१० विश्वमिथ्यात्वस्यानुमानबाधः

अनुमानबाधिताश्च दृश्यत्वादयः

२९. अथ विश्वमिथ्यात्वस्यानुमानबाधः

न्यायामृतम्

अनुमानबाधिताश्च दृश्यत्वादयः । तथा हि– ब्रह्मप्रमान्येन वा वेदान्त-तात्पर्यप्रमाजन्यज्ञानान्येन वा, मोक्षहेतुज्ञानान्येन वा अबाध्यत्वे सति असत्त्वा-नधिकरणत्वे सति ब्रह्मान्यद्विमतं वा, सद्वा, पारमार्थिकसद्वा, प्रातिभासिकत्वा-नधिकरणत्वे सत्यसत्त्वानधिकरणत्वात्, अनिषेध्यत्वेन प्रमां प्रति साक्षाद्विषयत्वात्, अनिषेध्यत्वेनेश्वरं प्रति साक्षादपरोक्षत्वात्, सप्रकारकाबाध्यार्थक्रियाकारित्वात्, आरोपितमिथ्यात्वकत्वात्, कल्पकरहितत्वाच्च, आत्मवत् । प्रातिभासिकस्य रूप्यादेर् बाधकं हि ज्ञानं ब्रह्मप्रमान्यद्, वेदान्त तात्पर्यप्रमाजन्यज्ञानान्यत्, मोक्षहेतु-ज्ञानान्यच्चेति तस्यापक्षत्वाय पक्षे सतीत्यन्तं वैकल्पिकमाद्यं विशेषणत्रयम् । तत्रापि ब्रह्म वृत्तिव्याप्यमिति मतेनाऽऽद्यं विशेषणम् । ब्रह्म वृत्तिव्याप्यमिति नेति मतेन तु द्वितीयतृतीये । तत्रापि शाब्दप्रमां प्रति तात्पर्यप्रमाहेतुरिति मतेन द्वितीयम् । अन्योन्याश्रयान्न हेतुरिति मतेन तृतीयम् ।

यद्वा एतद्विशेषणस्थाने स्वबाधकाभिमताऽबाध्यदोषजन्यज्ञानाविषयत्वे सतीति वा, स्वबाधकाभिमताबाध्यबाधाविषयत्वे सतीति वा, समानाधिकरणकर्म-प्रागभावसमानकालीनज्ञानाबाध्यत्वे सतीति वा विशेषणं देयम् । प्रातिभासिक विषयकज्ञानहेतुर्दोषस् तद्बाधश्च न प्रातिभासिकबाधकबाध्यौ । तथा चरम-साक्षात्कारानन्तरं समानाधिकरणकर्मान्तरानुदय इव शुक्तिसाक्षात्कारानन्तरं तदनुदयाभावात् प्रातिभासिकं समानाधिकरणकर्मप्रागभावसमानकालीनज्ञान-बाध्यमिति तद्व्यवच्छेदः । व्यावहारिकसत्त्वं सत्त्वेन व्यवहारमात्रमिति मतानु-सारेणाद्यं साध्यम् । अर्थगतं मायिकं सत्त्वमिति मतानुसारेण द्वितीयम् । न च वादिनः पारमार्थिकत्वविशेषणं व्यर्थं, व्यावर्त्याप्रसिद्धेरिति युक्तम् । सत्त्वेन धीमात्ररूपस्यापारमार्थिकसत्त्वस्य मन्मतेऽपि सत्त्वात् ।

अनिर्वाच्यलक्षणे सदसत्त्वानधिकरणत्वे सतीति विशेषणव्यावर्त्यस्य सदसत्त्व-स्येव परप्रसिद्धत्वमात्रेण व्यावर्त्यत्वोपपत्तेश्च । परार्थानुमाने परं प्रति सिद्ध-साधनोद्धारस्यापि मत्प्रयोजनत्वाच्च । जन्यकृत्यजन्यानीत्यत्र मीमांसकं प्रति जन्यत्वस्येवेहापि मां प्रति परमार्थत्वस्य प्रमेयत्वादिवदुपरञ्जकत्वेन विशेषणत्वो-पपत्तेश्च । अन्यथा प्रपञ्चः परमार्थसद्विविक्त इति त्वदीयप्रयोगेऽपि परमार्थत्वविशेषणं मां प्रति व्यर्थं स्यात् । न चाऽऽद्यहेतौ वादिनं प्रति प्रातिभासिकत्वाप्रसिद्ध्या तदनधिकरणत्वाप्रसिद्धिः । मतद्वयेऽप्यप्रामाणिकस्यापि निषेधप्रतियोगित्वात् । आरोपितत्वेनोभयसम्मतत्वरूपस्य वा, प्रतिभासमात्रशरीरत्वरूपस्य वा तस्य प्रसिद्धेश्च । अन्यथा त्वन्मतेऽपि मिथ्यात्वानुमाने प्रातिभासिकान्यस्यैव पक्षीकर्तव्य-त्वाद्दोषसाम्यम् । न चाद्यहेतौ प्रातिभासिकत्वविशेषणस्यासिद्धिवारकत्वं दोषः । ‘‘शरीराजन्यत्वाद्’’ ‘‘अनभ्यासदशायां सांशयिकत्वाद्’’ ‘‘विमतं सौरभविशेष-वद्धूमरहितम्, चन्दनप्रभववह्निरहितत्वाद्,’’ ‘‘विमतं निर्धूमम् आर्द्रेन्धनप्रभव-वह्निरहितत्वाद्’’ इत्यादावसिद्धिवारकविशेषणस्यापि स्वीकारात् । किञ्चानधि-करणत्वस्य दृष्टान्तेऽप्यभावेन प्रातिभासिकत्वस्य चक्षुस्तैजसत्वानुमाने ‘‘रूपादीनां मध्ये’’ इत्यस्येव व्याप्तिग्रहौपयिकत्वाद् व्यभिचारवारकेऽपि तदौपयिकत्वस्यैव तन्त्रत्वान्न दोषः । यत्किञ्चिदनधिकरणत्वस्य प्रातीतिकेऽपि सत्त्वाद्व्यभिचारवारक-मेवेदं विशेषणमिति केचित् । न च व्यावहारिकसत्त्वेनाप्याद्यहेतोरुपपत्त्याऽ-प्रयोजकता । ब्रह्मण्यसत्प्रातिभासिकव्यावृत्तिरूपहेतुं प्रति व्यावर्तकतया प्रयोजकत्वेन क्लृप्तपरमार्थसत्त्वत्यागस्य विश्वमिथ्यात्वसिद्धिं विनाऽयोगेनान्योन्याश्रयात् । अन्यथाऽतिप्रसङ्गात् । न च ब्रह्मणि ज्ञानत्वानन्दत्वादिरूपब्रह्मत्वमेव तत्प्रयोजकम् । अपृथिवीव्यावृत्तिं प्रति पृथिवीत्वस्येवासद्व्यावृत्तिं प्रति तद्विरुद्धसत्त्वस्यैव प्रयोजक-त्वेन क्लृप्तत्वात् । अन्यथा सत्यज्ञानादिवाक्ये ज्ञानपदेनैवानृतव्यावृत्तिसिद्धौ सत्य-पदवैयर्थ्यं स्यात् । प्रपञ्चेऽसत्प्रातीतिकव्यावृत्तौ सत्यामपि ब्रह्मत्वाभावाच्च । न च द्वितीये तत्त्वावेदकप्रमोक्तावसिद्धिः, अतत्त्वावेदकप्रमोक्तौ त्वप्रयोजकतेति वाच्यम् । प्रामाण्यातत्त्वावेदकत्वयोर्व्याहतत्वात् । प्रत्यक्षस्य तत्त्वावेदकतोक्तेश्च । अनुमाना-देश्च परेणापि मिथ्यात्वादौ प्रमाणीकरणात् । विपक्षे व्याघातात् । विषयबाधे प्रामाण्यायोगात् ।

नापि तृतीयेऽसिद्धिः । त्वयाऽपीशस्य जगत्कर्तृत्वशास्त्रयोनित्वादिना कुलाल-पाणिन्यादिवदनिषेध्यत्वेन तद्द्रष्टृत्वोक्तेः । अन्यथेशस्य तत्पालनादौ प्रवृत्तिर्न स्यात् । विपक्षे चेशस्य भ्रान्तिः स्यात् । सा च श्रुत्यादिविरुद्धा । चतुर्थेऽर्थक्रियायाः सत्यायाः पक्षे सपक्षे च परं प्रत्यसिद्ध्या व्याप्तिपक्षधर्मतयोरयोगाद्, असत्याया-श्चैन्द्रजालिकादौ व्यभिचारात्सप्रकारकाबाध्यत्वेन सा विशेषिता । व्यभिचारस्त्वस्य निरसिष्यते । सत्यस्य साक्षिणोऽज्ञानादिसाधकत्वान्न दृष्टान्तः साधनहीनः । असद्वा व्यतिरेकदृष्टान्तः । असाधारण्यस्यागृह्यमाणविशेषत्वावस्थायामेव दोषत्वात् । विपक्षे व्याघातः । ब्रह्मणि हेतुत्वं प्रति अकारणासदादिव्यावृत्तस्य परमार्थसत्त्वस्यैव प्रयोजकत्वेन क्लृप्तत्वात् । न च पञ्चमेऽसिद्धिः । परमतेऽपि जगन्मिथ्यात्वस्या-रोपितत्वात् । अत्र च हेत्वन्तर्गतं मिथ्यात्वं सत्त्वाभावोऽभिप्रेत इति नासत्य-नैकान्त्यम् । न च षष्ठेऽसिद्धिः । चिन्मात्रस्याद्रष्टृत्वेनान्यस्य च कल्पितत्वेना-कल्पकत्वात् । अत्र चाकल्पितत्वस्य साध्यत्वान्नासति व्यभिचारः । विपक्षे व्याघातः । कल्पकं विना कल्पनाऽयोगात् ।

अद्वैतसिद्धिः

स्यादेतत्– अध्यक्षस्य भिन्नविषयत्वादिना बाधाक्षमत्वेऽपि अनुमानमेव बाधकं स्यात् । तथा हि– ब्रह्मप्रमान्येन, वेदान्ततात्पर्यप्रमितिजन्यज्ञानान्येन वा, मोक्षहेतुज्ञानान्येन वा अबाध्यत्वे सत्यसत्त्वानधिकरणत्वे सति ब्रह्मान्यद्, विमतं वा सत् परमार्थसद्वा, प्रातिभासिकत्वानधिकरणत्वे सत्यसद्विलक्षणत्वाद्, ब्रह्मवद्, व्यतिरेकेण शशशृङ्गवद्वेति चेन्न । त्वन्मते प्रातिभासिकस्याप्यसत्त्वेन व्यर्थविशेषणतया व्याप्यत्वासिद्धेः । अस्मन्मत-माश्रित्य हेतूकरणे च देहात्मैक्ये ब्रह्मज्ञानेतराबाध्ये व्यभिचारात् । न हि प्रातिभासिकत्वं, ब्रह्मज्ञानेतरबाध्यत्वादन्यत् । त्वया हि प्रातिभासिकस्य शुक्तिरूप्यादेरपक्षत्वाय सत्यन्तमाद्यं विशेषणत्रयं विकल्पेन पक्षे प्रक्षिप्तम् । तत्र ब्रह्म वृत्तिव्याप्यमिति मतेनाद्यम् । तदनभ्युपगमे तु शाब्दप्रमां प्रति तात्पर्यप्रमा हेतुरिति मतेन द्वितीयम् । अन्योन्याश्रयत्वान् न सा हेतुरिति मतेन तृतीयम् । तथा च प्रातिभासिकस्यासत्त्वानधिकरणत्वमङ्गीकृतमेव । अन्यथा तुच्छवारकासत्त्वानधिकरणत्वविशेषणेनैव तद्व्यावृत्तावेतावत्प्रयासवैयर्थ्यापत्तेः । एवं च देहात्मैक्यस्यापि पक्षत्वे बाध एव । बाधे च सति पक्षविशेषणस्य पक्षत्वस्यासिद्ध्याऽऽ-श्रयासिद्धिरपि । अत एव स्वबाधकाभिमताबाध्यदोषजन्यज्ञानाविषयत्वे सतीति वा, स्वबाधकाभिमताबाध्यबाधाविषयत्वे सतीति वा, स्वसमानाधिकरणकर्मप्रागभाव समान-कालीनज्ञानावाध्यत्वे सतीति वा विशेषणप्रक्षेपेऽपि न निस्तारः । देहात्मैक्ये पूर्वाक्तदोषा-व्यावृत्तेरेव ।

यत्तु– प्रथमे साध्ये व्यावहारिकसत्त्वमादाय सिद्धसाधनम् । द्वितीयसाध्ये तु वादिनः परमार्थत्वविशेषणं व्यर्थम् । व्यावर्त्याप्रसिद्धेर् इति । तन्न । व्यावहारिकसत्त्वं सत्त्वेन व्यवहारमात्रमिति मतेन प्रथमप्रयोगात् । अ(र्थ)नुगतं पृथग्व्यावहारिकं सत्त्वमिति तु मते द्वितीयः प्रयोगः । न च विशेषणं व्यर्थम् । परार्थानुमाने परं प्रति सिद्धसाधनोद्धारस्य तत्प्रयोजनत्वात् । ईश्वरानुमाने जन्यकृत्यजन्यानीत्यत्र मीमांसकं प्रति जन्यत्वस्येव विश्वपारमार्थिकत्ववादिनं प्रति परमार्थत्वस्य प्रमेयत्वादिवदुपरञ्जकत्वेन विशेषणत्वोपपत्तेश्च । तस्मात् पूर्वोक्त एव दोषः । हेतौ च व्यर्थविशेषणत्वदोषः । यद्यपि मतद्वयेऽपि अप्रामाणिकस्यापि निषेधप्रतियोगित्वाभ्युपगमादारोपितत्वेनोभयसम्मतत्वरूपस्य वा, प्रतिभासमात्रशरीरत्वरूपस्य वा, प्रातिभासिकत्वस्य प्रसिद्धिरस्ति । अन्यथा सिद्धान्तेऽपि मिथ्यात्वानुमाने प्रातिभासिकान्यस्यैव पक्षीकर्तव्यत्वाद्दोषसाम्यं स्यात् । तथापि हेतौ प्रातिभासिकत्वविशेषणं व्यर्थम् । अनधिकरणत्वे सत्यसत्त्वानधिकरणत्वमात्रस्यैव परमार्थ-सत्त्वसाधकत्वोपपत्तेः । शुद्धमेव हि ब्रह्म दृष्टान्तत्वेनाभ्युपेयम् । धर्मवतो दृष्टान्तत्वे साध्यवैकल्यापत्तेः । साध्यं तु बाधाभावरूपत्वादधिकरणस्वरूपमेव न धर्मः । धर्म्यतिरिक्ता-भावानभ्युपगमस्योक्तत्वात् । तथा च चक्षुस्तैजसत्वानुमाने रूपादिषु मध्य इत्यस्यासिद्धि-वारकस्यापि व्याप्तिग्रहौपयिकत्वेन व्यभिचारवारकविशेषणतुल्यतया यद्यपि सार्थकत्वम् । व्यभिचारवारकस्यापि सार्थकत्वे व्याप्तिग्रहौपयिकत्वमात्रस्य तन्त्रत्वात् । तथापि ‘क्षित्यादिकं न कर्तृजन्यं शरीराजन्यत्वात्’ इत्यत्र शरीरस्येव व्याप्तिग्रहानुपयोगित्वेन प्रातिभासिकत्वस्य वैयर्थ्यमेव । आकाशादावजन्यत्वकर्तृजन्यत्वाभावयोरिव निर्धर्मके ब्रह्मण्यनधिकरणत्वपरमार्थ-सत्त्वयोर्व्याप्तिग्रहोपपत्तेः । तथा चैकामसिद्धिं परिहरतो द्वितीयासिद्ध्यापत्तिः । स्वरूपा-सिद्धिपरिहारार्थं विशेषणं प्रक्षिपतो व्याप्यत्वासिद्धिरित्यर्थः । व्याप्तावनुपयोगस्य दर्शितत्वात् । किञ्च व्यावहारिकसत्त्वमात्रेणैवोपपत्तेः, उक्तहेतोर प्रयोजकत्वम् । परमार्थसत्त्वे बाधानुपपत्तिलक्षणप्रतिकूलतर्कपराघाताच्च ।

ननु ब्रह्मण्यसत्प्रातिभासिकव्यावृत्तिरूपं हेतुं प्रति व्यावर्तकतया प्रयोजकत्वेन परमार्थसत्त्वं क्लृप्तम् । अपृथिवीव्यावृत्तिं प्रति पृथिवीत्वस्येवासद्व्यावृत्तिं प्रति तद्विरुद्ध-सत्त्वस्यैव प्रयोजकत्वात् । ज्ञानत्वानन्दत्वादिकं तु न तत्प्रयोजकम् । साक्षादसत्त्वा-विरोधित्वात् । प्रपञ्चे तदभावाच्च । तथा च ब्रह्मविश्वसाधारणं परमार्थसत्त्वमेव तत्प्रयोजकम् । न च विश्वमिथ्यात्वात् परमार्थसत्त्वमपि न विश्वसाधारणं, ज्ञानत्वानन्द-त्वादिवदिति वाच्यम्, अन्योऽन्याश्रयापत्तेर् इति चेद्, अयुक्तमेतत् । न हि प्रातिभासिका-सतोरेका व्यावृत्तिरुभयी वा समव्याप्ता, येनैकप्रयोजकप्रयोज्या भवेत् । किन्तु प्रातिभासिक-व्यावृत्तिप्रयोजकं ब्रह्मविश्वासत्साधारणमेव वक्तव्यम् । असत्यपि प्रातिभासिकत्वाभावात् । एवमसद्व्यावृत्तावपि प्रयोजकं ब्रह्मविश्वप्रातिभासिकसाधारणमेव वक्तव्यम् । प्राति-भासिकेऽप्यसत्त्वाभावात् । तथा च तत्प्रयोजकद्वयसमावेशादेव ब्रह्मण्युभयव्यावृत्त्युपपत्तौ नीलत्वघटत्वरूपावच्छेदकद्वयसमावेशोपपन्ननीलघटत्ववन्नातिरिक्तप्रयोजककल्पनायामस्ति किञ्चिन्मानमिति कृतबुद्धय एव विदाङ्कुर्वन्तु । नित्यत्वं चोपाधिः । तुच्छप्रातिभासिकयो-र्नित्यत्वव्यतिरेके साध्यव्यतिरेकदर्शनात् ।

अत एवानिषेध्यत्वेन प्रमां प्रति साक्षाद्विषयत्वादित्यपि न हेतुः । किञ्च प्रमात्वं तद्वति तत्प्रकारकत्वं वा तत्त्वावेदकत्वं वा ? आद्ये दृष्टान्तस्य साधनवैकल्यम् । न हि परमार्थसतः शुद्धस्य ब्रह्मणः सप्रकारकज्ञानविषयत्वम् । न च धर्मवतो दृष्टान्ततेत्युक्तम् । तस्य पक्षकुक्षि-निक्षिप्तत्वेन निश्चितसाध्यवत्त्वाभावात् । द्वितीये तत्त्वावेदकत्वस्याबाधितविषयत्वरूपत्वेन साध्याविशेषपर्यवसानाद्धेतुग्रहे सिद्धसाधनम् । हेत्वग्रहे तु स्वरूपासिद्धिः । यत्तु– प्रमाविषयत्वमात्रेणैव परमार्थत्वोपपत्तौ विशेषणे व्यर्थे इति । तन्न । पुरोवर्तिनं रजततया जानामीत्याद्यनुव्यवसायरूपप्रमाविषये प्रातिभासिके व्यभिचारवारकत्वात् साक्षात्पदस्य । तत्रैव च मिथ्यात्वप्रमितेः साक्षाद्विषये व्यभिचारवारकत्वाद् अनिषेध्यत्वेनेत्यस्य । न ह्यनुव्यवसायमिथ्यात्वप्रमे भ्रमे भवतः ।

नाप्यनिषेध्यत्वेनेश्वरं प्रति साक्षादपरोक्षत्वं हेतुः । सत्यत्वसिद्धिं विना अनिषेध्य-त्वेनेत्यंशस्यासिद्धेः । तथा चान्योन्याश्रयः । न चेश्वरज्ञानविषयस्य प्रपञ्चस्य मिथ्यात्वे तस्य भ्रान्तत्वप्रसङ्गः । मिथ्याभूतस्य मिथ्यात्वेनैव ग्रहणाद् ऐन्द्रजालिकवद् भ्रान्तत्वायोगात् । अन्यथा सविषयकभ्रमज्ञातृत्वेन भ्रान्तत्वस्य दुर्वारत्वापत्तेः । अथ निषेध्यत्वेन ज्ञाने तत्पाल-नार्थमीश्वरस्य प्रवृत्तिर्न स्यात्, न, ऐन्द्रजालिकप्रवृत्तिवदीश्वरप्रवृत्तेरपि तथाविधत्वात् ।

नापि सप्रकारकाबाध्यार्थक्रियाकारित्वं हेतुः । सप्रकारकजाग्रद्बोधाबाध्य स्वप्नजलाव-गाहनप्रियासङ्गमादिविशेषिताप्रमाणीभूतज्ञानस्यार्थक्रियाकारित्वदर्शनेन तद्विषये तत्र व्यभिचारात् । अथ तत्र ज्ञानमेव सुखादिजनकं, तच्चाबाध्यमेवेति मतम् । तदसत् । ज्ञानमात्रस्य हि तादृक्सुखाजनकत्वेन किञ्चिद्विशेषितस्यैव तथात्वं वाच्यम् । ज्ञाने च विशेषो नार्थातिरिक्तः । तदुक्तम् – ‘अर्थेनैव विशेषो हि निराकारतया धियाम्-’ इति । अर्थेनेत्यर्थ एवेत्यर्थः । तथा च मिथ्याभूतविशेषितस्य जनकत्वाभ्युपगमे मिथ्याभूतस्यापि जनकत्वाद्व्यभिचार एव । तथा चोक्तं शास्त्रदीपिकायां बौद्धं प्रति – ‘अथ सुखज्ञान-मेवार्थक्रिया, तच्चाव्यभिचार्येव । न हि क्वचिदप्यसति सुखे सुखज्ञानमस्तीत्याशङ्ग्य सत्यमेतन्न तु तेन पूर्वज्ञानप्रामाण्याध्यवसानं युक्तम् । अप्रमाणेनापि प्रियासङ्गमविज्ञानेन स्वप्नावस्थायां सुखदर्शनाद्’ इति । ननु विषयविशेषोपलक्षितस्यैव ज्ञानस्य सुखजनकत्व-मस्तु । तत् कुतो विषयस्य जनकत्वमिति चेन्न । स्वरूपाणामननुगततया ज्ञानत्वादेश्चाति-प्रसक्ततया अनुगतानतिप्रसक्तोपलक्ष्यतावच्छेदकाभावादुपलक्षणत्वासम्भवात् ।

ननु विशेषणत्वमप्यसम्भवि । अनागतज्ञानजन्यैतत्कालाविद्यमानस्य विषयस्य पूर्वभावित्वरूपजनकत्वासम्भवादिति चेन्न । स्वव्यापारजन्ये व्यापारिणोऽसतो जनकत्ववत् स्वज्ञानजन्येऽप्यसतो जनकत्वसम्भवात् । अतीतानागतावस्थस्यासत्त्वधर्माश्रयत्वे-नैवाभ्युपगमात् । अन्यथा ध्वंसप्रागभावप्रतियोगित्वतज्ज्ञानविषयत्वादीनामनाश्रयत्वापत्तेः । प्रमाणबलात् कारणत्वाभ्युपगमस्यात्रापि तुल्यत्वात् । किञ्च स्वरूपाबाध्यस्य विषया-बाध्यत्वदर्शनेन विषयबाधे स्वरूपबाधस्यावश्यकतया स्वप्नादिज्ञानं सदेवेत्यस्य वक्तुमशक्य-त्वात् । अनादित्वस्य विषमव्याप्तस्योपाधित्वाच्च । न च अर्थक्रियाकारित्वं प्रति परमार्थत्वस्य ब्रह्मणि प्रयोजकत्वेनावधारणादकारणक कार्योत्पत्तिरूपविपक्षबाधकतर्केण हेतोः साध्य-व्यापकतया तदव्यापकतयोपाधेः साध्याव्यापकत्वमिति वाच्यम् । प्रातिभासिकरज्जुसर्पादौ भयकम्पादिकार्यकारित्वदर्शनेन प्रातिभासिकसाधारणस्य तुच्छव्यावृत्तस्य प्रतीतिकालसत्त्व-स्यैवार्थक्रियाकारित्वं प्रति प्रयोजकत्वात् । प्रातिभासिकस्यार्थक्रियाकारित्वानभ्युपगमे सप्रकारकाबाध्येति हेतुविशेषणवैयर्थ्यापत्तेः । कस्मिन्नपि देशे कस्मिन्नपि काले केनापि पुरुषेणाबाध्यत्वं हि परमार्थसत्त्वम् । तदपेक्षया प्रतीतिकालसत्त्वस्य लघुत्वाच्च । किञ्च शुद्धस्यार्थक्रियाकारित्वाभावात् साधनविकलत्वम् । उपहितस्य पक्षनिक्षेपात् साध्य-विकलत्वम् ।

आरोपितमिथ्यात्वकत्वादित्यपि न हेतुः । आरोपितत्वं प्रातिभासिकत्वं चेत्, प्रपञ्चे हेतोरसिद्धिः । तत्सिद्धेः पारमार्थिकसिद्ध्युत्तरकालीनत्वात् । व्यावहारिकत्वं चेत्, शुक्तिरूप्यादौ व्यभिचारः । उभयसाधारण्येऽप्ययमेव दोषः ।

कल्पकरहितत्वादित्यपि न हेतुः । असति व्यभिचारात् । यथाश्रुतस्यासिद्धेश्च । ननु नासिद्धिः । शुद्धं हि चैतन्यं न कल्पकम्, अदुष्टत्वात् । नोपहितम् । कल्पितत्वादेव । अन्यथाऽनवस्थानात् । तथा च यावद्विशेषाभावे कल्पकसामान्याभावसिद्धिर् इति चेन्न । शुद्धस्याप्यनाद्यविद्योपधानवशेन कल्पकत्वोपपत्तेः । कल्पकत्वं हि कल्पनां प्रत्याश्रयत्वं, विषयत्वं, भासकत्वं वा । तच्च, सर्वं कल्पनासमसत्ताकत्वेन शुद्धत्वाव्याघातकम् । तदुक्तं संक्षेपशारीरके–

‘आश्रयत्वविषयत्वभागिनी निर्विभागचितिरेव केवला ।

पूर्वसिद्धतमसो हि पश्चिमो नाश्रयो भवति नापि गोचरः ॥’

इति । अस्तु वोपहितस्य कल्पकत्वम् । न चानवस्था । अविद्याध्यासस्याध्या-सान्तरानपेक्षत्वात् । स्वपरसाधारणसर्वनिर्वाहकत्वोपपत्तेः । अकल्पितस्य कल्पकत्वा-दर्शनाच्च । कल्पितप्रतिबिम्बविशिष्टादर्शादेरादर्शान्तरे प्रतिबिम्बकल्पकत्वदर्शनाच्च । बिम्बस्य द्वितीयादर्शसम्मुखत्वाभावेन तत्र कल्पकत्वायोगात् । अन्यथा अतिप्रसङ्गात् । विस्तरेण चैतदग्रे वक्ष्यामः । तदेवं निराकृताः परमार्थसत्त्वे साध्ये षडमी हेतवः । एवमन्येऽपि निराकार्याः ।

अथ विमतं, न सद्विलक्षणम्, असद्विलक्षणत्वादात्मवदिति अनुमानान्तरं भविष्यतीति मतम् । तन्न । प्रातिभासिके शुक्तिरूप्यादौ व्यभिचारात् । न च तत्रासद्विलक्षणत्वहेतुरेव नास्तीति वाच्यम् । असद्विलक्षणत्वाभावे हि अपरोक्षतया प्रतीतिरेव न स्यात् । ननु तर्ह्यसद्विलक्षणत्वे तद्विरुद्धसद्विलक्षणत्वायोगः, तथा च साध्यस्यापि विद्यमानत्वान्न व्यभिचार इति चेन्न । सत्त्वे सर्वजनसिद्धबाधविरोधात् । गजादौ गोवैलक्षण्येऽपि तद्विरुद्धाश्ववैलक्षण्ययोगवत् सद्वैलक्षण्येऽप्यसद्वैलक्षण्ययोगोपपत्तेः प्रथममिथ्यात्व निरुक्ता-वुक्तत्वात् ।

ननु – विमतं, न चैतन्याज्ञानकार्यं, न तत्कार्यधीविषयः, न तत्कार्यसत्त्ववत्, न तज्ज्ञानबाध्यसत्त्ववद्वा, तस्मिन्नपरोक्षेऽप्यनिषेध्यत्वेन साक्षाद्भासमानत्वाद्, यदेवं तदेवम्, यथा घटे अपरोक्षेऽप्यनिषेध्यत्वेन साक्षाद्भासमानः पटो न घटाज्ञानकार्यादिः । विपक्षे च तदापरोक्ष्ये तदज्ञानव्याहतिरेव बाधिका । न चासिद्धिः, अधिष्ठानतया सुखादिसाक्षित्वेन चेदानीमपि चैतन्यापरोक्ष्यादिति चेन्न । सामान्याकारेणापरोक्ष्येऽपि शुक्त्यादौ रजतादेर-निषेध्यत्वेन साक्षाद्भासमानतया तत्र व्यभिचारात् । अथ व्यावृत्ताकारेण यस्मिन् भासमाने यदनिषेध्यत्वे साक्षाद् भासते, न तत्तदज्ञानकार्यादीति व्याप्तिरिति मन्यसे, तर्ह्यसिद्धिः । न हि चैतन्यमिदानीं भ्रमनिवर्तकत्वाभिमतव्यावृत्ताकारापरोक्षप्रतीतिविषयः । तथा सत्यधिष्ठान-मेव न स्यात् । यदा तु वेदान्तवाक्यजन्यवृत्तौ व्यावृत्ताकारतया अपरोक्षं तदा अनिषेध्यत्वेन प्रपञ्चे आपरोक्ष्यशङ्काऽपि नास्ति । अतः प्रमाणजन्यसाधारणाकारभानस्यैवाज्ञानविरोधि-त्वान्नापरोक्षतामात्रेणाज्ञानपराहतिप्रसङ्गः । यत्त्वज्ञानपदेन ज्ञानाभावोक्तौ सिद्धसाधनम्; अनिर्वचनीयाज्ञानोक्तौ च तस्य खपुष्पायमाणत्वेन प्रतियोग्यप्रसिद्धिरिति । तत्तुच्छम् । असत्प्रतियोगिकाभावं स्वीकुर्वतः पराभ्युपगममात्रेणैव प्रतियोगिप्रसिद्धिसम्भवात् ।

ननु – विमतं, नात्मन्यध्यस्तम्; आत्मसाक्षात्कारवत्प्रवृत्तिविषयत्वात्, यदेवं तदेवं, यथा घटसाक्षात्कारवत्प्रवृत्तिविषयो घटो न तत्राध्यस्तः । न चासिद्धिः, ईशजीवन्मुक्त-योरात्मसाक्षात्कारवतोरपि जगद्रक्षणभिक्षाटनादौ प्रवृत्तेः । शङ्खे अध्यस्तमपि पीतत्वं न शङ्खश्वेतत्वसाक्षात्कारवत्प्रवृत्तिविषय इति न तत्र व्यभिचार – इति चेन्न । प्रतिबिम्बे व्यभिचारात् । स हि मुखैक्यसाक्षात्कारवत्प्रवृत्तिविषयो मुखेऽध्यस्तः । तद्व्यतिरेकेणोप-लभ्यमानत्वस्योपाधित्वाच्च ।

न्यायामृततरङ्गिणी

प्रत्यक्षबाधमभिधायानुमानबाधमाह ॥ अनुमानेति ॥ ब्रह्मप्रमान्येनेत्यादि ॥ अत्र बाधादिवारकविशेषणस्य प्रयोजनवत्त्वं विप्रतिपत्तावुक्तमनुसन्धेयम् ॥ सद्वेति ॥ पारमार्थिकसत्त्वातिरिक्तं व्यावहारिकं प्रातिभासिकं वा सत्त्वं नास्तीति पक्षे सदित्येव साध्यनिर्देशः । व्यावहारिकसत्त्वादिकमादाय सिद्धसाधनाभावादित्यभिप्रायः ॥ अनिषेध्यत्वेनेति ॥ पुरोवर्तिनं रजततया जानामीत्याद्यनुव्यवसायरूपप्रमाविषये प्रातिभासिके व्यभिचारवारणाय साक्षात्पदम् । तत्रैव मिथ्यात्वप्रमितेः साक्षाद्विषये व्यभिचारवारणायानिषेध्यत्वेनेति विषयत्वविशेषणम् । इदं रजतमिति ज्ञानं प्रति साक्षाद्विषये रूप्ये व्यभिचारवारणाय प्रमेति । तेन रजताभावस्यानिषेध्यत्वेन रजतं नास्तीति प्रमां प्रति विषये रजते न व्यभिचारः । न चैवं स्वप्रमाविषयत्वमेवास्त्विति वाच्यम् । यथोक्तविशेषणविशेष्यभावे वैयर्थ्याभावात् । अनिषेध्यत्वेन ईश्वरं प्रतीति ॥ अपरोक्षत्वस्य ज्ञानत्वाघटितत्वान्न वैयर्थ्यमिति बोध्यम् ॥ प्रातिभासिकस्येति ॥ ननु सर्वप्रत्ययवेद्यत्वाद्ब्रह्मणः प्रातिभासिकबाधकज्ञानमपि ब्रह्मज्ञानमेव । न च तस्य ब्रह्मज्ञानत्वेऽपि न तत्प्रमात्वमिति वाच्यम् । ब्रह्मांशे तस्यापि प्रमात्वात् । न चोभयसिद्धा या ब्रह्मप्रमा तदन्येति विवक्षितमिति वाच्यम् । ब्रह्मण्यारोपितस्य क्षणिकत्वादेस्तथाप्य-बहिर्भावादिति चेन्न । उभयसिद्धब्रह्माधिष्ठानकभिन्नत्वे सतीत्यस्यापि विशेषणत्वादिति न कोऽपि दोषः ॥ अन्योन्याश्रयादिति ॥ मानान्तरागम्यस्य वाक्यार्थस्य वाक्यादुपस्थितौ तत्र तात्पर्यावधारणं, तदवधारणे च वाक्याद्वाक्यार्थोपस्थितिरित्यर्थः ।

ननु ज्ञानमेवाज्ञाननिवर्तकमिति परमते अज्ञाननिवृत्तिरूपमोक्षहेतोर्ज्ञानान्यस्याभावेना-व्यावर्तकतया ज्ञानेति व्यर्थम् । न चाज्ञाननिवृत्तिरदृष्टादिकारिताऽपीति वाच्यम् । तर्हि तद्वदेव प्रपञ्चस्याप्यदृष्टसहितज्ञानबाध्यत्वापत्तौ ज्ञानान्याबाध्यत्वमसिद्धमित्यरुचेराह ॥ यद्वेति । ननु शशशृृङ्गमस्तीति शब्दाभासजन्यासद्विषयकज्ञानहेतोर्दोषस्यासद्बाधकाभिमता-बाध्यतया सत्यन्तविशेषणेनैवासद्व्यावृत्तिसम्भवे तद्वारकस्यासत्त्वानधिकरणत्वे सतीत्यस्य वैयर्थ्यमेव । रूप्याकाराविद्यावृत्त्यनङ्गीकर्तृमते साक्षिविषयस्यापि रूप्यस्य दोषजन्यज्ञाना-विषयतया तस्यापि पक्षत्वापत्तौ बाधश्चेत्यरुच्या पक्षान्तरमाह – स्वबाधकाभिमतेति । समानाधिकरणेति । मनःपरिणामस्य ज्ञानस्य कर्मप्रागभावसामानाधिकरण्यं बोध्यम् ।

ननु सर्वेष्वप्येषु पक्षेषु वादिनं प्रति प्रातिभासिकव्यावृत्त्यर्थमुपात्तमाद्यं सत्यन्तं वैकल्पिकं विशेषणं व्यर्थम् । तन्मते प्रातिभासिकस्यासत्त्वेनासद्व्यावर्तकासत्त्वानधिकरणत्वविशेषणेनैव प्रातिभासिकस्यापि व्यावृत्तिसिद्धेः । न च परार्थानुमाने प्रतिवादिनं प्रति सिद्धसाधनोद्धार-स्यापि वादिनं प्रति प्रयोजनत्वात्, जन्यकृत्यजन्यानीत्यत्र पक्षतावच्छेदके मीमांसकं प्रति जन्यत्वस्येवेहापि वादिनं प्रति सत्यन्तस्य तदुपरक्तबुद्धेरुद्देश्यत्वेन विशेषणत्वोपपत्तेश्च न वैयर्थ्यमिति वाच्यम् । एवमपि देहात्मैक्यस्यापि पक्षत्वे बाध एव । बाधे च सति पक्षविशेषणस्य पक्षत्वस्यासिद्ध्या आश्रयासिद्धिरपीति चेन्मैवम् । देहात्मैक्याध्यास-निराकरणाभिप्रायेणास्योक्तत्वाददोषः । वस्तुतस्तु आद्यसत्यन्तविशेषणस्य सत्यत्ववादि-मिथ्यात्ववाद्युभयसिद्धमिथ्यात्वकभिन्नत्वमर्थः । अस्ति च रूप्ये देहात्म्यैक्ये च तार्किका-दीनां सत्यत्ववादिनां मिथ्यात्ववादिनां च मिथ्यात्वप्रसिद्धिरतस्तस्य न पक्षता । प्रपञ्चे च तार्किकादीनां न मिथ्यात्वप्रसिद्धिः । अतः प्रपञ्चस्य पक्षतोपपत्तिः । सिद्धान्ते देहात्म्यैक्यभ्रमाभावेऽपि दोषाभावश्चेति दिक् ।

प्रथमसाध्ये सिद्धसाधनतां परिहरति – व्यावहारिकसत्त्वमिति ॥ तथा च परमते प्रपञ्चे सत्त्वव्यवहारेऽपि सत्त्वस्याभावान्न सिद्धसाधनमित्यर्थः । द्वितीयसाध्ये व्यर्थ-विशेषणत्वं परिहरति – अर्थगतमिति ॥ तथा च प्रपञ्चेऽपि तन्मते सत्त्वस्य विद्यमानत्वात्तद्विशेषणाभावे सिद्धसाधनता स्यादित्यर्थः । अनिर्वाच्येति ॥ सदसत्त्वं क्वचिद्बौद्धमस्ति । तदनधिकरण मनिर्वाच्यमिति लक्षणमाश्रित्येदमुक्तं – परार्थानुमान इति । विशेषणत्वे तूभयसिद्धं प्रयोजनवत्त्वं तन्त्रम्, न तु प्रयोजनस्याप्युभयसिद्धत्वमिति भावः । अप्रसिद्धिरिति । प्रतियोगिप्रमाविरहेणाभावाज्ञानमित्यर्थः । मतद्वयेऽपीति । प्रतियोगित्वादित्यतः परं प्रतियोगिज्ञानमात्रस्यैवाभावधीहेतुत्वादिति शेषः । केनचिद्रूपेण प्रतियोगिप्रमापि सम्भवतीत्याह– आरोपितत्वेनेति । न च विशेष्यस्यासत्त्वात्कथं सा प्रमेति वाच्यम् । प्रमां प्रति न विशेष्यसत्त्वं प्रयोजकम् । विशेष्यसत्त्वेऽपि रूप्यज्ञानस्या-प्रमात्वात् । किन्तु स्वोल्लिखितस्य प्रकारसम्बन्धस्य विशेष्ये सत्त्वम् । तच्च प्रकृतेऽप्यस्त्येवेति भावः । प्रतिभासेति । मात्रशब्देनार्थो व्यावर्त्यते । अर्थाभावेऽपि प्रातिभासवत्त्वमित्यर्थः । यथाश्रुते ज्ञानात्मकतापत्तौ विरोधः स्यादिति बोध्यम् । असिद्धीति ॥ यत्किञ्चिदधिकरणे प्रपञ्चे अधिकरणत्वाभावस्यासिद्धिरित्यर्थः । असिद्धि-वारकस्यापि बहुशोऽभियुक्तैः प्रयुक्तत्वान्न वैयर्थ्यमित्याह– शरीरेत्यादि ॥ विमत-मिति ॥ वह्निमतः पक्षीकरणादसिद्धिर्बोध्या । विमतं तप्तायःपिण्डादि ॥ किञ्चेति ॥ तथा चाप्रसिद्धिवारकतया सहचारग्राहकतया व्याप्तिग्रहोपयुक्तत्वान्न तद्वैयर्थ्यमित्यर्थः । केचिदित्यस्वरसोद्भावनम् । तद्बीजं तु अनधिकरणत्वस्याधिकरणत्वसामान्याभावपरत्वे व्यभिचाराभावः । विशेषाभावपरत्वे तु प्रातिभासिकत्वविशेषणेऽपि व्यभिचार एवेति ।

ननु तथापि प्रातिभासिकत्वविशेषणं व्यर्थम् । अनधिकरणत्वे सत्यसत्त्वानधि-करणत्वस्यैव परमार्थसत्वसाधकत्वोपपत्तेः । शुद्धमेव हि ब्रह्म दृष्टान्तत्वेनाभ्युपेयम् । धर्मवतो दृष्टान्तत्वे साध्यवैकल्यापत्तेः । साध्यं तु बाधाभावरूपत्वादधिकरणस्वरूपमेव न धर्मः । धर्म्यतिरिक्ताभावानभ्युपगमात् । तथा च क्षित्यादिकमकर्तृकं शरीराजन्यत्वादित्यत्र शरीरस्येव व्याप्तिग्रहानुपयोगित्वेन प्रातिभासिकत्वस्य वैयथ्यमेव । आकाशादाव-जन्यत्वकर्तृजन्यत्वाभावयोरिव निर्धर्मके ब्रह्मण्यनधिकरणत्वपरमार्थत्वयोर्व्याप्तिग्रहोपपत्तेः । तथा चैकामसिद्धिं परिहरतो द्वितीयापत्तिः । स्वरूपासिद्धिपरिहारार्थं विशेषणं प्रक्षिपतो व्याप्यत्वासिद्ध्यापत्तिरित्यर्थः । व्याप्तावनुपयोगस्य दर्शितत्वादिति चेत् । अत्र ब्रूमः । शुद्धे ब्रह्मण्यनधिकरणत्वतदभावाभ्यामधिकरणत्वस्यैव प्राप्त्याऽनधिकरणत्वासिद्धेर्व्याप्त्य-ग्रहात् । प्रातिभासिकत्वविशेषणे तु व्याप्तिग्रहात्तस्य सार्थक्यम् । वस्तुतस्तु अधिकरणत्वा-भावातिरिक्तस्य प्रातिभासिकत्वविशेषिताधिकरणत्वस्य विशिष्टस्याभावो अखण्ड एव हेतूकृतः । अतो न वैयर्थ्यगन्धोऽपि । न चैवं शरीराजन्यत्वादित्यत्राप्युक्तविधयाऽखण्डा-भावसत्त्वेन वैयर्थ्योक्तिरसङ्गता स्यादिति वाच्यम् । इष्टापत्तेरिति विभावनीयम् ।

ननु तथापि त्वन्मते प्रातिभासिकस्याप्यसत्त्वेन व्यर्थविशेषणतया व्याप्यत्वासिद्धिः । अस्मन्मतमाश्रित्य हेतूकरणे च देहात्मैक्ये ब्रह्मज्ञानेतराबाध्ये व्यभिचारः । न च तस्य त्वन्मते प्रातिभासिकत्वेन प्रातिभासिकत्वानधिकरणत्वविशेषणेनैव व्यावर्तिततया न तत्र व्यभिचार इति वाच्यम् । तस्य ब्रह्मज्ञानेतरबाध्यादन्यत्वेन प्रातिभासिकत्वाभावात् । न हि प्रातिभासिकं ब्रह्मज्ञानेतरबाध्यादन्यदिति चेन्मैवम् । न हि प्रातिभासिकत्वं ब्रह्मज्ञानेतर-बाध्यत्वमितीहाभिप्रेतम् । येनोक्तदोषः स्यात् । किन्तु सत्यत्ववादिमिथ्यात्ववाद्युभय-सम्मतमिथ्यात्वकत्वं प्रातिभासिकत्वमिहाभिप्रेतम् । देहात्मैक्यं च सत्यत्ववादिनां तार्किकादीनां मिथ्यात्वेन सम्मतम् । अतस्तत्र न व्यभिचारः । तदिदमुक्त-मारोपितत्वेनोभयसम्मतत्वरूपस्येति । न चेति ॥ तथा च न पारमार्थिकसत्त्व-सिद्धिरित्यर्थः । व्यावर्तकतयेति ॥ व्यावृत्तेर्व्यावर्तकप्रयोज्यत्वनियमादित्यर्थः ।

नन्वसत्प्रातिभासिकव्यावृत्तिं प्रति व्यावर्तकं पारमार्थिकसत्त्वं ब्रह्मण्यस्तु । तत्र पारमार्थिकसत्त्वस्य सम्भवात् । प्रपञ्चे तूक्तहेतुं प्रति न पारमार्थिकसत्त्वं व्यावर्तकम् । प्रपञ्चस्य मिथ्यात्वेन पारमार्थिकसत्त्वस्याभावात् । किंतु व्यावहारिकसत्त्वमेव व्यावृत्तिरूपहेतुं प्रति प्रपञ्चे व्यावर्तकम् । तथा चाननुगतमेव सत्त्वमुक्तहेतुं प्रति प्रयोजक-मित्याशङ्कापरिहारार्थमुक्तं विश्वमिथ्यात्वेत्यादि । अन्योन्याश्रयादिति । व्यावृत्ति-रूपोक्तहेतुं प्रति पारमार्थिकसत्त्वस्याव्यावर्तकत्वे उक्तहेतोरप्रयोजकत्वेन मिथ्यात्वानुमानं प्रति बाधकत्वाभावसिद्धौ मिथ्यात्वानुमानेन मिथ्यात्वसिद्धिः । तत्सिद्धौ चानुगत-व्यावर्तकस्यासम्भवादननुगतस्य व्यावर्तकत्वेनोक्तहेतोरप्रयोजकत्वमित्यन्योन्याश्रय इत्यर्थः । तत्प्रयोजकमिति । उक्तहेतुं प्रति व्यावर्तकतया प्रयोजकमित्यर्थः । असद्व्यावृत्तिं प्रतीति । असत्प्रातिभासिकव्यावृत्तिं प्रतीत्यर्थः । सत्त्वस्यैवेति । ब्रह्मप्रपञ्चयोर्विद्य-मानासत्प्रातिभासिकव्यावृत्तिं प्रति व्यावर्तकतया प्रयोजकमुभयानुगतं तद्विरुद्धं पारमार्थिक-सत्त्वमेव वाच्यम् । न तु ब्रह्मत्वादिकम् । तस्य प्रपञ्चेऽविद्यमानत्वेन न्यूनवृत्तित्वा-दित्यर्थः । यथाश्रुते त्वसद्व्यावृत्तेः परमते शुक्तिरूप्येऽपि सत्त्वेन तत्र तत्प्रयोजकसत्त्वस्या-भाववत्प्रपञ्चेऽपि तदभावोपपत्तेरसङ्गतिः स्यादिति ध्येयम् । अन्यथेति । उक्तव्यावृत्तिं प्रति ज्ञानत्वादेः प्रयोजकत्वे सत्यज्ञानादिवाक्ये ज्ञानपदेन ज्ञानत्वप्रतिपादनद्वाराऽनृत-व्यावृत्तिसिद्धिप्रसङ्गेन सत्यपदवैयर्थ्यं स्यादित्यर्थः । प्रपञ्च इति । अनुगतस्य सम्भवे बाधकं विना त्यागायोगादिति भावः ।

अत्र वदन्ति । ‘‘अयुक्तमेतत् । न हि प्रातिभासिकासतोरेका व्यावृत्तिरुभयी वा समव्याप्ता । येनैकप्रयोजकप्रयोज्या भवेत् । किन्तु प्रातिभासिकव्यावृत्तिप्रयोजकं ब्रह्मविश्वासत्साधारणमेव वक्तव्यम् । असत्यपि प्रातिभासिकत्वाभावात् । एवमस-द्व्यावृत्तावपि प्रयोजकं ब्रह्मविश्वप्रातिभासिकसाधारणमेव वक्तव्यम् । प्रातिभासिकस्याप्य-सत्त्वाभावात् । तथा च तत्प्रयोजकद्वयसमावेशादेव ब्रह्मण्युभयव्यावृत्त्युपपत्तौ नीलत्वघटत्व-रूपावच्छेदकद्वयसमावेशोपपन्ननीलघटत्ववन्नातिरिक्तप्रयोजककल्पनायामस्ति किञ्चिन्मान-मिति कृतबुद्धयोविदाङ्कुर्वतु । नित्यत्वं चोपाधिः । तुच्छप्रातिभासिकयोर्नित्यत्वव्यतिरेके साध्यव्यतिरेकदर्शनादिति ।

अत्र ब्रूमः । न तावद्ब्रह्मविश्वासत्सु प्रातिभासिकव्यावृत्तिरेका परमते सम्भवति । ब्रह्मणि सा धर्मिस्वरूपा । जगति व्यावहारिकी अन्योन्याभावादिरूपा । असति तु निर्धर्मकत्वेन न व्यावहारिक्यपि व्यावृत्तिः । किन्तु व्यावृत्तावेवासत्प्रतियोगिकत्वादिकम् । न वा ब्रह्मविश्वासत्सु प्रातिभासिकव्यावृत्तिं प्रति प्रयोजकोऽनुगतो धर्मः सम्भवति । ब्रह्मणो निर्धर्मकत्वात् । विश्वस्य व्यावहारिकधर्मवत्त्वात् । असतो निरुपाख्यत्वात् । नापि ब्रह्मविश्वप्रातिभासिकेषु असद्व्यावृत्तिरेका सम्भवति । नाप्येकव्यावर्तकप्रयोज्या । ब्रह्मविश्वयोस्त्वसत्प्रातिभासिकव्यावृत्तिः सामान्याभावरूपतयैका सम्भवति । अधिकरण-भेदेनाभावभेदाभावात् । तथा च ब्रह्मविश्वयोर्विद्यमानामुक्तव्यावृत्तिं प्रति व्यावर्तकतया प्रयोजकमेकमनुगतमवश्यं वाच्यम् । तच्च पारमार्थिकसत्त्वमेव । अवच्छेदकान्तरानुपपन्न-प्रयोजकत्वादिति साधु कृतबुद्धयो विदाङ्कुर्वन्तुतराम् । नापि नित्यत्वमुपाधिः । पक्षे पारमार्थिकसत्त्वाभावे तद्विरुद्धस्वभावासत्प्रातिभासिकयोर्व्यावृत्तावुच्यमानायां व्याघातव-त्पारमार्थिकसत्त्वाभावे ध्वंसप्रतियोगित्वरूपस्य नित्यत्वाभावस्योक्तौ व्याघाताभावेनोपाधेः पक्षे साध्याभावासाधकत्वात् । उक्तानुकूलतर्कगृहीतसाध्यव्याप्तिकहेत्वव्यापकत्वेन साध्या-व्यापकत्वाच्चेति ।

प्रामाण्येति । अर्थसत्त्वगर्भप्रामाण्यस्यार्थासत्त्वगर्भातत्त्वावेदकत्वेनात्यन्तविरोधा-त्प्रामाण्यातत्वावेदकत्वयोः सामानाधिकरण्यादर्शनात् । प्रामाण्यस्य साधारणधर्मत्वा-भावेनातत्वावेदकत्वकोट्यस्मारकतया नोक्तविधविकल्पः सम्भवतीत्यर्थः । प्रत्यक्षस्येति । तथा च तत्त्वावेदकप्रमोक्तावपि नासिद्धिरिति भावः । अनुमानादेश्चेति । तथा च तत्त्वभूतमिथ्यात्वावेदकतया तत्त्वावेदकजातीयानुमानविषयत्वेनापि तत्वावेदकप्रमाविषयत्वं पक्षे नासिद्धमिति भावः । विपक्ष इति । मिथ्याविषयकज्ञानस्यापि प्रमात्वे व्याघात इत्यर्थः । विषयेति । रूप्यज्ञानस्यापि प्रामाण्यप्रसङ्गादित्यर्थः । अत्र हेतौ नित्यत्वमुपाधिः पूर्ववन्निरसनीयः ।

अत्र वदन्ति । ‘‘प्रमात्वं तद्वति तत्प्रकारकत्वं वा तत्वावेदकत्वं वा । आद्ये दृष्टान्तस्य साधनवैकल्यम् । न हि परमार्थतः शुद्धस्य ब्रह्मणस्सप्रकारकज्ञानविषयत्वम् । न च धर्मवतो दृष्टान्तत्वं सम्भवति । तस्य पक्षकुक्षिनिक्षिप्तत्वेन निश्चितसाध्यवत्त्वाभावात् । द्वितीये तत्वावेदकत्वस्याबाधितविषयत्वरूपत्वेन साध्याविशेषपर्यवसानात् । हेतुग्रहे सिद्धसाधनम् । हेत्वग्रहे तु स्वरूपासिद्धिरिति ।

मैवम् । विशेष्यावृत्त्यप्रकारकज्ञानत्वादेः प्रमात्वस्य विवक्षायां दोषाभावात् । तत्वावेदकप्रमोक्तावप्यदोषत्वस्योक्तत्वाच्च । न च साध्यावैशिष्ट्यं दोषः । अर्थसत्त्वाग्रहेऽपि शब्दादिना तज्ज्ञाने तद्विषयकत्वग्रहसम्भवात् । शब्देऽनित्यत्वाग्रहेऽपि शब्दत्वा-नित्यत्वयोर्व्याप्तिग्रहवदिति सर्वमनवद्यम् ।

