधिकरणे ॥ पृथिवीति ॥ घटादावितरभेदस्य प्रत्यक्षेण ब्राह्यणो न हन्तव्य इत्यादिना ब्राह्मणादावेकदेशे हिंसाभावस्य सिद्धावपि पृथिवीमात्रे प्राणिमात्रे च तयोरसिध्द्या यथा नानुवादकत्वं तथेहापि कतिपयेषु घटादिषु प्रत्यक्षेण सत्त्वग्रहेऽपि तदयोग्येषु श्रुत्या सत्यत्वबोधनान्न तस्या अनुवादकत्वमित्यर्थः ।

ननु दृष्टान्ते हि पृथिवीत्वं हिंसात्वं चैकोऽनुगतो धर्म इति तदवच्छेदेन विधेयस्या-प्राप्तत्वेन तत्राननुवादकत्वं युक्तम् । इह तु विश्वत्वं नाम नैको धर्मोऽस्ति । किन्तु विश्वशब्दः सर्वनामत्वान्न तेन रूपेण घटपटादीनामुपस्थापकः । तेषु च प्रत्येकं सत्यत्वं गृहीतमेवेति कथं नानुवादकता । प्रकारवैलक्षण्याभावादिति चेन्मैवम् । सर्वनामपदेषु तदादिषु प्रकृतानां तत्तद्रूपेणोपस्थापकत्वेऽपि जगदादिशब्दसमानार्थकविश्वादिशब्दैः सर्ववृत्तिधर्मप्रकारेण सर्वोपस्थापकत्वस्यानुभवसिद्धत्वेन घटत्वादिप्रकारभिन्नप्रकारेण जगत्सत्यत्वस्य विश्वं सत्यमित्यादिना बोधनात् । यच्चोक्तं हिंसात्वमेकोऽनुगतो धर्म इति, तत्तुच्छम् । न हि न हिंस्यादित्यहिंसात्वावच्छेदेन किञ्चिद्विधीयते । किन्तु भूतेषु हिंसाभावः । तथा च किं हिंसात्वस्यानुगमकथनेनेति भावः ॥ अतिप्रसङ्गादिति ॥ सिद्धमनूद्यासिद्धं विदधदपि दध्ना जुहोतीत्याद्यनुवादवाक्यमापद्येतेत्यर्थः ॥ एकशाखा-स्थेति ॥ तत्तच्छाखागतवाक्यानां तत्तच्छाखाऽध्येतृन्प्रत्यर्थवत्त्वं, अन्यथा अनन्यार्थपुनः-श्रुतिरूपादभ्यासाच्छाखान्तरे कर्मभेदः स्यादित्यर्थः ।

उक्तं च द्वितीयस्य चतुर्थपादे नामरूपधर्मविशेषपुनरुक्तिनिन्दाशक्तिसमाप्ति वचन-प्रायश्चित्तान्यार्थदर्शनाच्छाखान्तरे कर्मभेदः स्यात् । नानाशाखाम्नाताग्निहोत्रादि भिन्नं न वेति संशये अनन्यार्थपुनःश्रुतिरूपादभ्यासाद्भिद्यत इति प्राप्ते पुनः श्रुत्या हि कर्म विधेयमित्येव तावत्सिध्यति । न तु भेदः । विधिवशात्तु भेदसिद्धिरन्यत्र विहितस्य विधानायोगादिति । इह तु शाखाभेदानामध्येतृभेदनियतत्वेन विहितस्यापि पुरुषान्तरं प्रति विधिः सम्भवतीत्यन्यथासिद्धा पुनरुक्तिर्न कर्म भिनत्तीति । नामरूपाद्युदाहरणानि वार्तिकादिषु द्रष्टव्यानि ॥ येन पुंसेति ॥ प्रतिपत्तृव्यवस्थयाऽनधिगतार्थबोधकत्वस्येहापि सत्त्वादित्यर्थः । न च पुरोवादपूर्वकत्वादनुवादस्यात्रायं पुरोवाद इत्यस्यैवाभावान्न शाखान्तरस्थवाक्यस्यानुवादकत्वप्रसङ्ग इति वाच्यम् । ‘‘भूयस्त्वेनोभयश्रुती’’ति न्यायेन कर्मस्वरूपनिश्चयवद्वेदद्रष्टृप्रथमव्यक्त्यपेक्षया पुरोवादस्यापि निश्चयात् । सादिप्रत्यक्षस्यानादि वेदात्पुरोवादकत्वासम्भवाच्च । तस्मात्प्रतिपत्तृव्यवस्थयैवाननुवादकत्वं वाच्यमिति भावः ॥ न निर्णीतेति ॥ एतच्च विशेषादर्शनकालीनसंशयस्य प्रतिबन्धकतया तत्सामग्य्रा अपि तथात्वमित्यभिप्रेत्योक्तम् ।

नन्वेवमनुवादः क्वापि न सिध्द्येदित्यत आह ॥ अनुवादकत्वं त्विति ॥ न च सर्वाविवाद एकत्रासम्भवीति वाच्यम् । अग्निर्हिमस्य भेषजम् अस्यामोषधयो जायन्ते अग्निरेनां स्वदयतीत्यादिषु सर्वाविवादस्य सिद्धत्वात् ॥ वादिविप्रतिपत्तीति ॥ ननु तत्र वादिविप्रतिपत्तिदर्शनेन देहव्यतिरिक्तात्मनः प्रत्यक्षतैव नास्ति । अन्यथा प्रत्यक्षप्रामाण्य-वादिनश्चार्वाकादेस्तत्र विप्रतिपत्तिर्न स्यादित्युक्तं बृहदारण्यकभाष्ये । न तु वादिविप्रतिपत्ति निरासेनास्तीत्यादेः सार्थकत्वमननुवादकत्वं वा तत्रोक्तमिति चेन् मैवम् । तद्वदेव वादिविप्रतिपत्तिदर्शनाज्जगत्सत्यत्वमपि न प्रत्यक्षविषयः । अन्यथा प्रत्यक्षप्रामाण्यावादिन-स्तव ममेव जगत्सत्यत्वे विप्रतिपत्तिर्न स्यादित्येवंपरत्वादस्य वाक्यस्य न कोऽपि दोषः । अत एव बृहदारण्यकभाष्य एवोक्तं तस्माज्जन्मान्तरसम्बन्ध्यात्मास्तित्वे जन्मान्तरेष्विष्टा-निष्टप्राप्तिपरिहाररूपविशेषोपाये च शास्त्रं प्रवर्तत इति ॥

द्वयोः प्रणयन्तीति ॥ चातुर्मास्यानीति कर्मनाम । तेषु वैश्वदेववरुणप्रघाससाकमेध शुनासीरीयाख्यानि चत्वारि पर्वाणि । तत्र ‘द्वयोः प्रणयन्ति तस्माद्द्वाभ्यामेति’ इति श्रूयते । तस्य च द्वाभ्यामेतीति वाक्यशेषात् ‘‘ऊरू वा एतौ यज्ञस्य यद्वरुणप्रघासश्च साकमेधश्चेति’’ गमनसाधनोरुसंस्तुतमध्यपर्वद्वयविषयत्वे निश्चिते चातुर्मास्यानां दर्शपूर्णमासविकृतित्वेन प्रणयनस्य प्राप्ततया प्रणयनपुनःश्रुतेर्वैयर्थ्यम् । तथा हि । सा किं परिसङ्ख्यार्था वा गुणार्था वाऽर्थवादार्था वा । नाद्यः । तथा सति द्वयोर्मध्यमपर्वणोरेव प्रणयनं नेतरयोर्द्वयोरिति तत्राहवनीयाभावाद्यागाभावः स्यात् । अथोच्येत । न प्रणयनमात्रं परिसङ्ख्येयं किन्तु धर्मपरिसङ्ख्या । द्वयोरेव धर्मवत्प्रणयनं नेतरयोरिति । मैवम् । न हि धर्मवद्दर्शपूर्णमासयोः प्रणयनम् । येन धर्ममात्रपरिसङ्ख्यायां कृतायां केवलमधर्मकं प्रणयनमितरत्रापि क्रियते । तस्मान्न परिसङ्ख्यार्था । न द्वितीयः । यत्र हि तस्मिन्नेव वाक्ये गुणिनमुच्चार्य किञ्चिद्विधीयते । यथा दध्ना जुहोति, शरमयं बर्हिर्भवतीति । तत्र गुण-विधिः । इह तु प्रणयनमुच्चार्य न किञ्चिद्विधीयते । न तृतीयः । यत्र हि कस्यचिद्विधि-स्तत्रार्थवादो भवति । विधिना त्वेकवाक्यत्वादित्युक्तम् । प्रणयनं तु दर्शपूर्णमासयो-र्विधीयते । इह तु वाक्ये तदविधानात् किमर्थवादेन । तस्मात् प्रणयनपुनः श्रुतिरनन्यार्था भेदिका भवतीति दर्शपूर्णमासपूर्वकाद् गार्हपत्यावधिकाहवनीयप्रणयनाद पूर्वमेवाहवनीया-वधिकमुत्तराहवनीयप्रणयनं द्वयोः प्रणयन्तीति वाक्येन बोध्यते ।

तदुक्तं टुप्टीकायां तन्त्ररत्ने च सप्तमाध्याये तृतीयपादे । शाखान्तरे अग्निप्रणय-नोत्तरकालम् आह– वनीयाद् द्वावध्वर्युप्रतिप्रस्थातारौ अग्नी प्रणयत इति श्रूयते । तदेक-वाक्यतया द्वयोः प्रणयन्तीत्यनेनाहवनीयात् प्रणयनं विधीयते । तेन चोदकप्राप्तं यद्गार्हपत्यप्रणयनं ततो विलक्षणमिदं तदुत्तरकालमाहवनीयाद्विहारयोः प्रणयनं पशुबन्ध-वदिति । अत्र कश्चिदग्निप्रणयनमबुद्ध्वा तत्स्थाने अप्प्रणयनमिति लिखति । स मीमांसागन्धवैधुर्यमात्मनो व्यानञ्जेत्युपेक्षणीयः ॥ श्रुतेरिति ॥ विश्वं सत्यमित्यादि-कायाः ॥ तत्सत्यमित्यादीति ॥ तव मते सन् घटः सद्धटज्ञानम् अहमस्मि अज्ञोऽस्मि सत्सुखस्फुरणमित्यादिप्रत्यक्षेणात्मसत्यत्वप्राप्तेर् आत्मसत्त्वप्रतिपादिकायास्तत्सत्यं स आत्मेत्यादिकायाः श्रुतेर्वैयर्थ्यं स्यात्तन्मा भूदित्येवमर्थमित्यर्थः ।

ननु न विश्वसत्यत्वश्रुतिस्त्रैकालिकसत्त्वपरा । त्रैकालिकसत्त्वनिषेधकश्रुतिविरोधात् । न च वैपरीत्यमेव किं न स्याद्विनिगमकाभावादिति वाच्यम् । तात्पर्यान्यथानुपपत्ति-गतिसामान्ययोरेव विनिगमकत्वात् । अद्वैतश्रुतिर्हि षड्विधतात्पर्यलिङ्गोपेता । तत्र त्रिविधं तात्पर्यलिङ्गं प्रामाण्यशरीरघटकम् अर्थनिष्ठमज्ञातत्वमबाधितत्वं प्रयोजनवत्त्वं च । त्रिविधं तु शब्दनिष्ठमतिप्रसङ्गवारकम् उपक्रमोपसंहारैकरूप्यमभ्यासोऽर्थवादश्चेति । तत्र शब्दनिष्ठलिङ्गत्रये तावन्न विवादः । सर्वासामुपनिषदामेवंप्रवृत्तत्वान् मानान्तरासिद्धतया मोक्षहेतुज्ञानविषयतया चाज्ञातत्वं प्रयोजनवत्त्वं च निर्विवादमेव । अबाधितत्वमात्रं सन्दिग्धम् । तच्चान्यथानु-पपत्तिगतिसामान्याभ्यां निर्णीयते । न हि सर्वप्रपञ्चनिषेधरूपमद्वैतं व्यावहारिकम् । येन तत्र श्रुतेर्व्यावहारिकं प्रामाण्यं स्यात् । अतस्तत्र तात्विकमेव प्रामाण्यम् । द्वैतसत्यत्वं तु व्यावहारिकम् । अतस्तत्र न श्रुतेस्तात्त्विकं प्रामाण्यम् । परस्परविरुद्धयोर्द्वयो-स्तात्विकत्वायोगात् । वस्तुनि च विकल्पासम्भवात् । तात्विकव्यावहारिकप्रामाण्यभेदेन व्यवस्थोपपत्तेः । स्तुतिपरत्वेनावधारितस्य विश्वसत्यत्ववाक्यस्यैवान्यथा व्याख्यातुमुचित-त्वात् । तथा हि । चतुर्धा हि सामानाधिकरण्यम् । अध्यासे इदं रजतमित्यादौ । बाधायां स्थाणुः स पुमानित्येवमात्यादौ । विशेषणविशेष्यभावेन तु नीलमुत्पलमित्यादौ । अभेदेन तत्त्वमसीत्यादौ । अत्र च बाधायामध्यासे वा सामानाधिकरण्योपपत्तेर्न सत्त्वबोधकश्रुतेः षड्विधतात्पर्यलिङ्गोपेताद्वैतश्रुतिबाधकत्वमिति ।

अत्रोच्यते । एवं हि बाधिततया प्रतीयमानादन्यार्थस्यानुपपत्त्या स एवाबाधितोऽर्थ इत्यध्यवसीयत इत्युक्तं स्यात् । तथा च तत्त्वमसीत्यादौ सामानाधिकरण्यस्य तत्त्वमादि-पदार्थ विशिष्टैक्यं विना यस्यार्थस्यानुपपत्त्या विशिष्टैक्यमर्थः स्यात्तत्र लक्षणादिनो-पपत्तिरिति यदि तर्ह्यद्वैतवाक्येऽपि स्वतन्त्राद्वितीयमर्थोऽस्तु । अन्यथा तव मते व्यावहारिकार्थं प्रस्तरवाक्यं व्यावहारिकं यजमानाभेदं बोधयेत् । मानान्तरं तु प्रातिभासिकं यजमानभेदं बोधयति । तत्त्वमसिवाक्यमपि तात्विकं विशिष्टाभेदं बोधयति । प्रत्यक्षं तु तयोर्व्यावहारिकं भेदं बोधयतीति द्वय्यपि मीमांसोन्मूलिता स्यात् । गतिसामान्यं त्वभ्यासपर्यवसन्नमबाधित्वा साधकमसिद्धञ्च । सर्वस्यापि वाक्यस्य त्वन्मते अखण्डब्रह्म-परत्वात् । तस्माद्द्वैताद्वैतवाक्ययोर्विरोधे मानान्तराविरुद्ध एव वाक्यार्थोऽध्यवसातव्य इति द्वैतश्रुतेरेवाद्वैतश्रुतिबाधकत्वं युक्तम् । व्यावहारिकतात्विकार्थविषयत्वेन श्रुतेर्व्यवस्थापनं त्वयुक्तम् । अन्योन्याश्रयापातेन विनिगमनाविरहात् । अध्यासे बाधे च सामानाधि-करण्योपपादनमप्ययुक्तम् । तदध्यासादेरद्याप्यसिद्धेरिति ॥ सुखं सुप्तोऽस्मीति ॥ सुप्तौ स्वरूपानन्दो गृह्यते, स्वरूपं च तदज्ञानोपहितमेव साक्षिविषय इति सौषुप्तिकानन्दस्या-तात्विकत्वमित्यर्थः । ननु साक्षिण उपहितानन्दविषयत्वं श्रुतेश्च निरुपाधिकानन्दविषयत्वान् नानुवादकत्वं भिन्नविषयत्वादिति चेत् तर्हि प्रत्यक्षगृहीतसत्त्वापेक्षया श्रुतेरपि भिन्नसत्त्वं विषय इति नानुवादकत्वं श्रुतेरित्यवेहि । साधारणधर्मदर्शनादिजन्यप्रामाण्यसंशयाक्रान्तत्व-रूपानाश्वासनिरासप्रयोजनवत्त्वेन न निष्प्रयोजनानुवाद इत्याह ॥ निगमनवदित्या-दिना ॥ ननु पिपासितस्य शब्दादिना जले ज्ञातेऽपि न प्रत्यक्षेण तज्ज्ञानमिति तत्सिध्यर्थं प्रत्यक्षापेक्षा । प्रकृते तु प्रत्यक्षसिद्धे सत्यत्वे न शब्दापेक्षा भविष्यतीत्यत आह ॥ प्रत्यक्षसिद्ध इति ॥ न किञ्चिदवेदिषमिति प्रत्यक्षसिद्धेऽप्यज्ञाने तम आसीदिति श्रुतेस्त्वयापि प्रमाणत्वेनोपन्यासादित्यर्थः । न च तम आसीदित्यस्य सृष्टिकाल-सम्बन्धित्वेनाज्ञानग्राहितया सुषुप्तिकालसम्बन्धित्वेनाज्ञानग्राहकप्रत्यक्षमपेक्ष्य भिन्नविषय-त्वेनैव प्रामाण्यसम्भव इति वाच्यम् । एतावन्तं कालं शुद्धं ब्रह्म नावेदिषमिति अनादिकालसंसृष्टाज्ञानानुभवेन सृष्टिकालेऽपि तत्सिद्धेः ॥

न्यायामृतकण्टकोद्धारः

क्रमप्राप्तमागमबाधमाह– किञ्चेति । विश्वं सत्यमिति मन्त्रस्य तावदयमर्थः–

‘‘विश्वं सत्यं मघवाना युवोरिदापश्चन प्रमिनन्ति व्रतं वाम् ।

अच्छेन्द्रा ब्रह्मणस्पती हविर्नोन्नं युजेव वाजिना जिगातम् ॥’’

इति हि द्वितीयाष्टकस्थो हि मन्त्रः । हे इन्द्राब्रह्मणस्पती । मघवाना मघवानौ मघवन्तौ । मघमिति धननाम । मखवन्ताविति वा । युवोर् युवयोः सम्बन्धि विश्वं सर्वं जगत् । यद्वा अर्थवशाद् विभक्तिविपरिणामः । युवाभ्यां सृष्टं जगत् । सत्यमित् । इच्छब्दोऽवधारणे । सत्यमेव यथार्थमेव न तु ज्ञानबाध्यमित्यर्थः । अत्रोपपत्तिमाह – आपश्चन । चनशब्दो निपातसमुदायोऽप्यर्थः । आपो वै सर्वा देवता इति श्रुतेः, देवता अपि । वां युवयोर्व्रतं सत्यजगत्सर्जनादिरूपं, प्रमिनन्ति यथार्थतो जानन्ति । तथा च देवैर्यथार्थतो ज्ञातत्वाद् ब्रह्मवत् सत्यमित्युक्तं भवति । यद्वा, विश्वं समग्रं सत्यं कर्म युवयोरिद् युवामुद्दिश्यैवानुष्ठेयमिति । द्वितीयपादार्थः पूर्ववत् । अस्मिन् पक्षे जगत्सत्यत्वाभावे कर्मणां सत्यत्वं नोपपद्यत इति तत्सत्यत्वोक्त्या जगत्सत्यत्वमपि सिध्यति । अथवा युवयोरेव विश्वं सर्वं स्तोत्रं सत्यं यथार्थम् । यद् यद् गुणजातं श्रुत्या प्रतिपाद्यते तत् सर्वं युवयोर्विद्यमानमेव, न त्वारोपितमित्यर्थः । एतादृशौ युवां नोऽस्माकं हविर्दध्यादिकम् अन्नं चरु पुरोडाशादिकं च अच्छा अभिलक्ष्य वाजिना वेगवन्तौ अश्वाविव युजा युक्तौ जिगातम् आगच्छतम् । अयं गतिकर्मा जुहोत्यादिकः । अन्नं घासं प्रति अश्वाविवेति वा । न चात्र सत्यं सत्यत्वेन प्रतीयमानमित्यर्थ इति वाच्यम् । ‘तत् सत्यं स आत्मा’ इत्यत्रापि तथात्वापत्तेः । यच्चिकेतेति ।

शाक्मना शाको अरुणः सुपर्ण आयो महः शूरः सनादनीः ।

यच्चिकेत सत्यमित् तन्न मोघं वसु स्पार्हमुत जेतोत दाता ॥

इति मन्त्रस्यायमर्थः । शक्मैव शाक्म । तेन शाक्मना बलेन शाकः शक्तः । स्वशक्त्यैव सर्वं कर्तंु शक्त इत्यर्थः । न हीन्द्रस्य सहायान्तरापेक्षाऽस्तीन्द्रत्वादेव । अरुणो ऽरुणवर्णः । सुपर्णः सुष्ठु परमानन्दरूपः । आ इत्युपसर्गश्रुतेर् आगच्छतीत्यध्याहारः । यद्वा आसमन्ताद् यो महान् शूरः विक्रान्तः सनात् पुराणो ऽनीर् अनीडः । उपलक्षणमेतत् । पोषकादिविहीनः । एवम्भूतो य इन्द्रः स यच्चिकेत यच्चकार तत् सत्यमित् तत् सत्यमेव । न तु बाध्यमित्यर्थः । कथम्भूतः? स्पार्हं स्पृहणीयं, वसु धनं जेतापि शत्रुभ्यः, दातापि स्वभक्तेभ्यः । उतशब्दोऽ-प्यर्थः । जेता दातेति तृन् । तेन नलोकेति षष्ठीनिषेधः ।

याथातथ्यत इति । ‘‘कविर्मनीषी परिभूः स्वयं भूर्याथातथ्यतोऽर्थान् व्यदधाच्छाश्वतीभ्यः समाभ्यः’’ इति श्रुतेरयमर्थः । कविः सर्वज्ञः । मनीषी मनसामीशिता इन्द्रियप्रेरकः । परिभवति सर्वानिति परिभूः । स्वयम्भूः स्वतन्त्रो भगवान् । अर्थान् महदादीन् । शाश्वतीभ्यः समाभ्योऽनन्तानन्तकालेषु याथातथ्यतो यथार्थानेव व्यदधाद् अकरोदिति ।

स्मृतौ, येऽसत्यमप्रतिष्ठं जगदाहुस्त आसुरा इत्यग्रिमेण सम्बन्धः । अप्रतिष्ठं ज्ञानबाध्यम् । असत्यं सद्विलक्षणम् ।

नाभाव इति । जगदभावो न असन्न । उपलब्धेः सदिति प्रतीयमानत्वात् । ननु सदिति प्रतीयमानमपि स्वप्नवद् असत्यं किं न स्याद् इत्यत्रोक्तं वैधर्म्याच्चेति । सदिति प्रतीयमानत्वेऽपि जगत् स्वप्नवद् असन्न । बाधाभावरूपस्वप्नवैधर्म्यादिति सूत्रद्वयार्थः । न च स्तुतिपरत्वान् मन्त्रद्वयस्य न जगत्सत्यत्वे मानत्वमिति वाच्यम् । एवं सर्वत्र मन्त्रेषु स्तुतिपरताया वक्तुं शक्यत्वेन वस्तुपरत्वाभावे अर्थप्रकाशनसामर्थ्यरूपलिङ्गेन मन्त्राणां विनियोगो जैमिनिना नोच्येत । मन्त्राणामिन्द्रादिपरत्वाभावेनार्थप्रकाशनरूपसामर्थ्याभावात् । तथा श्रुत्या लिङ्ग-बाधोऽपि नोच्येत । लिङ्गप्राप्तार्थकस्य तदर्थशास्त्रस्यानुवादकताऽपि नोच्येत । न चार्थ-परत्वाभावेऽपि तत्प्रतीतिमात्रेणार्थप्रकाशनरूपलिङ्गसद्भाव इति वाच्यम् । तात्पर्यभ्रमेण शक्तिभ्रमेण वाऽन्यार्थप्रतीतिसम्भवात् । किञ्चैवं स्तुतिपरत्वं सत्यं ज्ञानमनन्तमित्यादावपि वक्तुं शक्यम् । यतः सत्यत्वादिधर्मोपेतम् अत उत्कृष्टं ब्रह्म ज्ञेयमिति । एवं च ब्रह्मणः सत्यत्वादिकं न सिध्येत् । तत्र तात्पर्यलिङ्गमस्तीति चेत् प्रकृतेऽपि तस्याग्रे वक्ष्यमाणत्वात् । अपि च स्तुतिपरत्वेऽपि कुतः सत्यत्वाद्यसिद्धिः? स्तुतेरसद्गुणकीर्तनरूपत्वादिति चेन्न । नाविद्यमानमिति श्रुतिविरोधात् । अविद्यमानस्तुत्याऽनर्थोक्तेश्च । नन्वेवमुभयत्र तात्पर्ये वाक्यभेद इति चेन्न । सत्यज्ञानादिवाक्ये सत्यत्वासद्व्यावृत्त्योरिवोभयत्र तात्पर्योपपत्तेः । तत्र सत्यत्वे शब्दतोऽन्यत्रार्थत इति न वाक्यभेद इति यदि तर्हि प्रकृतेऽपि जगत्सत्यत्वे शब्दस्य स्वतस्तात्पर्यम्, अर्थात् स्तुतावित्यस्तु । तस्मात् स्तुतिपरत्वान्न सत्यत्वादौ तात्पर्यमित्ययुक्तम् ।

अत्रादिपदेन क्रमेण ‘विश्वं सत्यं कृणुहि विष्टमस्तु’ । ‘असत्यमाहुर्जगदेतदज्ञाः।’ ‘असत्य-मप्रतिष्ठं ते जगदाहुरनीश्वरम् । अपरस्परसम्भूतम् ।’ ‘नासतो दृष्टत्वात् ।’ इति श्रुतिस्मृति-सूत्राणि ग्राह्याणि । तत्र तावत् श्रुतेरनुवादकत्वेनाप्रामाण्याद् दुर्बलत्वात् प्रमाणीभूत-मिथ्यात्वानुमानादेर्न बाधकत्वम् । अधिकबलस्यैव तथात्वादित्याशङ्क्य निषेधति– न चायमिति । ततश्चाप्रामाण्यादिकं दूर इति भावः । त्वन्मत इति । तथा चेदं रजतमित्यत्र यथा शुक्तिनिष्ठत्वेनेदन्त्वं धर्मितावच्छेदकत्वेन भासते तथा सन् घट इत्यत्रापि घटादिधर्मितावच्छेद-कत्वेन ब्रह्मनिष्ठमेव सत्त्वं भासते न तु घटनिष्ठत्वेनेति घटादिनिष्ठसत्त्वस्य प्रत्यक्षाप्राप्ततया घटनिष्ठसत्त्वबोधकश्रुतेर्नानुवादकत्वमिति भावः । मन्मतेऽनुवादकत्वेऽपि त्वां प्रति तत्परिहार-मात्रेण प्रमाणत्वसम्भवात् । अन्यथा परार्थानुमानप्रयोगे प्रतिवादिना वादिसिद्धतया सिद्धसाधनतोच्येत ।

ननु इतरसत्त्वबाधपुरःसरत्वाद् ब्रह्मस्फुरणाभ्युपगमस्य तत्रैव सत्यादिपदवृत्तिस्वीकारेण तदतिरिक्तविश्वसत्त्वस्य शाब्दबोधाविषयत्वात् तदादायानुवादकत्वापरिहार इति चेन्न । एवं हि वदतेदमुक्तं भवति । ब्रह्मसत्त्वमेव घटादौ स्फुरतीत्यङ्गीक्रियते । इतरस्य घटादिनिष्ठसत्त्वस्य बाधात् । एवं च ब्रह्मसत्त्व एव सत्त्वपदशक्तिर्गृहीतेति यत्र यत्र सत्पदं श्रूयते तत्र सर्वत्र ब्रह्मसत्त्वस्यैव बुद्धिः । नेतरस्य । तत्र शक्तेरगृहीतत्वात् । एवं च विश्वं सत्यमित्यादावपि प्रत्यक्षे यत् सत्त्वं भातं तदेव स्फुरतीत्यनुवादकत्वमिति । तदेतद् वल्गनमात्रम् । एवं हि तत्सत्यमित्यादेरप्यनुवादकत्वं दृढीकृतं स्यात् । प्रत्यक्षप्राप्तब्रह्मसत्त्वबोधनादेव ब्रह्मसत्त्वे वेदान्तानां तात्पर्यं च न स्यात् । अपूर्वत्वाभावात् । किञ्च व्यवहारानुमेयः सङ्केतः । न तु स्वसमय-मात्रेण । अर्थप्रत्ययेऽतिप्रसङ्गात् । न हि लोके सत्यादिपदैर् ब्रह्मसत्त्वमेव व्यवह्रियते । एवं च व्यवहारेण येन सत्यपदस्याबाध्यत्वमात्रे शक्तिर्गृहीता तस्य विश्वं सत्यमित्यत्र सत्पदेन विश्ववृत्त्यबाध्यत्वस्योपस्थितौ क्वानुवादकत्वमिति । अस्तु वा घटादिसत्त्वस्यैव प्रत्यक्षेण प्राप्तिः । तेन च कथञ्चिद् विश्वं सत्यमित्यत्रानुवादकत्वशङ्कायामपि उत्तरवाक्यद्वये नैवमित्याह– यच्चिकेतेत्यादीति । मानान्तराप्राप्तसत्येति स्रष्टृत्वविशेषणम् । न तु जगतः । नन्वेवं सृष्टेः सत्त्वे कथं जगतः सत्त्वमिति चेज् जगत्सत्त्वं विना सृष्टिसत्यत्वानुपपत्तेः । अथवाऽस्तु जगतो विशेषणम् । तथाप्यदोषः । जगति महदादौ प्रत्यक्षेण सत्त्वं न प्राप्तम् । प्रकरणानुरोधेन उत्तरवाक्येऽपि अर्थानित्यस्य महदादीनिति व्याख्यानाच्च । पृथिवी इतरभिन्नेत्यत्रैकदेशे घटादौ प्रत्यक्षेणेतरभेदसिद्धावपि पृथिवीमात्रे तदसिध्या यथा न सिद्धसाधनता, यथा वा न हिंस्यात् सर्वा भूतानीत्यत्र ब्राह्मणादौ, ब्राह्मणो न हन्तव्य इत्यादि वाक्यान्तरेण विधेयाहिंस्यत्व-सिद्धावपि भूतमात्रे तदसिध्या नानुवादकता तथा प्रत्यक्षेणापि घटादावेकदेशे सत्त्वसिद्धावपि विश्वत्वावच्छेदेन तदसिध्या विश्वमित्यत्रापि नानुवादकतेत्यर्थः ।

ननु वैषम्यम् । दृष्टान्ते हि पृथिवीत्वं भूतत्वं चेत्यनुगतधर्मोऽस्तीति तदवच्छेदेन विधेयस्या-प्राप्तत्वेन तत्राननुवादकत्वं युक्तम् । इह तु विश्वत्वं नैको धर्मोऽस्ति । किन्तु विश्वशब्दः सर्वनामा, तेन तेन रूपेण घटादीनामुपस्थापकः । तेषु च प्रत्येकं सत्त्वं गृहीतमेवेति कथं नानुवादकत्वमिति चेन्न । सर्वनाम्नोऽपि बुद्धिस्थत्वावच्छिन्नवाचकत्वाद् बुद्धिस्थत्वावच्छेदेन तदसिध्याऽत्रापि नानुवादकता । अन्यथा विश्वादिशब्दानां नानार्थकत्वं स्यात् । एकदा सर्वपदार्थोपस्थापकत्वं च न स्यात् । विश्वशब्दे सङ्केतग्रहश्च न स्यात् । विश्वशब्दात् समूहालम्बनं च न स्यात् । केनचिद्धर्मेणैकीकृतसर्वपदार्थानुभवविरोधश्च स्यात् । तस्मात् केनचिद्धर्मेणैकीकृतबुद्धिस्थसर्ववाचको विश्वशब्द इत्यकामेनापि स्वीकर्तव्यम् । तथा च कथमनुवादकत्वमिति । अस्तु वा प्रातिस्विकरूपेणोपस्थापकत्वं तथापि घटाद्यंशेऽनुवादकत्वेऽपि प्रत्यक्षायोग्यांशे तदप्राप्त्या नानुवादकत्वमिति ।

ननु तथापि ज्ञातज्ञापकत्वस्यैवानुवादकत्वप्रयोजकत्वात् कथं नानुवादकत्वमित्यत आह– अनुवादकत्वं हीति । तस्माद्धर्मिभेदान्नानुवादकत्वमित्येतावतोक्तम् । इदानीं प्रमातृभेदाच्च नेत्याह– एकशाखास्थेति । तथा च शाखान्तराधिकरणे (सत्यत्वे) यथाऽनेकशाखा-स्थान्येकार्थानि वाक्यानि पुरुषभेदेन नानुवादकानि तथा येन पुरुषेण विप्रतिपत्त्यादिना भेदो न निर्णीतस् तं प्रति वाक्यस्यापरिच्छिन्नार्थपरिच्छेदकत्वेन सार्थकत्वमित्यर्थः । शाखान्तराधिकरणं त्वित्थम् । द्वितीयाध्याये चतुर्थपादे द्वितीयाधिकरणे चिन्तितम् । ‘‘नामरूपधर्मविशेष पुनरुक्तिनिन्दाशक्तिसमाप्तिवचनप्रायश्चित्तान्यार्थदर्शनाच्छाखान्तरे कर्मभेदः स्यात्’’ इति सूत्रम् । काठककाण्वमाध्यन्दिनतैत्तिरीयशाखादिषु दर्शपूर्णमासाग्निहोत्रादिकं कर्म समाम्नातम् । तत्र सन्देहः । प्रतिशाखं कर्म भिद्यते न वेति ।

पूर्वपक्षस्तु – प्रतिशाखं कर्म भिद्यते । कर्मभेदकानां प्रमाणानामत्र बहुलमुपलम्भादिति । तथा हि– पूर्वम् इडो यजतीत्यादावविशेषपुनःश्रुतिलक्षणाभ्यासात् कर्मभेद उक्तः । सोऽविशेष-पुनःश्रुतिलक्षणाभ्यासोऽत्राप्यस्तीति तेन कर्मभेदसिद्धिः । तथा कुण्डपायिनामयने मासमग्निहोत्रं जुहोतीत्यत्र दूरत्वलक्षणात् प्रकरणान्तराद्भेद उक्तः । तच्च दूरत्वलक्षणं प्रकरणान्तरमिहाप्यस्ति । तेनापि कर्मभेदसिद्धिः । तथा ‘‘सा वैश्वदेव्यामिक्षा वाजिभ्यो वाजिनमित्यत्र उत्पत्तिशिष्ट-गुणावरुद्धे’’ उत्पन्नशिष्टगुणानन्वयाद् गुणात् कर्मभेद उक्तः । तथेहापि क्वचिदैन्द्राग्नमेकादश-कपालं निर्वपेदिति श्रुतम् । क्वचिद् द्वादशकपालमिति । तत्रावश्यमन्यतरेण कर्मोत्पादयितव्य-मिति । येन चोत्पादितं तद्गतो गुण उत्पत्तिशिष्ट इति । इतरस्तत्र निवेशमलभमानः कर्मान्तरं कल्पयति । तथा काठककाण्वादिनामभेदाच्च तत्सिद्धिः । कारीरीवाक्यान्यधीयानाः केचित् शाखिनो भूमौ भोजनमाचरन्ति । शाखान्तराध्यायिनो नाचरन्ति इति धर्मभेदाच्च । एकस्यां शाखायामधीता इषे त्वेत्यादयो मन्त्राः पलाशशाखाच्छेदादयः क्रियाश्च शाखान्तरेऽधीयन्त इति पुनरुक्तेश्च । एवमशक्त्यादयो भेदहेतव उदाहर्तव्याः । न ह्यल्पायुषा मनुष्येण सर्वशाखाध्ययनपूर्वकं कर्मानुष्ठानं कर्तुं शक्यम् । तस्मात् शाखाभेदेन कर्मभेद इति ।

सिद्धान्तस्तु – रूपाद्यभेदादेकं प्रतिशाखं कर्मेति । तथाहि – आग्नेयाष्टाकपालादियागरूपं यदेकस्यां शाखायां प्रतीयते तदेवान्यत्रापि उपलभ्यते । तथा दर्शपूर्णमासाभ्यां यजेतेति यागरूप-पुरुषव्यापारश्चैकविधः । दर्शपूर्णमासाविति कर्मनामाप्येकम् । स्वर्गकाम इति फलसम्बन्धोऽ-प्येकः । तथा चाभेदेन प्रत्यभिज्ञानाद् अभिन्नं कर्म । न चाविशेषपुनःश्रुतिलक्षणाभ्यास-प्रकरणान्तरगुणादिभिर्भेद उक्त इति वाच्यम् । अविशेषपुनःश्रुत्या हि कर्म विधेयमित्येव सिध्यति । विधिवशात्तु भेदः । विहितस्य विधानायोगात् । एवं दूरत्वेऽपि विपरिवृत्त्यभावात् कर्मविधानम् । विधानाच्च भेदः । एवमत्रापि अभ्यासादिवशात् कर्म विधेयमित्येव सिध्यति । न तु विधानाद् भेदसिद्धिः । न चैवं तर्हि पूर्वं कथं तैः प्रमाणैर्भेदसिद्धिरिति वाच्यम् । तत्रैव हि तैः प्रमाणैर् भेदः सिध्यति यत्र विहितस्य विधानं न सम्भवति । प्रकृते च विहितस्यापि पुरुषान्तरं प्रति विधिसम्भवात् । यथा खल्वेकस्यामेव शाखायां विद्यमानमग्निहोत्रादिवाक्यम् एकस्य पुरुषस्य विहितमेवापरस्यापि विधत्ते, न कर्मान्तरम्, एवमत्राप्यध्येतृभेदात् तान् प्रति सर्वाण्येव वाक्यानि एकमेव कर्म विदधति, न कर्मान्तरम् । एवं गुणादपि कर्मभेदः । एकादशद्वादशकपालयोरपि अधिकारिभेदेनोत्पत्तिशिष्टत्वेन बलाबलाभावात् । नामभेदस्तु नास्त्येव । काठककलापादिकं तु ज्योतिरादिवन् न कर्मनामधेयम् । ज्योतिषा यजेतेतिवत् काठकेन यजेतेति यजिसामानाधिकरण्येनाश्रवणात् । किन्तर्हि? काठकमधीयत इति प्रयोगाद् ग्रन्थनामैव तदिति ज्ञातव्यम् । भूभोजनादिरध्ययनधर्मो, न कर्मधर्मः । न चाल्पायुषा मनुष्येण सर्वशाखाध्ययनपूर्वकं कर्मानुष्ठानं कर्तुमशक्यमिति वाच्यम् । अल्पायुषापि स्वशाखाध्ययनेन शाखान्तरस्थोपसंहारन्यायेन कर्मानुष्ठानं शक्यते । एवमन्यदपि भेदकं परिहरणीयम् । तथा च कर्मभेदकानां नामादीनामन्यथासिद्धत्वाद् रूपप्रत्यभिज्ञानाच्च शाखाभेदेऽपि न कर्म भिद्यत इति ।

नन्वेवमधिकारिभेदेनानुवादकत्वपरिहारे कुत्राप्यनुवादकत्वं न स्याद् इति चेत्, सर्वाविवादस्थल एव तस्य सम्भवात् । न च तदनिश्चयः । न ह्यनुवादकत्वं निरवधिकम् । येन हि स्फीतालोकमध्यवर्तिघटो निर्णीतः, तं प्रति तत्र घटसत्त्वप्रतिपादकवाक्यस्यानुवादकत्व-सम्भवात् । अत एव शाखान्तराधिकरणेऽनेकशाखाध्यायिनं प्रति तदभ्युपगम्य एकशाखा-मात्राध्यायिनं प्रति अननुवादकत्वमुक्तम् । तावतापि सार्थकत्वसम्भवात् । न च शाखान्तराधिकरणे नानुवादकत्वम् । अनुवादकत्वस्य पुरोवादपूर्वकत्वाद् इति शङ्क्यम् । प्रतिपत्रपेक्षया तत्सम्भवात् । येन हि पुंसा स्वशाखाऽधीता, पुनश्च शाखान्तरमधीतम्, तस्य स्वशाखायाः पुरोवादत्वेन शाखान्तराणामनुवादकत्वम् इति सम्भवात् ।

अत एवेति । ननु भाष्यस्य नायमर्थः – देहव्यतिरिक्तात्मप्रत्यक्षमस्ति, अस्तीत्येवोप-लब्धव्य इत्यादिश्रुतेश्च वादिविप्रतिपत्तिनिरासेन सार्थकत्वमननुवादकत्वं चेति । किन्तर्हि? वादिविप्रतिपत्तिदर्शनेन देहव्यतिरिक्तात्मनः प्रत्यक्षतैव नास्ति । अन्यथा प्रत्यक्षप्रामाण्य-वादिनश्चार्वाकादेस्तत्र विप्रतिपत्तिर्न स्यादिति चेन्न । तथा भाष्यार्थवर्णने प्रत्यक्षविरोधात् । देहव्यतिरिक्तात्मप्रत्यक्षस्य प्राणभृन्मात्रसिद्धत्वात् । मम देह इति हि सर्वेषां प्रत्ययः, न तु देहोऽहमिति कस्यापि । अन्यथा देहभेदाननुसन्धाने यत् स्तनपानं तद् इष्टसाधनं, यथा पूर्वदेहभुक्तस्तनपानमिति व्याप्त्ययोगेनेष्टसाधनत्वानुमित्यभावापत्त्या प्रवृत्त्यनुपपत्तौ जीवनमेव न स्यात् । तस्माद् देहभेदस्यैव सर्वेषां प्रत्यक्षत्वेन उक्तरीत्यैव भाष्यं व्याख्येयम् । प्रत्यक्षैक-प्रमाणवादिनश्चार्वाकस्य च स्वसमयाग्रहमात्रेण प्रत्यक्षे प्रामाण्यशङ्कायां तत्र विप्रतिपत्त्युपपत्तेः । न हि चार्वाकोऽपि सर्वं प्रत्यक्षं यथार्थमेवेति मन्यते । अपि पुनः शुक्ताविदं रजतमिति भ्रमोऽपि ।

धर्मभेदादपि नानुवादकत्वमित्याह । प्रणयन्तीति – सप्तमस्य तृतीये चिन्तितम् । ‘सौमिकं हि प्रणयनमवाच्यं हीतरत्’ इति सूत्रम् । चातुर्मास्ये चत्वारि पर्वाणि वैश्वदेव–वरुणप्रघास–साकमेध–शुनासीरीयाख्यानि । तत्र मध्यमयोः पर्वणोः श्रूयते ‘‘द्वयोः प्रणयन्तीति द्वाभ्यामेती’’ति । अत्र सन्देहः– किमिदं प्रणयनं प्राकृतमुत सौमिकम् उतापूर्वमिति । अत्र प्रणयनमात्रश्रवणात् तस्य चातिदेशतः प्राप्तेस्तस्यैवेयं पुनःश्रुतिः परिसङ्ख्यार्था गुणार्थाऽर्थवादार्था वेत्येकः पूर्वपक्षो न युज्यते परिसङ्ख्यायास्त्रिदोषत्वात्, गुणस्य चाश्रुतेः । अर्थवादस्य च विध्यभावे आनर्थक्यात् । किन्तु आनर्थक्यपरिजिहीर्षया सामान्यवचनोऽपि प्रणयनशब्दः सधर्मिकं सौमिकं प्रणयनं लक्षणया प्रतिपादयतीति द्वितीयः पूर्वः पक्षः । तथा चोत्तर-वेदिनिषेधोऽवकल्पते ‘न वैश्वदेव उत्तरवेदिमुपवपन्ति’ ‘न शुनासीरीय’ इति । न चाय‘मुपात्र वपन्ती’त्यस्य प्रतिषेध इति वाच्यम् । तस्यावान्तरप्रकरणेन वरुणप्रघासविषयत्वात् । प्रथमोत्तमयोरप्राप्तेः प्रतिषेधानर्थक्यात् । अस्मिन् पक्षे प्रथमोत्तमयोरिदं सौमिकं प्रणयनमुत्तरवेदिं विना न सम्भवतीत्युत्तरवेदिप्राप्तौ सत्यां निषेधोऽवकल्पते, नान्यथा । यदि चेदं सौमिकं प्रणयनं मध्यपर्वणोः स्यात् ततस्तद्वशेनैव मध्यमोत्तमयोरुत्तरवेदिसिद्धे उपात्र वपन्तीत्ययं प्रथमोत्तमविषय एव स्यात् । तथा च तयोरेव प्रतिषेध इति व्याघातः । तस्मात् प्रथमोत्तमयोः सौमिकं प्रणयनम् उत्तरवेदिकं विधीयत इति ।

सिद्धान्तस्तु – प्रणयन्तीति प्रणयनशब्दो न सौमिकं प्रणयनं प्रतिपादयति । प्रणयनशब्दस्य सौमिकप्रणयनवाचकत्वाभावात् । लक्षणया तत्परत्वस्यागतिकगतित्वात् । प्राकृतप्रणयनानुवादे चानर्थक्यम् । तस्मात् प्रणयन्तीत्येतद् अप्राकृतमसौमिकमपूर्वमेव प्रणयनं वदत्वाहवनीयतः । न चात्र प्रणयनमात्रं श्रूयते नाहवनीयत इति विशेष इति वाच्यम् । शाखान्तरे ‘आहवनीयाच्चाग्निं प्रणयतः’ इति वचनात् तत्प्रतीतेः । तथा चैतद्वचनैकार्थेन द्वयोः प्रणयन्तीत्यनेन प्राकृत-प्रणयनोत्तरकाले आहवनीयाद् अग्न्यन्तरस्य प्रणयनं विधीयते । तच्च, ऊरु वा एतौ यज्ञस्य, यद्वरुणप्रघासः साकमेधश्चेति गतिसाधनोरुत्वेन द्वयोः स्तुतिरूपार्थवादेत्यर्थवादवशान् मध्यमयोः पर्वणोर्भवति । उत्तरवेदिप्रतिषेधस्तु, उपात्रवपन्तीत्यस्य सामान्यविषयस्य पर्युदासार्थः । सामान्यविषयत्वं चास्य भाष्य एव समर्थितम् । तस्मादपूर्वमेव प्रणयनं विधीयत इति स्थितम् । एवं च यथात्रानर्थक्यपरिहारायापूर्वप्रणयनप्रापकता तथा श्रुत्यानर्थक्यपरिहाराय प्रत्यक्षाद्यप्राप्त-त्रिकालाबाध्यत्वरूपसत्त्वप्रापकत्वान् नानुवादकतेति । न च त्रैकालिकसत्त्वनिषेधकश्रुतिविरोधेन विश्वसत्यत्वश्रुतेस् त्रैकालिकसत्त्वपरत्वं न सम्भवतीति वाच्यम् । विश्वसत्यत्वश्रुतिविरोधेना-द्वैतश्रुतेरेव त्रैकालिकसत्त्वनिषेधपरत्वासम्भावात् । विनिगमकाभावात् ।