ननु सत्यत्वसिद्धिं विना अनिषेध्यत्वेनेत्यंशस्यासिद्धिः । तथा चान्योन्याश्रय इत्यत आह । त्वयापीति । अन्यथा जन्माद्यस्य यत इति सूत्रे जगत्कर्तृत्वेन ब्रह्मणः सर्वज्ञत्वसिद्धिः, शास्त्रयोनित्वादिति सूत्रे च सर्वकर्तृत्वसिद्धमेव सार्वज्ञं स्फोर्यत इति त्वदुक्तमयुक्तं स्यादिति भावः । अन्यथेति । ईश्वरस्याप्यनिषेध्यत्वेन जगद्द्रष्ट्टत्वाभावे पालनीयाज्ञानात्तत्पालनादौ प्रवृत्तिर्न स्यादित्यर्थः । नन्वीश्वरः प्रपञ्चं निषेध्यत्वेनैव जानाति । अत एव न तस्य भ्रान्तत्वम् । मिथ्याभूतस्य च मिथ्यात्वेनैव ग्रहणादैन्द्र-जालिकवद्भ्रान्तित्वायोगात् । अन्यथा सर्वविषयकभ्रमज्ञातृत्वेन भ्रान्तत्वस्य दुर्वारतापत्तेः । न च निषेध्यत्वेन ज्ञाने तत्पालनार्थमीश्वरस्य प्रवृत्तिर्न स्यादिति वाच्यम् । ऐन्द्रजालिक-प्रवृत्तिवदीश्वरप्रवृत्तेरपि तथाविधत्वादिति चेन्मैवम् । न ह्यैन्द्रजालिकस्तत्पालयति । किन्तु दर्शयामीति भ्रमयति । ईश्वरस्तु पालयति । ‘‘एष लोकपालः । विश्वं तद्भद्रं यदवन्ति देवाः’’ इत्यादिश्रुतेः । यस्माद्देवा विश्वं रक्षन्ति तस्माद्भद्रं सत्यमिति माधवीय-व्याख्यानात् । ‘‘सेयं देवतैक्षत हन्ताहमिमास्तिस्रो देवता अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणि । स ईक्षतेमे नु लोकाश्च लोकपालाश्च’’ इत्यादावनिषेध्यत्वेनैव सर्वज्ञानोक्तेश्च । यः सर्वज्ञः सर्वविदित्यादौ सामान्यविशेषाभ्यां ज्ञानोक्तेश्च । निषेध्यत्वेन ज्ञाने सामान्यविशेषाभावाच्चेति । विपक्ष इति । अनिषेध्यत्वेनेश्वरज्ञानविषयस्यापि विश्वस्य सत्यत्वाभावे निषेध्यमेव प्रपञ्चमनिषेध्यत्वेन ईश्वरो जानातीति स्यात् । तथाचेश्वरस्य भ्रान्तत्वं स्यादित्यर्थः । सा चेति । शोकं मोहं जरां मृत्युमत्येतीत्यादिभिर्विरुद्धेत्यर्थः । सत्याया इति । सत्यत्वविशेषितार्थक्रियाया हेतुविशेषणत्व इत्यर्थः । यथाश्रुते असिद्ध्याद्यभावादिति बोध्यम् । पक्षे सपक्षे चेति । पक्षेऽसिद्ध्या पक्षधर्मतायाः, सपक्षेऽसिद्ध्या व्याप्तेरयोगादित्यर्थः । असत्यायाश्चेति । अर्थक्रियामात्रस्य हेतुविशेषणत्व इत्यर्थः । नन्वैन्द्रजालिकादेरसत्त्वात्कथं स्वमते तस्यार्थक्रियाकारित्वमिति चेन्न । तस्याप्यविद्यमानापरपर्यायमिथ्याभूतार्थक्रियाहेतुत्वात् । अत एव ब्रह्माणीत्याद्यग्रिमग्रन्थ-विरोधोऽपि नेति ध्येयम् ॥ सप्रकारकेति । ऐन्द्रजालिकार्थक्रिया तु सप्रकारेणेदा-नीन्तनबाधेन बाध्येति न तत्र व्यभिचार इत्यर्थः । ननु सप्रकारकजाग्रद्बोधा बाध्यस्वप्न-जलावगाहनप्रियासङ्गमादिविशेषिता-प्रमाणीभूतज्ञानस्यार्थक्रियाकारित्वदर्शनेन तद्विषये तत्र व्यभिचारः । अथ तत्र ज्ञानमेव सुखादिजनकं तच्चाबाध्यमेवेति मतम् । तदसत् । ज्ञानमात्रस्य हि तादृशसुखाजनकत्वेन किञ्चिद्विशेषितस्यैव तथात्वं वाच्यम् । ज्ञाने च विशेषो नार्थातिरिक्तः । तदुक्तम् । ‘‘अर्थेनैव विशेषो हि निराकारतया धियाम्’’ इति । अर्थेनेत्यर्थ एवेत्यर्थः । तथा च मिथ्याभूतविशेषितस्य जनकत्वाभ्युपगमे मिथ्याभूतस्यापि जनकत्वाद्व्यभिचार एवेति शङ्कां परिहरति । व्यभिचारस्त्विति ।

अत्र ब्रूमः । विषयविशेषोपलक्षितज्ञानस्यैव जनकत्वमस्तु, तत्कुतो विषयस्य जनकत्वम् । तथा चोक्तं शास्त्रदीपिकायां बौद्धं प्रति । ‘‘अथ सुखज्ञानमेवार्थक्रिया । तच्चाव्यभिचार्येव । न हि क्वचिदप्यसति सुखे सुखज्ञानमस्ति’’ इत्याशङ्क्य सत्यमेतन् न तु तेन पूर्वज्ञानप्रामाण्याध्यवसायनं युक्तम् । अप्रमाणेनापि प्रियासङ्गमविज्ञानेन स्वप्नावस्थायां सुखदर्शनात्’’ इति । ननु स्वरूपाणामननुगततया ज्ञानत्वादेश्चातिप्रसक्ततयाऽनुगतानति प्रसक्तोपलक्ष्यतावच्छेदकाभावादुपलक्षणत्वासम्भव इति चेन्न । विशेषणत्वमप्यसम्भवि, अनागतादिज्ञाने तत्कालाविद्यमानस्य विषयस्य पूर्वभावित्वरूपजनकत्वासम्भवात् । ननु स्वव्यापारजन्ये व्यापारिणोऽसतो जनकत्ववत्स्वज्ञानजन्येऽप्यसतो जनकत्वमस्त्विति चेन्न ॥ व्यापारद्वारा व्यापारिणो जनकत्वमित्यस्य कार्यजनकव्यापारजनकत्वमित्यर्थः । भवति च यागादि तथा । तस्यापूर्वोत्पत्तिकाले सत्त्वात् । मिथ्याभूतं तु स्वकालेऽपि सद्विलक्षणस्वभावं कथं स्वज्ञानं व्यापारं जनयेत् । असद्वैलक्षण्यापेक्षया लाघवेन सत्त्वस्यैव कारणत्वे प्रयोजकत्वात् । स्वज्ञानाजनकस्यापि मिथ्यार्थस्य स्वज्ञानजन्यकार्यं प्रति स्वज्ञानस्य जनकत्वमात्रेण मिथ्यार्थस्यापि जनकत्वाभिधानं त्वमानकम् । नन्वतीता-नागतावस्थस्यापि सद्धर्माश्रयत्वमभ्युपगम्यत एव । अन्यथा ध्वंसप्रागभावप्रतियोगित्व-तज्ज्ञानविषयत्वादीनामनाश्रयत्वापत्तेः । प्रमाणबलात्कारणत्वाभ्युपगमस्यापि तुल्यत्वादिति चेन्मैवम् । विद्यमानप्रागभावप्रतियोगित्वादीनामनाश्रितत्वासम्भवादविद्यमानाश्रयत्ववत् कारणत्वस्य पूर्ववृत्तित्वरूपस्यासत्यसम्भवाद्विद्यमानाश्रितत्वम् । न हि विद्यमानत्व-मविद्यमानेऽस्ति । व्याघातादिति सर्वं मनोरमम् ।

नन्वर्थोपलक्षितज्ञानस्यार्थक्रियाकारित्वमिति पक्षेऽप्युक्तहेतोः स्वाप्नगजादिज्ञान एव व्यभिचारः । स्वरूपाबाध्यस्य विषयाबाध्यत्वदर्शनेन विषयबाधे स्वरूपबाधस्यावश्यकतया स्वाप्नादिज्ञानं सदेवेत्यस्य वक्तुमशक्यत्वादिति चेन्न । असत्यपि गजे गजज्ञानमासीदिति तज्ज्ञानस्य जाग्रत्यप्यनुभवेन विषयासत्त्वेऽपि सत्त्वात् । स्वरूपाबाध्यसाक्षिविषयस्यापि रूप्यस्य बाध्यत्वदर्शनाच्चेति । ननु शुद्धस्यार्थक्रियाकारित्वाभावात्साधनविकलत्वम् । उपहितस्य पक्षनिक्षेपात्साध्यविकलत्वमित्यत आह ॥ सत्यस्येति ॥ आश्रयत्व-विषयत्वादिनाऽज्ञानादिसिद्धिरूपार्थक्रियाकारित्वं शुद्धात्मनि दृष्टान्ते वर्तते । तदुक्तं सङ्क्षेपशारीरके । ‘‘आश्रयत्वविषयत्वभागिनी निर्विशेषचितिरेव केवले’’ति । शुद्धस्य जगद्धेतुत्वेनाप्यर्थक्रियाकारित्वात् । अत एवानुपदं वक्ष्यति ‘‘ब्रह्मणि हेतुत्वं प्रती’’त्यादि । अन्यथा तद्वाक्यस्यासङ्गतत्वापात इत्यर्थः । एतेन मम मते अविद्योपहितस्य साक्षिणो मिथ्यात्वात्साधनवत्यपि साक्षिणि साध्यवैकल्यं, साध्यवति शुद्धात्मनि साधनवैकल्यमिति निरस्तम् । साक्षिशब्देन विश्वसाक्षिणः शुद्धात्मन उपादानात् । तस्य चार्थ-क्रियाकारित्वोक्तेश्च । तुष्यतु दुर्जन इति न्यायेनोक्तार्थक्रियातिरिक्तार्थक्रियामभिप्रेत्याह ॥ असद्वेति ॥ वाशब्दोऽनास्थायाम् ।

ननु साध्ययुक्तादात्मनः सपक्षाद्धेतुव्यावृत्तावसाधारण्यं दोषः स्यादित्यत आह ॥ असाधारण्यस्येति ॥ अगृह्यमाणेति ॥ साध्यतदभावानुमित्यनुकूलव्यतिरेकव्याप्ति-द्वयवत्तया वा तादृशव्याप्तिग्रहहेतुव्यतिरेकसहचारवत्तया वा ज्ञायमानत्वे सति पक्षधर्मतया ज्ञायमानत्वेन साध्यतदभावौ प्रति हेतोरगृह्यमाणविशेषावस्थायामसाधारण्यं दोष इत्यर्थः । प्रकृते तु नागृह्यमाणविशेषावस्था । विपक्षे बाधकतर्केण स्थापनासाध्यं प्रति हेतो-र्व्याप्यत्वग्रहादित्यत आह ॥ विपक्ष इति ॥ ब्रह्मणि सप्रकाराबाध्यजगद्धेतुत्वं प्रति परमार्थसत्वस्य प्रयोजकत्वेनावधारणात् । प्रपञ्चे तदभावेऽकारणकार्योत्पत्तिरूप-विपक्षबाधकतर्केण हेतोर्व्याप्यत्वग्रहान्नासाधारण्यं न वाऽप्रयोजकत्वमित्यर्थः ॥

ननु तथाप्युक्तहेतुरयुक्तः । अनादित्वस्य विषमव्याप्तस्योपाधित्वात् । न चोक्तविपक्ष बाधकतर्केण हेतोः साध्यव्याप्यतया तदव्यापकतयोपाधेः साध्याव्यापकत्वमिति वाच्यम् । प्रातिभासिकरज्जुसर्पादौ भयकम्पादिकार्यकारित्वदर्शनेन प्रातिभासिकसाधारण्यस्य तुच्छ-व्यावृत्तस्य प्रतीतिकालसत्त्वस्यैवार्थक्रियाकारित्वं प्रति प्रयोजकत्वात् । प्रातिभासिकस्यार्थ-क्रियाकारित्वानभ्युपगमे सप्रकारकाबाध्येति हेतुविशेषणवैयर्थ्यापत्तेः । कस्मिन्नपि देशे कस्मिन्नपि काले केनापि पुरुषेणाबाध्यत्वं हि परमार्थसत्त्वम् । तदपेक्षया प्रतीतिकाल-सत्त्वस्य लघुत्वादिति चेन्मैवम् । स्वरूपेणैव प्रपञ्चस्य निषेध इति त्वया व्यवस्थापितत्वेन सत्त्वेन प्रतीयमानत्वातिरिक्तस्य प्रातिभासिकसत्त्वस्य तव मतेऽभावेन तस्य हेतुत्वं प्रत्यप्रयोजकत्वात् । अन्यथा शशविषाणमस्तीति शब्दाभासात्सत्त्वेन प्रतीयमानस्य निरुपाख्यस्यापि हेतुतापत्तेः । यथा च शशविषाणमस्तीत्यादिनाऽनाभासस्यासतः प्रतीतिस्तथोक्तं पुरस्तात् । यथा च हेतौ न विशेषणवैयर्थ्यं तथा तत्रैवावोचाम ।

ननु घटे घटत्वस्येव मिथ्याभूते प्रपञ्चे मिथ्यात्वस्य परमते सत्वान्न तत्र तदारोपितम् । अतो हेत्वसिद्धिरित्याशङ्कां परिहरति ॥ न च पञ्चम इति ॥ आरोपितत्वादिति ॥ नन्वारोपितत्वं प्रातिभासिकत्वं चेत्प्रपञ्चे हेत्वसिद्धिः । तत्सिद्धेः पारमार्थिकत्वसिद्ध्युत्तर-कालीनत्वात् । व्यावहारिकत्वं चेच्छुक्तिरूप्यादौ व्यभिचारः । उभयसाधारण्येऽप्ययमेव दोष इति चेन्मैवम् । मिथ्यात्वेनोभयसम्मतत्वस्यारोपितत्वस्य हेत्वन्तर्गतत्वात् । अस्ति च ब्रह्मजगतोस्तादृशं मिथ्यात्वम् । अतो नासिद्ध्यादि । रूप्ये च तादृशमिथ्यात्वाभावान्न व्यभिचार इति । नन्वसति सदसद्वैलक्षण्यादिरूपमिथ्यात्वस्याभावेनारोपितमेव तत्र तदित्यत आह – अत्र चेति । ननु प्रपञ्चस्य कल्पितत्ववादे कश्चित् कल्पकोऽस्त्येवेति हेतोर-सिद्धिरिति शङ्कां परिहरति – न च षष्ठ इति ॥ चिन्मात्रस्येति । कल्पनोपयोगि-देहाद्यध्यासाभावादित्यर्थः ॥ अन्यस्य चेति ॥ चिन्मात्रस्याकल्पकतया कल्पितान्तरेणैव कल्पितस्य कल्पना वाच्येत्यनवस्थापत्त्या यावद्विशेषबाधे सामान्याभावसिद्धेरित्यर्थः ॥ अत्र चेति ॥ ननु नासति व्यभिचारः । सिद्धान्ते तस्यापि भ्रान्तिविषयत्वेन शुक्ति-रूप्यवत्कल्पकोपेतत्वादिति चेन् न । स्वप्रत्यासन्नकल्पकरहितत्वादित्यर्थात् । असतोऽप्रत्यासन्नत्वात् । कल्पकशब्दस्य पित्रादिशब्दवत्सम्बन्धिविशेषपरतया तद्राहित्यं पक्षे स्वमतेऽप्यस्तीति भावः ।

ननु शुद्धस्याप्यनाद्यविद्योपधानवशेन कल्पकत्वमस्तु । कल्पकत्वं हि कल्पनां प्रत्याश्रयत्वं विषयत्वं साधकत्वं वा । तच्च सर्वं कल्पनासमसत्ताकत्वेन शुद्धत्वाव्याघात-कम् । तदुक्तम् । ‘‘आश्रयत्वविषयत्वभागिनी’’ति । अस्तु वोपहितस्य कल्पकत्वम् । न चानवस्था । अविद्याद्यध्यासस्याध्यासान्तरानपेक्षत्वात् । स्वपरसाधारणसर्वनिर्वाहकतो-पपत्तेः । अकल्पितस्य कल्पकत्वादर्शनात् । कल्पितप्रतिबिम्बविशिष्टादर्शादेरादर्शान्तरे प्रतिबिम्बकल्पकत्वदर्शनाच्च । बिम्बस्य द्वितीयादर्शसम्मुखत्वाभावेन तत्कल्पकत्वा-योगादिति । मैवम् । कल्पितेनापि संसारेणास्पृष्टस्य चैतन्यस्याभावे नित्यमुक्त-श्रुतेर्निर्विषयत्वापत्तेर्वक्ष्यमाणत्वात् । अतात्विकसंसारास्पृष्टत्वस्य सर्वसाधारणत्वात् । नापि शुद्धस्य कल्पनां प्रत्याश्रयत्वादिकम् । अस्यास्मिन्कल्पनेति कल्पनाया द्वयसापेक्षत्वा-त्कल्पकस्यान्यस्य सम्भवे तत्कल्पनां प्रति शुद्धस्याश्रयत्वादिकं सम्भवेत् । शुद्धस्य कल्पनां प्रति कर्तृत्वं तु न सम्भवति । देहेन्द्रियाद्यभावादित्युक्तत्वात् । नाप्युपहितस्य कल्पकत्वे अनवस्थाद्यभावः । अविद्याध्यासस्य स्वपरनिर्वाहकत्वकल्पनाया निर्बीजत्वात् । प्रपञ्चस्य सत्यत्वेनैवोपपत्तेश्च । आदर्शान्तरे प्रतिबिम्बस्याकल्पितत्वस्य वक्ष्यमाणत्वाच्चेति साधूक्तं कल्पकं विना कल्पनायोगादिति ॥

न्यायामृतकण्टकोद्धारः

प्रत्यक्षबाधमुक्त्वाऽनुमानबाधमाह – अनुमानेति । ननु बाधकत्वे ह्यधिकबलत्वं प्रयोजकम् । प्रकृते च तदभावात् कथं बाधकत्वमिति चेन् न । अनुमानानां निरवकाशत्वेन प्राबल्यात् । निरवकाशत्वं च व्याप्तिपक्षधर्मत्वोपेतत्वेन वा अबाधितप्रत्यक्षादिमूलकत्वेन वा प्रतिकूलतर्करहितत्वेन वोपपन्नम् । मिथ्यात्वानुमानं च नैतादृशम् । निरवकाशत्वप्रयोजकस्या-भावात् । न तावद् व्याप्तिपक्षधर्मतोपेतत्वेन निरवकाशत्वम् । व्यभिचारादिना तदभाव-स्योपपादितत्वात् । नाप्यबाधितप्रत्यक्षादिमूलकत्वेन । जगति मिथ्यात्वस्य प्रत्यक्षाद्यसिद्धत्वात् । नापि प्रतिकूलतर्कराहित्येन । तस्याग्रे वक्ष्यमाणत्वादिति । तस्मान्न तुल्यबलत्वम् । उभय-साधारणं पक्षं निर्दिशति – ब्रह्मप्रमान्येनेति । अत्र पक्षव्याख्यानं विप्रतिपत्तिपक्षव्याख्यानेनैव कृतमिति नेह तन्यते । वैकल्पिकविशेषणत्रयप्रयोजनं साध्यद्वयकरणप्रयोजनमपि स्वयमेव वक्ष्यति । हेतौ तु असत्त्वानधिकरणत्वादित्युक्ते शुक्तिरूप्ये व्यभिचारः । तन्निवृत्तये प्रातिभासिकत्वेति । न च स्वमते शुक्तिरूप्यस्यासत्त्वेन तदनधिकरणत्वाभावेन हेतोरेवगमनान्न व्यभिचार इति वाच्यम् । कदाचिदपि केनापि सत्त्वेनाप्रतीतत्वरूपस्यासत्त्वस्य विवक्षणात् । तादृशासत्त्वानधिकरणत्वस्य शुक्तिरूप्यादावपि भावात् । न च तादृशमसत्त्वमसिद्धमेव । न हि यदसत् तत् सत्त्वेन प्रत्येतव्यमिति नियमोऽस्ति । येन तादृशासत्त्वाप्रसिद्धिः स्यात् । यद्वा पररीत्या व्यभिचारपरिहारार्थमेतत् । पररीत्यैव हेतूकरणान्न स्वमते वैयर्थ्यम् ।

ननु तथापि कथमनेन व्यभिचारपरिहारः? सत्त्ववादिमते प्रातिभासिकत्वस्य खपुष्पतुल्यत्वेन तदभावस्य शुक्तिरूप्येऽपि भावादिति चेन्नैवम् । सत्त्वेन प्रतीतत्वमात्रस्वरूपस्य प्रातिभासिकपदेन विवक्षितस्यास्मन्मतेऽपि सत्त्वेन तदनधिकरणत्वस्य रूप्येऽभावाद् भवति व्यभिचारपरिहार इति तेषां सत्त्वेन प्रतीतत्वमात्रमित्यस्य मात्रपदमहिम्ना सत्त्वाभावेऽपि सत्त्वेन प्रतीतत्वे पर्यवसानात् । तदर्थगतं मायिकं सत्त्वं नेति मते पक्षेऽसिद्धिः । सत्त्वाभावेऽपि सत्त्वेन प्रतीतत्वरूप-प्रातिभासिकत्वसत्त्वेन तदनधिकरणत्वाभावात् । अस्तीति मते शुक्तिरूप्ये प्रातिभासिकत्वा-भावेन पुनरपि व्यभिचार एवेति दूषणं विदाङ्कुर्वन्तु । वस्तुतस्तु प्रातिभासिकत्वं नाम ब्रह्मज्ञानेतरज्ञानबाध्यत्वं विवक्षितम् । तस्योभयमतेऽपि रूप्ये सत्त्वेन तदनधिकरणत्वाभावान्न व्यभिचारः । नाप्युभयमतेऽसिद्धिः । न चैवमग्रिमग्रन्थविरोधः । तस्याप्यत्रैव तात्पर्यादिति । यद्वा, स्वबाधकाभिमताबाध्यदोषजन्यज्ञानविषयत्वादिकं प्रातिभासिकत्वमिति न कश्चित् क्षुद्रोपद्रवः ।

ननु देहात्मैक्ये व्यभिचारः । तस्योक्तप्रातिभासिकत्वानधिकरणत्वे सत्यसत्त्वानधि-करणत्वादिति चेन्न । देहात्मैक्यभ्रमाभावस्योपपादयिष्यमाणत्वेनास्मदुक्तासत्त्वानधिकरणत्व-प्रतीकेनैव वारणात् । गौरोऽहमिति सामानाधिकरण्यप्रतीतेश्च मम देह इति देहात्मभेदस्यैव सर्वप्राणभृत्प्रत्यक्षत्वेन सिंहो देवदत्त इत्यादिवद् व्यपदेशमात्रत्वात् । अस्तु वा देहात्मैक्यभ्रमः । तथापि न तत्र व्यभिचारः । तस्य, मम देह इति वा, नाहं गौर इति वा परीक्षितप्रत्यक्षेण ब्रह्मज्ञानातिरिक्तेनैव बाध्यतया ब्रह्मज्ञानेतरज्ञानबाध्यत्वरूपप्रातिभासिकत्वसत्त्वात् । तदनधिकरणत्वाभावात् । अत एव पक्षीयवैकल्पिकविशेषणवत्त्वेन देहात्मैक्यस्यापि पक्षत्वात् तत्र च साध्यस्य बाधात् पक्षत्वाभावेनाश्रयासिद्धिरित्यप्यपास्तम् । ब्रह्मज्ञानेतरदेहात्मभेदज्ञान-बाध्यतयोक्तवैकल्पिकविशेषणाभावात् पक्षत्वस्यैवाभावेन नाश्रयासिद्धिः । ननु तथाप्यात्म-न्यारोपिते क्षणिकत्वे व्यभिचारः । तस्याधिष्ठानब्रह्मज्ञानबाध्यत्वेन भवदुक्तप्रातिभासिकत्वा-नधिकरणत्वात् । साध्याभावाच्चेति चेन्न । अत्र हि ब्रह्मप्रातिपदिकार्थेतरज्ञानबाध्यत्वं प्रातिभासिकत्वम् । एवं क्षणिकत्वं च न ब्रह्मेति ज्ञानमात्रबाध्यं किन्तु ब्रह्माक्षणिकं, स्थायीति ज्ञानेन । तथा च ब्रह्मप्रातिपदिकेतराक्षणिकत्वादिज्ञानबाध्यत्वाद् उक्तप्रातिभासिकत्वा-नधिकरणत्वाभावान्न व्यभिचार इति । ब्रह्म वृत्तिव्याप्यं नेति मते त्वात्मनि क्षणिकत्वारोप एव न सम्भवति । अत एव तस्य पक्षीयवैकल्पिकविशेषणवत्त्वात् पक्षत्वापत्त्यांऽशे बाध इति परास्तम् । पक्षविशेषणस्यापि ब्रह्मज्ञानेतरज्ञानबाध्यभिन्नत्वपरत्वेन ब्रह्मण्यारोपितक्षणिकत्वादेरपि व्यावर्तनात् तस्यापक्षत्वेन नांशबाध इति । प्रातिभासिकत्वानधिकरणत्वादित्युक्तेऽसति व्यभिचारः । तदर्थमसत्त्वानधिकरणत्वेति । तस्माद् विशेषणद्वयं सार्थकम् । इदं चोभयसिद्धं हेतुमङ्गीकृत्य व्याख्यानम् । यदा तु परमात्रसिद्धेन हेतुना साधनमिति पक्षस् तदा न कोऽपि दोष इति ध्येयम् ।

नन्वेतेष्वनुमानेषु नित्यत्वमुपाधिः । पक्षातिरिक्ततुच्छप्रातिभासिकयोर्नित्यत्वाभावेन साध्य-व्यतिरेकदर्शनात् । साध्याभावाविनाभावी यदत्यय इति हि तल्लक्षणमिति चेन्न । उक्तहेतुं प्रति प्रकृतसाध्यस्यैव प्रयोजकत्वेनानुकूलतर्कसम्भवेन प्रकृतहेतोः प्रकृतसाध्यव्याप्यतया साध्यव्याप्य-हेत्वव्यापकत्वेनोपाधेः साध्यव्यापकत्वाभावेनाप्रयोजकतया तदभावस्यापि साध्याभावाव्याप्य-त्वात् । किञ्चेदं नित्यत्वम्? ध्वंसाप्रतियोगित्वं, तदनुपलक्षितसत्तायोगित्वं वा? नाद्यः । तुच्छप्रातिभासिकयोर्ध्वंसाप्रतियोगित्वेन तद्व्यतिरेकाभावेन तत्रोपाध्यभावेन साध्याभावदर्शनोक्त्य-योगात् । न द्वितीयः । सत्ता हि जातिर्वा, अबाध्यत्वं वा ? नाद्यः । आत्मनि सत्ताजात्यभावेन साध्यव्यापकत्वाभावात् । कल्पितसत्ताऽस्तीति चेत् कल्पितं नित्यत्वमङ्गीकृतं स्यात् । तस्य पक्षेऽपि सत्त्वेन साधनव्यापकत्वेनानुपाधित्वात् । न द्वितीयः । तादृशनित्यत्वस्य परमार्थतो निर्धर्मके ब्रह्मण्यप्यभावेन साध्यव्यापकत्वग्राहकस्थलाभावात् । मन्मते ब्रह्मणि तत्सद्भावेऽपि तस्य परमार्थसत्त्वप्रयोजकतया तद्व्यापकत्वात् । त्वन्मते तुच्छस्याबाध्यत्वेन तत्र नित्यत्वव्यतिरेकाभावेन तदभावस्य साध्याभावव्याप्यत्वदर्शनोक्त्ययोगाच्च । तस्मान्नित्यत्वं नोपाधिः । एतेनात्मत्वज्ञानत्वानन्दत्वाद्युपाधयो निरस्ताः । अनुकूलतर्कभावेन साध्य-व्याप्यहेत्वव्यापकत्वेन च तेषां साध्याव्यापकत्वात् । प्रकृतहेतोः साध्यव्याप्यताग्राहक-श्चानुकूलतर्को वक्ष्यत इत्यनवद्यम् ।

ननु तथापि हेतोः प्रातिभासिकत्वविशेषणस्यासिद्धिवारकत्वाद् व्यर्थविशेषणता । न च मूलोक्तरीत्या तस्य व्याप्तिग्रहोपयोगित्वेनोपयोग इति वाच्यम् । तदभावेऽपि वस्तुगत्या निर्धर्मके शुद्धे ब्रह्मणि अनधिकरणत्वबाधाभावरूपहेतुसाध्ययोर्व्याप्तिग्रहसम्भवादिति चेन्न । शुद्धब्रह्मणो निर्धर्मकत्वे हेतुसाध्ययोस्तत्राभावेन व्याप्तिग्रहासम्भवात् । हेतुसाध्ययोस्तत्र सत्त्वे वा कथं निरधिकरणत्वम्? व्याहतत्वात् । न चातिरिक्तधर्माभावेऽपि स्वरूपभूतधर्माधिकरणत्वमस्तीति वाच्यम् । एवमधिकरणत्वसामान्ये विद्यमाने तत्सामान्याभावासम्भवेन हेतोरभावेन व्याप्तिग्रहासम्भवात् । हेतुसाध्ययोरभावरूपत्वेन प्रतियोगिसापेक्षत्वेन निरुपाधिकब्रह्मरूपत्वा-सम्भवाच्च । सम्भवे वा सार्वज्ञादीनामपि ब्रह्मरूपत्वसम्भवेन तत्प्रतिपादकसगुणवाक्यानां तत्त्वावेदकत्वं स्यात् । तस्मात् प्रातिभासिकत्वविशेषणाभावे व्याप्तिग्रहासम्भवात् तद्विशेषणस्य व्याप्तिग्रहोपयुक्तत्वेन सार्थकत्वमिति व्यर्थत्वप्रयुक्तव्याप्यत्वासिद्धिर्नेति युक्तमुत्पश्यामः । न च परमार्थसत्त्वे बाधो न स्यादिति प्रतिकूलतर्कपराहतमनुमानमिति वाच्यम् । बाधाभावस्योप-पादितत्वेनेष्टापत्तेः । न च व्यावहारिकत्वोपपत्त्या हेतोरप्रयोजकत्वमिति वाच्यम् । मूलोक्तरीत्या ब्रह्मणि विशिष्टहेतुं प्रति परमार्थसत्त्वस्यैव प्रयोजकत्वेन प्रपञ्चे प्रयोजकान्तरकल्पने कल्पना-गौरवात् ।

ननु न प्रातिभासिकासतोरेका व्यावृत्तिः । प्रतियोगिभेदेन व्यावृत्तिभेदात् । नाप्युभयी परस्परव्याप्ता । परस्परव्यभिचारात् । तथा च नैकप्रयोजकप्रयोज्यत्वं किन्तु प्रातिभासिक-व्यावृत्तिप्रयोजकं ब्रह्मविश्वासत्साधारणमेव वक्तव्यम् । असत्यपि प्रातिभासिकत्वाभावात् । एवमसद्व्यावृत्तावपि प्रयोजकं ब्रह्मविश्वप्रातिभासिकसाधारणमेव वक्तव्यम् । प्रातिभासिकेऽप्य-सत्त्वाभावात् । तथा च प्रयोजकद्वयसमावेशादेव ब्रह्मण्युभयव्यावृत्त्युपपत्तौ नीलघटत्ववन् नातिरिक्तप्रयोजककल्पनायामस्ति किञ्चिन्मानम् । तथा च कथं नाप्रयोजकत्वमिति चेन्मैवम् । व्यावृत्तेरेकत्वेनैकप्रयोजकप्रयोज्यत्वस्यावश्यकत्वात् । अनृतादिव्यावृत्तीनां ब्रह्मात्मकत्वपक्षे प्रतियोगिभेदेऽपि व्यावृत्त्यभेदात् । तद्भेदे तासां सत्यत्वेऽद्वैतहानेः । अभावद्वैतस्य च पूर्वमेव निरस्तत्वात् । मिथ्यात्वेऽनृताद्यात्मकत्वापत्तेस्तद्भेदपक्षो दुष्ट एव । न च प्रत्येकप्रयोजक-प्रयोज्यत्वेनैवोपपत्तौ नैकप्रयोजकप्रयोज्यतेति वाच्यम् । व्यावृत्तेरेकत्वेन प्रत्येकप्रयोजक-प्रयोज्यत्वस्यासम्भवात् । अस्तु वा व्यावृत्तिरुभयी । तथापि विशिष्टस्य हेतूकरणादेकप्रयोजक-प्रयोज्यत्वमावश्यकम् । नीलघटत्वादौ तु प्रत्येकप्रयोजकस्य वक्तुं शक्यत्वात्, प्रकृते चासद्व्यावृत्तिं प्रति ब्रह्मविश्वप्रातिभासिकसाधारणस्यैकस्याभावात् । न च प्रतीयमानत्व-मपरोक्षतः प्रतीयमानत्वं, सत्त्वेन प्रतीयमानत्वं वा, तत्प्रयोजकं प्रकृतेऽपि शक्यं वक्तुमिति वाच्यम् । असत्यतिव्याप्तेः । नाप्यर्थक्रियाकारित्वम् । प्रातिभासिकशुद्धब्रह्मणोस्तदभावात् । नापि वस्तुत्वम् । निर्धर्मके ब्रह्मणि रूप्ये चाभावात् । कल्पितस्यासत्यपि सत्त्वात् । नापि सत्स्वरूपत्वम् । प्रातिभासिकस्यैव स्वरूपेण निषेध इति पक्षे तत्राव्याप्तेः । एवमेव प्राति-भासिकव्यावृत्तिं प्रत्यपि नैकं प्रयोजकम् । तस्मात् प्रत्येकप्रयोजकासम्भवाद् एकं परमार्थसत्त्वमेव प्रयोजकं स्वीकर्तव्यमिति नाप्रयोजकत्वम् । अन्यथा सत्त्वनाधिकरणत्वे सत्यसत्त्वानधिकरणत्वे सति सदसत्त्वानधिकरणत्वरूपानिर्वचनीयत्वसाध्यके, प्रतीयमानत्वे सति बाध्यत्वादिति हेतावपि प्रत्येकप्रयोजकादेव हेतोरुपपत्त्याऽप्रयोजकत्वं स्यात् । भेदाभेदसाधके समानाधि-करणत्वादित्यादावपि प्रत्येकप्रयोजकेन साध्योपपत्त्याऽप्रयोजकत्वं स्यादित्यलं विस्तरेण । तस्मादप्रयोजकत्वादिदोषाभावादनुमानं निरवद्यमाद्यम् ।

अनिषेध्यत्वेनेति । अत्र विषयत्वादिति करणे रूप्ये व्यभिचारः । ततः प्रमां प्रतीति । तथाऽप्यनिवृत्तिः । तस्याप्यनुव्यवसायरूपप्रमाविषयत्वात् । अतः साक्षादिति । तथाऽप्य-निवृत्तिः । तस्यापि निषेध्यत्वेन साक्षाद् बाधरूपप्रमाविषयत्वात् । अतोऽनिषेध्यत्वेनेति ।

नन्वत्र प्रमात्वं किं तद्वति तत्प्रकारकत्वं वा, तत्त्वावेदकत्वं वा? नाद्यः । दृष्टान्तस्य साधनवैकल्यात् । दृष्टान्तीभूतं हि शुद्धं ब्रह्मैव वक्तव्यम् । न हि तस्य सप्रकारकज्ञानविषय-त्वम् । न च धर्मवत एव दृष्टान्तत्वम् । तस्य पक्षनिक्षिप्तत्वेन दृष्टान्तत्वासम्भवात् । नापरः । तस्याबाधितार्थकत्वेन तदसिद्ध्या हेतोः सन्दिग्धासिद्धत्वात् । तत्सिद्धौ वा साध्यसिद्ध्या सिद्धसाधनत्वादिति चेन्मैवम् । अस्त्वाद्यः पक्षः । न च साधनवैकल्यम् । वेदान्ततात्पर्यविषयो ब्रह्म स्वज्ञानाबाध्यप्रकारकज्ञानविशेष्यम् । अधिष्ठानत्वादित्यादिना तत्सिद्धेः । वक्ष्यति चैतत् सगुणवादे । द्वितीयो वाऽस्तु । न चासिद्धिः । प्रत्यक्षादीनां तत्त्वावेदकत्वस्य प्राक् साधितत्वात् । न च सिद्धसाधनम् । प्रत्यक्षादिकमबाधितार्थकमिति सिद्धावपि विमत-मबाध्यमिति उद्देश्यप्रतीतेरसिद्धत्वेन सिद्धसाधनत्वासम्भवात् । सिषाधयिषया वा तत्सम्भवाच्च । अत एव नाप्रयोजकत्वम् । विषयबाधे तज्ज्ञानस्याबाधितार्थकत्वरूपप्रामाण्यासम्भवादिति वक्ष्यमाणत्वात् । अनिषेध्यत्वेनेश्वरं प्रतीति । अत्राप्यपरोक्षत्वादित्युक्ते रूप्ये व्यभिचारः । तदर्थमीश्वरं प्रतीति । तथाऽप्यनिवृत्तिः । तस्यापि निषेध्यत्वेनेश्वरं प्रत्यपरोक्षत्वात् । अतोऽनिषेध्यत्वेनेति । तथाऽप्यनिवृत्तिः । तस्यायं भ्रमवानितीश्वरापरोक्षे अनिषेध्यत्वेनापि विषयत्वात् । अतः साक्षादिति । न चापरोक्षत्वस्य लिङ्गाद्यजन्यज्ञानविषयत्वरूपतया ईश्वरं प्रत्यनिषेध्यत्वेन साक्षाज्ज्ञातत्वादित्येवास्तु । शेषस्य व्यभिचारावारकतया वैयर्थ्यमिति वाच्यम् । अत्रापरोक्षत्वस्य ज्ञानत्ववज् जातिरूपतयाऽखण्डतया वा ज्ञातत्वाद्यघटितत्वेन वैयर्थ्याभावात् । न च भवन्मते जातेरस्वीकाराद् वाद्यसिद्धो हेतुरिति वाच्यम् । सर्वानुगतस्यैकस्य धर्मस्य तार्किकाभिमतस्यास्वीकारेऽपि साजात्यनिर्वाहकस्याननुगतस्यैव धर्मस्य स्वीकारात् । अथ सत्यत्वसिद्धिं विनाऽनिषेध्यत्वेनेत्यस्यासिद्ध्या स्वरूपासिद्धिरिति चेत्, न । जगत्पालनार्थं प्रवृत्त्यन्यथानुपपत्त्याऽनिषेध्यत्वेनेत्यस्य सिद्धेः । न हि निषेध्यत्वेन जानंस्तत्पालनार्थं प्रवर्तते । न चैन्द्रजालिकवदुपपत्तिः । तस्यानिषेध्यत्वेनापरोक्षज्ञानाभावेऽपि तेन रूपेण परोक्षज्ञानस्य सत्त्वात् । न चेश्वरस्य परोक्षज्ञानं श्रुत्यादिविरुद्धं स्वीकर्तुमपि शक्यम् । अथ निषेध्यत्वेन पश्यंस्तत्पालनार्थं प्रवर्तते, को दोष इति चेत्, न, अदृष्टकल्पनाप्रसङ्गात् । न हि स्वयं निषेध्य-त्वेन पश्यन् परोक्षतोऽप्यनिषेध्यत्वेनाजानंस्तत्पालनादौ प्रवर्तते इति दृष्टचरम् । ईश्वरस्य भ्रान्तत्वापत्तिरूपप्रतिकूलतर्कसत्त्वे(न)नाप्रयोजकता । न चेष्टापत्तिः । निरनिष्टो निरवद्य इत्यादिश्रुतिविरोधात् । अस्या निर्गुणविषयताया मिथ्यात्वसिद्ध्युत्तरकालीनत्वात् । सप्रकारका बाध्येति । सप्रकारकं यज्ज्ञानं तदबाध्याऽर्थक्रिया तत्कारित्वं, तस्मादित्यर्थः । अयं च हेतुः पररीत्यैव । स्वमते प्रातिभासिकार्थक्रियाकारित्वाभावेन तद्व्यावर्तकसप्रकारकाबाध्येति विशेषण-वैयर्थ्यापत्तेः ।

अथापि स्यात् । परमते प्रियासङ्गमादिविशेषिताप्रमाणीभूतज्ञानस्य सप्रकाराबाध्यार्थक्रिया-कारित्वदर्शनेन तद्विषये व्यभिचार इति चेन्न । तत्र ज्ञानस्यैवार्थक्रियाकारित्वेन तद्विषयस्या-तथात्वात् । न च विषयानवच्छिन्नज्ञानमात्रस्यातिप्रसञ्जकतया तदवच्छिन्नस्य जनकत्वे विशेषणीभूतस्य विषयस्यापि जनकत्वमिति वाच्यम् । विषयातिरिक्तस्य ज्ञाने हेतुविशेषजन्यस्य वा, स्वाभाविकस्य वा विशेषस्यासतः साधकत्वभङ्गे साधयिष्यमाणत्वात् । तादृग्विशेषा-नङ्गीकारे त्वन्मते ब्रह्मापरोक्षवृत्त्येव परोक्षवृत्त्याऽपि संसारनिवृत्त्यापत्तेः । ज्ञाने विषयान्यस्य विशेषस्याभावात् । विषयरूपस्य विशेषस्योभयत्रापि तुल्यत्वात् । तस्माद् विषया-नपेक्षितज्ञानविशेषाङ्गीकारे कथमतिप्रसङ्गः? यद्वा, विषयस्योपलक्षणत्वान्नार्थक्रियाकारित्वम् । न च ज्ञानस्वरूपाणामननुगतत्वाज् ज्ञानत्वस्यातिप्रसक्तत्वाद् अनुगतोपलक्ष्यतावच्छेदकस्या-भावान्नोपलक्षणत्वमिति वाच्यम् । हेतुविशेषप्रयोज्यस्य स्वाभाविकस्य वोपलक्ष्यतावच्छेदकस्य सम्भवात् । उपलक्ष्यतावच्छेदकाभावेऽपि त्वया द्वितीयाभावस्य ब्रह्मोपलक्षकत्वस्वीकाराच्च । सर्वैश्च घटप्रागभावो घटजनकः, घटः स्वध्वंसजनक इत्यत्र प्रागभावप्रध्वंसौ प्रति घटस्योप-लक्षणत्वाङ्गीकाराच्च । विस्तरिष्यते चैतद् असतः साधकत्वभङ्गे । न च विषयबाधे ज्ञानस्यापि बाध इति वाच्यम् । (अ)ज्ञानबाधेऽपि साक्षिणोऽबाधात् । तथा च परेणापि प्रियासङ्गमादि-ज्ञानस्यैव सुखजनकत्वस्वीकारात् तद्विषये न परमतेनापि व्यभिचारः । न चानादित्वमुपाधिः । उक्तहेतुं प्रति ब्रह्मणि परमार्थत्वस्यैव प्रयोजकतया हेतोः साध्यव्याप्यतया तदव्यापकत्वेनोपाधेः साध्याव्यापकत्वात् । यदि च परमार्थसत्त्वापेक्षया प्रातीतिकसत्त्वं लघ्विति तर्हि प्रातीतिक-सत्त्वेऽपि जगतोऽर्थक्रियाकारित्वोपपत्त्या तद्वैलक्षण्याङ्गीकारवैयर्थ्यापत्तिः । रूप्यादेरपि सप्रकारा-बाध्यार्थक्रियाकारित्वापत्तेश्च । न च व्यावहारिकसत्त्वमेवोक्तहेतुं प्रति जगति प्रयोजकमिति वाच्यम् । ब्रह्मणि चान्यस्यैव प्रयोजकतायां प्रयोजकद्वैविध्यकल्पनागौरवात् । शुद्धस्यैवाज्ञान-साधकत्वाङ्गीकारान् न दृष्टान्तीकृते शुद्धे ब्रह्मणि साधनवैकल्यं शङ्क्यम् । अन्यथाऽ-न्योन्याश्रयादित्यलं पल्लवेन ।

आरोपितेति । आरोपितं मिथ्यात्वं यस्य तत्कत्वादित्यर्थः । रूप्ये व्यभिचार-वारणायारोपितेति । नन्वारोपितत्वं प्रातिभासिकत्वं चेत् प्रपञ्चेऽसिद्धिः । तस्य सत्यत्व-सिद्ध्युत्तरकालीनत्वात् । व्यावहारिकत्वं चेत् शुक्तिरूप्ये व्यभिचार इति चेन्न । आरोपितशब्देन बाध्यत्वस्य विवक्षितत्वात् । रूप्यमिथ्यात्वस्य च ब्रह्मज्ञानाबाध्यत्वस्य सामान्यतो मिथ्यात्वभङ्गे साधितत्वात् । न चासति व्यभिचारः । तत्रात्यन्ताभावप्रतियोगित्वरूपमिथ्यात्वस्य सत्त्वात् । बाधाभावाच्च । उपपादितं चैतत् पूर्वमेवेत्यलम् । न चैवमप्यसिद्धिः । प्रपञ्चमिथ्यात्वस्य सत्यत्वादिति वाच्यम् । तस्य ब्रह्मातिरिक्तत्वेऽद्वैतहानेः । नापि तत्स्वरूपत्वम् । सोपाधि-कत्वादिति । कल्पकेति । न चासिद्धिः, शुद्धस्यैवाविद्यावशेन कल्पकत्वोपपत्तेरिति शङ्क्यम् । अविद्याया अपि कल्पितत्वेन तत्सिद्धौ कल्पकत्वसिद्धिः । तत्कल्पकत्वसिद्धौ अविद्यायाः कल्पितत्वसिद्धिरित्यन्योन्याश्रयाय् । न च कल्पकत्वं कल्पनाश्रयत्वं, कल्पनाविषयत्वं, तद्भासकत्वं वा । तदविद्यां विनैव भविष्यतीति वाच्यम् । तथात्वे तेषां निरुपाधिकत्वेन स्वाभाविकत्वापत्तेः । न च विशिष्टस्यैव कल्पकत्वम् । न चानवस्था । अविद्याध्या-सावसानत्वादिति वाच्यम् । कल्पकाभावेनाविद्याध्यासम्भवे विशिष्ट•)भावेन कल्पका-सम्भवात् । तथा च यावद्विशेषाभावे कल्पकरहितत्वसिद्धिरिति नासिद्धिः । न चासति व्यभिचारः । तस्य मूल एव परिहृतत्वादिति सर्वं निरवद्यम् ।

वैकल्पिकाद्यविशेषणप्रयोजनमाह– प्रातिभासिकस्येति । इदं च विशेषणत्रयं मतभेदेन, न सर्वसाधारणमित्याह ॥ तत्रापीति ॥ सर्वसाधारणपक्षलाभाय सर्वसाधारणवैकल्पिकविशेषण-त्रयमाह । यद्वा एतदिति । शुक्तिरजतस्य च स्वबाधकाभिमताबाध्यदोषजन्यज्ञानविषयत्वात् स्वबाधकाभिमताबाध्यबाधविषयत्वाच्च आद्यविशेषणद्वयेन शुक्तिरजतव्यावृत्तिः । समानाधि-करणेति । समानाधिकरणो यः कर्मप्रागभावस् तत्समानकालीनं यज्ज्ञानं तेनाबाध्यत्वे सतीत्यर्थः । चरमसाक्षात्कारस्यान्यकर्मप्रागभावसमानकालीनत्वात् तादृशज्ञानबाध्यत्वेनाश्रया-सिद्धिः स्यात् । अतः समानाधिकरणविशेषणम् । चरमसाक्षात्कारानन्तरं कर्मान्तरानुदयाच् चरमसाक्षात्कारस्य समानाधिकरणकर्मप्रागभावसमानकालीनत्वाभावान्नासिद्धिः ।

नन्वाद्ये साध्ये सिद्धसाधनम् । व्यावहारिकसत्त्वस्य पराभ्युपगमादित्यत आह – व्यावहारिकसत्त्वमिति । तथा च न सिद्धसाधनमिति भावः । ननु सत्त्वेन धीमात्ररूपत्वं सत्त्वा(स्वा)भावे सति सत्त्वेन धीविषयत्वम् । तत् कथं सत्त्वम्? सत्त्वाभावस्य सत्त्वरूपत्वे व्याघातादित्यत आह– अनिर्वाच्यलक्षण इति । नन्वेवं स्वमते व्यर्थविशेषणस्यापि हेतुत्वं स्यात् । तत्रापि परं प्रति व्यभिचारोद्धारस्य स्वप्रयोजनत्वसम्भवात् । न चेष्टापत्तिः । असाम्प्रदायिकत्वादित्यत आह – जन्यकृत्यजन्यानीति । नन्वेतावता पक्षे उपरञ्जक-विशेषणमस्तु । न तु साध्ये । अदर्शनादिति चेन्न । साध्यविशिष्टपक्षप्रतीतिरुद्देश्या । सा चोभयथाऽपि सम्भवति । पक्षे उपरञ्जकविशेषणेन वा साध्ये उपरञ्जकविशेषणेन वा । तथा च पक्ष एवोपरञ्जकविशेषणमिति नियमोऽप्रयोजकः । दृष्टं च विमतं भिन्नाभिन्नमित्यत्र साध्येऽप्युपरञ्जकं विशेषणम् । तत्राप्रयोजकत्वपरिहारार्थं तदिति यदि तर्हि प्रकृतेऽपि पूर्वोक्त-प्रयोजनसम्भवादिति द्रष्टव्यम् । अन्यथेति । साध्यविशेषणस्योक्तप्रयोजनानङ्गीकार इत्यर्थः । प्रतिभासमात्रशरीरत्वरूपस्येति । अत्र प्रतिभासमात्रशरीरत्वं नाम ब्रह्मज्ञानेतरज्ञान-बाध्यत्वादिकम् । न तु यथाश्रुतम् । प्रतिभासस्य सत्त्वेन तद्रूपत्वे रजतस्य ज्ञानरूपत्वेन बाह्यमतापत्तेः । ज्ञानस्य परमार्थत्वेन तद्रूपस्य पारमार्थिकत्वापत्तावपसिद्धान्तापत्तेश्चेति द्रष्टव्यम् ।

ननु द्वितीयानुमानेऽनभ्यासदशायामित्यस्य पक्षविशेषणत्वेन हेतुविशेषणत्वाभावात्, तृतीयचतुर्थयोश्च विशिष्टयोरेव कार्यकारणभावेन कारणाभावेन कार्याभावानुमाने विशेषणानां व्याप्तिग्रहोपयुक्तत्वेन सार्थकत्वम् । प्रकृते च नैवमित्यरुचेराह– किञ्चेति । तथा च प्रकृतेऽपि व्याप्तिग्रहोपयुक्तत्वेन सार्थकत्वमिति भावः । इदं च सम्यग् हेतुव्याख्यानावसर एव व्याख्यातम् । न चेत्यारभ्य ब्रह्मत्वाभावाच्चेत्यन्तो ग्रन्थः हेतोरप्रयोजकत्वपरिहारार्थः । तत्तात्पर्यं पूर्वमेव कथितं द्रष्टव्यम् । अन्यथेति । अकस्मात् क्लृप्तप्रयोजकत्याग इत्यर्थः । अनुमानादे-श्चेति । तस्य तत्त्वावेदकत्वं परस्यापि सिद्धमिति भावः । सा च श्रुत्यादीति । निरनिष्टो निरवद्य इत्यादीत्यर्थः । चतुर्थ इति । तथा च परमतरीत्या सप्रकाराबाध्येत्यस्य व्यभिचार-वारकत्वात् तद्रीत्यैवायं हेतुरिति द्रष्टव्यम् । ननु सप्रकाराबाध्यार्थक्रियाकारित्वं स्वाप्नप्रिया-सङ्गमादौ व्यभिचारीत्यत आह– व्यभिचारस्त्विति । स्वाप्नप्रियासङ्गमज्ञानस्यैवार्थक्रियाकारित्वं, न त्वर्थस्येति तत्र हेतोरेवाभावात्, ज्ञाने च साध्याभावाभावान्नोभयत्र व्यभिचार इति निरसिष्यत इत्यर्थः । शुद्धब्रह्मणो दृष्टान्तीकरणे तस्यार्थक्रियाकारित्वानङ्गीकारात् साधन-विकलतेत्यत आह– सत्यस्येति । विशिष्टस्य तथाऽङ्गीकारेऽन्योन्याश्रयादिति भावः । ननु सति सपक्षे तत्राप्रवेशी हेतुरसाधारणः । ततः सपक्षे ब्रह्मण्यस्य हेतोरवृत्तित्वेनासाधारण्यमित्यत आह– असाधारण्यस्येति । अनुकूलतर्काभावदशायामित्यर्थः । अनुकूलतर्कदशायां तु साध्यवति हेतुव्यतिरेकासम्भवात् । प्रकृते चानुकूलतर्कसद्भावादित्याह– विपक्ष इति । अत्र सर्वत्र कण्टकोद्धारः पुरैव कृतो द्रष्टव्यः । ज्ञानत्वेन ज्ञाननिवर्त्यत्वरूपमिथ्यात्वस्यारोपितस्या-सति सत्त्वेन व्यभिचार इत्यत आह– अत्र चेति । न चैवं तादृशमिथ्यात्वस्यालीकत्वेन कथं प्रपञ्चे तदारोप इति शङ्क्यम् । आरोपे आरोप्यज्ञानमात्रं प्रयोजकं, न तु वास्तवमित्याशयात् । चिन्मात्रस्येति । त्वन्मत इति शेषः । मन्मते तु कल्प्याभावादेवेति भावः । तदेवं षडपि हेतवः साधवः ।

न्यायामृतप्रकाशः

प्रत्यक्षबाधमभिधायानुमानबाधमाह ॥ अनुमानेति ॥ ब्रह्मप्रमान्येनेत्यादि ॥ ब्रह्मान्यदि-त्येवोक्तेऽसतोऽपि पक्षकोटिनिवेशप्राप्त्या तत्र सत्त्वसाधने बाधः स्यात्तद्वारणाय असत्त्वा-नधिकरणत्वे सतीत्युक्तम् । तर्हि प्रातिभासिकस्यापि पक्षकोटिनिवेशापत्त्या बाधवारणाया-बाध्यत्वे सतीत्युक्तम् । मायिमते प्रपञ्चस्याबाध्यत्वाभावेनाश्रयासिद्धिवारणाय ब्रह्मप्रमान्ये-नेत्युक्तम् । प्रपञ्चस्य मायिमते ब्रह्मप्रमान्येनाबाध्यत्वान्न पक्षालाभः । प्रातिभासिकस्य तु ब्रह्मप्रमान्येन बाध्यत्वात्तद्व्यावृत्तिः । तत्त्ववादिमते पक्षलाभाय नञ्द्वयगर्भता । ब्रह्म वृत्ति-व्याप्यमिति मतेनेदं विशेषणम् । ब्रह्म वृत्तिव्याप्यं नेति मते ब्रह्मप्रमेत्येव वक्तुमशक्यमत आह ॥ वेदान्तेति ॥ प्रपञ्चस्य वेदान्ततात्पर्यप्रमाजन्यं यज्ज्ञानं चरमवृत्तिरूपं तदन्येना-बाध्यत्वान्न मायिमते पक्षालाभः । प्रातिभासिकस्य तु वेदान्ततात्पर्यप्रमाजन्यज्ञानान्यज्ञान-बाध्यत्वात्तद्व्यावृत्तिः । तत्त्ववादिमते पक्षलाभाय नञ्द्वयगर्भत्वम् । शाब्दप्रमां प्रति तात्पर्यप्रमा हेतुरिति मतेनेदम् । शाब्दप्रमां प्रति तात्पर्यप्रमा न हेतुः । अन्योन्याश्रयात् – मानान्तरागम्यस्य वाक्यार्थस्य वाक्यादुपस्थितौ सत्यां तत्र वाक्यस्य तात्पर्यावधारणं, तात्पर्यावधारणे च तेन वाक्यार्थप्रतीतिस् तात्पर्यज्ञानस्य वाक्यार्थज्ञाने कारणत्वस्य परेणोच्यमानत्वादित्येवमन्योन्याश्रयान्न शब्दार्थसंसर्गरूपवाक्यार्थप्रमां प्रति तात्पर्यप्रमा हेतुरिति मतेनाह ॥ मोक्षहेत्विति ॥ प्रपञ्चस्य मोक्षहेतुभूतं यज्ज्ञानं चरमवृत्तिरूपं तदन्येना-बाध्यत्वान्न मायिमते पक्षालाभः । तत्ववादिमते पक्षलाभाय नञ्द्वयगर्भता ।

गौरवान्नैवं पक्षनिर्देश इत्याशयेनाह ॥ विमतं वेति ॥ सद्वा परमार्थसद्वेति साध्यद्वयम् । तत्र प्रपञ्चे व्यावहारिकसत्त्वं नाम सत्त्वेन प्रतीतिमात्रम् । वस्तुतोऽर्थगतं सत्त्वं नास्ति । अत एव प्रतिपन्नोपाधौ स्वरूपेणैव त्रैकालिकनिषेधप्रतियोगित्वमङ्गीकुर्वन्ति । तन्मतानुसारेण सदित्येव साध्यनिर्देशः । अर्थगतं मायिकं सत्त्वमस्ति । अत एव प्रतिपन्नोपाधौ स्वरूपेणैव सत्ताप्रतिषेधस्य कर्तुमशक्यत्वात्पारमार्थिकत्वाकारेणैव निषेधमङ्गीकुर्वन्ति । तन्मते सदित्येव साध्यनिर्देशे सिद्धसाधनता स्यादतः परमार्थसद्वेत्युक्तम् । तेन पारमार्थिकसत्त्वनिषेधाङ्गी-कारात्परमार्थसद्वेति साधितमिति भावः ॥ प्रातिभासिकत्वेति ॥ अनधिकरणत्वादित्येवोक्ते सत्त्वादिधर्मानधिकरणेऽसति व्यभिचारः स्यादतो ऽसत्त्वानधिकरणत्वादित्युक्तम् । तावत्युक्ते प्रातिभासिके व्यभिचारः स्यादतः सत्यन्तविशेषणम् । असति व्यभिचारवारणाय विशेष्यभागः ॥

अनिषेध्यत्वेनेति ॥ पुरोवृत्तिनं रङ्गं रजततया जानामीत्याद्यनुव्यवसायरूपप्रमां प्रति व्यवसायद्वारा विषये प्रातिभासिके रजते व्यभिचारवारणाय साक्षादित्युक्तम् । नेदं रजतमिति बाधकज्ञानरूपप्रमां प्रति निषेध्यतया साक्षाद्विषये रजते व्यभिचारपरिहाराय अनिषेध्यत्वेनेति विषयविशेषणम् । इदं रजतमिति भ्रमं प्रति अनिषेध्यत्वेन साक्षाद्विषये रजते व्यभिचार-वारणाय प्रमां प्रतीत्युक्तम् ॥ अनिषेध्यत्वेनेति ॥ पदानां कृत्यं पूर्ववत् । इदं रजत-मित्यस्मदादिभ्रमरूपं ज्ञानं प्रति अनिषेध्यत्वेन साक्षादपरोक्षत्वं रजतेऽप्यस्तीति व्यभिचार-वारणाय पूर्वं प्रमां प्रतीत्युक्तम् । अत्र तत्स्थाने ईश्वरं प्रतीत्युक्तम् । रजतं चेश्वरं प्रति निषेध्यत्वेनैव साक्षादपरोक्षमित्यदोषः । इदं च

‘अपरोक्षदृशो मिथ्यादर्शनं न क्वचिद्भवेत् ।

सर्वापरोक्षविद्विष्णुर्विश्वदृक्तन्न तन्मृषा ॥’ इति प्रमाणोक्तमनुमानम् ।

असत्यार्थक्रियाकारित्वस्यैन्द्रजालिकेऽपि सत्त्वाद्व्यभिचारवारणायाबाध्येत्युक्तम् । ऐन्द्रजालिकार्थक्रिया तु बाध्येति । नन्वेवं स्वरूपासिद्धिः । प्रपञ्चगतार्थक्रियाया निष्प्रकारकब्रह्मज्ञानबाध्यत्वाङ्गीकारादित्यत उक्तम् ॥ सप्रकारकाबाध्येति ॥ तथा च नासिद्धिः । प्रपञ्चगतार्थक्रियाया निष्प्रकारकज्ञानबाध्यत्वेन सप्रकारकाबाध्यत्वादिति भावः । रूप्यादौ व्यभिचारवारणाय आरोपितेत्युक्तम् । प्रातिभासिकस्येत्यादेरुक्तरीत्यार्थः स्पष्टः । वैकल्पिकं वाशब्दोपेतम् ॥ एतद्विशेषणेति ॥ ब्रह्मप्रमान्येनेत्यादिविशेषणेत्यर्थः । स्वबाधकाभिमतबाध्यदोषजन्यज्ञान विषयत्वेन स्वबाधकाभिमताबाध्यबाधविषयत्वेन परमते पर्यवसानेन पक्षलाभः । अस्मन्मते पक्षलाभाय नञ्द्वयगर्भत्वम् । स्वबाधकस्यैवाभावेन तदबाध्यदोषजन्यज्ञानविषयत्वं तदभिमताबाध्यबाधविषयत्वं च नास्ति । अतो नास्माकं पक्षालाभ इति ज्ञेयम् । प्रातिभासिकं चैतेन पक्षाद्व्यावर्तितम् । प्रातिभासिकरजतविषयक-ज्ञानहेतुकाचादिदोषस्य रजतबाधकत्वेनाभिमतं यन्नेदं रजतमिति ज्ञानं तदबाध्यत्वेन स्वबाधकाभिमताबाध्यदोषजन्यज्ञानविषयत्वस्यैव सत्त्वात् । तथा प्रातिभासिकविषयको यो बाधस्तस्य प्रातिभासिकबाधकत्वेनाभिमतेन स्वेनैव बाध्यत्वादिति ध्येयम् ॥ समानाधि-करणेति ॥ ज्ञानेन समानाधिकरणेत्यर्थः । ज्ञानेनाबाध्यत्वे सतीत्येवोक्ते मायिमते पक्षालाभो ऽतः कर्मप्रागभावसमानकालीनेत्युक्तम् । जगद्बाधकं च ज्ञानं न कर्मप्रागभावसमानकालीनं साक्षात्कारानन्तरं ‘‘क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे’’ इति वचनात् कर्मणा-मनुदयेन तदा कर्मप्रागभावाभावात् । अतः कर्मप्रागभावसमानकालीनं यदयं घट इति ज्ञानं तदबाध्यत्वमस्तीति न पक्षालाभः । नन्वथापि पक्षालाभः यज्ञदत्तस्य जगद्बाधकज्ञानोत्पत्ति-काले देवदत्तकर्मप्रागभावसत्त्वेन प्रपञ्चस्य देवदत्तकर्मप्रागभावसमानकालीनयज्ञदत्तज्ञानेन बाध्यत्वात् । अतः समानाधिकरणेति कर्मप्रागभावविशेषणम् । तथा च बाधकज्ञानाधि-करणको यः कर्मप्रागभावो यज्ञदत्तीय एव तत्समानकालीनं यज्ज्ञानम् अयं घट इति ज्ञानं तेनाबाध्यत्वमस्तीत्यर्थः । प्रातिभासिकं चानेन पक्षाद्व्यावर्तितम् । शुक्तिसाक्षात्कारानन्तरमपि कर्मणामुदयेन प्रातिभासिकरजतबाधकस्य शुक्तिज्ञानस्य ज्ञानसमानाधिकरणकर्मप्रागभाव-समानकालीनत्वेन तादृशज्ञानेनाबाध्यत्वस्य प्रातिभासिकेऽभावादिति द्रष्टव्यम् ।

स्वबाधकेत्यादिप्रकारत्रयेण पक्षनिर्देशेन प्रातिभासिकव्यावृत्तिर्जातेत्याह ॥ प्रातिभासि-केत्यादिना ॥ प्रातिभासिकेति ॥ प्रातिभासिकस्य यद्बाधकं तेन बाध्यौ न भवत इत्यर्थः । सद्वेति साध्यनिर्देशकृत्यमाह ॥ व्यावहारिकेति ॥ द्वितीयसाध्ये विशेषणवैयर्थ्यं परिहरति ॥ अर्थगतमिति ॥ मायिकं व्यावहारिकम् । ननु वादिनस्तव मते परमार्थसद्वेति द्वितीयसाध्ये परमार्थेति विशेषणं व्यर्थम् । न चापरमार्थसद्व्यावृत्त्यर्थं तदिति वाच्यम् । भवन्मतेऽपरमार्थ-सतोऽभावेन व्यावर्त्याप्रसिद्धेः । अतः सदित्युक्ते परमार्थसत्त्वस्यैव प्राप्तेस्तद्विशेषणम् अनुमान-प्रयोक्तुर्वादिनस्तव मते व्यर्थमित्याशङ्क्य निराकरोति ॥ न चेति ॥ सत्त्वेनेति ॥ सत्त्वेन धीमात्रमेव न तु वास्तवं सत्त्वमित्येवं रूपमपारमार्थिकसत्त्वं रूप्यादौ मयाप्यङ्गीकृतमिति तद्वारणाय तत्सार्थकमिति भावः । तर्हि मायिमते प्रवेशः स्यादित्यस्वरसादेवाह ॥ अनिर्वाच्येति ॥ नेदं विशेषणं व्यर्थम् । प्रातिभासिकव्यावहारिकसत्त्वव्यावृत्त्यर्थत्वात् । न च भवन्मते व्यावर्त्याप्रसिद्धिरिति वाच्यम् । परमते तत्सद्भावेन परप्रसिद्धिमात्रेण व्यावर्त्यत्वो-पपत्तेः । परप्रसिद्धिमात्रेण स्वलक्षणस्थविशेषणकृत्यकथनमदृष्टमिति चेन्न । यथाहि सत्त्वा-नधिकरणत्वे सत्यसत्त्वानधिकरणत्वे सति सदसत्त्वानधिकरणत्वमनिर्वचनीयत्वमित्य-निर्वाच्यत्वलक्षणे आद्यविशेषणद्वयव्यावर्त्यप्रसिद्धावपि सदसतो मायिमतेऽभावात्तृतीयं विशेषणं व्यर्थमित्याशङ्कायां स्याद्वादिमते जगतः सप्तभङ्गित्वेन तन्मते प्रसिद्धत्वेन व्यावर्त्यत्वं परैरुक्तं तद्वदित्यर्थः । परप्रसिद्धिमात्रेणेत्यस्य स्याद्वादिप्रसिद्धिमात्रेणेति साम्प्रदायिकोऽर्थः । कस्यचित्पुंसः सदसत्त्वारोपः कुत्रचिज्जातस् तादृशभ्रमरूपप्रसिद्धिमात्रेणेत्यर्थ इत्येतद-साम्प्रदायिकं व्याख्यानमित्युपेक्ष्यम् । किञ्च मया त्वां प्रत्यनुमानं प्रयुज्यते तत्र विमतं सदित्येव प्रयोगे तव सिद्धसाधनता स्यादतः परमार्थेति विशेषणम् । न चेदं मत्प्रयोजनमेव न भवत्प्रयोजनमिति वाच्यम् । अनुमानप्रयोक्त्रा मया यथा तव सिद्धसाधनादिकं न स्यात्तथा यत्नः कार्यः । अतस्तव प्राप्तसिद्धसाधनोद्धारोऽपि मत्प्रयोजनमेवेत्याह ॥ परार्थेति ॥ जन्येति ॥ यथा निरीश्वरवादिनं मीमांसकं प्रति जन्यपदस्य व्यर्थत्वेऽपि जन्यकृत्यजन्यत्वा-वच्छिन्ने सकर्तृकत्वसिद्धेरुद्देश्यत्वेन उपरञ्जकव्यावर्तकं विशेषणं तदित्यङ्गीकृतम् । यथा वा पर्वतः प्रमेयवह्निमानित्यत्र प्रमेयत्वं वह्नेर्न व्यावर्तकं विशेषणं किन्तु प्रमेयवह्निसिद्धेरुद्देश्य-त्वेनोपरञ्जकमेव तदिति अवैयर्थ्यमित्युच्यते तथा परमार्थसत्त्वरूपसाध्यसिद्धेरुद्देश्यत्वेन उपरञ्जकविशेषणत्वेनावैयर्थ्यादित्यर्थः । यथोक्तं परेण ‘‘विशेषणमपि द्विविधं व्यावर्तक-मुपरञ्जकं चेति । तत्राव्यावर्तकं विशेषणमुपरञ्जकमित्युच्यत’’ इति ॥ मां प्रतीति ॥ त्वन्मते व्यावर्त्याप्रसिद्धेरिति भावः ॥ आद्येति ॥ प्रातिभासिकत्वानधिकरणत्वे सत्यसत्त्वानधिकरण-त्वादित्याद्यहेतावित्यर्थः ॥ वादिनं प्रतीति ॥ अनुमानप्रयोक्तारं त्वां प्रतीत्यर्थः ॥ अप्रसिद्धिरिति ॥ ‘‘सद्भ्यामधिकरणप्रतियोगिभ्यामभावो निरूप्यते’’ इति वचनादिति भावः ॥ अप्रामाणिकस्यापीति ॥ तथा च प्रतियोगिसत्त्वं नापेक्षितमित्यर्थः ॥

प्रतिभासमात्रशरीरेति ॥ मात्रशब्देनार्थो व्यावर्त्यते । अर्थाभावेऽपि प्रतिभास-कत्त्वमित्यर्थः । यथाश्रुते ज्ञानात्मकत्वापत्तौ विरोधः स्यादिति ध्येयम् । तस्य प्रातिभासिक-त्वस्य । प्रसिद्धेर् मन्मतेऽपीति शेषः ॥ अन्यथेति ॥ प्रातिभासिकत्वाप्रसिद्ध्या तदनधि-करणत्वाप्रसिद्धौ चोदितायामित्यर्थः । त्वयापि प्रातिभासिकान्यद्विश्वं मिथ्येत्यनुमातव्यम् । अन्यथा सिद्धसाधनतापत्तेः । ‘‘ब्रह्मप्रातीतिकान्यद्विश्वं मिथ्याप्रतीतितः’’ इति त्वदुक्तेश्च । तथा च तत्र प्रतियोग्यप्रसिद्ध्या तदन्यत्वाप्रसिद्धेः पक्ष एवाप्रसिद्ध इत्यनुमानस्यैवायोग इति दोषसाम्यमित्यर्थः ॥ असिद्धीति ॥ अनधिकरणत्वे सतीत्येवोक्ते यत्किञ्चिदधिकरणे प्रपञ्चेऽनधिकरणत्वमसिद्धमित्यर्थः । विमतं पर्वतादिरूपं, सौरभेत्याद्यनुमानं धूमवह्न्योः सद्भावदशायामेव । अन्यथा चन्दनप्रभवादिविशेषणस्यासिद्धिवारकत्वायोगादिति द्रष्टव्यम् । विमतं तप्तायोगोलकम् ॥ दृष्टान्तेऽपीति ॥ आत्मनीत्यर्थः । आत्मनोऽपि यत्किञ्चि-दधिकरणत्वादिति भावः । तथा चानधिकरणत्वस्य कुत्राप्यप्रसिद्धत्वेन तदवच्छेदेन व्याप्ते-र्गृहीतुमशक्यत्वेनाप्रसिद्धिवारकतया व्याप्तिग्रहोपयुक्तत्वं प्रातिभासिकत्वविशेषणस्येत्यर्थः ॥ रूपादीनामिति ॥ ‘‘चक्षुस् तैजसं रूपादिषु पञ्चसु मध्ये रूपस्यैवाभिव्यञ्जकत्वा-दि’’त्यत्रालोकादौ रूपत्वादिव्यञ्जकत्वस्यापि सद्भावेन रूपस्यैवाभिव्यञ्जकत्वस्य कुत्राप्य-प्रसिद्धत्वेन तदवच्छेदेन व्याप्तिग्रहसम्भवात्तद्वारणाय रूपादिषु पञ्चसु मध्य इत्युक्तम् । एवं च यथा तस्याप्रसिद्धिवारकत्वेन व्याप्तिग्रहोपयुक्तत्वं तद्वदित्यर्थः । ननु हेतौ व्यभिचारवारकमेव विशेषणं देयं न तु व्याप्तिग्रहोपयुक्तमिति नियमोऽस्तीति चेत्तत्राह ॥ व्यभिचारेति ॥ तदौपयिकत्वस्य व्याप्तिग्रहोपयुक्तत्वस्य । हेतोर्व्यभिचारे तत्सत्त्वावच्छेदेन साध्यनिरूपिता व्याप्तिर्गृहीतुमशक्येति तद्वारकेऽपि विशेषणे व्याप्तिग्रहोपयुक्तत्वमेव तन्त्रमित्यर्थः ॥ यत्किञ्चिदिति ॥ वस्तुत्वादीत्यर्थः । केचिदित्यस्वरसोद्भावनम् । तद्बीजं तु अनधिकरणत्व-हेतोर् अधिकरणत्वसामान्याभावपरत्वाङ्गीकारान् निषेधप्रतियोगित्वरूपधर्मविशेषाधिकरणे प्रातीतिके सामान्याभावायोगेन व्यभिचारस्यैवाभावादिति ॥ व्यावहारिकेति ॥ पारमार्थिक-सत्त्वाभावेऽप्युपपन्नत्वादिति भावः । नात्राऽप्रयोजकता शङ्क्या । प्रातिभासिकत्वानधि-करणत्वे सति असत्वानधिकरणत्वरूपहेतोरसत्प्रातिभासिकव्यावृत्तिरूपत्वात् तादृशहेतुं प्रति प्रयोजकत्वेन पारमार्थिकसत्त्वस्यैव दृष्टान्ते ब्रह्मणि क्लृप्ततया जगत्यपि पारमार्थिकसत्त्वाभावे हेतूच्छित्तेरेव बाधकत्वात् ।

ननु दृष्टान्ते ब्रह्मणि तथा क्लृप्तत्वेऽपि प्रकृते व्यावहारिकसत्त्वेनैवोक्तहेतोरुपपत्तिः किं न स्यादिति चेत्तत्राह ॥ ब्रह्मणीति ॥ व्यावर्तकतया असत्प्रातिभासिकयोरतिप्रसङ्गभञ्जकत-येत्यर्थः ॥ त्यागस्येति ॥ व्यावहारिकसत्त्वमङ्गीकृत्येति शेषः ॥ अन्योन्याश्रयादिति ॥ विश्वमिथ्यात्वे सिद्धे व्यावहारिकसत्त्वसिद्ध्या तेनैव हेतोरुपपत्त्या हेतोरप्रयोजकत्वसिद्धिः । तत्सिद्धौ चानुमानस्य दुष्टत्वेन तद्बाधाभावाद्विश्वमिथ्यात्वसिद्धिरित्यन्योन्याश्रयादित्यर्थः ॥ अन्यथेति ॥ क्लृप्तपरित्यागेनाक्लृप्तकल्पने वह्निं प्रति धूममप्रयोजकीकृत्य पर्वतत्वमेव प्रयोजक-मङ्गीकृत्य महानसस्यापि वह्निमत्त्वं न स्यादित्यतिप्रसङ्ग इत्यर्थः । ननु दृष्टान्ते ब्रह्मण्यपि असदादिव्यावृत्तेर्न सत्त्वं तन्त्रत्वेन क्लृप्तम् । किन्तु ज्ञानत्वाद्यपरपर्यायं यद्ब्रह्मत्वं तदेवेत्या-शङ्क्य निराकरोति ॥ न चेति ॥ अन्यथेति ॥ तद्व्यावृत्तिं प्रति तद्विरुद्धधर्मवत्त्वस्य प्रयोजकत्वमनङ्गीकृत्यासद्व्यावृत्तिं प्रति तदविरुद्धं ज्ञानत्वादिकमेव प्रयोजकं न तद्विरुद्धं सत्त्वमित्यङ्गीकार इत्यर्थः ॥

सत्यज्ञानादीत्यादि ॥ सत्यज्ञानादिवाक्येऽपि ज्ञानपदेन ज्ञानत्वप्रतिपादनद्वाराऽनृत-व्यावृत्तेरपि सिद्धिप्रसङ्गेन सत्यपदं व्यर्थं स्यादित्यर्थः ॥ प्रपञ्च इति ॥ यद्यसद्व्यावृत्तौ ज्ञानत्वादिरूपं ब्रह्मत्वमेव प्रयोजकमित्युच्यते तर्ह्यसद्व्यावृत्तिमति प्रपञ्चे ब्रह्मत्वाभावेन प्रयोज्यापेक्षया न्यूनवृत्तित्वान्न तत्प्रयोजकमित्यर्थः ॥ द्वितीय इति ॥ अनिषेध्यत्वेन प्रमां प्रति साक्षाद्विषयत्वादिति द्वितीयहेतावित्यर्थः । अत्र तत्वावेदकप्रमाविषयत्वं हेतुरतत्वा-वेदकप्रमाविषयत्वं वा । नाद्यः । ममासिद्धेरित्याह ॥ तत्वेति ॥ न द्वितीय इत्याह ॥ अतत्वेति ॥ अप्रयोजकतेति ॥ अतत्वावेदकप्रमाविषयत्वस्य सत्त्वाभावेऽप्युपपत्तेरित्यर्थः ॥ व्याहतत्वादिति ॥ अर्थसत्त्वगर्भप्रामाण्यस्यार्थासत्त्वगर्भातत्वावेदकत्वेनात्यन्तविरोधा-त्प्रामाण्यातत्वावेदकत्वयोः सामानाधिकरण्यस्य व्याहतत्वेन विकल्प एवायुक्त इति भावः ॥ प्रत्यक्षस्येति ॥ तथा च तत्वावेदकप्रमोक्तावपि नासिद्धिरिति भावः ॥ अनुमानादेश्चेति ॥ तत्वावेदकं यत्प्रमाणं ‘विमतं सत्यं प्रमाणदृष्टत्वादित्यनुमानरूपं, तद्विषयत्वस्य प्रपञ्चे सद्भावेनापि नासिद्धिः । न चानुमानमतत्वावेदकमिति वाच्यम् । त्वयापि दृश्यत्वादेस्तत्त्व-भूतमिथ्यात्वादौ प्रमाणीकरणेन तस्य तत्त्वावेदकत्वाङ्गीकारात्तज्जातीयास्मदनुमानविषय-त्वेनापि तत्वावेदकप्रमाविषयत्वं पक्षे नासिद्धमित्यर्थः । प्रमाणविषयत्वभावेऽपि सत्त्वं मास्त्वित्यप्रयोजकताशङ्कापरिहारायाह ॥ विपक्ष इति ॥ व्याघातमेवोपपादयति ॥ विषयबाध इति ॥ विषयासत्त्व इत्यर्थः ॥ प्रामाण्यं प्रमाविषयत्वम् । प्रपञ्चस्य सत्त्वाभावे विषय-सत्त्वघटितप्रमाविषयत्वरूपहेतोरेवायोगादिति हेतूच्छित्तिर्बाधिकेति भावः ॥

नापि तृतीय इति ॥ अनिषेध्यत्वेनेश्वरं प्रति साक्षादपरोक्षत्वहेतावित्यर्थः ॥ असिद्धि-रिति ॥ ईश्वरं प्रत्यपि निषेध्यत्वेनैव विश्वस्यापरोक्षत्वादसिद्धिरित्यर्थः ॥ शास्त्रेति ॥ वेदकर्तृत्वेनेत्यर्थः । तद्द्रष्टृत्वोक्तेः स्वकृतजगच्छास्त्रद्रष्टृत्वोक्तेर्नासिद्धिरित्यर्थः ॥ अन्यथेति ॥ निषेध्यत्वेनेश्वरं प्रत्यपरोक्षत्व इत्यर्थः । प्रातिभासिकत्वापत्त्येति शेषः । तत्पालनादौ प्रातिभासिकजगत्पालनादौ । अप्रयोजकतां परिहरति ॥ विपक्ष इति ॥ अनिषेध्यत्वेनेश्वर-ज्ञानविषयस्यापि विश्वस्य सत्यत्वाभावे रूप्यवन्निषेध्यत्वप्राप्त्या निषेध्यमेव प्रपञ्चमनिषेध्यत्वेन ईश्वरो जानातीति स्यात् । तथा चेश्वरस्य भ्रान्तत्वं स्यादिति बाधकसद्भावान्नाप्रयोजकता शङ्क्येत्यर्थः ।

अस्त्वीश्वरस्य भ्रान्तिरित्यत आह ॥ सा चेति ॥ ‘‘शोकं मोहं जरां मृत्युमत्ये-ती’’त्यादि श्रुतिविरुद्धेत्यर्थः ॥ चतुर्थ इति ॥ सप्रकारकाबाध्यार्थक्रियाकारित्वादिति हेतावित्यर्थः । सप्रकारकाबाध्येति पदस्य कृत्यमाह ॥ अर्थक्रियाया इति ॥ सत्यभूतार्थ-क्रियाकारित्वं हेतुरुतासत्यभूतार्थक्रियाकारित्वं, नाद्य इत्याह ॥ सत्याया इति ॥ व्याप्ति-पक्षधर्मतयोरिति ॥ यथायोग्यं सम्बन्धो न यथाक्रमम् । सत्यभूतार्थक्रियायाः पक्षेऽसिद्ध्या पक्षधर्मतायास्सपक्षे ब्रह्मण्यसिद्ध्या व्याप्तेश्चायोगादित्यर्थः । न द्वितीय इत्याह ॥ असत्यायाश्चेति ॥ सप्रकारकेति ॥ ऐन्द्रजालिकार्थक्रिया तु सप्रकारकेण इदानीन्तनबाधेन बाध्येति न तत्र व्यभिचार इत्यर्थः । ननु सप्रकारकजाग्रद्बाधाबाध्यचरमधातूत्सर्गरूपार्थ-क्रियाकारित्वस्य मिथ्याभूते स्वाप्नप्रियासङ्गमे सत्त्वेन व्यभिचार इत्यत आह ॥ व्यभिचार-स्त्वस्येति ॥ न स्वाप्नप्रियासङ्गमस्यार्थक्रियाकारित्वं किन्तु तज्ज्ञानस्य, तच्च सत्यमेवेति निरसिष्यत इत्यर्थः । ननु दृष्टान्ते ब्रह्मण्यर्थक्रियाकारित्वाभावात्साधनवैकल्यमित्यत आह ॥ सत्यस्येति ॥ साक्षिचैतन्यस्य ब्रह्मरूपत्वादिति भावः ॥ साधकत्वादिति ॥ यथोक्तं ‘‘साधकत्वं सतस्तेन साक्षिणा सिद्धिमिच्छता । स्वीकृतं ही’’ति । ‘‘साधकत्वं तु सत्यस्य साक्षिणो ह्यावयोर्द्वयोः सम्यक्सम्प्रतिपन्नम्’’ इति च ।

नन्वविद्यावृत्तिप्रतिबिम्बितचैतन्यस्यैव साक्षित्वात्तस्यैवाज्ञानादिसाधकत्वमङ्गीकृतम् । तस्य च मिथ्याभूतत्वान्न दृष्टान्तत्वम् । दृष्टान्तस्तु शुद्धब्रह्मैव तत्र हेतोरेवाभावात्साधनवैकल्यं स्यादेवेत्यस्वरसादाह ॥ असद्वेति ॥ ननु सत्त्वरूपसाध्ययुक्तात्मनः सपक्षाद्धेतोर्व्यावृत्ततयाऽ-साधारण्यदोषः स्यादित्यत आह ॥ असाधारण्यस्येति ॥ यथा भूर्नित्या गन्धवत्त्वादित्यत्र नित्यव्यावृत्तगन्धवत्त्वाद्भूः किमनित्या उतानित्यव्यावृत्तगन्धवत्त्वाद्भूः किं नित्येति विरुद्धोभयपरामर्शोत्थापकतया सत्प्रतिपक्षत्वेन सांशयिकत्वेन वानुकूलतर्कादिरूपविशेषा-दर्शनदशायामेवासाधारण्यस्य दोषत्वं दृष्टम् एवं प्रकृतेऽपि सत्यभूतब्रह्मव्यावृत्तार्थक्रिया-कारित्वात्प्रपञ्चः किं मिथ्या उत मिथ्याभूतरूप्यादिव्यावृत्तार्थक्रियाकारित्वात् प्रपञ्चः सत्य इत्येवं विरुद्धोभयपरामर्शोत्थापकतया सत्प्रतिपक्षत्वेन सांशयिकत्वेन वा दोषत्वं वाच्यम् । इदं चानुकूलतर्कादिरूपविशेषादर्शनदशायामेव । अत्र च मिथ्याभूतरूप्यादिव्यावृत्तार्थ-क्रियाकारित्वात्सत्यः प्रपञ्च इति परामर्शेऽनुकूलतर्काणां वक्ष्यमाणत्वेन विशेषदर्शनसद्भावान्न सत्प्रतिपक्षत्वेन सांशयिकत्वेन वा तस्य दोषत्वं सम्भवतीत्यर्थः । यथोक्तं गङ्गेशेन ‘‘संशयः सत्प्रतिपक्षो वाऽसाधारण्यस्य दूषकतायां द्वारं स चेह विशेषदर्शनान्नास्ती’’ति । अर्थक्रिया-कारित्वेऽपि सत्यत्वं मास्त्वित्यप्रयोजकतायामाह ॥ विपक्ष इति ॥ अर्थक्रियाकारित्वस्य सत्त्वप्रयोज्यत्वेन प्रयोज्यभूतार्थक्रियाकारित्वमङ्गीकृत्य तत्प्रयोजकीभूतसत्यत्वानङ्गीकारो विरुद्ध इत्यर्थः ।

दृष्टान्ते हेतुसाध्ययोर्व्याप्तेर्निर्णीतत्वान्नाप्रयोजकत्वशङ्का कार्येत्याह ॥ ब्रह्मणीति ॥ हेतुत्वं सप्रकारकाबाध्यजगद्धेतुत्वाद्यर्थक्रियां प्रति अर्थक्रियाऽकारणं यदसदादि तद्व्यावृत्तस्य परमार्थसत्त्वस्यैव प्रयोजकत्वेनावधारणात् प्रपञ्चे तदभावे प्रयोज्यस्यार्थक्रियाकारित्वस्याप्य-भावरूपविपक्षबाधकतर्केण हेतोर्व्याप्यत्वग्रहान्नाप्रयोजकत्वमित्यर्थः ॥ पञ्चम इति ॥ आरोपितमिथ्यात्वकत्वादिति पञ्चमहेतावित्यर्थः ॥ परमत इति ॥ मिथ्यात्वस्य सत्यत्वेऽ-द्वैतहानिप्रसङ्गात्सोपाधिकस्य निरुपाधिकेनैक्यासम्भवादारोपितत्वमेव तस्य वक्तव्यमित्यर्थः । मिथ्यात्वस्य सत्तानिषेधरूपत्वेन सत्यत्वेऽप्यभावद्वैताङ्गीकारादविरोध इत्येतत्तु पूर्वमेव दूषितमिति भावः । नन्वसतो निर्धर्मकत्वेन तत्र मिथ्यात्वाख्याभावरूपधर्मस्याप्यारोपितत्वा-द्व्यभिचार इत्यत आह ॥ अत्र चेति ॥ तथा चारोपितसत्त्वाभाववत्त्वादित्यर्थः । असति च सत्त्वाभावो वास्तव एवेति न व्यभिचार इति भावः । षष्ठे कल्पकरहितत्वादिति हेतौ कल्पकं किं चिन्मात्रं तदन्यद्वा । नाद्य इत्याह ॥ चिन्मात्रस्येति ॥ कल्पनोपयुक्तदेहेन्द्रियाद्य-भावादिति भावः । न द्वितीय इत्याह ॥ अन्यस्य चेति ॥ तथा च स्वेनैव स्वस्य कल्पितत्वं विरुद्धमित्यर्थः । नन्वसतः केनाप्यकल्पितत्वेन कल्पकरहितत्वहेतोस्तत्र व्यभिचार इत्यत आह ॥ अत्र चेति ॥ तथा च साध्यभूतं सत्वं नामाकल्पितत्वमेव विवक्षितम् । अतोऽसति साध्यस्यापि सत्वान्न व्यभिचार इत्यर्थः ॥ विपक्ष इति ॥ कल्पकरहितत्वेऽपि कल्पितत्व-मेवास्त्वित्यप्रयोजकतायामित्यर्थः । व्याघातमेवाह ॥ कल्पकमिति ॥

न्यायकल्पलता

विश्वमिथ्यात्वानुमानानां प्रत्यक्षबाधोऽभिहितः । इदानीं प्रत्यक्षागमानुसारिप्रमाणा-भावतयान्तरोद्दिष्टानुमानबाधं निरूपयति । अनुमानेति । ब्रह्मप्रमान्येनेति । ब्रह्म वेदान्त-वाक्यजन्यवृत्तिव्याप्यमिति मतेनाद्यं विशेषणम् । नेति मतेन वैकल्पिकमुत्तरं विशेषणद्वयमिति बोध्यम् । प्रातिभासिकस्य शुक्तिरूप्यादेरपक्षत्वाय सत्यन्तमाद्यं विशेषणत्रयं विकल्पेन पक्षे प्रक्षिप्तम् । तत्र ब्रह्मवृत्तिव्याप्यमिति मतेनाद्यम् । तदनभ्युपगमेे तु शाब्दप्रमां प्रति तात्पर्यप्रमा हेतुरिति मतेन द्वितीयम् । अन्योन्याश्रयान्न सा हेतुरिति मतेन तृतीयम् । अन्यद्विप्रतिपत्तावुक्तं बाधादिवारकविशेषणस्य सप्रयोजनत्वमनुसन्धेयम् । सद्वेति । पारमार्थिकसत्वातिरिक्तं व्यावहारिकं प्रातिभासिकं वा सत्वं नास्तीति पक्षे सदित्येव साध्यनिर्देशः । व्यावहारिक-सत्वादिकमादाय सिद्धसाधनाभावादित्यभिसन्धिः । अनिषेध्यत्वेनेति । पुरोवर्तिनं रजततया जानामीत्याद्यनुव्यवसायरूपप्रमाविषये प्रातिभासिके व्यभिचारवारणाय साक्षात्पदम् । तस्य व्यवसायविषयतयैवानुव्यवसायं प्रति विषयत्वात् । इदं च तार्किकमतेन । तत्वविदां मते तु भ्रमानुव्यवसायस्य प्रमात्वाभावात् । तत्रैव मिथ्यात्वप्रतीतेः साक्षाद्विषये व्यभिचारवारणाय निषेध्यत्वेनेति विषयत्वविशेषणम् । इदं रजतमिति ज्ञानं प्रति साक्षाद्विषये रूप्ये व्यभिचार-वारणाय प्रमेति । रजताभावस्यानिषेध्यत्वेन रजतं नास्तीति प्रमां प्रति विषये रजते एव न व्यभिचारः । अनिषेध्यत्वेनेश्वरं प्रतीति । अपरोक्षत्वस्य ज्ञानत्वाद्यटितत्वान्न वैय्यर्थ्यमिति बोध्यम् । प्रातिभासिकस्येति ।

ननु सर्वप्रत्ययवेद्यत्वाद्ब्रह्मणः प्रातिभासिकबाधज्ञानमपि ब्रह्मज्ञानमेव । न च तस्य ब्रह्म-ज्ञानत्वेऽपि न तत्प्रमात्वमिति वाच्यम् । ब्रह्मांशे तस्यापि प्रमात्वात् । न चोभयसिद्धा या ब्रह्मप्रमा तदन्येति विवक्षितमिति वाच्यम् । ब्रह्मण्यारोपितस्य क्षणिकत्वादेस्तथाप्यबहिर्भावादिति चेन्न । उभयसिद्धब्रह्माधिष्ठानकभिन्नत्वे सतीति विशेषणस्यापि तदर्थे देयत्वादिति न दोषः । अन्योन्याश्रयादिति । मानान्तरागम्यस्य वाक्यार्थस्यैतस्माद्वाक्यादुपस्थितौ तात्पर्यावधारणं, तदवधारणे चास्माद्वाक्याद्वाक्यार्थोपस्थितिरित्यर्थः ।

ननु ज्ञानमेवाज्ञाननिवर्तकमिति परमते अज्ञाननिवृत्तिरूपमोक्षहेतोर्ज्ञानान्यस्याभावेना-व्यावर्तकतया ज्ञानेति व्यर्थम् । न चाज्ञाननिवृत्तिरदृष्टादिकारिताऽपीति वाच्यम् । तर्हि तद्वदेव प्रपञ्चस्यापि अदृष्टादिसहकृतज्ञानबाध्यत्वापत्तौ ज्ञानान्याबाध्यत्वमसिद्धमित्यरुचेराह । यद्वेति । ननु शशशृृङ्गमस्तीति शब्दाभासजन्यासद्विषयकज्ञानहेतोर्दोषस्यासद्बाधाकाभिमता बाध्यतया सत्यन्त-विशेषणेनैवासद्व्यावृत्तिसम्भवे तद्वारकस्य सत्वानधिकरणत्वे सतीत्यस्य वैय्यर्थ्यमेव । रूप्याकाराविद्यावृत्त्यनङ्गीकर्तृमते साक्षिविषयस्यापि रूप्यस्य दोषजन्यज्ञानाविषयतया तस्यापि पक्षत्वापत्तौ बाधश्चेत्यस्वरसादाह । स्वबाधकाभिमतेति । वस्तुतस्तु सर्वत्र ज्ञानपदं कर्मव्यावर्तकं वस्तुस्वरूपकथनपरं वेति ज्ञेयम् ॥ समानाधिकरणेति । मनःपरिणामस्य ज्ञानस्य कर्मप्रागभाव-सामानाधिकरण्यं कर्मपदेनादृष्टं धर्माधर्माख्यंं तस्यापि मनः परिणामत्वात्प्रागभावस्य प्रतियोगि-सादेश्यादिति बोध्यम् ।

ननु सर्वेष्वप्येषु पक्षेषु वादिनं प्रति प्रातिभासिकव्यावृत्त्यर्थमुपात्तमाद्यं सत्यन्तं वैकल्पिकं विशेषणं व्यर्थम् । त्वन्मते प्रातिभासिकस्याप्यसत्वेन तद्व्यावर्तकासत्वानधिकरणत्वविशेषणेनैव प्रातिभासिकस्यापि व्यावृत्तिसिद्धेः । न च परार्थानुमाने प्रतिवादिनं प्रति सिद्धसाधनोद्धारस्यापि वादिनं प्रति प्रयोजनत्वात् । जन्यकृत्यजन्यानीत्यत्र पक्षतावच्छेदके मीमांसकं प्रति जन्यत्व-स्येवेहापि वादिनं तत्वविदं प्रति सत्यन्तस्य तदुपरक्तबुद्धेरुद्देश्यत्वेन विशेषणत्वोपपत्तेश्च न वैय्यर्थ्यमिति वाच्यम् । एवमपि देहात्मैक्यस्यापि पक्षत्वे बाध एव । बाधे सति पक्षविशेषणस्य पक्षत्वस्यासिद्ध्याऽऽश्रयासिद्धिरपीति चेन् मैवं मंस्थाः । मम देह इति स्पष्टतरभेदापरोक्षावभासेन देहात्मैक्याध्यासनिराकरणाभिप्रायेणास्योक्तत्वाददोषः । यद्वा आद्यसत्यन्तविशेषणस्य सत्यत्व-वादिमिथ्यात्ववाद्युभयसिद्धमिथ्यात्वकभिन्नत्वं विवक्षितो अर्थः । अस्ति च रूप्ये देहात्मैक्ये च तार्किकादीनां सत्यत्ववादिनां मिथ्यात्ववादिनां चाध्यस्तत्वसम्मतिः । अतस्तस्य न पक्षता । प्रपञ्चे च तार्किकादीनां न मिथ्यात्वसम्मतिरतः प्रपञ्चस्य पक्षतोपपत्तिः । सिद्धान्ते देहात्मैक्याध्यासाभावेऽपि न दोषः । क्षणिकत्ववन्नास्तिकवादप्रसक्तस्य प्रत्यभिज्ञानु-ग्रहीतयौक्तिकबाधव्युदसनीयत्वात् । परमतेऽपि न देहात्मैक्यस्य निष्प्रकारकाखण्डार्थवेदान्त-वाक्यजन्यब्रह्मप्रमाबाध्यत्वम् । आत्मानात्मविवेकाज्ञाने साधनचतुष्टसम्पत्त्यसम्भवेन वेदान्त-शास्त्रश्रवणादौ प्रवृत्त्यभावप्रसङ्गश्चेति दिक् । प्रथमसाध्ये सिद्धसाधनतां परिहरति । व्यावहारिक-सत्वमिति । तथा च प्रपञ्चे सत्वव्यवहारेऽपि सत्वस्याभावान्न सिद्धसाधनमित्यर्थः । द्वितीयसाध्ये वैय्यर्थ्यं परिहरति । अर्थगतमिति । एवं च प्रपञ्चेऽपि तन्मते सत्वस्य विद्यमानत्वा-त्तद्विशेषणाभावे सिद्धसाधनता स्यादित्यर्थः ।

ननु तत्वविन्नये विशेषणं व्यर्थमव्यावर्तकत्वादित्याशङ्क्य निराकरोति । न च वादिन इति । अनिर्वाच्येति । देशकालव्यवस्थया सदसत्वं क्वचिद्बौद्धमस्ति । तदनधिकरणमनिर्वाच्यमिति तल्लक्षणमाश्रित्येदमुक्तम् । परार्थानुमान इति । विशेषणत्वे उभयसिद्धप्रयोजनवत्वं तन्त्रम् । न तु प्रयोजनस्याप्युभयसिद्धत्वमिति भावः । अप्रसिद्धिरिति । प्रतियोगिप्रमाविरहेण तदभावाज्ञान-मित्यर्थः । मतद्वयेऽपीति । सद्भ्यामेव प्रतियोग्यधिकरणाभ्यामभावो निरूप्यते इति नियमस्या-नभ्युपगमादित्यर्थः । प्रतियोगित्वादित्यतः परं प्रतियोगिज्ञानमात्रस्यैवाभावधीहेतुत्वादिति शेषः ।

सत्वेन प्रतियोगिप्रमाया असम्भवेऽपि येन केनचिद्रूपेण तत्प्रमा सम्भवतीत्याह । आरोपितत्वेनेति । न च विशेष्यस्यासत्वात्कथं सा प्रमेति वाच्यम् । प्रमां प्रति न विशेष्यसत्त्वं प्रयोजकम् । विशेष्यसत्वेऽपि रूप्यज्ञानस्याप्रमात्वात् । किन्तु स्वोल्लेखितस्य प्रकारसम्बन्ध-विशेष्ये सत्वम् । तच्च ज्ञानोपाधिकं प्रकृतेऽप्यस्त्येवेति भावः । प्रतिभासेति । मात्रशब्देनार्थो व्यावर्त्यते । अर्थाभावेऽपि प्रतिभासवत्वमित्यर्थः । अन्यथा ज्ञानात्मकत्वापत्तौ विरोधः स्यादिति बोध्यम् । दोषसाम्यमिति । अप्रसिद्धेरिति शेषः । असिद्धीति । यत्किञ्चिदधिकरणे प्रपञ्चेऽधि-करणत्वाभावस्यासिद्धिरित्यर्थः । असिद्धिवारकस्यापि बहुशोऽभियुक्तैः प्रयुक्तत्वान्न वैय्यर्थ्य-मित्याह ॥ शरीरेति । विमतमिति । वह्निमतः पक्षीकरणादसिद्धिर्बोध्या । विमतं तप्तायः-पिण्डादि । अप्रसिद्धिवारकस्यापि सहचारग्राहकतया व्याप्तिग्रहोपयिकत्वान्न तद्वैय्यर्थ्यमित्याह । किञ्चेति । केचिदित्यस्वरससूचनम् । तद्बीजं तु– अनधिकरणत्वस्याधिकरणत्वसामान्याभावपरत्वे व्यभिचाराभावः । विशेषाभावपरत्वे तु प्रातिभासिकत्वविशेषणेऽपि व्यभिचार एवेति ।

ननु तथापि हेतौ प्रातिभासिकत्वविशेषणं व्यर्थम् । अनधिकरणत्वे सत्यसत्वानधिकरणत्व-मात्रस्यैव परमार्थतत्वसाधकत्वोपपत्तेः । शुद्धमेव हि ब्रह्म दृष्टान्तत्वेनाभ्युपेयम् । धर्मवतो दृष्टान्तत्वे साध्यवैकल्यापत्तेः । साध्यं तु बाधाभावरूपत्वादधिकरणस्वरूपमेव । न धर्मः । धर्म्यतिरिक्ताभावानभ्युपगमात् । तथा च चक्षुस्तैजसत्वानुमाने रूपादिषु मध्य इत्यस्यासिद्धि-वारकस्यापि व्याप्तिग्रहौपयिकत्वेन व्यभिचारवारकविशेषणतुल्यतया यद्यपि सार्थकत्वम् । व्यभिचारवारकस्यापि सार्थकत्वे व्याप्तिग्रहौपयिकत्वमात्रतन्त्रत्वात् । तथापि क्षित्यादिकं न कर्तृजन्यं शरीराजन्यत्वादित्यत्र शरीरस्येव व्याप्तिग्रहानुपयोगित्वेन प्रातिभासिकत्वस्य वैय्यर्थ्य-मेव । आकाशादावजन्यत्वकर्तृजन्यत्वाभावयोरिव निर्धर्मकब्रह्मण्यनधिकरणत्वपरमार्थसत्वयो-र्व्याप्तिग्रहोपपत्तेः । तथा चैकामसिद्धिं परिहरतो द्वितीयापत्तिः । स्वरूपासिद्धिपरिहार्थं विशेषणं प्रक्षिपतो व्याप्यत्वासिध्यापत्तिरित्यर्थः । व्याप्तावनुपयोगस्य दर्शित्वादिति चेत् । मैवं वादीः । शुद्धे ब्रह्मणि अनधिकरणत्वतदभावाभ्यामधिकरणत्वस्यैव प्राप्त्याऽनधिकरणत्वासिद्धेः परमार्थ-सत्वव्याप्तेस्तत्र दुर्ग्रहत्वात् । शुद्धत्वादेर्ब्रह्मणोऽन्यत्रासम्भवाच्च । प्रातिभासिकत्वविशेषणे तु सति व्याप्तिसङ्ग्रहेति तस्य सार्थक्यम् ।

यदुक्तं धर्म्यतिरिक्ताभावानभ्युपगमादिति । तन्न । प्रपञ्चाभावस्यापि ब्रह्मस्वरूपत्वे ज्ञान-साध्यत्वाभावप्रसङ्गात् । यद्वा । अधिकरणत्वाभावातिरिक्तस्य प्रातिभासिकत्वविशेषिताधि-करणत्वस्य विशिष्टस्याभावोऽखण्ड एव हेतूकृतोऽतो न वैय्यर्थ्यगन्धोऽपि । न चैवं शरीरा-जन्यत्वादित्यत्राप्युक्तविधयाऽखण्डाभावसत्वेन न वैय्यर्थ्योक्तिस्तार्किकाणामसङ्गता स्यादिति वाच्यम् । इष्टापत्तेरित्यौपनिषदेश्वरवादिना विभावनीयम् । ननु तथापि तत्वविन्मते प्रातिभासिकस्याप्यसत्वेन व्यर्थविशेषणतया व्याप्यत्वासिद्धिः । विवर्तनयमाश्रित्य हेतूकरणे च देहात्मैक्ये ब्रह्मज्ञानेेतराबाध्ये व्यभिचारः । न च तस्य त्वन्मते प्रातिभासिकत्वेन प्रातिभासि-कत्वानधिकरणत्वविशेषणेनैव व्यावर्तिततया न तत्र व्यभिचार इति वाच्यम् । तस्य ब्रह्मज्ञानेतर-बाध्यादन्यत्वेन प्रातिभासिकत्वाभावात् । न हि प्रातिभासिकं ब्रह्मज्ञानेतरबाध्यादन्यदिति चेत् । मैवं वोचः । न हि प्रातिभासिकत्वं ब्रह्मज्ञानेतरबाध्यत्वमितीहाभिप्रेतम् । येनोक्तदोषः स्यात् । किन्तु सत्यत्ववादिमिथ्यात्ववाद्युभयसम्मतमिथ्यात्वकत्वं प्रातिभासिकत्वमिह विवक्षितम् । दैहात्मैक्यं च सत्यत्ववादिनां तार्किकादीनां मिथ्यात्वेन सम्मतमतस्तत्र न व्यभिचारः ।

यद्वा सप्रकारकज्ञानबाध्यत्वं प्रातिभासिकत्वम् । देहात्मैक्यस्य निष्प्रकारकात्मज्ञानबाध्यत्वे साधनचतुष्टयसम्पत्त्यभावेन वेदान्तशास्त्रश्रवणादौ प्रवृत्तिर्न स्यात् । अतः क्षणिकत्ववद्देहात्मैक्यं प्रत्यभिज्ञानुग्रहीतयौक्तिकबोधव्युदसनीयमेव । जीवो नित्यो धातुरस्य त्वनित्य इत्याद्यागमबाध्यं च । न ह्येतदागमजन्यं ज्ञानं निष्प्रकारकम् । तदिदमुक्तम् । आरोपितत्वेनोभयसम्मतत्व-रूपस्येति । नन्वाद्यहेतोरप्रयोजकत्वान्न तेन पारमार्थिकसत्वसिद्धिरित्याशङ्क्य निराकरोति । न चेति । व्यावर्तकतयेति । धर्मिणीतरव्यावृत्तेरितरावृत्तिस्ववृत्तिरूपव्यावर्तकधर्मप्रयोज्यत्वनियमा-दिति भावः । नन्वसत्प्रातीतिकव्यावृत्तिं प्रति व्यावर्तकं पारमार्थिकं सत्वं ब्रह्मण्यस्तु । तत्र पारमार्थिकसत्वस्य सम्भवात् । प्रपञ्चे तूक्तहेतुं प्रति न पारमार्थिकसत्वं प्रयोजकम् । प्रपञ्चे मिथ्यात्वेन पारमार्थिकसत्वस्याभावात् । किन्तु व्यावहारिकसत्वमेव प्रपञ्चे व्यावृत्तिरूपहेतुं प्रति व्यावर्तकतया प्रयोजकम् । तथा चाननुगतमेव सत्वमुक्तहेतुं प्रति प्रयोजकमित्याशङ्कापरिहारार्थम् उक्तं विश्वमिथ्यात्वेत्यादि । अन्योन्याश्रयादिति । व्यावृत्तिरूपोक्तहेतुं प्रति पारमार्थिक-सत्वस्याव्यावर्तकत्वे उक्तहेतोरप्रयोजकत्वेन मिथ्यात्वानुमानं प्रति बाधकत्वाभावसिद्धौ मिथ्या-त्वानुमानेन मिथ्यात्वसिद्धिः । तत्सिद्धौ चानुगतव्यावर्तकस्यासम्भवादननुगतस्य व्यावर्तकत्वे-नोक्तहेतोरप्रयोजकत्वमिति अन्योन्याश्रय इत्यर्थः ।