ननु चाद्वैतश्रुतेस्तत्परत्वे तात्पर्यानुपपत्तिगतिसामान्ययोरेव विनिगमकत्वम् । तथा हि – अद्वैतश्रुतिर्हि षङि्वधतात्पर्यलिङ्गोपेता । तत्र त्रिविधं तात्पर्यलिङ्गं प्रामाण्यशरीरघटकमर्थनिष्ठम् – अज्ञातत्वमबाधितत्वं प्रयोजनवत्त्वं चेति । त्रिविधं तु शब्दनिष्ठमतिप्रसङ्गनिरासकम् – उपक्रमोप-संहारयोरैकरूप्यमभ्यासोऽर्थवादश्चेति । तत्र शब्दनिष्ठलिङ्गत्रये न विवादः । सर्वासामुपनिषदामेवं प्रवृत्तत्वात् । मानान्तरासिद्धतया मोक्षहेतुज्ञानविषयतया चाऽज्ञातत्वं सप्रयोजनवत्त्वं च निर्विवादमेव । अबाधितत्वमात्रं सन्दिग्धम् । तदप्यनुपपत्तिगतिसामान्याभ्यां निर्णीयते । न चाद्वैतं व्यावहारिकमिति वाच्यम् । सर्वप्रपञ्चनिषेधरूपत्वात् । तथा च श्रुतेर्व्यावहारिक-प्रामाण्यासम्भवात् तत्र तात्विकमेव तदिति चेन्मैवं वोचः । अद्वैतश्रुतेः षडि्वधतात्पर्याभावात् । यच्च प्रामाण्यशरीरघटकमर्थनिष्ठं त्रयमुक्तं तत्र न तावदबाधितत्वम् । परीक्षितप्रत्यक्षापूर्वार्थक-भेदश्रुत्योरेव बाधकत्वात् । न चानुपपत्तिगतिसामान्याभ्यां तन्निश्चयः । औते तात्पर्यस्यैवा-भावात् । एकविधब्रह्मप्रतिपादकत्वेन गतिसामान्यासम्भवाच्च । ऐक्यज्ञानस्य च मोक्षसाधन-ज्ञानविषयत्वमसिद्धम् । प्रत्युतैकात्म्यं नाम यदिदं केचिद् ब्रूयरनैपुणा इति प्रमाणेनानर्थसाधन-मेव । तस्मादबाधितत्वं प्रयोजनवत्त्वं च नास्त्येव । अज्ञातत्वमात्रमवशिष्टम् । तावन्मात्रेण प्रामाण्ये बौद्धोक्तानां क्षणिकत्वशून्यकारणत्वप्रतिपादकानामपि प्रामाण्यं स्यात् । शब्दनिष्ठमपि त्रयमसिद्धम् । औते उपक्रमाद्यभावात् । यथा चैतत् तथा तत्त्वमसीति श्रुतिव्याख्यानावसरे वक्ष्यते । भेदश्रुतावेव षड्विधतात्पर्यस्य वक्ष्यमाणत्वाच्च । किञ्चाद्वैतश्रुतिर्यदि मिथ्यात्वविशिष्टपरा तदाऽखण्डार्थत्वभङ्गः । यदि च लक्षणया स्वरूपमात्रपरा तदा न भेदबाधिकेत्यास्तां विस्तरः । तस्मादपूर्वत्रिकालाबाध्यसत्त्वप्रापकता सत्त्वश्रुतेर्युक्तेति ।

ननु विश्वसत्यत्वश्रुतिरन्यथा व्याख्यातुं शक्यते । चतुर्धा हि सामानाधिकरण्यं सम्भवति । अध्यासे – इदं रजतमित्यादौ । बाधायां – स्थाणुः पुमानित्यादौ । विशेषणविशेष्यभावेन – नीलमुत्पलमित्यादौ । अभेदेन – तत्त्वमसीत्यादौ । एवं चाध्यासे बाधायां वा विश्वं सत्यमिति सामानाधिकरण्योपपत्तेर् नानेन विश्वसत्यत्वसिद्धिरिति चेन्मैवम् । तर्हि तत्त्वमसीत्यत्रापि तथा वक्तुं शक्यत्वाज् जीवात्मैक्यासिद्धिः स्यात् । तत्र बाधकाभावान्मैवमिति यदि तर्हि प्रकृतेऽपि तथाऽस्तु । तत्रैक्यवाक्यमेव बाधकमिति यदि तर्हि ऐक्यवाक्येऽपि भेदवाक्यं बाधकमिति तुल्यम् । अन्यत् साम्यं पुरैवोपपादितमित्यलम् । अन्यथेति । प्रत्यक्षश्रुत्योर्भिन्नविषयत्वानङ्गीकारे इत्यर्थः । ननु च साक्षिण उपहितानन्दविषयत्वेन श्रुतेश्च निरुपाधिकानन्दविषयत्वेन भिन्न-विषयत्वात् कथमनुवादकत्वमिति चेन्न । प्रकृतेऽपि भिन्नविषयत्वस्योक्तत्वात् । साक्षिण उपहितविषयत्वे उपहितस्य मिथ्यात्वे तद्विषयकस्य साक्षिणोऽप्रमात्वे दोषजन्यत्वेन साक्षिणोऽनित्यत्वापातात् । तथा च तेनाज्ञानादिसिद्धिर्न स्याद् इत्युक्तत्वात् । श्रुताविव प्रत्यक्षेऽप्युपाध्यनुल्लेखाच्च । न ह्युपहितं सुखीत्यनुभवः । तर्ह्यनुवादकत्वं कुत्रेत्यत आह– अनुवादकत्वं त्विति । समानविषयत्वमङ्गीकृत्याप्यनुवादकत्वं परिहरति – निगमनवदिति । पिपासितस्यैवेति । ननु पिपासितस्य शब्दलिङ्गानन्तरं जलप्रत्यक्षमपेक्षितम् । न तु प्रत्यक्षानन्तरं शब्दलिङ्गे । अशेषविशेषग्राहिप्रत्यक्षप्राप्ते दार्ढ्यार्थमन्यानपेक्षणादिति चेन्न । प्रकृतेऽपि श्रुत्यनन्तरं प्रत्यक्षसम्भवात् । न ह्ययं नियमः प्रत्यक्षानन्तरमेव श्रुतिप्रवृत्तिरिति । भेदप्रत्यक्षस्य भेदश्रुत्युपजीव्यत्वाभावात् । भावे वा अनाश्वासनिरासकत्वेन श्रुत्यादेर्दार्ढ्यहेतुत्वसम्भवाच्च । पिपासितस्यापि दूरात् प्रत्यक्षज्ञाते जलेऽनाश्वासनिरासकत्वेन शब्दलिङ्गसापेक्षत्वात् । अत एव पिपासितास्तत्र जलमस्ति न वेति प्रत्यक्षतो ज्ञात्वा पृच्छन्ति, लोकानां कुम्भमादाय गमनादिनाऽनुमापयन्ति च ।

भावरूपेति । ननु तम आसीदित्यस्य सृष्टिपूर्वकालसम्बन्धबोधकत्वेन अज्ञान-ग्राहकप्रत्यक्षमनपेक्ष्य भिन्नविषयत्वेनैव प्रामाण्यसम्भवादिति चेन्न । त्वन्मते कालस्य जन्यत्वेन सृष्टेः पूर्वकालासम्भवेन तत्सम्बन्धबोधकत्वासम्भवात् । अज्ञानाद्यंशेऽनुवादकत्वापरिहाराच्च । प्रकृतेऽपि प्रत्यक्षश्रुत्योर् वर्तमानकालावच्छिन्न तदनवच्छिन्नविषयत्वेनानन्दश्रुतेरिवोपहितानु-पहितविषयत्वेन भिन्नविषयत्वान्नानुवादकता । तर्ह्यनुवादकत्वं कुत्रेत्यत आह– अनुवादकत्वं त्विति । उक्तार्थे आचार्यवचनं प्रमाणयति– तदुक्तमिति ।

न्यायामृतप्रकाशः

विश्वमिथ्यात्वानुमानस्यागमबाधमप्याह ॥ किञ्चेति ॥ प्रत्यक्षप्राप्तेति ॥ प्रत्यक्षप्राप्त-सत्यत्वेत्यर्थः । व्यावृत्तम् अननुवृत्तं यद्धटादि तदन्यद्यदनुवृत्तं ब्रह्म तत्त्वेन तत्स्वरूपत्वेन । परमते घटो नित्य इत्यादिष्विव सन्घट इत्यत्र घटे सत्त्वं न प्रतीयते किन्त्वधिष्ठानभूत-सद्ब्रह्मानुवेधमात्रमित्यङ्गीकारेण घटः सन्नित्यादि प्रत्यक्षेण घटादिषु सत्यत्वस्याप्राप्तेः श्रुते-रनुवादकत्वायोग इत्यर्थः ॥

यच्चिकेतेत्यादीति ॥ ‘‘विश्वं सत्यम्’’ इत्यत्र सत्यत्वमात्रस्य प्रत्यक्षप्राप्तत्वसम्भावनया कथञ्चिदनुवादकत्वशङ्कायामपि ‘‘यच्चिकेते’’त्यादिवाक्यद्वये न तच्छङ्का । अत्रेश्वरस्य सत्य-जगत्स्रष्ट्टत्वोक्तेस् तस्य च प्रत्यक्षाद्यवेद्यतया प्राप्त्यभावात्तत्प्रतिपादकश्रुतिद्धयस्य नानुवाद-कत्वमिति भावः । ‘‘विश्वं सत्य’’ मित्यस्याः श्रुतेः कथञ्चिदनुवादकत्वेऽपि ‘‘यच्चिकेते’’-त्यादिश्रुतिद्वयस्य तावन्नानुवादकत्वमित्यङ्गीकृत्योक्तम् । इदानीं ‘‘विश्वं सत्य’’ मित्यस्यापि श्रुतेर्नानुवादकत्वमस्तीत्याह ॥ पृथिवीति ॥ यथा पृथिवी इतरभिन्नेत्यत्रैकदेशघटाद्यवच्छेदे-नेतरभेदस्य प्रत्यक्षेण सिद्धावपि पृथिवीत्वावच्छेदेन सर्वत्रासिद्ध्यानुमानस्याननुवादकत्वम् । यथा च ‘‘न हिंस्यात्सर्वा भूतानि’’ इत्यत्र ‘‘ब्राह्मणो न हन्तव्य’’ इत्यादिना ब्राह्मणा-दावेकदेशे हिंसाभावस्य सिद्धावपि भूतपदोक्तप्राणिमात्रे तदसिध्या न हिंस्यादिति वाक्य-स्याननुवादकत्वं तथेहापि विश्वं सत्यमित्यत्र विश्वैकदेशघटाद्यवच्छेदेन प्रत्यक्षेण सत्त्वग्रहेऽपि विश्वत्वावच्छेदेन प्रत्यक्षेण तदग्रहात्तदयोग्येषु धर्मादिषु श्रुत्या सत्यत्वबोधनान्न विश्वं सत्य-मित्यस्याः श्रुतेरनुवादकत्वमित्यर्थः । ज्ञातज्ञापकत्वमात्रमित्यत्र मात्रशब्दोऽयोगव्यव-च्छेदार्थः ॥ अतिप्रसङ्गादिति ॥ सिद्धं धर्म्यंशमुद्दिश्यासिद्धविधायकस्य ‘‘दध्ना जुहोती’’-त्यस्याप्यनुवादकत्वमापद्येतेत्यर्थः ॥ ज्ञातमात्रेति ॥ तथा च धर्म्यंशस्य सिद्धत्वेऽपि अधिकस्याज्ञातस्य दधिरूपगुणस्यापि तत्र विधानान्न ज्ञातमात्रज्ञापकत्वमस्तीति नातिप्रसङ्ग इत्यर्थः । एवं च प्रकृतेऽपि विश्वं सत्यमित्यादेर्न ज्ञातमात्रज्ञापकत्वं ‘‘आपश्चन प्रमिनन्ति’’ इति वाक्यशेषेण विश्वसत्यत्वस्य समस्तदेवताप्रमितिविषयत्वस्यासिद्धस्यापि कथनादिति भाव इति सम्प्रदायः ।

इतोऽपि विश्वं सत्यमित्यादेर्न ज्ञातज्ञापकत्वेन वैयर्थ्यमित्याह ॥ एकशाखेति ॥ ‘‘प्रातस्सन्ध्यामुपासीत’’ इति ऋग्वेदशाखागतं वाक्यं तत्समानार्थकमपि यजुश्शाखागतं ‘‘प्रातस्संध्याम्’’ इति वाक्यं न व्यर्थम् । ऋक्शाखाध्यायिनं प्रति व्यर्थत्वेऽपि येन पुंसा ऋक्शाखाध्ययनं न कृतं तं प्रत्यर्थवत्त्वाङ्गीकारात् । एवं प्रत्यक्षेण विश्वसत्यता येन न निर्णीता वादिविप्रतिपत्त्यादिना प्रत्यक्षेऽप्रामाण्यशङ्कनात् तं प्रति विश्वं सत्यमिति वाक्यस्यार्थवत्त्वसम्भवादित्यर्थः ।

एकशाखेत्युक्त्या पूर्वमीमांसान्यायः सूचितः । तथा हि । द्वितीयाध्याये चतुर्थपादे चिन्तितम् । ‘‘शाखान्तरेषु कर्मभेदः स्यात्’’ इत्यत्र नानाशाखाम्नातम् अग्निहोत्रादिकं कर्म भिद्यते न वेति संशये अविशेषेण पुनः श्रुतिरूपाभ्यासस्य कर्मभेदाभावे वैयर्थ्यापत्तेः कर्म भिद्यत इति पूर्वपक्षः । सिद्धान्तस्तु पुनः श्रुत्या शाखान्तरोक्तमेव कर्म विधीयत इति सिद्ध्यति । न तु कर्मभेदः । तर्हि वैयर्थ्यमिति न शङ्कनीयं शाखाभेदानामध्येतृभेदनियतत्वेन विहितस्यापि विधानं पुरुषान्तराधिकारेण सम्भवत्येवेति तस्यैव कर्मणो विधानेऽपि न वैयर्थ्यमिति ।

नन्वेवंरीत्या सर्वत्रानुवादमात्रोच्छेदप्रसङ्गः स्यादित्यतः ‘‘सर्वाविवादस्थल एव कथञ्चिदनुवादकत्वम्’’ इति भगवत्पादवाक्यं हृदि निधायाह ॥ अनुवादकत्वं त्विति ॥ अत एवेति ॥ सर्वाविवादस्थल एवानुवादकत्वस्य सावकाशत्वेन यत्र विवादस्तत्र तस्यादोषत्वादे-वेत्यर्थः ॥ देहेति ॥ देहातिरिक्तात्मेत्यर्थः ॥ अस्तीति ॥ देहातिरिक्तोऽस्तीत्यर्थः ॥ प्रत्यक्षप्राप्तेति ॥ मम देह इति प्रत्यक्षेण देहात्मभेदस्य सिद्धत्वादित्यर्थः । इत्यादिना सिद्धान्तभाष्येण । किञ्च विश्वं सत्यमिति श्रुतेर्नानुवादकत्वम् । यथा हि तव मते सन्घटः सन्पटः सद्धटज्ञानं सत् सुखस्फुरणमित्यादिप्रत्यक्षेणात्मसत्यत्वस्य प्राप्तेरात्मसत्यत्वप्रतिपादि-कायाः सत्य आत्मेत्यादि श्रुतेर्वैयर्थ्यं स्यात्तन्मा भूदित्येवमर्थं प्रत्यक्षेण वर्तमानकाल एव सत्ताग्रहणाद् वर्तमानकालमात्रे सत्ताग्राहिप्रत्यक्षाप्राप्तत्रिकालाबाध्यत्वरूपसत्यत्वप्रतिपादकत्व मङ्गीकृतम् । एवं प्रकृते वयमपि सन्घट इत्यादिप्रत्यक्षेण विश्वसत्यत्वस्य प्राप्तत्वाद्विश्वं सत्य-मित्यादिश्रुतेर्वैयर्थ्यं स्यात्तन्माभूदित्येवमर्थं वर्तमानकालमात्रे सत्ताग्राहिप्रत्यक्षाप्राप्तत्रिकाला-बाध्यत्वरूपसत्यत्वप्रतिपादकत्वमङ्गीकुर्मोऽतो न दोष इत्याह ॥ इहापि श्रुतेरिति ॥ विश्वं सत्यमित्यादिकाया इत्यर्थः ।

अत्र पूर्वतन्त्रसिद्धो दृष्टान्त उक्तः ॥ द्वयोःप्रणयन्तीत्यादिना ॥ सप्तमाध्याये तृतीयपादे चिन्तितम् । ‘‘सौमिकन्तु प्रणयनमवाच्यं हीतरवत्’’ इत्यत्र चातुर्मास्येषु यज्ञेषु वैश्वदेव-वरुणप्रघाससाकमेधशुनासीरसंज्ञकपर्वचतुष्टयमस्ति । मासानामेव पर्वसज्ञा । तत्र ‘‘द्वयोः प्रणयन्ति’’ इति श्रूयते । मध्यस्थयोर्द्वयोः पर्वणोः, प्रणयन्ति गार्हपत्यादाहवनीयं प्रत्यग्नि-र्नेतव्य इत्यर्थः । चातुर्मास्यं च कर्म दर्शपौर्णमासाख्यकर्मप्रकृतिकम् । तत्र चातुर्मास्यपर्वणां मध्ये मध्यस्थयोर्द्वयोः पर्वणोरुच्यमानमग्निप्रणयनं किं दर्शपौर्णमासधर्मकम् उतापूर्वं तद्विलक्षण- मिति संशये चातुर्मास्यानां दर्शपौर्णमासप्रकृतिकतया चोदकप्राप्तत्वेन तदीयाङ्ग-कलापयुक्त-तया चोदकप्राप्तप्रणयनप्रापकत्वमेवेति पूर्वपक्षे, द्वयोःपर्वणोरग्निप्रणयनस्य दर्शपौर्णमास-प्रकृतिकतया सिद्धत्वेन पुनर्द्वयोःप्रणयन्तीत्यस्य वैयर्थ्यापत्तेस्तदवैयर्थ्याय चोदकाप्राप्ताङ्ग-कलापयुक्तापूर्वप्रणयनप्रतिपादकत्वमेवेति सिद्धान्तितं तद्वदिहापीत्यर्थः ॥ अन्यथेति ॥ विश्वं सत्यमित्यादेरपूर्वसत्यत्वप्रतिपादकत्वाभाव इत्यर्थः ॥ स्यादिति ॥ तथा च प्रत्यक्षा-प्राप्तानन्दत्वप्रतिपादकत्वं श्रुतेरङ्गीकार्यमिति भावः ।

नन्वेवमपूर्वविषयान्तरदानेन सर्वत्रानुवादकत्वमात्रोच्छेदः स्यादित्यत आह ॥ अनुवाद-कत्वं त्विति ॥ स्थलान्तरेऽनुवादकत्वं सावकाशमित्यर्थः । दार्ढ्यहेतुत्वाच्च नानुवादकत्वं दोषायेत्याह ॥ निगमनवदित्यादिना ॥ पिपासितस्येति हेतुगर्भं, अत्यन्तं तृषितत्वादेव एकप्रमाणोक्तौ विश्वासाभावादेकजलरूपार्थविषयकशब्दादिबहुप्रमाणापेक्षेत्यर्थः ॥ प्रत्यक्षसिद्ध इति ॥ अहमज्ञ इति प्रत्यक्षसिद्ध इत्यर्थः ॥ त्वन्मत इति ॥ त्वन्मते तमश्शब्दस्य भावरूपाज्ञानपरत्वादिति द्रष्टव्यम् । ऐक्यतात्पर्ये ऐक्यविषयकतात्पर्ये । नन्वेवं चेत्सर्व-त्राप्यनाश्वासनिरासार्थत्वेन दार्ढ्यार्थत्वस्य वक्तुं शक्यत्वादनुवादकत्वमात्रोच्छेद इत्यत आह ॥ अनुवादकत्वं त्विति ॥ प्रागेवेति ॥ अनाश्वासपरिहारेणेत्यर्थः ॥

न्यायकल्पलता

विश्वमिथ्यात्वस्यागमबाधमभ्युच्चिनोति । किञ्चेति । विश्वं सत्यमित्यादि । विश्वं सत्यं मघवाना युवोरिदापश्चन प्रमिनन्ति व्रतं वाम् । अच्छेन्द्राब्रह्मणस्पती हविर्नोऽन्नं युजेव वाजिना जिगातम् । इति ऋक्संहिता द्वितीयाष्टकस्थमन्त्रस्यायमर्थः । हे इन्द्राब्रह्मणस्पती । देवताद्वन्द्वे चेति पूर्वपदस्यानङ् । मघवाना । सुपां सुलुगित्यादिना प्रथमाद्विवचनस्याकारादेशः । मघवानौ । मघवन्तौै । धनवन्तौ । मघमिति धननाम । मखवन्ताविति वा । यशश्विनाविति वा । युवोर् युवयोः सम्बन्धि विश्वं जगत् सत्यमित् सत्यमेव । प्रतिपन्नोस्मि । न केवलमहमेव प्रतिपन्नः, किन्नाम आपश्चन व्यापनशीला देवता अपि । वां युवयोर्व्रतं सत्यजगत्सर्जनादि । प्रमिनन्ति प्रामाणिकत्वेन जानन्ति । डु मिञ् प्रक्षेपणे । क्रैय्यादिकः ।

क्रियावाचित्वमाख्यातुमेकैकोऽर्थः प्रदर्श्यते ।

प्रयोगतोऽनुगन्तव्या अनेकार्था हि धातवः ॥ इति वचनादत्र ज्ञानार्थः ।

नो अस्माकम् । अस्मदीयं हविरध्यात्मं ज्ञानादि । अधिभूतं क्षीरादि प्रति । अन्नं चरुपुरोडाषादिकं च प्रति । अच्छ जिगातं सम्यक् आगच्छतम् । जिगातिर्गतिकर्मा जौहो-त्यादिकः । काविव । वाजिनौ । अन्नवन्तौ । युजेव सखायाविवेति । द्विरूपपरमेश्वरं प्रतीदं वचनं, घर्मासमन्तात् त्रिवृतं व्यापतुरित्यादिवत् । विष्णुमुख्यवायू प्रति वेति ज्ञेयम् ।

यत्तु विश्वं सर्वं सद्भावत्वाद्वा फलस्यावश्यकत्वाद्वा सत्यं कर्म युवोरिद् युवाभ्यामेवो-द्दिश्यानुष्ठीयते । वां युवयोर्व्रतं जगत्सर्जनादि । आपश्च देवता अपि न प्रमिनन्ति न हिंसन्ति । मीञ् हिंसायाम् । क्रैय्यादिकः । हृस्वत्वमार्षम् । चनेत्येतत्पदद्वयम् । ऐकपद्यं तु अध्यापक-प्रसिद्ध्येत्याह । तन्न । सत्यपदस्य कर्मण्यप्रसिद्धेः । अबाध्य एवार्थे प्रसिद्धेश्च । अन्यथा सत्यं ज्ञानमित्यादावपि सद्धेतुत्वादिस्तदर्थः स्यात् । पदगणनायामध्यापकेषु चैकपदत्वेन प्रसिद्धस्य चनेत्यस्य भिन्नपदत्वकल्पने मानाभावात् । ननुकमित्यादिवत् । चनशब्दस्याव्ययेषु चनाभ्यां पृथक् पाठाच्च । ममच्चनत्वा युवतिः परासममच्चनत्वा (अव्ययाभ्यां) कुषवाजगारेत्यादिषु चन-शब्दस्यैकपदत्वेन माधवीये व्याख्यातत्वेनेहापि तथात्वस्यैवोचितत्वात् । नेह नानास्ति किञ्च-नेत्यादिषु तदेकपदत्वस्य स्वयमङ्गीकृतत्वाच्च । यदपि स्तुतिपरतया नास्य विश्वसत्यत्वे तात्पर्यमिति । तदप्यसारम् । तत्सत्यं स आत्मा तत्वमसीत्यादेरपि स्वार्थे तात्पर्याभावा-पातादिति ।

शाक्मना शाको अरुणः सुपर्ण आ यो महः शूरः सनादनीलः ।

यच्चिकेत सत्यमित्तन्न मोघं वसु स्पार्हमुत जेतोत दाता ।

इत्यस्याष्टमाष्टकस्थस्येन्द्रप्रतिपादकमन्त्रस्यायमर्थः । शाक्मना । शक्मैव शाक्मा तेन शाक्मना । शाकः शक्तः, स्वशक्त्यैव सर्वं कर्र्तंु शक्त इत्यर्थः । नहीन्द्रे सहायान्तारापेक्षा अस्ति । इन्द्रः स परमैश्वर्यादित्यादि तन्निर्वचनात् । एकमेवाद्वितीयं, न तत्समश्चाभ्याधिकश्च दृश्यत इति श्रुतेः । न त्वत्समोऽस्त्यभ्यधिकः कुतोऽन्य इति स्मृतेश्च । इन्द्रत्वादेव । अरुणो ऽरुणवर्णः । आदित्यवर्णं तमसस्तु पारे । यदा पश्यः पश्यते रुग्मवर्णमिति श्रुतेः । सुपर्णः शोभनपरमानन्दः । णश्च निर्वृतिवाचक इति वचनात् । शकन्ध्वादित्वात्पररूपम् । यः प्रसिद्धः प्रकाशरूपः । अकयप्रविसम्भूमसखहा विष्णुवाचका इति च । आ अभिव्याप्तः, महस् तेजोरूपः महान् । शूरः विक्रान्तः । सनात् पुराणो ऽनादिः । अनीलो ऽनीडः । जीवविलक्षणत्वान् नित्यमुक्तत्वादनावरणः । स्पार्हं स्पृहणीयं वसु धनम् । जेता जयति । शत्रुभ्यः वेदविरोधिभ्यः सकाशात् । उत अपि । दाता ददाति च स्तोतृभ्यः । जेता दातेति ताच्छील्ये तृन् । तेन नलोकेत्यादिना षष्ठीप्रतिषेधः । एकः सुपर्ण इत्यादिरूपेणेन्द्रमाह । एवंविध इन्द्रः यद् यस्मात् सत्यमित् सत्यमेव चिकेत जानाति सृजति च । स ऐक्षत लोकान्नु सृजा इति श्रुतेः । तस्मान्न मोघंं न मिथ्या । शाको अरुण इति प्रकृत्यान्तःपादमव्यपर इति प्रकृतिभावः । न चास्य स्तुतिपरतया न विश्वसत्यत्वे तात्पर्यमिति वाच्यम् । तत्वमसि श्वेतकेतो इत्यादेरपि तथात्व-प्रसङ्गात् । अस्तु वा स्तुतिपरत्वं तथापि न दोषः । गुणिनिष्ठगुणोक्तिः स्तुतिः । न त्वसद्गुणा-रोपणम् । वेदाप्रामाण्यापत्तेरिति ।

‘‘कविर्मनीषी परिभूः स्वयम्भूर्याथातथ्यतोऽर्थान्व्यदधाच्छाश्वतीभ्यः समाभ्यः’’ इति मन्त्रस्यायमर्थः । कविः सर्वज्ञः । मनसां जीवानां मनोभिमानिनो रुद्रस्य वा ईष्टे इति मनीषी । मननान्मन उद्दिष्ट इति स्मृतेः । ‘‘सोम्येदं मनो दिशं दिशं पतित्वाऽन्यत्रायतनमलब्ध्वा प्राण-मेवोपाश्रयते’’ इति छन्दोगश्रुतौ मनःशब्दस्य जीवे प्रयोगाच्च । प्राण इति परमात्मा । यत्रायं पुरुषः स्वपिति नामेति तयोरेव प्रस्तुतत्वात् । परिभावयति सर्वानिति परिभूः सर्वोत्तमः । स्वयम्भूः स्वरूपसामर्थ्यः । शाश्वतीभ्यः समाभ्यः सर्वदा । याथातथ्यतः सत्यान् । अर्थान् महदादीन् । व्यदधान् निर्मितवान् । न च याथातथ्यत इत्यस्य पूर्वसृष्टप्रकारेण सर्जनमर्थो न तु जगत्सत्यत्वमिति युक्तम् । यथार्थशब्दसमानार्थात्ततोऽबाध्यत्वरूपार्थस्यैव प्रतीतेः । असत्य-मिति । असत्यं ब्रह्मण्यप्रतिष्ठितम् । अनीश्वरम् । शुक्तिरूप्यवज् जगद् ये आहुस् ते असुरा इति जगदसत्यत्ववादिनां निन्दितत्वात् । निन्दार्थवादेन तत्सत्यत्वमवगम्यत इत्यर्थः ।

नाभाव इति । अभावः सद्भिन्नः प्रपञ्चो न भवति । उपलब्धेः सत्वेनोपलभ्य-मानत्वादित्यर्थः । वैधर्म्यादिति । जगत् स्वप्नमरीचिजलतुल्यं न भवति । वैधर्म्याद् अर्थक्रिया-कारित्वरूपस्वप्नादिवैलक्षण्यानुभवादित्यर्थः । स्वप्नशब्देन स्वप्नगजादिगतं जाग्रत्वं गृह्यते । जगतः स्वप्नसाम्यस्य तत्वविन्नयेऽपीष्टत्वादिति विभावनीयम् । त्वन्मत इति । परमते घटो नित्य इत्यादिष्वपि सन्घट इत्यत्र घटे सत्वं न विषयः । किन्त्वधिष्ठानभूतब्रह्मानुवेधमात्रमित्यभ्युप-गमात्तदतिरिक्तस्य कालत्रयाबाध्यत्वरूपस्य घटादिषु सत्वस्य प्रत्यक्षेणाप्राप्तेरित्यर्थः । यच्चि-केतेत्यादीति । यच्चिकेत, कविर्मनीषीत्यत्र वाक्यद्वये परमेश्वरसृष्टजगदनुवादेन न सत्यत्वमात्र-विधिः सम्भवति । जगत ईश्वरकृतत्वस्य केवलानुमानाद्यवेद्यतया मानान्तराप्राप्तत्वेनानुवाद्यत्वा-योगात् । किन्तु सत्यकामादिवाक्य इव सत्यत्वविशिष्टजगत्सृष्टत्वमीश्वरस्योच्यते । विधाना-भावाच्च न विशिष्टावधिदोषः । न चास्य स्तुतिपरतया न स्वार्थपरतेति वाच्यम् । मानान्तरा-विरोधे सति आ ते सिञ्चामि कुक्ष्योरित्यादेर्देवताविग्रहस्येव जगत्सत्यत्वस्याप्येतस्मात्सिद्धेः । उक्तं चैतद्वाचस्पत्ये देवताधिकरणे । पृथिवीति । घटादिर्न जलादिरित्यादिप्रत्यक्षेण घटादा-वितरभेदस्य, स्वीयदेहपुत्रकलत्रबन्धुपशुप्रभृतिषु हिंसा न कर्तव्या मदनिष्टसाधनत्वादित्यनुमानेन, ब्राह्मणो न हन्तव्य इत्यादिना शब्देन ब्राह्मणादावेकदेशे हिंसाभावस्य विधेयस्य सिद्धावपि पृथिवीमात्रे प्राणिमात्रे च तयोरसिद्ध्या यथा नानुवादकत्वं तथेहापि कतिपयेषु घटादिषु प्रत्यक्षेण सत्वग्रहेऽपि तदयोग्येषु श्रुत्या सत्यत्वबोधनान्न तस्या अनुवादकत्वमित्यर्थः ।

ननु दृष्टान्ते हि पृथिवीत्वं हिंसात्वं चैकोऽनुगतो धर्म इति तदवच्छेदेन विधेयस्याप्राप्ततया तत्राननुवादकत्वं युक्तम् । इह तु विश्वत्वं नाम नैको धर्मोऽस्ति । किन्तु विश्वशब्दः सर्वनामत्वात्तेन तेन रूपेण घटपटादीनामुपस्थापकः । तेषु च प्रत्येकं सत्वं गृहीतमेवेति कथं नानुवादकत्वम् । प्रकारवैलक्षण्याभावादिति चेत् । मैवम् । सर्वनामपदेषु तदादिशब्देषु प्रकृता-नामर्थानां तत्तद्रूपेणोपस्थापकत्वेऽपि जगदादिशब्दसमानार्थकविश्वादिशब्दैः सर्वजगद्वृत्तिधर्म-प्रकारेण सर्वोपस्थापकत्वस्यानुभवसिद्धत्वेन घटत्वादिभिन्नप्रकारेण जगत्सत्यत्वस्य विश्वं सत्य-मित्यादिना बोधात् । यच्चोक्तं हिंसात्वमेकोऽनुगतो धर्म इति तत्तुच्छम् । न हि न हिंस्यादित्यत्र हिंसात्वावच्छेदेन किञ्चिद्विधीयते किन्तु भूतेषु हिंसाभावः । तथा च किं हिंसात्वस्यानुगम-कथनेनेति भावः । अतिप्रसङ्गादिति । सिद्धमनूद्यासिद्धं विदधदपि दध्ना जुहोतीत्यादि, अनुवादवाक्यमापद्येतेत्यर्थः ।

एकशाखास्थेति । तत्तच्छाखागतवाक्यानां तत्तच्छाखाध्येतॄन्प्रत्यर्थवत्वम् । अन्यथाऽन-न्यार्थपुनःश्रुतिरूपादभ्यासाच्छाखान्तरे कर्मभेदः स्यादित्यर्थः । द्वितीयाध्याये चतुर्थपादे चिन्तितम् । ‘‘नामरूपधर्मविशेषपुनरुक्तिनिन्दाशक्तिसमाप्तिवचनप्रायश्चित्तान्यार्थदर्शना-च्छाखान्तरे कर्मभेदः स्यात्’’ । नानाशाखाम्नातमग्निहोत्रादि भिद्यते न वेति सन्देहे अविशेष-पुनःश्रुतिलक्षणादभ्यासाद्दूरस्थत्वलक्षणान्तराच्च भिद्यत इति पूर्वः पक्षः । सिद्धान्तस्तु पुनः श्रुत्या प्रकरणान्तराच्च कर्मविधेयमित्येव तावत्सिद्ध्यति न भेदः । विधिवशात्तु भेदसिद्धिरन्यत्र विहितस्य विधानायोगादिति । इह तु शाखाभेदानामध्येतृभेदनियतत्वेनावहितस्यापि पुरुषान्तरं प्रति विधिः सम्भवतीत्यन्यथासिद्धा पुनरुक्तिर्न कर्म भिनत्ति इति । नामरूपाद्युदाहरणानि वार्तिकादिषु द्रष्टव्यानि ।

येन पुंसेति । प्रतिपत्तृपुरुषव्यवस्थया नधिगतार्थबोधकत्वस्येहापि सत्वादित्यर्थः । ननु पुरोवादपूर्वकत्वादनुवादस्यात्रायं पुरोवाद इत्यस्यैवाभावान्न शाखान्तरस्थवाक्यस्यानुवादकत्वप्रसङ्ग इति चेत् । न । भूयस्त्वेनोभयश्रुतीति न्यायेन कर्मस्वरूपनिश्चयवद् वेदद्रष्ट्रप्रथमव्यक्त्यपक्षेया पुरोवादस्यापि निश्चयात् । सादिप्रत्यक्षस्यानादिवेदात्पुरोवादत्वासम्भवाच्च । तस्मात्प्रतिपत्तृ-व्यवस्थयैवाननुवादकत्वं वाच्यमिति भावः । न निर्णीतेति । एतच्च विशेषादर्शनकालीनसंशयस्य प्रतिबन्धकतया तत्सामग््रया अपि तथात्वमित्यभिप्रेत्योक्तम् । नन्वेवमनुवादः क्वापि न सिद्ध्ये-दित्यत आह । अनुवादकत्वं त्विति । न च सर्वाविवाद एकत्रासम्भवीति युक्तम् । अग्निर्हिमस्य भेेषजम् । अस्यामोषधयो जायन्ते । अग्निरेनां स्वदयतीत्यादिषु सर्वाविवादस्य सिद्धत्वात् । वादिविप्रतिपत्तीति । ननु तत्र वादिविप्रतिपत्तिदर्शनेन देहव्यतिरिक्ततयाऽऽत्मनः प्रत्यक्षतैव नास्ति । अन्यथा प्रत्यक्षप्रामाण्यवादिनश्चार्वाकादेस्तत्र विप्रतिपत्तिर्न स्यादित्युक्तं बृहदारण्यकभाष्ये । न तु वादिविप्रतिपत्तिनिरासेनास्तीत्यादेः सार्थकत्वमननुवादकत्वं वा तत्रोक्त-मिति चेत् । मैवम् । भावानवबोधात् । तद्वदेव वादिविप्रतिपत्तिदर्शनाज्जगत्सत्यत्वमपि न प्रत्यक्षविषयः । अन्यथा प्रत्यक्षप्रामाण्यवादिनस्तव मम च जगत्सत्यत्वे विप्रतिपत्तिर्न स्यादित्येवं परत्वादस्य वाक्यस्य न कश्चिद्दोषः । अत एव त्वया बृहदारण्यकभाष्ये अभिहितम् । तस्मा-ज्जन्मान्तरसम्बन्ध्यात्मास्तित्वे जन्मान्तरेष्विष्टानिष्टप्राप्तिपरिहारविशेषोपाये च शास्त्रं प्रवर्तत इति । द्वयोः प्रणयन्तीति । सप्तमे तृतीयपादे चिन्तितम् । ‘‘सौमिकं तु प्रणयनमवाच्यं हीतरत्’’ । चातुर्मास्यानीति कर्मविशेषनाम । तेषु वैश्वदेववरुणप्राघससाकमेधशुनासिरीयाख्यानि चत्वारि पर्वाणि । तत्र च ‘‘द्वयोः प्रणयन्ति तस्माद् द्वाभ्यामेति’ इति श्रूयते । तस्य च द्वाभ्यामेतीति वाक्यशेषात् । ऊरू वा एतौ यज्ञस्य यद्वरुणप्रघासश्च साकमेधश्चेति । गमन-साधनोरुसंस्तुतमध्यपर्वद्वयविषयत्वे निश्चिते चातुर्मास्यानां दर्शपूर्णमासविकृतित्वेन प्रणयनस्य प्राप्ततया प्रणयनपुनःश्रुतेर्वैय्यर्थ्यम् ।

तथा हि । सा किं परिसङ्ख्यार्था वा गुणार्था वा, अर्थवादार्था वा । नाद्यः । तथा सति द्वयोर्मध्यमयोरेव प्रणयनम् । नेतरयोर्द्वयोरिति तत्राहवनीयाभावाद्यागाभावः स्यात् । अथोच्येत । न प्रणयनमात्रं परिसङ्ख्येयं किन्तु धर्मपरिसङ्ख्या । द्वयोरेव धर्मवत्प्रणयनम् । नेतरयोरिति । मैवम् । न हि धर्मवद्दर्शपूर्णमासयोः प्रणयनम् । येन धर्ममात्रपरिसङ्ख्यायां कृतायां केवलमधर्मकं प्रणयनमितरत्रापि क्रियेत । तस्मान्न परिसङ्ख्यार्था । न द्वितीयः । यत्र हि तस्मिन्नेव वाक्ये गुणिनमुच्चार्य किञ्चिद्विधीयते । यथा दध्ना जुहोति शरमयं बर्हिर्भवति तत्र गुणविधिः । इह तु प्रणयनमनूद्य किञ्चिद्विधीयते । नापि तृतीयः । यत्र हि कस्यचिद्विधिस्तत्रार्थवादो भवति । विधिना त्वेकवाक्यत्वादित्युक्तम् । प्रणयनं तु दर्शपूर्णमासयोर्विधीयते । इदृतु वाक्ये तदविधानात् किमर्थवादेन । तस्मात्प्रणयनपुनः श्रुतिरनन्यार्थाभेदिका भवतीति दर्शपूर्णमासकाद् गार्हपत्या-वधिकाहवनीयप्रणयनादपूर्वमेवेहवनीयावधिकमुत्तराहवनीय प्रणयनं ‘‘द्वयोः प्रणयन्तीति’’ वाक्येन बोध्यते । तदुक्तम्– टुप्टीकायां, तन्त्ररत्ने च सप्तमाध्याये तृतीयपादे च । शाखान्तरे ह्यग्निप्रणयनोत्तरकालमाहवनीयाद् द्वावध्वर्युप्रतिप्रस्थातारौ ‘‘अग्नी प्रणयतः’’ इति श्रूयते । तदेकवाक्यतया द्वयोः प्रणयन्तीत्यनेनाहवनीयात् प्रणयनं विधीयते । तेन चोदकप्राप्तं यद्गार्ह-पत्यात् प्रणयनं ततो विलक्षणमिदं तदुत्तरकालमाहवनीयाद्विहारयोः प्रणयनं पशुबन्धवदिति ॥

अथवा चातुर्मास्येषु द्वयोः प्रणयन्तीति वैश्वदेवारुणप्रघाससाकमेधशुनासिरीयाख्यानां चतुर्णां चातुर्मास्यपर्वणां मध्ये द्वयोः पर्वणोर् अग्निप्रणयनम् उच्यमानं किं दर्शपूर्णमासिकधर्मजम् उत सौमिकधर्मकम् अनेकाङ्गकलापलयुक्तम् उतोभयविलक्षणमपूर्वमिति संशये चातुर्मास्यानां दर्शपूर्णमास प्रकृतितया चोदकप्राप्तत्वेन सन्निधानाद्दर्शपूर्णमासिकमित्येकः पक्षः । चोदकप्राप्तस्याविधेयत्वा-द्गुणविध्याद्यभावेनानुवादानर्थक्यादर्थवत्वाय सौमिकमिति द्वितीयः पक्षः । प्रणयन्तीत्यस्य प्रणयन- सामान्यवाचिनः सौमिकप्रणयनविशेषपरत्वे लक्षणाप्रसङ्गाच्चातुर्मास्येष्वेव किञ्चित्प्रणयनमस्पृष्ट-सौमिकत्वाद्याकारं विधीयते । तच्च तदुभयविलक्षणमपूर्वं पर्यवस्यतीति सिद्धान्तः । श्रुतेरिति । विश्वं सत्यमित्यादिकायाः ॥ तत्सत्यमित्यादीति ॥ तव मते सन् घटः, सद् घटज्ञानं, अह-मस्मि, अज्ञोऽस्मि, सत्सुखस्फुरणमित्यादि प्रत्यक्षेणात्मसत्यत्वप्राप्तेस् तत्सत्यं, स आत्मेत्यादि-काया आत्मसत्यत्वप्रतिपादिकायाः श्रुतेर्वैय्यर्थ्यं स्यात् । तन्मा प्रासाङ्क्षीदित्येवमर्थमित्यर्थः ।

अत्राहुरद्वैतवादिनः–विश्वसत्यत्वश्रुतिस् त्रैकालिकनिषेधाप्रतियोगित्वरूपसत्वपरान त्रैकालिक सत्वनिषेधकश्रुतिविरोधात् । न च वैपरीत्यमेव किन्न स्याद्विनिगमकाभावादिति युक्तम् । तात्पर्यान्यथानुपपत्तिगतिसामान्यानामेव विनिगमकत्वात् । अद्वैतश्रुतिर्हि षड्विधतात्पर्यलिङ्गो-पेता । तत्र त्रिविधं तात्पर्यलिङ्गम् । प्रामाण्यशरीरघटकमर्थनिष्ठम्, अज्ञातत्वमबाधितत्वं प्रयोजनवत्वं च । त्रिविधं तु शब्दनिष्ठमतिप्रसङ्गवारकम् । उपक्रमोपसंहारयोरैकरूप्यं, अभ्यासो ऽर्थवादश्चेति । तत्र शब्दनिष्ठलिङ्गत्रये तावन्न विवादः । सर्वासामुपनिषदामेवं प्रवृत्तत्वात् । मानान्तरासिद्धतया मोक्षहेतुज्ञानविषयतया चाज्ञातत्वं प्रयोजनवत्वं च निर्विवादमेव । अबाधितत्वमात्रं सन्दिग्धम् । तच्चान्यथानुपपत्तिगतिसामान्याभ्यां निर्णीयते । न हि सर्वप्रपञ्चनिषेधरूपमद्वैतं व्यावहारिकं, येन तत्र श्रुतेर्व्यावहारिकं प्रामाण्यं स्यात् । अतस्तत्र तात्विकमेव प्रामाण्यम् । द्वैतसत्यत्वं तु व्यावहारिकमतस्तत्र न श्रुतेस्तात्विकं प्रामाण्यम् । परस्परविरुद्धयोर्द्वयोस्तात्विकत्वायोगात् । वस्तुनि च विकल्पासम्भवात् । तात्विकव्यावहारिक-प्रामाण्यभेदेन च व्यवस्थोपत्तेः । स्तुतिपरत्वेनावधारितस्य विश्वसत्यत्ववाक्यस्यैवान्यथा व्याख्यातुमुचितत्वात् । तथा हि । चतुर्धा हि सामानाधिकरण्यम् । अध्यासे इदं रजतमित्यादौ, बाधायां स्थाणुः पुमान्नेत्येवमादौ । विशेषणविशेष्यभावेन नीलमुत्पलमित्यादौ । अभेदेन तत्त्वमसीत्यादौ । अत्र च बाधायामध्यासे वा सामानाधिकरण्योपपत्तेर्न सत्यत्वबोधकश्रुतेः षडि्वधतात्पर्यलिङ्गोपेताद्वैतश्रुतिबाधकत्वमिति ।

अत्रोच्यते । एवं हि विश्वं सत्यमिति श्रुतेर्बाधिततया प्रतीयमानादन्यार्थस्यानुपपत्या स एवाबाधितोऽर्थ इति अध्यवसीयत इत्युक्तं स्यात् । तथा च तत्त्वमसीत्यादौ सामानाधिकरण्यस्य तत्वमादिपदार्थविशिष्ट्यैक्यं विनाऽन्यस्यार्थस्यानुपपत्या विशिष्टैक्यमर्थः स्यात् । तत्र लक्षणादि-नोपपत्तिरिति यदि तर्हि अद्वैतवाक्येऽपि स्वतन्त्राद्वितीयमर्थोऽस्तु । अन्यथा तव मते व्यावहारिकार्थं प्रस्तरवाक्यं व्यावहारिकं यजमानाभेदं बोधयतु । प्रत्यक्षं तु प्रातिभासिकं यजमानभेदं बोधयति । तत्वमसिवाक्यमपि तात्विकं विशिष्टाभेदं बोधयति मानान्तरं व्यावहारिकं तयोर्भेदं बोधयतीति द्वय्यपि मीमांसोन्मूलिता स्यात् । गतिसामान्यं त्वभ्यासपर्यवसन्नमबाधि-तत्वासाधकमसिद्धं च । सर्वस्यापि वाक्यस्य त्वन्मतेऽखण्डब्रह्मपरत्वात् । तस्माद् द्वैताद्वैत-वाक्ययोर्विरोधे मानान्तराविरुद्ध एव वाक्यार्थोऽध्यवसितव्य इति द्वैतश्रुतेरेवाद्वैतश्रुतिबाधकत्वं युक्तम् । व्यावहारिकतात्विकार्थविषयत्वेन श्रुतेर्व्यवस्थापनं त्वयुक्तम् । अन्योन्याश्रयापातेन विनिगमनाविरहात् । व्यावहारिकपदस्य व्यवहारसिद्धार्थत्वेऽद्वैतश्रुतिप्रामाण्यस्यापि व्यावहारि-कत्वापातः । बाध्यार्थकत्वे प्रामाण्यवाचोयुक्तेरसम्भवः । शूून्यवादिमताविशेषप्रसङ्गश्च । तदुक्तम् ।

वेदप्रामाण्यवाङ्मात्रकञ्चुकच्छन्नचर्मणाम् ।

बुद्धिसिद्धान्तसुहृदा सन्तः पश्यन्तु बाह्यगाम् ॥ इति ।

यच्चोक्तं स्तावकं विश्वसत्यत्ववाक्यमन्यथा व्याख्येयमिति तदभद्रम् । युवयोरेव विश्वं सर्वं स्तोत्रं सत्यं यथार्थं यद्यद्गुणजातं स्तुत्या प्रतिपाद्यते तत्सर्वं युवयोर्विद्यमानमेव न त्वारोपितमिति स्वयमेव व्याख्यातत्वेन व्याहतत्वात् । अध्यासे बाधे च सामानाधिकरण्योपपादनमप्ययुक्तम् । तदध्यासादेरद्याप्यसिद्धेरिति । सुखं सुप्तोऽस्मीति । सुषुप्तौ स्वरूपान्दो गृह्यते । स्वरूपं च तदाज्ञानोपहितमेव साक्षिविषय इति सौषुप्तिकानन्दस्यातात्विकत्वमित्यर्थः । ननु साक्षिणा उपहितानन्दविषयत्वेन श्रुतेश्च निरुपाधिकानन्दविषयत्वेन भिन्नविषयत्वान्नानुवादकत्वमिति चेत् । तर्हि प्रत्यक्षगृहीतसत्वापेक्षया श्रुतेरपि भिन्नं सत्वं विषय इति नानुवादकत्वमित्यवेहि ।

साधारणधर्मदर्शनादिजन्यप्रामाण्यसंशयाक्रान्तत्वरूपानाश्वासनिरासप्रयोजनवत्वेन निष्प्रयोजन अनुवाद इत्याह । निगमनवदित्यादिना । ननु पिपासितस्य शब्दादिना जलज्ञानेऽपि न प्रत्यक्षेण तज्ज्ञानमिति तत्सिध्यर्थं प्रत्यक्षापेक्षा । प्रकृते तु प्रत्यक्षसिद्धे सत्यत्वे न शब्दापेक्षो-चितेत्यत आह । प्रत्यक्षसिद्ध इति । न किञ्चिदहमवेदिषमिति साक्षिप्रत्यक्षसिद्धेऽप्यज्ञाने तम आसीदिति श्रुतेस्त्वयापि प्रमाणत्वेनोपन्यासादित्यर्थः । ननु तम आसीदित्यस्य सृष्टिकाल-सम्बन्धित्वेनाज्ञानग्राहितया सुषुप्तिकालसम्बन्धित्वेनाज्ञानग्राहकं प्रत्यक्षमपेक्ष्य भिन्नविषयत्वेनैव प्रामाण्यसम्भव इति युक्तम् । एतावन्तं कालं शुद्धं ब्रह्म नावेदिषमिति अनादिकालसंसृष्टा-ज्ञानानुभवेन सृष्टिकालेऽपि तत्सिद्धेः ।

न्यायामृतसौगन्ध्यम्

आगमबाधिताश्च दृश्यत्वादयः । ‘विश्वं सत्यं मघवाना युवोरिदापश्चन प्रमिनन्ति व्रतं वाम् । अच्छेन्द्राब्रह्मणस्पती हविर्नोऽन्नं युजेव वाजिना जिगातम्’ इति मन्त्रस्यायमर्थः । हे मघवन्तौ धनवन्तौ मखवन्ताविति वा । इन्द्राब्रह्मणस्पती, युवोर् युवयोः सम्बन्धि विश्वं जगत् सत्यमित् सत्यमेव । वां युवयोर् व्रतं सत्यजगत्सर्जनादि । आपश्चन व्यापनशीला देवता अपि न प्रमिनन्ति जानन्ति । ‘डुमिञ् प्रक्षेपणे’ क्य्रादिः । नो ऽस्मदीयं हविर्दध्यादिकं प्रति अन्नं च पुरोडाशादिकं च प्रति अच्छ जिगातं सम्यगागच्छतं, जिगाति-र्गतिकर्म जुहोत्यादिकः । वाजिना धनवन्तौ । युजेव सखायाविव ।

यस्तु विश्वं सर्वं सद्भावाद्वा फलस्यावश्यकत्वाद्वा सत्यं कर्म, युवयोर् इद् युवाभ्या-मेवोद्दिश्य क्रियते । वां युवयोर्व्रतं जगत्सर्जनादि आपो देवता अपि न हिंसन्ति । चनेत्ये-तत्पदद्वयम् । अध्यापकप्रसिद्ध्या त्वेकं पदमित्याह । तन्न । सत्यशब्दस्य कर्मण्यप्रसिद्धेः, अबाध्य एव प्रसिद्धेश्च । अन्यथा सत्यं ज्ञानमित्यत्रापि सद्धेतुत्वादिस्तदर्थस्स्यात् । पदगणनाया मध्यापकेषु चैकपदत्वेन प्रसिद्धस्य भिन्नपदत्वे मानाभावात् । नुक् इत्यादिवच् चनशब्दस्या-व्ययेषु चनाभ्यां पृथक् पाठाच्च । ‘ममच्चन त्वा युवतिः पराल्पा ममच्चन त्वा कुषवा जगादरे’ त्यादिषु चनशब्दस्यैकपदत्वेनैव माधवीये व्याख्यतत्वात् । इहापि तथात्वस्यैवोचितत्वात् । ‘नेह नाना’ इत्यादिषु तदेकपदत्वस्य स्वयमप्यङ्गीकृतत्वाच्च । यस्तु द्वितीयाष्टकस्थस्यैव ददाति मह्यं यादुरीत्यत्राध्यापकसम्प्रदायसिद्धे ऐक्ये सत्यपि, दुरी आदरवती या मह्यं ददातीति भिन्नपदत्वेन व्याख्यातं तथा प्रकृतेऽपीति । तन्न । क्वचित्सम्प्रदायपरम्परया व्याख्यानेऽपि स्वेच्छया पदच्छेदस्यातिप्रसक्तत्वात् ।

‘शाक्मना शाको अरुणः सुपर्णः । आ यो महः शूरः सनादनीडः । यच्चिकेत सत्यमित्तन्न मोघं वसुस्पार्हमुत जेतोत दाता’ इतीन्द्रप्रतिपादकमन्त्रस्यायमर्थः । शाक्मना= शक्मैव शाक्म । तेन शाक्मना बलेन । शाकः शक्तः स्वशक्त्यैव सर्वं कर्तंु शक्त इत्यर्थः । न हीन्द्रे सहायान्तरापेक्षाऽस्ति इन्द्रत्वादेव । अरुणोऽरुणवर्णः । सुपर्णः शोभनपतनः । यः प्रसिद्धः । आ अभिव्याप्तः महः महान् शूरः विक्रान्तः सनात् पुराणो ऽनीडः नीडस्याकर्ता । न हीन्द्रोऽग्निवत् कुत्रचिदपि यज्ञे निकेतनं करोति । स्पार्हं स्पृहणीयं वसु धनं जेता जयति शत्रुभ्यः सकाशात्, उत अपि दाता ददाति स्तोतृभ्यः । जेता दातेति तृन्नन्तेन ‘न लोकेे’-त्यादिना षष्ठीनिषेधः । एवंविध इन्द्रः यद् यस्मात् सत्यमित् सत्यमेव चिकेत कृतवान् तत् तस्मात्् न मोघं न मिथ्या ।

‘कविर्मनिषी परिभूः स्वयम्भूर् याथातथ्यतोऽर्थान्् व्यदधात् शाश्वतीभ्यः समाभ्यः’ इति मन्त्रस्यायमर्थः । कविर् ज्ञानी । मनसां मनसा वा ईष्टे इति मनीषी । परिभावयति सर्वानिति परिभूः सर्वोत्तमः । स्वयम्भूः स्वरूपसामर्थ्यः । शाश्वतीभ्यः समाभ्यः सर्वदा । याथातथ्यतः सत्यान् अर्थान् महदादीन्् व्यदधान् निर्मितवान् । न च ‘याथातथ्यतः’ इत्यस्य पूर्वसृष्टप्रकारेण सर्जनमर्थ इति वाच्यम् । यथार्थशब्दसमानार्थात्ततोऽबाध्यत्व-रूपार्थस्यैव प्रतीतेः । किञ्च यथासृष्टमिति नार्थः । तथाशब्दस्यैवाभावात्् । किन्तु ‘यथार्थं तु यथातथम्’ इत्यमरोक्तेर्यथातथाशब्दस्य सत्यार्थकत्वेन स्वार्थिकतद्धितेन च सत्यार्थकत्वम् ।

यत्तु तथ्यशब्दस्यापि सत्यार्थत्वेन याथेत्यस्य वैय्यर्थ्यपत्तिः । प्रत्ययस्य स्वार्थिकत्वे व्यर्थत्वापत्तिश्च । तस्माद्भावार्थकस्तद्धितः । ल्यब्लोपपञ्चम्यास्तसिल्प्रत्ययः । तथा च पूर्वसृष्टा अर्था यथातथाभावं प्रतिसन्धाय व्यदधादिति वाक्यार्थः ।

किञ्च ‘कविर्मनीषी परिभूः स्वयम्भूः’ इति पूर्वभागस्य त्वन्मते वाक्यार्थे अनुपयोगः । मन्मते तु यतः कविः पूर्वक्रान्तं सर्वं दृष्टवान््, यतश्च मनीषी मनसा इष्टे ऊहापोहकुशलः, यतश्च पूर्वसृष्टविरुद्धमिच्छतां परिभवसमर्थो, यतश्च स्वयमन्यनैरपेक्ष्येण जगद्भवनसमर्थस्ततो हेतोः पूर्वसृष्टभावं प्रतिसन्धाय जगत्सृष्टवानिति सकलं वाक्यं युक्तार्थकमिति ।

तन्न । तथेत्यस्माद् याथातथ्येत्यस्य स्वार्थिकतद्धितान्तस्य शब्दान्तरत्वात् । कविः सर्वविषयकयथार्थज्ञानवान् । तेन शुक्तौ रूप्यारोपवज् जगत्सर्जनं हि व्यावृत्तम् । अतः स्वकर्तृकसर्जनं सृष्टं स्वसमसत्ताकरूपं सत्यमेव यद् यत् स्वोपादानदिविषयविषयकयाथार्थ्या-परोक्षकर्तृकं तत्तत्समसत्ताकरूपं दृष्टं कुलालादिकर्तृकघटादिवत्् । मनीषी मनसा ईष्टे । मनःशब्देन ह्यपरोक्षज्ञानं विवक्षितं, अन्यस्य ज्ञानकरणस्य ज्ञानान्तरस्य वा अभावात् ।

तथा च सर्वविषयकापरोक्षज्ञानवत्वादनभिभवनीयसामर्थ्यः । अत एवेैन्द्रजालिकादिवत् प्रतारकत्वादिकं व्यावृत्तम् । परिभवति हि स्वरूपज्ञानेन विद्यादीन् तन्मूलककामादीन् दोषान् याथातथ्यसृष्टिविरोधिनश्चेति परिभूः, स्वाश्रितेष्वपि कृपया परिभवनसामर्थ्यं सम्पादयतीत्यपि साधु । मन्मतेत्याद्ययुक्तम् । शुक्तौ रजतारोपे प्राचीनसर्वविषयकापरोक्षज्ञानस्यानुपयोगवज् जगदारोपेऽपि प्राचीनसर्वज्ञानस्यानुपयोगात् । ऐन्द्रजालिकस्यापि हि तथा अपरोक्ष-ज्ञानस्यानुपयोगः । अन्यथा नूतनशिक्षितैन्द्रजालस्य तत्त्कर्तृत्वानापत्तेः । मनीषीत्यादि तु प्रलपनम् । सर्वदा सर्वविषयकापरोक्षज्ञानवदीश्वरस्य तर्काद्यात्मकयुक्त्यादिजन्यज्ञानाभावात् । पूर्वेत्याद्ययुक्तम् । न ह्यैन्द्रजालिकः पूर्वसृष्टविरुद्धमिच्छतो निरस्यति ।

अत एव त्वन्मते स्वयमित्यादिकमसङ्गतम् । न ह्यैन्द्रिजालिकः पूर्वसृष्टप्रकारमपेक्षते । आद्यसर्जने तदभावात् । न च ‘याथातथ्यतः’ इत्यत्र स्वार्थिकप्रत्ययो व्यर्थः । आख्यात-प्रत्यययोरिवान्यतरवैय्यर्थ्याभावात् । त्वन्मतेऽपि हि प्रत्ययो व्यर्थः । यादृशं पूर्वसृष्टं तादृशं प्रतिसन्धायेति हि त्वद्वाक्यार्थः । तत्र भावप्रतिसन्धानस्य कुत्रोपयोगः । न च विश्वसत्वस्य प्रत्यक्षप्राप्तानुवादः । प्रत्यक्षेण विश्वत्वावच्छेदेन सत्वाग्रहात् । यथा हि ‘पृथिवी इतरभिन्ना’ ‘न हिंस्यात्सर्वा भूतानि’ इत्यादौ घटादावेकदेशे प्रत्यक्षेण, ब्राह्मणादावेकदेशे वाक्यान्तरेण विधेयसिद्धावपि सर्वत्रासिद्धत्वाद् यथा नानुवादकत्वं, तथा विश्वमात्रसत्यत्वस्य प्रत्यक्षेणा-प्राप्तत्वान् नानुवादकत्वम् । ननु दृष्टान्ते हि पृथिवीत्वं हिंसात्वं च एकोऽनुगतो धर्म इति तदवच्छेदेन विधेयस्याप्राप्तत्वेन तत्र नानुवादकत्वं युक्तम् । इह तु विश्वत्वं नाम नैको धमोर्ेेेऽस्ति, किन्तु विश्वशब्दः सर्वनामत्वात्तेन तेन रूपेण घटपटादीनामुपस्थापकः । तेषु च प्रत्येकं सत्वं गृहीतमेवेति कथं नानुवादकत्वं, प्रकारवैलक्षण्याभावादिति चेन्न । प्रकृते विश्वशब्दस्य जगच्छब्दपर्यायत्वात् ‘ब्रह्म सत्यं तपः सत्यं सत्यं चैव प्रजापतिः । सत्या भूतानि जातानि सत्यं भूतमयं जगत्’ ॥ इत्याश्वमेधके जगत्त्वेन सत्यत्वोक्तेः ।

किञ्च सर्वनाम्नां नानार्थकल्पनामपेक्ष्य लाघवेन तदादिपदस्य बुद्धिविषयत्वेन रूपेण बुद्धिविषयमात्रवति शक्तिरित्थं च तदादिपदात्् पटत्वादिना पदार्थोपस्थितिरपि नानुपपन्ना । शक्तिग्रहेऽपि बुद्धिविषयत्वेन घटत्वादीनां प्रकारत्वात् । न चैवं शक्तिग्रहेऽपि बुद्धिविषयत्वेन घटत्वादेः प्रकारतया पदार्थोपस्थितावपि तेनैव रूपेण प्रकारत्वात् शाब्दबोधोऽपि नियमतो बुद्धिविषयवन्तमानयेत्येव स्यात्, न तु घटमानयेत्यादीति वाच्यम् । शक्तिग्रहे घटत्वाद्यंशे बुद्धिविषयत्वप्रकारकत्वेऽपि तदंशे उद्बोधकमप्राप्य केवलघटत्वादिप्रकारेण स्मरणाजनक-त्वात् । यदा तु तदंशेऽप्युद्बोधकसमवधानं तदा बुद्धिविषयत्वेन रूपेणैव पदार्थोपस्थितौ घटत्वादेः प्रकारतया बुद्धिविषयवन्तमानयेत्येव शाब्दबोधः । ‘तमानय’ इत्यादौ कदाचि-त्तादृशबोधस्य तवापि सम्मतत्वात् । न चैतन्मतेऽपि घटत्वाद्यनन्तधर्मस्य शक्यतावच्छेदक-त्वमप्यविशिष्टमेव, बुद्धिविषयत्वांशेऽपि शक्तिविषयत्वकल्पनं पुुनरधिकमिति विपरीत-गौरवमिति वाच्यम् । प्रातिस्विकरूपेण तेषां शक्यतावच्छेदकत्वे शक्तिग्रहे प्रकारतानन्त्यम् । बुद्धिविषयत्वेन रूपेण शक्यतावच्छेदकत्वे तु बुद्धिविषयत्वावच्छिन्नघटत्वपटत्वादिसर्वनिष्ठैकैव प्रकारतेति लाघवमिति तार्किकैरप्युक्तम् । तथा च ‘विश्वं सत्यम्’ इत्यादौ श्रुतिसार्थक्याय बुद्धिविषयत्वांशे उद्बोधकाकल्पनेन बुद्धिविषयवत् सत्यमित्येव हि शाब्दबोधः ।

किञ्च यथा ‘चातुर्मास्यमध्यपर्वणोर् द्वयोः प्रणयन्ती’ति वाक्यस्य चोदकप्राप्तगार्हपत्या-वधिकप्रणयनादतिरिक्ताहवनीयावधिकापूर्वप्रणयनपरत्वेन सार्थक्यं तथा वर्तमानमात्रग्राहि-प्रत्यक्षगृहीतपारमार्थिकसत्वातिरिक्तातीतानागतकालसाधारणसत्वग्राहित्वेन श्रुतेः सार्थक्यम् । न च त्रैकालिकसत्वनिषेधकश्रुतिविरोधेन विश्वसत्यत्वश्रुतेर्न तादृशसत्वपरत्वमिति वाच्यम् । ब्रह्मातिरिक्तनिषेधबोधने तेनैवाद्वैतहानेः । तदनतिरिक्तबोधने तु विरोधाभावात् । न हि धर्मि-मात्रज्ञानं धर्मवैशिष्ट्यं विरुणद्धि । यत्तु तात्विकव्यावहारिकप्रामाण्यभेदेन श्रुतिद्वयव्यवस्थोप- पादनं तन्न युक्तम् । व्यावहारिकत्वं हि अप्रामाण्यस्यैव नामान्तरम् । अतः सत्वश्रुत्या पारमार्थिकं सत्वं, निषेधश्रुत्या स्वतन्त्रद्वैतनिषेध इति समानविषयत्वेनैव व्यवस्था युक्ता ।

किञ्चात्मन आनन्दत्वबोधिका श्रुतिरपि प्रत्यक्षसिद्धानन्दानुवदिनी किं न स्यात् । न च साक्षिण उपहितानन्दविषयत्वेन, श्रुतेश्च निरुपाधिकानन्दविषयत्वेन भिन्नविषयत्वान्नानु-वादत्वमिति वाच्यम् । प्रत्यक्षगृहीतानन्दानतिरिक्तविषयकत्वेन श्रुतेरनुवादकत्वात् । न हि प्रत्यक्षसिद्धं दण्डिबोधकं पुरुषोऽयमिति वाक्यं नानुवादकम् ।

किञ्च तत्वमसीत्यादौ नवकृत्वोऽभ्यासवत् पिपासितस्य जलजगोचरप्रमाणसंप्लववद् भावरूपाज्ञाने प्रत्यक्षसिद्धे ‘तम आसीत्’ इत्यादिश्रुतिवत् सत्वश्रुतिर्दार्ढ्यार्थाऽस्तु । एतेनाशेषविशेषग्राहिप्रत्यक्षप्राप्तेऽर्थे स्वदाढ्यार्थमन्यानपेक्षणात् । पिपासितस्य शब्दलिङ्गा-नन्तरं जले प्रत्यक्षमपेक्षितम्, न तु प्रत्यक्षानन्तरं शब्दलिङ्गे अपेक्षिते इति निरस्तम् । षडि्वधतात्पर्यलिङ्गसंप्लवस्य त्वयानङ्गीकारात् । न च ‘तम आसीत्’ इत्यस्य सृष्टिपूर्वकाल-सम्बन्धित्वेनाज्ञानग्राहितया सुषुप्तिकालसम्बन्धित्वेनाज्ञानग्राहकं प्रत्यक्षमपेक्ष्य भिन्नविषय-त्वेनैव प्रामाण्यसम्भव इति वाच्यम् । ‘एतावन्तं कालं शुद्धं ब्रह्म नावेदिषम्’ इति अनादिकालसंसृष्टाज्ञानानुभवेन सृष्टिकालेऽपि तत्सिद्धेः ।

न्यायामृतमाधुरी

अत्र मिथ्यात्वे विशेषानुमानानां सामान्यानुमानदोषदूषितत्वादेव ग्रन्थकारैर्विशिष्या-नुपन्यस्ततया कथञ्चिदद्वैतसिद्धिकारप्रदर्शितानां च वनमालिमिश्रेणापहस्तितया ग्रन्थगौरव-भीत्या तद्दूषणानि नेह प्रपञ्च्यन्ते । सम्प्रति जगदलीकत्वानुमानानामागमबाधमाह ॥ किं चेत्यादि । विश्वं सत्यमित्यादि ।

विश्वं सत्यं मघवाना युवोरिदापश्चन प्रमिनन्ति व्रतं वाम् ।

अच्छेन्द्राब्रह्मणस्पती हविर्नोऽन्नं युजेव वाजिना जिगातम् ॥

इति ऋक्संहिताद्वितीयाष्टकस्थवाक्यस्यायमर्थः । हे इन्द्राब्रह्मणस्पती । मघवानौ मघवाना मघमिति धननाम धनवन्ताविति वा । युवोर्युवयोस्सम्बन्धि विश्वं जगत्सत्यमित् सत्यमेव । व्रतं सत्यजगत्सर्जनादि । आपश्चन व्यापनशीला देवता अपि प्रमिनन्ति जानन्ति । सुनोत्यादिकस्य प्रक्षेपणार्थस्य मिनोतेर्विकरणेकारलोपे रूपमेतत् । नो ऽस्मदीयं हविर्दध्यादिकं प्रति अन्नं चरुपुरोडाशादिकं च प्रति । अच्छ जिगातं सम्यगागच्छतम् । जौहौत्यादिकस्य स्तुत्यर्थस्य जिगातेर्धातूनामनेकार्थत्वाद्गत्यर्थत्वमाश्रितम् । वाजिनौ । अन्नवन्तौ युजेव सखायाविवेति । अद्वैतसिद्धिकारस्तु, विश्वं सर्वं, सत्यं कर्म सद्भावात् फलस्यावश्यम्भावित्वाद्वा । तादृशं कर्म युवोरिद् युवाभ्यामेवोद्दिश्य क्रियते । वां युवयोर्व्रतम् आपो देवता अपि न हिंसन्ति च नेत्यतत्पदद्वयम् । ऐकपद्यन्तु अध्यापकसम्प्रदायसिद्ध-मित्याह । तन्न साधीयः । सत्यं ज्ञानमित्यादावबाध्यार्थकत्वेन क्लृप्तस्य सत्यपदस्य कर्मार्थकत्वकल्पनायोगात् । अध्यापकसम्प्रदायानुरोधेनैकपदत्वेन निर्णीते भिन्नपदत्वकल्पनस्य निष्प्रमाणत्वात् । अव्ययगणनायां चकारनकाराभ्यां पृथगेव नुकमित्यादिवच् चनशब्दस्य पाठात् । नेह नानास्ति किञ्चनेत्यादावैकपद्यस्य स्वेनाप्यूरीकृतत्वात् । माधवीयेऽपि तथा तत्र तत्र व्याख्यानात् ।

शाक्मना शाको अरुणः सुपर्ण आ यो महः शूरः सनादनीलः ।

यच्चिकेत सत्यमित्तन्न मोघं वसुस्पार्हमुत जेतो त दाता ॥

इत्यस्याष्टमाष्टकस्थस्यायमर्थः ।

शाक्मना बलेन, शाकः शक्तः स्वसामर्थ्येनैव सर्वं कर्तुमुद्यत इन्द्रस्येन्द्रत्वादेव सह-कार्येतरापेक्षाविरहात् । अरुणवर्णः, सुपर्णः शोभनपतनः यः प्रसिद्धो ऽभिव्याप्त्या आमहः महान् । शूरः विक्रान्तः, सनात् पुराणः । अनीडः न हीन्द्रोऽग्निवत् कुत्रचिद्यज्ञे निकेतनं करोति । स्पार्हं स्पृहणीयं वसु धनं जेता शत्रुभ्यः सकाशात् । अपि दाता । स्तोतृभ्यः । तृन्नन्तत्वान्न लोकेत्यादिना प्रतिषिद्धा षष्टी । एतादृशमाहात्म्यशाली इन्द्रः, यद् यस्मात्, सत्यमित् सत्यमेव चिकेत ‘‘किर्ज्ञाने’’ ज्ञातवान् । तत्तस्मान्न मोघं न मृषेति ।

‘‘कविर्मनीषी परिभूः स्वयं भूर्याथातथ्यतोऽर्थान्व्यदधाच्छाश्वतीभ्यः समाभ्य इत्यस्याय-मर्थः । ज्ञानी, मनसां नियामकः । परिभावयति सर्वानिति परिभूः सर्वाधिकः । स्वयम्भूः परापेक्षोत्पत्तिकान्यः । शाश्वतीभ्यः समाभ्यः सर्वदा । यथार्थन्तु यथातथामित्यमरोक्त्या यथातथाशब्दस्य स्वार्थिकष्यञन्तत्वेन यथार्थात् । अर्थान्महदादीन् । व्यदधान् निर्मम इति । एतेनाद्वैतसिद्धिकारीयं पूर्वसृष्टप्रकारेण सर्जनं, यथातथ्यत इत्यस्यार्थ इत्यप्यपास्तम् । तस्य तदर्थकत्वाप्रसिद्धेः । अत्र ब्रह्मानन्देन तथ्यपदस्य सत्यार्थकत्वेन याथेत्यस्य व्यर्थत्वापत्तेः । प्रत्ययस्य स्वार्थिकत्वे वैय्यर्थ्यापत्तेश्च । तस्माद्भावार्थकस्तद्धितः ल्यब्लोपपञ्चम्यास्तसिल्-प्रत्ययः । तथा च पूर्वं सृष्टा अर्था यथा तथाभावं प्रतिसन्धाय व्यदधादिति वाक्यार्थः । किञ्च कविर्मनीषी परिभूः स्वयम्भूरिति पूर्वभागस्य त्वन्मते वाक्यार्थेऽनुपयोगः । मन्मते तु यतः कविः पूर्वक्रान्तं सर्वं दृष्टवान् । यतश्च मनीषी मनसा ईष्टे उहापोहकुशलः । यतश्च पूर्वसृष्टविरुद्धमिच्छतां परिभव समर्थो, यतश्च स्वयमन्यनैरपेक्ष्येण जगद्भावनसमर्थस्ततो हेतोः पूर्वसृष्टभावं प्रतिसन्धाय जगत्सृष्टवानिति सकलवाक्यं युक्तार्थकमित्यभिहितम् । तद् आत्मनः शब्दव्युत्पत्तिप्रकाशकम् । सामीप्यादिपदवद्याथातथ्यपदस्य स्वार्थिकष्यञन्तस्तस्य यथातथ-शब्दप्रकृतिकस्य तथाशब्दप्रकृतिकतथ्यपदपर्यायत्वेन पदान्तरतया वैय्यर्थ्यशङ्कायाः पाणिनीय प्रक्रियानधिगतिनिबन्धनत्वात् । कविरित्यादि पूर्वभागसार्थक्यत्वम् आकरे व्यक्तं, प्रपञ्चितं च वनमालिमिश्रेणेति नेह विवेचनीयम् ।

नाभाव इति । जगदसन्न भवति । सत्वेनोपलब्धेरित्यर्थः । वैधर्म्यादिति । जगत्, स्वप्नपदोपात्तेन तदवस्थाप्रतीतगजाद्यध्यस्तजाग्रत्सृष्टपदार्थतादात्म्येन मरीचिकाजलादिना च तुल्यं न वर्तते । तद्वैलक्षण्यानुभवादित्यर्थः । त्वन्मत इति । औतिनये घटो नील इतिवत् सन् घट इत्यत्र घटे सत्वं न विषयः किं त्वधिष्टानभूतसद्बद्मानुवेधमात्रमित्यङ्गीकारेण प्रत्यक्षेण घटादिषु सत्वस्यानवगाहनादिति भावः । यच्चिकेतेत्यादीति । अत्र वाक्ये ईश्वरकृतत्वविशेषितं जगदनूद्य सत्वविधानं न सङ्गच्छते । तस्य तत्कृतत्वस्य केवलानु-मानादितोऽनवधृततया मानान्तराप्राप्ततयाऽनुवाद्यताविरहात् । किन्तु सत्यकामादिवाक्या-वत्सत्यत्वविशेषितजगत्सृष्ट्रत्वमीशस्याभिधीयते ।

अत्राद्वैतसिद्धिकारीया, स्तुत्यादिपरतयाऽस्य न विश्वसत्यत्वे तात्पर्यमिति शङ्का, मानान्तरविरोधाभावेन देवताविग्रहादेरिव जगत्सत्यत्वस्यापि सिद्धेर्निरस्तैव । पृथिवीत्यादि-प्रत्यक्षेण पृथिवीत्वसामानाधिकरण्येन घटादावितरभेदस्य, ब्राह्मणो न हन्तव्य इत्यनेन प्राणत्वसामानाधिकरण्येन ब्राह्मणहिंसाकर्मत्वाभावस्य च निश्चयेऽपि पृथिवीत्वावच्छेदेन प्राणित्वावच्छेदेन च तयोरनिश्चयेऽपि न यथा तत्राननुवादकत्वं तद्वत्प्रकृतेऽपि सन्निकृष्टेषु पटादिषु प्रत्यक्षेण सत्वावधारणेऽपि अतीन्द्रियेषु तेन तदनवधारणेन श्रुत्यैव तस्य तत्रावधार्यत्वान्न तस्यानुवादकत्वमित्यर्थः । अत्राद्वैतसिद्धिकारः । दृष्टान्ते हि पृथिवीत्वं हिंसात्वं चैकोऽनुगतो धर्म इति तदवच्छेदेन विधेयस्याप्राप्तेर्न तत्रानुवादकत्वं युक्तम् । इह तु विश्वत्वं नाम नैकोऽनुगतो धर्मोऽस्ति किन्तु विश्वशब्दस्य सर्वनामत्वात्तेन रूपेण घटपटादीनामुपस्थापकः । तेषु च प्रत्येकं सत्वं गृहीतमेवेति कथं नानुवादकत्वं प्रकार-वैलक्षण्याभावादित्याह । अत्र ब्रह्मानन्दः – सर्वनामत्वाद् बुद्धिविषयविशिष्टशक्तत्वात् । तथा च यथा तदादेर्बुद्धिविषयविशिष्टशक्तत्वेऽपि घटत्वादिविशेषरूपं स्वरूपतोऽविषयीकुर्वति शाब्दानुभवे हेतुत्वम् ।

अन्यथा तादृशसंशयादिनिवृत्तिस्तादृशशाब्दबोधान्न स्यात् । तथा विश्वशब्दस्यापि घटत्वादिकं स्वरूपतोऽविषयीकुर्वति बोधे हेतुत्वम् । अत एव ‘‘सर्वेभ्यो दर्शपूर्णमासौ’’ इत्यादौ पुत्रत्वादिनानाधर्माणामुद्देश्यतावच्छेदकत्वेनोद्देश्यभेदेऽप्येकपदार्थत्वान्न वाक्यभेद इति वार्तिकादावुक्तमिति व्याचख्यौ । उभावपि परीक्षकसमयमतिशयानौ । तथा हि । भगव-त्सङ्केतरूपायां शक्तौ शक्यतावच्छेदकघटत्वपटत्वादीनामुपलक्षणीभूतबुद्धिविषयतावच्छेदकत्व-प्रकारेण भासमानानानन्दादिपदजन्यबोधविषयतावच्छेदकत्वं भासते । एवं च बुद्धिविषयता-वच्छेदकधर्मावच्छिन्नस्तत्पदाद्बोद्धव्यः । तत्पदम्बुद्धिविषयतावच्छेदकधर्मावच्छिन्नं बोधयत्वि-त्याकारकस्य वा सङ्केतस्य विषयताया अनुनगतघटत्वपटत्वादिनिष्टाया अपि अनुगतरूपा-वच्छिन्नतया शक्तेरैक्यम् । इयांस्तु विशेषः । घटत्वादिषु घटादिपदजन्यबोधविषयता-वच्छेदकत्वं सङ्केतेनावगाह्यत इति तानि विशेषणानीत्युच्यन्ते । प्रकृते च तादृशबुद्धि-विषयतावच्छेदकत्वे सर्वनामपदजन्यबोधविषयतावच्छेदकत्वं तेन नावगाह्यते । अपि तु तादृशविषयतासामानाधिकरण्यमात्रमिति तदुपलक्षणमिति गीयते । तथा च तादृश-शक्तिग्रहस्य दर्शितसामान्यप्रत्यासत्या निखिलतादृशधर्मविषयकतया न पूर्वधर्मप्रकारेण बोधानुपपत्तिः । सामान्यप्रत्यासत्यनभ्युपगमे तु शक्तिग्रहधर्मितावच्छेदकतावच्छेदकाननुगत-रूपाश्रयस्यापूर्वधर्मस्य शक्तिग्रहाविषयत्वेऽपि शाब्दबुद्धौ न भानानुपपत्तिः शक्तिधियः समानविषयत्वस्यातन्त्रत्वात् । विश्वं सत्यमिति श्रुतौ विश्वपदस्य जगत्पदपर्यायतया ।

ब्रह्म सत्यन्तपः सत्यं सत्यं चैव प्रजापतिः । सत्यं भूतानि जातानि सत्यभूतमयं जगत् । इत्याश्वमेधके जगत्वावच्छेदेन सत्यत्वोक्त्या च ग्रन्थकारोक्तस्याखिलपरीक्षकपरीक्षित-त्वात् । अतिप्रसङ्गादिति सिद्धोद्देशेनासिद्धविधायकस्यापि दध्ना जुहोतीत्यादेरनुवादकता प्रसज्येतेत्यर्थः । एकशाखेत्यादि ॥ शाखाया एकवेदस्थशाखान्तरासाहित्यरूपैकत्व-विशिष्टाया एवाध्ययनपरस्य शब्देन विहितत्वादेकवेदस्थशाखाद्वयगतवाक्ययोरेकपुरुषेणा-ध्ययनस्याविहितत्वात्तत्र यथा तादृशवाक्ययोः पुरुषभेदं प्रति बोधकत्वेन नानुवादकत्वमिति द्वितीयस्थे शाखान्तराधिकरणे निर्णीतं तथा वादिविप्रतिपत्यादिभिरनिर्णीतघटादिसत्ताकं पुरुषं प्रति प्रकृता विश्वसत्यत्वश्रुतिर्नानुवादिकेत्यर्थः ।

अत्राद्वैतसिद्धिकृत्, पुरोवादपूर्वकत्वादनुवादस्यात्रायं पुरोवाद इत्यस्यैवाभावान्न-शाखान्तरस्थवाक्यस्यानुवादकत्वप्रसङ्ग इत्याह । अत्र व्याख्यातारः– भूयस्त्वेनोभय-श्रुतीतिन्यायेन कर्मस्वरूपनिश्चयवद् वेदद्रष्टृप्रथमव्यक्त्यपेक्षया पुरोवादस्यापि निश्चयात्सादि-प्रत्यक्षस्यानादिवेदापेक्षया पुरोवादत्वासम्भवात् । तस्मात्प्रतिपत्तृव्यवस्थयैवाननुवादकत्वं वाच्यमिति भाव इति समादधिरे । अनुवादस्य निश्चेतव्यतां सम्पादयति सर्वेति । सर्वाविवादस्य निश्चेतुमशक्यत्वादित्यद्वैतसिद्धिकारीयं जल्पितमप्यभियोगेनैव । अग्निर्हिमस्य भेषजम्, अस्यामोषधयो जायन्त इत्यादीनामेव सर्वाविदादस्थलत्वात् । वादिविप्रतिपत्तीति । चार्वाकादिवादिविप्रतिपत्तिदर्शनादित्यर्थः । अत्राद्वैतसिद्धिकारः । वादिविप्रतिपत्तिपत्तिदर्शनेन देहव्यतिरिक्तत्वेनात्मनः प्रत्यक्षतैव नास्ति । अन्यथा प्रत्यक्षप्रामाण्यवादिनश्चार्वाकादेस्तत्र विप्रतिपत्तिर्न स्यादित्युक्तं न तु वादिविप्रतिपत्तिनिरासेनास्तीत्यादेः सार्थकत्वमननुवादकत्वं वा । तथा चोक्तं तत्रैव ‘तस्माज्जन्मान्तरसम्बन्ध्यात्मास्तित्वे जन्मान्तरेष्टानिष्टप्राप्तिपरिहार-विशेषोपाये च शास्त्रं प्रवर्तत इति जगाद । तन्न साधीयः । तथा सति तद्दिशैव प्रकृतेऽपि वादिविप्रतिपत्तिदर्शनेन जगत्पारमार्थ्यमपि न प्रत्यक्षगोचरः । अन्यथा प्रत्यक्षप्रामाण्य-मुपगच्छतोर्द्वैताद्वैतवादिनोर्विप्रतिपत्तिर्न स्यादिति तात्पर्यकत्वात्प्रकृतग्रन्थस्य न दोषः ।

द्वयोः प्रणयन्तीति । चातुर्मास्याख्यस्य कर्मणश्चत्वारि पर्वाणि वैश्वदेववरुणप्रघास-साकमेधशुनासीराभिधानि । तत्र चातुर्मास्यप्रकरणे द्वयोः प्रणयन्ति तस्माद् द्वाभ्यामेतीति श्रूयते । तस्य च ऊरू वा एतौ यज्ञस्य यद्वरुणप्रघासश्च साकमेधश्चेति गतिसाधनोरुत्वेन संस्तुतमध्यपर्वद्वयविषयत्वे द्वाभ्यामेतीति वाक्यशेषादवधृते चातुर्मास्यानां दर्शपूर्णमास-विकृतित्वेनैव प्रणयनस्य प्राप्त्या प्रणयनपुनः श्रुतेर्वैय्यर्थ्यमित्यतः प्रणयनपुनः श्रुतिरनन्यार्था भेदिका भवतीति दर्शपूर्वकाद् गार्हपत्यावस्थिकाहवनीयावधिकमुत्तराहवनीयप्रणयनं द्वयोः प्रणयन्तीति वाक्येन बोध्यते । तथा च प्राप्तप्रणयनाद्विलक्षणप्रणयनं विधीयते तथा विश्वसत्यत्वश्रुत्या प्रत्यक्षप्राप्तसत्वाद्विलक्षणतात्विकसत्वमेव बोधयतीति समुदायार्थः । श्रुतेर् विश्वं सत्यमित्यादिकायाः । श्रुतिवत् । षष्ट्यन्ताद्वतिः । तत्सत्यं स आत्मेत्यादिकायाः श्रुतेरिव । सन् घटः, सत्सुखस्फुरणमहमस्मीत्यादिप्रत्यक्षेणापि तत्तत्सत्यत्वप्राप्त्योपन्यस्त-श्रुतेर्वैय्यर्थ्यं मा प्रसाङ्क्षीदित्येवमर्थमित्यर्थः ।

अत्राद्वैतसिद्धिकारः । त्रैकालिकसत्वनिषेधकश्रुतिविरोधेन विश्वस्य सत्यत्वश्रुते-स्त्रैकालिकसत्वपरत्वाभावात् । न च वैपरीत्यमेव किं न स्याद्विनिगमकाभावादिति वाच्यम् । तात्पर्यान्यथानुपपत्तिगतिसामान्यानामेव विनिगमकत्वात् । अद्वैतश्रुतिर्हि षड्विधतात्पर्य-लिङ्गोपेता । तत्र त्रिविधं तात्पर्यलिङ्गं प्रामाण्यशरीरघटकम् अर्थनिष्ठमज्ञातत्वमबाधितत्वं प्रयोजनवत्वं चेति । त्रिविधं तु शब्दनिष्ठमतिप्रसङ्गनिवारकम् उपक्रमोपसंहारयोरैकरूप्य-मभ्यासो ऽर्थवादश्चेति । तत्र शब्दनिष्ठलिङ्गत्रये तावन्न विवादः । सर्वासामेवोपनिषदामेवं प्रवृत्तत्वात् । मानान्तरासिद्धतया मोक्षहेतुज्ञानविषयतया चाज्ञातत्वं सप्रयोजनत्वं च निर्विवादमेव । अबाधितत्वमात्रं सन्दिग्धम् । तच्चान्यथानुपपत्तिगतिसामान्याभ्यां निर्णीतम् । न च सर्वप्रपञ्चनिषेधरूपमद्वैतं व्यावहारिकम् । येन तत्र श्रुतेर्व्यावहारिकं प्रामाण्यं स्यात् । अतस्तत्र तात्विकमेव प्रामाण्यम् । द्वैतसत्यत्वं व्यावहारिकम् अतस्तत्र न श्रुतेस्तात्विकं प्रामाण्यम् । परस्परविरुद्धयोस्तात्विकत्वा योगात् । वस्तुनि विकल्पासम्भवात् । तात्विक-व्यावहारिकप्रामाण्यभेदेन च व्यवस्थोपपत्तेः । स्तुतिपरत्वेनावधारितस्य विश्वसत्यत्व-वाक्यस्यैवान्यथा व्याख्यातुमुचितत्वात् । तथा हि । चतुर्धाहि सामानाधिकरण्यम् । अध्यासे ‘इदं रजतम्’ इत्यादौ, बाधायां स्थाणुः पुमानित्यादौ । विशेषणविशेष्यभावे नीलमुत्पल-मित्यादौ । अभेदेन तत्वमसीत्यादौ । अत्र बाधायामध्यासे वा सामानाधिकरण्योपपत्तेर्न सत्वबोधकश्रुतेः षड्विधतात्पर्यलिङ्गोपेताद्वैतश्रुतिबाधकत्वमिति प्रतिपपाद । तत्सर्वमन्यो-न्याश्रयादिदूषितम् । वैयाकरणप्रपञ्चेनापहस्तितं चेति नेह वितन्यते ।

सुखं सुप्तोऽस्मीति । सुप्तौ स्वरूपानन्दो गृह्यते । स्वरूपं च तदज्ञानोपहितमेव साक्षिविषय इति सुषुप्तिकालीनानन्दस्यातात्विकत्वमित्यर्थः । अत्राद्वैतसिद्धिकारः । साक्षिण उपहितानन्दविषयत्वेन श्रुतेश्च निरुपाधिकानन्दविषयत्वेन भिन्नविषयत्वादनुवादकत्वायोगात् । तदा हि सुप्तौ स्वरूपानन्दो गृह्यते । स्वरूपं चाज्ञानोपहितमेव साक्षिविषय इति न्यरूरुपत् । तन्मन्दम् । तथा सति तुल्यदिशा प्रत्यक्षगृहीतसत्वादतिरिच्यमानसत्वविषयकतया श्रुतेर्नानु-वादकतेत्यवेहीति स्थितम् ॥ निगमनेत्यादि । षष्ठ्यन्ताद्वतिपञ्चकम् । अत्राद्वैतसिद्धि-कृद्बभाषे । अशेषविशेषग्राहिप्रत्यक्षप्राप्ते दार्ढ्यार्थमन्यानपेक्षणात् । पिपासितस्य शब्दलिङ्गा-नन्तरं जले प्रत्यक्षमपेक्षितं न तु प्रत्यक्षानन्तरं शब्दलिङ्गे । तम आसीदित्यस्य सृष्टि-पूर्वकालसम्बन्धत्वेनाज्ञानग्राहितया सुषुप्तिकालसम्बन्धित्वेनाज्ञानग्राहकं प्रत्यक्षमपेक्ष्य भिन्न-विषयत्वेनैव प्रामाण्यसम्भवादिति । तदतिस्थवीयः । सन्घट इत्यादिप्रत्यक्षे शुक्तिरजतादि-प्रत्यक्षवत्प्रत्यक्षत्वावैशेष्येणाप्रामाण्याशङ्कानिरसनायान्यस्यावश्याश्रयणीयत्वात् । अनभ्यास-दशापन्न जलप्रत्यक्षे मरुमरीचिकाजलप्रत्यक्ष इव तदवैशेष्येण तच्छङ्काविधूननाय इतरस्या-पेक्षणीयत्वात् । एतावन्तं कालं शुद्धं ब्रह्म नावेदिषमिति अनादिकालसंसृष्टाज्ञानानुभवेन सृष्टिकालेऽपि

तत्सिद्धेः ।


किञ्च यथा ‘‘षड्विंशतिरस्य वंक्रयः’’ इति..