प्रयोजकान्तरमाशङ्क्य निराकरोति । न च ब्रह्मणीति । तत्प्रयोजकम् उक्तहेतुं प्रति व्यावर्तकतया प्रयोजकमित्यर्थः । असद्व्यावृत्तिं प्रतीति । असत्प्रातिभासिकव्यावृत्तिं प्रतीत्यर्थः । यथाश्रुतेे त्वसद्व्यावृत्तेः परमते शुक्तिरूप्ये सत्वेन तत्र तत्प्रयोजकसत्वस्याभाववत्प्रपञ्चेऽपि तदभावोपपत्तेरसङ्गतिः स्यादिति ध्येयम् । सत्वस्यैवेति । ब्रह्म प्रपञ्चयोर्विद्यमानामसत्प्रातीतिक-व्यावृत्तिं प्रति व्यावर्तकतया प्रयोजकमुभयानुगतं तद्विरुद्धं पारमार्थिकसत्वमेव वाच्यम् । न तु ब्रह्मत्वादिकम् । तस्य जगत्यविद्यमानत्वेन न्यूनवृत्तित्वादित्यर्थः । विरुद्धधर्मस्य व्यावृत्त्य-प्रयोजकत्वे बाधकमाह । अन्यथेति । उक्तव्यावृत्तिं प्रति ज्ञानत्वादेः प्रयोजकत्वे सत्यज्ञानादि-वाक्ये ज्ञानपदेन ज्ञानत्वप्रतिपादनद्वारा अनृतव्यावृत्तिसिद्धिप्रसङ्गेन सत्यपदवैय्यर्थ्यं प्रसज्ये-तेत्यर्थः । उक्तव्यावृत्तेर्ब्रह्मत्वव्यतिरेकप्रयुक्तव्यतिरेकप्रतियोगित्वाभावादप्रयोजकं तदित्याह । प्रपञ्च इति । अनुगतस्य सम्भवे बाधकं विना त्यागायोगात् । अव्यापकस्य स्वीकारायोगाच्चेति भावः ।

अत्राहुर्मायावादिनः । अयुक्तमेतत् । न हि प्रातिभासिकासतोरेका व्याप्तिरुभयी वा समव्याप्ता । येनैकप्रयोजकप्रयोज्या भवेत् । किन्तु प्रातिभासिकव्यावृत्तिप्रयोजकं ब्रह्मविश्वास-त्साधारणमेव वक्तव्यम् । असत्यपि प्रातिभासिकत्वाभावात् । एवमसद्व्यावृत्तावपि प्रयोजकं ब्रह्मविश्वप्रातिभासिकसाधारणमेव वक्तव्यम् । प्रातिभासिकेऽप्यसत्वाभावात् । तथा च तत्प्रयोजकद्वयसमावेशादेव ब्रह्मण्युभयव्यावृत्त्युपपत्तौ नीलघटत्वरूपावच्छेदकद्वयसमावेशोपपन्न-नीलघटत्ववन्नातिरिक्तप्रयोजककल्पनायाम् अस्ति किञ्चिन्मानमिति कृतबुद्धयो विदाङ्कुर्वन्तु । नित्यत्वं चोपाधिः । तुच्छप्रातिभासिकयोर्नित्यत्वव्यतिरेके साध्यव्यतिरेकदर्शनादिति । अत्रोच्यते । न तावद्ब्रह्मविश्वासत्सु प्रातिभासिकव्यावृत्तिरेका परमते सम्भवति । ब्रह्मणि साऽत्यन्ताभावलक्षणा धर्मिस्वरूपा । जगति च व्यावहारिकी अन्योन्याभावादिरूपा । असति तु निःस्वरूपतया निर्धर्मकत्वेन व्यावहारिक्यपि न व्यावृत्तिः । किन्तु व्यावृत्तावेवासत्प्रति-योगित्वादिकम् । न वा ब्रह्मविश्वासत्सु प्रातीतिकव्यावृत्तिं प्रति प्रयोजकोऽनुगतो धर्मः सम्भवति । ब्रह्मणो निर्धर्मकत्वात् । विश्वस्य व्यावहारिकधर्मवत्वात् । असतो निःस्वरूपतया निरुपाख्यत्वात् । नापि ब्रह्मविश्वप्रातीतिकेषु असद्व्यावृत्तिरेका सम्भवति । नाप्येक-व्यावर्तकप्रयोज्या । ब्रह्मविश्वयोस्तु तुच्छप्रातीतिकव्यावृत्तिः सामान्याभावरूपतयैका सम्भवति । अधिकरणभेदेनाभावभेदाभावात् । तथा च ब्रह्मप्रपञ्चयोर्वर्तमानामुक्तव्यावृत्तिं प्रति व्यावर्तकतया प्रयोजकमेकमनुगतमवश्यं वाच्यम् । तच्च पारमार्थिकसत्वमेव । अवच्छेदकान्तराननुपन्न-प्रयोज्यकत्वादिति युक्तमेवैतदिति साधु कृतबुद्धयो विदाङ्कुर्वन्तुतराम् ।

नापि नित्यत्वमुपाधिः । यावद्ब्रह्मविष्टितं तावती वाक्, गौरनाद्यन्तवतीत्यादि श्रुतिभिः, अनादिनिधनः कालः, इत्यादिस्मृतिभिश्च नित्यतया प्रमितवेदप्रकृतिकालाकाशादेः पक्षैकदेशाद-व्यावर्तकत्वात् । पक्षे पारमार्थिकसत्वाभावे तद्विरुद्धस्वभावतुच्छप्रातीतिकव्यावृत्तावुच्यमानायां व्याघातवत् पारमार्थिकसत्वाभावे ध्वंसप्रतियोगित्वरूपस्य नित्यत्वाभावस्योक्तौ व्याघाता-भावेनोपाधेः स्वव्यावृत्त्या पक्षे साध्याभावासाधकत्वाच्च । उक्तानुकूलतर्कगृहीतसाध्यव्याप्तिकहेत्व-व्यापकत्वेन साध्याव्यापकत्वाच्चेति ॥

प्रामाण्येति । अर्थसत्वगर्भप्रामाण्यस्य अर्थासत्वगर्भातत्वावेदकत्वेनात्यन्तविरोधात्प्रामाण्या-तत्वावेदकत्वयोः सामानाधिकरण्यादर्शनात् प्रामाण्यस्य साधारणधर्मत्वाभावेनातत्वावेदकत्व-कोट्यस्मारकतया नोक्तविधविकल्पः सम्भवतीत्यर्थः । प्रत्यक्षस्येति । तथा च तत्वावेदक-प्रमोक्तावपि नासिद्धिरिति भावः । अनुमानादेश्चेति । तथा च तत्वभूतमिथ्यात्वावेदकतया तत्वावेदकजातीयानुमानविषयत्वेनापि तत्वावेदकप्रमाविषयत्वं पक्षे नासिद्धमिति भावः । विपक्ष इति । मिथ्याविषयकज्ञानस्यापि प्रमात्वे व्याघात इत्यर्थः । विषयेति । रूप्यज्ञानस्यापि प्रामाण्यप्रसङ्गादित्यर्थः । अत्रापि हेतौ नित्यत्वमुपाधिः पूर्ववन्निरसनीयः । दृश्यत्वहेतावपि तत्वावेदकदृग्विषयत्वोक्तौ विरुद्धो हेतुः, अतत्वावेदकदृग्विषयत्वोक्तौ तु साध्यसम इति सुवचत्वात्स्वोक्तिव्याघातश्च ।

ननु प्रमात्वं तद्वति तत्प्रकारकत्वं वा तत्वावेदकत्वं वा । आद्ये दृष्टान्तस्य साधनवैकल्यम् । न हि परमार्थतः शुद्धस्य ब्रह्मणः सप्रकारकज्ञानविषयत्वम् । न च धर्मवतो दृष्टान्तत्वं सम्भवति । तस्य पक्षकुक्षिनिक्षिप्तत्वेन निश्चितसाध्यवत्वाभावात् । द्वितीये तत्वावेदकत्वस्याबाधितविषयत्व-रूपत्वेन साध्याविशेषपर्यवसानात् । हेतुग्रहे सिद्धसाधनम् । हेत्वग्रहे तु स्वरूपासिद्धिरिति चेत् । मैवं मंस्थाः । यथार्थज्ञानत्वविशेष्यावृत्यप्रकारकज्ञानत्वादेः प्रमात्वस्य विवक्षया दोषाभावात् । तत्वावेदकप्रमोक्तावप्यदोषत्वस्योक्तत्वाच्च । बाधितार्थकज्ञानस्य प्रमात्वासम्भवेन विशेषणवैय्यर्थ्याच्च । न च साध्यावैशिष्ट्यं दोषः । उपहितानुपहितत्वविशेषात् । अर्थसत्वाग्रहेऽपि शब्दादिना तज्ज्ञाने सविषयकत्वग्रहसम्भवाच्च । शब्दे नित्यत्वाग्रहेऽपि शब्दत्वानित्यत्वयोर्व्याप्तिग्रहवदभि-धेयत्वा-ग्रहेऽपि प्रमेयत्वाभिधेयत्वयोर्व्याप्तिग्रहवच्चेति सर्वमनवद्यम् ।

यत्तु प्रमाविषयत्वमात्रेणैव परमार्थत्वोपपत्तौ विशेषणे व्यर्थे इति । तन्न । पुरोवर्तिनं रजततया जानामीत्याद्यनुव्यवसायरूपप्रमाविषये प्रातीतिके व्यभिचारवारकत्वात् साक्षात्पदस्य तत्रैव च मिथ्यात्वप्रतीतेः साक्षाद्विषये व्यभिचारवारकत्वादनिषेध्यत्वेनेत्यस्य । नह्यनुव्यवसाय-मिथ्यात्वप्रमे भ्रमे भवतः । ननु सत्यत्वसिद्धिं विनाऽनिषेध्यत्वेनेत्यंशस्यासिद्धिः । तथा चान्योन्याश्रय इत्याशङ्क्य निराकरोति । नापीति । त्वयापीति । अन्यथा जन्माद्यस्य यत इति सूत्रे जगत्कर्तृत्वेन ब्रह्मणः सार्वज्ञसिद्धिः शास्त्रयोनित्वादिति सूत्रे च सर्वकर्तृत्वसिद्धमेव सार्वज्ञं स्फोर्य्यते इति त्वदुक्तमयुक्तं स्यादिति भावः । अन्यथेति । ईश्वरस्यानिषेध्यत्वेन जगद्दृष्टृत्वाभावे सत्वेन पालनीयाज्ञानात्तत्पालनादौ प्रवृत्तिर्न स्यादित्यर्थः ।

नन्वीश्वरः प्रपञ्चं निषेध्यत्वेनैव जानाति । अत एव न तस्य भ्रान्तत्वम् । मिथ्याभूतस्य मिथ्यात्वेनैव ग्रहणादैन्द्रजालिकवद्भ्रान्तत्वायोगात् । अन्यथा सविषयकभ्रमज्ञातृत्वेन भ्रान्तत्वस्य दुर्वारतापत्तेः । अथ निषेध्यत्वेन ज्ञाने तत्पालनार्थमीश्वरस्य प्रवृत्तिर्न स्यादिति चेत् । न । ऐन्द्रजलिकप्रवृत्तिवदीश्वरप्रवृत्तेरपि तथाविधत्वादिति । मैवम् । न ह्यैन्द्रजालिकस्तत्पालयति किन्तु दर्शयामीति भ्रमयति । ईश्वरस्तु पालयति । पतिं विश्वस्यात्मेश्वरम् । एष लोकपालः विश्वं तद्भद्रं यदवन्ति देवा इत्यादिश्रुतेः । यद् यस्माद् देवा विश्वं रक्षन्ति तत् तस्माद् भद्रं सत्यमिति माधवीयव्याख्यानात् । सेयं देवतैक्षत । हन्ताहमिमास्तिस्रो देवता अनेन जीवेनात्मनाऽनुप्रविश्य नामरूपे व्याकरवाणि । स ईक्षतेमे नु लोकाश्च लोकपालाश्च इत्यादावनिषेध्यत्वेनैव सर्वापरोक्ष-ज्ञानोक्तेश्च । यः सर्वज्ञः सर्वविदित्यादौ सामान्यविशेषाभ्यां ज्ञानाभिधानाच्च । निषेध्यत्वेन ज्ञाने विधिमुखप्रत्ययायोगात् सामान्यविशेषाभावाच्च । विप्रलम्भकेश्वरोपदिष्टवेदशास्त्रस्य बुद्धप्रणीत-शास्त्रवद् अप्रामाण्यापाताच्च । तथा च न विशेषणासिद्धिरिति ।

विपक्ष इति । अनिषेध्यत्वेनेश्वरज्ञानविषयस्यापि विश्वस्य सत्यत्वाभावे निषेध्यमेव प्रपञ्चमनिषेध्यत्वेनेश्वरो जानातीति स्यात् । तथा चेश्वस्य भ्रान्तत्वं भ्रान्तप्रतारकत्वं स्यादि-त्यर्थः । सा चेति । योऽशनायापिपासे, शोकं मोहं जरां मृत्युमत्येति, देशतः कालतो योऽसाववस्थातः स्वतोऽन्यतः । अविलुप्तावबोधात्मा स युज्येताजया कथम्’’ इत्यादिर्भि-विरुद्धेत्यर्थः । सत्याया इति । सत्यत्वविशेषितार्थक्रियायां हेतुविशेषणत्व इत्यर्थः । यथाश्रुतेऽ-सिध्याद्यभावादिति बोध्यम् । पक्षे सपक्षे चेति । पक्षेऽसिद्ध्या पक्षधर्मतायाः । सपक्षेऽसिध्या व्याप्तेरयोगादित्यन्वयः । असत्यायाश्चेति । अर्थक्रियामात्रस्य हेतुविशेषणत्व इत्यर्थः । न चैन्द्रजालिकादेरसत्वात्तत्वविन्नये कथं तस्यार्थक्रियाकारित्वमिति वाच्यम् । तद्दर्शनस्यैव भयकम्पाद्यर्थक्रियाहेतुत्वात् । सप्रकारकेति । ऐन्द्रजालिकार्थक्रिया तु सप्रकारकेणेदानीन्तनबाधेन बाध्येति न तत्र व्यभिचार इत्यर्थः । व्यभिचाराक्षेपस्तत्समाधानं च परमतेनेति बोध्यम् । ननु सप्रकारकजाग्रद्बोधाबाध्यस्वप्नजलावगाहनप्रियासङ्गमादिविशेषिताप्रमाणीभूतज्ञानस्यार्थक्रियाकारित्वदर्शनेन तद्विषये तत्र च व्यभिचारः । अथ तत्र ज्ञानमेव सुखादिजनकं तच्चाबाध्यमेवेति मतम्् । तदसत् । ज्ञानमात्रस्य हि तादृशसुखाजनकत्वेन किञ्चिद्विशेषितस्यैव तथात्वं वाच्यम् । ज्ञाने च विशेषो नार्थातिरिक्तः । तदुक्तम् । अर्थेनैव विशेषो हि निराकारतया धियाम्, इति । अर्थेनेत्यर्थ एवेत्यर्थः । तथा च मिथ्याभूतविशेषितस्य जनकत्वाभ्युपगमे मिथ्याभूतस्यापि जनकत्वा-द्व्यभिचार एवेति शङ्कां परिहरति । व्यभिचारस्त्विति । विषयविशेषोपलक्षितज्ञानस्यैव जनकत्व-मस्तु । तत्कुतो विषयस्य जनकत्वमित्येवं निरसिष्यमाणत्वादित्यर्थः ।

तथा चोक्तं शास्त्रदीपिकायां बोैद्धं प्रति । ‘‘अथ सुखज्ञानमेवार्थक्रिया, तच्चाव्यभिचार्येव । न हि क्वचिदप्यसति सुखे सुखज्ञानमस्तीत्याशङ्क्य सत्यमेतन् न तु तेन पूर्वज्ञानप्रामाण्या-ध्यवसानं युक्तम् । अप्रमाणेनापि प्रियासङ्गमविज्ञानेन स्वप्नावस्थायां सुखदर्शनात्’’ इति । ननु स्वरूपाणामननुगततया ज्ञानत्वादेश्चातिप्रसक्ततया अनुगतानतिप्रसक्तोपलक्ष्यतावच्छेदकाभावा-दुपलक्षणत्वासम्भव इति चेत्् । न । विशेषणत्वमप्यसम्भवि । अनागतादिज्ञानजन्यैतत्काला-विद्यमानस्य विषयस्य पूर्वभावित्वरूपजनकत्वासम्भवात् ।

ननु स्वव्यापारजन्ये व्यापारिणोऽसतो जनकत्ववत्स्वज्ञानजन्येऽप्यसतो जनकत्वमस्त्विति चेत् । न । व्यापारद्वारा व्यापारिणो जनकत्वमित्यस्य कार्यजनकव्यापारजनकत्वमित्यर्थः । भवति च यागादिकं तथा । तस्यापूर्वोत्पत्तिकाले सत्वात् । मिथ्याभूतं तु स्वकालेऽपि सद्विलक्षणस्वभावं कथं स्वज्ञानं व्यापारं जनयेत् । कालत्रयेऽप्यसत्वात् । असद्वैलक्ष्यण्यापेक्षया लाघवेन सत्वस्यैव कारणत्वे प्रयोजकत्वात् । सत्वाभावे असद्वैलक्ष्यण्यायोगाच्च । स्वज्ञाना-जनकस्यापि मिथ्यार्थस्य स्वज्ञानजन्यकार्यं प्रति स्वज्ञानस्य जनकत्वमात्रेण मिथ्यार्थस्यापि जनकत्वाभिधानं त्वमानकम् । नन्वतीतानागतावस्थस्यापि सद्धर्माश्रयत्वमभ्युपगम्यत एव । अन्यथा ध्वंसप्रागभावप्रतियोगित्वतज्ज्ञानविषयत्वादीनामनाश्रयत्वापत्तेः । प्रमाणबलात् कारण-त्वाभ्युपगमस्यात्रापि तुल्यत्वादिति चेत् – मैवं व्याहतं भाषिष्ठाः । विद्यमानप्रागभाव-प्रतियोगित्वादीनां सत्यसम्भवादविद्यमानाश्रयत्ववत् कारणत्वस्य पूर्ववृत्तिरूपस्यासत्यसम्भवा-द्विद्यमानाश्रितत्वम् । न हि विद्यमानत्वम् अविद्यमाने अस्ति । व्याघातादिति सर्वमनवद्यम् ॥

नन्वर्थोपलक्षितज्ञानस्यार्थक्रियाकारित्वमिति पक्षेऽप्युक्तहेतोः स्वाप्नगजादिज्ञाने एव व्यभिचारः । स्वरूपाबाध्यस्य विषयाबाध्यत्वदर्शनेन विषयबाधे स्वरूपबाधस्यावश्यकतया स्वाप्नादिज्ञानं सदेवेत्यस्य वक्तुमशक्यत्वादिति चेत् । न । स्वाप्नोऽयं गजो न जाग्रदिति जाग्रत्वेनैव तद्विषयस्य बाधात् । अन्यथा नेदं रजतमितिवन्नायं गज इति बाधबोधापातात् । असत्यपि गजे गजज्ञानमासीद् गजज्ञानवानहम् इति ज्ञानस्य जाग्रत्यप्यनुभवेन विषयासत्वेऽपि सत्वाच्च । स्वरूपाबाध्यसाक्षिविषयस्यापि रूप्यस्य त्वन्मते बाध्यत्वदर्शनाच्चेति । ननु शुद्धस्यार्थक्रियाकारित्वाभावात्साधनविकलत्वम् । उपहितपक्षनिक्षेपात्साध्यविकलत्वमित्यत आह । सत्यस्येति । अज्ञानादिसिद्धिरूपार्थक्रियाकारित्वमाश्रयत्वविषयत्वादिना शुद्धात्मनि दृष्टान्ते वर्तते इति परेणाङ्गीकृतत्वादित्यर्थः । तदुक्तं सङ्क्षेपशारिरके ।

आश्रयत्वविषयत्वभागिनी निर्विशेषचितिरेव केवला ।

पूर्वसिद्धतमसो हि पश्चिमो नाश्रयो भवति नापि गोचरः ॥ इति ।

शुद्धस्य ब्रह्मणो जगत्कर्तृत्वेनार्थक्रियाकारित्वाच्च । शुद्धस्याप्यनाद्यविद्योपधानवशेन जगद्धेतुत्वस्य निरसिष्यमाणत्वात् । एतेनाविद्योपहितस्य साक्षिणो मिथ्यत्वात्साधनवत्यपि साक्षिणि साध्यवैकल्यम् । साध्यवति शुद्धात्मनि निष्क्रिये साधनवैकल्यमिति परास्तम् । साक्षि-शब्देन विश्वसाक्षिणः शुद्धात्मन उपादानात् । तस्य चार्थक्रियाकारित्वोक्तेश्च । तुष्यतु दुर्जन इति न्यायेनोक्तार्थक्रियातिरिक्तार्थक्रियामभिप्रेत्याप्याह ॥ असद्वेति ॥ वा शब्दोऽनास्थायाम् ।

ननु निश्चितसाध्यवतः सपक्षादात्मनो हेतुव्यावृत्तेरसाधारण्यं दोषः स्यादित्यत आह । असाधारण्यस्येति । साध्यतदभावानुमित्यनुकूलव्यतिरेकव्याप्तिद्वयवत्तया वा तादृशव्याप्ति-ग्रहहेतुव्यतिरेकसहचारवत्तया वा ज्ञायमानत्वेे सति पक्षधर्मतया विज्ञायमानत्वेन साध्यतदभावौ प्रति हेतोरगृह्यमाणविशेषावस्थायामसाधारण्यं दोष इत्यर्थः । प्रकृते तु नागृह्यमाणविशेषावस्था । विपक्षे बाधकतर्केण स्थापनासाध्यं प्रति हेतोर्व्याप्यत्वग्रहादित्याह ॥ विपक्ष इति । व्याघातमेवोपपादयति । ब्रह्मणि हेतुत्वं प्रतीति । ब्रह्मणि सप्रकारकाबाध्यजगत्कर्तृत्वं प्रति परमार्थसत्वस्य प्रयोजकत्वेनावधारणात् प्रपञ्चे तदभावे अकारणककार्योत्पत्तिरूपविपक्ष-बाधकतर्केण हेतोर्व्याप्यत्वग्रहान्नासाधारण्यं न वा अप्रयोजकत्वमित्यर्थः । ननु सत्यस्यात्मनो अविशेषस्याज्ञानादिसिद्धिरूपार्थक्रियाकारित्वाभावात्साधनविकलत्वम् । सविशेषस्य तत्साधक-त्वेऽपि तस्य मिथ्यात्वात् साध्यविकलतेति चेत् । न । मिथ्याविशेषस्याविद्यकतया तत्सिद्ध्युत्तरकालीनत्वेन अन्योन्याश्रयात् । तदुक्तमनुव्याख्याने । ‘‘मिथ्याविशेषोऽप्य-ज्ञानसिद्धिमेव ह्यपेक्षते’’ इति ।

ननु तथाप्युक्तहेतुरयुक्तः । अनादित्वस्य विषमव्याप्तस्योपाधित्वात् । न चोक्तविपक्षबाधक-तर्केण हेतोः साध्यव्याप्यतया तदव्यापकतयोपाधेः साध्यव्यापकत्वमिति वाच्यम् । प्रातिभासिक-रज्जुसर्पादौ भयकम्पादिकार्यकारित्वदर्शनेन प्रातिभासिकसाधारणस्य तुच्छव्यावृत्तस्य प्रतीतिकाल- सत्वस्यैवार्थक्रियाकारित्वं प्रति प्रयोजकत्वात् । प्रातिभासिकस्यार्थक्रियाकारित्वानभ्युपगमे सप्रकारकाबाध्येति हेतुविशेषणवैय्यर्थ्यापत्तेः । कस्मिन्नपि देशे कस्मिन्नपि काले केनापि पुरुषेणाबाध्यत्वं हि परमार्थसत्वं, तदपेक्षया प्रतीतिकालसत्वस्य लघुत्वाच्चेति । चेत् । न करणसन्निकर्षोत्पत्तेः प्राक् प्रतीतेरसत्वेनाशुतरविनाशित्वेन च प्रातीतिकसत्वस्यार्थक्रिया-हेतुत्वानुपपत्तेः । अज्ञातकरणानामर्थक्रियाकारित्वासम्भवापाताच्च । स्वरूपेणैव प्रपञ्चस्य निषेध इति त्वयाऽभिनवाद्वैतवादिना व्यवस्थापितत्वेन सत्वेन प्रतीयमानत्वातिरिक्तस्य प्रातीतिक-सत्वस्याभावेन त्वन्मते तस्य हेतुत्वं प्रत्यप्रयोजकत्वाच्च । अन्यथा शशविषाणमस्तीति शब्दा-भासात्सत्वेन प्रतीयमानस्य निरुपाख्यस्यापि हेतुत्वापत्तेः । यथा च शशविषाणमस्तीत्यादिनाऽ-निर्वाच्यस्यानाभासस्यासतः प्रतीतिस्तथोक्तं पुरस्तात् । हेतौ च यथा न विशेषणवैय्यर्थ्यं तथा तत्रैवावोचामेति सर्वं मनोहरम् ।

ननु घटे घटत्वस्येव परमते मिथ्याभूते प्रपञ्चे मिथ्यात्वस्य सत्वान्न तत्र तदारोपितमतो हेत्वसिद्धिरित्याशङ्कां परिहरति । न पञ्चम इति । आरोपितत्वादिति । मिथ्यात्वस्या-रोपितमिथ्यात्वस्यारोपितत्वेनानुमानवैय्यर्थ्यम् । दृश्यत्वे च तस्य सत्यत्वे व्यभिचारः । अतो जगति मिथ्यात्वमारोपितमेवेत्यर्थः । नन्वारोपितत्वं प्रातिभासिकत्वं चेत् प्रपञ्चे हेतोरसिद्धिः । तत्सिद्धेः पारमार्थिकत्वसिद्ध्युत्तरकालीनत्वात् । व्यावहारिकं चेत् शुक्तिरुप्यादौ व्यभिचारः । उभयसाधारण्येऽप्ययमेव दोष इति चेत् । मैवम् । मिथ्यात्वेनोभयसम्मतत्वस्यारोपितत्वस्य हेत्वन्तर्गतत्वात् । अस्ति च ब्रह्मजगतोस्तादृशं मिथ्यात्वमतो नासिध्यादि । रूप्ये च तादृश-मिथ्यात्वाभावान्न व्यभिचार इति । नन्वसति सदसद्वैलक्षण्यादिरूपमिथ्यात्वस्याभावेनारोपितमेव तत्र तदित्यत आह । अत्र चेति । ननु प्रपञ्चस्य कल्पितत्ववादे कश्चित्कल्पकोऽस्त्येवेति हेतोरसिद्धिरिति शङ्कां निराकरोति । न च षष्ठ इति । चिन्मात्रस्येति । कल्पनोपयोगि-देहेन्द्रियाद्यभावादित्यर्थः । अन्यस्य चेति । चिन्मात्रस्याकल्पकतया कल्पितान्तरेणैव कल्पितस्य कल्पना वाच्येत्यनवस्थापत्त्या यावद्विशेषबाधे सामान्याभावसिद्धिरित्यर्थः । तुच्छे व्यभिचार-माशङ्क्य परिहरति । अत्र चाकल्पितत्वस्येति । ननु नासति व्यभिचारः । शब्दाभासादिना तस्यापि भ्रान्तिविषयत्वेन शुक्तिरूप्यवत्कल्पकोपेतत्वादिति चेत् । न । स्वारोपाधिष्ठान-प्रत्यासन्नकल्पकरहितत्वादित्यर्थः । तुच्छस्याप्रत्यासन्नत्वात् । कल्पकशब्दस्य पित्रादिशब्दव-त्सम्बन्धिविशेषपरतया तद्राहित्यं पक्षे स्वमतेऽप्यस्तीति भावः ।

अत्राहुर्मायावादिनः । शुद्धस्याप्यनाद्यविद्योपधानवशेन कल्पकत्वमुपपद्यते । कल्पकत्वं हि कल्पनां प्रत्याश्रयत्वं विषयत्वं भासकत्वं वा तच्च सर्वकल्पनासमसत्ताकत्वेन शुद्धत्वाव्याघात-कम् । तदुक्तम्–

आश्रयत्वविषयत्वभागिनी निर्विभागचितिरेव केवला ।

पूर्वसिद्धतमसो हि पश्चिमो नाश्रयो भवति नापि गोचरः ॥ इति ।

अस्तु वोपहितस्य (कल्पितस्य) कल्पकत्वम् । न चानवस्था । अविद्याध्यासस्या-ध्यासान्तरानपेक्षत्वात् स्वपरसाधारणसर्वनिर्वाहकत्वोपपत्तेः । अकल्पितस्य कल्पकत्वादर्शनाच्च । कल्पितप्रतिबिम्बविशिष्टादर्शादेरादर्शान्तरे प्रतिबिम्बकल्पकत्वदर्शनाच्च । बिम्बस्य द्वितीया-दर्शसम्मुखत्वाभावेन तत्कल्पकत्वायोगादिति ।

अत्रोच्यते । न शुद्धस्यानाद्यविद्योपधानवशेन कल्पकत्वं युक्तम् । कल्पितेनापि संसारेण कदाप्यस्पृष्टस्य चैतन्यस्याभावे नित्यमुक्तश्रुतेर्निर्विषयत्वापत्तेर्वक्ष्यमाणत्वात् । अतात्विकसंसारा-स्पृष्टत्वस्य सर्वसाधारणत्वात् । अत एव शुद्धस्य कल्पनां प्रत्याश्रयत्वादिकमसत् । अस्यास्मिन् कल्पनेति कल्पनाया द्वयसापेक्षत्वात् । कल्पकस्यान्यस्य सम्भवे तत्कृतकल्पनां प्रति शुद्धस्या-श्रयत्वादिकं सम्भवेत् । शुद्धस्य कल्पनां प्रति कर्तृत्वं तु न सम्भवति । देहेन्द्रियाद्य-भावादित्युक्तत्वात् । नाप्युपहितस्य कल्पकत्वेऽप्यनवस्थाभावः । अविद्याध्यासस्य स्वपर-निर्वाहकत्वकल्पनाया निर्बीजत्वात् । प्रपञ्चसत्यत्वेनैवोपपत्तेश्च । आदर्शान्तरे प्रतिबिम्बस्या-कल्पितत्वस्य वक्ष्यमाणत्वाच्चेति साधूक्तं कल्पकं विना कल्पनायोगादिति । तदेवं समर्थिताः परमार्थसत्वे साध्ये षडपि हेतवः ।

न्यायामृतसौगन्ध्यम्

अनुमानबाधिताश्च दृश्यत्वादयः । तथा हि– ब्रह्मप्रमान्येन वेदान्ततात्पर्यप्रमितिजन्य-ज्ञानान्येन वा मोक्षहेतुज्ञानान्येन वा अबाध्यत्वे सति असद्भिन्नत्वे सति ब्रह्मान्यत्, विमतं वा, सत्, परमार्थसद्वा, प्रातिभासिकभिन्नत्वे सति असद्भिन्नत्वात्, ब्रह्मवत् । न च त्वन्मते प्रातिभासिकस्याप्यसत्वेन व्यर्थविशेषणतया व्याप्यत्वासिद्धिः । मन्मतमाश्रित्य हेतूकरणे च ब्रह्मज्ञानेतराबाध्ये देहात्मैक्ये व्यभिचारः । ब्रह्मज्ञानेतरबाध्यरूपप्रातिभासिकभिन्नत्वस्य तत्र सत्त्वादिति वाच्यम् । ब्रह्मज्ञानपदेन हि यत्प्रकारकं वेदान्तजन्यं ज्ञानं वस्तुसिद्धं विवक्षितं तदन्यज्ञानबाध्यत्वं बाधयोग्यत्वम् । देहात्म्यैक्यादीनां तादृशबाधयोग्यत्वात् । स्वाधिक-सत्ताकदोषजन्यज्ञानविषयत्वमेव तद्योग्यत्वम् । विशेषदर्शिभ्यामुभाभ्यां निश्चितदोषवद्भिन्नस्यैव प्रयोगः कार्यः । अन्यथा त्वदभिमतमिथ्यात्वसाधकदृश्यत्वादीनामपि मद्रीत्या दृष्टान्तासिद्धि-स्वरूपासिद्धिसोपाधिकत्वव्यभिचारादिदोषग्रासेनाप्रयोगापत्तेः । प्रातिभासिकस्य अपक्षत्वाय सत्यन्तमाद्यं विशेषणत्रयं वैकल्पिकम् । तत्र ब्रह्म वृत्तिव्याप्यमिति मतेनाद्यं, नेति मतेन द्वितीयं, अन्योन्याश्रयान् न तात्पर्यधीर्ब्रह्मधीहेतुरिति मतेन तृतीयं, अत एव देहात्मैक्यस्य पक्षान्तर्गतत्वेन बाध इति निरस्तम् । तस्य निष्प्रकारकब्रह्मज्ञानान्यज्ञानबाधार्हत्वात्, देहात्मभेदज्ञानेनापि तस्य बाधसम्भवात् । अत एव स्वबाधकाभिमताबाध्यदोषजन्यज्ञान-विषयभिन्नत्वे(ज्ञानाविषयत्वे) सतीति वा स्वबाधकाभिमताबाध्यबाधाविषयत्वे सतीति वा स्वसमानाधिकरणकर्मप्रागभावसमानकालीनज्ञानाबाध्यत्वे सतीति वा विशेषणप्रक्षेपेऽपि न निस्तारः । देहात्म्यैक्ये पूर्वोक्तदोषानिस्तारादिति निरस्तम् । देहात्म्यैक्ये सप्रकारकज्ञान-बाधार्हे दोषाभावात्् ।

न च साध्ये परमार्थेति विशेषणं व्यर्थम् । परार्थानुमाने परं प्रति सिद्धसाधनोद्वार-प्रयोजनत्वात्, वादिनं प्रति प्रमेयत्ववदुपरञ्जकत्वात् । व्यावहारिकसत्त्वमात्रेणोपपत्तौ हेतोरप्रयोजकत्वमिति वाच्यम् । ब्रह्मण्यसत्प्रातिभासिकव्यावृत्तिरूपं हेतुं प्रति व्यावर्तकतया प्रयोजकत्वेन परमार्थसत्वमेव हि प्रयोजकत्वेन क्लृप्तम् । अपृथिवीव्यावृत्तिं प्रति पृथिवीत्व-स्येवासद्व्यावृत्तिं प्रति तद्विरुद्धसत्वस्यैव प्रयोजकत्वात् । ज्ञानत्वानन्दत्वादिकं तु न तत्प्रयोजकं साक्षादसत्वाविरोधित्वात्, प्रपञ्चे तदभावाच्च । तथा च ब्रह्मविश्वसाधारणं परमार्थसत्वमेव तत्प्रयोजकम् ।

ननु प्रातिभासिकासतोरेका व्यावृत्तिरुभयी वा समव्याप्ता नास्ति, किन्तु प्रातिभासिक-व्यावृत्तिप्रयोजकं ब्रह्मविश्वासत्साधारणमेव स्यात् । असत्यपि प्रातिभासिकत्वाभावात् । एवमसद्व्यावृत्तावपि प्रयोजकं ब्रह्मविश्वप्रातिभासिकसाधारणमेव वाच्यम् । प्रातिभासिकेऽप्य-सत्वाभावात् । तथा च तत्प्रयोजकद्वयसमावेशादेव ब्रह्मण्युभयव्यावृत्त्युपपत्तौ नीलत्वघटत्व-रूपावच्छेदकद्वयसमावेशोपपन्ननीलघटत्ववन्नातिरिक्तप्रयोजककल्पनायामस्ति किञ्चिन्मानमिति चेन्न । उभयत्वाधिकरणव्यावृत्तिमात्रस्य व्यभिचारत्वेनैकव्यावृत्तिविशिष्टापरव्यावृत्तेरेव हेतू-करणात् । तस्याश्च प्रयोजकं हि ब्रह्मविश्वसाधारणपरमार्थसत्वमेव ।

अनिषेध्यत्वेन प्रमां प्रति साक्षाद्विषयत्वमपि हेतुः । प्रमात्वं हि विशेष्यव्यावर्त्यप्रकारकत्वम् ईश्वरज्ञानादिसाधारणं, तस्य प्रयोजकं तु पारमार्थिकसत्वमेव । न च नित्यत्वमुपाधिः । तुच्छप्रातिभासिकयोर्नित्यत्वव्यतिरेके साध्याभाव दर्शनादिति वाच्यम् । पक्षे उपाध्य-भावेनानित्यत्वेन साध्याभावसाधने साध्याभावरूपपरमार्थसत्वाभावं विना नित्यत्वरूप-साधनोपपत्त्या अप्रयोजकत्वात् । न च नित्यत्वाभावपरमार्थसत्वाभावयोस् तुच्छे प्रातिभासिके च व्याप्तेर्गृहीतत्वान् नाप्रयोजकतेति वाच्यम् । प्रागभावाप्रतियोगित्वे सति ध्वंसाप्रतियोगि-त्वस्य तुच्छप्रातिभासिकयोर् गृहीतत्वान्न दोषो व्याप्तिग्रहणरूपः । धर्मिणि सति धर्मयो-स्सत्वासत्वविचारः सङ्घटते । न हि वन्ध्यापुत्रेऽनित्यत्वनित्यत्वयोः परस्पर व्यतिरेकेणा-न्यतरसत्वं, धर्मिसमयोगक्षेमत्वात् ।

अनिषेध्यत्वेनेश्वरं प्रति साक्षादपरोक्षत्वं हेतुः । न च सत्वसिद्धिं विना अनिषेध्य-त्वेनेत्यंशो असिद्धः । न च ईश्वरज्ञानविषयस्य प्रपञ्चस्य मिथ्यात्वे तस्य भ्रान्तत्वापत्तेः । मिथ्याभूतस्य मिथ्यात्वेनैव ग्रहणादेैन्द्रजालिकवदिति वाच्यम् । निषेध्यत्वेन जानतो तत्पाल-नादौ प्रवृत्यनुपपत्तेः । न चैन्द्रजालिकप्रवृत्तिवदीश्वरप्रवृत्तिरपि स्यादिति वाच्यम् । ऐन्द्रजालिको हि न किञ्चिदुत्पादयति पालयति वा किन्तु मन्त्रौषधादिबलेनैव हि लोकान् प्रतारयत्येव । न चेश्वरस्तथा ‘सुहृदं सर्वभूतानां ज्ञात्वा मां शान्तिमृच्छति’ इति स्मृत्या तस्य सुहृत्तमत्वोक्तेः । यत्त्वैन्द्रजालाधिष्ठाननिमित्तपालनस्य विरोध्यैन्द्रियजालिकान्तर-निरसनस्य चैन्द्रजालिकेन क्रियते ईश्वरस्यापि जगत्पालनं तादृशमेवेति । तन्न । ऐन्द्रजालि-कस्य तदापरोक्ष्याभावेऽपि ‘एतस्मान्मन्त्रौषधादेरित्थं लोका भ्राम्यन्ती’ति जानत इममाम्रं पश्यन्त्विति व्यवहारात् । स्वमन्त्रौषधादिगततथाभ्रमजनकत्वं रक्षयितुम् ऐन्द्रजालिकान्तर-प्रयुक्तमन्त्रौषधादि प्रति स्वमन्त्रादिसामर्थ्यप्रतिघातकं निवर्तयितुं यतते । ईश्वरस्यात्याप्तस्य निषेध्यत्वेन ज्ञानं विना

‘अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा ।

प्रकृतिं पुरुषं चैव विद्ध्यनादी उभावपि ॥

गतिर्भर्ता प्रभुस्साक्षी निवासः शरणं सुहृत् ।

अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते ।

तेेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् ॥

हन्त ते कथयिष्यामि दिव्या ह्यात्मविभूतयः ॥’

इत्याद्युपदेशस्यातिप्रियं प्रत्यसम्भवात् । सप्रकारकाबाध्यार्थक्रियाकारित्वं हेतुः । न च सप्रकारकजागृद्बोधाबाध्यस्वप्नजलावगाहनप्रियासङ्गमादि विशेषिताप्रमाणीभूतज्ञानस्यार्थ-क्रियाकारित्वदर्शनेन तद्विषये तत्र च व्यभिचार इति वाच्यम् । तत्र ज्ञानमेव हि सुखादिजनकं, तच्चाबाधितमेव । न च ज्ञानमात्रस्यातिप्रसक्ततया विषयविशिष्टस्यैव साधक-त्वम्, तथा च मिथ्याभूतविषयस्यापि साधकत्वमिति वाच्यम् । विषयविशेषोपलक्षितस्यैव साधकत्वात् । न च स्वरूपाणामननुगततया ज्ञानत्वादेश्चातिप्रसक्ततया अनुगतानति-प्रसक्तोपलक्ष्यतावच्छेदकधर्मस्याभावा-दुपलक्षणत्वमसम्भवि इति वाच्यम् । तत्तद्विषयकत्वमेव ह्यननुगतम् अनुगतं वा तत्तदुपलक्ष्यतावच्छेदकम् अस्तु । अतीतानागतज्ञानस्यापि सुखादि-जनकत्वात् । न हि तत्काल अनिर्वाच्यो विषयोऽस्ति । न च स्वव्यापारजन्ये व्यापारिणोऽ-सतो जनकत्ववत् स्वज्ञानजन्येऽप्यसतो जनकत्वसम्भव इति वाच्यम् । व्यापारिणः स्वजन्य-व्यापारसम्बन्धेन कार्याव्यवहितपूर्ववर्तिनस् तत्सम्भवेऽपि ज्ञानाजनकस्य तदानीमसतो विषयस्य तदसम्भवात् ।

न च स्वरूपाबाध्यस्य विषयाबाध्यत्वदर्शनेन विषयबाधे स्वरूपबाधस्यावश्यकतया स्वप्नादिज्ञानं सदेवेति वक्तुमशक्यं, अनादित्वं चात्रोपाधिरिति वाच्यम् । ब्रह्मस्वरूपज्ञानस्या-बाध्यत्वेऽपि त्वया विषयबाधाङ्गीकारात् । शुक्तिरूप्यं नासीदस्ति भविष्यतीतिवत् तद्ज्ञाने बाधाननुभवात् । न हि शुक्तिरूप्यज्ञानं नासीदिति बाधोत्तरं कस्यापि धीरस्ति, अस्ति च रूप्ये तथा । अर्थक्रियाकारित्वं प्रति परमार्थसत्त्वस्य ब्रह्मणि प्रयोजकत्वेनावधारणाद् अकारणकार्योत्पत्तिरूपविपक्षबाधकतर्केण हेतोः साध्यव्याप्यतया तदव्यापकतयोपाधेः साध्याव्यापकत्वात्, त्वदभिमतानादिषु उपाधिव्यतिरेकासिद्धेश्च । न च प्रातिभासिकरज्जु-सर्पादौ भयकम्पादिकार्यकारित्वदर्शनेन प्रातिभासिकसाधारणसत्वस्यैवार्थक्रियाकारित्वं, अन्यथा सप्रकारकाबाध्येति हेतुविशेषणवैय्यर्थ्यमिति वाच्यम् । अबाध्यार्थक्रियाकारित्वा-पेक्षया सप्रकारकाबाध्यार्थक्रियाकारित्वस्य भिन्नत्वेन वैय्यर्थ्याभावात् । न च शुद्धस्यार्थ-क्रियाकारित्वाभावात् साधनविकलत्वं, उपहितस्य पक्षनिक्षेपात् साध्यविकलत्वमिति वाच्यम् । अविद्यां प्रत्याश्रयत्वविषयत्वादिरूपार्थक्रियाकारित्वस्य शुद्धे सुप्रसिद्धत्वात् । ‘आश्रयत्वविषयत्वभागिनी निर्विशेषचितिरेव केवला’ इति त्वदुक्तेश्च ।

आरोपितमिथ्यात्वकत्वं च हेतुः । न चारोपितत्वं प्रातिभासिकत्वं चेज् जगति हेतोर-सिद्धिः । तत्सिद्धेः पारमार्थिकसिद्ध्युत्तकालीनत्वात् । व्यावहारिकत्वं चेत् शुक्तिरूप्यादौ व्यभिचारः, उभयसाधारण्येऽपि अयमेव दोष इति वाच्यम् । मिथ्यात्वेनोभयसम्मतस्य आरोपितत्वस्य हेत्वन्तर्गतत्वात् । अस्ति च ब्रह्मजगतोस्तादृशमिथ्यात्वमतो नासिद्ध्यादि । रूप्ये च तादृशमिथ्यात्वाभावान्न व्यभिचारः । कल्पकरहितत्वमपि हेतुः । न चासति व्यभिचारः स्वप्रत्यासन्नकल्पकरहितत्वस्य हेतुत्वादसतोऽप्रत्यासन्नत्वात् । कल्पकशब्दस्य पित्रादिशब्दवत्सम्बन्धिविशेषपरतया तद्राहित्यं पक्षे स्वमतेऽप्यस्ति । न च शुद्धं कल्पकं, अदृष्टत्वात्, नोपहितं कल्पितत्वात् । यावद्विशेषाभावे कल्पकसामान्याभावसिद्धेः ।

ननु शुद्धस्याप्यनाद्यविद्योपधानवशेन कल्पकत्वं, कल्पकत्वं हि कल्पनां प्रत्याश्रयत्वं, विषयत्वं, भासकत्वं वा । तच्च सर्वं कल्पनासमानसत्ताकत्वेन शुद्धत्वाविरोधीति चेन्न । अविद्योपधानेन शुद्धत्वहानेः । कल्पितेनापि संसारेणास्पृष्टचैतन्याभावे नित्यमुक्तश्रुते-र्निविषयत्वापत्तेः । तात्विकसंसारास्पृष्टत्वस्य जीवादिसाधारणत्वात् । कल्पनां प्रत्याश्रय-त्वस्यास्मिन् कल्पनेति पदार्थद्वयसापेक्षत्वादयमस्य विषयः, अयमस्य भासक इत्यनुभवेन विषयत्वभासकत्वरूपकल्पकत्वस्यापि सापेक्षत्वात्् । न च कल्पितप्रतिबिम्बविशिष्टादर्शादेरा-दर्शान्तरे प्रतिबिम्बकल्पकत्वं, बिम्बस्य द्वितीयादर्शसम्मुखत्वाभावेन तत्र कल्पकत्वायोगात्, अन्यथाऽतिप्रसङ्ग इति वाच्यम् । जडस्य प्रतिबिम्बस्य कल्पनाम् प्रत्याश्रयत्वस्य, विषय-त्वस्य, भासकत्वस्य च जडे दर्पणे असम्भवात् ।

न्यायामृतमाधुरी

जगदलीकतामनुमिमानानां प्रत्यक्षबाधं निगमय्य सम्प्रत्यनुमानबाधमभिधित्सते । अनुमानेति । दृश्यत्वादय इत्यनुषञ्जनीयम् । ब्रह्मप्रमान्येनेत्यादि ॥ पारमार्थिकातिरिक्तं सत्वमेव नास्तीत्यभिप्रेत्याद्यस्य तादृशव्यावहारिकं प्रातिभासिकं वाऽस्तीत्यभ्युपगमेऽपि न क्षतिरिति द्वितीयस्य साध्यस्य निर्देशः । अथावच्छेदकावच्छेदेनानुमितेरुद्देश्यतायां तादृशानु-मितेः सामानाधिकरण्येन बाधधीप्रतिबद्धतयाऽध्यस्तालीकयोर्बाधवारकतया भावप्रत्ययान्त-विशेषणद्वयस्य पक्षतावच्छेदककोटौ निवेशनीयत्वेऽपि सामानाधिकरणेन सिद्धेस्तद-विरोधितया तद्वारकान्तिमतन्निवेशनानर्थकता दुर्वारैव । प्रकृतपक्षतावच्छेदकसामानाधि-करण्येन तदुद्देश्यतायां चान्तिमनिवेशनौचित्यामपि तादृशानुमितेस्तादृशबाधग्रहाप्रतिबद्धतया तादृग्द्वयानर्थक्यं दुष्परिहरम् । न हीदं विप्रतिपत्तिवाक्यं येन विप्रतिपत्तिग्रन्थव्याख्या-प्रदर्शितदिशा कथञ्चिद्व्यस्था सङ्गच्छेतेति चेन्न । औतिनं प्रति सत्यतामनुमित्समानस्य तादृग्विशेषणद्वयघटितपक्षतावच्छेदकावच्छेदेनानुमित्युद्देश्यकस्यान्तिमविशेषणघटिततत्सामानाधिकरण्येन तदुद्देश्यकस्य चानुमानद्वयस्याभिप्रेततया सामञ्जस्यात् । औतिदिशाऽध्यस्तेऽलीके-चानैकान्त्यव्युदसनाय हेतुशरीरे विशेषणद्वयोपादानाम् । अनिषेध्यत्वेन निषेधाप्रतियोगि-त्वेन । तृतीयविषयत्वान्वितावच्छिन्नत्वार्थिकम् । साक्षाज् ज्ञानमद्वारीकृत्य । तथा च तादृशधर्मावच्छिन्नप्रमानिरूपितज्ञानवृत्तिविषयत्वानिरूपितविषयत्वादिति फलितार्थः । रजत-मिदं वृत्तिनिषेधप्रतियोगीति प्रतीयमानविषयताभ्रमीय विषयतां रजतमिदं जानामीति भ्रमगोचरानुव्यवसाय विषयतां चादाय विपर्यस्तेऽनैकान्त्यनिरसनाय हेतुतावच्छेदककोटौ विशेषणत्रयोपादानम् ।

अन्योन्याश्रयादिति । प्रमाणान्तराप्रतिपन्नस्य वाक्यार्थस्य वाक्यात्प्रतिपत्तौ तत्तात्पर्यावधारणं तत्तात्पर्यावधारणे च वाक्यार्थप्रतिपत्तिरित्यर्थः । ननु मोक्षहेतुभिन्नेना-वाध्यत्वे सतीत्युक्तयैव सामञ्जस्यप्रतियोगितासम्बन्धेन भेदविशेषणतापन्नमोक्षहेत्वंशेज्ञानत्वांश निवेशनं मन्दं प्रयोजनम् । औतिनये ज्ञानमेवाज्ञाननिवर्त्तकमित्यज्ञाननिवृत्तिरूपमोक्ष-साधनस्य ज्ञानातिरिक्तस्याप्रसिध्द्या तदंशस्य तदव्यावर्त्तकत्वात् । यदि चाज्ञाननिवृत्ति-रूपमुक्ते ज्ञानातिरिक्तादृष्टसाध्यत्वस्याप्युपगमेन नाप्रसिद्धिरिति विभाव्यते तदा तुल्यदिशा जगतोऽपि अदृष्टसहितज्ञानबाध्यत्वप्रसङ्गेन तादृशज्ञानान्याबाध्यत्वरूपपक्षतावच्छेदकघटक-विशेषणासिद्धेः काञ्चनमयपर्वतो वह्निमान् धूमादित्यादाविवाश्रयासिद्धिपर्यवसायिन्या दुर्वार-तेत्यरुचेः कल्पान्तरमनुसरति । यद्वेति । नन्वेतत्कल्पे अलीकव्यावर्तनफलकं द्वितीयभाव-प्रत्ययान्तोपादानमनर्थकम् । तस्यापि स्वबाधकाभिमताबाध्येन शब्दाभासजनितस्वविषयक-ज्ञानसाधनीभूतदोषेण जनितज्ञानविषयतयातादृशविशेषणेनैव तद्व्युदसनात् । मतान्तरे प्रातिभासिकस्य साक्षिरूपज्ञानगोचरतया तादृशदोषजन्यज्ञानाविषयत्वघटितपक्षतावच्छेदका-क्रान्ततया बाधश्चेत्यरुचिमनुसन्दधानः कल्पान्तरमनुधावति । स्वबाधकाभिमतेति । समानाधिकरणेति । नेदं रजतमित्यादिरूपाणां मनःपरिणामरूपबाधकाभिमतप्रत्ययानामेष्य-

त्कर्मप्रागभावसमानकालीनत्वं चरमवृत्तिरूपज्ञानस्य तादृशप्रागभावासमानकालीनत्वं चावसेयम् ।

अत्राद्वैतसिद्धिकारः । त्वन्मते प्रातिभासिकस्याप्यसत्वेन व्यर्थविशेषणतया व्याप्यत्वा-सिद्धेः । अस्मन्मतमाश्रित्य हेतूकरणे च देहात्मैक्ये ब्रह्मज्ञानेतराबाध्ये व्यभिचारात् । न हि प्रातिभासिकत्वं ब्रह्मज्ञानेतरबाध्यत्वादन्यत् । त्वयाहि प्रातिभासिकस्य शुक्तिरूप्यादेर-पक्षत्वाय सत्यं तमाद्यं विशेषणत्रयं विकल्पेन पक्षे प्रक्षिप्तम् । तथा च प्रातिभासिकस्या-सत्वानधिकरणत्वमङ्गीकृतमेव । अन्यथा तुच्छवारकासत्वानधिकरणत्वविशेषणेनैव तद्व्यावृत्तावेतावत्प्रयासवैय्यर्थ्यापत्तेः । एवं च देहात्मैक्यस्यापि पक्षत्वे बाध एव बाधेच सति पक्षविशेषणस्य पक्षत्वस्यासिध्याऽऽश्रयासिद्धिरपि । अत एव स्वबाधकेत्यादिविशेषण-प्रक्षेपेऽपि न निस्तारः । देहात्मैक्ये पूर्वोक्तदोषव्यावृत्तेरेवेत्यभ्यधात् ।