न्यायामृतं

किञ्च यथा ‘‘षड्विंशतिरस्य वंक्रयः’’ इति मन्त्रस्याश्वमेधे चोदकप्राप्तस्य ‘‘चतुस्त्रिंशद्वाजिनो देवबन्धोः’’ इति वैशेषिकमन्त्रेणापोदितस्य प्रतिप्रसवार्थं षड्विंशतिरित्येव ब्रूयात्’’ इति वचनं तथा प्रत्यक्षप्राप्तस्य जगत्सत्त्वस्याऽद्वैत-श्रुत्याऽऽपाततोऽपोदितस्य प्रतिप्रसवार्थं सत्त्वश्रुतिः किं न स्यात्? दृश्यन्ते हि मृडमृदेत्याद्याः प्रतिप्रसवार्थं विधयः । तस्मात्–

धर्मिप्रमातृधर्मादिभेदान्न द्वैतगीर्वृथा ।

अहिंसावाग्भिन्नशाखावाग्द्विप्रणयनादिवत् ॥

किञ्च प्रत्यक्षम्, प्रमाणं चेत्तद्बाधो मिथ्यात्वानुमानादेः । न चेत्कथं सत्त्व-श्रुतिरनुवादः? श्रुतेः सदर्थत्वायाननुवादकत्वाय च प्रत्यक्षाप्राप्त तात्त्विकसत्त्व-विषयकत्वोपपत्तेः । न हि प्रमाभ्रमयोरेकविषयता । किञ्च–

यथा नापहरेद् द्वैताभावश्रुत्यर्थमक्षधीः ।

तथा नोपहरेद् द्वैतश्रुत्यर्थमपि दुर्बला ॥

प्रत्यक्षं प्रमाणत्वेन निश्चितं चेत्तद्बाधो मिथ्यात्वानुमानादेः । अनिश्चितं चेत्प्रत्यक्षं मित्थात्वश्रुतिविषयापहार इव सत्त्वश्रुतिविषयापहारेऽप्यशक्तं, स्वप्रामाण्य निर्णयाय श्रुतिसंवादापेक्षं सन्न श्रुत्यनुवादकत्वापादकम् । अग्न्यौष्ण्यप्रत्यक्षस्य प्रामाण्यानिश्चयेऽग्निर्हिमस्य भेषजमित्यादिरप्यनुवादो न स्यादेव । अन्यथा ‘‘सत्यं ज्ञानम्,’’ ‘‘नेह नाना’’ इत्यादिश्रुतिरप्यनुवादिनी स्यात् । ब्रह्मसत्त्वस्य लोकतो भ्रमाधिष्ठानत्वादिलिङ्गेन च विश्वमिथ्यात्वस्य च दृश्यत्वाद्यनुमानेनावेदमूल-प्रवाहानादिविज्ञानवादादिना च प्राप्तेः । उक्ता हि मन्त्राधिकरणे मन्त्रलिङ्गप्राप्त-बोधकस्यापि तदर्थशास्त्रस्यानुवादकता । उक्ता च त्वयैवेक्षत्यधिकरणे सदेवेत्यादि-वाक्यस्य प्रधानपरत्वे साङ्ख्यस्मृतिप्राप्तानुवादिता । किञ्च सत्त्वश्रुतेः सत्त्वप्रत्यक्षा-नपेक्षत्वान्न सापेक्षानुवादित्वम् । निरपेक्षानुवादित्वं तु धारावाहिकज्ञान इव नाप्रामाण्यहेतुः । उक्तं हि नयविवेके– ‘‘सापेक्षानुवादे हि न प्रमितिः, न तु दैवादनुवादे धारावाहिकवत्’’ इति । उक्तं च वाचस्पत्ये ‘‘यत्र तु प्रमाणान्तर-संवादस् तत्र प्रमाणान्तरादिवार्थवादादपि सोऽर्थः प्रसिद्ध्यति । द्वयोः परस्परा-नपेक्षयोः प्रत्यक्षानुमानयोरिवैकत्रार्थे प्रवृत्तेः । प्रमात्रपेक्षया त्वनुवादत्वं प्रमाता ह्यव्युत्पन्नः प्रथमं यथा प्रत्यक्षादिभ्योऽर्थमवगच्छति, न तथाऽऽम्नायतस्तत्र व्युत्पत्त्य-पेक्षत्वात्’’ इति ।

किञ्च वादिविप्रतिपत्तिनिरासार्थत्वान्न निष्प्रयोजनानुवादत्वम् । सप्रयोजनानु-वादत्वं तु विद्वद्वाक्य इव स्वार्थपरत्वाविरोधि । अत एव मीमांसकैर्विद्वद्वाक्यस्य समुदायद्वित्वापादनरूपप्रयोजनवत्त्वेनानुवाद्यस्वार्थपरत्वाद्वाक्यैकवाक्यतोक्ता । स्वार्थ- परत्वाभावे ह्यर्थवादवत् पदैकवाक्यतोच्येत । किञ्चानुवादत्वेऽपि नैष्फल्यमात्रं न त्वप्रामाण्यम् । याथार्थ्यमेव प्रामाण्यं न त्वनधिगतार्थत्वमित्यन्यत्रोक्तत्वात् । किञ्चायमनुवादो न तावद्वायुक्षेपिष्ठादिवाक्यवत्स्तुत्यर्थः, नापि ‘‘दध्ना जुहोती’’ त्यत्र जुहोतिरिवान्यविधानार्थः । विधानाय प्रमाणानूदितस्य तात्त्विकत्वनियमात् । न हि ‘‘व्रीहीन् प्रोक्षति’’ इत्यादावारोपितव्रीह्यादेर्धीः । अनुवाद्यस्यासत्त्वे ह्याश्रया-सिद्धौ धर्मिधर्मसंसर्गरूपानुमितिवेद्य इवाऽनुवाद्यविधेयसंसर्गरूपवाक्यार्थो बाधितः स्यात् । नापि नेह नानेति निषेधार्थः । तत्रैव किञ्चनेत्यनुवादकांशस्य सत्त्वात् । न हि ‘‘न सुरां पिबेत्’’ इति निषेधाय सुरां पिबेदिति वाक्यान्तरमपेक्षितम् । अत्र च ‘‘आपश्चन प्रमिनन्ति’’ इत्यलौकिकस्य प्रमाणस्य विधेयस्य सत्त्वाच्च । यत्त-न्नेत्यादिनिषेधार्थानुवादलिङ्गाभावाच्च । तदभावेऽपि निषेधायानुवादे ‘‘तत्सत्यम्’’ इत्याद्यपि ‘‘न सत्तन्नासदुच्यते,’’ ‘‘असद्वा इदमग्र आसीत्’’ इति निषेधाय ब्रह्मसत्तानुवादकं स्यात् ।

सर्वप्रत्ययवेद्ये च ब्रह्मरूपे व्यवस्थिते ।

प्रपञ्चस्य प्रविलयः शब्देन प्रतिपाद्यते ॥

इति मण्डनोक्त्या सन् घट इत्यत्रापि ब्रह्मसत्ताप्रतीतेः ।

परागर्थप्रमेयेषु या फलत्वेन सम्मता ।

संवित्सैवेह मेयोऽर्थो वेदान्तोक्तिप्रमाणतः ॥

इति सुरेश्वरोक्त्या सद् घटज्ञानमित्यत्रापि तत्प्रतीतेश्च । सत्सुखस्फुरणं, अज्ञोऽस्मीत्यादौ तु तत्प्रतीतौ न विवादः । शुद्धचित एव सुखस्फुरणत्वात्, अज्ञानाद्यध्यासाधिष्ठानत्वाच्च । अधिकस्फुरणेऽपि चिदस्फुरणाभावात् । ब्रह्म-शब्दानुल्लेखेऽपि अखण्डार्थनिष्ठवाक्यबोध्यं यद् ब्रह्म तत्सत्त्वप्रतीतेः । एवमानन्द-श्रुतिरपि अदुःखमसुखं समम्, इत्यादिनिषेधाय प्रत्यक्षप्राप्तानन्दानुवादिनी स्यात् । किञ्चैवं नेह नानेति श्रुतिरेव विश्वं सत्यमित्यबाध्यत्वरूपबाधनिषेधाय विज्ञान-वादादिप्राप्तविश्वबाधानुवादिनी किं न स्यात्? किञ्च धर्माधर्मस्वर्गनरकादेर्न प्रत्यक्षादिना प्राप्तिः । शब्दप्राप्तस्य शब्देन निषेधायानुवादे एतच्छाखास्थाग्नीषोमीय-वाक्यस्य न हिंस्यादिति निषेधाय शाखान्तरोक्ताग्नीषोमीयहिंसानुवादित्वं स्यात् । सत्यं ज्ञानमित्यादेरपि ‘‘इदं वा अग्रे नैव किञ्च नासीत्’’ इति निषेधाय तत्सत्य-मित्यादिवाक्योक्तब्रह्मसत्तानुवादित्वं स्यात् । तस्मान्नानुवादिनी श्रुतिः ।

अद्वैतसिद्धिः

ननु – ‘षड्विंशतिरस्य वङ्क्रय’ इति मन्त्रस्याश्वमेधे चोदकप्राप्तस्य ‘चतुस्त्रिंशद्वाजिनो देवबन्धो’रिति वैशेषिकमन्त्रेणापोदितस्य षड्विंशतिरित्येव ब्रूयादिति वचनवत् प्रत्यक्षप्राप्त-जगत्सत्त्वस्य मिथ्यात्वश्रुत्यापाततोऽपोदितस्य प्रतिप्रसवार्थं सत्त्वश्रुतिर् इति चेन्न, मिथ्यात्व-श्रुतेः प्रत्यक्षबाधकत्वाभ्युपगमे तस्या बलवत्त्वेन तद्विरोधात् सत्यत्वश्रुतेरन्यपरत्वाद् देवताधिकरणन्यायासम्भवाच्च प्रतिप्रसवार्थत्वस्य वक्तुमशक्यत्वात् ।

ननु सत्त्वप्रत्यक्षप्रामाण्ये तेनैव मिथ्यात्वश्रुत्यनुमानादिबाधः, तदप्रामाण्ये न तेन सत्त्वश्रुतेरनुवादकत्वम् – इति चेन्न, प्रत्यक्षाप्रामाण्येऽपि तत्सिद्धबोधकस्यानुवादकत्व-सम्भवात् । न हि प्रमितप्रमापकत्वमनुवादकत्वम्, किन्तु पश्चाद्वादकत्वमात्रम् । पश्चात्त्वं च प्रमाणावधिकमप्रमाणावधिकं चेति न कश्चिद्विशेषः । न च श्रुतेः सर्वसिद्धप्रमाणाभावायाः सदर्थत्वायाननुवादकत्वाय च प्रत्यक्षाप्राप्ततात्त्विकसत्त्वविषयत्वमवश्यं वक्तव्यम् । तथा चाप्रमाणेन प्रत्यक्षेण कथं श्रुतेरनुवादकत्वमिति वाच्यम् । सत्त्वांशस्य प्रत्यक्षसिद्धत्वेऽपि वाक्यार्थस्य क्रियादिसमभिव्याहारसिद्धस्यापूर्वत्वेन तद्विषयतयैवाननुवादकत्वोपपत्तावद्वैत श्रुतिविरुद्धतात्त्विकसत्त्वकल्पनायास्तदर्थमयोगात् । परमार्थसद्विषयता तु सर्वश्रुतीनां शुद्ध-ब्रह्मतात्पर्यकत्वेनैव, अवान्तरतात्पर्यमादाय व्यावहारिकसद्विषयतेति कर्मकाण्डप्रामाण्यो-पपादने वक्ष्यते ।

न च प्रत्यक्षं स्वप्रामाण्यनिर्णयार्थं श्रुतिसंवादमपेक्षत इति न तेन श्रुतेरनुवादकत्वम् । अन्यथा ‘सत्यं ज्ञानम्’ ‘नेह नाने’त्यादिश्रुतिरप्यनुवादिनी स्यात् । ब्रह्मसत्त्वस्य लोकतो भ्रमाधिष्ठानत्वेन लिङ्गेन च मिथ्यात्वस्य दृश्यत्वाद्यनुमानेना वेदमूलप्रवाहानादिविज्ञान-वादादिना च प्राप्तेरिति वाच्यम् । यदि हि दृष्टेऽप्यर्थे प्रत्यक्षं स्वप्रामाण्यनिर्णयाय श्रुतिसंवादमपेक्षेत तदा श्रुतिसंवादविरहिणि दृष्टे कुत्रापि निश्शङ्कप्रवृत्तिर् न स्यात् । न स्याच्चैवं ‘अग्निर्हिमस्य भेषजम्, इत्याद्यपि अनुवादकम् । न चेष्टापत्तिः । मानान्तर-गृहीतप्रमाणभावप्रत्यक्षनिर्णीते मानान्तरस्याननुवादकत्वे जगत्यनुवादकत्वकथोच्छेदप्रसङ्गात् । न च ‘सत्यं ज्ञानम्’ ‘नेह नाने’त्यादेरप्यनुवादकतापत्तिः । अनुवादकता हि न तावत् प्रत्यक्षेण । ब्रह्मत्वसामानाधिकरण्येन सत्त्वादिकं ह्यनेन प्रतिपादनीयम् । तच्च न प्रत्यक्ष-गम्यम् । नाप्यनुमानेन । न हि तर्कः सर्वदेशकालीनपुरुषसाधारण इत्यादिना प्रागेव निराकृतत्वात् । नापि प्रवाहानादिविज्ञानवादिमतेन । तस्यापौरुषेयश्रुत्यवधिकपूर्वत्वाभावात् ।

न च – सत्त्वश्रुतेः सत्त्वप्रत्यक्षानपेक्षत्वान् न सापेक्षानुवादकत्वम् । निरपेक्षानुवादकत्वं तु धारावहनवन्नाप्रामाण्यहेतुः, उक्तं हि नयविवेके – ‘सापेक्षानुवादे हि न प्रमितिः, न तु दैवादनुवादे, धारावहनवदिति’ इति – वाच्यम् । यतो लाघवादनुवादकत्वमेवाप्रामाण्ये प्रयोजकम् । न तु सापेक्षानुवादकत्वम् । अनधिगतार्थबोधकत्वस्य प्रामाण्यघटकत्वस्य तावतैव गतार्थत्वात् । न च तर्हि धारावाहनबुद्धावप्रामाण्यम्, तस्या वर्तमानार्थग्राहकत्वेन तत्तत्क्षणविशिष्टग्राहकतया अनुवादकत्वाभावात् । किञ्च श्रुतेरतत्परत्वे प्राप्तत्वमात्रमेव प्रयोजकम् । अन्यथा वैफल्येन स्वाध्यायविधिग्रहणानुपपत्तेः । अपि चेयं सत्त्वश्रुतिरपि सत्त्वप्रत्यक्षसापेक्षत्वात् सापेक्षानुवादिन्येव । न हि सत्त्वप्रत्यक्षं विना तन्मूलशक्यशक्त्यादि-ग्रहमूलकशब्दप्रवृत्तिसम्भवः । अत एव ‘‘यत्र तु प्रमाणान्तरसंवादस्तत्र प्रमाणान्तरादि-वार्थवादादपि सोऽर्थः प्रसिध्यति, द्वयोः परस्परानपेक्षयोः प्रत्यक्षानुमानयोरिवैकार्थे प्रवृत्तेः, प्रमात्रपेक्षया त्वनुवादकत्वम् । प्रमाता ह्यव्युत्पन्नः प्रथमं प्रत्यक्षादिभ्यो यथाऽर्थमवगच्छति, न तथाऽऽम्नायतः, तत्र व्युत्पत्त्यपेक्षत्वात्’’ इति वाचस्पत्युक्तमप्येतमर्थं संवदति । तेनाम्नायस्य व्युत्पत्त्यपेक्षत्वेन प्रत्यक्षसापेक्षत्वस्यैवोक्तेः ।

न च वादिविप्रतिपत्तिनिरासप्रयोजनवत्वेन न निष्प्रयोजनानुवादकत्वम् । सप्रयोजनानु-वादकत्वं तु न स्वार्थपरत्वविरोधि । विद्वद्वाक्ये समुदायद्वित्वापादनरूपप्रयोजनवत्त्वे-नानुवाद्यस्वार्थपरताया दृष्टत्वात् । अत एव तत्र वाक्यैकवाक्यतोक्ता । अन्यथा अर्थवादवत् पदैकवाक्यतैव स्यादिति वाच्यम् । प्रत्यक्षसिद्धे वादिविप्रतिपत्तिनिरासरूपप्रयोजनवत्त्वेन प्रमाणान्तरस्य सप्रयोजनतया स्वार्थपरत्वोक्तौ ‘अग्निर्हिमस्य भेषज’मित्याद्यपि तेनैव प्रयोजनेन सप्रयोजनं स्वार्थपरं च स्यात् । तथा च न प्रत्यक्षसिद्धे वादिविप्रतिपत्ति-निरासार्थमन्यापेक्षा । दृष्टान्ते तु समुदायानुवादेन द्वित्वसम्पादनस्योद्देश्यस्यान्यतो लब्धुम-शक्यतया तेन प्रयोजनेन स्वार्थपरत्वस्य वक्तुं शक्यत्वात् । एतदभिप्रायं च पूर्वोक्तं नयविवेकवाक्यम् । न च अनुवादत्वेऽपि नैष्फल्यमात्रम्, न त्वप्रमाण्यम्, याथार्थ्यमेव प्रामाण्यं, न त्वनधिगतार्थत्वे सति याथार्थ्यमिति वाच्यम् । तात्पर्यविषये शब्दः प्रमाणम् ‘यत्परः शब्दः स शब्दार्थ’ इत्यभियुक्ताभ्युपगमात् । अन्यथा स्वाध्यायविधिग्रहणानु-पपत्तेरुक्तत्वाच्च । न ह्यन्यतः सिद्धेऽर्थे शास्त्रतात्पर्यम्, अतो न तत्र प्रामाण्यम्, यदाहु-र्भट्टाचार्याः ‘अप्राप्ते शास्त्रमर्थव’दिति ।

ननु अयमनुवादो न ‘वायुर्वै क्षेपिष्ठा देवते’त्यादिवत् स्तुत्यर्थः । न वा ‘दध्ना जुहो-ती’त्यादिवदन्यविधानार्थः । अनुवाद्यत्वेऽपि अन्यविधानाय प्रमाणानूदितस्य तात्त्विकत्व-नियमात् । न हि ‘व्रीहीन् प्रोक्षती’त्यादावारोपितव्रीह्यादेर्धीः, अनुवाद्यस्यासत्त्वे ह्याश्रया-सिद्धौ धर्मधर्मिसंसर्गरूपानुमितिवेद्य इवानुवाद्यविधेयसंसर्गरूपवाक्यार्थो बाधितः स्यादिति चेन्न । अस्यानुवादस्याप्राप्तान्यप्राप्त्यर्थत्वात् । न च प्रमाणानूदितस्य तात्त्विकत्वनियमः । स्वप्नाध्याये, शुक्तौ ‘नेदं रजत’मिति वाक्ये च व्यभिचारात् । अथ तत्र ज्ञानविषयतया निषेध्यतया चानुवाद इति न तात्त्विकत्वम्, तर्हि प्रकृतेऽपि ‘नेह नाने’ति निषेधार्थत्वा-दस्यानुवादस्य न तात्त्विकत्वमिति गृहाण । अत एव न वाक्यार्थस्यासत्त्वप्रसङ्गः, तात्पर्यविषयस्य सत्त्वात् ।

अथ ‘किञ्चने’त्यनेनैवानुवादस्य कृतत्वात् किमधिकेनेति चेन्न, सामान्यतो निषेधस्य हि ‘किञ्चने’त्यनेन निषेध्यसमर्पणेऽपि विशिष्य निषेधे विशिष्य निषेध्यसमर्पणस्योपयोगात् । अथ निषेधवाक्यस्य न निषेध्यसमर्पकवाक्यान्तरापेक्षा, अन्यथा ‘न कलञ्जं भक्षयेत्’ इत्यादावपि निषेध्यसमर्पणार्थं ‘कलञ्जं भक्षयेत्’ इत्यादिवाक्यान्तरसापेक्षत्वप्रसङ्ग इति चेन्न, सर्वत्रापेक्षानियमाभावात् । सति सम्भवे प्रकृते त्यागायोगात् । ‘अतिरात्रे षोडशिनं गृह्णाति’ ‘नातिरात्रे षोडशिनं गृह्णाती’त्यादौ वाक्यान्तरप्राप्तस्य निषेधदर्शनाच्च । न च तद्वदेव विकल्पापत्तिः, सिद्धे वस्तुनि विकल्पायोगात् । षोडशिग्रहणाग्रहणवाक्ययोरुभयोरपि मानान्तराप्राप्तविषयत्वेन तुल्यबलत्ववदिह सत्त्वश्रुतेर्मानान्तरप्राप्तविषयत्वेन निषेधश्रुतेश्चाप्राप्त-विषयत्वेन तुल्यबलत्वाभावाच्च । अत एव निषेधवाक्यप्राबल्यात्तदनुरोधेनेतरन्नीयते ।

अथ– अप्राप्तान्यप्राप्त्यर्थत्वेऽप्यलौकिकस्य ‘आपश्च न प्रमिनन्ति’ इत्यादिपदार्थसंसर्गस्य विधेयस्य सत्त्वान्न निषेध्यार्थानुवादकत्वमिति चेन्न, तदन्यपरत्वस्य प्रागेवोक्तत्वात् । ननु ‘यत्तन्ने’ति निषेधानुवादलिङ्गाभावान्नानुवादः । न । यत्किञ्चिल्लिङ्गाभावेन लैङ्गिकाभावस्य वक्तुमशक्यत्वात् । ननु तर्हि ‘तत्सत्यम्’ इत्याद्यपि ‘न सत्तन्नासदुच्यते’ इति, ‘असद्वा इदमग्र आसीत्’ इति च निषेधाय ‘सन् घटः’ ‘सद् घटज्ञानम्’ ‘सत्सुखस्फुरणम्’ इत्यादि-सिद्धब्रह्मसत्त्वानुवादि स्यादिति चेन्न । ब्रह्मत्वसामानाधिकरण्येन सत्त्वस्य प्रत्यक्षादिभ्योऽ-प्राप्तेः । शून्यवादप्रसङ्गेन तस्य निषेधायोगाच्च । ‘इदं सर्वं यदयमात्मा’ इत्यत्रानुवादलिङ्ग-सम्भवेन कल्पनाच्च । एवमानन्दश्रुतेरपि, ‘अदुःखमसुखं समम्’ इति निषेधाय न प्रत्यक्ष-प्राप्तानन्दानुवादित्वम्, दुःखसाहचर्येण सुखस्यापि वैषयिकस्यैव ग्रहणेन तन्निषेधाय ब्रह्मरूप-सुखानुवादायोगात् । एतच्च सर्वमुक्तं विवरणे– ‘‘निष्प्रपञ्चास्थूलादिवाक्यानुसारेण ‘इदं सर्वं यदयमात्मा’ इत्यादीनि निषेध्यसमर्पकत्वेनैकवाक्यतां प्रतिपद्यन्ते, सुषुप्तौ निष्प्रपञ्चतायाः पुरुषार्थत्वदर्शनात्’’ इति ।

न्यायामृततरङ्गिणी

षड्विंशतिरस्येति ॥ अग्नीषोमीयपशौ ‘‘दैव्याः शमितार आलभध्वम्’’ इत्यादि-रूपोऽध्रिगुसंज्ञकः प्रैषोऽस्ति । तस्मिन् प्रैषे षड्विंशतिरस्य वङ्क्रयस्ता अनुष्ट्योच्च्या-वयतादिति मन्त्रोऽस्ति । अश्वमेधेऽश्वस्तूपरागो मृग इति प्राजापत्यस् त्रयः पशवः सन्ति । तस्मिन्प्रकरणे चतुस्रिंशद्वाजिनो देवबन्धोर्वंक्रीरश्वस्य स्वधितिः समेतीति वैशेषिक-मन्त्रोऽस्ति । आश्वमेधिकस्याश्वस्याग्नीषोमीयपशुविकारत्वेन ततः षड्विंशतिपदोपेत-मन्त्रविशिष्टोऽध्रिगुश्चोदकात्प्राप्नोति । तन्मध्यपतितः षड्विंशतिरस्येति मन्त्रोऽपि चोदकादश्वमेधे प्राप्तः । तस्य चाश्वमेधिकवैशेषिकमन्त्रेण चतुस्त्रिंशत्पदोपेतेन अपवादप्रसक्तौ सत्याम् अश्वमेधप्रकरण एव न चतुस्त्रिंशदिति ब्रूयात्षड्विंशतिरित्येव ब्रूयादिति पठ्यते । तत्र संशयः । किमश्वमेधप्रकरण एव पठितवैशेषिकमन्त्रोऽश्वपशौ पठनीय इति कृत्वा चोदक-प्राप्तमन्त्रस्य सर्वथा निवृत्तिर् उत न निवृत्तिरिति । तत्र चतुस्त्रिंशदित्यादिवैशेषिकमन्त्रस्य प्रकरणपठितस्य बाधायोगात्तेन चोदकप्राप्तस्यैव बाधः । न च वैशेषिकमन्त्रस्यापि न चतुस्त्रिंशादित्यादिना प्रतिषेध इति वाच्यम् । तस्य चतुस्त्रिंशद्वाजिनो देवबन्धोरित्यस्याम् ऋचि चतुस्त्रिंशत्पदमुत्कृष्य षड्विंशतिपदं प्रक्षेपणीयम् इत्यर्थवत्वोपपत्तेः । अतश् चोदकप्राप्तस्य सर्वथा बाध एवेति प्राप्ते प्रकरणपठितायाम् ऋचि चतुस्त्रिशंत्पदप्रतिषेधेन तत्र तत्स्थाने षड्विंशतिपदप्राप्तौ प्रमाणाभावात् षड्विंशतिरित्येव ब्रूयादिति तदनुवादासम्भवात् तस्यापि विधौ वाक्यभेदापत्तेरेकवाक्यत्वनिर्वाहाय न चतुस्त्रिंशदित्यनेन वैशेषिकीम् ऋचं प्रतिषिध्य षड्विंशतिरित्येव ब्रूयादित्यनेन निष्परिपन्थिचोदकप्राप्तप्राकृताध्रिगुवचनमनूद्यत इत्यभ्युपेयत्वान् न तस्य निवृत्तिरिति नवमाध्यायस्य चतुर्थपादे सिद्धान्तितम् । ननु षड्विंशतिरित्येव ब्रूयादित्यत्र न चतुस्त्रिंशदिति ब्रूयादिति निषेधश्रवणेन चोदकप्राप्त-मन्त्रापवादकवैशेषिकमन्त्रं प्रति बाधकत्वमस्तु विश्वं सत्यमित्यादौ निषेधाश्रवणात्कथं प्रत्यक्षापवादकाद्वैतश्रुतिबाधकत्वमित्यत आह ॥ दृश्यन्ते हीति ॥ ‘‘असंयोगाल्लिट्-किदि’’ति कित्त्वविधिसन्निधिपठितस्य निषेधरहितस्य ‘‘मृडमृदगुधकुषक्लिशवदवसःक्त्वे’’ति सूत्रस्य न क्त्वा सेडिति कित्त्वापवादं प्रति यथा बाधकत्वं तथा विश्वं सत्यमित्यादेर् निषेधविधुरस्यापि सत्त्वग्राहिप्रत्यक्षापवादकाद्वैतश्रुतिबाधकत्वं युक्तमित्यर्थः ।

कित्त्वं हि क्त्वो निजं यन्न क्त्वा सेडिति निराकृतम् ।

मृडेत्यादिविधानं तत्पुनरुज्जीवयत्यदः ।

स्वत एव कितः क्त्वायाः किद्वाचोऽनर्थकत्वतः ।

सेटः क्त्वायाः किन्निषेधनिषेधार्थत्वमास्थितम् ।

इत्युक्तेः । सङ्गृह्णाति ॥ तस्मादिति ॥ प्रत्यक्षाविषये धर्मिणि सत्यत्वबोधनाद्धर्मि-भेदः । विप्रतिपत्त्यादिना प्रत्यक्षागृहीतसत्त्वं प्रमातारं प्रति तद्बोधनात् प्रमातृभेदः । प्रत्यक्षगृहीतव्यावहारिकसत्त्वभिन्नतात्विकसत्त्वरूपधर्मग्रहाद्धर्मभेदः । न हिंस्यादित्याद्य-हिंसावाक्यम् अहिंसावाक् । एकार्थकनानाशाखास्थवाक्यं भिन्नशाखावाक् । द्वयोः प्रणयन्तीति वाक्यं द्विप्रणयनादिशब्देन गृह्यते ॥ प्रमाणमिति ॥ अबाधितार्थ-ग्राहकमित्यर्थः ॥ तद्बाध इति ॥ विरुद्धयोर्द्वयोरप्यबाधितार्थत्वानुपपत्तेरित्यर्थः ॥ न चेदिति ॥ प्रमितप्रमापकत्वाभावादिति भावः । ननु प्रमितप्रमापकत्वं नानुवादकत्वं किन्तु प्रमाणेन वाऽप्रमाणेन वा बोधितस्य बोधकत्वं, तच्चास्ति सत्त्वश्रुतेरिति चेन्मैवम् । यतः न बोधिमन्दबोधोऽपि बुधन्मन्यो भवान् । न हि प्रमितप्रमापकत्वमनुवादकलक्षण-मस्माभिरभिहितं किन्तु प्रमाणस्य श्रुतेरप्रमाणप्रत्यक्षावधिकमनुवादकत्वं न सम्भव-तीत्यभिहितम् । नन्वद्वैतश्रुतिविरोधेन सत्त्वश्रुतिरप्रमाणम् अतोऽनुवादिनी स्यात् । अत आह ॥ श्रुतेरिति ॥ सत्त्वश्रुतेः ॥ अद्वैतश्रुतिस्तु प्रत्यक्षगृहीतसत्त्वमेव निषेधतु । तथा च न सत्त्वश्रुतिरप्रमाणम् अनुवादिनी वेति भावः । ननु सत्त्वश्रुतेः प्रत्यक्षसिद्धसत्त्वग्राहकत्वेपि वाक्यार्थस्य क्रियासमभिव्याहारसिद्धस्यापूर्वत्वेन तद्विषयतयैवाननुवादकत्वोपपत्तावद्वैत श्रुतिविरुद्धतात्विकसत्त्वविषयकत्वकल्पना तदर्थमयुक्ता । परमार्थसद्विषयता तु सर्वश्रुतीनां शुद्धब्रह्मतात्पर्यकत्वेनैव । अवान्तरतात्पर्यमादाय व्यावहारिकसद्विषयतेति चेन् मैवम् । सत्यज्ञानादिवाक्येऽप्येवं कल्पयितुं शक्यत्वेन ब्रह्मणोऽपि न तात्विकसत्त्वसिद्धिः स्यात् । न च सत्यादिवाक्ये न क्रियासमभिव्याहारोऽस्तीति वाच्यम् । ब्रह्मविदाप्नोतीत्यादि-क्रियायाः सत्त्वात् । इहापि सिद्धार्थवाक्यानां

‘‘विश्वमाप्रा अन्तरिक्षं महित्वा सत्यमद्धा न किरन्यस्त्वावान् ।

जहि प्रतीचो अनूचः पराचो विश्वं सत्यं कृणुहि विष्टमस्तु ।

सत्रा सोमा अभवन्नस्य विश्वे’’

इत्यादि बहूनां सत्त्वात् । त्वन्मते जरद्गवादिवाक्यानामपि लक्षणया अखण्डब्रह्मपरत्व-सम्भवेन तद्विलक्षणप्रामाण्यस्य कर्मकाण्डवाक्ये अनुपपादनात् । अवान्तरतात्पर्य-प्रतिपादितार्थस्य बाधितत्वेनाप्रामाण्योपपादन एव पर्यवसानाच्च । प्रमाणस्याप्य-प्रमाणापेक्षयाऽनुवादिताऽस्त्वित्यत आह । न हीति ॥ यथेति ॥ द्वैतग्राहिप्रत्यक्षं द्वैतग्राहिश्रुत्यर्थभूतं द्वैतं नोपहरेत् । प्रत्यक्षस्याप्रमाणत्वेनार्थानिश्चायकतया द्वैतश्रुति-प्रतिपिपादयिषितद्वैतोपनायकत्वायोगादित्यर्थः ॥ प्रमाणत्वेनेति ॥ पूर्वं प्रमाणत्वे दोष उक्तः । इदानीं तन्निश्चये दोष उच्यत इति भेदः ॥ लोकत इति ॥ अज्ञोऽस्मि सत्सुख-स्फुरणमित्यादि प्रत्यक्षेणेत्यर्थः । न च ब्रह्मत्वसामानाधिकरण्येन सत्त्वं न प्रत्यक्षसिद्धमिति वाच्यम् । अज्ञत्वस्फुरणस्यैव ब्रह्मत्वात् । अखण्डार्थनिष्ठेन सत्यादिवाक्येनापि ब्रह्मत्व-सामानाधिकरण्येन सत्त्वाप्रतिपादनाच्च ॥ लिङ्गेन चेति ॥ न चानुमानममानमिति वाच्यम् । प्रत्यक्षादिसहकृतस्य तस्य मानत्वात् । त्वयाप्यविद्यादावनुमानोक्तेः । अत्राप्यज्ञोऽस्मीत्यादि प्रत्यक्षसहकृतत्वादनुमानस्येति भावः । प्रवाहानादीति ॥ न च श्रुतेरपौरुषेयत्वेन विज्ञानवादादेर्न तदवधिकपूर्वत्वमिति वाच्यम् । त्वन्मते श्रुतेरपि सर्गादावुत्पन्नत्वेन तयोः पौर्वापर्यानिश्चयादित्यर्थः । ननु स्वरूपप्रवाहाभ्यामनादित्व-शून्यादनुमानाद् विज्ञानादिवादाद्वा सकाशान्न श्रुतेरनुवादकत्वम् अत आह ॥ उक्ता हीति ॥ उरुप्रथस्वोरु ते यज्ञपतिः प्रथतामिति पुरोडाशं प्रथयतीति श्रूयते । तत्र पुरोडाशप्रथनाभिधानसामर्थ्यरूपलिङ्गेन पुरोडशप्रथनरूपे कर्मणि उरु प्रथस्वेत्यादिमन्त्रस्य विनियोगे सिद्धे इति पुरोडाशं प्रथयतीति ब्राह्मणरूपस्य तदर्थशास्त्रस्य वैयर्थ्यादनुवादकत्व-मुक्तमित्यर्थः । ननु क्रमप्रकरणाभ्यां लब्धाङ्गभावा मन्त्रा न पुरोडाशप्रथनादितत्तत्कर्म-समवेतार्थप्रकाशनेनोपकुर्वन्ति । येन तत्प्रकाशितार्थस्य कर्मसमवायित्वरूपलिङ्गेन मन्त्र-विनियोग इति तदर्थशास्त्रवैयर्थ्यं स्यात् । किन्तु अनुच्चरितानामनभिधायकत्वात् । प्राथम्यावश्यकत्वाभ्यामुच्चारणमात्रेण यद्यर्थप्रकाशनमेव मन्त्राणां कार्यं स्यात्तर्हि तेषां नित्यवदाम्नानमनर्थकं स्यात् । उपायान्तरेणापि प्रयोगवेलायामर्थप्रकाशनस्य शक्यत्वात् । अथार्थप्रकाशनाददृष्टं कल्प्येत तद्दूरमपि गत्वा कल्प्यमदृष्टं तदुच्चारणादेव कल्पयितु-मुचितम् । तस्माददृष्टार्था मन्त्राः । तदुक्तं–

यदि दृष्टार्थतैव स्यान्मन्त्राम्नानमनर्थकम् ।

प्रत्यायनाददृष्टं चेत्तदुच्चारणतो वरम् । इति ।

अत्राहुः – कर्मप्रकरणे मन्त्रोच्चारणस्याविधानेन तस्य कर्मविध्यनपेक्षितत्वेन तैरनाक्षेपात् पुंव्यापारस्य मन्त्रगतव्यापारत्वाभावेन मन्त्राङ्गत्वानिर्वाहकतया तेनाप्यनाक्षेपान् मन्त्रोच्चारणकर्तव्यतायामेव न प्रमाणमस्ति दूरे द्वारकल्पना । किन्तु मन्त्रगतव्यापारत्वेन मन्त्राङ्गत्वनिर्वाहकतयाऽभिधानस्य विध्याक्षेपसम्भवादभिधानस्य द्वारत्वं युक्तम् । तदर्थं तु पश्चादुच्चारणस्य कर्तव्यतासिद्धिः । तस्मादभिधानरूपदृष्टार्था मन्त्राः । यस्तु मन्त्रैरेवाभि-धानं कर्तव्यमिति नियमस् तस्य न किञ्चिद्दृष्टं प्रयोजनमस्तीति अदृष्टं कल्प्यत इति तदर्थशास्त्रस्यानुवादकता । एतच्च प्रथमाध्यायस्य द्वितीयपादेऽभितहतम् ॥ अनुवादि-तेति ॥ पूर्वपक्षरीत्येत्यर्थः ॥ नाप्रामाण्यहेतुरिति ॥ न च लाघवादनुवादकत्वमेवा-प्रामाण्ये प्रयोजकं न तु सापेक्षानुवादत्वम् । अनधिगतार्थबोधकत्वस्य प्रामाण्यघटकस्य तावतैव गतत्वादिति वाच्यम् । याथार्थ्यस्यैव प्रामाण्यप्रयोजकत्वस्यानुपदमेव वक्ष्य-माणत्वात् । अन्यथा धारावहनधीप्रामाण्यं न स्यात् । न च तस्या वर्तमानार्थग्राहकत्वेन तत्तत्क्षणविशिष्टग्राहकतया प्रामाण्यमिति वाच्यम् । प्रत्यक्षे सूक्ष्मक्षणभानायोगात् । वर्तमानता तु स्थूलकालोपाधिमादायैव सर्वज्ञानधारासाधारिणीति न विषयभेदिका । न च सत्वश्रुतिरपि सत्वप्रत्यक्षसापेक्षत्वात् सापेक्षानुवादिन्येव । न हि सत्वप्रत्यक्षं विना तन्मूलशक्यशक्त्यादिग्रहमूलकशब्दप्रवृत्तिसम्भव इति वाच्यम् । ब्रह्मसत्वबोधकस्य सत्य-ज्ञानादिवाक्यस्यापि तथैव प्रत्यक्षसापेक्षत्वात् । अज्ञोऽस्मीत्यादि प्रत्यक्षसिद्धसत्वानु-वादित्वाच्च सापेक्षानुवादः स्यादिति भावः ।

नन्वनुवादेऽपि धारावाहनज्ञानवत्प्रामाण्यम् अस्त्येवेति यदुक्तं तदयुक्तम् । तथा हि । तात्पर्यविषये शब्दः प्रमाणं, यत्परः शब्दः स शब्दार्थ इत्यभ्युपगमात् । अन्यतः सिद्धे च शास्त्रतात्पर्यं न सम्भवति । अतोऽनुवादस्यानुवाद्ये स्वार्थे तात्पर्यासम्भवान् न तत्र तस्य तात्पर्यमिति शङ्कां विश्वसत्यत्ववाक्यस्य विश्वसत्यत्वे तात्पर्यकथनेनोपपादयति ॥ किञ्च वादीति ॥ विद्वद्वाक्ये य एवं विद्वान् पौर्णमासीं यजते य एवं विद्वानमावास्यां यजत इत्यादौ ॥ अत एवेति ॥ विद्वद्वाक्यस्याग्नेयादिषड्यागानां पौर्णमासीकालयुक्तानां त्रयाणाममावास्याकालयुक्तानां च त्रयाणां यागानां विद्वद्वाक्यगताभ्यां पौर्णमास्या-मावास्याकालयोगनिमित्त प्रसिद्धयागत्रिकत्रिकनामधेयाभ्यां पौर्णमास्यामावास्यापदाभ्यां निर्देशे सति एकावगत्या त्रिकस्य त्रिकस्य एकैककरणेन समुदायद्वयसम्पादकतया दर्शपूर्ण-मासाभ्यामिति फलवाक्यगतद्विवचनान्तपदस्य, आज्यभागौ यजतीति द्वित्वसङ्ख्योपे-तेष्वाज्यभागादिषु प्रातिपदिकार्थासम्भवेन आग्नेयादिषु द्विवचनार्थासम्भवेनानुपपन्नस्य समुदायद्वयपरत्वे सति उपपन्नार्थस्य प्रसिद्धार्थकतया फलवाक्यगताप्रसिद्धार्थयजि-विशेषकतया यजेर्नामपरतन्त्रत्वेन नामार्थस्य त्रिकद्वयस्यैव फलवाक्येन फलसम्बन्धो भवतीत्येवं सप्रयोजनानुवादो विद्वद्वाक्यम् । अन्यथा दर्शपूर्णमासपदस्य यजिपरतन्त्रत्वे यजेश्च तन्त्रेण प्रकृताग्नेयाज्यभागसमिदादि सर्वयागोपस्थापकतया सर्वेषामेव फलसम्बन्धः स्यादिति सर्वेषां समप्राधान्यमापद्येत । सप्रयोजनानुवादत्वादेव विद्वद्वाक्यस्य पौर्णमास्य-मावास्याकालयुक्त आग्नेयादियागलक्षणानुवाद्य भूतस्वार्थपरत्वम् । अत एव पौर्णमास्य-मावास्याख्ययागसमुदायस्य विद्वद्वाक्यनिष्पन्नार्थस्य दर्शाख्येन समुदायेन पूर्णमासाख्येन च समुदायेन स्वर्गकाम इष्टं कुर्यादिति फलवाक्यार्थेनान्वयाद् विद्वद्वाक्यस्य फलवाक्येनैक-वाक्यत्वम् ।

स्वार्थबोधे समाप्तानामङ्गाङ्गित्वाद्यपेक्षया ।

पदानामेकवाक्यत्वं पुनः संहत्य जायते ॥

इति वचनात् ॥ स्वार्थेति ॥ वायुर्वै क्षेपिष्ठा देवतेत्यादीनामसति प्रयोजने मानान्तर- प्राप्तार्थमनुवदतामनुवाद्ये तात्पर्याभावेऽवगतेऽवान्तरवाक्यार्थमनादृत्यैव वायव्यश्वेतालम्भन- रूपप्रधानस्तुतिपरत्वं यथोक्तं तथा विद्वद्वाक्येऽप्युच्येतेत्यर्थः । ननु विद्वद्वाक्यस्यानु-वादकत्वमेव कुत इति चेन् मैवम् । द्वितीयाध्यायस्य द्वितीयपादे निर्णीतत्वात् । तथा हि । यदाग्नेयोऽष्टाकपालोऽमावास्यायां पौर्णमास्यां चाच्युतो भवति तावब्रूतामग्नीषोमावाज्यस्यैव नावुपांशु पौर्णमास्यां यजेरन् । ताभ्यामेतमग्नीषोमीयमेकादशकपालं पूर्णमासे प्रायच्छत् । ऐन्द्रं दध्यमावास्यायामैन्द्रं पयोऽमावास्यायामिति कालसंयुक्तानि वचनानि श्रूयन्ते । तथा समिधो यजति । तनूनपातं यजति । आज्यभागौ यजतीत्यकालसंयुक्तानि वचनानि । तेषां सन्निधौ ‘‘य एवं विद्वान् पौर्णमासीं यजते, य एवं विद्वानमावास्यां यजेत’’ इति वाक्यद्वयं श्रुतम् । तथा दर्शपूर्णमासाभ्यां स्वर्गकामो यजेतेति फलवाक्यं श्रुतम् । तत्र संशयः– किमिमौ विद्वद्वाक्यगतौ यजतीति फलवाक्यबोधितफलसम्बन्धे पूर्णमास्य-मावास्यासंज्ञके अपूर्वकर्मणी विधातारौ उत पूर्णमास्यमावास्याकालसंयोगनिमित्ताग्नेयादि-नामधेयत्वाभ्यां पूर्णमास्यमावास्यापदाभ्यां विशेष्यमाणौ प्रकृतानाग्नेयादीन् पूर्णमास्य-मावास्याकालसंयुक्ताननुवदितारौ इति । तत्सिध्द्यर्थमप्येतच्चिन्तनीयं – किमपूर्वकर्मविधौ रूपं लभ्यते न वेति ततोऽप्येतद्विचारणीयम् । किं प्राप्तकर्मानुवादेनानेकगुणविधानम् एकेन विधिना सम्भवति उत नेति ।

तत्र पूर्वः पक्षः । य एवं विद्वानित्येताभ्यां पूर्णमास्यमावास्यासंज्ञकौ यागौ विधीयेते अनुवादमात्रस्य व्यर्थत्वात् किं पुनरनयोर्द्रव्यदेवतं तदुच्यते । यदाग्नेयोऽष्टाकपालो भवतीत्यादिभिः पूर्णमास्यमावास्यासंज्ञाभ्यां तावेव यागौ अनूद्याष्टाकपालादिद्रव्य-मग्न्यादयश्च देवता विधीयन्त इति तदेव द्रव्यदेवतम् । अस्मिंश्च पक्षे पूर्णमासीमित्येकत्वं प्रातिपदिकार्थगतमेव भविष्यति । यागश्च प्रत्यक्षतः श्रुतः । तौ च द्वावेव । तदपूर्वे च द्वे इति लाघवम् । समुदायानुवादत्वे तु प्रातिपदिकार्थलक्षितसमुदायगतमेकत्वम् । यागश्च क्लेशेन द्रव्यदेवतासम्बन्धादनुमातव्यः । ते चानेके, तदपूर्वाणि चानेकानीति गौरवम् । फलवाक्यं तु तयोरेव फलसम्बन्धबोधकमिति । सिद्धान्तस्तु नैतेऽष्टाकपालादयो गुणविधयः प्राप्तकर्मानुवादेनानेकगुणविधाने प्रत्ययावृत्ति रूपदोषसङ्गात् । तदुक्तं वार्तिके ।