अत्र ब्रह्मानन्दः ननु प्रतिभासमात्रशीरत्वादिरूपं प्रातिभासिकत्वं हेतौ निवेश्यम् । तस्य च देहात्मैक्ये सत्वात्तत्र व्यभिचारस्तत्राह त्वयाहीति । तथा च देहात्मैक्ये असदन्यत्व-ब्रह्मप्रमेत्यादिविशेषणयोः सत्वेन पक्षत्वावश्यकत्वात्प्रतिभासमात्रशरीरत्वरूपप्रातिभासिक-त्वस्य हेतौ निवेशे स्वरूपासिद्धिः । ब्रह्मज्ञानान्यबाध्यत्वरूपप्रातिभासिकत्वनिवेशेच व्यभिचारः । न च पक्षे व्यभिचारो न दोष इति वाच्यम् । अनुकूलतर्के सति पक्षीय-व्यभिचारसंशये व्याप्तिग्रहप्रतिबन्धकत्वस्य तान्त्रिकैरस्वीकारेऽपि प्रकृते व्यभिचारनिश्चयस्य सत्वेन तत्प्रतिबन्धकत्वस्वीकारात् । पूर्वोक्तदोषाव्यावृत्तेरित्यनेन दूषणान्तराण्यपि सूचितानि । तथा हि स्वाप्नादिप्रातिभासिकविशेषस्य स्वबाधकजाग्रद्बोधबाध्यस्वाप्नादिप्रातिभासिक-दोषजन्यज्ञानविषयत्वादाद्ये बाधाधिकम् । द्वितीयेऽपि स्वाप्नगजादिषु स्वबाधकजाग्रद्बोध-बाध्यस्वाप्नगजाद्यभावबुद्धेर्निषेध्यत्वेन विषयत्वाद्बाधादिकम् । जाग्रद्बोधस्यापि तद्बाधन-योग्यत्वात् । तद्बाधनोपधायकत्वं तु निवेशयितुमशक्यम् । तत्तद्धीविश्रान्तत्वेनाननुगतत्वात् । तृतीये त्वप्रसिद्धिर् इश्वरनिष्ठज्ञानस्यैवोक्तप्रागभावसमानकालीनत्वेन तद्बाद्यप्रसिद्धे स्वत्व-बाधकत्वदोषत्वादेरनुगतस्याभावेन तत्तत्प्रातिभासिकव्यक्तिभेदकूटपर्यवसानेन दुर्ज्ञेयत्वादित्या-दिना तदाशयमुदबीभवत् ।

उभावपि मन्दाधिगमौ । निष्प्रकारब्रह्मप्रमात्वेनाद्वैतवाद्यूरीकृतव्यक्तिवृत्तितद्व्यक्तित्वा-वच्छिन्नप्रतियोगिताकभेदस्यैवाद्यवैकल्पिकविशेषणघटकत्वोपगमेन क्षत्यनवकाशात् । देहात्मैक्यज्ञानबाधकस्य देहात्मभेदज्ञानस्य तादृशभेदविशेषितत्वात् । देहात्मैक्याध्यास-स्योत्तरप्रस्थाने प्रत्याख्यातत्वात् । स्वाप्नानां जाग्रद्बोधाबाध्यदोषजन्यज्ञानविषयत्वं तु प्रागेव समर्थितम् । तथा तेषामेव स्वाप्नबाधग्रहबाध्यत्वेनेत्यपि । एतेनाननुगतिरपि सुदूरं निरस्तैव । स्वसमानाधिकरणकर्मप्रागभावसमानकालीनज्ञाने स्वसामानाधिकरण्यनिवेशनेनैवेश्वरज्ञान-वारणात् । सत्वं परिचायकमेव । दोषनुमुक्तमेवेति प्रथमप्रयोगे सिद्धसाधनतां व्युदस्यति । व्यावहारिकेति । द्वितीयप्रयोगे साध्यतावच्छेदककोटौ परमार्थत्वांशनिवेशनस्यार्थवत्ता-मभिधत्ते । अर्थगतमिति । अनिर्वाच्येति । सत्वमसत्वं सदसत्वं चादायार्थान्तरताविधूननाय द्वन्द्वोत्तरस्य कर्मधारयोत्तरस्य च भावप्रत्ययस्य लक्षणवाक्ये विवक्षितत्वादिति भावः । परार्थानुमान इति । मतद्वयदिशा विशेषणस्य प्रयोजनवत्तयैव भवितव्यम् । तच्च प्रयोजनमेकं वा न वा न क्षतिः । न तु प्रयोजनव्यक्तेर्मतद्वयसिद्धत्वमित्यभिहितमधस्तादेव । प्रमेय-वह्निमान् धूमादित्यादावुपरञ्जनस्यापि फलतायाः परीक्षकोपगतत्वादिति भावः । अन्यथा प्रयोजनव्यक्तेर्मतद्वयसिद्धत्वोपगमे । अप्रसिद्धिरिति । सद्भ्यामभावो निरूप्यत इति न्यायादिति भावः । प्रतियोगित्वादिति । नैय्यायिकाभिप्रेततादृङ्न्यायस्य सिद्धान्तेऽव-धारणेन भ्रमप्रमासाधारणप्रतियोगिज्ञानमात्रस्यैवाभावधीहेतुत्वादिति पूरणीयम् । प्रातिभासि-कत्वस्य विधान्तररूपतायां तत्प्रमितिरपि सङ्गच्छत इत्याह ॥ आरोपितत्वेनेति । धर्मिणोऽ-नलीकत्वं न प्रमात्वे तन्त्रं किन्तु प्रकारीभूतभासमानस्य धर्मिवृत्तित्वमेव । तच्च धर्मिणोऽ-लीकत्वेऽपि धर्मिसत्तानिरपेक्षसत्ताकस्य तस्य तथात्वोपपत्या तत्सङ्गच्छते इत्याशयः । प्रतिभासमात्रेति । मात्रपदस्यार्थव्यावर्तनपरतैव न ज्ञानतादात्म्यविधानपरतेति अर्थमन्तरेण प्रतिभासवत्वमित्यर्थः । अन्यथा मतद्वयदिशैव प्रसिद्धेरावश्यकतायां दोषसाम्यम् । अबाध्यत्वान्तनैरर्थक्यम् । तत्ववादिदिशा ब्रह्मालीकयोः शिष्टविशेषणद्वयेनैव वारणात् । असिद्धिवारकत्वम् अधिकरणत्वप्रतियोगिकाभावस्य च प्रातिभासिकसाधारण्येनाद्वैतिदिशा प्राप्तस्यानैकान्त्यस्याव्युदासकतया अवश्यविवक्षणीयस्याधिकरणतात्वावच्छिन्नाभावस्य पक्षीकृतविश्वस्मिन् प्रमेयत्वाद्यधिकरणता सत्वेनायोगेन स्वरूपासिद्धिवारकत्वम् । दोषः हेतुतावच्छेदककोटिनिविष्टस्य परीक्षकानुपगतत्वम् । व्यभिचारवारकस्येव स्वरूपासिद्धिवारक-स्यापि विशेषणस्य हेतुतावच्छेदककोटौ निवेशनस्य निबन्धकारसम्प्रतिपन्नतया प्रकृत-विशेषणस्यापि तादृशतया तत्र (नञ्) निवेशः सङ्गच्छत इत्यभिप्रेत्य तत्संप्रतिपत्तिं दर्शयति । स्वीकारादित्यन्तेन ।

विमतमिति । तार्णदहनवतोऽतार्णदहनादिवतो वा पक्षीकारात्स्वरूपासिद्धिवारकताऽ-वसेया । विमतम् अयोगोलकादि । व्यापकसामानाधिकरण्यरूपव्याप्तिघटकव्यापकत्वांश-ग्रहौपयिकतया व्यभिचारवारकस्य व्याप्तिग्रहौपयितानियन्त्रितहेतुशरीरनिवेश्यतेव तादृश-सामानाधिकरण्यरूपांशान्तरग्रहौपयिकतया स्वरूपासिद्धिवारकस्यापि तद्ग्रहौपयिकत्वा-निबन्धनतन्निवेश्यता सङ्गच्छत इत्यभिप्रेत्याह ॥ किं चेत्यादि । मध्यान्तविनिर्मुक्तस्येव प्रातिभासिकत्वविनिर्मुक्तस्यापि निदर्शनावृत्तित्वादिति भावः । केचिदित्यनेनारुचिर्ध्वन्यते । प्रातिभासिकत्वांशोपादानेऽपि तन्निरूपिताधिकरणत्वप्रतियोगिकाभावमात्रनिवेशो तादृशाधि करणत्वीयवैशिष्ट्यव्यासज्यवृत्तिधर्मावच्छिन्नाभावप्रातिस्विकतादृशाधिकरणतातत्तद्व्यक्तित्वा-वच्छिन्नाभावं चादायानैकान्त्यत्वादनवस्थापत्या तादृशाधिकरणतात्वे पर्याप्त्यवच्छेदकताक-प्रतियोगिताकाभावपर्यन्तस्यावश्यं विवक्षणीयतया प्रातिभासिकत्वनिरूपितत्वांशस्याधिकरण- तायामनिवेशनेऽनैकान्त्यानवतारेण तद्वारणफलकत्वोक्तेरसामञ्जस्यं तद्बीजमवसेयम् ।

अत्राद्वैतसिद्धिकारः । तथापि हेतौ प्रातिभासिकत्वविशेषणं व्यर्थम् । अनधिकरणत्वे सत्यसत्वानधिकरणत्वमात्रस्यैव परमार्थसत्वसाधकत्वोपपत्तेः । शुद्धमेव हि ब्रह्म दृष्टान्त-त्वेनाभ्युपेयम् । धर्मवतो दृष्टान्तत्वे साधनवैकल्यापत्तेः । साध्यन्तु बाधाभावरूपत्वा-दधिकरणस्वरूपमेव, न धर्मः । धर्म्यतिरिक्ताभावानभ्युपगमस्योक्तत्वात् । तथा च क्षित्यादिकं न कर्तृजन्यं शरीराजन्यत्वादित्यत्र शरीरस्येव व्याप्तिग्रहानुपयोगित्वेन प्रातिभासिकत्वस्य वैय्यर्थ्यमेव । आकाशादावजन्यत्वकर्तृजन्यत्वाभावयोरिव निर्धर्मके ब्रह्मण्यपि अनधिकरणत्वपरमार्थसत्वयोर्व्याप्तिग्रहोपपत्तेः । तथा चैकामसिद्धिं परिहरतो द्वितीयासिद्ध्यापत्तिः । स्वरूपासिद्धिपरिहारेऽपि व्याप्यत्वासिद्धिरिति निबबन्ध ।

अत्र ब्रह्मानन्दः । अनधिकरणत्वेनेति । अस्मद्रीत्या प्रातिभासिके व्यभिचारप्रसक्तेरिद-मुक्तम् । साधकत्वेति । व्याप्तिग्रहौपयिकत्वेत्यर्थः । ननु ब्रह्मण्यज्ञानविषयत्वाद्यधिकरणत्व-सत्वादनधिकरणत्वघटितहेत्वभावेन व्याप्त्यग्रहाद्व्याप्तिग्रहौपयिकतया तत्सार्थकं तत्राह शुद्ध-मेवेति । उक्ताधिकरणत्वं शुद्धे ब्रह्मणि नास्त्येव किन्तूपहितम् इति भावः । तैजसत्वानुमाने इति । चक्षुः, तैजसं रूपादिषु मध्ये रूपस्यैव व्यञ्जकत्वाद् दीपवदित्यत्र मध्यान्तानुपादाने दृष्टान्ते हेत्वभावेन साध्यहेत्वोः सहचाराग्रहान्मध्यान्तं व्याप्तिग्राहकमिति भावः । ननु व्याप्तेरिव पक्षधर्मताया अपि ग्राहकत्वेन सार्थक्यं कुतो न स्यात् । व्याप्तिग्राहकस्यापि सार्थकत्वेऽनुमितिप्रयोजकत्वस्यैव तन्त्रत्वात् तत्राह व्यभिचारवारकस्येति ॥ तथा च यद्विशेषणं विना कृतस्य व्याप्यत्वावच्छेदकत्वसम्भवस्तद्घटितं गौरवेण व्याप्यतायामनवच्छेद-कम् । न च व्याप्यतायाः स्वरूपसम्बन्धरूपस्यातिरिक्तस्य वाऽवच्छेदकत्वस्यानङ्गीकारात् । (अन्यून)अनतिरिक्तवृत्तित्वरूपावच्छेदकत्वस्य तु गुरावपि स्वीकारान्नोक्तरीत्या वैय्यर्थ्यस्य दूषणत्वमिति वाच्यम् । व्याप्यताया उक्तावच्छेदकत्वस्यास्वीकारेण कारणत्वादेरपि तदापत्तेः । दण्डः कारणमित्यादिधीरिव धूमो व्याप्य इत्यादिधीरप्यवच्छेदकत्वावगाहिनी सम्भवत्येव । अत एव कम्बुग्रीवादिमत्वादिना व्याप्तिर्नेष्यत एव । तथा च स्वविशिष्ट-व्यापकसाध्यसामानाधिकरण्यावच्छेदकहेतुतावच्छेदकादिरूपव्याप्तिधीविरोधित्वादुक्तावच्छेदकत्वशून्य-हेतुतावच्छेदकरूपस्य व्यर्थविशेषणवत्त्वस्य व्याप्यत्वासिद्धिरूपहेत्वाभासत्वमिति भावः । स्पष्टश्चायमर्थो मण्यादावीश्वरवादादौ । तथा हि– शरीराजन्यत्वे व्यर्थविशेषणत्वं लाघवेना-जन्यत्वस्यैव व्याप्यत्वात् । ननु व्यर्थत्वमसिद्धं, पक्षधर्मतौपयिकत्वाद् व्यभिचारवारकस्यापि सार्थकत्वेऽनुमितिप्रयोजकत्वस्यैव बीजत्वादिति चेन्न । नीलधूमे धूमत्वमेव व्याप्यतावच्छेदकं न तु नीलत्वमपि गौरवात् । दण्डत्वेन कारणत्वे रूपमिव । एवं शरीराजन्यत्वेऽपि न शरीरमवच्छेदकं गौरवात् । येन विशेषणेन विना व्याप्तिर्न गृह्यते तस्यैव व्याप्यतावच्छेदकत्व-नियमादत एव रूपादिमध्ये रूपस्यैव व्यञ्जकत्वादित्यत्र मध्यान्तं विना व्याप्त्यग्रहात्तत्सार्थक-मेवेत्यादिकं तत्रोक्तम् । उक्तं च तत्र पक्षधरमिश्रैर्गौरवमेव तदहेतुतायां बीजमिति । ननु स्वसमानाधिकरणव्याप्यतावच्छेदकान्तराघटितत्वं हेतुतावच्छेदके विशेषणं दीयते । तथा च नीलधूमत्वं न व्याप्यतावच्छेदकं शरीराजन्यतात्वं तु तदवच्छेदकमेव धूमप्रागभावत्वादिवत् । गौरवादनवच्छेदकत्वे पृथिवीत्वत्वादीनां तत्र तत्रावच्छेदकत्वोक्तिरसङ्गता स्याद् गन्धत्वस्यैव तत्सम्भवादिति चेन्न । पृथिवीत्वत्वादीनां व्यतिरेकव्याप्त्यवच्छेदकत्वस्यैव तत्र तत्रोक्तत्वा-द्व्यतिरेके व्यर्थविशेषणत्वस्य तान्त्रिकैरस्वीकारात् ।

किञ्चेश्वरवादीयपक्षधरीये तादृशधर्मान्तराद्यघटितत्वेन हेतुतावच्छेदकं विशेषणीय-मित्युक्तम् । तत्र तादृशपदं साध्यसम्बन्धितावच्छेदकरूपव्याप्तिपरम् । पूर्वग्रन्थे तस्यैव प्रक्रान्तत्वात् । तथा च स्वसामानाधिकरण्यप्रवेशस्य तान्त्रिकसम्प्रदायासिद्धत्वात् स्वकपोल-कल्पितत्वं निर्युक्तिकत्वं च । न हि धूमप्रागभावोपस्थितिकाले उपस्थितस्य धूमस्य हेतुत्वं नोद्भावयितुं शक्यम् । न च विशेषणतासम्बन्धेन प्रागभावनिष्ठा या व्याप्तिस्तदुपस्थितिकाले संयोगेन धूमनिष्ठ व्याप्तेरुपस्थित्यनियमात्स्वसमानाधिकरणेत्याद्यवश्यं वाच्यमिति वाच्यम् । धूमज्ञानेनैव धूमनिष्ठोक्तव्याप्तेरुपस्थितेः । तस्मात्स्वसमानाधिकरणेत्यादिविशेषणं, व्याप्यता-वच्छेदकान्तरा घटितत्वं वा विशेषणं न देयमेव । धूमप्रागभावत्वं वा नीलधूमत्वं वा गौरवान्नावच्छेदकम्, उक्ततान्त्रिकवाक्यानां तदैव स्वारस्यादिति साधूक्तं व्याप्यत्वासिद्धिरिति ।

उभावपि दीधित्याद्याकरतात्पर्यस्यानधिगन्तारौ । वह्निमान्नीलधूमादित्यादौ हेतौ व्यर्थविशेषणघटिततया व्याप्यत्वासिद्धिरूपहेत्वाभासविरहेऽपि नीलधूमादिति प्रयोक्तुरधिकेन निग्रहोपपत्तेरिति हेत्वाभासग्रन्थे दीधितिकृदभिधास्यमानत्वेऽपि व्यर्थविशेषणघटित(तया)स्य व्याप्यत्वासिद्धिरूपहेत्वाभासोपगमदशायां साध्यसम्बन्धितावच्छेदकरूपवत्वं व्याप्तिरिति लक्षणव्याख्यावसरे दीधितिकारैरेव नीलधूमत्वादेर्वारणीयत्वे तु स्वसमानाधिकरण-तादृशधर्मान्तराघटितत्वेन विशेषणीयम् । सामानाधिकरण्योपादानाद्धूमप्रागभावादिसङ्ग्रहस्तद-घटितत्वं च तदविषयकप्रतीतिविषयत्वमिति सिद्धान्तितया स्वस्य स्वाविषयकप्रतीत्य-विषयत्वरूपस्वाघटितत्वासत्वाधर्मान्तरेति । तदर्थश्च न स्वभिन्नत्वं धूमत्वादेर्नीलधूमत्वाद्य-भिन्नत्वात् । किं तु स्वाविषयकप्रतीतिविषयत्वम् । स्वावृत्तिविषयताश्रयत्वे पर्यवसितम् । शुद्धधूमत्वादिपर्याप्तविषयतायाश्च नीलादिसहितधूमत्वादिपर्याप्तविषयताभिन्नत्वेनादोषात् । सामानाधिकरण्यादप्रयोजनमाह समानाधिकरणेति । धूमप्रागभावत्वादेर्धूमत्वादिरूप-सामानाधिकरण्यावच्छेदकधर्मान्तरघटितस्यापि सङ्ग्रह इत्यर्थः । अवच्छेदकताघटकसम्बन्धेन स्वाधिकरणे तेन सम्बन्धेन वृत्तिः स्वसामानाधिकरण्यम् । तेन धूमत्वधूमप्रागभावत्वयोः स्वाश्रयप्रतियोगिकत्वस्वाश्रयप्रतियोगित्वाभ्यां धूमप्रागभावधूमयोर्वर्तमानत्वेऽपि न क्षतिः ।

येन सम्बन्धेन यस्य धर्मान्तरस्यावच्छेदकत्वं तेन सम्बन्धेन तदघटितत्वम् । तेन सम्बन्धेन तत्प्रकारकत्वशून्यप्रतीतौ स्वीयावच्छेदकताघटकसम्बन्धेन प्रकारत्वपर्यवसितं विवक्षणीयम् । तेन संयोगेन वह्न्यतत्सम्बन्धावच्छिन्नवह्न्यभाववत्वप्रमाविषयत्वाद्यभावा-वच्छिन्नस्य तादात्म्येन व्याप्यतानिर्वाहः । तादृशभावादिप्रकारकप्रतीतौ तादात्म्येन व्याप्यतायां संयोगादिनाऽवच्छेदकस्य वह्न्यादेः संयोगादिना प्रकारत्वानियमात् । अथैतादृशविशेषणप्रवेशे वह्नित्वादिरूपसाध्यतावच्छेदकघटितवह्निमदन्यावृत्तित्वाद्यवच्छिन्नस्य वह्न्यादिव्याप्यतानुपपत्तिः । अत्र चाधिकांशस्य विकासकत्वादवैय्यर्थ्येनेष्टापत्तेरयोगात् । न च धर्मान्तरस्य विशेष्यविधया अघटकत्वविवक्षा सम्भवति । धूमान्यान्यत्वादेर्व्याप्यतावच्छेद-कत्वापत्तेः । सामानाधिकरण्यस्थाने व्यापकत्वं निवेश्यमित्यपि न युज्यते । धूमालोका-न्यतरत्वादेर्व्याप्यतावच्छेदकत्वापातात् तद्घटकधूमत्वादेस्तदव्यापकत्वादिति । मैवम् । स्वघटकसाध्यसम्बन्धितावच्छेदकधर्मान्तरत्वेन यादृशधर्मं प्रति व्यापकतावच्छेदकत्वस्य तादृशधर्मापर्याप्तविषयतापर्याप्तिपर्यवसितत्वस्य विवक्षया प्रतीकारादिति गदाधरप्रभृतिभि-स्तादृशविशेषणसार्थक्यस्य समर्थिततया स्वसामानाधिकरण्यप्रवेशस्य तान्त्रिकसम्प्रदाया-सिद्धत्वोक्तेः स्वकपोलकल्पितत्वोक्तेश्चाकरतात्पर्यानधिगतिनिबन्धनतया प्रकृतेऽपि उक्तदिशा व्याप्यत्वासिध्द्यनवकाशेन सामञ्जस्यादित्यलं निर्दलपक्षप्रतीकाराभिनिवेशेन ।

अप्रयोजकतामाशङ्क्य निराकुरुते । न चेति । व्यावर्तकतया अनुमापकतया । अत्र ब्रह्मणः परमार्थसद्रूपतया तथा तादृशसत्वस्यालीकप्रातिभासिकव्यावृत्यनुमापकत्वेऽपि जगत-स्ताद्रूप्याभावेन तत्र तादृशसत्वस्यासिद्धिप्रसङ्गेन तदनुमापकत्वायोगेन व्यावहारिकसत्वमेव तदनुमापकमास्थेयमित्थं च न क्षतिरित्याशङ्काव्युदसनाय विश्वमिथ्यात्वेत्यादि । परमार्थ-सत्वस्य जगति तादृशव्यावृत्यननुमापकत्वे पारमार्थसाधनायोत्तरवाद्युपन्यस्तहेतोरप्रयोजकत्व- शङ्कास्कन्दितस्य मिथ्यात्वानुमानबाधकत्वायोगेन मिथ्यात्वानुमानेन तत्सिद्धिस्तत्सिद्धौ चानुगतानुमापकासम्भवेन दर्शितानुमापकाननुगमस्याश्रयणीयतया हेतोरप्रयोजकत्वसिद्धिरित्य न्योन्याश्रय इत्यर्थः । तत्प्रयोजकं तदनुमापकम् । असद्व्यावृत्तिं प्रतीति । स्वदिशैवेदम् । पूर्ववादिदिशा तु अलीकप्रातिभासिकव्यावृत्तिं प्रतीति व्याख्येयम् । यथाश्रुते तन्मते ब्रह्मत्ववद्विपर्यस्ताद्व्यावृत्तस्य न्यूनवृत्तित्वापातात् ।

सत्वस्यैवेति । ब्रह्मविश्वोद्देश्यकालीप्रातिभासिकव्यावृत्तिविधेयकानुमितिप्रयोजकपरामर्श-विषयीभूतमुभयानुगतं तद्विरुद्धं परमार्थसत्वमेव न तु ब्रह्मत्वादिकम् । तस्य विश्व-व्यावृत्तत्वेनानुमित्युद्देश्यतावच्छेदकसमानाधिकरणभेदप्रतियोगितावच्छेदकत्वादित्यर्थः । अन्यथेति ॥ ज्ञानत्वादेरलीकप्रातिभासिकव्यावृत्तिविधेयकानुमितिहेतुभूतपरामर्शविषयत्वे सत्यज्ञानादिवाक्यघटकज्ञानपदेनैव ज्ञानत्वरूपहेतूपस्थापनसम्भवेनानृतव्यावृत्तिगोचराधि-गतिनिर्वाहात्तदेकफलकतादृशसत्यपदानर्थक्यं प्रसज्येतेत्यर्थः । प्रपञ्च इति । निखिलवह्नि-मदनुगतस्य सम्भवेऽपि अनुगतधूमालोकभस्मादिभिर्वह्निसाधनं प्राग्वह्निमत्तानिर्णयातादृश-वह्निमत्वप्रकारकप्रमाविशेष्यत्वस्यानवधारणरूपबाधकवशेन सङ्गच्छते । प्रकृते तु तादृश-बाधकाभावेनाननुगतब्रह्मत्वतादृशानुगतसत्यत्वावधारणं, तादृशानुमितिहेतुभूतनानापरामर्श-तत्तत्सामग्रीकल्पनागौरवापादकमिति भावः ।

अत्राद्वैतसिद्धिकारः । अयुक्तमेतत् । न हि प्रातिभासिकासतोरेका व्यावृत्तिरुभयी वा समव्याप्ता येनैकप्रयोजकप्रयोज्या भवेत् । किं तु प्रातिभासिकव्यावृत्तिप्रयोजकं ब्रह्मविश्वास-त्साधारणमेव वक्तव्यम् । असत्यपि प्रातिभासिकत्वाभावात् । एवमसद्व्यावृत्तावपि प्रयोजकं ब्रह्मविश्वप्रातिभासिकसाधारणमेव वक्तव्यम् । प्रातिभासिकेऽप्यसत्वाभावात् । तथा च तत्प्रयोजकद्वयसमावेशादेव ब्रह्मण्युभयव्यावृत्युपपत्तौ नीलत्वघटत्वरूपावच्छेदकद्वयसमावेशो-पपन्ननीलघटत्ववन् नातिरिक्तप्रयोजककल्पनायामस्ति किञ्चिन्मानमिति कृतबुद्धय एव विदाङ्कुर्वन्तु । नित्यत्वं चोपाधिः । तुच्छप्रातिभासिकयोर्नित्यत्वव्यतिरेके साध्यव्यतिरेक-दर्शनादिति निबबन्ध ।

अत्र ब्रह्मानन्दः । एका एकैव । ननु मास्त्वेकैव व्यावृत्तिः । प्रातिभासिकत्वेन भेदस्या-सत्वेन भेदस्य च सत्वात् । तथापि प्रातिभासिकासतोरन्यतरभेदस्यैकस्य सत्वात्तदनु-मापकतया ब्रह्मविश्वयोः पारमार्थिकत्वसिद्धिरास्ताम् । तत्राह ॥ तथा चेति । द्वयसमावेशा-दिति । द्वयेन सह समावेशः सामानाधिकरण्यं यस्य तेन । ब्रह्मविश्वान्यतरत्वादिनेति यावत् । उभयव्यावृत्युपपत्तौ । उभयोरेकमात्रभेदविशिष्टापरमात्रभेदस्य वाऽन्यतरत्वेन भेदस्य (स्यै)वानुमानसम्भवे । नीलघटत्ववन् नीलघटत्वस्येव । उभयव्यावृत्तेरिति शेषः । यथा घटीयनीलरूपं प्रति घटं प्रति च क्लृप्ताभ्यां (कपालीयनीलरूपादिदण्डादिसामग्रीभ्यामेव) कारणाभ्यामेव नीलघटस्योत्पत्तिसिद्धेर्न तत्रान्यत्कारणं कल्प्यते तथा क्लृप्तेनोक्तान्यतरत्वादि-नोभयव्यावृत्यनुमानसम्भवात् तदर्थं न ब्रह्मविश्वयोरेकजातीयसत्यत्वादिकं कल्प्यते । अन्यथा तुच्छब्रह्मणोः प्रपञ्चव्यावर्तकमेक(म)सत्यत्वं स्यात् तदुभयान्यतरत्वस्य तदुभयमात्र-विशेष्यकधीविशेष्यत्वस्य वा व्यावर्त्तकत्वं तु तुल्यमिति भाव इति व्याचकार ।

तत्र तावन्मूलकारीयमसमञ्जसम् । पृथिवी इतरेभ्यो भिद्यते गन्धवत्वादित्यादौ जलादि-भेदानां नानात्वेऽपि असमव्याप्तत्वेऽपि गन्धवत्पृथिवीत्वादिरूपैकानुमापकानुमेयत्वरूपैक-प्रयोज्यत्वस्य निखिलतान्त्रिकैरुपगमात् । अलीकख्यातेः समर्थिततया असत्यपि प्रातिभासिकत्वाभावात् । प्रातिभासिकेऽप्यसत्वाभावादित्यपि निर्दलम् । हेतुशरीरे भाव-प्रत्ययान्तद्वयोपादानं तु पराभ्युपगमवादेनैवेति न क्षतिः । नीलघटत्ववदिति निदर्शनीकरणन्तु अर्थसमाजग्रस्तस्य कार्यतावच्छेदकत्वानुपगते व्यावृत्तिद्वयस्यैकानुमापकानुमेयत्वाभाव-साधकताविरहेणाग्रानित्याभाणकविषयतापादकमेव । व्याकर्तुर्व्याकृतिरपि तादृश्येव । व्यासज्यवृत्तिसाध्यतावच्छेदकीभूतधर्मोपरागेणेतरभेदानुमापकताया ऋतत्वादेर्निखिलपरीक्ष कोपगततया प्रकृतसाध्यतावच्छेदकीभूतद्वित्वावच्छिन्नालीकप्रातिभासिकव्यावृत्यनुमापकतयैव पारमार्थिकत्वसिद्धिरास्तामित्येवावतारणसम्भवेन प्रातिभासिकसतोरन्यतरत्वावच्छिन्न-प्रतियोगिताकभेदस्य साध्यत्वपर्यन्तानुधावनस्य नैय्यायिकसम्प्रदायानधिगतिनिबन्धनत्वात् । गुणकर्माभिन्नं द्रव्यत्वादित्यादौ व्यासज्यवृत्तिधर्मोपरागेण भेदानुमापकतायाः स्थितत्वात् ।

न चोदाहृतस्थलेषु सामानाधिकरण्यप्रत्यासत्या एकविशेषितापरभेदस्यान्यतरत्वा-वच्छिन्नभेदस्य वा साध्यत्वोपगमान्न क्षतिरिति वाच्यम् । समानविषयकशाब्दसामग्रीदशायां द्वित्वावच्छिन्नभेदविधेयकानुमितिर्जायतामितीच्छायां प्रकृतानुमित्यपलापापत्तेर्वैशिष्ट्यान्यतर-त्वाद्यवच्छिन्नविधेयकानुमितीच्छाविरहविशेषितोक्त सामग्य्रास्तादृशानुमितिप्रतिबन्धकत्वात् । एकविशेषितापरभेदादिसाधकतयाऽपि पारमार्थिकतासिद्धेश्च । नीलघटो घटाद्भेदवानित्यादि-प्रयोगवारणायान्वयितावच्छेदकावच्छिन्नप्रतियोगिताकत्वं भेदादिपदसमभिव्याहारस्थले व्युत्पत्तिबललभ्यमित्याकरे स्थिततया प्रातिभासिकव्यावृत्त्यसद्व्यावृत्तिपदाभ्यां प्रतीतयोः परस्परविशेष्यविशेषणभावानापन्नयोः प्रातिभासिकासत्वावच्छिन्नप्रतियोगिताकभेदयोरेव पूर्वोपस्थितपरामर्शकेनोभयव्यावृत्तीति सर्वनाम्ना परामृष्टव्यतया प्रागप्रक्रान्तस्यैकविशेषिता-परभेदस्य प्रातिभासिकासदन्यतरत्वावच्छिन्नप्रतियोगिताकभेदस्य च परामर्शकत्वायोगेनोभय-व्यावृत्युपपत्तौ उभयव्यावृत्योरेकविशेषितापरभेदस्यान्यतरत्वेन भेदस्य चानुमानसम्भवे इति व्याख्यायाः समावेशादित्यन्तस्यापि बहुव्रीहिणा ब्रह्मविश्वान्यतरत्वबोधकतायास्तदूरीकृता-याश्च बालजनमनोहरत्वात् । ब्रह्मत्वानन्दत्वादिवद् ब्रह्मविश्वान्यतरत्वस्य बाधाभावविधया विरोधित्वाभावेनासद्व्यावृत्तिं प्रति प्रयोजकत्वाभावेन समावेशादित्यन्तेन बहुव्रीहिणा तादृशान्यतरत्वप्रतिपादनव्याख्याकौशलस्य ग्रन्थकारोक्त्यविभावनानिबन्धनत्वात् ।

अत्र व्याकर्तारः । न तावद् ब्रह्मविश्वासत्सु प्रातिभासिकव्यावृत्तिप्रयोजकोऽनुगतो धर्मः सम्भवति । ब्रह्मणो निर्धर्मकत्वात् । विश्वस्य व्यावहारिकधर्मवत्वात् । असतो निरूपाख्य-त्वात् । नापि ब्रह्मविश्वयोस्तु असत्प्रातिभासिकव्यावृत्तिः । सामान्याभावरूपतयैका सम्भवति । अधिकरणभेदेनाभावभेदाभावात् । तथा च ब्रह्मविश्वयोर्विद्यमानामुक्तव्यावृत्तिं प्रति व्यावर्तकतया प्रयोजकमेकमनुगतमवश्यं वाच्यम् । तच्च पारमार्थिकसत्वमेव । अवच्छेदकान्तरानुपपन्नप्रयोजकत्वादिति साधु कृतबुद्धयो विदाङ्कुर्वन्तुतराम् । नापि नित्यत्वमुपाधिः । पक्षे पारमार्थिकसत्वाभावेन तद्विरुद्धस्वभावासत्प्रातिभासिकव्यावृत्ता-वुच्यमानायां व्याघातवत् पारमार्थिकसत्वभावे ध्वंसप्रतियोगित्वरूपनित्यत्वाभावस्योक्तौ व्याघाताभावेनोपाधेः पक्षे साध्याभावासाधकत्वात् । तर्कगृहीतसाध्यव्याप्तिकहेत्व-व्यापकत्वा-च्चेति समादधिरे । वनमालिमिश्रस्तु उभयत्वाधिकरणव्यावृत्तिमात्रस्य व्यभिचारित्वेनैक-व्यावृत्तिविशिष्टापरव्यावृत्तेरेव हेतूकरणात्तस्याश्च प्रयोजकं हि ब्रह्मविश्वसाधारणं परमार्थ-सत्वमेवेति समादधे ।

प्रामाण्येति । तद्वद्विशेष्यकत्वावच्छिन्नतत्प्रकारकत्वरूपप्रमात्वस्य तदभाववद्विशेष्य-कत्वावच्छिन्नतत्प्रकारकत्वरूपातत्वावेदकत्वसामानाधिकरण्याभावेन कोटिद्वयसाहचर्योपरागेण प्रमात्वावगाहिज्ञानरूपप्रकृतकोटिद्वयोपस्थितिसामग्रीवैकल्यनियन्त्रिततद्घटितसन्देहसामग्री-वैधुर्यात्सन्देहनियन्त्रितो विकल्पो न सङ्गच्छत इत्यर्थः । प्रत्यक्षस्येति । तथा च प्रमापदेन तद्वद्विशेष्यकत्वावच्छिन्नतत्प्रकारकताशालिज्ञानविवक्षायामपि नासिद्धिरवतरतीत्यर्थः । विपक्ष इति । अलीकावगाहिनः प्रमात्वे व्याहतिरित्यर्थः । विषयेति ।

अत्राद्वैतसिद्धिकारः । अत एवानिषेध्यत्वेन प्रमां प्रति साक्षाद्विषयत्वादित्यपि न हेतुः । किञ्च प्रमात्वं तद्वति तत्प्रकारकत्वं वा तत्वावेदकत्वं वा । आद्ये दृष्टान्तस्य साधनवैकल्यम् । न हि परमार्थसतः शुद्धस्य ब्रह्मणः सप्रकारकज्ञानविषयत्वम् । न च धर्मवतो दृष्टान्तते-त्युक्तम् । तस्य पक्षकुक्षिनिक्षिप्तत्वेन निश्चितसाध्यवत्वाभावात् । द्वितीये तत्वावेदकत्वस्या-बाधितविषयत्वरूपत्वेन साध्याविशेषपर्यवसानात् हेतुग्रहे सिद्धसाधनम् । हेत्वग्रहे तु स्वरूपासिद्धिरित्याह । अत्र ब्रह्मानन्दो ऽत एव बाधानुपपत्तिलक्षणप्रतिकूलतर्कान्नित्यत्वा-द्युपाधिमत्वादेवेति व्याचख्यौ । तदाशयानवबोधविजृम्भितम् । स्वाधिकरणावृत्तिनिष्ठ-प्रकारत्वानिरूपकत्वविशेषितज्ञानत्वरूपप्रमात्वस्याभिप्रेततया क्षत्यभावात् । प्रतिकूलतर्क-स्योपाधेश्च परास्तत्वात् । सत्यत्वसिद्धिं विनाऽनिषेध्यत्वेनेत्यंशस्यासिद्धिस्तथा चान्योन्याश्रय इत्याशङ्कायामाह– त्वयापीति । जन्माद्यस्य यत इति सूत्रे जगत्कर्तृत्वेन ब्रह्मणः सार्वज्ञसिद्धिः । शास्त्रयोनित्वादिति सूत्रे सर्वकर्तृत्वसिद्धमेव सार्वज्ञादि स्फोर्यत इति त्वदुक्त्यानुपूर्व्यन्यथा न सङ्गच्छत इत्याशयः । अन्यथेति । ईश्वरस्यानिषेध्यत्वेन जगद्द्रष्टृत्वा-नङ्गीकारे पालनीयप्रतिसन्धानमन्तरेण पालनोद्देश्यकप्रवृत्ययोगादिति भावः ।

अत्राद्वैतसिद्धिकारः । नाप्यनिषेध्यत्वेनेश्वरं प्रति साक्षादपरोक्षत्वं हेतुः । सत्यत्वसिद्धिं विना अनिषेध्यत्वेनेत्यंशस्यासिद्धेः । तथा चान्योन्याश्रयः । न चेश्वरज्ञानविषयस्य प्रपञ्चस्य मिथ्यात्वेतस्य भ्रान्तत्वप्रसङ्गः । मिथ्याभूतस्य मिथ्यात्वेनैव ग्रहणादैन्द्रजालिकवद्भ्रान्त-तत्वायोगात् । अन्यथा सविषयकभ्रमज्ञातृत्वेन भ्रान्तत्वस्य दुर्वारतापत्तेः । न च निषेध्यत्वेन ज्ञाने तत्पालनार्थमीश्वरस्य प्रवृत्तिर्न स्यादिति वाच्यम् । ऐन्द्रजालिकप्रवृत्तिवदीश्वरप्रवृत्तेरपि तथाविधत्वादित्याह । अत्र ब्रह्मानन्दः । अनिषेध्यत्वेनेत्यादि । स्वाधिकरणवृत्त्यत्यन्ता-भावप्रतियोगित्वविषयत्वानिरूपितप्रमा(विषयत्वादि)विशेष्यत्वेनेत्यर्थः । तत्र ईश्वरे । भ्रान्तताप्रसङ्गः । विशेषदर्शिनां भ्रान्तताव्यवहारप्रसङ्गः । मिथ्यात्वेनेति । स्वसमानाधिकरण विशेषदर्शनकालीनस्य सोपाधिकभ्रमस्याश्रयपुरुषेऽप्ययं भ्रान्त इति व्यवहारः स्यादिति भावः । अन्यथोक्तविशेषदर्शनकालीनभ्रममादाय भ्रान्तत्वव्यवहारस्वीकारे । सविषयक-भ्रमज्ञातृत्वेनेति । भ्रमविषयतापर्याप्त्यधिकरणं यन्मुखादिविशिष्टदर्पणादिकं तस्य भ्रमस्य मिथ्यात्वेन यज् ज्ञातृत्वं नेत्यर्थः । तथाविधत्वात् । विसंवादित्वेन ज्ञायमानत्वात् । संवादि-त्वेन ज्ञायमानप्रवृत्तौ तादृशस्योपादानप्रत्यक्षादेर्हेतुत्वेऽप्यतादृशप्रवृत्तावतादृशस्य तस्य हेतुत्व-मिति भाव इति व्याकार्षीत् । तदुभयमतीव मन्दप्रलपितम् । भाष्यकारोदाहृतश्रुत्यादिसहस्रेण जगत्सर्जकत्वपालकत्वादिनाऽवगतेश्वरस्य मन्त्रौषध्यादिबलेन लोकप्रतारकैन्द्रजालिकतुल्य-तोक्तेः स्वसमयाभिनिवेशमूलकत्वात् । न च मायाविना मायेत्यादिव्याख्यावसरे टीका-कृत्पादैरेव सप्रपञ्चं पराकृतमेतदिति नेह प्रपञ्चनीयम् ।

विपक्ष इति । अनिषेध्यत्वेनेश्वरज्ञानविषयस्यापि जगतःपरमार्थसत्वानुपगमे निषेध्यमेव जगदनिषेध्यत्वेनेश्वरज्ञानमवगाहत इत्युपेयमिति तस्य भ्रान्तत्वापत्तिरित्यर्थः । तुरीयहेतु-शरीरेऽर्थक्रियायां सत्यत्वांशं निवेश्य सत्यत्वविशेषितार्थक्रियाकारित्वस्य हेतुत्वोपगमे प्रतिवादिदिशा पक्षदृष्टान्तयोरसिद्धिसाधनवैकल्यापत्या हेतौ पक्षधर्मताग्रहस्य व्याप्तिग्रहस्य चायोगेन सत्यत्वाघटितार्थक्रियात्वेनैतस्यास्तत्र निवेशे चैन्द्रजालिकेऽनैकान्त्यापत्या तथा तन्निवेशमनभ्युपेत्य सप्रकारकाबाध्यार्थक्रियात्वेन निवेशे न क्षतिरित्याह ॥ चतुर्थ इत्यादिना । अन्वयानुरोधेन पक्षधर्मतापदस्य प्राथम्येन प्रयोज्यत्वेऽपि अल्पाच्तरमित्यनु-शासनाद्व्याप्तिशब्दस्य पूर्वनिपातः । ऐन्द्रजालिकस्य सिद्धान्तेऽलीकतया कथं तत्रार्थक्रिया-कारितोपगतिरित्याशङ्क्य तत्राप्यलीकार्थक्रियाकारिताऽस्त्येवेति तात्पर्यिकेयमुक्तिरिति व्याचक्षते व्याकुर्वाणाः ।

अत्राद्वैतसिद्धिकारः । नापि सप्रकारका(बोधा)बाध्यार्थक्रियाकारित्वं हेतुः । सप्रकारक-जाग्रद्बोधाबाध्यस्वप्नजलावगाहनप्रियासङ्गमादिविशेषिताप्रमाणीभूतज्ञानस्यार्थक्रियाकारित्वदर्शनेन तद्विषये तत्र व्यभिचारः । अथ तत्र ज्ञानमेव सुखादिजनकं तच्चाबाध्यमेवेति मतं तदसत् । ज्ञानमात्रस्य हि तादृशसुखाजनकत्वेन किञ्चिद्विशेषितस्यैव तथात्वं वाच्यम् । ज्ञाने च विशेषो नार्थातिरिक्तः । तदुक्तम् । अर्थेनैव विशेषोऽहि निराकारतया धियामिति । अर्थेनेत्यर्थ एवेत्यर्थः । तथा च मिथ्याभूतविशेषितस्य जनकत्वाभ्युपगमे मिथ्याभूतस्यापि जनकत्वाद्व्यभिचार एवेत्याह । अत्र व्याचक्षणाः । विषयविशेषोपलक्षितज्ञानस्यैव सुखादि-जनकत्वोपगमेन विषयिताप्रत्यासत्या तद्विशेषितज्ञानस्य तदनुपगमेनोक्तस्थलेऽनैकान्त्या-नवकाशात् । न चाननुगत्या स्वरूपाणामतिप्रसक्त्या ज्ञानत्वादेरुपलक्ष्यतावच्छेदकत्वायोगेन तादृशधर्मस्य दुर्मिलतया न तस्योपलक्षणता सङ्गच्छत इति वाच्यम् । गृहेकाकादे-रुत्तृणत्वस्येव विषयविशेषाणां तत्तज्ज्ञानवृत्तिसुखादिरूपार्थक्रियाजनकत्वस्यैवोपलक्ष्यता-वच्छेदकत्वस्वीकारात् । प्रत्युत अनागतादिज्ञानजन्ये तत्कालाविद्यमानस्य विषयस्य पूर्वभावित्वरूपजनकत्वासम्भवेन तेषां विशेषणताया एव दुरुपगमत्वात् । स्वव्यापारजन्ये व्यापारिणोऽसतो जनकत्ववत् स्वज्ञानजन्येऽप्यसत्वेविषयस्य जनकताऽस्त्विति तु न शङ्कनीयम् । अन्तराकृत्य व्यापाराव्यापारिणोक्तिः स्वजनकव्यापारजनकत्वतात्पर्यिकैव । यागादेः स्वर्गजनकापूर्वोत्पत्तिकाले सत्वेन तथात्वात् । तज्ज्ञानाव्यवहितपूर्वक्षणावच्छेदेना-वर्तमानस्यातीतादि विषयस्य तादृशज्ञानजनकत्वायोगेन ज्ञानस्य विषयव्यापारत्वोपगतेर-योगात् । असद्वैलक्षण्यापेक्षया लाघवेन सत्वस्यैव कारणतायां निबन्धनत्वात् । अलीक-गोचरज्ञानाजनकस्याप्यलीकस्य स्वज्ञानजन्यकार्यजनकत्वोक्तेर्निष्प्रमाणत्वात् । न च स्वरूपाबाध्यस्य विषयाबाध्यत्वदर्शनेन विषयबाधे स्वरूपबाधस्यावश्यकतया स्वप्नादिकं सदेवेति दुर्वचत्वाद्भ्रमाधिष्ठानत्वस्य विषमव्याप्तिकस्योपाधित्वाच्चेति वाच्यम् । स्वरूपाबाध्य-साक्षिविषयस्यापि रूप्यादेः प्रातिभासिकस्य बाध्यत्वदर्शनेन तादृशनियमस्य त्वया दुरुपगम-त्वात् । उक्तरूप्यादिज्ञानोत्तरं तज्ज्ञानं नासीदिति बाधबुध्यनुदयेन तस्याबाध्यस्वरूपत्वेऽपि विषयबाधदर्शनात् । अर्थक्रियाकारित्वं प्रति परमार्थसत्वस्यैव ब्रह्मणि प्रयोजकत्वेनावधारणेन अकारणकार्योत्पत्तिरूपविपक्षबाधकतर्कानुगृहीतप्रकृतसाध्यनिरूपितव्याप्तिविशेषितस्य हेतोरव्यापकस्योपाधेः प्रकृतसाध्यव्यापकत्वाभावेनोपाधित्वस्य दुरुपपादत्वात् ।

न च प्रातिभासिकरज्जुसर्पादौ भयकम्पादिकार्यकारित्वदर्शनेन प्रातिभासिकसाधारणस्य तुच्छव्यावृत्तस्य प्रतीतिकालसत्वस्यैवार्थक्रियाकारित्वं प्रति प्रयोजकत्वात् प्रातिभासिक-स्यार्थक्रियाकारितानभ्युपगमे सप्रकारकाबाध्येति हेतुविशेषणवैय्यर्थ्यापत्तेः, कस्मिन्नपि देशे कस्मिन्नपि काले केनापि पुरुषेणाबाध्यत्वं हि परमार्थसत्वं, तदपेक्षया प्रतीतिकालसत्वस्य लघुत्वाच्चेति वाच्यम् । रज्जुसर्पाद्यध्यासस्यैव भयकम्पाद्यर्थक्रियाकारित्वोपगमेनोक्तदिशा क्षत्यनवकाशात् । औतिदिशाऽनैकान्त्यव्युदसनायैव हेतुशरीरे सप्रकारकाबाध्येति विशेषणोपादानात् । वनमालिमिश्रस्तु अबाध्यार्थक्रियाकारित्वापेक्षया सप्रकारकाबाध्यार्थ-क्रियाकारित्वस्य भिन्नत्वेन वैय्यर्थ्याभावादिति समादधे । सत्तात्रैविध्यस्यैवाद्यापि गहन-निविष्टतया प्रातीतिकसत्वसिद्धेर्विश्वमिथ्यात्वसिध्युत्तरकालीनत्वात् ।

ननूपहितस्य पक्षनिक्षिप्ततया निदर्शनत्वायोगेन तादृशस्य च शुद्धस्यार्थक्रियाकारित्वा-भावात्साधनविकलत्वं निदर्शनस्येत्याशङ्क्य निरस्यति । सत्वस्येति । आश्रयत्व-विषयत्वभागिनी निर्विशेषचितिरेव केवलेति त्वदुक्त्या अविद्यां प्रत्याश्रयत्वविषयत्वादि-रूपादिरूपार्थक्रियाकारित्वस्य त्वयोपगतत्वेन साधनवैकल्यस्य शङ्कितुमशक्यत्वादिति भावः । वैय्यात्येनोक्तमनुपगच्छन्तं प्रति व्यतिरेकनिदर्शनमाह ॥ असद्वेति । ननु शब्दो नित्यः शब्दत्वादित्यादाविव सपक्षविपक्षव्यावृत्तत्वेनासाधारण्यं प्रासांक्षीदित्यत आह– असाधारण्यस्येति । यत्प्रकृतसाध्यतदभावोभयं तदेकतरविधेयकानुमित्युत्पादप्रयोजकव्यतिरेक-व्याप्तिविशेषितत्वे सति तादृशापरविधेयकानुमित्युत्पादप्रयोजकव्यतिरेकव्याप्तिराहित्यरूप-विशेषाग्रहदशायामेव असाधारण्यस्य दोषत्वं नोभयानुमितिहेतुभूततादृशव्याप्तिग्रहदशायाम् । प्रकृते च स्थापनासाध्यनिरूपिताया विपक्षबाधकर्तानुगृहीतव्याप्तेरेव गृहीततया नागृह्यमाण-विशेषावस्थेत्याह– विपक्ष इति । हेतुत्वं प्रति सप्रकारकाबाध्यजगदुत्पत्यादिरूपार्थ-क्रियाकारित्वं प्रति । तथा च प्रकृतहेतौ परमार्थसत्वाभावापादकप्रकृतहेत्वभावापादकतर्कानु-गृहीतप्रकृतसाध्यनिरूपितव्याप्तिग्रहान्नासाधारण्यं न वाऽप्रयोजकत्वमित्यर्थः । ननु रजते रजतत्वस्येव जगति मिथ्यात्वस्यानध्यस्ततयाऽसिद्धिरित्याशङ्क्यापहस्तयते । न च पञ्चम इति । आरोपितत्वादिति ।

अत्राद्वैतसिद्धिकारः । आरोपितत्वं प्रातिभासिकत्वं चेत्प्रपञ्चे हेत्वसिद्धिस्तत्सिद्धेः पारमार्थिकत्वसिध्युत्तरकालीनत्वात् । व्यावहारिकत्वं चेत् शुक्तिरूप्यादौ व्यभिचारः । उभयसाधारण्येऽप्ययमेव दोष इति क्षतिमचिचिन्तत् । स स्थूलदृश्वा । ज्ञानप्रामाण्यं तदप्रामाण्याग्राहकयावज्ज्ञानग्राहकसामग्रीत्वं ग्राह्यं न वेति प्रथमविप्रतिपत्तिग्रन्थव्याख्यावसरे अप्रामाण्याग्राहपदेन प्रामाण्याग्राहकत्वेन ज्ञानग्राहकत्वेन भट्टमतसिद्धाया सामग्रीतदन्यत्वं दीधितिकारैर्यथा विवक्षितं तद्वत्प्रकृतेऽपि हेतुवाक्यघटकारोपितपदेन प्रकृतोभयसिद्धसत्यत्वकं यत्तद्भिन्नत्वस्य विवक्षिततया पूर्ववादिमतेऽपि प्रपञ्चोपाधिकभ्रमकालनिश्चितमिथ्यात्वस्य तादृशसत्यत्वकनिरुपाधिकतत्कालनिर्णीतब्रह्मभिन्नतया सामञ्जस्यात् । मिथ्यात्वेनोभय-सम्मतत्वस्यारोपितत्वस्य हेत्वन्तर्गतत्वात् । अस्ति च ब्रह्मजगतोस्तादृशमिथ्यात्वमतो नासिध्यादि, रूप्ये च तादृङ्मिथ्यात्वाभावान्न व्यभिचार इत्यपि व्याकर्तृभिः समाहितम् ।