प्राप्ते कर्मणि नानेको विधातुं शक्यते गुणः ।

अप्राप्ते तु विधीयन्ते बहवोऽप्येकयत्नतः ॥ इति ।

कर्मोत्पत्तिवाक्ये श्रूयमाणो विधिर् भावनाया अप्राप्तत्वात्तां विधातुमुपक्रान्तोऽपि केवलायास्तस्या अनुष्ठातुमयोग्यत्वात् । कारकविभक्त्यन्तपदान्तरादिप्रतिपादितैर् भावनांशभूतैर्विशेषणैर्विशेष्यमाणां तां विदधत्तद्विशेषणानि अर्थापत्त्या विदधातीति न तत्र प्रत्ययावृत्तिदोषः । विशिष्टायां भावनायां श्रौतविधित्वमाधाय यद्यन्यत्रापि श्रुत्यैव पुनर्व्याप्रियेत ततः पुनरुच्चारणदोषमवैदिकत्वापत्त्या लभेत । अयं पुनः सकृद्विधाय निवृत्तव्यापारः स्वार्थान्यथानुपपत्या सर्वविशेषणेषु प्रत्येकनिष्ठानि विध्यन्तराण्या-विर्भावयन्सन् समाम्नायावगतैरूपापरित्यागेनैवासकृदुच्चारणे वर्तते । तदुक्तं वार्तिके ।

शब्दव्यापारनानात्वे शब्दानामतिगौरवम् ।

एकोक्त्यवसितानां तु नार्थाक्षेपो विरुध्द्यते ॥

इति । विशिष्टविधिनिमित्तत्वादर्थापत्तिः पश्चाद्भवन्ती यद्यपि विशेषणविधीनुत्तरकाल-मवगमयति तथापि विशेषणान्यनुपादाय विशिष्टे व्यापारासम्भावान् नूनं पूर्वतरविशेषण-विधयो निष्पन्नाः । यतस्तदधीनसिद्धिर्विशिष्टप्रत्ययो दृश्यते तेन बहव एव चैते विधय इति प्रत्यक्षार्थापत्तिलभ्या युगपत्क्रमेण वा व्याप्रियन्त इति अनेकविध्यन्तरप्रसवसमर्थैक-विशिष्टविधिप्रसादेनानेकगुणविधानमपूर्वभावनाविधिपक्षे सुलभम् । यदा तु भावनाऽन्यतः प्राप्ता भवति तदा पिष्टपेषणवत्प्रतिहतशक्तिर्विधायको भावनामविदधत्ततोऽवतीर्य तत्सङ्गतानि करणान्युपसर्पति । तत्रानेकेषु विशेषणेषु एकेन विहितेनेतरानाक्षेपात् तत्रापि श्रुत्यैव विधानं कर्तव्यमित्यावृत्तिप्रसङ्गः । तदुक्तं वार्तिके ।

प्रधानं नीयमानं हि तत्राङ्गान्यपकर्षति ।

अङ्गमाकृष्यमाणं तु नाङ्गान्तरमसङ्गतेः ॥ इति ।

तस्माद्विद्वद्वाक्यविहितकर्मानुवादेनाष्टाकपालादिवाक्यैराग्नेयाष्टाकपालसम्बन्धस्तस्य पूर्णमासीकालसम्बन्ध इत्यनेकगुणविधानं न सम्भवति । आग्नेयोऽष्टाकपालः पूर्णमास्या-मित्यत्र यद्यपि तद्धितस्य सन्निहितद्रव्यवचनत्वात्सामानाधिकरण्यलक्षणः सम्बन्धः प्रागेव पूर्णमासीसम्बन्धाद् आग्नेयाष्टाकपालयोर्लभ्यते । तथाप्यसौ सम्बन्धः प्रमाणान्तरेणा-सिद्धत्वाद् अत्रैव विधातव्यः । तं च विधाय पुनः पूर्णमासीसम्बन्धविधिरित्यावृत्तिप्रसङ्गः । न ह्येवं सम्भवति य आग्नेयोऽष्टाकपालः स पूर्णमास्यामिति आग्नेयाष्टाकपालस्या-प्रसिद्धत्वात् । अत एव वक्तव्यम् अष्टाकपाल आग्नेयः कर्तव्यः स च पूर्णमास्यामिति । तथा सत्यावृत्तिः प्रत्ययस्य स्यात् । तस्माद्य एवं विद्वानिति विहितकर्मानुवादेनाष्टाक-पालादिवाक्ये गुणविधानासम्भवाद् अवश्यमेव भावनान्तरं द्रव्यदेवताविशिष्टम् आक्षिप्त-यजिकं विधातव्यम् । न च भावनान्तरं भावनान्तरस्य रूपं भवतीति सिद्धमरूपत्वम् । अतो विद्वद्वाक्यगतौ यजती समुदायानुवादौ । ततश्चागत्या पूर्णमासीमित्येकवचनं लक्षणया समुदायपरं भविष्यति । किञ्च यदाग्नेयोऽष्टाकपाल इत्यादिक्रियासमानाधिकरण-यच्छब्दाद्विलक्षणः य एवं विद्वानिति कर्तृसमानाधिकरणो यच्छब्द उपबध्यमानो विधिसामर्थ्यं निरुन्धे । तथा चोक्तं वार्तिके

क्रियापदैकयोगित्वे यच्छब्दो न रुजेद्विधिम् ।

कर्तृयुक्तस्स एवान्यः प्रापितार्थानुवादकृत् ॥

इति । तस्मात्समुदायानुवादौ । ननु प्रत्यक्षसिद्धे वादिविप्रतिपत्तिनिरासरूप-प्रयोजनवत्त्वेन प्रमाणान्तरस्य सप्रयोजनतया स्वार्थपरत्वोक्तावग्निर्हिमस्य भेषजमित्याद्यपि तेनैव प्रयोजनेन सप्रयोजनं स्वार्थपरं च स्यात् । अतो न प्रत्यक्षसिद्धे वादिविप्रतिपत्ति-निरासार्थमन्यापेक्षेति चेन्मैवम् । प्रत्यक्षसिद्धे भावरूपाज्ञाने वादिविप्रतिपत्तेस्त्वयाङ्गी-कारात् । तत्र श्रुत्यादेरुपन्यासाच्च ।

विमतिर्नाक्षग इति त्वदुक्तिव्यक्तवेदनः ।

आत्मा ज्ञानौषधं सिद्धं विमृश्यारोग्यमाप्नुयात् ॥

वस्तुतस्तु प्रत्यक्षेण सत्त्वे गृहीतेऽपि वादिविप्रतिपत्त्या प्रत्यक्षेऽप्रामाण्यशङ्कायां तदाहितार्थसंशये सति सर्वजनसिद्धप्रामाण्यया श्रुत्या प्रत्यक्षगृहीतार्थस्यानुवादे सति सर्वसंशयबीजनिरासोऽस्यानुवादस्य प्रयोजनम् । अस्ति हि मीमांसकानां प्रत्यक्षसिद्धेऽपि वायुप्रत्यक्षत्वे, नैयायिकानां चात्मप्रत्यक्षत्वे प्रत्यक्षसिद्धेऽपि तत्र तदन्येषां विवाददर्शनात् । सत्यां विप्रतिपत्तावग्निर्हिमस्य भेषजमित्याद्यपि द्वीपविशेषस्थं प्रत्यननुवाद एव । पुरुषविशेषं प्रत्येवानुवादकत्वम् । सप्रयोजनानुवादकत्वाभावेऽपि सत्त्वश्रुतेः प्रामाण्य-स्याक्षतत्वात् तया मिथ्यात्वानुमानं बाधितमेवेत्याह ॥ किञ्चानुवादत्वेऽपीति ॥ न चाधिगतेऽर्थे तात्पर्याभाव इति वाच्यम् । अधिगतेऽपीष्टे क्रियासमभिहारेण बालभाषित-वत्तात्पर्योपपत्तेः । नैष्फल्यम् अज्ञाननिवृत्त्यादिफलाभावः । इष्टबोधनस्यापि सुखादिहेतु-त्वात् ॥ किञ्चायमिति ॥ वायव्यं श्वेतमालभेत भूतिकामो वायुर्वै क्षेपिष्ठा देवतेत्यादौ इत्थं वायव्यश्वेतालम्भः प्रशस्तः यत्र शीघ्रगामिनी वायुदेवता इज्यत इत्यादिस्तुते-रत्राभावात् ॥ आश्रयेति ॥ विधीयमानो गुणो यत्र कारकतामापद्यते स आश्रयः । यथा दध्ना जुहोतीत्यत्र विधीयमानस्य दध्नः होमं प्रति कारकत्वात् होमे दध्न आश्रयः । तथा चानुवाद्यत्वसिद्धौ तत्संसर्गोऽपि सिद्धः स्यादित्यर्थः ॥ तत्रैवेति । नेह नानास्ति किञ्चनेति वाक्य एव किञ्चनेत्यनेन सर्वानुवादसम्भवादित्यर्थः ।

ननु सामान्यतो निषेधस्य किञ्चनेत्यनेन निषेध्यसमर्पणेऽपि विशिष्य निषेधे विशिष्य निषेध्यार्पणस्योपयोग इत्यत आह ॥ न हीति ॥ निषेद्धुं प्राप्तिरपेक्षिता । न तु शब्दतः । गौरवादिति भावः । विश्वं न सत्यमित्यादिविशिष्य निषेधादर्शनाच्च । अस्थूलादिवाक्ये स्थूलादिपदस्यैव निषेध्यानुवादस्य सत्त्वात् ॥ अत्रेति । परमेश्वरकृतजगत्सृष्ट्यादेः सत्यत्वेन ज्ञानं देवानामप्यस्तीति देवसम्बन्धितादृशज्ञानरूपस्यालौकिकप्रमाणस्योक्ते-रित्यर्थः ॥ यत्तन्नेत्यादीति ॥ इति यत्तन्न इत्येवं निषेधार्थानुवादलिङ्गस्यैकस्याप्यभावा-दित्यर्थः । एतेन यत्किञ्चिल्लिङ्गाभावेन लैङ्गिकाभावो वक्तुमशक्य इति परास्तम् । ननु तत्सत्यमित्यादिवाक्यं न ब्रह्मसत्तानुवादकम् । तस्या मानान्तराप्राप्तत्वादित्यत आह ॥ सर्वेति ॥ व्यवस्थिते अनुस्यूते । ब्रह्मणः सर्वप्रत्ययवेद्यत्वेन सन्घट इत्यत्र ब्रह्मणि सत्त्वप्रतीतिरित्यर्थः । ननु विशिष्टस्यैव सर्वप्रत्ययवेद्यत्वं न तु शुद्धस्येति शङ्कामपाकर्तु-मुत्तरार्ध उदाहृतः । प्रपञ्चविलयाधिष्ठानत्वेन सर्वप्रत्ययवेद्यस्य ब्रह्मणः शुद्धत्वमिति भावः ॥ परागर्थेति ॥ पराञ्चो येऽर्थास् ते च प्रमेयानि तेषु या फलभूता संविद् घटादिभासकं चैतन्यं तदेव वेदान्तवाक्यरूपप्रमाणस्य प्रमेयमित्यर्थः । तथा च घटज्ञानस्य ब्रह्मत्वात् सद् घटज्ञानमित्यत्र ब्रह्मसत्ता प्रतीयत इत्यर्थः । ननु घटादिविशिष्टे ब्रह्मणि सत्त्वप्रतीतावपि शुद्धे न तत्प्रतीतिरित्यत आह ॥ सदिति ॥ नन्वत्रापि सुखविशिष्टे अज्ञानविशिष्टे च सत्ता प्रतीयते न केवल इत्यत आह ॥ अधिकेति ॥ ननु सत्सुख-स्फुरणमित्यादौ ब्रह्मत्वसामानाधिकरण्येन न सत्त्वं प्रतीयत इत्यत आह ॥ ब्रह्मशब्देति ॥ तव मते सत्यादिवाक्यस्याखण्डार्थनिष्ठतया ब्रह्मत्वसामानाधिकरण्येन सत्त्वाबोधकतया ब्रह्मस्वरूपे सत्त्वं तेन बोध्यत इति वाच्यम् । तच्च सत्सुखस्फुरणमित्यत्राप्यस्ति । तार्किकमते निर्विकल्पके भातस्य घटस्य सविकल्पकेति भानवत् ॥ एवमानन्देति ॥

नन्वदुःखमसुखमित्यत्र दुःखसाहचर्येण सुखस्यापि वैषयिकस्यैव ग्रहणेन तन्निषेधाय ब्रह्मस्वरूपसुखानुवादायोग इति चेन्मैवम् । दुःखे वैषयिकत्वाव्यभिचारेण दुःखमात्रस्यैव ग्रहणमिति तत्सहपठितस्यापि सुखस्य सर्वस्य निषेधाय ब्रह्मानन्दश्रुतिरप्यनुवादिनी स्यादित्याशयः ॥ विश्वं सत्यमिति ॥ विश्वं सत्यमित्यादिश्रुत्या बाध्यत्वाभावरूप-मिथ्यात्वाभावं बोधयन्त्या तद्रूपं मिथ्यात्वं निषिध्यत इति विश्वसत्यत्वश्रुतिरेव निषेधश्रुतिः । तां च प्रतिनिषेध्यमानं मिथ्यात्वं विज्ञानवादादिप्राप्तमेव । नेह नानेति श्रुतिरनुवादिनी स्यादित्यर्थः । ननु भावाभावायोः परस्परविरहरूपत्वे समेऽपि भावग्रहो निरपेक्षत्वान्नाभावग्रहपेक्षते । अभावग्रहस्तु सप्रतियोगिकत्वाद्भावग्रहमपेक्षते । अतो नेति नेतीति श्रुतेरेव सत्त्वश्रुत्यपेक्षा न तु सत्त्वश्रुतेर्नेतिर्नेतीति श्रुत्यपेक्षेति चेन्मैवम् । सत्यत्वस्य बाध्यत्वादिभावरूपमिथ्यात्वाभावरूपतया तद्बोधयन्त्याः सत्त्वश्रुतेरेवात्यन्ताभाव प्रतियोगित्वादिरूपभावरूपमिथ्यात्वप्रतिपादकश्रुत्यपेक्षाया एवोचितत्वात् ॥ स्वर्गनरकादे-रिति ॥ सत्यत्वस्येति शेषः ॥ तेन नोपक्रमानानुगुण्यम् । न च धर्मिप्रमातृभेदेनेत्यादिना पौनरुक्त्यम् । न ह्यत्र धर्माद्यंशे प्रत्यक्षाप्राप्तसत्त्वविधानेन विश्वं सत्यमित्यादेरननु-वादत्वमुच्यते । किन्तु वाक्यप्राप्तस्य वाक्यान्तरेण निषेधेऽतिप्रसङ्ग उच्यते ॥ एतच्छाखास्थेति ॥ यथा न हिंस्यात्सर्वा भूतानीति श्रुतिरविशेषप्रवृत्तापि हिंसात्व-सामान्यस्य प्रत्यक्षादिप्राप्तत्वान् निषेध्योपस्थितौ नाग्नीषोमीयवाक्यमपि निषेध्यसमर्पणाया-पेक्षते तथा नेति नेतीत्यादिश्रुतिरविशेषप्रवृत्तापि प्रत्यक्षप्राप्तघटादिसत्त्वरूपं निषेध्यमादाय निराकाङ्क्षा सती न प्रत्यक्षाप्राप्तधर्माधर्मादिसत्यत्वबोधिकां विश्वं सत्यमित्यादिश्रुतिमपि निषेध्यसमर्पणायापेक्षितुमर्हति । मानान्तरेण निषेध्योपस्थितावपि वाक्यापेक्षणे अग्नी-षोमीयहिंसाया अपि तथा निषिद्धत्वेनाधर्मसाधनत्वं स्यादिति बोध्यम् । नन्वग्नीषोमीय वाक्यस्य निषेधविषयन्यूनविषयत्वेन न निषेध्यसमर्पकत्वमिति चेन्न । विश्वं सत्य-मित्यस्यापि प्रत्यक्षाप्राप्तधर्माधर्मादिसत्यत्वबोधकतया सर्वनिषेधकान्नेति नेतीत्येतस्मान्न्यून-विषयत्वात् । एवं च दृश्यत्वादिहेतोर्धर्माद्यंशे श्रुत्यादिबाध एव ॥ न हीति ॥

न्यायामृतकण्टकोद्धारः

प्रकारान्तरेणानुवादकत्वं परिहरति – किञ्चेति । नवमस्य चतुर्थपादे तृतीये चिन्तितम् । ‘‘तत्प्रतिषिध्य प्रकृतिर्नियुज्यते सा चतुस्त्रिंशद् वाच्यत्वात्’’ इति सूत्रम् । अश्वमेधे त्रयः पशवः सवनीयाः श्रुताः । अश्वस्तुपरो गोमृगस्ते प्राजापत्या इति । ते त्रयोऽप्यग्नीषोमीय-पशोर्विकृतिभूताः । तत्राग्नीषोमीयपशौ अधिगुप्रैष एवमाम्नातं – षड्विंशतिरस्य वङ्क्रयस्ता अनुष्ठ्योच्यावयतादिति । अस्यार्थः – वङ्क्रयो वक्राणि पार्श्वास्थीनि । तान्यस्य पशोः षड्विंशतिसङ्ख्याकानि । कथम् ? एकैकस्मिन् त्रयोदशानामवस्थितत्वात् । ता वाङ्क्री-रनुष्ठ्याऽनुष्ठायानुक्रमेण गमयित्वेति यावत्, उच्यावयताद् उद्धरतादिति । सोऽयं मन्त्र आश्वमेधीयेषु त्रिषु पशुषु प्राप्तः । तत्राश्वस्य चतुस्त्रिंशद् वङ्क्रयः । तथा च वैशेषिको मन्त्रः – ‘‘चतुस्त्रिंशद् वाजिनो देवबन्धोर्वङ्क्रीरश्वस्य स्वधितिः समेती’’ति । अस्याप्ययमर्थः । वाजिनो गन्धर्ववाहकस्य, देवबन्धोर्देवानां प्रियस्य, अश्वस्य वङ्क्रीः, स्वधितिश् च्छेदनहेतुः शस्त्रं समेतीति । एवं चाश्वमेधे चोदकप्राप्तस्य वैशेषिकेणापवादेन नित्यनिवृत्तौ प्राप्तायामिदमाम्नायते ‘न चतुस्त्रिंशदिति ब्रूयात् षड्विंशतिरित्येव ब्रूयादि’ति । तत्र संशयः– किमश्वस्य पठितमेव वैशेषिकं चतुस्त्रिंशदिति वचनं कर्तव्यमिति प्राकृतस्य सर्वथा निवृत्तिः, उत तदपि कर्तव्य-मित्यनिवृत्तिरिति । अनिवृत्तिपक्षेऽपि किन्तूपरगोमृगयोरश्वस्य च समस्य वचनं षड्विंशतिरेषां वङ्क्रय इति उत तूपरगोमृगयोः सामासिकं वचनं कृत्वा अश्वस्य षड्विंशतिरस्य वङ्क्रय इत्येव-मयथा प्राप्तमध्रिगुवचनं कर्तव्यमिति । पूर्वपक्षस्तु न चतुस्त्रिंशदिति ब्रूयात् षड्विंशतिरित्येव ब्रूयादित्यनेन वाक्येन पठितायामेवर्चि चतुस्त्रिंशदिति पदं निषिध्य षड्विंशतिपदं विधीयते । यथा यज्ञा यज्ञा वो अग्नये गिरा गिरा च दक्षस इत्यत्र न गिरागिरेति प्रब्रूयाद्, ऐरं कृत्वोद्गेयमित्यनेन गिरापदनिषेधेन इरापदं विधीयते । एवं च सैव षड्विंशतिपदयुक्ता पठितव्येति प्राकृतस्य सर्वथैव निवृत्तिरिति ।

सिद्धान्तस्तु – न चतुस्त्रिंशदिति ब्रूयात्, षड्विंशतिरित्येव ब्रूयादित्येकं वाक्यम् । अत्रोभयं विधातुमशक्यम् । वाक्यभेदापत्तेः । तस्मादेकोऽत्र विधिर् इतरोऽनुवाद इति । तत्र यदि गिरापदवत् षड्विंशतिर्विधीयते ततश्चतुस्त्रिंशत्प्रतिषेधो गिरापदप्रतिषेधवदनूद्येत । न चात्र षड्विंशतिपदं विधातुं शक्यम् । एवकारेण विधिप्रत्ययबाधात् । तथा हि– षड्विंशति मन्त्रस्तावच् चोदकप्राप्तत्वान्न विधेयः । तस्य चतुस्त्रिंशन्मन्त्रेणापवादप्रसक्तौ न चतुस्त्रिंश-दित्यपवादकं मन्त्रं प्रतिषिध्य चोदकप्राप्तस्यानयोदितत्वेन यथापूर्वमवस्थानमनूद्यत इत्येवमर्थं सूचयितुमेवकारः प्रयुक्तः । गिरापददृष्टान्तस्तु विषमः । अप्राप्तत्वाद् गिरापदं तत्र विधीयते । तेन च विहितेन पाठप्राप्ते गिरापदे बाधिते स बाधो न गिरागिरेति पदेनानूद्यत इति महद् वैषम्यम् । तेन चतुस्त्रिंशत् प्रतिषेधोऽत्र विधीयते । न च पदमात्रस्य प्रतिषेधात् सैव षड्विंशतिपदयुक्ता पठनीयेति वाच्यम् । यदि पदमात्रं प्रतिषिध्येत, न षड्विंशतिपदमनुवदितुं शक्यते । प्राप्त्यभावात् । न हि पठितायाम् ऋचि चतुस्त्रिंशत्पदे प्रतिषिद्धे षड्विंशतिपदस्य प्राप्तौ सत्यां प्रमाणमस्ति । न चानेन षड्विंशतिपदविधानं सम्भवतीत्युक्तम् । तस्मात् समस्ताया ऋचः प्रतिषेधः । तथा सति षड्विंशतिरित्येव ब्रूयादिति चोदकप्राप्तत्वादनुवादः ।

न च पदमात्रग्रहणेन कथं समस्तनिषेध इति वाच्यम् । चतुस्त्रिंशत्पदस्याद्यत्वात् तद्ग्रहणेन ऋक्प्रतिषेधसम्भवात् । गिरापदे त्वनाद्यत्वात् तद्ग्रहणमशक्यमिति वैषम्यम् । तथा चैवं वाक्यार्थः । न चतुस्त्रिंशदिति पठितं ब्रूयात्, किन्तु यथाप्राप्तमध्रिगुवचनमेवेति । तस्मात् सम(स्त)स्यवचनम् । पक्षे च वैशेषिकम् ऋग्वचनम् एवं च यथा षड्विंशतिरित्येव ब्रूयादिति वचनमनुवादकमपि प्रतिप्रसवार्थं तथा जगत्सत्यत्ववचनस्यापि प्रतिप्रसवार्थत्वाद् अनुवादकत्वेऽ-प्यक्षतिरिति भावः । न चैवं सति मिथ्यात्वश्रुतेः प्रत्यक्षबाधकत्वाभ्युपगमे तस्या बलवत्त्वात् तद्विरोधात् सत्यत्वश्रुतेरतत्परत्वमेवेति प्रतिप्रसवार्थत्वं वक्तुमशक्यमेवेति वाच्यम् । मिथ्यात्वश्रुतेः प्रत्यक्षात् प्राबल्येऽपि सत्यत्वश्रुतेः प्राबल्याभावात् । न चोपक्रमादिना तन्निर्णयः । उपक्रमादेर् अन्यथैवोपपत्तेः । ननु तथापि तुल्यबलत्वेन प्रतिरोधकत्वं न तु बाधकत्वमिति चेन् न । प्रत्यक्षप्राबल्यप्रस्तावोक्तन्यायैः सत्यत्वश्रुतेरपि प्राबल्यस्य समर्थयिष्यमाणत्वात् । ननु विधिरूपस्य कथं प्रतिप्रसवार्थत्वम्, अदृष्टत्वादित्यत आह– दृश्यन्त इति । क्त्वाप्रत्ययस्य लशक्वतद्धित इति प्राप्तस्य कित्त्वस्य न क्त्वा सेडित्यनेनापोदितस्य प्रतिप्रसवार्थो मृडमृदेत्यादिविधिर्दृश्यत इति निषेधरूपत्वं प्रतिप्रसवार्थत्वेन प्रयोजकमिति भावः । उक्तमर्थं सङ्गृह्य दर्शयति – तस्मादिति । धर्मिभेदाद् धर्मितावच्छेदकभेदात् । प्रत्यक्षे घटत्वादिकं सत्वधर्मितावच्छेदकम् । श्रुतौ तु विश्वत्वमिति । प्रमातृभेदाद् अधिकारिभेदादिति यावत् । धर्मभेदात् त्रिकालाबाध्यत्व-वर्तमानकालीनत्वरूपधर्मविषयत्वादिधर्मभेदादित्यर्थः । आदिशब्देन दार्ढ्यार्थत्वम् । द्विप्रणयना-दीत्यत्रादिपदेन निगमनादिकं गृह्यते । यथाक्रमेणैव दृष्टान्ता योजनीयाः ।

प्रकारान्तरेण भिन्नविषयत्वमुपपादयन् अनुवादकत्वं परिहरति ॥ किञ्चेति । प्रमाणं चेत् तात्विकं चेदिति शेषः । अन्यथा भिन्नविषयत्वेन बाध्यबाधकभावासम्भवात् । तस्मादबाध्य-त्वाय मिथ्यात्वानुमानादेर्नेतिपक्ष एव तव शरणम् । तदाश्रयणे च भिन्नविषयकत्वान्नानु-वादकत्वं श्रुतेरित्यर्थः । तदेव दर्शयति ॥ श्रुतेरिति । एकविषयत्वमेव किं न स्यादित्यतो न हीति । ननु प्रत्यक्षाप्रामाण्येऽपि तत्सिद्धबोधकत्वेनानुवादकत्वम् । न हि प्रमितप्रमापकत्व-मनुवादकत्वम् । किन्तु पश्चाद्वादकत्वमात्रम् । पश्चात्त्वं च प्रमाणावधिकमप्रमाणावधिकमिति न कश्चिद्विशेष इति चेन्न । श्रुतेरपौरुषेयत्वेनाधुनिकप्रत्यक्षपश्चाद्वादकत्वानुपपत्तेः । श्रुतेरपौरुषेयत्वेन प्रमाणतया प्रत्यक्षस्य जन्यत्वेनाप्रमाणतया तयोरेकविषयत्वानुपपत्तेर्मूल एवोक्तत्वाच्च । न चाप्रमाणसिद्धमेव श्रुतिरनुवदति बौद्धमतप्राप्तासत्कारणत्ववदिति वाच्यम् । तत्र निषेधवदत्र प्रयोजनाभावात् । विधिरूपत्वप्रत्ययाच्च । अत एवाह– श्रुतेरिति । नन्वनुवादकत्वपरिहारार्थं न तात्त्विकविषयता कल्प्या । सत्त्वांशस्य प्रत्यक्षसिद्धत्वेऽपि क्रियासमभिव्याहारादिसिद्धस्य वाक्यार्थस्यापूर्वत्वेन तद्विषयतयैवाननुवादकत्वोपपत्तेरिति चेन् न तात्विकविषयत्वेनाप्य-ननुवादकत्वसम्भवात् ।

न च तात्विकविषयत्वेनाननुवादकत्वं वक्तुमशक्यम्, अद्वैतश्रुतिविरुद्धत्वादिति वाच्यम् । तस्या एवैतद्विरोधेनातात्विकविषयत्वसम्भवात् । न च तस्याबलत्वम् । तस्याद्याप्यसिद्धेः । अपौरुषेयत्वेन प्रामाण्यार्थं तात्विकविषयताया आवश्यकत्वाच्च । न च व्यावहारिकत्वेन प्रामाण्यं निर्वहतीत्युक्तम् । न च श्रुतीनां तात्विकविषयत्वे ब्रह्मविषयत्वं तन्त्रमिति वाच्यम् । अबाधितत्वादेरेव तत्र प्रयोजकत्वात् । अन्यथाऽसद्विषयत्वादेरपि प्रयोजकत्वं वक्तुं शक्यं स्यात् । ननु प्रत्यक्षं प्रमाणमपि प्रमाणत्वेनानिश्चितत्वान्नाद्वैतश्रुतिबाधकं, प्रमाणत्वादेव श्रुतेरनुवादत्वा-पादकं चेत्यस्वरसादाह ॥ किञ्च यथेति । प्रमाणत्वानिश्चयपक्ष एव परस्याभिप्रेत इति दर्शयितुं निश्चयपक्षमुपर्येव दूषयति ॥ प्रत्यक्षमिति । न श्रुत्यनुवादकत्वापादकमिति । स्वस्याप्रमाण्य-शङ्काकलङ्कितत्वेन स्वप्रतिपादितार्थस्याप्रतिपादितप्रायत्वेन सन्दिग्धत्वात् तन्निश्चयार्थं प्रवृत्तश्रुत्यनु-वादकत्वापादकं न भवतीत्यर्थः । न च प्रत्यक्षं यदि स्वप्रामाण्यनिर्णयाय श्रुतिसंवादमपेक्षते तर्हि श्रुतिसंवादविरहिणि कुत्रापि निःशङ्कप्रवृत्तिर्न स्यादिति वाच्यम् । न वयं सर्वत्र प्रत्यक्षे प्रामाण्य शङ्केति ब्रूमः । यत्र वादिविप्रतिपत्त्यादिनाऽप्रामाण्यशङ्का तत्र श्रुतिसंवादमपेक्षते । यत्र प्रमा-णान्तरेण वा स्वत एव वा शङ्काविरहस् तत्र श्रुतिसंवादापेक्षाविरहेण निःशङ्कप्रवृत्तिसम्भवात् । न चैवमग्निर्हिमस्य भेषजमित्याद्यप्यनुवादकं न स्यादिति जगत्यनुवादकत्वकथोच्छेदः स्यादिति वाच्यम् । यत्र प्रत्यक्षे यस्याश्वासस् तं प्रति तदर्थकवाक्यस्यानुवादकत्वोपपत्तेः । अग्न्यौष्ण्य-प्रत्यक्षेऽनाश्वासे तु अग्निर्हिमस्य भेषजमित्याद्यप्यननुवादकमेव । अत एवाह– अग्न्यौष्ण्य-प्रत्यक्षस्येति । अन्यथेति । यद्यप्रामाण्यशङ्कानिरासकत्वेनाननुवादकत्वं नोच्येत तदेत्यर्थः ।

ननु ब्रह्मसत्वं केनापि न प्राप्तमिति कथमनुवादकतेत्यत आह ॥ ब्रह्मसत्वस्येति । ननु न सत्यं ज्ञानमित्यादेरनुवादकता । अत्र हि ब्रह्मत्वसामानाधिकरण्येन सत्त्वं बोध्यते । न च तत् प्रत्यक्षप्राप्तम् । ब्रह्मत्वस्य प्रत्यक्षावेद्यत्वात् । नाप्यनुमानगम्यम् । तस्य मूर्खामूर्खसाधारणत्वा-भावादित्यादिना परिहृतत्वात् । नापि प्रवाहानादिविज्ञानवादादिमतेन । तस्यापौरुषेय-श्रुत्यवधिकपूर्वत्वाभावादिति चेन्न । सत्यमित्यादेर् ब्रह्मत्वसामानाधिकरण्येन सत्वबोधकत्वे विशिष्टार्थत्वेनाखण्डार्थत्वहानेः, श्रुतेरप्रामाण्यप्रसङ्गाच्च । लक्षणया सत्वस्वरूपमात्रपरत्वे वक्तव्ये प्रत्यक्षेऽपि सत्वस्वरूपभावात् कथमननुवादकत्वम् ? भ्रमाधिष्ठानत्वादिना लिङ्गेनापि सत्व-सिद्धिः । व्याप्त्यविदुषोऽव्युत्पन्नस्य तदसिद्धावपि व्युत्पन्नं प्रति तस्यानुवादकत्वापरिहारात् । विज्ञानवादादिना वा सत्वसिद्धिः । न च तस्यापौरुषेयश्रुत्यवधिकपूर्वत्वमसम्भवीति वाच्यम् । श्रुत्यवधिकपूर्वत्वासम्भवेऽपि तज्जन्यप्रतिपत्त्यवधिकपूर्वत्वसम्भवात् । त्वन्मते श्रुत्यनादित्वस्य बहुकालीनत्वमात्र एव पर्यवसानाच्च । अन्यथा प्रत्यक्षस्यापि श्रुत्यवधिकपूर्वत्वासम्भवेन विश्वसत्त्वश्रुतेरप्यनुवादकत्वं न स्यात् । भवदुक्तसर्वप्रकारस्य विश्वसत्त्वश्रुतौ वक्तुं शक्यत्वात् । ननु लिङ्गस्मृत्यादिसिद्धत्वेन कथमनुवादकत्वम्? लिङ्गादीनां श्रुत्यादितो दुर्बलत्वात् । न हि दुर्बलसिद्धेन प्रबलस्यानुवादकतेत्यत आह– उक्ता हीति । यथा मन्त्राधिकरणे लिङ्गसिद्धार्थ-प्रतिपादकत्वेन तदर्थशास्त्रस्यानुवादकता तद्वदिहापि लिङ्गसिद्धार्थप्रतिपादकत्वेनानुवादकता स्यादेवेत्यर्थः ।

प्रमाणलक्षणे द्वितीयपादे चतुर्थाधिकरणे चिन्तितम् – तदर्थशास्त्रात् । अत्र उरुप्रथस्वे-त्यादयो मन्त्रा उदाहरणम् । अस्यायमर्थः । भो पुरोडाश त्वम् उरु विपुलता यथा भवति तथा प्रसरेति । एवमादीनां मन्त्राणामाद्याधिकरणे आनर्थक्यमाशङ्क्य स्वाध्यायविधिवशेनार्थवत्तया भवितव्यमित्येतदपर्यवसितं कथितम् । तत्पर्यवसानायेदानीमर्थविशेषश्चिन्त्यते । मन्त्रास्तावत् क्रमप्रकारणाभ्यां क्रत्वङ्गभावं भणन्त इत्यविवादम् । तत् क्रत्वङ्गत्वं किं दृष्टेनैवार्थप्रकाशनेनोप-कारेण भवति किं वा उच्चारणमात्रेणादृष्टेनेति । पूर्वपक्षस्तु – मन्त्रा उच्चारणमात्रेणोपकुर्वन्ति । तत्र हेतुस् तदर्थशास्त्रादिति । यदि मन्त्रा अर्थप्रकाशनेनोपकुर्युस् तर्हि अर्थाभिधानसामर्थ्येन लिङ्गेनैव पुरोडाशप्रथनमन्त्रे प्राप्ते तदर्थाभिधायि ‘‘उरुप्रथस्वेति पुरोडाशं प्रथयतीति’’ शास्त्र-मनर्थकं स्यात् । किञ्च मन्त्राणां दृष्टार्थत्वे वैयर्थ्यमेव स्यात् । न च प्रयोगवेलायामर्थस्मरणार्थं मन्त्राणामावश्यकत्वात् कथमानर्थक्यमिति वाच्यम् । उपायान्तरेणाप्यर्थस्मरणसम्भवात् । न च मन्त्रेणापि तद् भवतीति तदाम्नानमिति वाच्यम् । तथापि यदा प्रकारान्तरेण स्मरणं सम्भवि तदा मन्त्राणामनुपयोगान् नित्यवदाम्नानमनर्थकम् । न च मन्त्रैरर्थप्रत्ययाददृष्टं कल्प्यत इति सार्थक्यं मन्त्राणामिति वाच्यम् । तर्हि कियद् दूरं गत्वा तत् कल्पनीयमेवेति उच्चारणादेव तत्कल्पनं युक्तियुक्तम् । तद्धि पुरुषव्यापारगोचरम् । प्रत्यायनं तु तस्मिन्ननुष्ठिते स्वयमेव भवतीति स्वव्यापारगोचरे पुरुषो नियुज्यते । तत्र फलाकाङ्क्षा । तेन चावश्यं भाविनी अदृष्ट-कल्पना । सा चात्रैव युक्ता । न तु तस्य प्रत्यायनार्थत्वं, प्रत्यायनं चादृष्टार्थमिति युक्तम् । तस्माददृष्टार्था मन्त्राः । एवं सति तदर्थशास्त्रादिकमुपपद्यते । इतरथा परिसङ्ख्याद्याश्रयणे क्लेशः स्यादिति ।

सिद्धान्तस्तु – अविशिष्टस्तु वाक्यार्थ इति । लौकिकवाक्यैः सह वैदिको वाक्यार्थोऽ-विशिष्टः । यथा लौकिकवाक्यानां विवक्षितोऽर्थः, एवं वेदेऽपीत्यर्थः । अयमाशयः । मन्त्रोच्चारणं क्रियाङ्गत्वेन कथम्भावाकाङ्क्षापूरणसमर्थमपि दृष्टाक्षरग्रहणार्थतया, अक्षराणि च द्रव्यदेवता- प्रकाशनयोग्यतया पदार्थज्ञानमपि वाक्यार्थज्ञानार्थतया समुल्लङ्घ्य प्रकरणादिना वाक्यार्थज्ञाने क्रियारूपे समवेतार्थावभासिनीतिकर्तव्यतात्वेन गृह्यमाणे समाम्नानार्थवत्त्वोपपत्तौ दृष्टद्वारेणैव सर्वार्थलाभे उच्चारणस्यादृष्टार्थत्वे किं मानम्? दृष्टद्वाराऽलाभे ह्यदृष्टकल्पना । अत एवावघातादौ दृष्टमेव द्वारं कल्प्यते । यत्र हि सर्वथा दृष्टद्वारं न लभ्यते मन्त्रेणैव स्मरणमापाद्यमिति नियमस् तत्रास्त्वदृष्टं, न नो हानिः । किंच कर्मप्रकरणेषु मन्त्राणामुच्चारणं न विधीयते, न वाऽऽक्षिप्यते मन्त्रविधिभिरनपेक्षितत्वेन तैरनाक्षेपात् । पुंव्यापारस्य मन्त्रगतत्वाभावेन मन्त्राङ्गत्वनिर्वाहकतया तेनाप्यनाक्षेपाच्च । मन्त्रोच्चारणकर्तव्यतायामेव प्रमाणं नेति न तस्य तद्वारत्वं, किन्तु अनुष्ठापक-कर्मविधिभिरपेक्षिततया मन्त्रगतत्वेन च मन्त्राङ्गत्वनिर्वाहकतया चाभिधानविध्याक्षेपसम्भवा-च्चाभिधानस्य द्वारत्वं युक्तम् । तादर्थ्येन तु पश्चादुच्चारणस्यापि कर्तव्यतासिद्धिः । तस्मादर्थाभि-धानमेव द्वारम् । नियमस्य त्वदृष्टमिति । न च तदर्थशास्त्रानर्थक्यम् । तस्यार्थवादो वेत्यादिनाऽर्थ-वादार्थत्वेन सार्थक्याभिधानादिति । एवं च मन्त्राधिकरणे लिङ्गप्राप्तार्थबोधकत्वेनानुवादकत्वस्य सिद्धत्वात् तन्न्यायेन सत्त्वश्रुतेरप्यनुवादकत्वं स्यादिति । किञ्चेति । न चाप्रामाण्येऽनुवादकत्वमेव प्रयोजकं लाघवान् न निरपेक्षानुवादित्वमिति वाच्यम् । अनुवादकत्वमात्रस्यैवाप्रामाण्य-प्रयोजकत्वे अद्वैतश्रुतेरप्यनुवादकत्वेनाऽप्रामाण्यं स्यात् । तस्या अपि पदार्थांशे अनुवादकत्वात् । न च सर्वांशानुवादकत्वमप्रामाण्यप्रयोजकम् । किञ्चिदंशानुवादेऽपि प्रामाण्यदर्शनादिति वाच्यम् । एवं तर्हि सापेक्षानुवादित्वमेवाप्रामाण्यप्रयोजकम् । निरपेक्षानुवादित्वस्य प्रमाणसंप्लवस्थल इवा-प्रामाण्यानापादकत्वात् । अन्यथा त्वन्मते नवकृत्वोऽभ्यासस्याप्रामाण्यापत्तेः । न चानधिगतार्थ-गन्तृत्वस्य प्रमाणलक्षणत्वाद् अधिगतार्थगन्तृत्वेऽप्रामाण्यमिति शङ्क्यम् । ब्रह्मसत्त्वबोधक-श्रुतेरप्यप्रामाण्यं स्यात् । तस्या अपि लिङ्गादिबोधितसत्वबोधकत्वात् । न च सत्त्वश्रुतिरपि सोपेक्षानुवादिन्येव । न हि सत्त्वप्रत्यक्षं विना तन्मूलकशक्त्यादिग्रहमूलकशब्दप्रवृत्तिसम्भव इति वाच्यम् । एवं ह्यद्वैतश्रुतेरप्यनुवादकत्वापरिहारात् । तत्रापि प्रत्यक्षं विना तन्मूलकशक्ति-ग्रहमूलशब्दप्रवृत्तेरभावात् । यदि च तत्राद्वैतमात्रसिद्धावपि ब्रह्माद्वैतमसिद्धं तर्हि प्रकृतेऽपि सत्त्वमात्रसिद्धावपि विश्वसत्वमसिद्धमेवेति समम् । तत्राद्वैतं न पदार्थोऽपि तु वाक्यार्थ इति चेद् एकमेवाद्वितीयमित्यादौ पदार्थत्वात् । प्रकृतेऽपि सत्वस्य वाक्यार्थताया वक्तुमशक्यत्वाद् इति । अत एव वाचस्पतिवचनमन्यथा न व्याख्येयमिति भावः ।

विद्वद्वाक्य इवेति । द्वितीयाध्याये द्वितीयपादे तृतीयाधिकरणे चिन्तितम् । ‘‘प्रकरणं तु पौर्णमास्यां रूपावचनादिति’’ सूत्रम् । यदाग्नेयोऽष्टाकपालोऽमावास्यायां पौर्णमास्यां चाच्युतो भवति । तावब्रूतामग्नीषोमावाज्यस्यैव नावुपांशु पौर्णसास्यां यजन्निति । ताभ्यामेतमग्नीषोमीय-मेकादशकपालं पौर्णमासे प्रायच्छत् । ऐन्द्रं दध्यमावास्यायाम् । ऐन्द्रं पयोऽमावास्यायाम्’’ इति कालासंयुक्तानि वचनानि श्रूयन्ते । तथा समिधो यजति, तनूनपातं यजति, आज्यभागौ यजतीत्यकालसंयुक्तानि । तेषां सन्निधौ ‘‘य एवंविद्वान् पौर्णमासीं यजते य एवं विद्वान-मावास्यां यजते’’ इति वाक्यद्वयं श्रुतम् । अत्र सन्देहः । किमिदं वाक्यद्वयं प्रकृताग्नेयादि-षड्यागानुवादकम् उतापूर्वकर्मद्वयविधायकम्? पूर्वपक्षस्तु इदं वाक्यद्वयं कर्मान्तरविधायकम् । कुतः? अविशेषपुनःश्रुतिरूपादभ्यासात् । यथा हि पूर्वाधिकरणे समिधो यजतीत्यादौ अभ्यासात् कर्मभेद उक्तस् तथाऽत्रापि यजत इत्यभ्यासः श्रूयते । ततः कर्मभेदः स्यादेव । न च द्रव्यदेवतयोर भावात् कथमस्य कर्मान्तरविधायकत्वमिति वाच्यम् । ध्रौवादिसद्भावात् । तथोक्तम्–

ध्रौवं साधारणं द्रव्यं देवता मान्त्रवर्णिकी ।

रूपवन्तौ ततो यागौ विधीयेते पृथक्तया ॥ इति ।

द्रव्यं तावच्चतुर्विधम् । ध्रुवायां गृह्णातीत्यसंयुक्तोत्पन्नं ध्रौवाज्यं प्रयोजनापेक्षं द्रव्यापेक्षिणां प्रकरणगतानां सर्वकर्मणामविशेषेणाङ्गं भवत् प्रयाजादीनामिवानयोरपि कर्मणोर्लभ्यते । वचनाद्वा, ‘‘सर्वस्मै वा एतद् यज्ञाय गृह्यते यद् ध्रुवायामाज्यम्’’ इति । देवताया मान्त्र-वर्णिकत्वमित्थमुन्नेतव्यम् । ‘तस्माद् वार्त्रघ्नी पौर्णमास्यामनूच्येते वृधन्वती अमावास्यायाम्’ इति वार्त्रघ््नयौ वृधन्वत्यौ च क्रमेण कालद्वयोपेते कर्मणी विधीयेते । तत्र ‘अग्निर्वृत्राणि जङ्घनत्’ इत्येको वार्त्रघ्नो मन्त्रः । ‘अग्निर्वृत्राणि जङ्घनद् द्रविणस्युर्यदन्यया । समिद्धः शुक्र आहूतः जुषाणो अग्निराज्यस्य वेत्तु । त्वं सोमासि सत्पतिस्त्वं राजोत वृत्रहा । त्वं भद्रो असिक्रतुर् जुषाणः सोम आज्यस्य हविषो वेत्तु’ इत्यपरः । तयोरुक्तावग्नीषोमौ, पौर्णमासी देवता । एवमन्तराम्नातयोर् वृधिधातुयुक्तयोर्मन्त्रयोरुक्तावग्नीषोमावमावास्या देवता । तथा चाभ्यां वाक्याभ्यां पौर्णमास्यमावस्यासंज्ञकयोः कर्मणोरत्र विधानान् मान्त्रवर्णिकी देवतेति द्रव्यदेवतारूपलाभाद् यागान्तरमत्र विधीयते । न च प्रकृतषड्यागानुवाद एव किं न स्यादिति वाच्यम् । विधेयान्तरस्य कस्यचिददर्शनेन विद्वद्वाक्यस्यानर्थक्यापत्तेः । केवलमेतद्वाक्य-स्यैवानर्थक्यमिति न । किन्तु पौर्णमास्यां पौर्णमास्या यजेत । अमावास्यायामावास्यया यजेतेत्येतदपि व्यर्थं स्यात् । न चैतत् कालविषयकम् । यदाग्नेय इत्याद्युत्पत्तिवाक्यैरेव तद्विधानात् । विद्वद्वाक्यविहितस्य यदा च कर्मान्तरविधानं तदा तत्प्रकरणपठिताः सर्वे यागाः फलसम्बन्धात् समप्रधानभूताः । न च फलवाक्यगतं दर्शपूर्णमासपदं यजेतेत्याख्यातावच्छेदकं भविष्यतीति वाच्यम् । अप्रसिद्धार्थत्वात् । कालनिमित्तं द्विवचनान्तं च । तथा च यत्र द्वित्वं कालसम्बन्धश्च तत्र द्विवचनान्तपदप्रवृत्तिः । तदिह यत्राज्यभागयोर्द्वित्वं तत्र प्रातिपदिकम-समर्थम् । यत्र वा आग्नेयादौ कालसंयोगेन प्रातिपदिकं समर्थं तत्र द्विवचनमसमर्थम् । तेषां बहुत्वात् । न च समुदायापेक्षया द्वित्वसम्भव इति वाच्यम् । समुदायः किं पूर्वसिद्धौ गृह्यते अथवा राजसूयवदत्रैव सम्पद्यते? न तावदाद्यः । पूर्वं समुदायसिद्धेरभावात् । समुदायद्वयम् एकावगत्यनुप्रवेशेन वक्तव्यम् । एकाभिधानेन चैकावगतिः । न चाग्नेयादीनां त्रिकस्य त्रिकस्यैकमभिधानं प्राक् सिद्धम् । य एवं विद्वानित्यनेन वा उत्पत्तिवाक्यैर्वा एकाभिधानम्? नाद्यः । तस्यानुवादकत्वानङ्गीकारात् । न द्वितीयः । आग्नेयादिवाक्यस्यैकैककर्मविधायकत्वेन समुदायाभावात् । तस्मादत्रैव समुदायः । एवं च यथा राजसूयेन यजेतेत्यत्र यजिपरतन्त्रेण राजसूयपदेन प्रकरणपठितानां सर्वेषां पशुसोमेष्ट्यादीनां ग्रहणं तथाऽत्रापि फलवाक्ये यजिपरतन्त्रेण दर्शपौर्णमासपदेन सर्वग्रहणे सर्वेषां फलसम्बन्धात् समप्रधानतेति द्विवचनानु-पपत्तिः । न च दर्शपौर्णमासशब्दाभ्यां त्रिकत्रिकग्रहणमिति वाच्यम् । तयोर्यजिपरतन्त्रत्वात् । एवं च द्विवचनं बहुवचनार्थत्वेन नेयमिति ।

सिद्धान्तस्तु– भवेदनयोः कर्मान्तरविधायकत्वं यदि द्रव्यदेवतालक्षणं रूपं लभ्येत । न चैवम् । तत्र द्रव्यस्य ध्रौवाज्यस्य लाभेऽपि देवतायाः सर्वथा लाभाभावात् । न च देवतापि मन्त्रवर्णाल्लभ्यत इत्युक्तमिति वाच्यम् । मन्त्रवर्णयोराज्यभागदेवताप्रतिपादकत्वात् । तथा हि हौत्रकाण्डे सामिधेनीरावाहननिगदं प्रयाजमन्त्रांश्चाम्नाय प्रयाजानन्तरभाविनोराज्यभागयोः क्रमेण वार्त्रघ्नौ वृधन्वत्यौ चाम्नाते । लिङ्गं चाग्निविषयं सोमविषयं च तत्रोपलभ्यते । ततो लिङ्ग-क्रमाभ्यामाज्यभागविषयत्वं मन्त्राणाम् । न च तर्हि वार्त्रघ्नी पौर्णमास्यामित्यादि वाक्य-मनर्थकमिति वाच्यम् । लिङ्गक्रमाभ्यामाज्यभागाङ्गत्वेनाव्यवस्थया प्राप्तानां मन्त्राणां व्यवस्था-मात्रविधायकत्वेन सार्थकत्वात् । व्यवस्थामात्रविधाने च लाघवात् । न तु विद्वद्वाक्य-विहित-कर्मान्तरसम्बन्धः । येन देवता मन्त्रवर्णिका स्यात् । न च देवता कल्प्यत इति वाच्यम् । देवतात्वस्य विधिगम्यत्वात् । न चासत्यां देवतायां द्रव्यमात्रेण यागानुष्ठानमिति वाच्यम् । यागस्वरूपस्य देवताघटितत्वात् । देवतोद्देशेन द्रव्यत्यागस्य यागत्वात् । अतो रूपाभावान्न विद्वद्वाक्यं कर्मान्तरविधयकम् । किन्तर्हि? पूर्वप्रकृताग्नेयादिषु षट्सु त्रिकरूपौ द्वौ समुदाया-वनुवदति । न च कालवाचिभ्यां पौर्णमास्यमावास्याशब्दाभ्यां यागानुवादानुपपत्तिरिति वाच्यम् । तत्कालविहितयोर्यागत्रिकयोरुपलक्षितत्वात् ।

न चानुवादो व्यर्थः । समुदायद्वित्वसिद्धेस्तत्प्रयोजनत्वात् । न च सापि व्यर्थेति वाच्यम् । दर्शपूर्णमासाभ्यां स्वर्गकामो यजेतेत्यस्मिन् फलवाक्ये षड्यागविवक्षया द्विवचननिर्देशार्थत्वात् । तथा हि पौर्णमासीसंयुक्तेन वाक्येनोपपदवशाद् र्पार्णमासीसंयुक्तानां त्रयाणां तन्त्रोणानुवादः । तेनैकानुवादेन त्रयाणामपि तेषामेकसमुदायापत्तिः । तदेकत्वात् पौर्णमासीमित्येकवचनम् । एवममावास्यासंयुक्तेऽपि । ततश्च समुदायसिद्धेः कालयोगाच्चाग्नेयादीनां प्रसिद्धं द्वित्वं दर्शपूर्ण-मासाभ्यामिति द्विवचनान्तं कालयोगि चोपपदं शक्नोत्याख्यातं विशेषे स्थापयितुमिति तेषामेव प्रधान्यमिति द्विवचनापेक्षितसमुदायसिद्धिः समुदायानुवादप्रयोजनमिति नानर्थक्यम् । यदप्युक्तम् अनुवादपक्षे पौर्णमास्यामित्यादि वैयर्थ्यमिति, तदपि मन्दम् । कालविधानासम्भवेऽपि एकैकस्य त्रिकस्य सहप्रयोगार्थत्वात् कथम्? आग्न्येयोपांशुयाजाग्नीषोमीयाणां त्रयाणां पौर्णमासीकाल-विहितानां सहप्रयोगः पौर्णमास्येत्यनेन तृतीयैकवचनान्तेन विधीयते । एवमितरत्रापि । न चोत्पत्तिवाक्येन तत्सिद्धिरिति वाच्यम् । उत्पत्तिवाक्येन हि प्रत्येककालयोगो ज्ञातो, न तु त्रयाणामेककालतेति कथमनयोर्वैयर्थ्यम्? एवं च रूपाभावान्न कर्मान्तरविधिरिति ।

ननु विद्वद्वाक्यस्य कर्मान्तरविधायकत्वाभावेऽपि नानुवादकत्वम् । तयोः कर्मविधाय-कत्वाभ्युपगमात् । न च रूपाभावः । आग्नेयादिवाक्यैरेव विद्वद्वाक्यविहित कर्मानुवादेन द्रव्यदेवतालक्षणगुणविधानसम्भवात् । अग्निहोत्रं जुहोतीति विहिताग्निहोत्रानुवादेन दध्ना जुहोतीत्यनेन गुणविधानवदिति चेन्न । दृष्टान्तदार्ष्टान्तिकयोर् वैषम्यात् । तथा हि दृष्टान्ते हि एकेन वाक्येन एक एव गुणो विधीयते । प्रकृते तु अनेकगुणविधानम् । एवं चैकेन वाक्येन विहितकर्मानुवादेनानेकगुणविध्यसम्भवात् प्रतिगुणं पृथग्विधौ वाक्यभेदः प्रसज्येत । आग्नेयादिवाक्यानां विशिष्टविधायकत्वे विशिष्टविधिरेव । अर्थाद् विशेषणेषु सङ्क्रान्तो भवतीति न विध्यावृत्तिदोषः । तथा हि भावनास्थोऽपि विधिस्तादर्थ्याभेदेन तत्र तत्र सङ्क्रामति । यत्परश्च विधिः स एव विधेयो नान्यः । तद्देशोऽपि तद्यदापूर्वकर्मपरो विधिर्भवति तदा तस्यैकस्यानेक-गुणविशिष्टस्य विधानाद् विशेषणानां चार्थापत्त्या विधिसिद्धेर्नासकृच्छ्रवणदोषः प्रसज्यते । यदा त्वन्यतः प्राप्तं कर्म भवति तदा तस्याविधेयत्वाद् विशेषणपरो भवति । तत्रानेकेषु विशेषणेष्वेकेन विहितेन इतरानाक्षेपात् तत्रापि श्रुत्यैव विधानं कर्तव्यमिति वाक्यभेदप्रसङ्गः । विशेषणान्यपि यानि प्रागेव क्रियान्वयान् मिथः सम्बन्धितया शब्देन प्रतिपादितानि तत्र विनैव विधिना प्रसिद्धसम्ब(द्धा)न्धानि भवन्ति । यथा पशुनेत्येकपदोपात्तानि जातिलिङ्गसङ्ख्या-कारकाणि । तत्र प्रत्ययाभिधेयमेकं प्रधानभूतं कारकम् उपसर्जनीभूतजात्यादि विशिष्टं पदेन प्रतिपादितम् । प्रसिद्धा च कारकशक्तिः । जात्यादीनां प्रमाणान्तरेण विनैव विधिनेति शक्यं प्राप्तकर्मानुवादेनापि तदेकं विधातुम् । अत्र तु आग्नेयोऽष्टादशकपालः पौर्णमास्यामिति, यद्यपि तद्वितस्य सन्निहितद्रव्यवचनत्वात् सामानाधिकरण्यलक्षणशाब्दः सम्बन्धः प्रागेव र्पार्णमासी-सम्बन्धादाग्नेयाष्टाकपालयोर्लभ्यते तथाप्यसौ सम्बन्धः प्रमाणान्तरेणासिद्धत्वाद् अत्रैव विधातव्यः । तं तु विधाय पुनः पौर्णमासीसम्बन्धविधिरिति वाक्यभेदः । न त्वेवं सम्भवति, य आग्नेयोऽष्टाकपालः स पौर्णमास्यामिति । अप्रसिद्धत्वादाग्नेयस्याष्टाकपालस्य । अत एवं वक्तव्यम्– अष्टाकपाल आग्नेयः कर्तव्यः, स च पौर्णमास्यामिति । तथा च वाक्यभेद एव । तस्माद् गुणविध्यसम्भवाद् आग्नेयादिवाक्यैर्विशिष्टकर्मविधिरिति विद्वद्वाक्यमनुवादकमेवेति । किञ्च विद्वद्वाक्यस्यानुवादकत्वमनभ्युपगम्य कर्मान्तरविधित्वे फलवाक्येन प्रकरणपठितसर्वेषां फलसम्बन्धाद् राजसूये पशुसोमेष्टिवत् समप्रधानभावः स्यात् । तथा च प्रयाजादीनां प्रधानत्वाद् आग्नेयादिवत् सौर्यादिविकृतिष्वतिदेशे न स्याद् इत्यनुष्ठानविरोधः स्यात् । तस्मादप्यनुवाद इति । तथा च यथा विद्वद्वाक्यस्य सप्रयोजनानुवादित्वेन स्वार्थपरत्वं तथा जगत्सत्त्वप्रत्यक्ष-स्यापि वादिविप्रतिपत्तिनिरासरूपप्रयोजनवत्त्वाद् अनुवादित्वेऽपि स्वार्थपरत्वं युक्तमेवेति भावः ।

ननु विद्वद्वाक्यस्य स्वार्थपरत्वाभावाद् दृष्टान्त एवासम्मत इत्यत आह ॥ अत एवेति । यतो वाक्यार्थपरत्वमत एवेत्यर्थः । तत्रैव हि वाक्यैकवाक्यता भवति यत्र वाक्यद्वयं प्रात्यात्मिकस्वार्थप्रतिपादनसमर्थं सत् प्रयोजनवशेन परस्परान्वितं भवति । यथाऽङ्गवाक्य-प्रधानवाक्ये । ताभ्यां हि परस्परनिरपेक्षाभ्यामङ्गप्रधानयोर्विहितयोरनन्तरं प्रयोजनवशेन परस्परं प्रयोजनाङ्गाकाङ्क्षावशेनान्वयो भवति । सेयं वाक्यैकवाक्यता । तथा च विद्वद्वाक्यस्य प्रधानवाक्येन वाक्यैकवाक्यतोक्त्यन्यथानुपपत्त्या स्वार्थपरत्वं सिध्यतीति भावः ।

अर्थवादवत् पदैकवाक्यतेति । यथार्थवादाधिकरणे वायुर्वै क्षेपिष्ठेत्यादिवाक्यं प्रमाण-मप्रमाणं वेति सन्दिह्य, आप्रमाणम्, अम्नायस्य क्रियार्थत्वाद् अर्थवादस्याक्रियार्थत्वात्, क्रियोपयुक्तभाव्यकरणेतिकर्तव्यतान्यतराप्रतिपादकत्वाच्च अप्रामाण्यमिति पूर्वपक्षयित्वा विधिना त्वेकवाक्यत्वात् स्तुत्यर्थेन विधीनां स्युरित्यनेन सूत्रेण अर्थवादा विधीनां सम्बन्धिनः स्युः । कुतः? विधिनैकवाक्यत्वात् । केन द्वारेण? स्तुत्यर्थेन प्राशस्त्यलक्षणया स्तुतिरूपेण द्वारेण । क्रियाकरणभाव्येतिकर्तव्यतान्यतराप्रतिपादकत्वात् कथं विधिनैकवाक्यत्वमिति शङ्कायां शाब्दभावनापेक्षितेतिकर्तव्यताप्रतिपादकत्वाद् विधिनैकवाक्यता । अर्थवादं विनापि विध्युद्देशस्य स्वार्थप्रतिपादकत्वेन निराकाङ्क्षत्वात् कथमर्थवादान्वय इत्याशङ्कायां यथा रक्तः पटो भवतीत्यत्र रक्तपददर्शनेन पटे उत्थापिताकाङ्क्षा तथाऽर्थवादपददर्शनेन विध्युद्देशस्योत्थापिताकाङ्क्षया रक्त-पदान्वयवत् प्राशस्त्यलक्षणयाऽर्थवादपदान्वय इति पदैकवाक्यतोक्ता । न च वाक्यार्थ एवार्थ-वादानां लक्षणाऽस्तु । तथा च स्वार्थपरत्वेन वाक्यैकवाक्यतैव स्यादिति वाच्यम् । शक्य-सम्बन्धरूपलक्षणाबीजस्य वाक्येऽसम्भवात् । शक्तेः पदधर्मत्वात् । स्वार्थपरत्वाभावात् । तद्वद् विद्वद्वाक्यस्य स्वार्थपरत्वाभावे पदैकवाक्यतोच्येत । न प्रयाजाद्यङ्गवाक्यवद् वाक्यैकवाक्यतेति भावः । तथा च विद्वद्वाक्यं स्वार्थपरम् । तथा विश्वसत्यत्ववाक्यमपीति ।

ननु दृष्टान्तदार्ष्टान्तिकयोर्वैषम्यम् । विद्वद्वाक्ये सप्रयोजनानुवादित्वम् । प्रकृते च प्रयोजनं न सम्भवति । न च विप्रतिपत्तिनिरास एव प्रयोजनमिति वाच्यम् । अशेषविशेषग्राहिणि प्रत्यक्षे विप्रतिपत्त्ययोगादिति चेत्, भ्रान्तोऽसि । यतो भवानेव प्रत्यक्षे विप्रतिपद्यते, विप्रतिपत्तिर्नास्तीति वदतीति कथं न स्वक्रियाविरोधः? प्रत्यक्षे दोषशङ्कया विप्रतिपत्त्युपपत्तेः । अन्यथा क्षणिकत्व-वादिनः प्रति आत्मस्थायित्वप्रत्यक्षे प्रामाण्यसमर्थनप्रयासानर्थक्यापत्तेः । तस्मात् प्रत्यक्षगृहीतेऽपि दोषशङ्कया विप्रतिपत्तिसम्भवात् तन्निरासार्थं निर्दोषश्रुत्या प्रत्यक्षगृहीतार्थानुवादोपपत्तिरिति । न चैवमग्निर्हिमस्य भेषजमित्यपि नानुवादकं स्वार्थपरं च स्यात् । तत्रापि तादृशप्रयोजनस्य वक्तुं शक्यत्वादिति वाच्यम् । अग्न्यौष्ण्यप्रत्यक्षस्य प्रतिवाद्यसम्मतावेवमेव, न ह्यनुवादकत्वं सर्वान् प्रतीति पुरोक्तम् । किञ्चास्तु वाऽनुवादकता श्रुतेः । तथापि न साऽप्रामाण्यहेतुरित्याह– किञ्चानुवादकत्वेऽपीति ।

नन्वनुवादकत्वे कथं प्रामाण्यम् ? तात्पर्यविषये शब्दः प्रमाणम् । यत्परः शब्दः स शब्दार्थ इत्यभ्युपगमात् । अन्यथा स्वाध्यायविधिग्रहणानुपपत्तेरुक्तत्वात् । न ह्यन्यतः सिद्धेऽर्थे तात्पर्यम् । अतो न सिद्धेऽर्थे प्रामाण्यमिति यदाहुर्भट्टाचार्याः ‘‘अप्राप्ते शास्त्रमर्थवत्’’ इति चेन्मैवम् । एतावता कथं प्रामाण्याभावः, किन्तात्पर्यविषयार्थप्रतिपादकत्वं प्रामाण्यम्? अनाधि-गतार्थगन्तृत्वं वा? अबाधितार्थकत्वं वा? नाद्यः । बौद्धागमादेरपि तात्पर्यविषयार्थप्रतिपादक-त्वात् प्रामाण्यापत्तेः । नापरः । बौद्धशास्त्रादेरप्यनधिगतासत्कारणत्वादिप्रतिपादकत्वात् । यथार्थत्वे सतीति विशेषणे च तावतैव प्रमाणत्वव्यवहारसम्भवेऽनधिगतत्वस्य व्यर्थत्वात् । अत एव स्मृत्यादौ प्रामाणिकानां प्रमाणत्वव्यवहारः । नापि तृतीयः । तस्य सिद्धार्थप्रतिपादकत्वेऽ-प्यक्षतेर् अनुवादकत्वाविरोधित्वात् । भट्टाचार्यवचनं तु सिद्धार्थप्रतिपादकत्वे निष्प्रयोजनत्वं स्यादित्येवं परम् । अत एवाहार्थवदिति । स्वाध्यायविधिग्रहणं च फलवदर्थप्रतिपादकत्व-मात्रेणोपपन्नम् । तच्चान्येनार्थप्रतिपादनेऽप्यक्षतम् । किञ्च त्वन्मते स्वाध्यायविधेरक्षरग्रहणमात्र-पर्यवसिततयाऽदृष्टार्थत्वात् सिद्धार्थप्रतिपादकत्वेऽप्यदृष्टार्थत्वस्यानपायाद् अध्ययनविधिग्रहणो-पपत्तेः । अन्यथाऽग्निर्हिमस्य भेषजमित्यादेः स्वाध्यायविधिग्रहणं न स्यादिति दिक् । किञ्चाय-मनुवादः स्तुत्यर्थो वा, अन्यविधानार्थो वा, निषेधार्थो वेति विकल्प्य क्रमेण दूषयति ॥ किञ्चायमिति । तद्वदत्र विधायकवाक्यान्तराभावादिति भावः । द्वितीयं दूषयति नापीति । अत्र हेतुमाह ॥ विधानायेति । धर्मिसत्तासापेक्षधर्मविधानायेत्यर्थः । तेन वन्ध्यासुतो न वक्तेत्यादौ न व्यभिचार इति ध्येयम् । अप्रमाणवाक्येन विधानायानूदितस्य तात्विकत्वाभावात्, व्यभिचारवारणाय प्रमाणेति । नियममेवानुभवेन द्रढयति ॥ न हीति । अनुभवाप्रमाण्य-मङ्गीकुर्वन्तं प्रत्याह ॥ अनुवाद्यस्येति । तथा च वाक्यप्रामाण्यं न स्यादिति भावः । न चेष्टापत्तिः । अपौरुषेयत्वात् । अन्यथा सत्यं ज्ञानमित्यादेरपि तथात्वं स्यादिति । तृतीयं निराकरोति ॥ नापि नेह नानेति ॥ तत्रैवेति ॥ न च सामान्यतो निषेधस्य किञ्चनेत्यनेन निषेध्यसमर्पणेऽपि विशिष्य निषेधे विशिष्य निषेध्यसमर्पणस्योपयोगात् । विशिष्य निषेध्य-समर्पणार्थमेतस्योपयोग इति वाच्यम् । विशेषनिषेधकमिदमेव वा, अन्यद्वा? नाद्यः । अत्र सामान्यनिषेधस्यैव प्रतीतेः । ‘किञ्चन’ शब्दस्य सर्वनामत्वेन सर्वनाम्नां च प्रातिस्विकरूप-पुरस्कारेणोपस्थापकतया अनेनैव विशिष्य निषेध्यसमर्पणाच्च । विश्वं सत्यमित्यादावपि सामान्याकारेणैव विश्वप्रतीतेश्च । न द्वितीयः । तददर्शनात् । तत्सत्वे वा तत्रैव निषेध्यसमर्पक-पदविशेषसम्भवात् ।

किञ्च निषेधवाक्यस्य न निषेध्यसमर्पकवाक्यान्तरापेक्षा । न सुरां पिबेदित्यादौ सुरां पिबेदित्यादिनिषेध्यसमर्पकवाक्यान्तरापेक्षादर्शनादित्याह । न हीति । न च सर्वत्र तदपेक्षा-भावेऽपि सति सम्भवे प्रकृते त्यागायोग इति वाच्यम् । तदभावेऽपि निषेधोपपत्तौ तस्यार्थान्तर-परत्वस्यैव वक्तव्यत्वात् । अन्यथा वैयर्थ्यापत्तेः । न च वैदिकवाक्यस्य तद्युक्तम् । अदृष्ट-कल्पनापाताच्च । नन्वतिरात्रे षोडशिनं गृह्णातीति वाक्यान्तरप्राप्तस्य वाक्यान्तरेण नातिरात्रे षोडशिनं गृह्णातीत्यनेन निषेधो दृष्ट इति कथमदृष्टकल्पनेति चेन्न । तद्वदेव वस्तुविकल्पापत्तेः । न च सिद्धे वस्तुनि विकल्पायोग इति वाच्यम् । यथाकथञ्चिदसिद्धत्वस्य प्रकृतेऽपि भावात् । सर्वथाऽसिद्धत्वस्य तत्राप्यभावात् । न च ग्रहणाग्रहणवाक्ययोरुभयोरप्राप्तविषयत्वेन तुल्य-बलत्वात् तत्र विकल्पसम्भवेऽपि इह सत्वश्रुतेर्मानान्तरप्राप्तविषयत्वेन निषेधश्रुतेश्चाप्राप्तविषयत्वेन तुल्यबलत्वाभावान् न विकल्प इति वाच्यम् । अत्राप्यप्राप्तविषयत्वस्य पूर्वमुक्तत्वात् । किञ्च भिन्नप्रकरणस्थस्यैतस्य वाक्यस्य भिन्नप्रकरणस्थनिषेधायानुवादकत्वं तदा कल्प्यं यदि स्ववाक्यस्थविधेयं न लभ्येत । सन्निधौ तल्लाभे दूरस्थकल्पनस्याप्रामाणिकत्वादित्याशयेनाह ॥ अत्रेति । तथा च देवप्रमितत्वविधानार्थमयमनुवादः न तु निषेधार्थमिति भावः । एतेन च नेत्यस्य भिन्नपदत्वं प्रकल्प्य आपश्च न प्रमिनन्ति न हिंसन्तीति व्याख्यानमसत् । ‘चन’ शब्द-स्याप्यर्थताया निरुक्तकारादिभिर्व्याख्यातत्वेनैकपदत्वस्य चाध्यापकसम्प्रदायसिद्धत्वेन तद्विरुद्धस्या स्यानादरणीयत्वात् । न चास्य वाक्यस्य स्तुतिपरत्वान्न विधिपरत्वमिति वाच्यम् । तथात्वे निषेधायानुवाद इति त्वदीयमतमपि न स्यात् । स्तुतिपरत्वाभावस्य प्रागेवोपपादितत्वात् । अन्यथा सत्यं ज्ञानमित्यादेरपि तदापत्तेरिति । यत्तन्नेत्यादीत्यत्रादिशब्देन निषेधवाक्यसमीप-स्थत्वादिपरिग्रहः । तदभावेऽपीति । निषेधार्थानुवादलिङ्गाभावेऽपीत्यर्थः । ननु तत् सत्यमिति वाक्यं कथं ब्रह्मसत्वानुवादकम् ? तस्य प्रमाणान्तराप्राप्तत्वादित्यत आह सर्वप्रत्ययवेद्ये चेति । ननु तत्सत्यमित्यादौ ब्रह्मत्वसामानाधिकरण्येन सत्वं बोध्यते । न च तत् प्रत्यक्षप्राप्तम् । प्रत्यक्षं हि घटत्वज्ञानत्वस्फुरणत्वसामानाधिकरण्येन सत्वं गृह्णातीति चेन्न । तर्हि विश्वं सत्यमित्यपि श्रुतिर् विश्वत्वसामानाधिकरण्येन सत्वं गृह्णातीत्यपि समम् । किञ्च प्रत्यक्षं स्फुरणत्वज्ञानत्व-सामानाधिकरण्येन तद् गृह्णाति । स्फुरणत्वमेव न ब्रह्मत्वम् । ततोऽन्यस्य निर्वक्तुमशक्यत्वात् । अपरिच्छिन्नत्वादेरसत्यपि सम्भवात् । तस्मात् कथं न प्रत्यक्षप्राप्तानुवादित्वमिति । किञ्च ब्रह्मत्वसामानाधिकरण्येन सत्वबोधकत्वेऽखण्डार्थत्वभङ्गः । विशिष्टार्थस्यातत्वरूपत्वेनातत्वा-वेदकता च स्यात् । लक्षणया सत्स्वरूपमात्रपरत्वे च प्रत्यक्षेऽपि तस्य स्फुरणेनानुवादकत्वं दुष्परिहरमेव ।

ननु सत् सुखस्मरणम् अज्ञोऽस्मि इत्यादौ सन्मात्रस्फुरणं नास्तीति कथमनुवादकत्वमित्यत आह ॥ अधिकेति । तथा चाधिकस्फुरणेऽपि सत्स्वरूपचिन्मात्रस्यापि स्फुरणेनानुवादकत्वं युक्तमिति भावः । ननु प्रत्यक्षे ब्रह्मशब्दानुल्लेखात् श्रुतौ तु तदुल्लेखात् कथमनुवादकत्वमित्यत आह ॥ ब्रह्मशब्दानुल्लेखेऽपीति । ब्रह्मशब्दार्थविषयस्य श्रौतप्रत्यक्षबोधविषयत्वेनैवानुवाद-कत्वादिति भावः । एवमिति । न च प्रत्यक्षं दुःखसाहचर्येण वैषयिकमेव सुखं गृह्णातीति न ब्रह्मरूपसुखबोधकानन्दश्रुतेर् अनुवादकत्वमिति वाच्यम् । त्वया वृत्येव विषयैरपि ब्रह्मसुख-मेवाभिव्यज्यत इत्यङ्गीकारेण वैशेषिकसुखाभावात् । सुप्तौ च वैषयिक सुखाभावेन स्वरूप-सुखानुभवस्यैवाङ्गीकृतत्वाच्च ।

किञ्चैवमिति । ननु भावाभावयोः परस्परविरुद्धत्वे समेऽपि भावग्रहो नाभावग्रहमपेक्षते, निरपेक्षत्वात् । अभावग्रहस्तु भावग्रहमपेक्षते, सप्रतियोगिकत्वात् । एवं च सत्वस्य भाव-रूपत्वात् श्रु(तच्छ्रु)तेर्न नेहनानेति श्रुत्यपेक्षा । नेह नानेति श्रुतेस्तु तदभावश्रुतित्वात् श्रुत्यपेक्षा । अन्यथाऽन्योन्याश्रयापत्तेरिति चेन्मैवम् । सत्वस्यासत्वाभावरूपत्वेन सत्वश्रुतेर्नेहनानेति श्रुति-सापेक्षत्वात् । अत एवोक्तं प्राक् सार्वदेशिकत्रिकालनिषेधप्रतियोगित्वाभाव एव सत्वमिति । न चैवमन्योन्याश्रयः । सार्वदेशिकनिषेधप्रतियोगित्वरूपत्वेनासत्वस्य भावरूपत्वात् । यथा चैतत् तथोपपादितमधस्तात् । अस्तु वा भावरूपं सत्वं, तथापि नेहानानेति श्रुत्यपेक्षाऽस्त्येव । विशेषविधेः शेषनिषेधाभ्यनुज्ञाफलत्वात् । एवं च पदार्थीभूतसत्वबोधार्थं नेहनानेति श्रुत्यपेक्षा-भावेऽपि फलीभूतासत्वनिषेधबोधार्थं तदपेक्षेति नेह नानेति श्रुतेरनुवादकत्वोपपत्तेः । अतोऽपि नान्योन्याश्रयः । सत्वश्रुत्या स्वफलज्ञानार्थं तदपेक्षणेऽपि स्वार्थज्ञानार्थं तदनपेक्षणात् । किञ्च नेह नानेति श्रुत्या प्रत्यक्षप्राप्तघटादेरेव निषेधः क्रियते? ब्रह्मातिरिक्तस्य सर्वस्य वा? नाद्यः । सर्वमिथ्यात्वासिद्धेः । न द्वितीय इत्याह ॥ किञ्चेति । ननु शब्देनैव प्राप्तिर्भविष्यतीत्यत आह ॥ शब्दप्राप्तस्य चेति । तथा च यथा न हिंस्यादिति श्रुतिः सामान्यप्राप्तहिंसानिषेधेन चरितार्था, अग्नीषोमीयादि वाक्यप्राप्तिं नापेक्षते । अन्यथाऽग्नीषोमीयादेर्निषिद्धत्वेनाधर्मसाधनत्वं स्यात् । तथा नेह नानेति वाक्यमपि सामान्यप्राप्तगुणगुण्यादिभेदं निषेधति न तु वाक्यान्तर-प्राप्तविश्वसत्यत्वमपि । अन्यथा बाधितार्थकत्वे तस्याप्रामाण्यं स्यादिति भावः ।

ननु वैषम्यं दृष्टान्तदार्ष्टान्तिकयोः । तथा हि दृष्टान्ते ह्यग्नीषोमीयवाक्ये निषेधसमान-विषयत्वाभावात् स्वार्थे तात्पर्यवत्त्वाच्च न निषेधवाक्यशेषता । विश्वसत्ववाक्यस्य निषेध-समानविषयत्वात् स्वार्थे तात्पर्यरहितत्वाच्च निषेध्यसमर्पणद्वारा निषेधवाक्यशेषतैवोचितेति चेन्न । प्रकृतेऽपि समानविषयत्वस्यासिद्धेः । नेह नानेति श्रुतेः प्रकृतेश्वररूपभेदनिषेधविषय-त्वात् । सत्वश्रुतेश्च विश्वसत्वविषयत्वात् । तात्पर्यराहित्यं चासिद्धम् । बाधकाभावात् । अन्यथाऽग्नीषोमीयवाक्यस्यापि तात्पर्यं न स्यात् । तत्रापि न हिंस्यादित्यस्य बाधकत्वात् । तत्र तस्याबाधकत्वे प्रकृते नेहनानेति वाक्यस्यापि बाधकत्वं न स्यात् । तस्माद् यथा न हिंस्यादिति विहितेतरपरं तथा नेहनानेत्यपीति भावः । भेदश्रुतेरुपपादितमननुवादकत्वमुपसंहरति ॥ तस्मादिति ।

न्यायामृतप्रकाशः

यथा षड्विंशतिरस्य वङ्क्रय इति ॥ नवमेऽध्याये चतुर्थपादे चिन्तितम् । अग्निष्टोमीय-पशौ श्रूयते ‘‘षड्विंशतिरस्य वङ्क्रयस् ता अनुष्ट्योच्यावयतात्’’ इति । अस्यायमर्थः । अग्निष्टोमीयपशोर्वङ्क्रयः पार्श्वस्थास्थीनि षड्विंशतिसङ्ख्याकानि । एकैकस्मिन्पार्श्वे त्रयोदशा-नामवस्थितत्वात् ताश्च वङ्क्रीर् अनुष्ठ्याऽनुक्रमेण गणयित्वेति यावद् उच्यावयताद् उद्धरता-दिति । षड्विंशति वङ्क्रिकपशुयुताग्नीषोमीयप्रकृतिकेऽश्वमेधे श्रूयते । ‘‘चतुस्त्रिंशद्वाजिनो देवबन्धोर्वंक्रीरश्वस्ये’’ति । तथा ‘‘न चतुस्त्रिंशदिति ब्रूयात् षड्विंशतिरित्येव ब्रूयादि’’ति च । तत्र सन्देहः किं चोदकप्राप्तस्य षड्विंशतिरिति मन्त्रस्य बाधोस्त्युतनेति । तत्राश्वमेधे ‘‘प्रकृतिवद्विकृतिः कर्तव्ये’’ति चोदकेन षड्विंशतिरिति मन्त्रप्राप्तौ चतुस्त्रिंशदिति वैशेषिक-मन्त्रस्य प्रेषणपठितस्य बाधायोगाच्चोदकप्राप्तस्यैव बाध इति प्राप्ते ‘‘षड्विंशतिरित्येव ब्रूयादि’’ति प्रतिप्रसवसद्भावादपवादस्यापवादे पुनरुत्सर्गस्यैवावस्थितिरिति न्यायेन चोदक-प्राप्तः षड्विंशतिरस्येति मन्त्र एव प्रयोक्तव्यः । अतो न तस्य बाधः । चतुस्त्रिंशदित्यस्य तु मन्त्रस्यास्मात्प्रकरणात्स्थानान्तरं प्रत्युत्कर्षः कार्य इति सिद्धान्तः ।

ननु षड्विंशतिरित्येव ब्रूयादित्यत्र, न तु चतुस्त्रिंशदितीतरनिषेधकैवकारश्रवणेन चोदक-प्राप्तमन्त्रापवादकवैशेषिकमन्त्रप्रतीतस्य बाधकत्वमस्तु । विश्वं सत्यमित्यादौ तु निषेधा-श्रवणात्कथं प्रत्यक्षप्राप्तसत्यतापवादकनिषेधरहिताद्वैतश्रुतिबाधकत्वमित्यत आह ॥ दृश्यन्ते हीति ॥ ‘‘असंयोगाल्लिट् किदि’’ति कित्वविधिसन्निधिपठितस्य निषेधरहितस्य ‘‘मृडमृद-गुधकुषक्लिशवदवसः क्त्वा’’ इति सूत्रस्य ‘‘न क्त्वा सेट्’’ इति कित्वापवादकं प्रति यथा बाधकत्वं तथा विश्वं सत्यमित्यादेर्निषेधविधुरस्यापि सत्त्वग्राहिप्रत्यक्षापवादकाद्वैतश्रुतिबाध-कत्वं युक्तमित्यर्थः । यथोक्तं–

‘‘कित्वं हि क्त्वो निजं यन्न क्त्वा सेडिति निराकृतम् ।

मृडेत्यादिविधानं तु पुनरुज्जीवयत्यदः’’ इति ।

क्त्वः=क्त्वाप्रत्ययस्य, हि यस्मात्कित्वं, निजं=स्वाभाविकमेवास्ति ततो मृडेत्यादिना क्त्वाप्रत्ययस्य कित्वकथनमयुक्तं तथापि न क्त्वासेडिति यत्कित्वं निराकृतं तद्बाधकं मृडेत्यादिविधानम् अदः=कित्वं पुनरुज्जीवयतीत्यर्थः ।

‘‘स्वत एव कितः क्त्वायाः किद्वाचोऽनर्थकत्वतः ।

सेटः क्त्वायाः किन्निषेधनिषेधार्थत्वमास्थितम् ॥’’

इत्यपि पठन्ति । सङ्गृह्णाति ॥ तस्मादिति ॥ प्रत्यक्षाविषये धर्मिणि सत्यत्वबोधनाय धर्मिभेदः, विप्रतिपत्त्यादिना प्रत्यक्षेण येन सत्त्वं न गृहीतं तत्र तद्बोधनाय प्रमातृभेदः, प्रत्यक्षगृहीतव्यावहारिकसत्त्वभिन्नाव्यावहारिकसत्त्वरूपधर्मग्रहाय धर्मभेदः । आदिपदेन दार्ढ्यार्थत्वप्रतिप्रसवयोर्ग्रहणम् । न हिंस्यादित्यहिंसावाग्वद्धर्मिभेदः । भिन्नशाखावाग्वद् एकार्थकनानाशाखागतवाग्वत् प्रमातृभेदः । द्विप्रणयनादिवद् धर्मभेद इति विवेकः । प्रमाणम् अबाधितार्थग्राहकमित्यर्थः ॥ तद्बाध इति ॥ विरुद्धयोर्द्वयोरप्यबाधितार्थत्वानुपपत्तेरित्यर्थः ॥ न चेदिति ॥ प्रमितप्रमापकत्वाभावादित्यर्थः । अननुवादकत्वमेव दर्शयति ॥ श्रुतेरिति ॥ अननुवादकत्वोपपादनाय प्रत्यक्षाप्राप्तेत्युक्तम् । सदर्थत्वोपपादनाय तात्विकसत्त्वेत्युक्तमिति यथायोग्यं सम्बन्धो द्रष्टव्यः ।

प्रमाणस्याप्यप्रमाणप्राप्तानुवादकत्वमस्त्वित्यत आह ॥ न हीति ॥ येन भ्रमप्राप्तानु-वादकत्वं प्रमाणस्य स्यादिति भावः ॥ यथेति ॥ द्वैतग्राहिप्रत्यक्षम् अद्वैतश्रुतिविषयापहारकं यथा न भवति दुर्बलत्वात् तथा द्वैतश्रुत्यर्थं भेदमपि नोपहरेन् न प्रापयेत् । कारिकार्थ-मेवाह ॥ प्रत्यक्षमित्यादिना ॥ पूर्वं प्रमाणत्वे दोष उक्त इदानीं तन्निश्चये दोष उच्यत इति भेदः । तदेव विशदयति ॥ स्वप्रामाण्येति ॥ नन्वेवं चेत्स्पार्शनप्रत्यक्षेण हिमभेषजत्वरूपो यस्तस्य गृहीतत्वात्तत्प्रतिपादकाग्निर्हिमस्य भेषजमिति श्रुतेरनुवादकत्वं सर्वसम्मतं न स्यात् । तत्रापि प्रत्यक्षस्य दुर्बलत्वेनाग्निर्हिमस्य भेषजमिति श्रुतिविषयापहारकं न भवति स्वप्रामाण्य-निर्णयाय श्रुतिसंवादापेक्षं सन् न श्रुत्यनुवादकत्वापादकमिति वक्तुं सुशकत्वादित्यत आह ॥ अग्न्यौष्ण्येति ॥ प्रमाणाप्रमाणयोरेक विषयकत्वाभावेनापूर्वताऽप्राप्त्या विधायकमेव तन्नानु-वादकमिति भावः ॥ अन्यथेति ॥ विश्वसत्यत्वश्रुतेः प्रत्यक्षप्राप्तसत्यत्वानुवादकत्व इत्यर्थः । ननु ब्रह्मसत्त्वस्याप्राप्तत्वात्कथमनुवादकत्वमित्यत आह ॥ ब्रह्मसत्त्वस्येति ॥ लोकत इति ॥ सत् सुखस्फुरणमिति प्रत्यक्षेणेत्यर्थः । न च ब्रह्मत्वसामानाधिकरण्येन सत्त्वं न प्रत्यक्ष-सिद्धमिति वाच्यम् । स्फुरणत्वस्यैव ब्रह्मत्वादिति भावः ॥ भ्रमेति ॥ यद्भ्रमादिष्ठानं तत्सदिति दर्शनाज् जगद्भ्रमाधिष्ठानं ब्रह्म सदिति त्वद्रीत्याऽनुमानेनेत्यर्थः । विश्वमिथ्यात्व-प्रतिपादिकाया नेह नानेति श्रुतेरनुवादित्वमुपपादयति ॥ विश्वेति ॥ नन्वनादिश्रुतेः कथं वादिप्राप्तानुवादित्वमित्यत उक्तम् ॥ प्रवाहानादीति ॥ यथोक्तं ‘‘अनादिकालतो वृत्ता-स्समया हि प्रवाहतः’’ इति । तस्य वेदमूलकत्वेन वेदानुप्रवेशेन वेदस्य न तत्प्राप्तानुवादकत्वमत उक्तम् ॥ अवेदमूलेति ॥

नन्वनुवादप्राप्तानुवादकत्वं श्रुतेः कुत्रापि न दृष्टमिति चेत्तत्राह ॥ उक्ता हीति ॥ प्रमाणलक्षणे ‘‘तदर्थशास्त्रादि’’ति सूत्र इत्यर्थः ॥ तदर्थेति ॥ तदर्थं श्रुतिविनियोगार्थं यच्छास्त्रं तत् तदर्थशास्त्रं ब्राह्मणं तस्येत्यर्थः । ‘‘उरु प्रथस्व उरु ते यज्ञपतिः प्रथतामिति पुरोडाशं प्रथयतीति’’ श्रूयते । तत्र उरुप्रथस्वेतिमन्त्रविनियोजकं यत् ‘‘इति पुरोडाशं प्रथयती’’ति ब्राह्मणवाक्यं तदनुवादकं न वेति सन्देहे अननुवादकमेव, अन्यथा वैयर्थ्यापत्ते-रिति प्राप्ते पुरोडाशप्रथनाभिधानरूपमन्त्रगतिलिङ्गेन पुरोडाशप्रथनरूपेऽर्थे उर्विति मन्त्र-विनियोगस्य सिद्धत्वात् ‘‘इति पुरोडशं प्रथयती’’ति ब्राह्मणरूपतदर्थशास्त्रस्यानुवादकत्वं युक्तमित्यर्थः । तर्हि वैयर्थ्यमिति न वाच्यम् । उच्चारणमात्रेणादृष्टार्थत्वादिति प्रथमाध्यायस्य द्वितीयचरणेऽभिहितम् । उक्तं च शास्त्रदीपिकायां

‘‘यदि दृष्टार्थतैव स्यान्मन्त्राम्नानमनर्थकम् ।

प्रत्यायनाददृष्टं चेत्तदुच्चारणतो वरम्’’ ॥ इति ।

अनुवादकत्वभिया श्रुतेरपूर्वार्थत्वं त्वयाप्यङ्गीकृतमित्याह ॥ उक्ता चेति ॥ एव-मनुवादित्वमुक्त्वा ब्रह्मपरत्वमुक्तमित्याशयः ।

किञ्च सत्त्वश्रुतेः सापेक्षानुवादित्वं वा निरपेक्षानुवादित्वं वा । नाद्य इत्याह ॥ किञ्च सत्त्वश्रुतेरिति ॥ द्वितीये त्वाह ॥ निरपेक्षेति ॥ धारावाहिकेति ॥ उत्तरज्ञानेन स्वार्थे विषयीकरणीये न पूर्वज्ञानापेक्षा । पूर्वज्ञानगृहीतार्थविषयकत्वमात्रेणानुवादकत्वं त्वस्ति तन्ना-प्रामाण्यकारणं तद्वदिति भावः । न प्रमितिर् अप्रामाण्यं, दैवादनुवादे=निरपेक्षानुवादे, धारावाहिकवत् प्रामाण्यमित्यर्थः । न च धारावाहिकस्थलेऽपि विशेषणज्ञानापेक्षेति वाच्यम् । आद्यविशेषणज्ञानस्यैकस्यैव उत्तरभाविसर्वविशिष्टज्ञानहेतुत्वोपपत्तेः । अतो निरपेक्षानुवाद-कत्वं धारावाहिकस्थल इति सम्प्रदायः । संवादः निरपेक्षानुवादकत्वम् । अर्थवादाद् अनुवादाद् अनुवादवाक्यात् प्रसिध्द्यतीति । तथा च प्रामाण्यमेवेति भावः । निरपेक्षानु-वादित्वमेवोपपादयति ॥ द्वयोरिति ॥ संवादसंवादिप्रमाणयोः परस्परानपेक्षयोरेवैकत्रार्थे प्रवृत्तेः । तत्र दृष्टान्तः ॥ प्रत्यक्षेति ॥ प्रमात्रिति ॥ प्रमाणयोः परस्परनिरपेक्षतयैव स्वार्थ-प्रतिपादकत्वान्नानुवादकत्वेनाप्रामाण्यं, प्रमात्रपेक्षया प्राप्तमनुवादकत्वं त्वस्त्वित्यर्थः । तदुपपादयति ॥ प्रमाता हीति ॥ व्युत्पत्त्यनन्तरमर्थावगमे तं प्रति प्रत्यक्षादिसिद्धार्थबोधक-तयाऽनुवादकत्वं स्यादेवेत्यर्थः । तथा च निरपेक्षानुवादित्वं त्वप्रामाण्यसाधकं न भवतीति वाचस्पतेः सम्मतमिति फलितोऽर्थः । किञ्च सत्त्वश्रुतेर्निष्प्रयोजनानुवादित्वं सप्रयोजनानु-वादित्वं वा । नाद्य इत्याह ॥ वादीति ॥ द्वितीये त्वाह ॥ सप्रयोजनेति ॥