ननु विश्वस्य कल्पितत्वमुपेयुषां मते कल्पकसद्भावोपगमेन तद्राहित्यमन्यतरासिद्धमित्या- शङ्कां, चिन्मात्रं कल्पकत्वेनाभिप्रेयते तदन्यद्वेति कल्पद्वयमभिसन्दधानक्रमेण पराकुरुते । न च षष्ठ इत्यादि । चिन्मात्रस्येति । कल्पनीययोगिदेहाद्यध्यासाभावादिति हृदयम् । अन्यस्य चेति । विशेषाभावकूटस्य सामान्यभावव्याप्तत्वादिति भावः । तत्कूटं चादृष्टृत्व-कल्पितत्वादिभिः समर्थितमेव अलीके साध्यविनिर्मोकेऽपि हेतुसमवधानादनैकान्त्यसत्तायाः साध्यत्वानुपगमेन वारयति । अत्र चेति । न च सिद्धान्तेऽलीकस्यापि शुक्तिरूप्यकल्पतया कल्पकविशेषिततयाऽनैकान्त्यशङ्कैव नोदेतीति वाच्यम् । विपर्यस्तोपादानभूताज्ञानाश्रयत्वेना-द्वैतवाद्यभिमतो यस्तत्परतया कल्पकशब्दस्य क्षतिविरहात् । स्वप्रत्यासन्नकल्पकरहितत्वस्य हेतुत्वादसतोऽप्रत्यासन्नत्वात्कल्पकशब्दस्य पित्रादिशब्दवत्सम्बन्धविशेषपरतया तद्राहित्यं पक्षे विमतेऽप्यस्तीत्यपि समादधति । अत्राद्वैतसिद्धिकारः । शुद्धस्याप्यनाद्यविद्योपाधानवशेन कल्पकत्वोपपत्तेः । कल्पकत्वं हि कल्पनां प्रत्याश्रयत्वं, विषयत्वं भासकत्वं वा । तच्च सर्वकल्पनासमसत्ताकं शुद्धत्वाव्याघातकम् । तदुक्तं सङ्क्षेपशरीरके

आश्रयत्वविषयत्वभागिनी निर्विशेषचितिरेव केवला ।

पूर्वसिद्धतमसोहि पश्चिमो नाश्रयो भवति नापि गोचरः ॥ इति ।

अस्तु वोपहितस्य कल्पकत्वम् । न चानवस्था । अविद्याध्यासस्याध्यासान्तरा-नपेक्षत्वात् । स्वपरसाधारणनिर्वाहकत्वोपपत्तेः । अकल्पितस्य कल्पकत्वादर्शनाच्च । कल्पितप्रतिबिम्बविशिष्टादर्शादेरादर्शान्तरे प्रतिबिम्बकल्पकत्वदर्शनाच्च । बिम्बस्य द्वितीया-दर्शसन्मुखत्वाभावेन तत्रकल्पकत्वायोगादित्याह । तद्व्याचक्षाणाः प्रत्या(च)चक्षिरे । अविद्योपधानेन शुद्धत्वाहानेः कल्पितेनापि संसारेणास्पृष्टचैतन्याभावे नित्यमुक्तश्रुते-र्निर्विषयत्वापत्तेः । तात्विकसंसारास्पृष्टत्वस्य जीवादिसाधारणत्वात् कल्पनां प्रत्याश्रय-त्वस्यास्यास्मिन्कल्पनेति पदार्थद्वयसापेक्षत्वाद् अयमस्य विषयोऽयमस्य भासक इत्यनुभवेन विषयत्वभासकत्वरूपकल्पकत्वस्यापि द्वयसापेक्षत्वात् । नाप्युपहितस्य कल्पकत्वेऽनव-स्थाद्यभावः । अविद्याध्यासस्य परनिर्वाहकतया निर्बीजत्वात् । प्रपञ्चसत्यत्वेनैवोपपत्तेश्च । आदर्शान्तरे प्रतिबिम्बस्य कल्पितत्वस्य वक्ष्यमाणत्वाच्च साधूक्तं कल्पकं विना कल्पना-योगादिति


किञ्च, विमतं न सद्विलक्षणम्, असद्विलक्षणत्वात्, आत्मवत्

न्यायामृतं

किञ्च, विमतं न सद्विलक्षणम्, असद्विलक्षणत्वात्, आत्मवत् । न च शुक्ति-रूप्ये व्यभिचारः । तस्यासद्विलक्षणत्वेन तद्विरुद्धसद्विलक्षणत्वायोगात् । विमतं न चैतन्याज्ञानकार्यं, न चैतन्याज्ञानकार्यधीविषयो वा, न चैतन्याज्ञानकार्यसत्त्ववद्वा, चैतन्यज्ञानबाध्यं वा, चैतन्यज्ञानाबाध्यसत्त्ववद्वा, तस्मिन्नपरोक्षेऽपि अनिषेध्यत्वेन साक्षाद्भासमानत्वाद्, यदेवं तदेवम्, यथा पटेऽपरोक्षेऽप्युक्तभानवान् घटो न पटाज्ञानकार्यादिः । चैतन्यं चाधिष्ठानतया सुखादिसाक्षित्वेन चेदानीमप्यपरोक्षमिति नासिद्धिः । शङ्खत्वादावपरोक्षेऽपि भासमानं पीतत्वादिकं न तदज्ञानकार्यं, किन्तु श्वेतत्वाज्ञानकार्यादिकमिति न व्यभिचारः । अत्राप्यापरोक्ष्यस्याज्ञानविरोधित्वात् । सति तस्मिन्नज्ञानाङ्गीकारे व्याघातः । एवमुत्तरत्रापि विपक्षे बाधकमुन्नेयम् ।

विमतं नात्मन्यध्यस्तम्, तत्तत्त्वसाक्षात्कारवत्प्रवृत्तिविषयत्वाद्, यदेवं तदेवं, यथा पटसाक्षात्कारवत्प्रवृत्तिविषयो घटो न तत्राध्यस्तः । न चासिद्धिः । ईशजीवन्मुक्तयोरात्मसाक्षात्कारवतोरपि जगद्रक्षणभिक्षाटनशिष्यबोधनादौ प्रवृत्तेः । शङ्खेऽध्यस्तमपि पीतत्वं न शङ्खतत्त्वसाक्षात्कारवत्प्रवृत्तिविषय इति न व्यभिचारः । विमतं नेश्वरमायाकल्पितम्, तं प्रत्यपरोक्षत्वात्, यदेवं तदेवं, यथा चैत्रं प्रत्यपरोक्षो घटो न चैत्रमायाकल्पितः । विमतं न जीवकल्पितम्, तस्मिन्सुषुप्तेऽप्यवस्थितत्वात्, आत्मवत् । न चाऽसिद्धिः । प्रत्यभिज्ञानात् । तस्यात्यन्ताप्रामाण्ये च क्षणिक-वादापातात् । बाधकाभावाच्च । अदृष्टादेरप्यभावेन पुनरुद्बोधायोगाच्च ।

सामान्येनात्मसत्यत्वे, मिथ्यात्वं नात्मान्यसर्ववृत्ति, मिथ्यामात्रवृत्तित्वात्, शुक्तिरूप्यत्ववत् । आत्मा परमार्थसदन्यः, परमार्थसद्भावान्यो वा, पदार्थत्वात्, अनात्मवत् । आत्मा यावत्स्वरूपमनुवर्तमानात्मवान्, यावत्स्व(स्व)रूपमनुवर्तमान भावरूपानात्मवान् वा, स्वज्ञानाबाध्यानात्मवान् वा, स्वज्ञानाबाध्यभावरूपा-नात्मवान् वा, पदार्थत्वाद्भावत्वाद्वा घटवत् । विमता बन्धनिवृत्तिः, स्वप्रतियोगि- विषयविषयकज्ञानाबाध्यानात्मसमानकालीना, उक्तज्ञानाबाध्यभावरूपानात्मसमान-कालीना वा, बन्धनिवृत्तित्वात्, निगडबन्धनिवृत्तिवदित्यादीनि द्रष्टव्यानि ।

विशिष्यानात्मसत्यत्वे तु, आत्मधीर् न स्वविषयविषयकधीबाध्या, धीत्वात्, शुक्तिधीवत् । आत्माधिष्ठानकभ्रमहेतुर् न स्वकार्यभ्रमाधिष्ठानज्ञानबाध्यः, भ्रमक (हेतु)त्वाद्, यदेवं तदेवं, यथा शुक्त्याधिष्ठानकभ्रमहेतुः काचादिः । शुक्त्यज्ञानमपि पक्षतुल्यम् । ब्रह्मान्यदनादि परमार्थसद्, अनादित्वाद् ब्रह्मवत् । दोषजन्यज्ञानात्पूर्वं सतोऽप्यनादेरनाद्यध्यस्तत्वे ब्रह्मापि अनाद्यनन्ताध्यस्तं स्यात् । ब्रह्म कालाद्यसम्बद्धं नावतिष्ठते, पदार्थत्वात्, घटवत् । ब्रह्मान्यद्वेदैकगम्यं धर्मादि, परमार्थसत्, श्रुति-तात्पर्यविषयत्वात्, ब्रह्मवत् । साक्षिवेद्यं सुखादि, परमार्थसद्, अनिषेध्यत्वेन दोषा-जन्यज्ञानं प्रति साक्षाद्विषयत्वाद्, आत्मवत् । विमतं परमार्थसत्, स्वविषयक-साक्षात्कारात्पूर्वभावित्वाद् आत्मवत् । न चाऽसिद्धिः, त्वन्मतेऽपि प्रतिकर्म-व्यवस्थार्थं स्वविषयसाक्षात्कारात्पूर्वं घटादेर्भावात् । अन्योऽन्याभा (वातिरि) वव्यतिरिक्तैतद्धटसमानाधिकरणैतद्धटप्रतियोगिकाभावत्वम्, एतद्धटसमानकालीना-वृत्ति, अन्योन्याभावव्यतिरिक्तैतद्धटसमानाधिकरणैतद्धटप्रतियोगिकाभावमात्रवृत्ति-त्वात्, एतद्धटप्रतियोगिकप्रागभावत्ववदित्याद्यूह्यम् ।

व्यधिकरणधर्मावच्छिन्नाभावपक्षे व्यधिकरणधर्मानवच्छिन्नेति विशेषणीयम् । अनेन च स्वसमानाधिकरणः स्वसमानकालीनो ऽन्योन्याभावव्यतिरिक्तो योऽभाव तदप्रतियोगित्वरूपसत्त्वसिद्धिः । अत्र चानुकूलतर्का वक्ष्यन्त इति नोपाध्या-भाससाम्यादिशङ्का । तथा च–

असत्प्रातीतिकान्यत्वात् प्रमाणविषयत्वतः ।

अर्थक्रियाकारितादेर्विश्वं सत्यमिति स्थितम् ॥

अद्वैतसिद्धिः

एवं च – विमतं, नेश्वरमायाकल्पितं, तं प्रत्यपरोक्षत्वात्, यदेवं तदेवं, यथा चैत्रं प्रत्य-परोक्षो घटो न चैत्रमायाकल्पितः । विमतं, न जीवकल्पितं, तस्मिन् सुषुप्तेऽप्यवस्थितत्वात्, आत्मवत् । न चासिद्धिः, प्रत्यभिज्ञानात् । अदृष्टादेरभावे पुनरुत्थानायोगाच्च – इत्यपि निरस्तम् । आद्ये एैन्द्रजालिकं प्रत्यपरोक्षे तन्मायाकल्पिते व्यभिचारात् । मायाविद्ययोरभेदेन देहात्मैक्यभ्रमे व्यभिचाराच्च । द्वितीये त्वसिद्धेः । न च प्रत्यभिज्ञया प्रपञ्चस्य स्थायित्व-सिद्धेर्नासिद्धिः । सुषुप्तिकालस्थायित्वासाधकत्वस्य प्रत्यभिज्ञाया दृष्टिसृष्टिसमर्थने वक्ष्यमाण-त्वात्, अदृष्टादेः कारणात्मनाऽवस्थितत्वेन पुनरुत्थानसम्भवाच्च ॥

मिथ्यात्वम् आत्मान्यसर्ववृत्ति न, मिथ्यामात्रवृत्तित्वात्, शुक्तिरूप्यत्ववद् इत्यपि न । मिथ्यात्वन्यूनवृत्तित्वस्योपाधित्वात् । मिथ्यात्वं च सदसद्विलक्षणत्वं, सद्विलक्षणत्वमात्रं वा । आद्ये सिद्धसाधनम् । तस्यात्मान्यसर्वमध्यपतितासद्वृत्तित्वाभावात् । द्वितीये तु हेतौ मिथ्या-पदस्य सदसद्वैलक्षण्यपरत्वे स्वरूपासिद्धिः । सद्वैलक्षण्यरूपे पक्षे तुच्छसाधारणे सद-सद्विलक्षणेतरावृत्तित्वरूपहेत्वभावात् । तस्यापि सद्वैलक्षण्यमात्रपरत्वे सन्दिग्धानैकान्तिकता । साध्याभाववत्यात्मभेदे हेतुसन्देहात् । अप्रयोजकत्वादिकं च पूर्वोक्तं दूषणमनुवर्तत एव ।

आत्मा, परमार्थसदन्यः, परमार्थत्वादनात्मवत् । न च कल्पितात्मप्रतियोगिकभेदे-नार्थान्तरम् । कल्पितमिथ्यात्वेन मिथ्यात्वानुमानेऽपि सिद्धसाधनापत्तेरित्यपि न । व्यावहारिकपदार्थमादाय सिद्धसाधने अतिप्रसङ्गाभावात् । अनानन्दत्वस्योपाधित्वाच्च ।

अथ आत्मा, यावत्स्वरूपमनुवर्तमानानात्मवान्, यावत्स्वरूपमनुवर्तमानभावरूपा-नात्मवान् वा, स्वज्ञानाबाध्यानात्मवान्, स्वज्ञानाबाध्यभावरूपानात्मवान्वा, पदार्थत्वाद्, भावत्वाद्वा घटादिवद् इति । अत्र पञ्चमप्रकाराविद्यानिवृत्त्यभ्युपगमपक्षे सिद्धसाधनपरिहाराय साध्ययोर्भावरूपपदमनात्मविशेषणमित्यपि मन्दम् । ‘यावत्स्वरूपं’ इत्यस्य यत्किञ्चि-त्स्वरूपपरत्वे सिद्धसाधनात् । आत्मस्वरूपपरत्वे साध्याप्रसिद्धेः । न हि यावदात्मस्वरूप-मनुवर्तमानोऽनात्मा प्रसिद्धोऽस्ति । तथा सत्यनुमानवैयर्थ्यात् । अथ– स्वरूपपदस्य समभिव्याहृतपरत्वाद् व्याप्तिग्रहदशायां दृष्टान्तस्वरूपं पक्षधर्मताग्रहदशायां चात्मस्वरूपमेव प्राप्यत इति न साध्याप्रसिद्धिर्न वा सिद्धसाधनमिति – चेन्न । शब्दस्वभावोपन्यासस्यानुमाने अनुपयोगात् । स्वज्ञानाबाध्येत्यत्र स्वशब्देऽपि तुल्योऽयं दोषः ।

अत एव – विमता, बन्धनिवृत्तिः, स्वप्रतियोगिविषयविषयकज्ञानाबाध्यानात्म समकालीना, उक्तज्ञानाबाध्यभावरूपानात्मसमानकालीना वा, बन्धनिवृत्तित्वात्; निगडबन्ध-निवृत्तिवदित्यपि – निरस्तम्; पक्षदृष्टान्तयोर्बन्धपदार्थस्यैकस्याभावेन स्वरूपासिद्धिसाधन-वैकल्यान्यतरापातात् । स्वपदे चोक्तः साध्याप्रसिद्धिदोषः । हेतौ च बन्धेतिविशेषणवैयर्थ्याद् व्याप्यत्वासिद्धिः । अप्रयोजकत्वं च कस्याश्चिन्निवृत्तेरनात्मसमानकालीनत्वदर्शनं निवृत्ति-मात्रस्य तथात्वसाधने; संसारकालीनाया दुःखनिवृत्तेः समानाधिकरणदुःखप्रागभावकालीनत्व-दर्शनमिव दुःखनिवृत्तिमात्रस्य तथात्वसाधने ।

नन्वेवं सामान्यानुमानेषु निराकृतेषु विशिष्यानुमानं भविष्यति–

१. आत्मधीः, न स्वविषयविषयकधीबाध्या, धीत्वात् शुक्तिधीवत् – इत्यपि बाल-भाषितम्; स्वविरोध्यविषयक (प्रत्ययविषयक) त्वस्योपाधित्वात् । अन्धोऽयं रूपज्ञानवा-नित्यन्धस्य रूपविषयतया कल्पितं यद् ज्ञानं तस्य रूपं नान्धगम्यमिति स्वविषयविषयक-प्रत्ययबाध्यत्वदर्शनेन व्यभिचारात् । कल्पितत्वात्तत्र तद्बाधने प्रकृतेऽपि वृत्तेः कल्पितत्वं समम् । धीपदेन चैतन्यमात्रविवक्षायां तु सिद्धसाधनमेव ।

२. आत्माधिष्ठानकभ्रमहेतुः, न स्वकार्यभ्रमाधिष्ठानज्ञानबाध्यः, भ्रमहेतुत्वाद्, यदेवं तदेवम्, यथा शुक्त्यधिष्ठानकभ्रमहेतुकाचादि’ इत्यपि न साधु । व्यावृत्ताकारा-धिष्ठानज्ञानानवधित्वस्य स्वकार्यभ्रमाधिष्ठानानारोपितत्वस्य वा उपाधित्वात् । दूरादिदोषा-दुपलादौ यत्र चाकचिक्यकल्पना तेन चाकचिक्यदोषेण शुक्ताविव रजतकल्पना, तत्राधिष्ठान ज्ञानेन चाकचिक्यरूप्ययोरुभयोरपि बाधदर्शनेन व्यभिचाराच्च ।

३. ब्रह्मान्यदनादि, परमार्थसत्, अनादित्वात्, ब्रह्मवदित्यपि न भद्रम् । तत्र ध्वंसा-प्रतियोगित्वस्योपाधित्वात् ।

४. ब्रह्म, देशकालसम्बन्धं विना नावतिष्ठते, पदार्थत्वात्, घटवदित्यपि न । काल-सम्बन्धं विना नावतिष्ठत इत्यस्य यदा ब्रह्म तदाऽवश्यं कालसम्बन्ध इत्येवंरूपा व्याप्तिरर्थः । तथा च सिद्धसाधनम् । न हि यस्मिन् काले ब्रह्म तस्मिन् काले ब्रह्मणः कालसम्बन्धो नास्ति । एवं यत्रात्मा तत्र कालसम्बन्ध इति दैशिकव्याप्तावपि सिद्धसाधनम् । न हि देशकालासम्बन्धः कदाप्यस्ति । परममुक्तौ तु न देशो न काल इति सुस्थिरं सिद्धसाधनम् ।

५. ब्रह्मान्यद्वेदैकगम्यं धर्मादि, परमार्थसत्, श्रुतितात्पर्यविषयत्वात्, ब्रह्मवदित्यपि न साधु । पारमार्थिकत्वेन श्रुतितात्पर्यविषयत्वस्योपाधित्वात् ।

६. साक्षिवेद्यं सुखादि, परमार्थसत्, अनिषेध्यत्वेन दोषाजन्यज्ञानं प्रति साक्षाद्विषय-त्वाद्, आत्मवदित्यपि न । शुक्तिरूप्यादिषु व्यभिचारात् । तेषां दोषजन्यवृत्तिविषयत्वेऽपि दोषाजन्यसाक्षिविषयत्वात् । शुद्धस्य वृत्तिविषयत्वानभ्युपगमे दृष्टान्तस्य साधनविकलत्वाच्च । दोषजन्यज्ञानाविषयत्वविवक्षायां चाऽसिद्धो हेतुः । साक्ष्यवच्छेदिकाया अविद्यावृत्तेर्दोष-जन्यत्वात् । असद्गोचरशाब्दज्ञानात्मकविकल्पस्य दोषाजन्यत्वेनासति व्यभिचाराच्च । आत्मनो वृत्तिविषयत्वाभ्युपगमे दोषजन्यदेहात्मैक्य भ्रमविषयत्वात् साधनविकलो दृष्टान्तः । तदनभ्युपगमे तु अविषयत्वमात्रस्यैव परमार्थसत्त्वसाधकत्वोपपत्तौ दोषजन्यज्ञानेति विशेषण-वैयर्थ्याद्व्याप्यत्वासिद्धिः । तावन्मात्रं च पक्षे स्वरूपासिद्धमित्यन्यत्र विस्तरः ।

७. विमतं, परमार्थसत्, स्वविषयज्ञानात्पूर्वभावित्वात्, आत्मवदित्यपि न । दृष्टसृष्टिपक्षे असिद्धेः । विषमव्याप्तस्यानादित्वस्योपाधित्वाच्च ।

८. अन्योन्याभावातिरिक्तैतद्घटसमानाधिकरणैतद्घटप्रतियोगिकाभावत्वं, एतद्घट समानकालीनवृत्ति, अन्योन्याभावातिरिक्तैतद्घटसमानाधिकरणैतद्घटप्रतियोगिकाभावमात्र वृत्तित्वात्, एतद्घटप्रागभावत्ववत् । व्यधिकरणधर्मावच्छिन्नाभावपक्षे व्यधिकरणधर्मा-नवच्छिन्नेत्यपि विशेषणीयम् । अत्र च स्वसमानाधिकरणः स्वसमानकालीनो योऽत्यन्ता-भावस्तदप्रतियोगित्वलक्षणसत्त्वसिद्धिरित्यपि न साधु । साधनावच्छिन्नसाध्यव्यापकस्यैतद् घटप्रतियोगिकजन्यजनकान्यतरमात्रवृत्तित्वस्योपाधित्वात् । न च– पक्षीभूतधर्मस्यात्यन्ता-भाववृत्तित्वसन्देहे साधनाव्यापकत्वसन्देह इति– वाच्यम् । विपक्षबाधकतर्कानवतारदशायां सन्दिग्धोपाधेरपि दूषणत्वसम्भवात् । घटात्यन्ताभावत्वे च व्याभिचारात् । संयोगसम्बन्धेन घटवत्यपि भूतले समवायसम्बन्धेन घटात्यन्ताभावसत्त्वात् साध्याभाववति तत्र हेतोर्वृत्ते-रित्यलमतिविस्तरेण ।

न्यायामृततरङ्गिणी

तस्येति ॥ तथा च रूप्ये हेतुसत्त्वे साध्यस्यापि सत्त्वापातान्न व्यभिचार इति भावः । ननु न रूप्ये साध्यस्य सत्त्वस्यापातः । तथात्वे हि सर्वजनसिद्धबाधविरोधात् । गजादौ गोवैलक्षण्येऽपि तद्विरुद्धाश्ववैलक्षण्ययोगवत्सद्वैलक्षण्येऽप्यसद्वैलक्षण्ययोगोपपत्तिरिति चेत् । मैवम् । रूप्ये बाधोपपत्त्यर्थमसत्वस्यैवाङ्गीकर्तुमुचितत्वात् । न च तथात्वे प्रतीत्यनुपपत्तिः । प्रतीत्युपपत्त्यर्थं सत्त्वस्याप्यङ्गीकरणीयत्वात् । निषेधसमुच्चयवद्धिधिसमुच्चयस्याप्यनिर्वचनीय-वादेऽविरोधोपपत्तेः । सत्त्वासत्त्वयोः परस्परात्यन्ताभावरूपत्वस्य मिथ्यात्वनिरुक्तिभङ्गे उक्तत्वेन गजादौ गोत्वतदभाववैलक्षण्यवत्सामानाधिकरण्यानुपपत्तेश्चेति ॥ तस्मिन्न-परोक्षेऽपीति ॥

ननु सामान्याकारेणापरोक्षेऽपि शुक्त्यादौ रजतादेरनिषेध्यत्वेन साक्षाद्भासमानतया तत्र व्यभिचारः । अथ व्यावृत्ताकारेण यस्मिन् भासमाने यदनिषेध्यत्वेन साक्षाद्भासते न तत्तदज्ञानकार्यादीति व्याप्तिरिति मन्यसे तदाऽसिद्धिः । न हि चैतन्यमिदानीं भ्रम-निवर्तकत्वाभिमतव्यावृत्ताकारापरोक्षप्रतीतिविषयः । तथा सत्यधिष्ठानमेव न स्यात् । यदा तु वेदान्तवाक्यजन्यवृत्तौ व्यावृत्ताकारतयाऽपरोक्षं तदा अनिषेध्यत्वेन प्रपञ्चापरोक्ष्यं क्वापि नास्ति । अतः प्रमाणजन्यासाधारणाकारज्ञानस्यैवाज्ञानविरोधित्वान्नापरोक्षज्ञानमात्रेणा-ज्ञानपराहतिप्रसङ्ग इति ॥

अत्रोच्यते ॥ भ्रमनिवर्तकाभिमताधिष्ठानापरोक्षज्ञानान्यूनविषयकाधिष्ठानापरोक्ष-ज्ञानस्यात्रापरोक्षपदेन विवक्षितत्वात् । तव मते च चैतन्यमात्रस्यैव भ्रमनिवर्तक-ज्ञानविषयत्वात् । तावन्मात्रस्य चेदानीमपि स्फुरणात् । व्यावृत्तासाधारणाकारस्य स्वरूपातिरिक्तस्य वेदान्तजन्यवृत्तावपि न विषयता । निष्प्रकारकत्वहान्यापत्तेरिति । यत्तु अज्ञानपदेन ज्ञानाभावोक्तौ सिद्धसाधनम् । अनिर्वचनीयाज्ञानोक्तौ च तस्य खपुष्पाय-माणत्वेन प्रतियोगित्वासिद्धिरिति । तदसत् । पराभ्युपगममात्रेणैव प्रतियोगिप्रसिद्धि-सम्भवात् । तदुक्तं मतद्वयेऽप्यप्रामाणिकस्यापि निषेधप्रतियोगित्वादिति ।

शङ्खतत्वेति ॥ श्वैत्येत्यर्थः । ननु प्रतिबिम्बे व्यभिचारः । स हि मुखैक्य-साक्षात्कारवत् प्रवृत्तिविषये मुखेऽध्यस्त इति चेन्न । न हि मुखैक्यसाक्षात्कारवतः प्रवृत्तिविषयः प्रतिबिम्बः । किन्तु तद्भेदज्ञानवत एव । अत एव बालानां तत्र बालान्तरधीः । न च तद्व्यतिरेकेणोपलभ्यमानत्वमुपाधिः । व्यतिरेकेणेत्यस्य भेदेनेति यदि तदोपाधेर्न पक्षाद्व्यावृत्तिः । शुद्धं ब्रह्म न जानामि घटस्य स्फुरणमित्यादि भेदेनैव प्रपञ्चोपलम्भात् । अथ विनेत्यर्थस्तदा रूपादिहीनेनाऽसंसारमज्ञानावृतेन चैतन्येन विनापि चाक्षुषादिज्ञाने घटादेरुपलभ्यमानत्वेनोपाधेर्न पक्षाद्व्यावृत्तिरिति ॥ तं प्रतीति ॥ नन्वैन्द्रजालिकं प्रत्यपरोक्षे तन्मायाकल्पिते व्यभिचार इति चेन्न । मायाविनं प्रति मायिकस्यापरोक्षत्वाभावात् । तदुक्तम् । ‘‘न च मायाविना माया दृश्यत’’ इति ॥ न च मायाऽविद्ययोरभेदाद्देहात्मैक्ये व्यभिचार इति वाच्यम् । तयोर्भेदपक्षे अस्योक्तत्वात् । अत एव न रूप्येऽपि व्यभिचारः ॥ प्रत्यभिज्ञानादिति ॥ न च सुषुप्तिकालस्थायित्वा-साधकत्वस्य प्रत्यभिज्ञाया दृष्टिसृष्टिसमर्थने वक्ष्यमाणत्वादसिद्धिरिति वाच्यम् । तत्रैव निरसिष्यमाणत्वात् ॥ अदृष्टादेरिति ॥ न चादृष्टादेः कारणात्मनाऽवस्थानात्पुनरुत्थान-सम्भव इति वाच्यम् । तस्याप्यदृष्टसमानयोगक्षेमत्वात् ॥ मिथ्यामात्रेति ॥ प्रतियोगित्वादौ व्यभिचारवारणाय मात्रेति । न च मिथ्यात्वन्यूनवृत्तित्वमुपाधिः । प्रमेयत्वादौ साध्याव्यापकत्वात् । तस्यात्मान्यसर्वान्तःपातिन्यसति वृत्त्यभावेन साध्यवतो मिथ्यात्वन्यूनवृत्तित्वाभावात् ।

ननु पक्षीकृतं मिथ्यात्वं सदसद्विलक्षणत्वं वा सद्विलक्षणत्वमात्रं वा । आद्ये सिद्धासाधनम् । तस्यात्मान्यसर्वमध्यपतितासद्वृत्तित्वाभावात् । द्वितीये तु हेतौ मिथ्यापदस्य सदसद्वैलक्षण्यमात्रपरत्वे सन्दिग्धानैकान्तिकता । साध्याभाववत्यात्मभेदे हेतुसन्देहाद-प्रयोजकत्वाच्चेति । अत्र ब्रूमः । आद्यपक्षे दोषाभावः । साध्यगतसर्वशब्दस्य सर्वनामतया सद्विलक्षणसर्वपरत्वात् । अनुकूलतर्कस्योक्तत्वान्नाप्रयोजकत्वादिकमिति । परमार्थसदन्य इति ॥ परमार्थसतः सकाशादन्य इत्यर्थः । भेदस्य बाधेन पक्षधर्मताबलात्स्वेतरपरमार्थ-सद्भेदसिद्धिः । न च कल्पितेनात्मप्रतियोगिकभेदेनार्थान्तरम् ॥ कल्पिताकल्पितयोरेक-सामान्याभावेन तेन समं व्याप्तेरग्रहात् । अन्यथा मिथ्यात्वानुमानेऽपि कल्पितमिथ्यात्व-मादायार्थान्तरं स्यात् सिद्धसाधनं वा । न च व्यावहारिकपदार्थमादाय सिद्धसाधनेऽति-प्रसङ्गाभाव इति वाच्यम् । आत्मनि स्वप्रतियोगिकस्य व्यावहारिकभेदस्य तव मतेऽप्य-भावात् । आत्मान्यस्य परमार्थसतोऽभावात् । परमार्थसदन्तराभावेन साध्यसिध्द्यभावा-पत्तेः । न चानानन्दत्वमुपाधिः । परमार्थसदन्यत्वाभावं विना आनन्दत्वस्योपाध्यभावस्य व्याघाताद्यभावेनोपाधेरप्रयोजकत्वात् । भावान्य इति ॥ अभावस्य द्वितीयस्य परमार्थत्वपक्षे सिद्धसाधनतावारणाय भावेति । एवमग्रेऽपि ॥

यावत्स्वेति ॥ ननु यावत्स्वरूपमित्यत्र स्वशब्दस्य यत्किञ्चित्स्वरूपपरत्वे सिद्ध-साधनम् । आत्मस्वरूपपरत्वे साध्याप्रसिद्धिः । न हि यावदात्मस्वरूपमनुवर्तमानोऽनात्मा प्रसिद्धोऽस्ति । तथा सत्यनुमानवैयर्थ्यादिति चेन्मैवम् । स्वशब्दस्य समभिव्याहृतपरत्वा-द्व्याप्तिग्रहदशायां दृष्टान्तस्वरूपपरत्वम् । पक्षधर्मताग्रहदशायां चात्मस्वरूपपरत्वमेवेति न साध्याप्रसिद्धिर्न वा सिद्धसाधनमिति । न चानुमाने शब्दस्वभावोपन्यासानुपयोग इति वाच्यम् । आत्मा यावत्स्वरूपमनुवर्तमानेति वाक्ये यतो विशेषादाकाङ्क्षोत्थापने सति स्वपदेन आत्मस्वरूपमेव बोध्यते न त्वन्यत् । स च विशेषः पक्षधर्मताया विशेषसाधन-सामर्थ्ये उपयुज्यत एव । यदेव हि विशेषबोधने प्रतिज्ञायामाकाङ्क्षाविशेषोत्थापकतया सहकारि तदेव तत्रानुमाने पक्षधर्मतायां तथा । अत एव प्रतिज्ञायामाकाङ्क्षालभ्योऽर्थः पक्षधर्मताविषय इत्युच्यत इति न कश्चिद्दोषः । अविद्यानुमाने स्वप्रागभावव्यतिरिक्त-स्वविषयावरेणेत्यादि बहुस्वशब्दकसाध्यस्य त्वदीयैर्विवरणेऽप्युक्तत्वात् । स्वप्रति-योगीति ॥ स्वशब्दनिर्दिष्टाया बन्धनिवृत्तेः प्रतियोगी बन्धस्तस्य विषय आत्मा तद्विषयकं यज्ज्ञानम् आत्मतत्वसाक्षात्कारस् तेनाबाध्यो योऽनात्मा तेन सह वर्तत इत्यर्थः ॥ निगडेति ॥ चोरादिविषयज्ञानाबाध्यानात्मसमानकालीना निगडबन्धनिवृत्तिर्भवतीत्यर्थः ।

ननु पक्षदृष्टान्तयोर्बन्धपदार्थस्यैकस्याभावेन स्वरूपासिद्धिसाधनवैकल्यान्यतरापात इति चेन्मैवम् । न हि निगडादावपि बन्धशब्दप्रयोगेण तन्निमित्तस्याविद्यायामिव तत्रापि वाच्यत्वात् । अप्रकाशितार्थप्रकाशकत्वादित्यविद्यानुमाने त्वदीयैरपि ज्ञानप्रभयोः प्रकाशत्वस्योक्तेश्च । हेतौ च बन्धपदं निवृत्तिविशेषलाभाय । अतोऽखण्डाभावतुल्यतया न वैयर्थ्यम् । अविवक्षितार्था वा । नन्वप्रयोजकमिदं कस्याश्चिन्निवृत्तेरनात्मसमानकालीनत्व-दर्शनं निवृत्तिमात्रस्य तथात्वसाधने संसारकालीनाया दुःखनिवृत्तेः समानाधिकरणदुःख-प्रागभावसमानकालीनदर्शनमिव दुःखनिवृत्तिमात्रस्य तथात्वसाधन इति चेन् मैवम् । निवृत्तेः स्वकारणानात्मसहभावं विना तज्जन्यत्वासिद्धेरित्यादितर्कानुगृहीतत्वात् । उक्त-निवृत्तेस्तु नानुग्राहकस्तर्कोऽस्तीति विशेषात् ॥ न स्वविषयेति ॥ क्षणिकत्वादि-रूपेणात्मधियोऽक्षणिकत्वादिधीबाध्यत्वाद् बाधवारणाय स्वविषयेति विशेषणम् । यत्तु धीपदेन चैतन्यमात्रविवक्षायां सिद्धसाधनमिति, तदसत् । चैतन्यमात्रस्यात्मधीत्वासम्भवेन तच्छङ्काया एवानुदयात् ॥ धीत्वादिति ॥

ननु अन्धोऽयं रूपज्ञानवानिति अन्धकस्य रूपविषयतया कल्पितं यज्ज्ञानं तस्य रूपं नान्धगम्यमिति स्वविषयविषयकप्रत्ययबाध्यत्वदर्शनेन व्यभिचारः । कल्पितत्वात्तत्र तद्बाधने प्रकृतेऽपि वृत्तेः कल्पितत्वं सममिति चेन्मैवम् । रूपविषयतया कल्पितस्य ज्ञानस्य रूपं नान्धगम्यमिति ज्ञानेन समानविषयत्वाभावात् ॥ आत्माधिष्ठानकेति ॥ एतच्च शुक्त्यधिष्ठानकभ्रमहेतुचाकचक्यादेः पक्षत्वे सिद्धसाधनवारणाय ॥ न स्वकार्येति ॥ शुक्तिकायां रूप्यभ्रमहेतोश्चाकचक्यस्य घटादौ बाध्यत्वदर्शनाद्व्यभिचारवारणाय साध्ये स्वकार्येति विशेषणम् । शुक्त्यज्ञानमपीति ॥ तथा च तत्र व्यभिचारो न दोष इत्यर्थः । ननु दूरादिदोषेणोपलादौ यत्र चाकचक्यकल्पना तेन चाकचक्यदोषेण शुक्ताविव रजतकल्पना तत्राधिष्ठानज्ञानेन चाकचक्यरूप्ययोरुभयोरपि बाधदर्शनाद्व्यभिचार इति चेन्मैवम् । आरोपितस्य सद्विलक्षणत्वेनाहेतुत्वात् । सत्यपि चाकचक्यादौ तज्ज्ञानं विनाऽऽरोपादर्शनेन तज्ज्ञानस्यैव हेतुत्वात् । तत्र साध्यस्यापि सत्त्वात् । न च व्यावृत्ताकाराधिष्ठाज्ञानान्याबाध्यत्वं वा स्वकार्यभ्रमाधिष्ठानानारोपितत्वं वोपाधिरिति वाच्यम् । व्यावृत्ताकारेत्यस्य पक्षमात्रव्यावर्तकत्वेनाद्यस्योपाधेः पक्षेतरत्वात् । द्वितीये साधनव्यापकत्वम् । तत्रारोपितस्य तदधिष्ठानभ्रमाहेतुत्वेन साधनाव्याप्तिसंदेहस्याप्यभावात् । अप्रयोजकत्वाच्च ॥ ब्रह्मान्यदनादीति ॥ अत्र पक्षे हेतौ चानादिपदमनादिभावपरम् । अत एव ध्वंसाप्रतियोगित्वं नोपाधिः । पक्षादव्यावृत्तेः । कालाद्यसम्बन्धं नावतिष्ठत इति ॥

ननु कालसम्बन्धं विना नावतिष्ठत इत्यस्य यदा ब्रह्म तदावश्यं कालसम्बन्ध इत्येवंरूपा व्याप्तिरित्यर्थः । तथा च सिद्धसाधनम् । न हि यस्मिन्काले ब्रह्म तस्मिन्काले ब्रह्मणः कालसम्बन्धो नास्ति । एवं यत्रात्मा तत्र कालसम्बन्ध इति दैशिकव्याप्तावपि सिद्धसाधनम् । न हि देशः कालासम्बद्धः कदाप्यस्ति । परममुक्तौ तु न देशो न वा काल इति चेन्मैवम् । कालासंसृष्टसत्ताराहित्यस्य साध्यार्थत्वे सिद्धसाधनानवकाशात् । न हि परमते मुक्तौ ब्रह्मणः सत्तायाः कालसंसर्गोऽस्ति ॥ वेदैकगम्यमिति ॥ न च पारमार्थिकत्वेन श्रुतितात्पर्यविषयत्वमुपाधिः । ईश्वरानुमाने शरीरजन्यत्वादिवत्साधन-विशेषितत्वात् । धर्मादावपरमार्थत्वेन श्रुतितात्पर्याविषये परमार्थत्वेनैव श्रुतितात्पर्य-विषयत्वस्य वाच्यतयोपाधेः पक्षादव्यावृत्तेश्च । अप्रयोजकत्वाच्च ॥ दोषाजन्येति ॥ शुक्तिरूप्यादीनां दोषजन्यज्ञानविषयाणामपि दोषाजन्यसाक्षिरूपज्ञानं प्रत्यविषयत्वान्न तेषु व्यभिचारः । न च पक्षे हेत्वसिद्धिः । साक्ष्यवच्छेदकाविद्यावृत्तिरूपदोषस्योभय-सिद्धत्वाभावेन विशिष्टाभावरूपहेतोः पक्षे सत्वाच्च । साक्षाद्विशेषणत्वेनेत्यपि बोध्यम् । तेन क्षणिकत्वादिप्रकारकदोषजन्यज्ञानं प्रति विशेष्यत्वादात्मनि न साधनवैकल्यम् । साक्षात्पदेन संसृष्टतया देहात्मैक्यभ्रमे आत्मनोऽपि विशेषणतया विषयत्वात्साधनवैकल्यं परिहृतम् । दोषेऽप्युभयसिद्धत्वं विवक्षितम् । तेन अखण्डाभावरूपतया हेतौ न विशेषणस्या-सिद्धिवारकतया वैयर्थ्यमिति बोध्यम् ।

शुद्धस्य वृत्तिविषयत्वानभ्युपगमेऽपि न साधनवैकल्यम् । विशिष्टाभावस्य तत्रापि सत्वात् । एतेनात्मनो वृत्तिविषयत्वाभ्युपगमे विषयत्वमात्रस्यैव परमार्थसत्त्वसाधकत्वोपपत्तौ दोषेत्यादिविशेषणवैयर्थ्याद्व्याप्यत्वासिद्धिः । तावन्मात्रं च पक्षे स्वरूपासिद्धमिति निरस्तम् । विशिष्टोपाधौ वैयर्थ्यशङ्कानुदयात् ॥ स्वविषयेति ॥ पररीत्या रूप्यादौ व्यभिचारवारणाय स्वविषयकेत्यादिविशेषणम् । न च दृष्टिसृष्टिपक्षेऽसिद्धिः । प्रतिकर्म-व्यवस्थानुपपत्त्या तस्य त्वयाप्यभ्युपगमनीयत्वात् ॥ अन्योन्याभावातिरिक्तेति ॥ एतच्चाभावविशेषणम्, एतद्धटसमानाधिकरणे एतद्धटप्रतियोगिकान्योन्याभावे एतद्धटसमान-कालीने एतद्धटसमानाधिकरणैतद्धटप्रतियोगिकाभावत्वं वर्तत इति बाधवारणाय । तन्त्वादिनिष्ठैतद्धटप्रतियोगिकात्यन्ताभावे एतद्धटसमानकालीने बाधवारणायैतद्धटसमानाधि-करणेति विशेषणम् । एतद्धटसमानाधिकरणे कपालरूपादौ बाधवारणाय एतद्धट-प्रतियोगिकाभावत्वं विशेषणम् । हेतौ एतद्धटान्योन्याभावत्वे व्यभिचारवारणाय आद्यं विशेषणम् । तन्त्वादिनिष्ठैतद्धटात्यन्ताभावे तद्वारणाय द्वितीयम् । तदर्थस्तु सम्बन्ध-विशेषेण एतद्धटस् तत्समानाधिकरणेत्यर्थः । तेन संयोगसम्बन्धेन घटवत्यपि भूतले समवायसम्बन्धेन घटात्यन्ताभावसत्वात्साध्याभाववति घटात्यन्ताभावत्वे व्यभिचार इति शङ्का परिहृता । पक्षेऽप्येतद्धटसमानाधिकरणेत्यस्यैवमेवार्थः । तेन तत्र बाधशङ्का परिहृता ।

एतद्धटसमानाधिकरणपटात्यन्ताभावत्वे व्यभिचारवारणाय तृतीयविशेषणम् । एतद्धट-कपालसमवाये तद्वारणाय अभावेति । प्रमेयत्वादौ तद्वारणाय मात्रेति । पटप्रागभावादौ साध्यसाधनवैकल्यपरिहाराय एतद्धटेत्यादि दृष्टान्ते विशेषणम् । अनेन चेति । अन्योन्याभावातिरिक्तैतद्धटसमानाधिकरणै तद्घटसमानकालीनाभावस्य निषेधे स्वसमानाधिकरणात्यन्ताभावप्रतियोगित्वरूपमिथ्यात्वाभावरूपसत्त्वसिद्धिरित्यर्थः । न चैतद्धटप्रतियोगिकजन्यजनकान्यतरवृत्तित्वमुपाधिः । एतद्घटपूर्वकालीन मात्रवृत्तितद्धटत्वादौ साध्याव्याप्तेः । न च साधनावच्छिन्नसाध्यव्यापकत्वम् । पक्षीकृतधर्मस्यात्यन्ताभाव-वृत्तित्वसन्देहे साधनाव्यापकत्वसन्देहात् । न च विपक्षबाधकतर्कानवतारदशायां तादृशोऽप्युपाधिरिति वाच्यम् । तदभावात् । प्रत्युत स्थापनायामेवानुकूलतर्कोस्तीत्याह ॥ अत्र चेति ॥ सङ्गृह्णाति ॥ तथा चेति ॥

व्यासाद्रिसृततर्काम्बुपूरैः पक्षयुगं युजि ॥

न्यायामृततरङ्गिण्यां विश्वसत्त्वानुमा इमाः ।

न्यायामृतकण्टकोद्धारः

किञ्चेति । अत्र सत्त्वं तात्विकं विवक्षितम् । तेन न व्यावहारिकसत्त्वाङ्गीकारेण सिद्धसाधनम् । हेतावसत्त्वं सार्वदेशिकसार्वकालिकनिषेधप्रतियोगित्वं विवक्षितमिति नास्मदभिमताप्रातिभासिके व्यभिचार इति । पररीत्या व्यभिचारमाशङ्क्य निषेधति – न चेति । तथा च रूप्यं नासद्विलक्षणं, सद्विलक्षणत्वादित्यनेन हेत्वभावस्य साधनान्न व्यभिचारः । न चात्राप्रयोजकत्वं, हेतूच्छित्तेरित्याह– तस्यासद्विलक्षणत्व इति । न च शुक्तिरूप्यस्या-सत्त्वेऽपरोक्षप्रतीतिर्न स्यादिति वाच्यम् । असतोऽप्यपरोक्षप्रतीतौ बाधकाभावात् । न चादर्शनमेव बाधकम् । तत् किं प्रातिभासिकस्य तद् दृष्टम्? इहैव तत् कल्प्यत इति चेत् सममितरत्रापि । किञ्चासद्विलक्षणत्वे सद्विलक्षणत्वानापत्त्या साध्यसत्त्वादेव न व्यभिचारः । अथ गजादौ गोवैलक्षण्येऽपि अश्ववैलक्षण्यवद् असद्वैलक्षण्येऽपि सद्वैलक्षण्योपपत्तिरिति चेन्न । गोत्वाश्वत्वयोः परस्परविरहरूपत्वाभावात् । सत्त्वासत्त्वयोश्च परस्परविरहरूपताया मिथ्यात्वनिरुक्तिभङ्गे समर्थितत्वादिति वैषम्यम् । तथाऽपि किन्तत्वमिति चेद् असदेव रजतं प्रत्यभादित्यनुभवाद् असत्त्वमेवेति न व्यभिचार इति निरवद्यम् ।

विमतमिति । नन्वत्राज्ञानशब्देन ज्ञानाभावो वा, अनिर्वचनीयरूपमज्ञानं वा विवक्षितम्? नाद्यः । सिद्धसाधनात् । न हि ज्ञानाभावकार्यं जगदित्यङ्गीक्रियते । न द्वितीयः । वादिनोऽप्रसिद्धविशेषणत्वादिति चेन्न । असत्प्रतियोगिकाभावाङ्गीकर्तुर्वादिनः पराभ्युपगममात्रेण प्रसिद्धिसम्भवात् । न च द्वितीयसाध्ये आत्मनि व्यभिचारः । अस्ति च तत्र हेतुः । नास्ति च साध्यम् । तस्य चैतन्यं क्षणिकमिति चैतन्याज्ञानकार्यधीविषयत्वादिति वाच्यम् । अनधिष्ठान-तयेत्यस्य साध्यविशेषणत्वात् । तत्रात्मनोऽधिष्ठानतया विषयत्वेन विशेषणाभावायत्तविशिष्टा-भावसत्त्वात् । ननु तथापि अनात्माधिष्ठानकात्मभ्रमविषये व्यभिचारः स्यादिति चेत्, अनध्यस्ततयेत्यपि विशेषणीयम् । नन्वत्र सर्वत्र चैतन्यशब्देन विशिष्टचैतन्यविवक्षायां सिद्धसाधनम् । शुद्धचैतन्यविवक्षायामसिद्धिरिति चेन्न । दत्तोत्तरत्वात् । चैतन्यशब्देन वेदान्ततात्पर्यविषयस्य विवक्षितत्वाद्वा । नन्वत्र हेतौ तस्मिन्नपरोक्ष इत्यत्रापरोक्षत्वं साधारणा-कारेण वाऽसाधारणाकारेण वा? नाद्यः । शुक्तिरूप्ये व्यभिचारात् । साधारणेनेदंत्वादिना शुक्तौ भासमानायामनिषेध्यत्वेन भासमानस्य शुक्तिरूप्यस्य तदज्ञानकार्यत्वात् । न द्वितीयः । पक्षेऽसिद्धेः । न हीदानीं ब्रह्मासाधारणाकारेण भासते । तथात्वेऽधिष्ठानत्वमेव न स्यात् । भासते च वेदान्तजन्यवृत्तावसाधारणाकारेण । न च जगत्तदा भासते । तथा च नायं हेतुः साधुरिति चेन्न । द्वितीयस्यैव विवक्षितत्वात् । न चैवमसिद्धिः । ब्रह्मणोऽसाधारणाकारो हि सत्स्फुरणादिरूपः । इदानीमपि घटः स्फुरति, घटः सन्, घटः प्रकाशत इति तस्य स्फुरणात् । न चाद्वितीयानन्दादिरूप एवासाधारणाकारस्तस्येति वाच्यम् । तस्यापि स्फुरणमात्रत्वे तत्प्रकाशे प्रकाशनियमात् । स्फुरणविशेषत्वे ब्रह्मणः सविशेषत्वापत्त्याऽखण्डत्वहानेः ।

किञ्च वेदान्तजन्यवृत्तौ ब्रह्म व्यावृत्ताकारेण भासत इति कोऽर्थः? वृत्तावेव प्रमाणा-हिताकारविशेष इति वा, ब्रह्मैवासाधारणाकारेण भासत इति वा? नाद्यः । ज्ञाने विषय-विशेषातिरिक्तविशेषानङ्गीकारेणापसिद्धान्तात् । न द्वितीयः । वेदान्तानामखण्डार्थत्वविरोधात् । असाधारणाकारेणेत्यस्य व्यावृत्तिव्यावृत्तान्यतरविशिष्टत्वानतिरेकात् । तथा च ब्रह्मणः स्वरूपमेव ब्रह्मणोऽसाधारणाकार इति वक्तव्यम् । एवं च कथमसिद्धिः? तस्येदानीमपि प्रकाशमानत्वात् । नन्विदानीं चैतन्यप्रकाशाभावादेव हेतोरसिद्धिरित्यत आह– चैतन्यं चेति । न च चैतन्यशब्देन वेदान्ततात्पर्यविषयस्य विवक्षितत्वात् । तस्य चेदानीमभानादसिद्धिरिति वाच्यम् । सुखादिसाक्षिण एव शुद्धस्य परेण वेदान्ततात्पर्यविषयत्वाङ्गीकाराद् अन्यस्याशुद्धस्य जडत्वेन साक्षित्वानुपपत्तेरिति । ननु शङ्खत्वाज्ञानकार्ये पीतत्वादौ व्यभिचार इत्यत आह– शङ्खत्वादाविति । न चाप्रयोजकत्वमित्याह– अत्रापीति । उक्तन्यायमन्यत्राप्यतिदिशति – एवमिति । विमतमिति । अत्र साध्ये आत्मशब्देन वेदान्ततात्पर्यविषयो विवक्षितः । तेन विशिष्टात्मन्यध्यस्तत्वाभावेन सिद्धसाधनत्वशङ्का निरस्ता । हेतौ तत्त्वपदं रूप्ये व्यभिचार-वारणाय । तस्यापि शुक्तिसामान्याकारसाक्षात्कारवत्प्रवृत्तिविषयत्वात् । न च तत्त्वशब्देना-नारोपिताकारविवक्षायां स एव दोषः । तस्यापि इदन्त्वाकारसाक्षात्कारवत्प्रवृत्तिविषयत्त्वाद् इति वाच्यम् । अनारोपितासाधारणाकारस्य विवक्षितत्वात् । तत्राप्यसाधारणपदेनासङ्कीर्णस्वरूपं विवक्ष्यते । तेन ब्रह्मणो निराकारत्वेनोक्तविषयत्वस्य न सिद्धिः । ब्रह्मणोऽसङ्कीर्णस्वरूपस्य परेणाप्यङ्गीकृतत्वात् । ननु प्रतिबिम्बे व्यभिचारः । स हि मुखैक्यसाक्षात्कारवत्प्रवृत्तिविषयो भवति, मुखे चाध्यस्त इति चेन्न । मुखैक्यसाक्षात्काराभावेन हेतोरेवागमनान्न व्यभिचारः । मम मुखमित्यस्य च लांछिते मम मुद्रेतिवद् गौणत्वात् । यदि च तत्र भेदप्रत्ययात् तथा, प्रकृतेऽपि ह्रस्वत्वदीर्घत्वादिविरुद्धधर्मप्रत्यक्षे तस्याऽवश्यकत्वात् । बिम्बप्रतिबिम्बयोः सादृश्य-ज्ञानस्य च सर्वसिद्धत्वाच्च । अत एव प्रतिबिम्बे बालानां बालान्तरभ्रमः । अस्त्वैक्य-साक्षात्कारः । तथापि तस्य तत्वसाक्षात्कारत्वाभावादेव न व्यभिचारः । बिम्बप्रतिबिम्बयोर्भेदस्य समर्थयिष्यमाणत्वात् । तस्य तत्वसाक्षात्कारत्वे वा न तत्राध्यास इति साध्याभावादेव न व्यभिचार इत्यनवद्यम् ।

अथैवं तद्व्यतिरेकेणोपलभ्यमानत्वमुपाधिरिति । तस्यात्मनि साध्याव्यापकत्वात् । न च साधनधर्मावच्छिन्नसाध्यव्यापकत्वमिति वाच्यम् । तत्रापि जीवन्मुक्तोपास्तिरूपप्रवृत्ति-विषयत्वसत्त्वेन साधनावच्छिन्नसाध्यस्यापि सत्त्वात् । जीवन्मुक्तो नोपास्ते फलाभावादिति, तन्न । मोक्षे आनन्दातिशयरूपफलसम्भवात् । तस्य च समर्थयिष्यमाणत्वात् । अनुकूल-तर्कसत्त्वेन हेतोः साध्यव्याप्यत्वेन साध्यव्याप्यहेत्वव्यापकत्वेन उपाधेः साध्याव्यापकत्वाच्च । पक्षे उपाधेः सत्त्वेन साधनव्यापकत्वाच्च । न च विश्वं ब्रह्मणा सहैवोपलभ्यते, सन् घट इत्यादि प्रतीतेरिति वाच्यम् । अत्र घटगतसत्त्वस्यैव भानेन ब्रह्मरूपसत्तायाश्चाक्षुषादिज्ञानविषयत्वा-भावादित्युक्तत्वात् । एवमग्रेऽप्युपाधिनिराकरणं बोध्यम् ।

ननु शङ्खारोपितपीतत्वे व्यभिचार इत्यत आह– शङ्ख इति । विमतमिति । नन्वत्र हेतौसामान्यव्याप्तिरेव ग्राह्या । विशेषव्याप्तौ दृष्टान्ताभावात् । यद् यं प्रत्यपरोक्षं न तत् तन्मायाकल्पितमिति । एवं चैन्द्रजालिकं प्रत्यपरोक्षे तन्मायाकल्पिते व्यभिचारस् तथा दैहात्मैक्यभ्रमे च । न च देहात्मैक्यस्याऽविद्यकत्वान्न मायाकल्पितत्वमिति साध्यसत्त्वान्न व्यभिचार इति वाच्यम् । मायाविद्ययोरभेदादिति चेन्मैवम् । अत्र ह्यपरोक्षत्वमनिषेध्यत्वेन विवक्षितम् । ऐन्द्रजालिकं प्रत्यैन्द्रजालिकं गजादि अनिषेध्यत्वेन नापरोक्षमिति न तत्र व्यभिचारः । ईश्वरस्यानिषेध्यत्वेन जगद्दर्शनाभावे तत्पालनार्थं प्रवृत्त्यनुपपत्तेर्नासिद्धिः । न चैन्द्रजालिकप्रवृत्तिवदुपपत्तिः । तस्य लोकवञ्चनेन स्वप्रयोजनवद् ईश्वरस्य जगद्वञ्चनेन प्रयोजना-भावात् । तद्वदनाप्तत्वापत्त्या तदुक्तपुराणादौ आश्वासायोगाच्च । ‘अनाद्यनन्तम्’ ‘न त्वेवाहं जातु नासम्’ इत्यादितद्वचनेनापि जगत् सत्यत्वेनैव पश्यति इति सिद्धेश्च । नापि देहात्मैक्यभ्रमे व्यभिचारः । तदभावस्योपपादयिष्यमाणत्वात् । तत्सत्त्वेऽपि तस्याऽविद्यकत्वेनेश्वरमाया-कल्पितत्वाभावात् । मायाविद्ययोरभेदेऽपि केनापि रूपेण शक्तिभेदेन वा भेदस्यावश्यकत्वात् । अन्यथा घटादिवद् देहात्मैक्यभ्रमस्य सर्वसाधारणत्वापातात् । मन्मते भ्रमस्य सत्यत्वेन तद्विषयस्यासत्त्वेन च मायाकल्पितत्वाभावसत्त्वाच्च । त्वां प्रति तूपपादनान्नोक्तदोष इति हृद्यम् ।

विमतमिति । जीवाज्ञानपरिकल्पितमिति मतेऽस्याभिधानान्न मतान्तरे सिद्धसाधनं शङ्क्यम् । तस्येति । न च प्रत्यक्षप्रत्यभिज्ञानस्य सुषुप्तिकालस्थायित्वासाधकत्वादसिद्धिः । किंतु तत्कालपर्यन्तस्थायित्वसाधकत्वम् । अतो न क्षणिकत्वापत्तिरपीति वाच्यम् । एवं ह्यात्मस्थायित्वप्रत्यभिज्ञानस्यापि सुप्तिकालस्थायित्वसाधकत्वाभावप्रसङ्गात् । तथा चाऽत्मनोऽ-नित्यत्वापत्त्या क्षणिकत्वानुमानेनात्मनोऽपि क्षणिकत्वापत्तेः । प्रत्यभिज्ञया तावत्कालस्थायि-त्वस्येव सुषुप्तिकालस्थायित्वसिद्धिसम्भवे सङ्कोचे कारणाभावात् । बाधकाभावेऽपि सुषुप्तिकाल-स्थायित्वासिद्धौ तया तावत्कालस्थायित्वस्याप्यसिद्धेश्च क्षणिकत्वं दुर्वारमिति । अदृष्टादेरिति । न चादृष्टादेः कारणात्मनाऽवस्थितत्वेन पुनरुद्बोधापत्तिरिति शङ्क्यम् । अदृष्टादेः कारणं हि अन्तःकरणमहङ्कारो वाऽविद्या वा । तदवस्थानाङ्गीकारे तस्यैव जीवाकल्पितत्वं स्यात् । न चादृष्टस्य कारणमात्मैवेति युक्तम् । आत्ममात्रस्य पुनरुद्बोधकत्वासम्भवात् । तदङ्गीकारे वा मोक्षेऽप्युद्बोधापत्तेरिति दिक् ।

सामान्येनेति । पूर्वं यावद् विमतिविषयीभूतं तावत् पक्षीकृत्य सत्यत्वं साधितवान् । इदानीं यं कञ्चन पदार्थं पक्षीकृत्य साध्यमानं सत्यत्वं ब्रह्मान्यस्मिन् यस्मिन्कस्मिंश्चिद् विमते पदार्थे पर्यवस्यतीति सामान्येनेत्युक्तम् । अग्रे तु पदार्थविशेषं पक्षीकृत्य साध्यमानं साध्यं विशेष एव पर्यवस्यतीति विशिष्टेत्युक्तमिति द्रष्टव्यम् । मिथ्यात्वमिति । नन्वत्र सदसद्विलक्षणत्वं मिथ्यात्वं न पक्षः । तस्य वादिनं प्रत्यसिद्धत्वेनाश्रयासिद्धेः । सिद्धसाधनाच्च । सदसद्विलक्षण-त्वस्यात्मान्यसर्वमध्यपतितासत्यवृत्तेरिति चेन्न । सद्विलक्षणत्वस्य मिथ्यात्वपदेन विवक्षितत्वात् । तच्च वादिनः सिद्धमिति नाश्रयासिद्धिः, न वा सिद्धसाधनम् । यद्वा, प्रतिपन्नोपाधौ त्रैकालिकनिषेधप्रतियोगित्वं तदिति न कोऽपि दोषः । हेतावपि मिथ्यापदेनैतद्द्वयमेव विवक्षितम् । अत उक्तमिथ्यात्वस्य सदसद्विलक्षणरूपमिथ्यामात्र वृत्तित्वाभावादसिद्धिरिति परास्तम् । न च सन्दिग्धानैकान्तिकता, निश्चितसाध्याभाववत्यात्मभेदे हेतुसन्देहादिति वाच्यम् । आत्मभेदो हि आत्मनिष्ठो वाऽऽत्मप्रतियोगिको वा? नाद्यः । तत्र हेत्वभावस्यैव निर्णीतत्वात् । न द्वितीयः । तत्र त्वन्मते हेतोर्निर्णयान्न सन्दिग्धानैकान्तिकता । नापि मन्मते । मम तत्र हेत्वभावस्यैव निर्णयात् । न च मिथ्यात्वन्यूनवृत्तित्वमुपाधिः । शुक्तिरूप्यत्वे साध्यव्यापकत्वात्, पक्षे च साधनाव्यापकत्वादिति शङ्क्यम् । तद्धि क्वचिन्मिथ्यात्वाधि-करणवृत्तित्वम् । एवं चात्मत्व एव साध्याव्यापकता । तस्यात्मान्यसर्ववृत्तित्वाभावेन साध्य-वत्त्वात् । मिथ्यात्वाधिकरणावृत्तित्वेनोपाधिशून्यत्वाच्च । न चात्मत्वस्य विशिष्टात्मवृत्तितया तत्र साध्योपाध्योः सत्वान् नोपाधेः साध्याव्यापकतेति युक्तम् । आत्मत्वशब्देन परमार्थत्वस्य विवक्षितत्वात् । विशिष्टात्मनि तदभावात् । मिथ्यात्वन्यूनवृत्तित्वं नाम मिथ्यात्वाव्यापकत्व-

मित्यपि न । अनुकूलतर्केण हेतोः साध्यव्याप्यत्वे साध्यव्याप्यहेत्वव्यापकत्वेनोपाधेः साध्या-व्यापकत्वात् । अनुकूलतर्काणां वक्ष्यमाणत्वात् । अन्यथा पर्वतेतरत्वादेरप्युपाधित्वं स्यादित्यलम् ।

आत्मेति । न च विशिष्टात्मनः परमार्थसदन्यत्वात् सिद्धसाधनम् । आत्मशब्देन वेदान्ततात्पर्यविषयस्य विवक्षणात् । अत एव व्यावहारिकभेदमादायापि न सिद्धसाधनम् । वेदान्ततात्पर्यविषये परमार्थसत्प्रतियोगिकव्यावहारिकभेदस्य परेणाप्यनङ्गीकारात् । कल्पित-प्रातिभासिकभेदेन सिद्धसाधने मूल एवातिप्रसङ्गस्योक्तत्वात् । न चानानन्दत्वमुपाधिः । तस्य वैषयिकानन्दे पररीत्यैव साध्याव्यापकत्वात् । वैषयिकानन्दो ब्रह्मस्वरूपातिरिक्तो नास्त्येव । किन्तु तत्स्वरूपस्यैव विषयसम्बन्धेनाभिव्यक्तिरिति न युक्तम् । जडत्वभङ्गे ब्रह्मस्वरूपाति-रिक्तस्यैव तस्य समर्थनात् । अन्तःकरणवृत्तिरूपानन्दाभावे च तद्वृत्तिरूपं ज्ञानमपि न स्यात् । किञ्चाप्रयोजकश्चोपाधिः । न च परमार्थसदन्यत्वेऽनानन्दत्वं प्रयोजकम् । किन्तर्ह्यसत्त्वम् । अन्यथा, सत्यं ज्ञानमित्यादिवाक्ये आनन्दपदेनैवानृतव्यावृत्तिसिद्धौ सत्यपदवैयर्थ्यापत्तेः । तस्मान् नानानन्दत्वमुपाधिः । आत्मा यावत्स्वस्वरूपमिति । अत्राऽत्मशब्देन तदेव विवक्षितम् । तेन विशिष्टात्मनि उक्तसाध्यसत्त्वात् सिद्धसाधनतेति निरस्तम् । न च पञ्चमप्रकाराविद्यानिवृत्तिमादाय सिद्धसाधनशङ्का । तस्या अपि यावदात्मस्वरूपमनुवर्तमानत्वा-भावात् । तत् कस्य हेतोः? अविद्यावस्थायामभावादेव । अविद्यानिवृत्तेरात्मवत् सर्वदा सत्त्वे तदर्थकश्रवणादिविधिवैयर्थ्यम् । अभावद्वैतस्य पूर्वमेव निरस्तत्वाच्च । तन्मतानुसारेण भावत्व-विशेषण प्रक्षेपेणाप्यनुमानं दर्शयति – यावत्स्वरूपमनुवर्तमानभावरूपेति । ननु यावत्स्व-स्वरूपेत्यत्र स्वपदस्य यत्किञ्चित्स्वरूपपरत्वं वा, आत्मस्वरूपपरत्वं वा विवक्षितम्? नाद्यः । सिद्धसाधनात् । द्वितीयेऽप्रसिद्धिः । न हि यावदात्मस्वरूपमनुवर्तमानोऽनात्मा प्रसिद्धोऽस्ति । अन्यथा सिद्धसाधनमेवेति चेन्न । स्वपदस्य समभिव्याहृतपरत्वेन व्याप्तिग्रहदशायां दृष्टान्त-स्वरूपं, साध्यप्रमितिदशायां चात्मस्वरूपमेव प्राप्यते । एवं च नाप्रसिद्धिः । न वा सिद्धसाधनम् । यथा, क्षित्यादिकं स्वोपादानगोचरापरोक्षज्ञानादिमज्जन्यमित्यत्र, तद्वत् । ननु च शब्दाद् यदा बोधस्तदैवं वक्तव्यम् । न ह्यत्र शाब्दो बोधः । किन्त्वनुमानजन्यः । अनुमाने च शब्दस्वभावोऽनुपयुक्तः । अत एव स्वज्ञानाबाध्येत्यत्रापि स्वपदेऽयं दोषस्तुल्य इति चेन्न । भ्रान्तोऽसि । न हि वयमनुमाने शब्दस्वभाव उपयुज्यत इति ब्रूमः । किन्तु वाक्यरूपात् परार्थानुमानात् परस्य तथोपस्थितिरिति । तत्र च साध्याप्रसिद्धिर्न दूषणम् । व्याप्तिग्रहदशायां स्वशब्देन परबुद्धिस्थदृष्टान्तस्यैवोपस्थित्या व्याप्तिग्रहसम्भवे विषयसिद्धेरनपेक्षणात् । अन्यथा तवापि प्रमाणज्ञानं स्वप्रागभावव्यतिरिक्तेति त्वदीयानुमाने उक्तदूषणसम्भवे उत्तराभावप्रसङ्गात् । अत एव स्वज्ञानाबाध्येत्यत्रापि नायं दोष इत्यालोचनीयम् ।

विमतेति । परममोक्षरूपेत्यर्थः । तेन जीवन्मुक्तिरूपबन्धनिवृत्तावुक्तसाध्यसत्त्वात् सिद्ध-साधनमिति परास्तम् । साध्यस्य चायमर्थः । स्वस्या बन्धनिवृत्तेर्यः प्रतियोगी बन्धोऽ-ज्ञानादिरूपस्तस्य यो विषयः शुद्धचिन्मात्रं तद्विषयकं यज्ज्ञानं तेनाबाध्यो योऽनात्मा तत्समानकालीनेति । अत्रानात्मसमानकालीनेत्युक्तेऽनेकजीववादिमते सिद्धसाधनता । यत्किञ्चिदात्मबन्धनिवृत्तेर्यत्किञ्चिदनात्मसमानकालीनत्वात् । एकजीववादिमते त्वर्थान्तरता । आत्मज्ञानाबाध्येत्येव क्रियमाणे परमते दृष्टान्ते साध्यविकलता स्यादिति स्वप्रतियोगिविषय-विषयकेत्याद्युक्तम् । अनात्मेति विशेषणाभावे सिद्धार्थतैव, तादृशज्ञानाबाध्यात्मसमान-कालीनत्वादिति सर्वं सार्थकम् ।

ननु हेतौ बन्धपदेनाज्ञानादिरूपो बन्धो विवक्षितोऽथ निगडादिरूपो वा, साधारणो वा? नाद्यः । दृष्टान्तस्य साधनवैकल्यात् । द्वितीये स्वरूपासिद्धेः । न तृतीयः । साधारणस्य बन्धपदार्थस्यानिर्वचनाद् इति चेन्न । प्रभुप्रसादसाध्यनिवृत्तिप्रतियोगित्वस्य, बन्ध इत्यभियुक्त-व्यवहारविषयत्वस्य वा साधारणस्य बन्धत्वनिर्वचनसम्भवेनोक्तदोषाभावात् । न चाद्यं बन्धत्वं संसाररूपबन्धस्यासिद्धम् । यस्य प्रसादादित्यादिश्रुतिसिद्धत्वात् । नापि द्वितीयेऽन्योन्याश्रयः । प्रयोगविषयत्वे ज्ञाते च प्रयोगः, प्रयोगे च तद्विषयत्वमिति । पूर्वपूर्वाभियुक्तप्रयोगविषयत्व-ज्ञानेनोत्तरोत्तरप्रयोगोपपत्तेः । अत एव द्वितीयाध्याये वेदब्राह्मणलक्षणमेवमेव कृतम् । न च साध्ये स्वपदाननुगमो दोषः । तस्याव्यवहितानुमानोक्तरीत्या परिहारसम्भवात् । न च हेतौ बन्धपदं व्यर्थमिति व्याप्यत्वासिद्धिः । घटनिवृत्तौ व्यभिचारवारणार्थत्वात् । घटनिवृत्ति-प्रतियोगिनो घटस्य सविषयत्वाभावेन विषयत्वघटितसाध्याभावात् । अज्ञाननिगडादिरूपबन्धस्य ज्ञानादिवत् सविषयत्वानुभवान्नासिद्धिसाध्यवैकल्ये । उक्तहेतोरुक्तसाध्येन निरुपाधिकसहचार-दर्शनात्, श्रुत्यनुगृहीतत्वाच्च नाप्रयोजकत्वमपि । कस्याश्चिन्निवृत्तेरनात्मसमानकालीनत्वदर्शनान् निवृत्तिमात्रस्य तथात्वं यदि साध्येत तर्हि संसारकालीनाया दुःखनिवृत्तेः समानाधिकरणदुःख-प्रागभावकालीनत्वदर्शनमपि दुःखनिवृत्तिमात्रस्य तथात्वं साधयेदित्यतिप्रसङ्गोऽपि न । वैषम्यात् । दुःखप्रागभावसमानकालीनत्वसाधनस्य मुक्तेरपुमर्थत्वप्रसङ्गरूपप्रतिकूलतर्कपराहतिवत् प्रकृतानुमानस्य तदभावात् । प्रत्युतानात्मसमानकालीनत्वाभावे कालाकाशाद्यभावे व्याहति-प्रसङ्गरूपविपक्षबाधकस्यैव सम्भवाच्चेत्यलं मृतमारणेनेति ।

अत्राऽदिपदेन विमत आनन्दो, ज्ञानं वा स्वज्ञानाबाध्यानात्मवान् तादृशभावरूपा-नात्मवान् वा ज्ञानत्वादानन्दत्वाद् लौकिकानन्दादिवदित्यादीनि गृहीतानि । आत्मधीरिति । अत्र वेदान्ततात्पर्यविषयात्मधीः पक्षः । तेन विशिष्टात्मधियः पक्षत्वे तस्यां साध्यसत्त्वात् सिद्धार्था प्रतिज्ञेति निरस्तम् । स्वविषयमात्रविषयकधीबाध्या नेति साध्यार्थः । तेनेदं रजतमिति ज्ञाने न व्यभिचारः । तस्य स्वविषयविषयकनेदं रजतमिति ज्ञानेन रजताभावविषयकेण बाध्यत्वेन स्वविषयमात्रविषयकज्ञानबाध्यत्वाभावात् । अत एवान्धोऽयं रूपज्ञानवानिति अन्धस्य रूपविषयतया कल्पितं यज्ज्ञानं तस्य रूपं नान्धगम्यमिति स्वविषयविषयक-प्रत्ययबाध्यत्वदर्शनेन व्यभिचार इत्यपास्तम् । विवक्षितसाध्यस्य तत्रापि सत्त्वात् । न ह्यन्धो रूपज्ञानवानिति ज्ञानविषयमात्रविषयकं रूपं नान्धगम्यमिति ज्ञानम् । नञर्थस्याधिकस्य भानादिति । न च पक्षे धीपदेन चैतन्यरूपधीविवक्षायां सिद्धार्थता । धीपदेन वेदान्तजन्यवृत्ते-र्विवक्षितत्वात् । न चात्र स्वविरोध्यविषयत्वमुपाधिः । पक्षीभूताया धिय आत्ममात्रविषयत्वेन स्वविषयविरोध्यविषयत्वेन साधनव्यापकत्वेनानुपाधित्वात् । अप्रयोजकत्वेन साध्याव्यापकत्वा-च्चेति । आत्माधिष्ठानकभ्रमहेतुरिति । अत्र हेतौ हेतुत्वादिति दण्डादौ व्यभिचारि । अप्रसिद्धप्रतियोगिकाभावानङ्गीकर्तृमते दण्डादिकार्यभ्रमाभावेन तदधिष्ठानज्ञानबाध्यत्वस्या-प्रसिद्धत्वेन तदभावस्य तत्रासम्भवात् । अतो भ्रमेति । भ्रमहेतुत्वं च दण्डादौ नास्ति । भ्रम-हेतुता हि दोषत्वेन वा, इन्द्रियसम्प्रयोगत्वेन वा? नोभयथापि । दण्डादेर्दोषत्वसम्प्रयोगत्वयोर-सम्भवात् । नाप्यधिष्ठानत्वेन । तस्य भ्रमाहेतुत्वात् । अतीताद्यधिष्ठानकभ्रमस्यापि दर्शनात् ।

ननु तथापि यत्र दूरादिदोषादुपलादौ चाकचिक्यकल्पना, तेन च चाकचिक्यदोषेण शुक्ताविव रजतकल्पना, तत्र चाकचिक्ये व्यभिचारः । तत्र स्वकार्यभ्रमाधिष्ठानज्ञानेन चाकचिक्यरूप्ययोरुभयोरपि बाधेन साध्याभावात्, भ्रमहेतुत्वाच्चेति चेन्न । अत्र हि चाकचिक्यं न दोषः । किन्तु तज्ज्ञानम् । तस्यैव भ्रमान्वयव्यतिरेकात् । चाकचिक्यज्ञानं तु नाधिष्ठान-ज्ञानबाध्यम् । तस्याधिष्ठानवद् बाधनन्तरमप्येतावन्तं कालं भ्रम आसीदिति सत्त्वानुसन्धानात् । तथा च यो दोषश्चाकचिक्यज्ञानं न तदधिष्ठानज्ञानबाध्यं, यद्बाध्यं चाकचिक्यं तन्न दोष इति कथं तत्र व्यभिचारः? न चैवं सादृश्यमत्रापि दोषो न स्यात् । इष्टापत्तेः । तज्ज्ञानस्यैव दोषत्वात् ।

यद्वा, चाकचिक्यज्ञानस्य पक्षसमत्वान्न व्यभिचारः । नन्वेवं सादृश्यस्य कथं दोषत्व-व्यवहार इति चेन्न । दोषभूतज्ञानविषयत्वादिति गृहाण । न च व्यावृत्ताकाराधिष्ठान-ज्ञानानवधित्वं, स्वकार्यभ्रमाधिष्ठानानारोपितत्वं वा उपाधिः शङ्क्यः । अपरोक्षसाक्षात्कारा-नन्तरमपि शरीरेन्द्रियानुवृत्तिदर्शनेनोपाधिद्वयस्य पक्षे निर्णीतत्वेन साधनव्यापकत्वात् । अन्यथा जीवन्मुक्तस्य भिक्षाटनादौ प्रवृत्तिर्न स्यात् । व्यावृत्ताकाराधिष्ठानज्ञानासम्भवस्य पूर्वमेवो-पपादितत्वाच्च । वक्ष्यमाणानुकूलतर्केण हेतोः साध्यव्याप्यत्वे निर्णीते साध्यव्याप्यहेत्व-व्यापकत्वेनोपाधेः साध्याव्यापकत्वादित्यस्य पृष्ठलग्नत्वाच्च । नन्वज्ञाने व्यभिचार इत्यत आह– शुक्त्यज्ञानमपीति । तथा च पक्षे पक्षतुल्ये वा न व्यभिचार इत्याशयः । ब्रह्मान्यदनादीति । नन्वत्र ब्रह्मशब्देन विशिष्टं वा विवक्षितं, तत्पदलक्ष्यं शुद्धं निर्गुणं वा? नाद्यः । विशिष्टान्यस्य शुद्धस्य पक्षत्वापत्तौ सिद्धसाधनात् । द्वितीये तादृशस्य तवासिद्ध्या पक्षासिद्धिरिति चेन्न । वेदान्ततात्पर्यविषयान्यस्य विवक्षणात् । घटादौ स्वरूपासिद्धिवारणाय पक्षेऽनादीति विशेषणम् । तेन घटादिव्यतिरिक्तं ब्रह्मान्यदनादि पक्ष इत्युक्तं भवति । अनादित्वादिति ।

नन्वत्रानादित्वं किं विवक्षितम् ? न तावत् प्रागभावाप्रतियोगित्वम् । तस्यासत्यपि सत्त्वेनानैकान्त्यात् । नापि प्रागभावानवच्छिन्नसत्तायोगित्वं विवक्षितम् । असति च न सत्तायोग इति वाच्यम् । सत्ता किं जातिर्वा, अबाध्यत्वं वा ? आद्ये तस्या ब्रह्मण्यावाभ्या-मनङ्गीकारेण साधनवैकल्यात् । पक्षेऽप्यभावेन स्वरूपासिद्धेश्च । द्वितीये तादृशसत्तायोगस्य पक्षे प्रतिवादिनो ममासिद्धेरिति चेन्न । प्रागभावाप्रतियोगिवस्तुत्वस्य विवक्षितत्वात् । एवं चासतो वस्तुत्वाभावादेव न व्यभिचारः । पक्षेऽप्येतादृशमेवानादित्वं विवक्षितमिति नासतः पक्षत्वम् । तेन न बाधस्वरूपासिद्धी इति मन्तव्यम् । ब्रह्मवदिति । विवक्षितेति शेषः । तेन न साध्यसाधनवैकल्ये । न च ध्वंसाप्रतियोगित्वमुपाधिरिति वाच्यम् । घटादेरुक्तरीत्या परमार्थसत्त्वस्य प्रत्यक्षादिसिद्ध्या तत्रोपाधेः साध्याव्यापकत्वात् । असतो ध्वंसाप्रतियोगित्व-सत्त्वेऽपि परमार्थसत्त्वादृष्ट्या तस्य तत्राप्रयोजकत्वेनानुपाधित्वाच्च । उक्तरीत्या हेतोः साध्य-व्याप्यत्वेन तदव्यापकतया साध्याव्यापकत्वाच्च । अप्रयोजकत्वं परिहरति – दोषजन्यज्ञाना-दिति । ब्रह्मेति । अत्रापि ब्रह्मपदार्थः पूर्ववत् । तेन शबलब्रह्माऽदाय न सिद्धसाधनतेति बोध्यम् । नन्वत्र कथं व्याप्तिः? यदा ब्रह्म तदा काल इति वा, यत्र ब्रह्म तत्र काल इति वा? नोभावपि । सिद्धसाधनात् । न हि देशकालयोर्देशकालासम्बन्धः । परममुक्तौ तु न देशो न काल इति चेन्न । ब्रह्म कालाद्यविनाभूतमिति साधनात् । कालाद्यविनाभावो हि कालादि-व्यतिरेकेण सद्रूपत्वशून्यत्वम् । न चैतद् ब्रह्मणः परमते सिद्धम् । परेण कालाद्यसत्त्वेऽपि परममुक्तौ ब्रह्मणः सद्रूपत्वाङ्गीकारात् ।

ब्रह्मान्यद् वेदैकगम्यमिति । न चात्र पारमार्थिकत्वेन श्रुतितात्पर्यविषयत्वमुपाधिः । ब्रह्मणि तस्याभावेन साध्याव्यापकत्वात् । उपक्रमादिकं हि तात्पर्यसाधकम् । न च तस्य पारमार्थिकत्वेन तात्पर्यसाधकत्वम् । तथात्वे कर्मकाण्डे उपक्रमादिना पारमार्थिकत्वेन तात्पर्यं सिध्येत् । ब्रह्मविषयकोपक्रमादिकं तथा तात्पर्यकमित्यस्याप्रयोजकत्वात् । अधर्मादिविषय-मुपक्रमादिकं तथा साधकमित्यस्यापि सुवचत्वात् । ब्रह्मणो निर्धर्मकत्वेन पारमार्थिकत्वाभावस्य पूर्वमेवोपपादितत्वाच्च । जगत्यपि तथा सत्त्वेन साधनव्यापकत्वाच्च ।

साक्षिवेद्यमिति । अत्र हेतौ ज्ञानं प्रति विषयत्वादित्युक्ते शुक्तिरूप्ये व्यभिचारः । तदर्थं दोषाजन्यज्ञानं प्रतीति । एवमपि निषेध्यत्वेन तादृशज्ञानविषयत्वाद् उक्तदोषतादवस्थ्यम् । अत उक्तम् अनिषेध्यत्वेनेति । एवमपि व्यवसायद्वाराऽनुव्यवसायविषयत्वाद् दोषतादवस्थ्यम् । अतः साक्षादिति । नन्वेवमपि शुक्तिरूप्यादिषु व्यभिचारः । तेषां दोषजन्यवृत्तिविषयत्वेऽपि तदजन्यसाक्षिविषयत्वादिति चेन्न । त्वयाप्यविद्यावृत्तिप्रतिबिम्बितसाक्षिविषयत्वस्यैवाङ्गीकृतत्वेन प्रतिबिम्बितस्य विशिष्टस्य दोषजन्यत्वनियमात् शुक्तिरूप्यादिषूक्तहेतोरगमनान्न व्यभिचारः । दोषाजन्यज्ञानं प्रत्यनिषेध्यत्वेन साक्षाद्विषयस्यापि मिथ्यात्वे तादृशवेदान्तजन्यज्ञानविषयस्य ब्रह्मणः सत्यत्वे को विश्वासः? न हि परमार्थसत्त्वे उक्तहेत्वतिरिक्तं प्रयोजकम् । न च दोषजन्यज्ञानविषयत्वाभावस्तत्र प्रयोजक इति वाच्यम् । ब्रह्मणोऽपि क्षणिकमित्यादिदोष-जन्यज्ञानविषयत्वेन सत्यत्वाभावापत्तेः । असतोऽपि चैतादृश ज्ञानविषयत्वाभावेन सत्यत्वा-पत्तेश्च । तस्माद् उक्तहेतोरेव सत्यत्वप्रयोजकतया तदभावार्थं त्वयापि शुक्तिरजतादेरुक्तहेत्व-भावोऽङ्गीकरणीय इति कथं व्यभिचारः? न चैवमसिद्धिः । सुखादेरपि दोषजन्याविद्यावृत्ति-प्रतिबिम्बितसाक्षिविषयत्वादिति वाच्यम् । सुषुप्तौ दोषाभावेनाविद्यावृत्त्यभावेऽपि सुखादि-स्फुरणेन तस्य केवलसाक्षिवेद्यत्वात् । अविद्यातद्वृत्त्यादेरपि तत्प्रतिबिम्बितसाक्षिविषयत्वेऽनव-स्थाद्यापत्तेश्च । तस्मान्नासिद्धिः । न चात्मन्युक्तसाधनाभावात् साधनविकलतेति वाच्यम् । तस्य दृश्यत्वभङ्गे वृत्तिव्याप्यत्वस्य साधितत्वात् । न चात्मनो देहैक्यभ्रमविषयत्वात् साधन-विकलता । तद्विषयत्वेऽपि वेदान्तजन्यतादृशज्ञानमादायोक्तसाधनसम्भवात् । देहात्मैक्यभ्रमा-सम्भवस्योक्तत्वाच्च । न चासतोऽपि दोषाजन्यशाब्दज्ञानविषयत्वेन तत्र व्यभिचारः शङ्क्यः । तत्रानिषेध्यत्वेन तादृशज्ञानविषयत्वाभावात् । अनिषेध्यत्वेन तादृशज्ञानस्य दोषजन्यत्वनियमा-दिति दिक् ।

विमतमिति । न च दृष्टिसृष्टिपक्षेऽसिद्धिः । दृष्टिसृष्टिपक्षस्य क्षणिकवादतुल्यत्वेनायुक्त-त्वात् । तस्याग्रे दूषयिष्यमाणत्वाच्च । न चानादित्वमुपाधिः । तस्य पारमार्थिकत्वाप्रयोजकत्वेन अनुपाधित्वात् । प्रयोजकस्यैवोपाधित्वात् । अन्योन्याभावातिरिक्तेति । अन्योन्या-भावातिरिक्त एतद्धटसमानाधिकरण एतद्धटप्रतियोगिको योऽभावस्तत्वं पक्षः । अत्राभावत्व-मात्रस्य पक्षत्वे पटाभावत्वस्यापि पक्षत्वापत्तौ बाधः । तदर्थं घटेति । एवमपि घटान्तरा-भावत्वस्य पक्षत्वे स एव दोषः । तदर्थम् एतदिति । एवमपि तन्तुवृत्त्यैतद्धटात्यन्ताभावस्य पक्षत्वापत्तौ स एव दोषः । तदर्थं घटसमानाधिकरणेति । एवमपि हेतौ चाभाव-वृत्तित्वादित्युक्ते मृत्पिण्डान्तरनिष्ठैतद्धटात्यन्ताभावत्वस्य पक्षत्वे स एव दोषः । तदर्थम् एतदिति । एवमप्येतद्धटान्योन्याभावत्वस्य पक्षत्वे स एव दोषः । तदर्थम् अन्योन्येति । साध्ये समानकालीनावृत्तीत्युक्तेऽप्रसिद्धिः । सर्वस्यापि यत्किञ्चित्समानकालीनवृत्तित्वात् । घटसमान-कालीनावृत्तीत्युक्ते यत्किञ्चिद्धटसमानाकालीनवृत्तित्वेन बाधः । तदर्थम् एतदिति । हेतौ चाभाववृत्तित्त्वादित्युक्ते प्रमेयत्वे व्यभिचारः । तदर्थम् भावमात्रवृत्तित्वादिति । तावत्त्युक्ते गगनात्यन्ताभावत्वे व्यभिचारः । तदर्थं घटप्रतियोगिकेति । एवमपि घटान्तरप्रागभावत्वे स एव दोषः । तदर्थम् एतदिति । एवमपि तन्तुनिष्ठैतद्धटात्यन्ताभावत्वे व्यभिचारः । तदर्थं घटसमानाधिकरणेति । एवमपि मृत्पिण्डान्तरनिष्ठैतद्धटात्यन्ताभावत्वे स एव दोषः । तदर्थमेतदिति । एतद्धटान्योन्याभावत्वे व्यभिचारः । तदर्थम् अन्योन्याभावातिरिक्तेति । हेतावभावपदत्यागे एतद्धटसमवायत्वे व्यभिचारः । तदर्थम् अभावेति । समवायानङ्गीकर्तृमते स्वरूपसम्बन्धविशेषे व्यभिचार इति सर्वं सुस्थम् ।

अत्र हेतौ पक्षे च प्रतियोगिवृत्तिताप्रयोजकसम्बन्धान्यानवच्छिन्नेत्यभावविशेषणम् । तेन संयोगेन घटवत्यपि भूतले समवायसम्बन्धेन घटात्यन्ताभावसत्वाद् घटात्यन्ताभावत्वे साध्याभावेन बाधः । तत्रैव साध्याभाववति हेतोर्वृत्तेर्व्यभिचार इति च निरस्तम् । समवाय-सम्बन्धावच्छिन्नाभावस्य भूतले घटवृत्तिताप्रयोजकसम्बन्धातिरिक्तसम्बन्धावच्छिन्नत्वात् । न च साधनावच्छिन्नसाध्यव्यापकमेतद्धटप्रतियोगिकजन्यजनकान्यतरमात्रवृत्तित्वमुपाधिरिति वाच्यम् । जन्यजनकमात्रवृत्तिविशेषणस्योपाधित्वप्रयोजकस्य पक्षमात्रव्यावर्तकतया पक्षेतरत्वात् । अन्यथा पर्वतावयववृत्त्यन्यत्वादेरप्युपाधित्वं स्यात् । अप्रयोजकत्वाच्च । वक्ष्यमाणानुकूलतर्केण हेतोः साध्यव्याप्यतयोपाधेस्तदव्यापकतया साध्याव्यापकत्वाच्चेत्यलं पल्लवेन । ननु व्यधिकरणधर्मा-वच्छिन्नाभावभादाय बाध इत्यत आह– व्यधिकरणेति । अत्रादिपदेन सूचितम्– एतद्धट-प्रागभाव एतद्धटसमानकालीनान्योन्याभावातिरिक्तैतदभावसमानाधिकरणो न । एतद्धटप्राग-भावत्वात् । व्यतिरेकेण पटप्रागभाववद् इत्याद्यनुमानम् । न चात्राप्रसिद्धिः । निरधिकरणे प्रसिद्धेः । न चासाधारण्यम् । तस्य दशाविशेषे दोषत्वात् । अनुकूलतर्कस्य वक्ष्यमाणत्वाच्च न कश्चिद् दोषलेशः । अथवा अंशित्वानुमानसत्प्रतिपक्षानुमान इव सामान्यतः साध्यप्रसिद्धि-र्द्रष्टव्येति ।

नन्वनेनानुमानेन कीदृशं सत्त्वं सिद्धमित्यत आह ॥ अनेनेति । अत्र चेति ॥ उक्तचतुर्विंशत्यनुमानेष्वित्यर्थः । तत्र सर्वत्र ब्रह्मत्वादय उपाधयः । आभाससाम्यं च प्राक् दर्शितमेव द्रष्टव्यम् । अव्यवहितानुमाने च एतद्धटप्रतियोगिक प्रागभावप्रध्वंसान्यतरमात्र-वृत्तित्वमुपाधिः । एतद्धटप्रतियोगिकप्रागभावत्वम् एतद्धटसमानाधिकरणावृत्ति अन्योन्या-भावातिरिक्तैतद्धटप्रतियोगिकाभावमात्रवृत्तित्वाद् एतद्धटात्यन्ताभावत्ववदित्याभासाम्यं च । न चैतद्धटध्वंसत्वे व्यभिचारः । तस्य पक्षतुल्यत्वाद् इत्यादिकं न शङ्क्यमिति भावः । उक्तमर्थं सङ्गृह्णाति – तथा चेति । आदिपदेनोक्तचतुर्विंशतिहेतवो गृह्यन्ते ।

न्यायामृतप्रकाशः

हेतोरेवाभावान्न व्यभिचार इत्याशयेनाह ॥ तस्येति ॥ शुक्तिरूप्येऽसद्वैलक्षण्यमङ्गीकृत्य व्यभिचारदानाय सद्वैलक्षण्याङ्गीकारे व्याघातः स्यात् । असद्वैलक्षण्ये सत्वस्यैव प्राप्तेस्त-द्वैलक्षण्यायोगात् । न चेष्टापत्तिरिति वाच्यम् । तत्र तत्वस्य बाधितत्वात् । अतो व्यभिचार-दानाय यदि सद्वैलक्षण्यं तस्याऽङ्गीक्रियते तर्ह्यसत्वस्यैव प्राप्त्या सद्विलक्षणत्वायोगेन हेतोरेवाभावान्न व्यभिचार इति ‘‘तुन्दिलसुरतन्याय’’ इति भावः ॥ विमतमित्यादि ॥ अर्थज्ञानात्मकोभयविधभ्रमाङ्गीकारात्तद्विरोधित्वेनाद्यानुमानद्वयम् ॥ तस्मिन्निति ॥ चैतन्य इत्यर्थः । नेदं रजतमिति ज्ञानं प्रति निषेध्यत्वेन साक्षाद्विषये व्यवसायद्वारा अनुव्यवसाय-विषये च रजते व्यभिचारवारणायानिषेध्यत्वेन साक्षादिति च विशेषणद्वयम् । तस्मिन्न-परोक्षेऽपीति स्वरूपसङ्कीर्तनम् ॥ यदेवमिति ॥ यद्यस्मिन्नपरोक्षेऽपि अनिषेध्यत्वेन साक्षाद्भासते न तत्तदज्ञानकार्यादीति सामान्यव्याप्तिरित्यर्थः । उक्तभानवान् अनिषेध्यत्वेन साक्षाद्भानवान् । समूहालम्बनादाविति शेषः । ननु चैतन्यस्याऽपरोक्षत्वाभावात्तस्मिन्न- परोक्षेऽपीत्यस्यासिद्धिरित्यत आह ॥ चैतन्यं चेति ॥ आरोपाधिष्ठानतयेत्यर्थः । चैतन्यस्य सर्वप्रत्ययवेद्यत्वाङ्गीकारेणायं घट इत्यादावधिष्ठानत्वेन प्रमितचैतन्यस्यैव निर्देशादिति भावः । ननु शङ्खत्वे अपरोक्षेऽपि अनिषेध्यत्वेन पीतः शङ्ख इत्यत्र साक्षाद्भासमानं पीतत्वं शङ्खत्वा-ज्ञानकार्यं भवत्येवेति पीतत्वे सामान्यव्याप्तेर्व्यभिचार इत्यत आह ॥ शङ्खत्वादाविति ॥ तदिति ॥ शङ्खत्वेत्यर्थः ॥ श्वेतत्वेति ॥ श्वेतत्वं च नापरोक्षतया भासते इत्याशयः । अप्रयोजकतापरिहारायाह ॥ अत्रापीति ॥ आपरोक्ष्यस्य अधिष्ठानापरोक्ष्यस्य । आत्मनि शुद्धे ॥ तत्तत्वेति ॥ शुद्धात्मतत्वसाक्षात्कारवान् य ईशः शबलः शुकादिजीवन्मुक्तश्च तयोर्या प्रवृत्तिः पालनभिक्षाटनशिष्यबोधनादिरूपा तद्विषयत्वादित्यर्थः । तत्र पटे । ननु शङ्खगतं यच्छङ्खत्वं तत्साक्षात्कारवत्प्रवृत्तिविषयमपि पैत्यं शङ्खे अध्यस्तमिति पैत्ये व्यभिचार इत्यत आह ॥ शङ्ख इति । शङ्खतत्वेति ॥ श्वेतत्वेत्यर्थः ॥ शङ्खतत्वं च न शङ्खत्वं किन्तु श्वैत्यमेव । अतो हेतोरेवानागमनान्न व्यभिचार इति भावः ।

‘‘न च मायाविना माया दृश्यते विश्वमीश्वरः ।

सदा पश्यति तेनेदं न मायेत्यवधार्यताम्’’ ॥

इति प्रमाणोक्तानुमानमाह ॥ विमतमिति । ननु जीवे सुप्ते अहमर्थपर्यन्तं जग-द्विलयाङ्गीकारादसिद्धिरित्याशङ्क्य निषेधति ॥ न चेति ॥ सुषुप्तौ जगद्विलयाङ्गीकारे पुनरुत्थानानन्तरं पूर्वस्मिन् दिने यं घटमहमद्राक्षं स एवायं घट इति प्रत्यभिज्ञाविरोधात् । तदप्रामाण्ये बौद्धोक्तक्षणिकत्वनिरासोपायाभावेन क्षणिकवादापातात् । अप्रामाण्यस्य बाधकैकोन्नेयत्वेन प्रत्यभिज्ञाप्रामाण्ये बाधकाभावाच्चेत्याह ॥ प्रत्यभिज्ञानादित्यादिना ॥ यदि सुषुप्त्यवस्थायां जगद्विलयमङ्गीकृत्यासिद्धिः शङ्क्यते तर्ह्यस्य सुप्त्यनन्तरं पुनरुद्बोधो न स्यात् । उद्बोधकानिष्टसंस्कारादेर्नाशादित्याह ॥ अदृष्टादेरपीति ॥ सामान्येनेति ॥ सामान्यत आत्मव्यतिरिक्तं किञ्चिदनात्मभूतं सत्यमस्तीत्यत्र इत्यादीन्यनुमानानि द्रष्टव्या-नीत्यन्वयः ॥ आत्मान्येति ॥ तथा चात्मान्यस्मिन्ननात्मनि कुत्रचिन्नास्तीति प्राप्त्या आत्मान्यदनात्मभूतं किञ्चित्सत्यभूतमिति हृदयम् । ज्ञेयत्वादौ मिथ्याभूतरूप्यादिवर्तिनि आत्मान्यसर्ववस्तुवृत्तिनि व्यभिचारवारणाय हेतौ मात्रपदम् । मात्रपदेन सत्यवृत्तित्वव्यावृत्तिर् अभावद्वैताङ्गीकारेणात्मनः परमार्थसदभावान्यत्वस्य सिद्धत्वात्सिद्धसाधनता स्यादत आह ॥ परमार्थसद्भावान्य इति ॥ आभ्यामनुमानाभ्यामात्मव्यतिरिक्तस्य कस्यचिदनात्मनः परमार्थ-सत्वं परमार्थसद्भावत्वं च लब्धमिति हृदयम् । दृष्टान्ते अनात्मनि परमार्थसद्भावभूत-ब्रह्मान्यत्वमस्तीति द्रष्टव्यम् ॥ यावदिति ॥ अनेन चानुमानेनानात्मन अव्याकृताकाशवर्ण-प्रकृत्यादेर्यावदात्मस्वरूपमनुवर्तमानत्वोक्त्या त्रैकालिकनिषेधरूपमिथ्यात्वाभावसिद्धिः ।

अभावमादाय सिद्धसाधनतावारणायाह ॥ यावदिति ॥ सिद्धसाधनतावारणायैवाह ॥ स्वेति ॥

स्वप्रतियोगीति ॥ मायिमते स्वात्मतत्वसाक्षात्कारेण बन्धो निवर्तत इत्यङ्गीकृतम् । ज्ञानेन बन्धनिवृत्तिदशायाञ्च सर्वस्याप्यनात्मनो बाध्यत्वं चाङ्गीकृतम् । तदानीं बन्धनिवृत्ति-समानात्मकालीनोऽबाध्यः कश्चनानात्मास्तीति साध्यते । तथा हि । स्वशब्दनिर्दिष्टा बन्धनिवृत्तिस् तस्याः प्रतियोगी बन्धस् तस्य विषयः कर्मीभूतो बन्ध्य इति यावत् । एतादृश आत्मा जीवस् तद्विषयकं यद्भानम् आत्मतत्वसाक्षात्कारः । तेनाबाध्यो योऽनात्मा तत्समानकालीनेत्यर्थः ॥ निगडेति ॥ निगडबन्धनिवृत्तिप्रतियोगिनिगडबन्ध विषयापराधि-पुरुषविषयकज्ञानाबाध्यघटाद्यनात्मसमानकालीनत्वं निगडबन्धनिवृत्तावस्तीत्यर्थः । बन्ध-निवृत्तेरात्मतत्वसाक्षात्काराबाध्याभावरूपानात्मसमानकालीनत्वमादाय सिद्धसाधनतावारणा-याह ॥ उक्तेति ॥ स्वप्रतियोगिविषयिकेत्यर्थः । आत्मधीश् चरमसाक्षात्कारः ॥ स्वेति ॥ स्वशब्देन आत्मधीस् तद्विषय आत्मा तद्विषयिणी या धीः स्वयमेव तद्बाध्या स्वयं धीरेव, कतकरजोवदिति परेणाङ्गीकृतं, बाध्या न भवतीति चास्माभिः साध्यते । तथा चानेन विशिष्यात्मधीरूपानात्मसत्यत्वसिद्धिरिति ज्ञेयम् । भ्रमहेतुरज्ञानादिः । स्वशब्देनाज्ञानं तत्कार्यो यो भ्रमो जगद्भ्रमस् तदधिष्ठानं तद्ब्रह्य तज्ज्ञानबाध्य इति परेणाङ्गीकृतं तदभाव-स्त्वस्माभिः साध्यते इत्यवधेयम् । भ्रमकत्वाद् भ्रमजनकत्वात् ॥ काचादिरिति ॥ स्वशब्देन काचादिस् तत्कार्यो यो रजतभ्रमस् तदधिष्ठानशुक्तिज्ञानबाध्यो न भवतीत्यर्थः । नन्वेवं चेच्छुक्त्यज्ञाने व्यभिचारः । भ्रमकत्वे सत्यपि शुक्त्यज्ञानकार्यभ्रमाधिष्ठानभूतशुक्त्यज्ञान-बाध्यत्वेन साध्याभावादित्यत आह ॥ शुक्त्यज्ञानमपीति ॥ एतावन्तं कालं शुक्त्यज्ञान-मासीदित्यनुभवेनाज्ञानस्य सत्यत्वसिद्धेः स्वकार्यभ्रमाधिष्ठानज्ञानबाध्यत्वाभावोऽप्यस्माभिः साध्यते इति तस्यापि पक्षतुल्यत्वान्न व्यभिचार इत्यर्थः ॥ ब्रह्मान्यदनादीति ॥

जीव ईशो विशुद्धा चिद् भेदस्तस्यास्तयोर्द्वयोः ।

अविद्यातच्चितोर्योगः षडस्माकमनादयः ॥

इति श्लोकोक्तमनादिजातमित्यर्थः । अनादित्वेऽप्यध्यस्तत्वमेवास्तु इत्यप्रयोजकताया-माह ॥ दोषेति ॥ स्वाध्यासात्पूर्वमनादित्वादेव सतोऽपीत्यर्थः ॥ अनादीति ॥ ब्रह्मज्ञाना-निवृत्तेः सत्वेनानाद्यध्यस्तत्वमित्यङ्गीकारे ब्रह्मणोऽप्यनादित्वाविशेषादनाद्यध्यस्तत्वं स्यात् । तथोत्तरत्र तन्निवर्तकाभावादनन्ताध्यस्तत्वं च स्यादित्यर्थः ॥ कालादीति ॥ अनेन कालादेर्यावद्ब्रह्मस्वरूपवर्तमानत्वोक्त्याऽबाध्यत्वसिद्धिः । पक्षे हेतूपपादनाय वेदैकगम्य-मित्युक्तम् । आदिपदेन ब्रह्मग्रहणे सिद्धसाधनतापरिहाराय ब्रह्मान्यदित्युक्तम् । दोषाजन्य-ज्ञानविषयत्वोपपादनाय साक्षिवेद्यमित्युक्तम् । साक्षिरूपज्ञानस्य नित्यत्वेन दोषाजन्यत्वादिति भावः । बाधकज्ञानस्य दोषाजन्यत्वात्तत्प्रतिनिषेध्यत्वेन साक्षाद्विषये रूप्ये व्यभिचार-वारणायानिषेध्यत्वेनेति । इदं रूप्यमिति ज्ञानं प्रत्येव साक्षादनिषेध्यत्वेन विषये रूप्ये तद्वारणाय दोषाजन्यज्ञानं प्रतीत्युक्तम् । इदं रूप्यमित्यस्य च दोषजन्यत्वान्न व्यभिचारः । व्यवसायद्वाराऽनुव्यवसायं प्रति विषये रूप्ये तद्वारणाय साक्षादित्युक्तम् । विमतं घटादिरूपं विश्वम् ॥ त्वन्मत इति ॥ घटज्ञानस्य घट एव कस्माद्विषयः पटोऽपि किं न स्यादिति शङ्कायां प्रतिकर्मव्यवस्थासिध्यर्थं घटसन्निकृष्टेन्द्रियजन्यत्वाद् घटज्ञानस्य घटविषयकत्व-मित्येवमिन्द्रियसन्निकर्षार्थं घटादिसाक्षात्कारात्पूर्वमपि घटादेर्विद्यमानत्वमावश्यकत्वम् । स्वविषयकसाक्षात्कारश्चाध्यसरूप एव ॥ तथा च ततः पूर्वमपि विद्यमानस्य घटादे-रधिष्ठानादिवत्सत्वमेव सिध्यतीत्यर्थः ॥ अन्योन्याभावातिरिक्तेति ॥ मायावादिना हि घटादेरन्यत्रासत्वस्य सिद्धत्वात्स्वयं यत्रास्ति तत्रापि तदत्यन्ताभावोऽस्तीत्युच्यते । तद्विरोधितयाऽस्माभिः साध्यते । अन्योन्याभावातिरिक्तैतद्धटसमानाधिकरणैतद्धटप्रतियोगिको योऽत्यन्ताभावः स एवैतद्धटसमानकालीन इति परेणोच्यते । अस्माभिस्त्वेतद्धटसमानाधि-करणैतद्धटप्रतियोगिकाभावत्वम् एतद्धटसमानकालीनो योऽत्यन्ताभावस् तदवृत्तीत्युच्यते । एतद्धटात्यन्ताभाव एवैतद्धटसमानाधिकरण एतद्धटसमानकालीनश्च न भवतीति यावत् । एवं च स्वसमानाधिकरणस्वसमानकालीनात्यन्ताभावाप्रतियोगित्वरूपसत्वसिद्धिः । अन्योन्या-भावातिरिक्तेत्यभावविशेषणम् । एतद्धटसमानाधिकरणैतद्धटप्रतियोगिकाभावो ऽन्योन्या-भावोऽपि भवति । कपालमेतद्धटो नेति प्रतीत्या एतद्धटान्योन्याभावस्य कपाले एतद्धट-समानाधिकरणत्वात् सचैतद्धटसमानकालीनोपि भवति । एवंचैतद्धटसमानाधिकरणैतद्धट-प्रतियोगिकाभावत्वम् एतद्धटसमानकालीनावृत्तीति साधने एतद्धटान्योन्याभावत्वमादाय बाधः स्यात् । अतोऽन्योन्याभावातिरिक्तेति । तावत्युक्ते तन्त्वादौ एतद्धटप्रतियोगिकात्यन्ता-भावस्तावदस्ति । स चान्योन्याभावातिरिक्त एतद्धटसमानकालीनश्च । एतद्धटस्य तन्त्वादावे-तद्धटात्यन्ताभावस्य च समानकालीनत्वात् । एवं चैतद्धटप्रतियोगिकाभावत्वम् एतद्धट-समानकालीनावृत्तीति साधने तन्त्वादिनिष्ठैतद्घटात्यन्ताभावमादाय बाधः स्यात् । अत एतद्घटसमानाधिकरणेत्युक्तम् । तन्त्वादिनिष्ठैतद्घटात्यन्ताभावस्यैतद्घटसमानाधिकरणत्वा-भावान्न बाधः ।

अन्योन्याभावातिरिक्तैतद्धटसमानाधिकरणनिष्ठधर्मत्वमित्येतावत्युक्ते कपालरूपादिक-मन्योन्याभावातिरिक्तमेतद्धटसमानाधिकरणमेतद्धटसमानकालीनं च भवति । एवं च कपाल-रूपत्वे एतद्धटसमानकालीनावृत्तित्वसाधने बाधः स्यात् । अतो ऽभावत्वमित्युक्तम् । ताव-त्युक्ते अन्योन्याभावातिरिक्ते कपाले एतद्धटसमानाधिकरणो यः पटात्यन्ताभावः स एतद्धट-समानकालीनश्च भवति । तथा च तन्निष्ठे पटात्यन्ताभावत्वे एतद्धटसमानकालीनावृत्तित्व-साधने बाधः स्यात् । अत एतद्धटप्रतियोगिकेत्युक्तम् । नन्वेतद्धटप्रतियोगिपदेनैव कपाल-रूपत्वमादाय बाधस्य परिहृतत्वादेतद्धटप्रतियोगिकनिष्ठधर्मत्वमित्येवास्तु अभावत्वमित्ये-तत्किमर्थमिति चेदुच्यते । एतद्धटसमवायो द्विनिष्ठत्वेन कपाले एतद्धटसमानाधिकरणः स्वप्रतियोगिकत्वेनैतद्धटप्रतियोगिकत्वेनैतद्धटप्रतियोगिकश्च भवति । तद्वृत्ति यदेतद्धटकपाल-समवायत्वं तदादाय बाधः स्यात् । तस्यैतद्धटसमानकालीनो य एतद्धटसमवायस् तद्वृत्ति-त्वात् । अतोऽभावत्वमित्युक्तम् ।