मीमांसकैरिति ॥ द्वितीयाध्याये द्वितीयपादे चिन्तितम् । ‘‘प्रकरणं तु पौर्णमास्यां रूपावचनात्’’ इत्यत्र यदाग्नेयोऽष्टकपालोऽमावास्यायां पौर्णमास्यां चाऽच्युतो भवति तावब्रूतामग्नीषोमावाज्यस्यैव नावुपांशु पौर्णमास्यां यजेन्नैन्द्रं दधि अमावास्यायाम्’’ इति । तत्राग्नेय ऐन्द्रं दधि ऐन्द्रं पय इत्यमावास्याकालसम्बन्धि यागत्रिकं, आग्नेय आज्यभाग उपांशुयागश्चेति पौर्णमासीकालसम्बन्धि यागत्रिकं विहितम् । एतत्सन्निधौ ‘‘य एवं विद्वान्पौर्णमासीं यजते, य एवं विद्वानमावास्यां यजते’’ इति वाक्यद्वयं श्रुतम् । तथा दर्शपौर्णमासाभ्यां स्वर्गकामो यजेतेति श्रुतम् । तत्र य एवं विद्वानिति विद्वद्वाक्ये सन्देहः । य एवं विद्वानिति वाक्याभ्यां पौर्णमास्यामावास्यासंज्ञकौ यागान्तरौ विधीयेते उत पूर्वप्राप्ता-मावास्यात्रिकपौर्णमासत्रिकानुवाद एव क्रियते इति सन्देहेऽनुवादस्य व्यर्थत्वाद् अपूर्व-यागान्तरविधायकाविति पूर्वपक्षे, पूर्वप्राप्तषड्यागानुवादित्वमेव । न चैवं प्रयोजनाभावादनु-वादित्वमिति वाच्यम् । पूर्वप्राप्तदर्शपौर्णमासानुवादेन फलविधायके ‘‘दर्शपौर्णमासाभ्या’’-मिति वाक्ये द्विवचनप्रयोगोऽस्ति । स च पूर्वप्राप्तषड्यागेष्वयुक्तो ऽतःफलवाक्ये द्विवचनेन सम्यग्व्यवहारोपपत्त्यर्थं षण्णां यागानां द्वित्वं सम्पाद्यतेऽनेन वाक्येन । अमावास्यापौर्णमास्या सम्बन्धिन आग्नेयादिषड्यागान् त्रिकत्वेन त्रिकत्वेनैकीकृत्य ‘‘य एवंविद्वान्पौर्णमासीं यजते अमावास्यां यजते’’ इत्युक्तमिति सिद्धान्तितम् ॥ समुदायेति ॥ षड्यागरूपसमुदायस्य द्वित्वापादनरूपप्रयोजनसद्भावादित्यर्थः । तदपि द्वित्वापादनं दर्शपौर्णमासाभ्यामिति फल-वाक्ये द्वित्वापपत्त्यर्थमिति ज्ञातव्यम् । एवं च र्पार्णमासामावास्यायागसमुदायस्य विद्वद्वाक्य-निष्पन्नार्थस्य दर्शाख्येन समुदायेन पौर्णमासाख्यसमुदायेन ‘‘फलकाम इष्टिं कुर्यात्’’ इति फलवाक्येनान्वयाद्विद्वद्वाक्यस्य फलवाक्येनैकवाक्यत्वमुक्तमित्यर्थः ॥ स्वार्थेति ॥ यथा ‘‘वायुर्वै क्षेपिष्ठा देवते’’त्यादिनाम् अवान्तरप्राप्तमनुवदताम् अनुवाद्यस्वार्थे तात्पर्याभावेनावान्तर वाक्यार्थमनादृत्य पदप्रतिपाद्यालम्भने प्राशस्त्यबोधकतया तदेकवाक्यतोच्यते तथा विद्व-द्वाक्येऽपि फलवाक्योक्तद्वित्वसम्पादनेनानुवाद्यस्वार्थपरत्वाभावे ‘‘स्वर्गकामो यजेत’’ इति वाक्ये यजेतेति पदप्रतिपाद्ययागरूपार्थप्राशस्त्यबोधकतया पदैकवाक्यतैवोच्येतेत्यर्थः ।

किञ्चायमनुवादः स्तुत्यर्थो वाऽन्यविधानार्थो वा निषेधार्थो वा । नाद्य इत्याह ॥ किञ्चायमिति ॥ विश्वं सत्यमित्यनुवाद इत्यर्थः । ‘‘वायव्यं श्वेतमालभेत, भूतिकामो वायुर्वै क्षेपिष्ठा देवता’’ इत्यादौ इत्थं वायव्यश्वेतपश्वालम्भः प्रशस्तः यतः शीघ्रगामिनी वायुदेवते-त्यादिवत् स्तुतेरत्राभावादित्यर्थः । नापि द्वितीय इत्याह ॥ नापीति ॥ ‘‘दध्ना जुहोती’’-त्यत्र जुहोतीति यत्तद्दध्नेति दधिरूपगुणविधानाय जुहोत्यनुवादो यथा तथाऽन्यविधानार्थो न भवतीत्यर्थः । कुतो नेत्यत आह ॥ विधानायेति ॥ कुतोऽयं नियम इत्यत आह ॥ न हीति ॥ व्रीहीनिति प्रमाणवाक्यं प्रत्यक्षप्राप्तव्रीह्यनुवादेन प्रोक्षणं विधत्ते । एवं च प्रमाणानूदितस्य व्रीह्यादेस्तात्विकत्वनियमान्नारोपितत्वमित्यर्थः । आद्यादिपदेन दध्ना जुहो-तीत्यादेर्ग्रहणम् । द्वितीयादिपदेन होमादेरिति ज्ञेयम् । अस्त्वारोपितव्रीह्यादेरेव धीरित्यत आह ॥ अनुवाद्यस्येति ॥ अनुवाद्यस्यासत्त्वेऽनुवाद्यविधेयसंसर्गरूपवाक्यार्थो बाधितः स्यादित्यन्वयः । तत्र दृष्टान्त आश्रयासिद्धावित्यादि । नापि तृतीय इत्याह ॥ नापीति ॥ तत्रैवेति ॥ नेह नानास्ति किञ्चनेति वाक्ये किञ्चनेत्यनेनैव सर्वानुवादोपपत्तेस्तदर्थं पृथक् विश्वं सत्यमिति वाक्यान्तरमनपेक्षितमित्यर्थः । तदेव दृष्टान्तेनोपपादयति ॥ न हीति ॥ वाक्यान्तरम् अनुवादकभूतम् । तत्र सुरामित्यस्यैवानुवादकांशत्वादिति भावः । किञ्च नेहनानेति निषेधार्थोऽयमनुवादो न भवति किंनाम विधानार्थ एव । विश्वं सत्यमिति वाक्ये एव, वां व्रतं तत्सर्जनादिकं, आपश्चन आपोऽपि सर्वदेवता अपि प्रमिनन्ति जानन्तीत्येवं पारमेश्वरसृष्ट्यादेस्सत्यत्वेन ज्ञानं सर्वदेवानामप्यस्तीति सर्वदेवसम्बन्धितादृशज्ञानरूपस्या-लौकिकप्रमाणस्योक्तेरित्याह ॥ अत्र चेति ॥ विश्वं सत्यमिति वाक्य इत्यर्थः ॥ यत्तन्ने-तीति ॥ यत् तन्नेत्येवं निषेधार्थानुवादलिङ्गस्य एकस्याप्यभावादित्यर्थः । तदभावेऽपि तदनुवादलिङ्गाभावेऽपि । ननु तत्सत्यमित्यादिवाक्यं न ब्रह्मसत्तानुवादकम् । तस्या मानान्तराप्राप्तत्वादित्यत आह ॥ सर्वेति ॥ व्यवस्थिते अनुस्यूते । तथा च ब्रह्मणः सर्व-प्रत्ययवेद्यत्वेन सन्घट इत्यत्र ब्रह्मसत्त्वस्य प्रत्यक्षेण प्राप्तत्वात्तत्सत्यमित्यादेरनुवादकत्वं युक्त-मित्यर्थः । विशिष्टस्यैव सर्वप्रत्ययवेद्यत्वं न शुद्धस्येति शङ्कामपाकर्तुमुत्तरार्धः प्रवृत्तः । प्रपञ्चविलयाधिष्ठानत्वेन सर्वप्रत्ययवेद्यस्य शुद्धत्वादिति भावः ॥ परागर्थेति ॥ घटज्ञानस्य ब्रह्मज्ञानत्वोपपादनायेदं वाक्यान्तरम् । परागर्थाः प्रत्यगर्थास् तद्रूपाणि यानि प्रमेयानि तेषु फलभूता या संविद् घटादिभासकं चैतन्यं तदेव वेदान्तवाक्यरूपप्रमाणस्य प्रमेयम् । तथा च घटज्ञानस्य ब्रह्मज्ञानत्वात्सत्पटज्ञानमित्यत्र ब्रह्मसत्ता प्रतीयत इत्यर्थः । ननु घटावच्छिन्न-चैतन्यरूपे ब्रह्मणि सत्त्वप्रतीतावपि न शुद्धे तत्प्रतीतिरित्यतस्तदङ्गीकृत्य दूषणान्तरमाह ॥ सदिति ॥ तत्प्रतीतौ ब्रह्मसत्ताप्रतीतौ । कुत इत्यत आह ॥ शुद्धेति ॥ अज्ञोऽस्मीत्यत्र कथं ब्रह्मसत्ता प्रतीयत इत्यत आह ॥ अज्ञानादीति ॥ अज्ञोऽस्मीत्यस्याज्ञानं मय्यस्तीत्यर्थः । तथा चाऽज्ञानाधिष्ठानचैतन्ये अस्तीति सत्ता प्रतीयत इत्यर्थः । नन्वत्रापि विशिष्टेऽज्ञान-विशिष्टे च सत्ता प्रतीयते न केवले इत्यत आह ॥ अधिकेति ॥ चिदस्फुरणाभावादिति ॥ विशिष्टे विशेष्यांशसद्भावादिति भावः ।

ननु सत्सुखस्फुरणमित्यादौ ब्रह्मशब्दोल्लेखाभावेन ब्रह्मणि सत्त्वं न प्रतीयत इति चेत्तत्राह ॥ ब्रह्मशब्देति ॥ यत्र ब्रह्मशब्दोल्लेखोऽस्ति ‘सत्यं ज्ञानमनन्तं ब्रह्मे’’ ति तत्रापि ब्रह्मणि सत्त्वं न प्रतीयत एव । ‘‘अथ कस्मादुच्यते ब्रह्मेति बृहन्तो ह्यस्मिन्गुणाः’’ इति श्रुतेर्ब्रह्मशब्दस्य गुणविशिष्टवाचित्वात्तस्य च मिथ्यात्वेन तत्र सत्यत्वबोधनस्य बाधिततया लक्षणया ब्रह्मचैतन्यमात्रपरत्वमेवाङ्गीकृतम् । वेदान्तानामखण्डार्थनिष्ठत्वेन वेदान्तवाक्य-बोध्यार्थस्य ब्रह्मणोऽखण्डत्वाङ्गीकारात् । यदा ब्रह्मशब्दोल्लेखस्थले इत्थङ्गतिस्तदा सत्सुख-स्फुरणं मय्यज्ञानमस्तीत्यत्रापि ब्रह्मशब्दोल्लेखाभावेऽपि सुखाज्ञानविशिष्टे सत्ताया बाधितत्वेन लक्षणयाऽखण्डार्थनिष्ठवेदान्तवाक्यबोध्यं यद्ब्रह्मचैतन्यं तत्सत्त्वमेव प्रतीयते । विशिष्टे विशेष्यांशसद्भावादित्येव वक्तव्यमिति भावः ॥ प्रत्यक्षेति ॥ सुखं सुप्तोऽस्मीति साक्षि-प्रत्यक्षेत्यर्थः ॥ किञ्चैवमिति ॥ अबाध्यत्वरूपो यो बाधनिषेधस्तदर्थमित्यर्थः । विज्ञान-वादिरीत्या प्राप्तं यत्प्रतिपन्नोपाधौ निषेधप्रतियोगित्वरूपं बाध्यत्वं तन्नेह नानेति वाक्येनाऽ-नूद्य विश्वं सत्यमिति वाक्येनाऽबाध्यत्वरूपबाधनिषेधे प्रतिपादिते बाध्यत्वं निषिध्यत इत्यपि स्यादित्याशयः ॥ स्वर्गनरकादेरिति ॥ स(त्य)त्वस्येति शेषः । विश्वान्तर्गतातीन्द्रिय-धर्मादिपदार्थसत्यत्वस्य प्रत्यक्षादिनाऽप्राप्तत्वेऽपि शब्दत एव प्राप्तिसम्भवाच्छब्दप्राप्तधर्मादि-सत्यत्वं नेह नानेति निषेधाय विश्वं सत्यमित्यनेनाऽनूद्यत इत्यत आह ॥ शब्देति ॥ अति-प्रसङ्गान्तरमाह ॥ सत्यमिति ॥ अनुवादित्वनिराकरणमुपसंहरति ॥ तस्मादिति ॥

न्यायकल्पलता

यथा षड्विंशतिरस्येति । नवमे चतुर्थपादे चिन्तितम् । ‘‘तत्प्रतिषिद्ध्यप्रकृतिर्नियुज्यते सा चतुस्त्रिंशद्वाच्यत्वात्’’ । अग्निषोमीये पशौ – देव्याः शमितार आलभध्वमित्यादिरूपोऽध्रिगु-संज्ञकः प्रैषोऽस्ति । तस्मिन्प्रैषे षड्विंशतिरस्य वङ्क्रय अनुष्ठ्योच्यावयताद् इति मन्त्रोऽस्ति । अश्वमेधे अश्वस्तूपरागो मृग इति प्राजापत्यास्त्रयः पशवः सन्ति । तत्प्रकरणे च ‘‘चतुस्त्रिंश-द्वाजिनो देवबन्धोर्वङ्क्रीरश्वस्य स्वधितिः समेति’ इति वैशेषिको मन्त्रोऽस्ति । आश्वमेधिकस्याश्व-पशोरग्निषोमीयपशुविकारत्वेन ततः षड्विंशतिपदोपेतमन्त्रविशिष्टोऽध्रिगुश्चोदकात्प्राप्नोतीति तन्मध्यप(ति)ठितः षड्विंशतिरस्येति मन्त्रोऽपि चोदकादश्वमेधे प्राप्तः । तस्य चाश्वमेधिक-वैशेषिकमन्त्रेण चतुस्त्रिंशत्पदोपेतेनापवादप्रसक्तौ सत्यामश्वमेधप्रकरण एव ‘‘न चतुस्त्रिंशदिति ब्रूयात् षड्विंशतिरित्येव ब्रूयात्’’ इति पठ्यते । तत्र संशयः । किमश्वमेधप्रकरणे पठित एव वैशेषिकमन्त्रोऽश्वपशौ पठनीय इति चोदकप्राप्तमन्त्रस्य सर्वथा निवृत्तिरुत न निवृत्तिरिति । तत्र चतुस्त्रिंशदित्यादिवैशेषिकमन्त्रस्य प्रकरणपठितस्य बाधायोगात्तेन चोदकप्राप्तस्यैव बाधः । न च वैशेषिकमन्त्रस्यापि न चतुस्त्रिंशदिति ब्रूयादित्यादिना बाध इति वाच्यम् । तस्य चतुरस्त्रिंश-द्वाजिनो देवबन्धोरित्यस्यामृचि चतुस्त्रिंशत्पदमुत्कृष्य षड्विंशतिपदं प्रक्षेपणीयमित्यर्थवत्वोपपत्तेः । अतश्चोदकप्राप्तस्य सर्वथा बाध एवेति प्राप्ते प्रकरणपठितायामृचि चतुस्त्रिंशत्पदप्रतिषेधेन तत्र तत्स्थाने षड्विंशतिपदप्राप्तौ प्रमाणाभावात्षड्विंशतिरित्येव ब्रूयादिति तदनुवादासम्भवात् तस्यापि विधौ वाक्यभेदापत्तेरेकवाक्यत्वनिर्वाहाय न चतुस्त्रिंशदित्यनेन वैशेषिकीमृचं प्रतिषिध्य षड्विंशतिरित्येव ब्रूयादित्यनेन निष्परिपन्थिचोदकप्राप्तं प्राकृताध्रिगुवचनमनूद्यत इत्यभ्युपेयत्वान्न तस्य निवृत्तिरिति सिद्धान्तः ।

ननु षड्विंशतिरित्येव ब्रूयादित्यत्र न चतुस्त्रिंशदिति ब्रूयादिति निषेधश्रवणेन चोदकप्राप्त-मन्त्रापवादवैशेषिकमन्त्रं प्रति बाधकत्वमस्तु विश्वं सत्यमित्यादौ निषेधाश्रवणात्कथं प्रत्यक्षाप-वादकाद्वैतश्रुतिबाधकत्वमित्यत आह ॥ दृश्यन्ते हीति । ‘‘असंयोगाल्लिट् कित्’’ इति कित्व-विधिसन्निधिपठितस्य निषेधरहितस्य ‘‘मृडमृदगुधकुषक्लिशवदवसः क्त्वा’’ इति सूत्रस्य नक्त्वा सेडिति कित्वापवादं प्रति यथा बाधकत्वं तथा विश्वं सत्यमित्यादेर्निषेधविधुरस्यापि सत्वग्राहि-प्रत्यक्षापवादकाद्वैतश्रुतिबाधकत्वमित्यर्थः ।

कित्वं हि क्त्वो निजं यन्नक्त्वा सेडिति निराकृतम् ।

मृडेत्यादिविधानं तु पुनरुज्जीवयत्यदः ।

सङ्गृह्णाति ॥ तस्मादिति । प्रत्यक्षाविषये धर्मिणि सत्यत्वबोधनाद्धर्मिभेदः । विप्रति-पत्यादिना प्रत्यक्षागृहीतसत्वं प्रमातारं प्रति तद्बोधनात्प्रमातृभेदः । प्रत्यक्षगृहीतव्यावहारिक-सत्वभिन्नतात्विकसत्वरूपधर्मग्रहाद्धर्मभेदः । न हिंस्यादित्याद्यहिंसावाक्यम् अहिंसावाक् । एकार्थ-नानाशाखास्थवाक्यं भिन्नशाखावाक् । द्वयोः प्रणयन्तीत्यादिवाक्यं द्विप्रणयनादिशब्देन गृह्यते । प्रतिप्रसवार्थं षडि्वंशतिरित्येव ब्रूयादित्येव ब्रूयादिति वचनमादिशब्दसङ्गृहीतम् । प्रमाणमिति । अबाधितार्थग्राहकमित्यर्थः । तद्बाध इति । विरुद्धयोर्द्वयोरप्यबाधितार्थत्वानुपपत्तेरित्यर्थः । न चेदिति । प्रमितप्रमापकत्वाभावादित्यर्थः । ननु प्रमितप्रमापकत्वं नानुवादकत्वं किन्तु पश्चा-द्बाधकत्वमात्रम् । पश्चात्वं च प्रमाणावधिकमप्रमाणावधिकं च । एवं च प्रमाणेन वा अप्रमाणेन वा बोधितस्यार्थस्य बोधकत्वम् । तच्चास्ति सत्वश्रुतेरिति चेत् । मैवम् । भावानवबोधात् । न हि प्रमापकत्वमनुवादकत्वलक्षणमभिहितमस्माभिः किन्नाम प्रत्यक्षाप्रामाण्ये तदवधिकमनुवादकत्वं प्रमाणस्य श्रुतेर्न सम्भवतीत्यवोचाम । नन्वद्वैतश्रुतिविरोधेन सत्वश्रुतिरप्रमाणमतोऽप्रमाण-प्रत्यक्षगृहीतानुवादिनी स्यादत आह । श्रुतेरिति । सत्वश्रुतेः । अद्वैतश्रुतिः प्रत्यक्षगृहीतसत्वमेव निषेधतु । तथा च न सत्वश्रुतिरप्रमाणम् अनुवादिनी वा इति भावः ।

ननु सत्वश्रुतेः प्रत्यक्षसिद्धसत्वग्राहित्वेऽपि वाक्यार्थस्य क्रियासमभिव्याहारसिद्धस्यापूर्वत्वेन तद्विषतयैवाननुवादकत्वोपपत्तावद्वैतश्रुतिविरुद्धतात्विकसत्वविषयकत्वकल्पना तदर्थमयुक्ता । परमार्थसद्विषयता तु सर्वश्रुतीनां शुद्धब्रह्मतात्पर्यकत्वेनैव । अवान्तरतात्पर्यमादाय व्यावहारिक-सद्विषयतेति चेत् । मैवम् । सत्यज्ञानादिवाक्येऽपि एवं कल्पयितुं शक्यत्वेन ब्रह्मणोऽपि न तात्विकसत्वसिद्धिः स्यात् । न च सत्यं ज्ञानमिति वाक्ये क्रियासमभिव्याहारो नास्तीति युक्तम् । ब्रह्मविदाप्नोतीत्यादिक्रियायाः सत्वात् । इहापि – ‘‘सत्यः सो अस्य महिमा । विश्वमा प्रा अन्तरिक्षं महित्वा सत्यमद्धा न किरन्यस्त्वावान् । जहि प्रतीचो अनूचः पराचो विश्वं सत्यं कृणुहि विष्टमस्तु । सत्रा सोमा अभवन्नस्य विश्वे’’ इत्यादि बहूनां वाक्यानां सिद्धार्थबोधकानां सत्वात् । त्वन्मते जरद्गवादिवाक्यानामपि लक्षणयाऽखण्डर्थब्रह्मपरत्वसम्भवेन तद्विलक्षण-प्रामाण्यस्य कर्मकाण्डवाक्येऽनुपपादनात् । अवान्तरतात्पर्यतः प्रतिपादितार्थस्य बाधितत्वेना-प्रामाण्योपपादन एव पर्यवसानाच्च ।

ननु प्रमाणस्याप्यप्रमाणावधिकमनुवादकत्वमस्त्वित्यत आह । न हीति । तथेति । द्वैत-ग्राहिप्रत्यक्षं द्वैतग्राहिश्रुत्यर्थभूतं नोपहरेन् नोपनयेत् । प्रत्यक्षस्याप्रमाणत्वेन स्वार्थसत्तानिश्चय-रूपत्वाभावेन द्वैतश्रुतिप्रतिपिपादयिषितद्वैतोपनायकत्वानुपपत्तेरित्यर्थः । प्रमाणत्वेनेति । पूर्वं प्रमाणत्वे दोषोऽभिहितः । इदानीं तन्निश्चये दोषोभिहित इति भेदः । लोकत इति । अज्ञोऽस्मि सत्सुखस्फुरणमित्यादिशब्दानुपजीविप्रत्यक्षणेत्यर्थः । न च ब्रह्मत्वसामानाधिकरण्येन सत्वं न प्रत्यक्षमिति साम्प्रतम् । अज्ञत्वस्फुरणस्यैव ब्रह्मत्वात् । अखण्डार्थनिष्ठेन सत्यादिवाक्येनापि ब्रह्मत्वसामानाधिकरण्येन सत्वाप्रतिपादनाच्च । लिङ्गेन चेति । ब्रह्म सद् भ्रमाधिष्ठानत्वा-द्बाधावधित्वाच्च श्रुक्तिरूप्यवदित्यनुमानेनापीत्यर्थः । न चानुमानमसाधकम् । तर्कस्य सर्वदेश-कालीनपुरुषसाधारणत्वाभावादिति वाच्यम् । प्रत्यक्षादिसहकृतस्य तस्य मानत्वात् । त्वयाप्य-विद्यादावनुमानोक्तेः । अत्राप्यज्ञोऽस्मीत्यादिप्रत्यक्षसनाथत्वादनुमानस्येति भावः । प्रवाहा-नादीति । न च श्रुतेरपौरुषेयत्वेन विज्ञानवादादेर्न तदवधिकपूर्वत्वमिति युक्तम् । त्वन्मते श्रुतेरपि ब्रह्मविवर्ततया सर्गादावुत्पन्नत्वेन तयोः पौर्वापर्यानिश्चयादित्यर्थः । ननु स्वरूपप्रवाहाभ्या-मनादित्वशून्येनानुमानेन विज्ञानवादादिना वा न श्रुतेरनुवादकत्वमत आह । उक्ता हीति । उरुप्रथस्वोरु ते यज्ञपतिः प्रथतामिति पुरोडाशं प्रथयतीति श्रूयते । तत्र पुरोडाशप्रथनाभिधान-सामर्थ्यरूपलिङ्गेन पुरोडाशप्रथनरूपे कर्मणि उरुप्रथस्वेत्यादिमन्त्रस्य विनियोगे सिद्धे सति इति पुरोडाशं प्रथयतीति ब्राह्मणरूपस्य तदर्थशास्त्रस्य वैय्यर्थ्यादनुवादकत्वमुक्तमित्यर्थः । ननु क्रम-प्रकरणाभ्यां लब्धाङ्गभावा मन्त्रा न पुरोडाशप्रथनादितत्तत्कर्मसमवेतार्थप्रकाशने नोपकुर्वन्ति । येन तत्प्रकाशितार्थस्य कर्मसमवायित्वरूपलिङ्गेन मन्त्रविनियोग इति तदर्थशास्त्रवैय्यर्थ्यं स्यात् । किन्तु अनुच्चरितानामनभिधायकत्वात् । प्राथम्यावश्यकत्वाभ्यामुच्चारणमात्रेण यद्यर्थप्रकाशनमेव मन्त्राणां कार्यं स्यात् । तर्हि तेषां नित्यवदाम्नानमनर्थकं स्यात् । उपायान्तरेणापि प्रयोगवेलाया-मर्थप्रकाशनस्य शक्यत्वात् । अथार्थप्रकाशनाददृष्टं कल्प्येत तद् दूरमपि गत्वा कल्प्यमदृष्टं तदुच्चारणादेः कल्पयितुमुचितम् । तस्माददृष्टार्था मन्त्राः । तदुक्तम् ।

यदि दृष्टार्थतैव स्यान्मन्त्राम्नानमनर्थकम् ।

प्रत्यायनाददृष्टं चेत्तदुच्चारणतो वरम् ॥ इति ।

अत्राहुः । कर्मप्रकरणे मन्त्रोच्चारणस्याविधानेन तस्य कर्मविध्यनपेक्षितत्वेन तैरनाक्षेपात्पुं-व्यापारस्य तस्य मन्त्रगतव्यापारत्वाभावेन मन्त्राङ्गत्वानिर्वाहकतया तेनाप्यनाक्षेपान्मन्त्रोच्चारण-कर्तव्यतायामेव न प्रमाणमस्ति । दूरे द्वाराकल्पना । किन्तु मन्त्रगतव्यापारत्वेन मन्त्राङ्गत्व-निर्वाहकतयाऽभिधानस्य विध्याक्षेपसम्भवादभिधानस्य द्वारत्वं युक्तम् । तदर्थं तु पश्चादुच्चारणस्य कर्तव्यतासिद्धिः । तस्मादभिधानरूपदृष्टार्था मन्त्राः । यस्तु मन्त्रैरेवाभिधानं कर्तव्यमिति नियमस्तस्य न किञ्चिद् दृष्टं प्रयोजनमस्तीत्यदृष्टं कल्प्यत इति तदर्थशास्त्रस्यानुवादकता । एतच्च प्रमाणलक्षणे प्रथमाध्याये द्वितीयपादे चिन्तितम् । ‘‘तदर्थशास्त्रार्थत्वात्’’ । उरुप्रथस्वोरु ते यज्ञपतिः प्रथतामित्यादयो मन्त्राः किमुच्चारणमात्रेण दर्शपूर्णमासादिकर्मसूूपकुर्वन्ति उत पुरोडाशादिप्रथनादितत्तत्कर्मसमन्वितार्थाभिधानद्वारेणेति संशये अनुच्चारितानामनभिधायकत्वा-त्प्राथम्यावश्यकत्वाभ्यामुच्चारणस्यैव द्वारत्वं युक्तमिति तन्मात्रेणोपकुर्वन्तीति पूर्वः पक्षः । सिद्धान्तस्तु कर्मप्रकरणेषु मन्त्राणामुच्चारणस्याविधानेन तत्कर्मविध्यनपेक्षितत्वेन तैरप्यनाक्षेपात्पुं-व्यापारस्य तस्य मन्त्रगव्या पारत्वाभावेन मन्त्राङ्गत्वमिति निर्वाहकतया तेनाप्यनाक्षेपाच्च मन्त्रोच्चारणकर्तव्यतायामेव न प्रमाणमिति न तस्य द्वारत्वं युक्तं किन्तु अनुष्ठेयकर्मविधेर-पेक्षिततया मन्त्रगतव्यापारत्वेन मन्त्राङ्गत्वनिर्वाहकतया चाभिधानविध्याक्षेपसम्भवादभिधानस्य द्वारत्वं युक्तम् । तादर्थ्येन तु पश्चादुच्चारणस्य कर्तव्यतासिद्धिः । तस्मादभिधानेन मन्त्रा उप-कुर्वन्तीति मन्त्राधिकरणसङ्ग्रहः । प्राप्तानुवादितेति । पूर्वपक्षिरीत्येत्यर्थः । नाप्रामाण्यहेतुरिति । ननु लाघवादनुवादकत्वमेवाप्रामाण्ये प्रयोजकं न तु सापेक्षानुवादत्वम् । अनधिगतार्थबोधकत्वस्य प्रामाण्यघटकस्य तावतैव गतत्वादिति चेत् । न । यतो नाबोधि मन्दबोधो बुधंमन्यो भवान् । याथार्थ्यमेव हि प्रामाण्यप्रयोजकमिति अनुपदमेव वक्ष्यते । अन्यथा धारावहनधीप्रामाण्यं न स्यात् । न च तस्या वर्तमानार्थग्राहित्वेन तत्तत्क्षणविशिष्टार्थग्राहकतया प्रामाण्यमिति वाच्यम् । प्रत्यक्षेण सूक्ष्मक्षणादिकालविशेषभानायोगात् । वर्तमानता तु स्थूलकालोपाधिमादायैव सर्वधीसाधारणी न विषयभेदिका । तत्वविन्नये तु साक्ष्युपनीतसूक्ष्मक्षणविशिष्टभानं सम्भवति तथापि याथार्थ्यमेव प्रामाण्यमिति हृदयम् । परेणापि तदेव वाच्यम् । न त्वन्यत् । अन्यथा अहमस्मीति साक्षिप्रत्यक्षगृहीतसत्वबोधिकाया अस्ति ब्रह्मेत्यादिश्रुतेरप्रामाण्यं स्यात् ।

एतेनैव श्रुतेरतत्परत्वे प्राप्तत्वमात्रमेव प्रयोजकम् । अन्यथा वैफल्येन स्वाध्याय-विधिग्रहणानुपपत्तेरिति निरस्तम् । तत्त्वमसीति श्रुतेरप्यहमर्थानधिकबोधकत्वेन प्राप्तार्थावेदकत्वे-नानुवादकत्वापातात् । ननु सत्वश्रुतिरपि सत्वप्रत्यक्षसापेक्षत्वात्सापेक्षानुवादिन्येव । न हि सत्व-प्रत्यक्षं विना तन्मूलशक्यशक्त्यादिग्रहमूलकशब्दप्रवृत्तिसम्भव इति चेत् । न । ब्रह्मसत्वप्रतिपाद- कस्य सत्यज्ञानादिवाक्यस्यापि तथैव प्रत्यक्षत्वस्य सुवचत्वात् । अज्ञोऽस्मीत्यादिप्रत्यक्षसिद्ध-सत्वानुवादित्वाच्च सापेक्षानुवादः स्यात् । यदि हि दृष्टेऽप्यर्थे प्रत्यक्षं स्वप्रामाण्यनिर्णयाय श्रुतिसंवादमपेक्षते तदा श्रुतिसंवादविरहिणि दृष्टे कुत्रापि निःशङ्कप्रवृत्तिर्न स्यात् । न स्याच्चैव-मग्निर्हिमस्य भेषजमित्याद्यप्यनुवादकम् । न चेष्टापत्तिः । मानान्तरगृहीतप्रमाणभावप्रत्यक्षनिर्णीते मानान्तरस्याननुवादकत्वे जगत्यनुवादकत्वकथोच्छेदप्रसङ्ग इत्यस्यापि सुवचत्वादिति भावः ।

नन्वनुवादेऽपि धारावहनज्ञानवत्प्रामाण्यमस्त्येवेति यदुक्तं तदयुक्तम् । तथा हि तात्पर्यविषये शब्दः प्रमाणम् । यत्परः शब्दः सशब्दार्थ इत्यभियुक्ताभ्युपगमात् । अन्यतः सिद्धे च शास्त्र-तात्पर्यं न सम्भवति । अतोऽनुवादस्यानुवाद्ये स्वार्थे तात्पर्यासम्भवान्न तत्र तस्य प्रामाण्यमिति शङ्कां विश्वसत्यत्ववाक्यस्य विश्वसत्यत्वे तात्पर्योपपादनेन परिहरति । किञ्च वादीति । विद्वद्वाक्ये य एवं विद्वान्पौर्णमासीं यजते य एवं विद्वानमावास्यां यजत इत्यादौ यथा यजेरनु-वाद्याग्नेयादियागत्रिकरूपस्वार्थपरत्वाविरोधित्वं तथेहापि विश्वसत्यत्वश्रुतेर्विश्वसत्यत्वपरत्व-मित्यर्थः । अत एवेति । विद्वद्वाक्यस्याग्नेयादिषड्यागानां पौर्णमासीकालयुक्तानां त्रयाणामावा-स्याकालयुक्तानां च त्रयाणांं यागानां विद्वद्वाक्यगताभ्यां पौर्णमास्यमावास्यकालयोगनिमित्त-प्रसिद्धयागत्रिकत्रिकनामधेयाभ्यां पौर्णमास्यमावास्यपदाभ्यां निर्देशे सति एकावगत्या त्रिकस्य त्रिकस्यैकैकरणेन समुदायद्वयसम्पादकतया दर्शपूर्णमासाभ्यामिति फलवाक्यगतद्विवचनान्तपदस्य आज्यभागौ यजतीति द्वित्वसंख्योपेतेष्वाज्यभागादिषु प्रातिपदिकार्थासम्भवेन आग्नेयादिषु द्विवचनार्थासम्भवेनानुपपन्नस्य समुदायद्वयपरत्वे सत्युपपन्नार्थस्य प्रसिद्धार्थकतया फलवाक्यगता- प्रसिद्धार्थकतया फलवाक्यगताप्रसिद्धार्थयजिविशेषकतया यजेर्नामपरतन्त्रत्वेन नामार्थस्य त्रिकद्वयस्यैव फलवाक्येन फलसम्बन्धो भवतीत्येवं सप्रयोजनानुवादो विद्वद्वाक्यम् । अन्यथा दर्शपूर्णमासपदस्य यजिपरतन्त्रत्वे यजेश्च तन्त्रेण प्रकृताग्नेयाज्यभागसमिदादिसर्वयागोपस्थापक-तया सर्वेषामेव फलसम्बन्धः स्यादिति सर्वेषां समप्राधान्यमापद्येत । सप्रयोजनानुवादत्वादेव विद्वद्वाक्यस्य पूर्णमास्यमावास्याकालयुक्ताग्नेयादियागलक्षणानुवाद्यभूतस्वार्थपरत्वम् । अत एव पूर्णमास्यमावास्याख्ययागसमुदायस्य विद्वद्वाक्यनिष्पन्नार्थस्य दर्शाख्येन समुदायेन पूर्णमासाख्येन च स्वर्गकाम इष्टं कुर्यादिति फलवाक्यार्थेनान्वयाद्विद्वद्वाक्यस्य फलवाक्येनैकवाक्यत्वम् ।

स्वार्थबोधे समाप्तानामङ्गाङ्गित्वाद्यपेक्षया ।

पदानामेकवाक्यत्वं पुनः संहत्य जायते ॥ इति वचनात् ।

स्वार्थपरत्वाभावे हीति । वायुर्वै क्षेपिष्ठा देवतेत्यादीनामसति प्रयोजने मानान्तरप्राप्तार्थ-मनुवदतामनुवाद्ये तात्पर्याभावेऽवगते अवान्तरवाक्यार्थमनादृत्यैव वायव्यश्वेतालम्भनरूपप्रधान-स्तुतिपरत्वं यथोक्तं तथा विद्वद्वाक्येऽप्युच्येतेत्यर्थः । ननु विद्वद्वाक्यस्यानुवादकत्वं कुतोऽध्यव-धेयम् । उच्यते । द्वितीयस्य तृतीयपादे चिन्तितम् । प्रकरणं तु पौर्णमास्यां रूपावचनात् । ‘‘यदाग्नेयो अष्टाकपालोऽमावास्यायां पौर्णमास्यां चाच्युतो भवति ।’’ तावब्रूतामग्नीषोमावाज्य-स्यैव नावुपांशु पौर्णमास्यां यजेरन्’’ इति । ताभ्यामेतमग्नीषोमीयमेकादशकपालं पूर्णमासे प्रायच्छत् । ऐन्द्रं दध्यमावास्यायामेैन्द्रं पयोऽमावास्यायामिति पूर्णमास्यमावास्याकालसंयुक्तानि वचनानि श्रूयन्ते । तथा समिधो यजति, तनूनपातं यजति, आज्यभागौ यजतीत्यकाल-संयुक्तानि च । तेषां सन्निधावाम्नायते । य एवं विद्वान्पौर्णमासीं यजते य एवं विद्वानमावास्यां यजते इति वाक्यद्वयं, तथा दर्शपूर्णमासाभ्यां स्वर्गकामो यजेतेति फलवाक्यम् । तत्र संशयः । किमिमौ विद्वद्वाक्यगतौ यजेतेति फलवाक्यबोधितफलसम्बन्धे पूर्णमास्यमावास्यासंज्ञकयोरपूर्वयोः कर्मणोर्विधायकौ उत प्रकृतानामाग्नेयादीनां पूर्णमास्यमावास्याकालसम्बन्धनिमित्ताग्नेयादि-नामधेयात्वाभ्यां पूर्णमास्यमावास्यापदाभ्यां विशेष्यमाणौ पूर्णमास्यमावास्यासंयुक्तानां कर्मणा-मनुवादकाविति । तत्सिध्यर्थमप्येतच्चिन्तनीयम् । किमपूर्वकर्मविधौ रूपं लभ्यते न वेति । ततोऽप्येतद्विचारणीयम् । किं प्राप्तकर्मानुवादेनानेकगुणविधानमेकेन विधिना सम्भवत्युत नेति । तत्र विधिपुनःश्रुतिरूपेणाभ्यासेनापूर्वकर्मविधायकाविति पूर्वः पक्षः । तथा हि । य एवं विद्वानित्येताभ्यां पूर्णमास्यमावास्यासंज्ञकौ यागौ विधीयेते । अनुवादमात्रस्यानर्थक्यात् । किं पुनरेतयोर् द्रव्यदेवतं तदुच्यते यदाग्नेयोऽष्टाकपालो भवतीत्यादिभिः पूर्णमास्यमावास्याभ्यां तावेव यागावनूद्याष्टाकपालादिद्रव्यमग्न्यादयश्च देवता विधीयन्ते इति तदेव द्रव्यदेवतम् । अस्मिंश्च पक्षे पूर्णमासीमित्येकत्वं प्रातिपदिकार्थगतमेव भविष्यति । यागश्च प्रत्यक्षतः श्रुतः । तौ च द्वावेव । तदपूर्वे च द्वे इति लाघवम् । समुदायानुवादत्वे तु प्रातिपदिकार्थलक्षितसमुदायगतमेकत्वम् । यागश्च द्रव्यदेवतासम्बन्धात् क्लेशेनानुमातव्यः । ते चानेके । तदपूर्वाणि चानेकानीति गौरवम् । फलवाक्यं तु तयोरेव फलसम्बन्धबोधकमिति ।

सिद्धान्तस्तु । नैतेऽष्टाकपालादयो गुणविधयः । प्राप्तकर्मानुवादेनानेकगुणविधाने प्रत्यया-वृत्तिरूपदोषप्रसङ्गात् । तदुक्तं वार्तिके ।

प्राप्ते कर्मणि नानेको विधातुं शक्यते गुणः ।

अप्राप्ते तु विधीयन्ते बहवोऽप्येकयत्नतः ।

इति कर्मोत्पत्तिवाक्ये श्रूयमाणो विधिर्भावनाया अप्राप्तत्वात्तां विधातुमुपक्रान्तोऽपि केवलायास्तस्या अनुष्ठातुमयोग्यत्वात्कारकविभक्त्यन्तपदान्तरादिप्रतिपादितैर्भावनांशभूतैर्विशेषणै- र्विशेष्यमाणां तां विदधत्तद्विशेषणान्यप्यर्थापत्या विदधातीति न तत्र प्रत्ययावृत्तिदोषः । विशिष्टायां भावनायां श्रौतं विधित्वमादाय यद्यन्यत्रापि श्रुत्यैव पुनर्व्याप्रियेत ततः पुनरुच्चारण-दोषमवैदिकत्वापत्या लभेत । अयं पुनः सकृद्विधाय निवृत्तव्यापारः स्वार्थान्यथानुपपत्त्या सर्वविशेषणेषु प्रत्येकनिष्ठानि विध्यन्तराण्याविर्भावयन् समाम्नायावगतैकरूपापरित्यागेनैवा-सकृदुच्चारणे वर्तते । तदुक्तं वार्तिके–

शब्दव्यापारनानात्वे शब्दानामतिगौरवम् ।

एकोक्त्यवसितानां तु नार्थाक्षेपो विरुद्ध्यते ॥ इति ।

विशिष्टविधिनिमित्तत्वादर्थापत्तिः पश्चाद्भवन्ती यद्यपि विशेषणविधीनुत्तरकालमवगमयति तथापि विशेषणान्यनुपादाय विशिष्टे व्यापारासम्भवान्नूनं पूर्वतरविशेषणविधयो निष्पन्ना यतस्त-दधीनसिद्धिर्विशिष्टप्रत्ययो दृश्यते । तेन बहव एवैते विधय इति प्रत्यक्षार्थापत्तिलभ्या युगपत् क्रमेण वा व्याप्रियन्त इत्यनेकविध्यन्तरप्रसवसमर्थैकविशिष्टविधिप्रसादेनानेकगुणविधानमपूर्व-भावनाविधिपक्षे सुलभम् । यदा भावनाऽन्यतः प्राप्ता भवति तदा पिष्टपेषणवत्प्रतिहतशक्ति-र्विधायको भावनामविदधत् ततोऽवतीर्य तत्सङ्गतानि कारकाण्युपसर्पति । तत्रानेकेषु विशेषणेषु एकेन विहितेनेतरानाक्षेपात्तत्रापि श्रुत्यैव विधानं कर्तव्यमिति आवृत्तिप्रसङ्गः । तदुक्तं वार्तिके–

प्रधानं नीयमानं हि तत्राङ्गान्यपकर्षति ।

अङ्गमाकृष्यमाणं तु नाङ्गान्तरमसङ्गतेः ॥ इति ।

तस्माद्विद्वद्वाक्यविहितकर्मानुवादेनाष्टाकपालादिवाक्यैराग्नेयाष्टाकपालसम्बन्धस्तस्य पूर्णमासी- कालसम्बन्ध इत्यनेकगुणविधानं न सम्भवति । आग्नेयोऽष्टाकपालः पूर्णमास्यामित्यत्र यद्यपि तद्धितस्य सन्निहितद्रव्यवाचित्वात् सामानाधिकरण्यलक्षणः सम्बन्धः प्रागेव पौर्णमासीसम्बन्धा-दाग्नेयाष्टाकपालयोर्लभ्यते तथाप्यसौ सम्बन्धः प्रमाणान्तरेणासिद्धत्वादत्रैव विधातव्यः । तं च विधाय पुनः पौर्णमासीसम्बन्धविधिरित्यावृत्तिप्रसङ्गः । न ह्येवं सम्भवति ‘‘य आग्येयो अष्टाकपालः स पूर्णमास्याम्’’ इति । आग्नेयाष्टाकपालस्याप्रसिद्धत्वात् । अत एवं वक्तव्यम् । अष्टाकपाल आग्नेयः कर्तव्यः स च पूर्णमास्यामिति । तथा सत्यावृत्तिः प्रत्ययस्य स्यात् । तस्माद्य एवं विद्वानिति विहितकर्मानुवादेनाष्टाकपालादिवाक्ये गुणविध्यसम्भवादवश्यमेव भावनान्तरं द्रव्यदेवताविशिष्ट-माक्षिप्तयजिकं विधातव्यम् । न च भावनान्तरं भावनान्तरस्य रूपं भवतीति सिद्धमरूपत्वम् । अतो विद्वद्वाक्यगतौ यजती समुदायानुवादितारौ । ततश्चागत्या पूर्णमासीमित्येकवचनं लक्षणया समुदायपरं भविष्यति । किञ्च यदाग्नेयोऽष्टाकपाल इत्यादौ क्रियासमानाधिकरणयच्छब्दाद्विलक्षणः य एवं विद्वानिति कर्तृसमानाधिकरणो यच्छब्द उपबध्यमानो विधिसामर्थ्यं निरुन्धे । कर्तृ-समानाधिकरणयद्वृत्तसमभिव्याहारस्यानुवादचिन्हत्वात् । तथा चोक्तं वार्तिके

क्रियापदैकयोगित्वे यच्छब्दो न रुजेद्विधिम् ।

कर्तृयुक्तः स एवान्यः प्रापितार्थानुवादकृत् ॥ इति ।

तस्माद्विद्वद्वाक्यद्वयेनाग्नेयादीनां समुदायादीनां समुदायद्वित्वसम्पादनेन फलवाक्ये द्विवचनान्तं नामप्रसिद्धार्थमुपपाद्य प्रसिद्धार्थनामावच्छेदेन यजिस्तावत्स्वेव सङ्कोच्यते । तेषामेव फलसम्बन्धेन प्राधान्यं व्यवस्थाप्यत इति नानुवादवैय्यर्थ्यमिति समुदायानुवादकौ । ननु प्रत्यक्ष-सिद्धे वादिविप्रतिनिरासरूपप्रयोजनवत्वेन प्रमाणान्तरस्य सप्रयोजनतया स्वार्थपरत्वोक्तावग्नि-र्हिमस्य भेषजमित्याद्यपि तेनैव प्रयोजनेन सप्रयोजनं स्वार्थपरं च स्यात् । अतो न प्रत्यक्षसिद्धे वादिविप्रतिपत्तिनिरासार्थमन्यापेक्षा । दृष्टान्ते तु समुदायानुवादेन द्वित्वसम्पादनस्योद्देश्यस्यान्यतो लब्धुमशक्यतया तेन प्रयोजनेन स्वार्थपरत्वं वक्तुं शक्यत इति चेत् । मैवं व्याहतं भाषिष्ठाः । अहमज्ञ इति प्रत्यक्षसिद्धे भावरूपाज्ञाने वादिविप्रतिपत्तेस्त्वया अङ्गीकारात् । तत्र श्रुत्यादे-रुपन्यासाच्च ।

विमतिर्नाक्षग इति त्वदुक्तिव्यक्तवेदनः ।

आत्मा ज्ञानौषधं सिद्धं विमृग्यारोग्यमाप्नुयात् ।

वस्तुतस्तु प्रत्यक्षेण सत्वे गृहीतेऽपि वादिविप्रतिपत्त्या प्रत्यक्षाप्रमाण्याशङ्कायां तदाहितार्थ-संशये सत्यास्तिकसर्वजननिश्चितप्रमाणभावया श्रुत्या प्रत्यक्षगृहीतार्थस्य प्रतिपादने सति सर्व-संशयबीजनिरासोऽस्यानुवादस्य प्रयोजनम् । मीमांसकानां प्रत्यक्षसिद्धेऽपि (वायु)प्रत्यक्षत्वे प्रामाण्यस्वतस्त्वे प्रत्यक्षगृहीतेऽपि नैय्यायिकानां चात्मप्रत्यक्षत्वे प्रत्यक्षसिद्धे तदन्येषां विमति-दर्शनात् । विप्रतिपन्नं प्रति प्रत्यक्षस्यानुपन्यसनीयत्वादेव हि तत्र प्रमाणान्तरोपन्यास-स्तान्त्रिकानां सत्यां विप्रतिपत्तौ अग्निर्हिमस्य भेषजमित्याद्यपि द्वीपविशेषवर्तिनमननुवाद एव । पुरुषविशेषं प्रत्येवानुवादकत्वम् । हिमनिवारणशक्तेश्चातीन्द्रियत्वान्नानुवादोऽयम् । किंस्विद्धिमस्य भेषजमिति प्रश्नपरिहाराय प्रवृत्तत्वाच्च । तुष्यतु दुर्जन इति न्यायेनात्र युक्त्यन्तरमन्वाचिनोति । किं चानुवादत्वेऽपीति । सप्रयोजनानुवादत्वाभावेऽपि सत्वश्रुतेः प्रामाण्यस्यानपगतत्वादक्षत-प्रामाण्यया तया मिथ्यात्वानुमानं बाधितमेवेत्यर्थः ।

नैष्फल्येति । अज्ञाननिवृत्त्यादिरूपफलाभावः । न चाधिगतार्थे तात्पर्याभाव इति युक्तम् । अधिगतेऽपीष्टे क्रियासमभिहारेण बालकलभाषितादाविव तात्पर्योपत्तेः । इष्टज्ञानस्यापि सुखादिहेतुत्वात् । किञ्चायमिति । वायव्यं श्वेतमालभेत भूतिकामो वायुर्वै क्षेपिष्टा देवतेत्यादौ । इत्थं च वायव्यश्वेतालम्भः प्रशस्तः । यत्र शीघ्रगामिनी वायुर्देवता । क्षिप्रफलदेवताकत्वा-दित्यादिवत् स्तुतेरत्राभावात्् । आश्रयेति । विधीयमानो गुणो यत्र कारकतामापद्यते स आश्रयः । यथा दध्ना जुहोतीत्यत्र विधीयमानस्य दध्नो होमं प्रति कारकत्वात् होमो दध्न आश्रयः । तथा चानुवाद्यासिद्धौ तत्संसर्गोऽसिद्धः स्यादित्यर्थः । तत्रैवेति । नेह नानास्ति किञ्चनेति वाक्य एव किञ्चनेत्यनेन सर्वानुवादसम्भवादित्यर्थः । ननु सामान्यतो निषेधस्या-किञ्चनेत्यनेन निषेध्यसमर्पणे विशिष्य निषेधो विशेष्य निषेध्यार्पणस्योपयोग इत्यत आह । न हीति । निषेद्धुं प्राप्तिरपेक्षिता । न तु शब्दतः । गौरवादिति भावः । विश्वं न सत्यमित्यादि विशिष्य निषेधादर्शनाच्च । अस्थूलमनण्वित्यादि वाक्ये च स्थूलादिपदस्यैव विशिष्य निषेध्यानुवादस्य सत्वात् । अत्रेति ॥ विश्वं सत्यमिति श्रुतौ परमेश्वरकृतविश्वसर्जनादेः सत्यत्वेन ज्ञानं देवानामप्यस्तीति देवसम्बन्धितादृशज्ञानरूपस्यालौकिकप्रामाण्यस्योक्तेर्नानुवाद इत्यर्थः । यत्तन्नेत्यादीति । इति यत्तन्नेत्येवं निषेधार्थानुवादलिङ्गस्यैकस्याप्यर्थाभावादित्यर्थः । एतेन यत्किञ्चिल्लिङ्गाभावेन लैङ्गिकाभावो वक्तुमशक्य इत्यपास्तम् ॥ तदभावेऽपीति । निषेधार्थानुवाद लिङ्गासत्वेऽपीत्यर्थः ।

ननु तत्सत्यमित्यादिवाक्यं न ब्रह्मसत्तानुवादकम्् । तस्य मानान्तराप्राप्तत्वादित्यत आह । सर्वेति । व्यवस्थिते अधिष्ठानतया अनुस्यूते । ब्रह्मणः सर्ववित्तिविषयत्वेन सन्घट इत्यत्र ब्रह्मणि सत्वं विषय इत्यर्थः । ननु विशिष्टमेव सर्वं वित्तिवेद्यं न तु शुद्धं ब्रह्मेति शङ्कामपाकर्तुमुत्तरार्ध-मुदाहृतम् । प्रपञ्चप्रविलयाधिकरणत्वात्सर्वसंवित्संवेद्यस्य ब्रह्मणः शुद्धत्वमेवेति भावः । परागर्थेति । परांचो ये अर्थास् ते च ते प्रमेयाश्च तेषु घटादिषु या फलभूता संवित् । घटाद्याकार वृत्यभिव्यक्तं घटादिभासकं तदधिष्ठानचैतन्यम् । तदेव वेदान्तवाक्यरूपप्रमाणस्य प्रमेयमित्यर्थः । तथा च घटादिज्ञानस्य ब्रह्मत्वात् सद् घटज्ञानमित्यत्र ब्रह्मसत्ता प्रतीयत इत्यर्थः । ननु घटाद्यवच्छिने ब्रह्मणि सत्त्वप्रतीतावपि न शब्देन तत्र प्रतीतिरित्यत आह– सदिति । नन्वत्रापि सुखविशिष्टे अज्ञानविशिष्टे च सत्ता भासते न केवलम् आत्मनीत्यत आह– अधिकेति । ननु सत्सुखस्फुरणमित्यादौ न ब्रह्मत्वसामानाधिकरण्येन सत्त्वभानमित्यत आह– ब्रह्मशब्देति ॥ त्वन्मते सत्यादिवाक्यस्याखण्डार्थपरतया ब्रह्मत्वसामानाधिकरण्येन सत्त्वाबोधकत्वात्तेन ब्रह्मस्वरूपे सत्वं बोध्यत इति त्वया वक्तव्यम् । तच्च सत्सुखस्फुरणमित्यत्राप्यस्ति । न्यायमते निर्विकल्पके भातस्य घटस्य सविकल्पकेऽपि भानवत् । एवमिति ॥

नन्वदुःखमसुखमित्यत्र दुःखसाहचर्येण सुखस्यापि वैषयिकस्यैव ग्रहणेन तन्निषेधाय ब्रह्म-स्वरूपसुखानुवादायोग इति चेत् । मैवम् । दुःखे वैषयिकत्वाव्यभिचारेण दुःखमात्रस्यैव ग्रहण-मिति तत्सहपठितस्य सुखस्यापि सर्वस्य निषेधाय ब्रह्मानन्दश्रुतिरप्यनुवादिनी स्यादित्यभि-सन्धिः । विश्वमिति । विश्वं सत्यमिति श्रुत्या अबाध्यत्वादिरूपमिथ्यात्वाभावं बोधयन्त्या तद्रूपं मिथ्यात्वं निषिध्यते इति विश्वसत्यत्वश्रुतिरेव निषेधश्रुतिः । तां च प्रतिनिषेध्यमानं मिथ्यात्वं विज्ञानवादादिप्राप्तं नेह नानेति श्रुतिरनुवदतीति स्यादित्यर्थः । ननु भावाभावयोः परस्परविरह-रूपत्वे समेऽपि भावग्रहो निरपेक्षत्वान्नाभावग्रहमपेक्षते । अभावग्रहस्तु सप्रतियोगिकत्वाद्भाव-ग्रहमपेक्षते । अतो नेति नेति श्रुतेरेव सत्वश्रुत्यपेक्षा । न तु सत्वश्रुतेर्नेति नेतीति श्रुत्यपेक्षा । अन्यथाऽन्योन्याश्रयापत्तेरिति चेत् । न । सत्यत्वस्य बाध्यत्वादिरूपमिथ्यात्वाभावरूपतया तद्बोधकविश्वं सत्यमिति श्रुतेरेवात्यन्ताभावप्रतियोगित्वादिरूपभावभूतमिथ्यात्वानुवादक नेह नानेति श्रुत्यपेक्षाया एवोचितत्वात् । न चान्योन्याश्रयः । मिथ्यात्वस्य सत्वाघटितत्वात् । सत्वस्य मिथ्यात्वाभावातिरिक्तस्य परेणापि दुर्वचत्वात् । स एष आत्मा नेति नेतीति श्रुतिस्तु परमात्मा जीवजडात्मकप्रपञ्चभिन्न इत्येव प्रतिपादयति न तु प्रपञ्चमिथ्यात्वम् । घटः पटो न भवतीति वाक्यवदेकविभक्त्यन्तपदोपस्थापिते धर्मिणि प्रतियोगिनि च नञोऽन्योन्याभाव-बोधकत्वनियमस्य व्युत्पत्तिबलसिद्धत्वात् । किञ्च धर्माधर्मेति । सत्यत्वस्येति शेषः । तेन नोपक्रमानानुगुण्यम् । न च धर्मिप्रमातृभेदेनेत्यादिना पौनरुक्त्यम् । न ह्यत्र धर्माद्यंशे प्रत्यक्षा-प्राप्तसत्वविधानेन विश्वं सत्यमित्यादेरननुवादत्वमुच्यते किन्तु वाक्यप्राप्तस्य वाक्यान्तरेण निषेेधेऽतिप्रसङ्गोऽभिधीयते । एतच्छाखास्थेति । यथा न हिंस्यात्सर्वा भूतानीति श्रुतिरविशेष-प्रवृत्तापि हिंसात्वसामान्यस्य प्रत्यक्षादिप्राप्तत्वान्निषेध्योपस्थितौ नाग्नीषोमीयवाक्यमपि निषेध्य-समर्पणायापेक्षते तथा नेह नानेत्यादिश्रुतिरविशेषप्रवृत्तापि प्रत्यक्षप्राप्तघटादिसत्वरूपनिषेध्यमादाय निराकांक्षा सती न प्रत्यक्षाप्राप्तधर्माधर्मादिसत्यत्वबोधिकां विश्वं सत्यमित्यादिश्रुतिमपि निषेध्य-समर्पणायापेक्षितुमर्हति । मानान्तरेण निषेध्योपस्थितावपि वाक्यापेक्षणे अग्नीषोमीयहिंसाया अपि तथा निषिद्धत्वेनाधर्मसाधनत्वं स्यादित्यभिप्रायः । नन्वग्नीषोमीयवाक्यस्य निषेधविषयन्यून-विषयत्वेन न निषेधसमर्पकत्वमिति चेत् । न । विश्वं सत्यमित्यस्यापि ‘अप्राप्ते शास्त्रमर्थवत्’ इति न्यायेन प्रत्यक्षाप्राप्तधर्माधर्मादिसत्यत्वप्रतिपादकतया सर्वनिषेधकान्नेह नानेति वाक्यान्न्यून-विषयत्वेनानन्यशेषतया स्वार्थतात्पर्यवत्वेन च निषेध्यसमर्पकत्वायोगात् । तथा च दृश्यत्वादि-हेतोर्धर्माद्यंशे श्रुत्यादिबाध एव ।

न्यायामृतसौगन्ध्यं

किञ्च ‘षड्विंशतिरस्य वङ्क्रय’ इति मन्त्रस्याश्वमेधे चोदकप्राप्तस्य ‘चतुस्त्रिंशद्वाजिनो देवबन्धोः’ इति वैशेषिकमन्त्रेणापोदितस्य ‘षडि्वंशतिरित्येव ब्रूयात्’ इति वचनवत् प्रत्यक्ष-प्राप्तजगत्सत्वस्य मिथ्यात्वश्रुत्या आपाततोऽपोदितस्य प्रतिप्रसवार्थं सत्वश्रुतिः किं न स्यात् ।

किञ्च प्रत्यक्षेण पारमार्थिकत्रैकालिकसत्वं गृहीतं न वा । आद्ये तेनैव सत्वसिद्धेः श्रुतिर्नित्यानुवादिनीऽस्तु । अन्त्ये, नानुवादकत्वम् । किञ्च श्रुतेः सर्वसिद्धप्रमाणभावायाः सदर्थत्वायाननुवादकत्वाय च प्रत्यक्षाप्राप्ततात्विकत्रैकालिकसत्वविषयत्वमावश्यकम् । तथा च वर्तमानमात्रग्राहिप्रत्यक्षेण कथं तस्यानुवादकत्वम् । एतेन सत्वांशस्य प्रत्यक्षसिद्धत्वेऽपि वाक्यार्थस्य क्रियादिसमभिव्याहारसिद्धस्यापूर्वत्वेन तद्विषयत्वेनैवाननुवादकत्वोपपत्तौ अद्वैत-श्रुतिविरुद्धतात्विकसत्वविषयत्वकल्पनायास् तदर्थमनौचित्यमिति निरस्तम् । प्रत्यक्षागृही-तत्रैकालिकसत्वपरत्वेन श्रुतेः प्रामाण्यस्यासकृदावेदितत्वात् । अन्यथा ‘सत्यं ज्ञानं’ ‘नेह नाने’ त्यादिश्रुतिरपि अनुवादिनी स्यात् । ब्रह्मसत्वस्य लोकतो भ्रमाधिष्ठानत्वरूपलिङ्गेन च मिथ्यात्वस्य दृश्यत्वाद्यनुमानेनावेदमूलप्रवाहानादिशून्य(विज्ञान)वादिना च प्राप्तेः । तस्या-प्रामाण्यं तु क्रियासमभिव्याहारसिद्धापूर्वार्थपरत्वेन । एतेन श्रुतिर्हि ब्रह्मत्वसामानाधिकरण्येन सत्वं बोधयति, प्रत्यक्षं तु न तथेति श्रुतिर्नानुवादिनी । अनुमानं तु न सर्वदेशकाल-पुरुषसाधारणमिति न तद्गृहीतग्राहित्वेन मिथ्यात्वश्रुतिरनुवादिनीति निरस्तम् । त्वदभिमता-खण्डार्थपरश्रुतेर्ब्रह्मत्वसामानाधिकरण्याबोधकत्वात्, प्रवाहानादिशून्यवादादेस्सर्वदेशादि-साधारणत्वात्, अत एव प्रवाहानादिशून्यवादादेरपौरुषेयश्रुत्यवधिकपूर्वत्वं नास्तीति निरस्तम् । त्वन्मतेऽपि प्रतिकल्पं जगत्सृष्टौ श्रुतेरुत्पन्नत्वात् ।

किञ्च सत्वश्रुतेः सत्वप्रत्यक्षानपेक्षत्वान्न सापेक्षानुवादकत्वं, निरपेक्षानुवादकत्वं तु धारावहनवन्नाप्रामाण्यहेतुः । उक्तं हि नयविवेके- ‘सापेक्षानुवादे हि न प्रमितिः, न तु दैवादनुवादे, धारावहनवत्’ इति ।

न च लाघवादनुवादत्वमेवाप्रामाण्ये प्रयोजकं, न तु सापेक्षानुवादत्वमिति वाच्यम् । याथार्थ्यस्यैव प्रामाण्यप्रयोजकत्वात् । अन्यथा धारावाहिकधीप्रामाण्यं न स्यात् । न च तत्त्काल(तत्तत्क्षण)विशिष्टमेव तत्र विषय इति वाच्यम् । अतिसूक्ष्मक्षणानां चाक्षुषत्वा-सम्भवात् । वर्तमानस्थूलकालमादायैव सर्वज्ञानधारासाधारणीति न विषयभेदिका । न चेयं सत्वश्रुतिरपि सत्वप्रत्यक्षसापेक्षत्वात् सापेक्षानुवादिन्येव । न हि सत्वप्रत्यक्षं विना तन्मूल-शक्त्यादिग्रहमूलकशब्दप्रवृत्तिसम्भव इति वाच्यम् । ब्रह्मसत्वबोधकस्य सत्यज्ञानादि-वाक्यस्यापि प्रत्यक्षापेक्षत्वात्, अज्ञोऽस्मीति प्रत्यक्षसिद्धसत्वानुवादित्वाच्च सापेक्षानुवादत्वा-पत्तेः । अत एव यत्र तु प्रमाणान्तरसंवादस्तत्र प्रमाणान्तरादिवार्थवादादपि सोऽर्थः प्रसिध्यति । द्वयोः परस्परानपेक्षयोः प्रत्यक्षानुमानयोरिवैकार्थप्रवृत्तेः । प्रमात्रपेक्षया त्वनुवाद-कत्वम् । प्रमाता ह्यव्युत्पन्नः प्रथमं प्रत्यक्षादिभ्यो यथार्थमवगच्छति, न तथाऽऽम्नायतः । तत्र व्युत्पत्त्यपेक्षत्वादिति वाचस्पत्युक्त(वाचस्पतिमत)मप्येतमर्थं संवादयति । तेनाम्नायस्य व्युत्पत्त्यपेक्षत्वेन प्रत्यक्षसापेक्षत्वस्यैवोक्तेरिति निरस्तम् । उक्तरीत्या ब्रह्मसत्वजगन्मिथ्यात्व-बोधकश्रुतीनामपि सापेक्षानुवादत्वापत्तेः । दृष्टं हि विद्वद्वाक्ये समुदायद्वित्वापादनरूप-प्रयोजनवत्वेन अनुवाद्यस्वार्थपरत्वम् । अत एव तत्र वाक्यैकवाक्यतोक्ता, अन्यथा अर्थवाद-वत्पदैकवाक्यतैव स्यात् । प्रयोजनं चात्र वादिविप्रतिपत्तिनिरास एव । न च प्रत्यक्षसिद्धे विप्रतिपत्तिरेव नास्तीति तन्निरासकत्वेन स्वार्थपरत्वं स्यात् । अन्यथा ‘अग्निर्हिमस्य भेषजम्’ इत्याद्यपि तेनैव प्रयोजनेन सप्रयोजनं स्वार्थपरं च स्यादिति वाच्यम् । सेन्द्रियातीन्द्रियादि-साधारणेऽर्थे क्वचित्प्रत्यक्षेण गृहीते हि विप्रतिपत्तिः स्यादेव, न तु त्वदुक्तवाक्यार्थे । तत्र अग्नेर्हिमनिवर्तकतायां कस्याप्यविवादात् । विश्वसत्वे तु माध्यमिकादीनां त्वादृशानां बहूनां विवादात् ।

किञ्च अनुवादत्वेऽपि नैष्फल्यमात्रं, न त्वप्रामाण्यम् । याथार्थ्यमेव प्रामाण्यं, न त्वनधिगतार्थत्वे सति याथार्थ्यम् । न च तात्पर्यविषये शब्दः प्रमाणं ‘यत्परः शब्दः स शब्दार्थ’ इत्यभियुक्ताभ्युपगमात् । अन्यथा स्वाध्यायविधिग्रहणानुपपत्तिः । न ह्यन्यतः-सिद्धेऽर्थे शास्त्रतात्पर्यमिति वाच्यम् । अबाधितार्थकत्वस्यैव प्रामाण्यशरीरत्वात् । अन्यथा अज्ञानाद्यधिष्ठानत्वेन ब्रह्मणः प्रत्यक्षसिद्धत्वेन त्वन्मते सत्यज्ञानादितत्त्वमसीत्यादिवाक्यानां नेहेति एकमेवेत्यादीनां चाप्रामाण्यापत्तेः । अवान्तरतात्पर्यबोध्यार्थस्य मिथ्यात्वात्, ब्रह्मणः सर्वप्रत्ययवेद्यत्वाच्च ।

किञ्च नायमनुवादः । ‘वायुर्वै क्षेपिष्ठा’ इत्यादिवत् स्तुत्यर्थः । प्रत्यक्षाप्राप्त-त्रैकालिकसत्वविधायकत्वात्् । नापि ‘दध्ना जुहोति’ इत्यादिवदन्यविधानार्थः । प्रकृते विधेयान्तरस्यैव सत्वात् । (अनुवाद्यत्वेऽपि अन्यविधानाय) प्रमाणानूदितस्य तात्विकत्व-नियमाच्च । न हि व्रीहीन् प्रोक्षतीत्यादावारोपितव्रीह्यादेर्धीर् अनुवाद्यस्यासत्त्वे ह्याश्रयासिद्धौ धर्मधर्मिसंसर्गरूपानुमितिवेद्य इवानुवाद्यविधेयरूपसंसर्गरूपबाधापातात् । न च प्रमाणानूदि-तस्य न तात्विकत्वनियमः । स्वप्नाध्याये, शुक्तौ ‘नेदं रजतम्’ इति वाक्ये च व्यभिचारा-दिति वाच्यम् । स्वाप्नाध्याये स्वप्नदर्शनफलस्यैवाज्ञातस्य ज्ञापनात् । दर्शनं तु सत्यमेव शुक्तौ ‘नेदं रजतं’ इति हि निषेध्यतयैवानुवादः । न च प्रकृते तथा । ‘विश्वं सत्यं’ इत्यस्य विध्येकवाक्यतापन्नतया ‘नेह नाना’ इत्येकवाक्यताभावात् । नेहेत्यादेर्विश्वसत्वनिषेधार्थकत्व-स्यैवानिर्णयाच्च । न च निषेधवाक्यप्राबल्यात् तदनुरोधेनेतरन्नेयम् । ‘अतिरात्रे षोडशिनं गृह्णाति’ इत्युक्तग्रहणस्य हि ‘नातिरात्रे षोडशिनं गृह्णाति’ इति निषेधकं स्यात्, ग्रहणं व्यावहारिकम् अग्रहणं पारमार्थिकमिति जगत्यापत्तेश्च । न च षोडशिग्रहणाग्रहणवाक्ययो-रुभयोरपि मानान्तराप्राप्तार्थकत्वेन तुल्यबलत्वमिति वाच्यम् । सत्वश्रुतिरपि प्रत्यक्षागृहीत-त्रैकालिकसत्वपरेत्युक्तत्वात् । ‘आपश्चन प्रमिनन्ती’ त्यादिपदार्थसंसर्गस्य विधेयस्य सत्वाच्च । देवताप्रमाविषयस्य विश्वसत्वस्य मिथ्यात्वासम्भवाच्च ।

किञ्च ‘यत्तन्ने’ति निषेधानुवादलिङ्गाभावाच्च । अन्यथा ‘तत्सत्यमि’त्याद्यपि ‘न सत्तन्नासदुच्यते’ इति ‘असद्वा इदमग्र आसीत्’ इति च निषेधाय ‘सन् घटः’ ‘सद्घटज्ञानं’ ‘सत्सुखस्फुरणं’ ‘अहमज्ञोऽस्मी’त्यादिसिद्धब्रह्मसत्वानुवादि स्यात् । न च ब्रह्मत्व-सामानाधिकरण्येन सत्वस्य प्रत्यक्षादिभ्योऽप्राप्तिः शून्यवादापत्तिश्चेति वाच्यम् । अखण्डार्थक श्रुत्यापि ब्रह्मत्वसामानाधिकरण्येनाबोधनात् । त्वन्मते शून्यस्याप्यापाद्यत्वात् । न चेदं सर्वं यदयमात्मेत्यादिनिषेधानुवादलिङ्गमस्ति । इदं सर्वं यस्मिन् सोऽयमात्मेति हि श्रुत्यर्थः । एवमानन्दश्रुतिरपि ‘अदुःखमसुखं समम्’ इति निषेधायानुवादिनी स्यात् । ‘सुखमहमस्वाप्सं’ ‘अहं सुखी’ ‘मयि सुखस्फुरणमि’त्यादिप्रत्यक्षेण स्वरूपसुखस्य प्राप्तत्वात् ।

न च दुःखसाहचर्येण सुखमपि वैषयिकमेव न स्वरूपसुखम् । वैषयिकसुखस्यापि जडत्वभङ्गे त्वया स्वरूपसुखत्वोपपादनात् । न च निष्प्रपञ्चतायाः सुषुप्तौ पुरुषार्थत्वदर्शनेन निष्प्रपञ्चश्रुतिः प्रबलेति तदनुसारेण सप्रपञ्चश्रुतिर्नेयेति वाच्यम् । मूर्च्छायां निष्प्रपञ्चसत्व-तत्वादर्शनात् । न च तदा तदज्ञानमात्रं न तु तदभावः । सुषुप्तावपि तुल्यत्वात् । न च मूर्च्छायां स्वरूपस्यावरणं नास्ति, सुषुप्तौ च तदस्तीति वाच्यम् । तर्हि सुखस्यैव पुरुषार्थत्वेन निष्प्रपञ्चताया अनुपयोगात् । न च निष्प्रपञ्चतायां ‘उत्कृष्टं स्वरूपसुखं स्फुरती’ति निष्प्रपञ्चता आवश्यकीति वाच्यम् । स्वरूपसुखे वास्तवोत्कृष्टतायास्तवालीकत्वात् । विशिष्टसुखभानेऽपि विशेष्यस्य स्वरूपसुखस्य भानावश्यकत्वाच्च । न च ‘द्वितीयाद्वै भयं भवती’ ति सप्रपञ्चसुखस्यापुरुषार्थत्वमिति वाच्यम् । ‘तस्मादेकाकी न रमते’ ‘स हायमीक्षाञ्चक्रे’ इति वाक्याभ्यां सप्रपञ्चसुखस्य पुरुषार्थत्वबोधनात् ।

किञ्च ‘पृथगात्मानं प्रेरितारं च मत्वा जुष्टस्ततस्तेनामृतत्वमेति’ ‘तमेवं विदित्वाऽति-मृत्युमेति’, ‘तमात्मस्थं येऽनुपश्यन्ति धीरास्तेषां शान्तिः शाश्वती नेतरेषाम्’,

‘भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरम् ।

सुहृदं सर्वभूतानां ज्ञात्वा मां शान्तिमृच्छति’

इति श्रुतिस्मृतिभिः सगुणज्ञानस्यैव मोक्षहेतुत्वमुक्तम् ।

न च ‘एकधैवानुद्रष्टव्यम्’ इत्यादिवाक्यस्वारस्याद् अभेदज्ञानस्यैव साक्षान्मोक्षहेतुत्व-मिति वाच्यम् । एकप्रकारविशिष्टपरत्वेन तस्याः श्रुतेस्त्वदनभिमतार्थकत्वात् । जग-दुत्पत्यादिकर्तुरवस्थान्तरादिप्राप्तिरूपविकारादिराहित्येन दर्शनस्योक्तत्वात् । अथवा एकधैव सर्वज्ञत्वाद्यनन्तगुणैः सहैवानुद्रष्टव्य इत्यर्थाद् एकधाशब्दस्य साहित्यवचनात् । उक्तं हि दशमस्य द्वितीये ‘एकधोपहारः सहत्वं ब्रह्मभक्षाणां प्रकृतौ विहितत्वात् । ‘एकधा ब्रह्मण उपहरती’ति किमत्र सकृत्वं सहत्वं वा विधीयते । यदि सहत्वं, ततश्चोदकप्राप्तानामिडा-प्राशिन्न चतुर्धा करणाशं युवाककालभक्षाणां कालभेदेन(?) चतुर्ग्रहणे प्राप्ते सकृद्वेति-नाधिकमिति विधानात् । एक एवास्य भक्ष उपसंहर्तव्यः, भक्षान्तराणि निवर्तेरन्, सहविधौ पुनरनि(र्जि)वर्तिता भक्षाः कालभेदेनोपसंहर्तव्याः प्राप्ताः सन्त एकस्मिन् काले उपह्रीयन्ते । तत्र सकृत्वे सहत्वे चैकधाशब्दस्य लोके प्रयोगात् ।

किञ्च ‘न हिंस्यात् सर्वा भूतानी’ति श्रुतिरविशेषप्रवृत्तापि हिंसात्वसामान्यस्य प्रत्यक्षादिप्राप्तत्वान्निषेध्योपस्थितौ नाग्नीषोमीयवाक्यमपि निषेध्यसमर्पणायापेक्षते, न तथा प्रत्यक्षाप्राप्तधर्माधर्मादिसत्यत्वबोधिकां ‘विश्वं सत्यम्’ इत्यादिश्रुतिमपि निषेध्यसमर्पणाया-पेक्षितुमर्हति । न च अग्नीषोमीयवाक्यस्य निषेधविषयन्यूनविषयत्वेन (न)निषेध्यसमर्पकत्वम् इति वाच्यम् । ‘विश्वं सत्यम्’ इत्यस्यापि प्रत्यक्षाप्राप्तधर्माधर्मादिसत्यत्वबोधकतया पूर्व-निषेधकत्वात् ‘नेति नेती’त्यस्यान्यूनविषयत्वात् । अत एव प्रत्यक्षाप्राप्तधर्मादिसत्व-प्रतिपादनेन ‘विश्वं सत्यमि’ति वाक्यस्य प्रामाण्यम् ।

न्यायामृतमाधुरी

यथेत्यादि ॥ तथा च न चतुरित्यादिवचनं यथा षड्विंशतीत्यादेः प्रतिप्रसवस्तथा विश्वसत्यत्वश्रुतिर्विश्वमिथ्यात्वस्येत्यर्थः । वैशेषिकेति । विकृतिप्रकरणपाठकल्पितवचन-वृत्तिप्राप्तेत्यर्थः । ननु न चतुस्त्रिंशदिति ब्रूयादिति निषेधश्रवणेन षड्विंशतिरित्येव ब्रूया-दित्यत्र चोदकप्राप्तमन्त्रापवादकवैशेषिकमन्त्रं प्रति बाधकत्वमुपेयताम् । विश्वं सत्यमित्यादौ तु निषेधश्रवणाभावेन प्रत्यक्षापवादकाद्वैतश्रुतिबाधकता कथमित्याशङ्कायामाह ॥ दृश्यन्तेहीति । प्रथमाध्यायस्य द्वितीयपादे असंयोगाल्लिट् किदिति सूत्रादनन्तरं पठितस्य ‘मृडमृदगुधकुष-क्लिशवदवसः क्त्वा’ इति सूत्रस्य तत्पादीयतत्सूत्रोत्तर ‘न क्त्वा सेडिति कित्वापवादप्रति-बाधकतेव निषेधाभिधायकनञ्समभिव्याहारविधुरस्यापि विश्वं सत्यमित्यादेः सत्वगोचर-प्रत्यक्षापवादकाद्वैतश्रुतिबाधकतेत्यर्थः । विनेयानाम् उक्तविषयावरोहाय समासेन तत्प्रति-पादयति ॥ तस्मादिति । भेदादिति द्वन्द्वगर्भः षष्ठीतत्पुरुषः । इन्द्रियासन्निकृष्टे धर्मिणि सत्वप्रत्यायनाद् धर्मिभेदः । विप्रतिपत्यादिप्रतिबन्धादनुत्पद्यमानसत्वसाक्षात्कारं प्रमातारं प्रति तत्प्रत्यायनात्प्रमातृभेदः साक्षात्कृतव्यावहारिकसत्वादतिरिच्यमानतात्विकसत्वावगाहनाद्धर्म-भेदः । न हिंस्यादित्यादि अहिंसावाक् । नानाशाखास्थैकार्थप्रतिपादकं वाक्यं भिन्नशाखा-वाक् । द्वयोः प्रणयन्तीत्यादिवाक्यं द्विप्रणयनादिशब्देन प्रतिपाद्यते । प्रमाणम् अबाधितार्थावगाहि । तद्बाध इति । एकत्र विरुद्धार्थावगाहिर्नोद्वयोरप्यबाधितार्थकत्वानु-पपत्तेरित्यर्थः । न चेत् प्रमितिविषयीकृतार्थप्रमापकतावैधुर्ये ।

अत्राद्वैतसिद्धिकारः । न हि प्रमितप्रमापकत्वमनुवादकत्वम् । किन्तु पश्चाद्बोधकत्व-मात्रम् । पश्चात्वं च प्रमाणावधिकमप्रमाणावधिकं चेति न कश्चिद्विशेषः । तच्चास्ति सत्व-श्रुतेरित्याह । तद्ग्रन्थकृत्तात्पर्यानधिगतिनिबन्धनम् । प्रमाणभूतायाः श्रुतेरप्रामाणप्रत्यक्षा-वधिकानुवादत्वं न सम्भवतीत्येव तदभिहिततया प्रमितप्रमापकत्वमनुवादकत्वमिति लक्षणा-नभिधानेनाक्षतेः । नतु विश्वसत्वश्रुतेरद्वैतश्रुतिविरोधेनाप्रामाण्येनुवादकत्वयोरयोगादिति भावः । अत्राद्वैतसिद्धिकारः । सत्वांशस्य प्रत्यक्षसिद्धत्वेऽपि वाक्यार्थस्य क्रियादिसमभि-व्याहारसिद्धस्यापूर्वत्वेन तद्विषयकतयैवाननुवादकत्वोपपत्तावद्वैतश्रुतिविरुद्धतात्विकसत्वविषयत्व- कल्पनायास्तदर्थमयोगात् । परमार्थसद्विषयता तु सर्वश्रुतीनां शुद्धब्रह्मतात्पर्यकत्वेनैव । अवान्तरतात्पर्यमादाय व्यावहारिकसद्विषयतेति कर्मकाण्डप्रामाण्योपपादने वक्ष्यत इत्याह ।

तन्न साधीयः । साक्षात्काराविषयीकृतसत्वतात्पर्यकत्वेन श्रुतेः प्रामाण्यस्य क्रिया-समभिहारेण निगदितत्वात् । ब्रह्मसत्वस्यापि लोकतो भ्रमाधिष्ठानत्वादिरूपलिङ्गेन बाधित-तया सत्यं ज्ञानं, नेह नानेत्यादिरूपाया अपि श्रुतेरनुवादकत्वापातात् । तुल्यदिशा तदीय-प्रामाण्यस्यापि क्रियासमभिहारसिद्धापूर्वार्थपरत्वेनैव सूपपादत्वात् । अप्रमाणमनुरुध्य प्रमाण-स्यानुवादकता दुरुपगमेत्याह न हीति । लोकतः न जानामि सुखस्फुरणमित्यादि प्रत्यक्षात् । ब्रह्मत्वसामानाधिकरण्येन सत्वं ह्यनेन प्रतिपादनीयम् । तच्च न प्रत्यक्षगम्य-मित्यद्वैतसिद्धिकृद्वचनमनवधेयमेव । तन्मते सत्यज्ञानादिलक्षणवाक्यानामखण्डार्थनिष्ठतोप-गमेन शाब्दबुद्धेर्विशेष्यतावच्छेदकविधया ब्रह्मत्वानवगाहितया ब्रह्मत्वसामानाधिकरण्ये-नेत्युक्तेर्न्यायनयानाकलननियन्त्रितत्वात् । लिङ्गेन चेति । तेनाप्यज्ञानसाधकानुमानानामुप-न्यस्ततया तदप्रामाण्याशङ्कानस्य तदाकरविरुद्धत्वात् । प्रत्यक्षादि साचिव्ये मानत्वाच्च । प्रवाहानादीति । तस्याप्यपौरुषेयश्रुत्यवधिकपूर्वत्वाभावादिति तद्वचनमपि ब्रह्मान्यमात्रस्या-विद्याकार्यत्वमुपेयुषां मते श्रुतेरप्युत्पन्नत्वेन तयोः पौर्वापर्यानिर्णीतेरनादर्तव्यम् । उक्ता हीति ॥ उरुप्रथस्वेत्यादिमन्त्रस्य पुरोडाशप्रथनाभिधानसामर्थ्यरूपलिङ्गेन पुरोडाशप्रथनरूपे कर्मणि विनियोगे सिद्धे इति पुरोडाशं प्रथयतीति ब्राह्मणवाक्यरूपतदर्थशास्त्रस्य वैय्यर्थ्या-दनुवादकत्वमभिहितमित्यर्थः । नाप्रामाण्यहेतुरिति ॥ अत्राद्वैतसिद्धिकारः । यतो लाघवादनुवादकत्वमेवाप्रामाण्ये प्रयोजकं न तु सापेक्षानुवादित्वं, अनधिगतार्थबोधकत्वस्य प्रामाण्यघटकस्य तावतैव गतत्वादित्यवोचत् । तद्ग्रन्थकृदेव ‘‘याथार्थ्यमेव प्रामाण्यं न त्वनधिगतार्थत्वम्’’ इत्यादिनाऽनुपदं प्रत्याख्यास्यति । अत्र स एव – न च तर्हि धारावाहनबुद्धावप्रामाण्यमित्याशङ्कमानस्तस्या वर्तमानार्थग्राहकत्वेन तत्तत्क्षणविशिष्टग्राहक-तयाऽनुवादकत्वाभावादिति समादधौ । तन्न शोभनम् । घटोऽयमिति चाक्षुषधाराया नीरूपातिसूक्ष्मक्षणांशे लौकिकत्वस्य तत्तदुपनायकाभावेनालौकिकत्वस्य चायोगात् । वर्तमानता तूपनीतस्थूलकालोपाधिमादाय सर्वज्ञानधारासाधारणीति विषयभेदिका न भवत्येव । अत्र सत्वश्रुतिरपि सत्वप्रत्यक्षापेक्षत्वात्सापेक्षानुवादिन्येव । न हि सत्वप्रत्यक्षं विना तन्मूलशक्त्यादिग्रहमूलकशब्दप्रवृत्तिसम्भव इति व्याजहार । तदविभावितम् । तथा सति तुल्यदिशा सत्यज्ञानादिवाक्यस्यापि तत्सापेक्षतयाऽज्ञोऽस्मीत्यादिप्रत्यक्षसत्वानु-वादितया च सापेक्षानुवादतापत्तेः । विश्वसत्वश्रुतेः स्वार्थे तात्पर्यात्प्रामाण्यं सङ्गच्छत इत्याह । किञ्चेति ॥ विद्वद्वाक्ये ‘य एवं विद्वान्पौर्णमासीं यजते य एवं विद्वानमावास्यां यजते’ इत्यादौ । अत एवेति ॥ सप्रयोजनानुवादत्वादेवेत्यर्थः ।

समुदायेत्यादि ॥ दर्शपूर्णमासाभ्यां स्वर्गकामो यजेतेति वाक्यबोधितं यत्समुदाययोर्द्वित्वं तत्सम्पादनरूपप्रयोजनवत्वेनेत्यर्थः । पौर्णमास्यमावास्यापदाभ्यां विद्वद्वाक्यगताभ्यां त्रिक-स्योक्त्या एकधीविषयत्वरूपसमुदायत्वविशिष्टयोस्त्रिकयोर्विद्वद्वाक्येन लाभे सति दर्शेत्यादि-वाक्यात् तथा द्वित्वं बोद्धुं शक्यते नान्यथा । तदबोधेन षण्णमेव फलसम्बन्धः किं त्वन्येषामपि । आज्यभागयोर्हि द्वित्वं प्रसिद्धं न दर्शादिकालयोगित्वं, आग्नेयादिघटकस्य तु तत्प्रसिद्धं न द्वित्वमतस्तदुभययुक्तस्य बोधकं दर्शपूर्णमासाभ्यामिति पदं लक्षणयाऽऽज्य-भागाग्नेयादिसकलयागपरं स्यात् । समुदायद्वयबोधे तु विद्वद्वाक्येन कृते षण्णामेव यागानां फलसम्बन्ध इति भावः । अनुवाद्यस्वार्थपरत्वाद् विद्वद्वाक्यस्य पूर्णमास्यमावास्याकाल-युक्ताग्नेयादियागलक्षणानुवाद्यस्वार्थपरत्वात् ।

वाक्यैकवाक्यता फलवाक्यार्थान्वितसमुदायद्वयप्रमापकता । अर्थवादवद् अर्थवादान्तर-त्वात् । स्तुतिरूपत्वेनेति शेषः । पदैकवाक्यता फलवाक्यापेक्षितस्तुतिलक्षकपदता । नैष्फल्यमात्रम् अज्ञाननिवृत्यादिरूपफलानुपधायकत्वम् । किञ्चायमित्यादि । विश्वं सत्यं, इदं सर्वं यदयमात्मेत्याद्यनुवाद इत्यर्थः । वाक्यवद् वाक्यमिव स्तुत्यर्थः स्तुतिधीद्वारः । आश्रयासिद्धाविति ॥ दध्नो होमं प्रति कारकत्वाद्धोमो दध्याश्रयस्तत्सिद्धौ तत्संसर्गसिद्धिः स्यादित्यर्थः । तत्रैवेति ॥ नेह नानास्ति किञ्चनेति वाक्य एव । न हीति । प्राप्तिरेव निषेधौपयिकी न तु शाब्दी सा, गौरवादिति हृदयम् । अत्रेति ॥ पारमेश्वरजगत्सर्जनादेः सत्यत्वेन ज्ञानं देवानामपि वर्तते इति तदीयतादृशज्ञानरूपालौकिकप्रमाणस्याभिधाना-दित्यर्थः । सर्वेति ॥ व्यवस्थिते अनुस्यूते । उत्तरार्धोदाहरणं तूपहितस्यैव सर्वप्रत्ययवेद्यता न त्वनुपहितस्येति शङ्कापनोदाय । तत्र प्रपञ्चविलयाधिष्ठानत्वरूपानुपहितलिङ्गसमभिव्याहारा-दिति भावः । परागर्थेति ॥ पराञ्चो बहिर्विद्यमाना येऽर्थास्त एव प्रमेयानि तेषु फलभूता संवित् । घटादिविषयभासकं चैतन्यं तदेव वेदान्तोक्तिप्रमाणतः षष्ठ्यर्थे तसिस्तादृशप्रमाणस्य प्रमेयमित्यर्थः । इत्थं च घटज्ञानस्य ब्रह्मत्वोपगत्या सद् घटज्ञानमित्यनेन ब्रह्मसत्ता विषयी-क्रियत इत्यर्थः । घटाद्युपहिते ब्रह्मणि सत्ताप्रतीतावप्यनुपहिते तत्र न तत्प्रतीतिरित्या-शङ्कायामाह । सदिति । सुखाज्ञानाद्युपहितमेव भासते नानुपहितमित्यत आह । अधिकेति ॥ ब्रह्मशब्देति । स्वप्रतिपाद्यतासम्बन्धेनार्थांशे ब्रह्मशब्दाभानेऽपीत्यर्थः । औतिनये सत्यज्ञानादिलक्षणावाक्यस्य निर्विशेषार्थनिष्टत्वरूपाखण्डार्थनिष्टतोपगत्या ब्रह्मत्वोपरागेण सत्वाप्रत्यायकतया किञ्चिदनुपरक्ते सत्वं तेन प्रत्याय्यत इत्युपेतव्यतया प्रकृतेऽपि सत्सुखस्फुरणमित्यादौ तावदर्थभानस्यावैकल्यान् न्यायनये निर्विकल्पके भान-मात्रस्य सविकल्पके भानवदिति भावः । एवमानन्देति ।

अत्राद्वैतसिद्धिकृदाशशङ्के । दुःखसाहचर्येण सुखस्यापि वैषयिकस्यैव ग्रहणेन तन्निषेधाय ब्रह्मस्वरूपसुखानुवादायोगादिति । तन्न । वैषयिकानात्मकदुःखस्य ब्रह्मसम्बन्धितायां तत्सामान्यस्य दुष्प्रतिषेधतया दुःखपदस्य वैषयिकदुःखपरतोपेया । सैव तु न सम्भवति । तत्सामान्यस्यैव तदात्मकत्वात् । इत्थं च तत्सामान्यस्य तत्र निषिद्धतया तत्समभि-व्याहृतसुखस्यापि कृत्स्नस्यैव निषेद्धव्यतयाऽऽनन्दश्रुतेरनुवादकत्वापत्तिर् दुर्वारेत्याशयात् । विश्वमिति ॥ विज्ञानवादप्राप्तमिथ्यात्वानुवादकनेहनानेति श्रुत्यनूदितमिथ्यात्वनिषेधरूप-सत्यत्वप्रमापिका ‘‘विश्वं सत्यम्’’ इति श्रुतिरिति सूपगमतया तस्यास्तदनुवादकता प्रसज्येतेति भावः । अबाध्यत्वपदोपादानं सत्यत्वस्याभावरूपतां ध्वनयितुम् । तेन प्रतियोगिग्रहानावश्यकतेति तदीयशङ्कानवकाशः । धर्मेत्यादि । सत्यत्वस्येति तद्गुण-संविज्ञाननिर्देशोत्तरं पूरणीयम् । हिंसायाः प्रत्यक्षादितः प्राप्त्या तत्सामान्यनिषेधिकाऽपि श्रुतिर्निषेध्योपस्थापनाय नाग्नीषोमीयवाक्यं यथा नापेक्षते तद्वन्नेहनानेत्यादिश्रुतिरपि विश्व-सामान्यनिषेधिका स्वप्रत्याय्यनिषेधप्रतियोगिभूतप्रत्यक्षगृहीतघटादिसत्वेन सनाथा न धर्मादि-

सत्वप्रत्यायकवाक्यमपेक्षते । विद्यान्तरेण तदुपस्थितावपि तदपेक्षणे तत्रापि तथा स्यादिति भावः ।

अत्राद्वैतसिद्धिकारः । अग्नीषोमीयवाक्यस्य निषेधविषयन्यूनविषयत्वेनामन्यशेषतया स्वार्थतात्पर्यवत्वेन च न निषेध्यसमर्पणद्वारेण निषेधवाक्यशेषतेत्याशङ्किष्ट । तन्न मनोरमम् । तथा सति तुल्यदिशा विश्वसत्वश्रुतेरपि प्रत्यक्षप्राप्तधर्मादिसत्वप्रत्यायकतमानेतनेतीति विश्व-निषेधकवाक्यावधिकन्यूनविषयकत्वकतया तच्छेषत्वानुपपत्तेः । इत्थं च दृश्यत्वादिहेतूनाम-तीन्द्रियांशे श्रौतो बाधः सुस्थः ।