नन्वेवं चेत्पुनर्बाधः । व्यधिकरणधर्मावच्छिन्नाभावपक्षे संयोगेन सम्बन्धेन घटवति भूतले समवेतत्वावच्छिन्नघटो नास्तीति प्रतीत्याऽन्योन्याभावातिरिक्तः भूतलादावेतद्धटसमानाधि-करणः य एतद्धटात्यन्ताभावो ऽसमवेतत्वरूपव्यधिकरण धर्मावच्छिन्नत्वाद्यत्यन्ताभावः स एतद्धटसमानकालीनश्च भवति । एवं च व्यधिकरणधर्मावच्छिन्नैतद्धटात्यन्ताभावत्वे एतद्धट-समानकालीनावृत्तित्वसाधने बाधः स्यात् । अतोऽन्योन्याभावातिरिक्तैतद्धटसमानाधिकरण-व्यधिकरणधर्मानवच्छिन्नैतद्धटात्यन्ताभावत्वमिति विशेषणीयम् । अतो न बाधः । हेतावाद्यविशेषणत्यागे एतद्धटान्योन्याभावत्वे एतद्धटसमानकालीनान्योन्याभाववृत्तिनि हेतो-र्व्यभिचारः स्यात् । अत आद्यमन्योन्याभावातिरिक्तेत्यभावविशेषणम् । तावत्युक्ते तन्त्वादि-निष्ठैतद्धटात्यन्ताभावत्वे एतद्धटसमानकालीनतन्तुनिष्ठैतद्धटात्यन्ताभाववृत्तिनि हेतोर्व्यभिचारः स्यात् । अत एतद्धटसमानाधिकरणेति द्वितीयं विशेषणम् । एतावत्युक्ते एतद्धटसमानाधि-करणैतद्धटसमानकालीनकपालरूपवर्तिनि कपालरूपत्वे व्यभिचारः स्यात् । अत एतद्धटप्रतियोगिकाभाववृत्तित्वादित्युक्तम् ।

तावत्युक्ते एतद्धटसमानाधिकरणात्यन्ताभाववृत्तिनि पटात्यन्ताभावत्वे एतद्धटसमान-कालीनपटात्यताभाववृत्तिनि च व्यभिचारः स्यात् । अत एतद्धटप्रतियोगिकेत्युक्तम् । एता-वत्युक्ते एतद्धटकपालसमवायो द्विनिष्ठत्वेन कपाले एतद्धटसमानाधिकरणः स्वप्रतियोगिकत्वे-नैतद्धटप्रतियोगिकश्च भवति । तद्वृत्तिनि एतद्धटकपालसमवाये एतद्धटसमानकालीनो य एतद्धटसमवायस् तद्वृत्तिनि व्यभिचारः स्यात् । अतो ऽभावेत्युक्तम् । तावत्युक्ते प्रमेयत्वे एतद्धटसमानकालीनयत्समवेतादिवर्तिनि व्यभिचारः स्यात् । अतो मात्रपदम् । एतावत्युक्ते समवेतत्वरूपव्यधिकरणधर्मावच्छिन्नैतद्धटात्यन्ताभावत्वे एतद्धटसमानकालीनो यः समवेतत्वा- वच्छिन्नैतद्धटात्यन्ताभावस् तद्वृत्तिनि व्यभिचारः स्यात् । अतो व्यधिकरणधर्मानवच्छिन्ने-त्यपि विशेषणं देयम् । दृष्टान्ते पटप्रागभावत्वे एतद्धटसमानकालीनो यः पटप्रागभावस् तद्वृत्तित्वेन साध्यवैकल्यं स्यात् । एतद्धटप्रतियोगिकाभाववृत्तित्वाभावेन साधनवैकल्यं च स्यात् । अत एतद्धटप्रतियोगिकेत्युक्तमिति सम्प्रदायगम्यानि पदानां कृत्यानि द्रष्टव्यानि ॥ अनेन चेति ॥ अन्योन्याभावातिरिक्तैतद्धटसमानाधिकरणैतद्धटसमानकालीनाभावस्य निषेधे स्वसमानाधिकरणात्यन्ताभावप्रतियोगित्वरूपमिथ्यात्वाभावरूपसत्वसिद्धिरित्यर्थः ॥ अत्र चेति ॥ सामान्येनात्मसत्यत्वे विशिष्यानात्मसत्यत्वे चोक्तानुमानेष्वित्यर्थः । सङ्गृह्णाति ॥ तथा चेति ॥ असदिति ॥ अनेन प्रातिभासिकत्वानधिकरणत्वे सति असत्वानधिकरणत्वा-दित्यनुमानसङ्ग्रहः ॥ प्रमाणेति ॥ अनेनानिषेध्यत्वेन प्रमां प्रति साक्षाद्विषयत्वादित्यनुमान-सङ्ग्रहः ॥ आदिपदेनारोपितमिथ्यात्वकल्पकरहितत्वाद्यनुमानानां सङ्ग्रहः कृत इति ज्ञातव्यम् ॥

न्यायकल्पलता

अथ सद्विविविक्तत्वरूपपराभिप्रेतमिथ्यात्वविरोधिसाध्यसाधकमनुमानमन्वाचिनोति । किञ्चेति । तस्येति । तथा च रूप्ये हेतुसत्वे साध्यस्यापि सत्वापातान्न व्यभिचार इति भावः । ननु न रूप्ये साध्यस्य सत्वापातः । तथात्वे हि सर्वजनसिद्धबाधविरोधात् । गजादौ गोर्वैलक्ष्यण्येऽपि तद्विरुद्धाश्ववैलक्ष्यण्ययोगवत्सद्वैलक्ष्यण्येऽपि असद्वैेलक्ष्यण्ययोगोपपत्तिरिति चेत् । न । रूप्ये बाधोपपत्त्यर्थमसत्वस्यैवाङ्गीकर्तुमुचितत्वात् । न च तथात्वे प्रतीत्यनुपपत्तिः । अपरोक्षप्रतीत्युपपत्त्यर्थं सत्वस्याप्यङ्गीकरणीयत्वात् । निषेधसमुच्चयवद्विधिसमुच्चयस्यापि अनिर्वचनीयवादे अविरोधोपपत्तेः । सत्वासत्वयोः परस्परात्यन्ताभावरूपत्वस्य मिथ्यात्व-निरुक्तिभङ्गे उक्तत्वेन गजादौ गोत्वा(तदभाव)गोत्ववत्सामानाधि करण्यायोगेनैकस्मिन् गोवैलक्ष्यण्यागोवैलक्ष्यण्यवदश्ववैलक्षण्यानश्ववैलक्षण्यवच्च सद्वैलक्षण्यासद्वैलक्षण्यानुपपत्तेश्चेति । तस्मिन्नपरोक्षेऽपीति ।

अत्राहुरद्वैतवादिनः । सामान्याकारेणापरोक्षेऽपि शुक्त्यादौ रजतादेरनिषेध्यत्वेन साक्षाद्भास-मानतया तत्र व्यभिचारः । अथ व्यावृत्ताकारेण यस्मिन्भासमाने यदनिषेध्यत्वेन साक्षाद्भासते तन्न तदज्ञानकार्यादीति व्याप्तिरिति मन्यसे तर्ह्यसिद्धिः । न हि चैतन्यमिदानीं भ्रमनिवर्त-कत्वाभिमतव्यावृत्ताकारापरोक्षप्रतीतिविषयः । तथा सत्यधिष्ठानमेव न स्यात् । यदा तु वेदान्त-वाक्यजन्यवृत्तौ व्यावृत्ताकारतयाऽपरोक्षं तदा अनिषेध्यत्वेन प्रपञ्चे आपरोक्ष्यशङ्कापि नास्ति । अतः प्रमाणाकारज्ञानस्यैवाज्ञानविरोधित्वान्नापरोक्षज्ञानमात्रेणाज्ञानपराहतिप्रसङ्ग इति । तदसारम् । भ्रमनिवर्तकाभिमताधिष्ठानपरोक्षज्ञानान्यूनविषयकाधिष्ठानापरोक्षज्ञानस्यात्रापरोक्षपदेन विवक्षितत्वात् । तव मते चैतन्यमात्रस्यैव भ्रमनिवर्तकापरोक्षज्ञानविषयत्वात् । तावन्मात्रस्य चेदानीमपि स्फुरणात् । व्यावृत्तासाधारणाकारस्य स्वरूपातिरिक्तस्य न वेदान्तवाक्यजन्यवृत्तावपि विषयता । निष्प्रकारकत्वहान्यापत्तेरिति ।

यत्तु अज्ञानपदेन ज्ञानाभावोक्तौ सिद्धसाधनम् । अनिर्वचनीयाज्ञानोक्तौ च तस्य खपुष्पाय-माणत्वेन प्रतियोग्यप्रसिद्धिरिति । तत्तुच्छम् । पराभ्युपगममात्रेण प्रतियोगिप्रसिद्धिसम्भवात् । तदुक्तं – मतद्वयेऽप्यप्रामाणिकस्यापि निषेधप्रतियोगित्वादिति । शङ्खत्वादाविति । ननु चक्षुषा रूपे गृह्यमाण एव द्रव्यग्रहणस्य द्रव्यचाक्षुषत्वाप्रयोजकत्वात् । समानसंवित्संवेद्यत्वेपि क्वचिज्जातिं विना व्यक्तिग्रहवद्रूपग्रहमन्तरेणापि द्रव्यग्रहणोपपत्तेश्च । अन्यथा महारजतरूपाभिभूतधवलिम्नः पटस्यानुपलम्भप्रसङ्ग इति युक्तमुत्पत्स्यामः । शङ्खतत्वेति । भ्रमविरोधिश्वैत्येत्यर्थः । ननु प्रतिबिम्बे व्यभिचारः । स हि मुखैक्यसाक्षात्कारवत्प्रवृत्तिविषयो मुखे अध्यस्त इति चेत् । मैवम् । न हि मुखैक्यसाक्षात्कारवतः प्रवृत्तिविषयः प्रतिबिम्बः किन्तु तद्भेदसाक्षात्कारवत एव । अत एव बालानां तत्र बालान्तरधीः । न च तद्व्यतिरेकेणोपलभ्यमानत्वमुपाधिः । व्यतिरेके-णेत्यस्य भेदेनेति यदि तदोपाधेर्न पक्षाद्व्यावृत्तिः । नाहं शुद्धं ब्रह्म, नाहं जगत्कर्ता, शुद्धं ब्रह्म न जानामि, घटो न स्फुरणं किन्तु घटस्य स्फुरणमित्यादिभेदेनैव प्रपञ्चोपलम्भात् । अथ विनेत्यर्थस् तदा रूपादिहीनेनासंसारमज्ञानावृतेन चैतन्येन विनापि चाक्षुषादिज्ञाने घटादेरुपलभ्य-मानत्वेनोपाधेर्न पक्षाद्व्यावृत्तिरिति । तं प्रतीति । न चैन्द्रजालिकं प्रत्यपरोक्षेे तन्मायाकल्पिते व्यभिचार इति वाच्यम् । मायाविनं प्रति मायिकस्यापरोक्षत्वाभावात् । तदुक्तम् । ‘न च मायाविना माया दृश्यते विश्वमीश्वरः । सदा पश्यति तेनेदं न मायेत्यवर्धताम्’ इति ।

नापि मायाविद्ययोरभेदाद्देहात्मैक्ये व्यभिचार इति शङ्क्यम् । अम्बरादेरीश्वरेणानिषेध्यतया दृश्यमानत्वेनाविद्यामयत्वायोगात् । तदुक्तम्–

अपरोक्षदृशो मिथ्यादर्शनं न क्वचिद्भवेत् ।

सर्वापरोक्षविद्विष्णुर् विश्वदृक्तन्न तन्मृषेति ॥

यद्वा मायाविद्ययोर्भेदमाश्रित्येयमुक्तिः । अत एव न रूप्ये व्यभिचारः । प्रपञ्चस्या-विद्यामयत्वं दूषयति । विमतं न जीवकल्पितमिति । स इदं सर्वमसृजत । तदैक्षतेतीक्षा-पूर्वकतेजोबन्नादिसर्वजगत्स्रष्ट्रत्वप्रतिपादकश्रुत्यादिविरोधश्च विपक्षे बाधको ज्ञेयः । प्रत्यभिज्ञाना-दिति । ननु सुषुप्तिकालस्थायित्वासाधकत्वस्य प्रत्यभिज्ञाया दृष्टिसृष्टिसमर्थने वक्ष्यमाणत्वाद-सिद्धिरिति चेत् । न तत्रैव निरसिष्यमाणत्वात् । अदृष्टादेरिति । न चादृष्टादेः कारणात्मनाऽ-वस्थितत्वेन पुनरुत्थानसम्भव इति युक्तम् । तस्याप्यदृष्टसमानयोगक्षेमत्वात् । अहमर्थस्यापि तदा प्रलीनत्वेन पुनरुत्थानायोगात् । चिन्मात्रस्य निष्क्रियत्वात् । अविद्यायाः स्वतो व्यापारा-योगात् । मिथ्यामात्रेति । प्रतियोगित्वादौ व्यभिचारवारणाय मात्रपदम् । न च मिथ्यात्व-न्यूनवृत्तित्वमुपाधिः । प्रमेयत्वादौ साध्याव्यापकत्वात् । तस्यात्मान्यसर्वान्तःपातिनि तुच्छे वृत्त्यभावेन साध्यवतो मिथ्यात्वन्यूनवृत्तित्वाभावात् ।

ननु पक्षीकृतं मिथ्यात्वं सदसद्विलक्षणत्वं वा सद्विलक्षणत्वमात्रं वा । आद्ये सिद्ध-साधनम् । तस्यात्मान्यसर्वमध्यपतितासद्वृत्तित्वाभावात् । द्वितीये तु हेतौ मिथ्यापदस्य सदसद्वै-लक्षण्यपरत्वे स्वरूपासिद्धिः । सद्वैलक्षण्यरूपे पक्षे तुच्छसाधारणे सदसद्विलक्षणेतरावृत्तित्व-हेत्वभावात् । तस्यापि सद्वैलक्षण्यमात्रपरत्वे सन्दिग्धानैकान्तिकता । साध्याभाववत्यात्मभेदे हेतुसन्देहाद् अप्रयोजकत्वाच्चेति । मैवम्् । आद्ये पक्षे दोषाभावात् । साध्यगतसर्वनामत्वेना-सद्विलक्षणसर्वपरत्वात् । विपक्षे बाधकस्यानुकूलतर्कस्योक्तत्वान्नाप्रयोजकत्वादिकमिति ।

परमार्थसदन्य इति । परमार्थसतः सकाशादन्य इत्यर्थः । स्वभेदस्य बाधेन पक्षधर्मता-बलात्स्वेतरपरमार्थसत्प्रतियोगिकभेदसिद्धिः । न च कल्पितेनात्मप्रतियोगिकभेदेनार्थन्तरम् । कल्पिताकल्पितयोरेकसामान्याभावेन तेन समं व्याप्तेरग्रहात् । अन्यथा मिथ्यात्वानुमाने कल्पितमिथ्यात्वमादायार्थान्तरं स्यात् सिद्धसाधनं वा । न च व्यावहारिकपदार्थमादाय सिद्धसाधनेऽतिप्रसङ्गाभाव इति युक्तम् । आत्मनि स्वप्रतियोगिकस्य व्यावहारिकभेदस्य तव मतेऽप्यभावात् । आत्मान्यस्य परमार्थसतोऽभावात् । परमार्थसदन्तराभावे साध्यसिध्यभावा-पत्तेः । न चानानन्दत्वमुपाधिः । परमार्थसदन्यत्वात् । भावमन्तरेणानन्दत्वस्योपाध्यभावस्य व्याघाताद्यभावेनोपाधेरप्रयोजकत्वात् । भावाद्वैतिनं प्रत्याह । परमार्थसद्भावान्यो वेति । अभावस्य द्वितीयस्य परमार्थत्वपक्षे सिद्धसाधनतावारणाय भावेति । एवमग्रेऽपि । यावत्स्वेति । अत्र पञ्चप्रकाराविद्यानिवृत्त्यभ्युपगमपक्षे सिद्धसाधनपरिहाराय साध्ययोर्भावपदम् ।

यत्तु यावत्स्वरूपमित्यत्र स्वशब्दस्य यत्किञ्चित्स्वरूपपरत्वे सिद्धसाधनम् । आत्म-स्वरूपपरत्वे साध्याप्रसिद्धिः । न हि यावदात्मस्वरूपमनुवर्तमानोऽनात्मा प्रसिद्धोऽस्ति । तथा सत्यनुमानवैय्यर्थ्यादिति । तन्मन्दम् । स्वशब्दस्य समभिव्याहृतपरत्वाद्व्याप्तिग्रहदशायां दृष्टान्त-स्वरूपपरत्वम् । पक्षधर्मताग्रहदशायां चात्मस्वरूपपरत्वमेवेति न साध्याप्रसिद्धिर्न वा सिद्ध-साधनमिति । न चानुमाने शब्दस्वभावोपन्यासस्यानुपयोग इति युक्तम् । आत्मायावत्स्वरूप-मनुवर्तमानेति वाक्ये यतो विशेषादाकाङ्क्षोत्थापने सति स्वपदेनात्मस्वरूपमेव बोध्यते । न त्वन्यत् । स च विशेषः पक्षधर्मताया विशेषसाधनसामर्थ्ये उपयुज्यत एव । यदेव हि विशेषबोधने प्रतिज्ञायामाकाङ्क्षादिविशेषोत्थापकतया सहकारि तदेव तत्रानुमाने पक्षधर्मतायां तथा । अत एव प्रतिज्ञायामाकाङ्काक्षालभ्योऽर्थः पक्षधर्मताविषय इत्युच्यत इति न कश्चिद्दोषः । अविद्यानुमाने स्वप्रागभावव्यतिरिक्तस्वविषयावरणेत्याद्यनेकस्वशब्दकसाध्यस्य त्वदीयैर्विवरणेऽ-प्युक्तत्वात् । स्वप्रतियोगीति । स्वशब्दनिर्दिष्टाया बन्धनिवृत्तेः प्रतियोगी बन्धस् तस्य विषय आत्मा तद्विषयकं यदीक्षणं मोक्षज्ञानं तेनाबाध्यो योऽनात्मा तेन सहवर्तमानेत्यर्थः । निगडेति । चोरादिविषयज्ञानाबाध्यानात्मसमानकालीना निगडबन्धनिवृत्तिर्भवतीत्यर्थः । ननु पक्षदृष्टान्तयो-र्बन्धपदार्थस्यैकस्याभावेन स्वरूपासिद्धिसाधनवैकल्यान्यतरापात इति चेन्मैवम् । न हि निगडादावपि बन्धशब्दप्रयोगेण तन्निमित्तस्याविद्यायामिव तत्रापि वाच्यत्वात् ।

बन्धोऽस्याविद्ययाऽनादिविद्यया च तथेतरः ।

बन्धको भावपाशेन भवपाशाच्च मोचकः ।

कैवल्यदः परं ब्रह्म विष्णुरेव न संशयः ।

(१-३-३४) इति श्रीभागवतादौ प्रयोगात् ।

अप्रकाशितार्थप्रकाशकत्वादित्यविद्यानुमाने त्वदीयैरपि ज्ञानप्रभया प्रकाशत्वस्योक्तेश्च । हेतौ च बन्धपदं निवृत्तिविशेषलाभाय । अतोऽखण्डाभावतुल्यतया न वैय्यर्थ्यम् । अविवक्षितार्थं वा । नन्वप्रयोजकमिदम् । कस्याश्चिन्निवृत्तेरनात्मसमानकालीनत्वदर्शनं निवृत्तिमात्रस्य तथात्व-साधने । संसारकालीनाया दुःखनिवृत्तेः समानाधिकरणदुःखप्रागभावकालीनत्वदर्शनमिव दुःख-निवृत्तिमात्रस्य तथात्वसाधन इति चेत् । न । निवृत्तेः स्वकारणानात्मसहभावं विना तज्जन्यत्वा-सिद्धेः, इत्यादितर्कानुगृहीतत्वात् । उक्तनिवृत्तेस्तु नानुग्राहकस्तर्कोऽस्तीति विशेषात् । बन्ध-निवृत्तेस्तु हेतुरनात्मारजस्तमोभ्यामनभिभूतः सत्वगुणः । सत्वात्सञ्जायते ज्ञानमिति गीतोक्तेः कालविशेषो वा ।

यद्येषोपरता देवी माया वैशारदी मतिः ।

सम्पन्न एवेति विदुर्महिमि्न स्वे महीयते ॥ इति भागवते ।

यस्मिन्काले उपरता नैनं जीवं संसारयामीति निवृत्तबन्धनव्यापारा भगवदिच्छा भवतीत्यर्थः । आत्मधीरिति । ‘‘जुष्टं यदा पश्यत्यन्यमीशम् । पृथगात्मानं प्रेरितारं च मत्वा, एकमेवाद्वितीयं, इत्यादिवेदान्तवाक्यजन्येत्यर्थः । न स्वविषयेति । क्षणिकत्वादिरूपे-णात्मधियोऽक्षणिकत्वादिधीबाध्यत्वाद् बाधपरिहाराय स्वविषयेति विशेषणम् । यत्तु धीपदेन चैतन्यमात्रविवक्षायां सिद्धसाधनमिति तद्बालभाषितम् । चैतन्यमात्रस्यात्मधीत्वासम्भवेन तच्छङ्काया एवानुदयात् । धीत्वादीति । ननु ‘‘अन्धोऽयं रूपज्ञानवान्’’ इत्यन्धस्य रूपविषय-तया कल्पितं यज्ज्ञानं तस्य रूपं नान्धगम्यमिति स्वविषयविषयकप्रत्ययबाध्यत्वदर्शनेन व्यभिचारः । कल्पितत्वात्तत्र तद्बाधने प्रकृतेऽपि वृत्तेः कल्पितत्वं सममिति चेत् । न रूपविषय-तया कल्पितस्य ज्ञानस्य रूपं नान्धगम्यमिति ज्ञानेन समानविषयकत्वाभावात् । न च स्वविरोध्यविषयकत्वमुपाधिः । पक्षाव्यावृत्तेः । आत्माधिष्ठानकेति । भ्रमहेतुमात्रस्य पक्षत्वे शुक्त्यधिष्ठानकभ्रमहेतुचाकचक्यादौ सिद्धसाधनतां परिहर्तुमिदं विशेषणम् । शुक्तिकायां रूप्यभ्रमहेतोश्चाकचक्यस्य घटादौ बाध्यत्वदर्शनाद्व्यभिचारवारणाय साध्ये स्वकार्येत्युक्तम् । शुक्त्यज्ञानमपीति ॥ शुक्तितत्त्वज्ञाननिवर्त्यमपि तदज्ञानं तदध्यस्तरूप्यवन्न त्रैकालिकनिषेध-प्रतियोगित्वेन तद्वेद्यम् । एतावन्तं कालं शुक्त्यज्ञानमासीदिति सत्वेनानुसन्धीयमानत्वात् । एवं च तत्र व्यभिचारो नैव दोष इत्यर्थः ।

ननु दूरादिदोषादुपलादौ यत्र चाकचक्यकल्पना । तेन च चाकचक्यदोषेण शुक्ताविव रजतकल्पना तत्राधिष्ठानज्ञानेन चाकचक्यरूप्ययोरूभयोरपि बाधदर्शनाद्व्यभिचार इति चेत् । मैवम् । आरोपितस्य सद्विलक्षणत्वेनाहेतुत्वात् । सत्यपि चाकचक्यादौ तज्ज्ञानमन्तरेणारोपा-दर्शनात्तज्ज्ञानस्यैवारोपहेतुत्वात् । तत्र साध्यस्यापि सत्वेन व्यभिचाराभावात् । न च व्यावृत्ता-काराधिष्ठानज्ञानान्याबाध्यत्वं वा स्वकार्यभ्रमाधिष्ठानानारोपितत्वं वोपाधिरिति वाच्यम् । व्यावृत्ताकारेत्यस्य पक्षमात्रव्यावर्तकत्वेनाद्यस्योपाधेः पक्षेतरत्वात् । द्वितीये साधनव्यापकत्वम् । तत्रारोपितस्य तदधिष्ठानभ्रमाहेतुत्वेन साधनाव्याप्तिसन्देहस्याप्यभावात् । अप्रयोजकत्वाच्च । ब्रह्मान्यदनादीति । अत्र पक्षे हेतौ चानादिपदमनादिभावपरं बोध्यम् । अत एव ध्वंसाप्रति-योगित्वं नोपाधिः । पक्षादव्यावृत्तेः । कालाद्यसम्बद्धं नावतिष्ठत इति । ननु कालसम्बन्धं विना नावतिष्ठत इत्यस्य यदा ब्रह्म तदाऽवश्यं कालसम्बन्ध इत्येवंरूपा व्याप्तिरित्यर्थः । तथा च सिद्धसाधनम् । न हि यस्मिन्काले ब्रह्म तस्मिन्काले ब्रह्मणः कालसम्बन्धो नास्ति । एवं यत्रात्मा तत्र ब्रह्मणः कालसम्बन्ध इति दैशिकव्याप्तावपि सिद्धसाधनम् । न हि देशः कालासम्बद्धः कदाप्यस्ति । परममुक्तौ तु न देशो न वा काल इति ।

तदेतदभद्रम् । कालासंसृष्टसत्ताराहित्यस्य साध्यार्थत्वेन सिद्धसाधनानवकाशात् । न हि परमते मुक्तौ ब्रह्मसत्तायाः कालसंसर्गोऽस्ति । यावद्ब्रह्म विष्टितं तावती वाक्, अनादिनिधनः काल इत्यादिश्रुतिस्मृतिविरोधश्च । ब्रह्म कालं विनाऽस्तीत्येतद्व्याहतं च । वेदैकगम्यमिति । न च पारमार्थिकत्वेन श्रुतितात्पर्यविषयत्वमुपाधिरिति युक्तम् । ईश्वरानुमाने शरीरजन्यत्वादि-वत्साधनविशेषितत्वात् । धर्मादावपरमार्थत्वेन श्रुतितात्पर्याविषये परमार्थत्वेनैव श्रुतितात्पर्य-विषयत्वस्य वाच्यतयोपाधेः पक्षादव्यावृत्तेश्च । न च वृत्तिव्याप्यमपि नेति मते ब्रह्मणस्तात्पर्य-विषयत्वस्य दुर्वचत्वात् साधनविकलत्वमिति वाच्यम् । ‘‘सर्वे वेदा यत्पदमामनन्ति तपांसि सर्वाणि च यद्वदन्ति । वेदैश्च सर्वैरहमेव वेद्यः’’ इति श्रुतिस्मृतिविरोधेनापाकरणीयत्वात् । यद् ब्रह्म उद्दिश्य वदन्तीत्यर्थः । पारमार्थिकत्वेन विशेषणं चायुक्तमन्योन्याश्रयादिति । दोषा-जन्येति । ननु शुक्तिरूप्यादिषु व्यभिचारः । तेषां दोषजन्यदोषजन्यवृत्तिविषयत्वेऽपि दोषा-जन्यसाक्षिविषयत्वात् । शुद्धस्य वृत्तिविषयत्वानभ्युपगमे दृष्टान्तस्य साधनविकलत्वाच्च । ज्ञानाविषयत्वविवक्षया चासिद्धो हेतुः । साक्ष्यवच्छेदकायाम् अविद्यावृत्तेर्दोषजन्यत्वादिति । मैवम् । अत्र दोषोभयसिद्धत्वं विवक्षितम् । तेनाखण्डाभावरूपतया हेतौ न विशेषणस्यासिद्धि-वारकतया वैय्यर्थ्यम् । साक्षिणः शुद्धचिद्रूपत्वस्योपपादितत्वान्न व्यभिचारः । शुद्धस्य वृत्तिविषयत्वाभ्युपगमेन न साधनवैकल्यम् । विशिष्टभावस्य तत्रापि सत्त्वात् ।

एतेनात्मनो वृत्तिविषयत्वानभ्युपगमे त्वविषयत्वमात्रस्यैव परमार्थसत्वसाधकत्वोपपत्तौ दोषजन्यत्वज्ञानेति विशेषणवैय्यर्थ्याद्व्याप्यत्वासिद्धिः । तावन्मात्रं च पक्षे स्वरूपासिद्धमिति निरस्तम् । विशिष्टोपाधौ वैय्यर्थ्यशङ्काया एवानुदयात् । अनिषेध्यत्वेनेति विशेषणादसद्गोचर-शाब्दज्ञानात्मकविकल्पस्य दोषाजन्यत्वेनासति व्यभिचारश्च प्रत्युक्तः । स्वविषयेति । पररीत्या रूप्यादौ व्यभिचारपरिहाराय स्वविषयकेत्यादि हेतौ विशेषणम् । न च दृष्टिसृष्टिपक्षे असिद्धिः । प्रतिकर्मव्यवस्थानुपपत्त्या तस्य त्वयाऽप्यभ्युपगमनीयत्वात् । विषमव्याप्तमनादित्वं चानुपाधिः । अप्रयोजकत्वात् । अन्योन्याभावातिरिक्तेति । एतच्चाभावविशेषणम् । एतद्घटसमानाधिकरणे एतद्घटप्रतियोगिकान्योन्याभावे एतद्घटसमानकालीने एतद्घटसमानाधिकरणैतद्घटप्रतियोगिका-भावत्वं वर्तत इति बाधवारणाय । तन्त्वादिनिष्ठैतद्घटप्रतियोगिकात्यन्ताभावे एतद्घटसमान-कालीने बाधपरिहाराय एतद्घटसमानाधिकरणेति विशेषणम् ।

एतद्घटसमानाधिकरणे कपालरूपादौ बाधनिरासाय एतद्घटप्रतियोगिकाभावत्वमिति । हेतौ चैतद्घटान्योन्याभावत्वे व्यभिचारव्युदासायाद्यं विशेषणम् । तन्त्वादिनिष्ठैतद्घटात्यन्ताभावे तद्वारणाय द्वितीयम् । सम्बन्धविशेषेण वृत्तिनियामकेन य एतद्घटस्तत्समानाधिकरणेत्यर्थः । तेन संयोगसम्बन्धेन घटवत्यपि भूतले समवायसम्बन्धेन घटात्यन्ताभावसत्त्वात्साध्याभाववति घटात्यन्ताभावत्वे व्यभिचार इति शङ्का परिहृता । पक्षेऽप्येतद्घटसमानाधिकरणेत्यस्यैवमेवार्थः । तेन तत्र बाधो व्युदस्तः । एतद्घटसमानाधिकरणे पटात्यन्ताभावत्वे व्यभिचारनिरासाय तृतीयं विशेषणम् । एतद्घटकपालसमवाये तद्वारणायाभावेति । प्रमेयत्वादौ तन्निराकरणाय मात्रेति । पटप्रागभावादौ साध्यसाधनवैकल्यपरिहाराय एतद्घटेत्यादि दृष्टान्ते विशेषणम् । अनेन चेति । अन्योन्याभावातिरिक्तैतद्घटसमानाधिकरणैतद्घटसमानकालीनाभावस्य निषेधे स्वसमानाधिकरणा-त्यन्ताभावप्रतियोगित्वरूपमिथ्यात्वाभावलक्षणसत्वसिद्धिरित्यर्थः । न चैतद्घटप्रतियोगिकजन्य-जनकान्यतरमात्रवृत्तित्वमुपाधिः । एतद्घटपूर्वकालीनमात्रवृत्त्येतद्घटत्वादौ साध्याव्याप्तेः । न च साधनावच्छिन्नसाध्यव्यापकत्वम् । पक्षीकृतधर्मस्यात्यन्ताभाववृत्तित्वसन्देहे साधनाव्यापकत्वा-सन्देहात् । न च विपक्षबाधकतर्कानवतारदशायां शङ्कितोऽप्युपाधिरिति वाच्यम् । तदभावात् । प्रत्युत स्थापनायामेवानुकूलतर्कसद्भाव इत्याह । अत्र चेति ।

न्यायामृतसौगन्ध्यं

विमतं न सद्विलक्षणम् असद्विलक्षणत्वादात्मवत् । न च शुक्तिरूप्यादौ व्यभिचारः । सत्वासत्वयोः परस्परविरहरूपत्वस्योपपादितत्वेन तत्र हेत्वभावात् । विमतं न चैतन्या-ज्ञानकार्यं, न तत्कार्यधीविषयः वा, न तत्कार्यसत्ववद्वा, न तज्ज्ञानबाध्यसत्ववद्वा, तस्मिन्नपरोक्षेऽप्यनिषेध्यत्वेन साक्षाद्भासमानत्वात्, यदेवं तदेवं, यथा घटे अपरोक्षेऽपि अनिषेध्यत्वेन साक्षाद्भासमानः पटो न घटाज्ञानकार्यादिः, विपक्षे च तदापरोक्ष्ये तदज्ञान-व्याहतिरेव बाधिका । न चासिद्धिः । अधिष्ठानतया सुखादिसाक्षित्वेन त(चे)दानीमपि चैतन्यभानात् ।

ननु भासमानत्वं सामान्याकारेण व्यावृत्ताकारेण वा । नाद्यः । इदन्त्वेन भासमानेऽपि शुक्त्यादौ रजतादेरनिषेध्यत्वेन साक्षाद्भासमानतया व्यभिचारात् । नान्त्यः । चैतन्यस्य भ्रमनिवर्तकत्वाभिमतव्यावृत्ताकारापरोक्षतया इदानीमभासमानत्वादिति चेन्न । भ्रमबाधकत्वे-नाभिमतं यच्चैतन्यज्ञानं तदन्यूनविषयकापरोक्षत्वस्यापरोक्षपदेनोक्तत्वात्् । विमतं नात्मन्य-ध्यस्तम् आत्मसाक्षात्कारवत्प्रवृत्तिविषयत्वात्, यदेवं तदेवं, यथा घटसाक्षात्कारवत्प्रवृत्तिविषयो घटो न तत्राध्यस्तः । न चासिद्धिः । ईशजीवन्मुक्तयोरात्मसाक्षात्कारवतोरपि जगद्रक्षण-भिक्षाटनादौ प्रवृत्तेः । शङ्खे अध्यस्तमपि पीतत्वं न शङ्खश्वेतत्वसाक्षात्कारवत्प्रवृत्तिविषय इति न तत्र व्यभिचारः । न च प्रतिबिम्बे व्यभिचारः । स हि मुखैक्यसाक्षात्कारवत्प्रवृत्तिविषयो मुखेऽध्यस्तः । तद्व्यतिरेकेणोपलभ्यमानत्वमुपाधिश्चेति वाच्यम् । मुखैक्यसाक्षात्कारेण तदज्ञाननिवृत्तावपि विद्यमानस्य प्रतिबिम्बस्याध्यस्तत्वासम्भवात् ।

न चोपाधिनिवृत्तिसचिवेनैव ज्ञानेन तन्निवृत्तिः, न तु केवलेनेति वाच्यम् । ज्ञानेन स्वप्रागभावनिवृत्तावप्यज्ञाननिवृत्तावपीतरानपेक्षणात्, अन्वयव्यतिरेकाभ्यामुपाधिनिवृत्यैव तन्निवृत्तिरिति प्रतिबिम्बो अनध्यस्त एव । एतेन विशेषदर्शिनां मुखैकत्वं जानतामेव तद्दर्शने प्रवृत्तिरानुभाविकीति निरस्तम् । न चैक्यसाक्षात्कारवतो न द्वैतदर्शनं, द्वैताद्वैतदर्शनयोर्युग-पद्विरुद्धत्वादिति वाच्यम् । तद्वतां श्रुतिप्रसिद्धानां शुकादीनां भिक्षाटनशिष्योपदेशादौ प्रवृत्तेः । उपाधिरप्ययुक्तः । व्यतिरेकेणेत्यस्य भेदेनेति यदि तदोपाधेर्न पक्षाद्व्यावृत्तिः । शुद्धं ब्रह्म न जानामि, घटस्य स्फुरणमित्यादिभेदेनैव प्रपञ्चोपलम्भात् । विनेति यदि तदा रूपादिहीनेनासंसारम् अज्ञानावृत्तेन चैतन्येन विनापि चाक्षुषादिज्ञाने घटादेरुपलभ्यमानत्वे-नोपाधेर्न पक्षाद्व्यावृत्तिः ।

विमतं नेश्वरमायाकल्पितं, तं प्रत्यपरोक्षत्वात्, यदेवं तदेवं, यथा चैत्रं प्रत्यपरोक्षो घटो न चैत्रमायाकल्पितः । विमतं न जीवकल्पितं, तस्मिन् सुषुप्तेऽप्यवस्थितत्वादात्मवत् । न चासिद्धिः । स एवायमित्यादिप्रत्यभिज्ञानात् । अदृष्टाद्यभावेन पुनरनुत्थानापत्तेः । न चाद्ये ऐन्द्रजालिकं प्रत्यपरोक्षे तन्मायाकल्पिते व्यभिचारः । स्वमायामोहरहितस्य तस्य तदापरोक्ष्याभावात् । न हि मायामोहं विना मायिकदर्शनं युक्तम् । यत्तु मायिनो मायाकल्पितस्याभाने तदुपादानकप्रवृत्तिर्न स्यात् । तत्प्रत्यक्षस्य तत्र हेतुत्वात् । दृश्यते हि स्वमायानिर्मिताम्रफलादानच्छेदनादौ प्रवृत्तिः । मायायुद्वे च स्वमायानिर्मितगजतुरग-शस्त्रादिव्यापारे प्रवृत्तिः । हरिवंशादौ प्रद्युम्नशम्बरयुद्वे– ‘ततो मायां परां चक्रे देवशत्रुः प्रतापवान् । सिंहान्् व्याघ्रान्’ इत्यादि शम्बरसृष्टमायिकानां ‘प्रद्युम्नेन तु तां मायां हतां वीक्ष्य स शम्बरः । अन्यां मायां मुमोचाथ दानवः’ इत्यादिना, प्रद्युम्नेन नाशस्य, शम्बरेण पुनः पुनः सर्जनस्य सुप्रसिद्धेः । न हि मायिकानां दर्शनं विना तत्सर्जनादौ प्रवृत्तिर्युक्तेति, तन्न । ऐन्द्रजालिके हि तदुपादानावच्छेदनादिप्रवृत्तिं प्रदर्श्य प्रतारयत्येव । अन्यथा स्वसृष्टेः स्ववृत्तिमपि कुर्यात् तद्दर्शने स्वस्यापि स्वप्रतारकत्वापत्तेः । शम्बरादिनिर्मितमायिकास्तु सत्या एव अर्थक्रियाकारित्वात् । मायाशब्दस्य नानार्थकत्वेन तत्र विचित्रशक्त्यर्थकत्वात् । अत एवाग्नेयाद्यस्त्रादेरग्न्यादिसृष्टिवद्विचित्रशक्त्या सत्या एव सिंहादयः सृज्यन्ते । अन्यथा अर्जुन-निर्मितजलेनाश्वादीनां तृषानिवृत्यादिवदैन्द्रजालिकेन निर्मितजलेन तृषानिवृत्तित्वापत्तेः । गुरूपदेशादिनाज्ञातमन्त्रादिप्रभावेनाम्रं पश्यन्त्विति वदन्ति, पश्यामीत्यपि प्रतारणायैव । यत्तु ऐन्द्रजालिके स्वसृष्टाननुपसंहृत्य मृते तत्सृष्टा दृश्यन्ते । यथा गयाप्रदेशपूर्वप्रदेशे बदरिकाश्रमे च तप्तोदककुण्डमिति तन्न । पृथिवीशिलाविशेषेणैव तदुपपत्तेः । बदरिकाश्रमे हि पर्वता-न्निसरत् तप्तोदकं न ह्यैन्द्रजालिकेनापरिमितं जातम् । ब्रह्मणः सृष्टिमारभ्य निस्सरतीत्यत्र प्रमाणमस्ति । न च द्वितीये दृष्टिसृष्टिमते प्रत्यभिज्ञा भ्रान्तिः । तन्मतस्यावैदिकस्य निरसिष्यमाणत्वात् । न चादृष्टादेः कारणात्मनाऽवस्थितत्वेन पुनरुत्थानसम्भवः । कारणस्य कार्यसाध्यक्रियाकरणासमर्थत्वात् ।

मिथ्यात्वम् आत्मान्यसर्ववृत्ति न, मिथ्यामात्रवृत्तित्वात् शुक्तिरूप्यत्ववत् । न च मिथ्यात्वन्यूूनवृत्तित्वमुपाधिः । त्वदभिमतप्रातिभासिकव्यावहारिकान्यतरत्वे साध्याव्याप-कत्वात् । पक्षीभूतमिथ्यात्वं सदसद्विलक्षणत्वं, न च सिद्धसाधनं, तस्यात्मान्यसर्वमध्य-पतितासद्वृत्तित्वाभावादिति वाच्यम् । साध्यगतसर्वशब्दस्य सर्वनामतया असद्विलक्षण-सर्वपरत्वात् । अनुकूलतर्कस्य वक्ष्यमाणत्वान् नाप्रयोजकत्वम् । आत्मा परमार्थसदन्यः पदार्थत्वादनात्मवत् । न च कल्पितात्मप्रतियोगिकव्यावहारिकभेदमादाय सिद्धसाधनम्, अनानन्दत्वोपाधिरिति वाच्यम् । आत्मत्वावच्छिन्नप्रतियोगिताकस्य व्यावहारिकस्य भेदस्य त्वन्मतेऽप्यात्मन्यभावात् । परमार्थसदन्यत्वाभावं विना अनानन्दत्वस्योपाध्याभावस्य व्याघाताद्यभावेनोपाधेरप्रयोजकत्वात् । आत्मा यावत्स्वरूपमनुवर्तमानानात्मवान्, याव-त्स्वरूपमनुवर्तमानभावरूपानात्मवान् वा, स्वज्ञानाबाध्यानात्मवान्, स्वज्ञानाबाध्यभावरूपा-नात्मवान्वा, पदार्थत्वाद् भावत्वाद्वा घटादिवद् इति । अत्र च पञ्चमप्रकाराविद्यानिवृत्त्य-भ्युपगमपक्षे सिद्धसाधनपरिहाराय साध्ययोर्भावरूपपदम् । ननु यावत्स्वरूपमित्यस्य यत्किञ्चित्स्वरूपपरत्वे सिद्धसाधनात् । आत्मस्वरूपरत्वे साध्याप्रसिद्धिः । न हि यावदात्म-स्वरूपमनुवर्तमानोऽनात्मा प्रसिद्धोऽस्ति । तथा सत्यनुमानवैय्यर्थ्यादिति चेन्न । स्व(स्वरूप)पदस्य समभिव्याहृतपरत्वात् । व्याप्तिग्रहदशायां दृष्टान्तस्वरूपं पक्षधर्मताग्रह-दशायां चात्मस्वरूपमेव हि प्राप्यते । न चानुमाने शब्दस्वभावोपन्यासोऽप्रयोजक इति वाच्यम् । आत्मा यावत्स्वरूपमनुवर्तमानेति वाक्ये यतो विशेषादाकाङ्क्षोत्थापनेति स्वपदे-नात्मस्वरूपमेव बोध्यते, न त्वन्यत् । स च विशेषः पक्षधर्मताया विशेषसाधनसामर्थ्य उपयुज्यत एव । यदेवेह विशेषबोधने प्रतिज्ञायाम् आकाङ्क्षाविशेषोत्थापकतया सहकारि तदेव तत्रानुमाने पक्षधर्मतायां तथा । अत एव प्रत्यभिज्ञायामाकाङ्क्षालभ्योऽर्थः पक्षधर्मताविशेष इति न कश्चिद्दोषः ।

वस्तुतस्तु पक्षदृष्टान्तादिसाधारणं स्वत्वमेकमित्यभिप्रायेणैवायं प्रयोगः । सम्मतं च तदभियुक्तानाम् । यावत्स्वसमानाधिकरणात्यन्ताभावप्रतियोगितावच्छेदकावच्छिन्नं यत् तत्प्रतियोगिकात्यन्ताभावसमानाधिकरणं यत्तेन सामानाधिकरण्यमित्यादि मण्यादौ तथा व्यवहृतत्वात् । स्वव्यवहारे स्वातिरिक्तसंविदपेक्षानियतिरूपं दृश्यत्वं स्वापरोक्षत्वे स्वाति-रिक्तानपेक्षत्वरूपं तद्भिन्नत्वं हेतुरित्यादिकं हि त्वया व्यवहृतम् । स्वप्रागभावव्यतिरिक्तेति विवरणेनापि तथा तच्च सर्वं स्वत्वस्वानुगत(?) एव सङ्गच्छते ।

विमता बन्धनिवृत्तिः स्वप्रतियोगिविषयविषयकज्ञानाबाध्यानात्मसमानकालीना, उक्त-ज्ञानाबाध्यभावरूपानात्मसमानकालीना वा, बन्धनिवृत्तित्वान् निगडबन्धनिवृत्तिवत् । ननु पक्षदृष्टान्तयोर्बन्धपदार्थस्यैकस्याभावेन स्वरूपासिद्धिसाधनवैकल्याद्यन्यतरापातात्् । स्वपदे चोक्तः साध्याप्रसिद्धिदोषः । हेतौ च बन्धेति विशेषणवैय्यर्थ्याद् व्याप्यत्वासिद्धिः । अप्रयोजकत्वं च कस्याश्चिन्निवृत्तेरनात्मसमानकालीनत्वदर्श(नं)नेन निवृत्तिमात्रस्य तथात्व-साधने, संसारकालीनाया दुःखनिवृत्तेः समानाधिकरणदुःखप्रागभावकालीनत्वदर्शनमिव दुःखनिवृत्तिमात्रस्य तथात्वसाधने इति चेन्न । बन्धपदवाच्यत्वस्य तेन सम्बन्धेन बन्धपद-वत्त्वस्य वा अनुगतस्य सम्भवात् । हेतौ बन्धपदम् अखण्डाभावलाभायेति न वैय्यर्थ्यम् । निवृत्तेः स्वकारणानात्मसहभावं विना तज्जन्यत्वासिद्धेरित्यादितर्कानुगृहीतत्वात् । उक्त-निवृत्तेस्तु नानुग्राहकतर्कोऽस्तीति विशेषान्नाप्रयोजकत्वम् । यत्तु निवृत्तेरित्याद्ययुक्तम् । चरमनिवृत्तेर्हि कारणम् उपादाननाशादि । तच्चाभावरूपम् । अदृष्टन्तु न तत्कारणं भोग-तत्साधनेतरत्वादिति । तन्न । अभावमात्रस्य कारणतायाः कुत्राप्यसिद्धेः । जन्यमात्रं प्रत्यदृष्टस्य कारणत्वे भोगतत्साधनयोरप्रयोजकत्वात् । तादृशनिवृत्तेरपि (स्वतः) पुरुषार्थ-त्वाच्च । दुःखत्वावच्छिन्नध्वंसस्य च दुःखतत्प्रागभावसमानकालिकस्य सुखस्य वा पुरुषार्थत्वेन मोक्षे दुःखोत्पत्तौ तद्व्या(प्य)घातापत्तेः । न हि कार्यं विना प्रागभावे अन्यन्मानमस्ति । आत्मधीः, न स्वविषयमात्रविषयकधीबाध्या धीत्वाच्छुक्तिधीवत् । (शुक्तिज्ञानस्य स्वविरोधिपदार्थाविषयकत्वेन स्वविरोध्यविषयकरूपोपाधिसत्वेन साध्य-व्यापकत्वम् । आत्मज्ञानस्य स्वविरोधिवृत्युपहितात्ममात्रविषयकत्वेन स्वविरोध्यविषयकत्व-रूपोपाध्यभावसत्वेन साधनाव्यापकत्वं, न हि वृत्तिदशायामनुपहितं तद्भवतीत्यद्वैतिनां सिद्धान्तात् ।)

ननु स्वविरोध्यविषयक(प्रत्ययविषयक)त्वस्योपाधित्वम् । ‘अन्धोऽयं रूपज्ञानवान्’ इत्यन्धस्य रूपविषयतया कल्पितं यज्ज्ञानं तस्य ‘रूपं नान्धगम्यम्’ इति स्वविषयविषयक-प्रत्ययबाध्यत्वदर्शनेन व्यभिचारात् । कल्पितत्वात्तत्र तद्बाधने प्रकृतेऽपि वृत्तेः कल्पितत्वं समम् । धीपदेन चैतन्यमात्रविवक्षायां तु सिद्धसाधनमेवेति चेन्न । (कल्पितवृत्तेरज्ञातसत्वा-भावात्तद्ज्ञानमात्मज्ञानरूपमेव । तथा च विशेषणविधयोपलक्षणविधया चात्मन्याभास-मानायास्तस्याः कथमात्मज्ञानं तद्ज्ञानमिति निभालय । आत्मज्ञानान्यस्य तद्ज्ञानस्या-प्रसिद्धेः ।) आत्ममात्रविषयकधियः स्वविरोध्यविषयकत्वेनोपाधिव्यतिरेकस्य पक्षे अभावात् । रूप(भ्रम)ज्ञानप्रतिबन्धकस्य रूपे अन्धज्ञानविषयत्वाभावस्य भिन्नविषयत्वात् ।

किञ्च अन्धे अध्यस्तस्वरूपज्ञानस्य रूपज्ञानाभावव्याप्यत्वादिना ज्ञातं यदन्धत्वं तज्ज्ञानस्यैव बाधकता । अन्धापरोक्षविषयत्वाद्यभावज्ञानमेव हि रूपधीबाधकं, न तु रूपमात्रधीरिति न व्यभिचारः । न च तव ब्रह्मधीः स्वरूपातिरिक्तमवगाहते । यत्तु अन्धोऽयं रूपज्ञानवानित्यस्य रूपमन्धगम्यमिति वाक्यजन्यज्ञाने तात्पर्यात् । रूपं नान्धगम्यमित्यस्य च रूपमन्धगम्यत्वाभाववदिति वाक्यजन्यज्ञाने तात्पर्यात् । तथा च समानविभक्तिक-नामद्वयजन्यज्ञानस्य निर्विकल्पकत्वेन प्रकृते रूपमात्रविषयकत्वादुपलक्षणविधया तयोर्ज्ञान-योरन्धगम्यत्वतदभावयोः प्रकारत्वेऽपि विशेषणविधया प्रकारत्वाभावात् तादृशज्ञानयोर-न्यूनानतिरिक्तविषयकत्वात् तादृशधीबाध्ये अन्धप्रत्यक्षविषयत्वे व्यभिचारस्य दुर्वारत्वात्् । यथा ह्युपलक्षणविधया व्यावर्तकधर्मस्य बाधकधीविषयत्वं तथोपलक्षणविधया बाध्यधी-विषयस्य बाध्यत्वं, न्यायतौल्यादिति तन्न । (एतेनान्धोऽयं रूपज्ञानवान् रूपं नान्धगम्य-मित्यत्र बाधके रूपज्ञाने अन्धगम्यत्वाभावस्य नञर्थस्य भानेऽपि रूपज्ञानं रूपांशे तदति-रिक्तान्धगम्यत्वाभावनिष्ठप्रकारतानिरूपितसंसर्गानवगाहीति भवत्यन्धगम्यत्वोपलक्षितरूपज्ञान- समानविषयं निर्विकल्पकम् । ज्ञानस्य निर्विकल्पकत्वं प्रकृते विषयांशे विषयातिरिक्त-प्रकारतानिरूपितसंसर्गानवगाहित्वम् । तथा च भवति बाधकमिति निरस्तम् । उपलक्षणोप-स्थापितधर्मान्तरस्य सत्वे तत्प्रकारतानिरूपितसंसर्गावगाहीति निर्विकल्पकत्वहानेः । तदसत्वे तु रूपस्वरूपस्यासन्दिग्धत्वं न उपलक्ष्यत्वासम्भवाच्च) बाधकाभिमतज्ञानेन अर्थस्य भाने बाध्यबाधकयोर्भिन्नविषयकत्वात्, तदभाने बाधकत्वासम्भवात् । न हि रूपज्ञानं रूपज्ञानस्य बाधकम् । (तत्धर्मावच्छिन्नाभेदसंसर्गावच्छिन्न- प्रकारतानिरूपितविशेष्यतावच्छेदकतासंबन्धेन शाब्दबुद्धित्वावच्छिन्नं प्रति तत्धर्मभेदस्यापि हेतुत्वेन समानविभक्तिकनामद्वयजन्यज्ञानस्य निर्विकल्पकत्वे मानाभावाद् अन्यथा घटो घट इत्यादिवाक्याच्छाब्दबोधापत्तेः ।)

आत्माधिष्ठानकभ्रमहेतुः, न स्वकार्यभ्रमाधिष्ठानज्ञानबाध्यः, भ्रमहेतुत्वात््, यदेवं तदेवं यथा शुक्त्यधिष्ठानकभ्रमहेतुः काचादिः । ननु नेदं युक्तम् । व्यावृत्ताकाराधिष्ठान-ज्ञानानवधित्वस्य स्वकार्यभ्रमाधिष्ठानानारोपितत्वस्य वा उपाधित्वात् । दूरादिदोषवशा-दुपलादौ यत्र चाकचक्यकल्पना तेन चाकचक्यदोषेण शुक्ताविव रजतकल्पना, तत्राधिष्ठान-ज्ञानेन चाकचक्यरूप्ययोरुभयोरपि बाधदर्शनेन व्यभिचाराच्चेति चेन्न । उपाधिव्यतिरेकस्य पक्षे सन्दिग्धत्वेन साध्याभावासाधकत्वेनानुपाधित्वात् । स्थापनायामनुकूलतर्काणां वक्ष्यमाणत्वेन पक्षीयसन्देहस्य चादोषत्वाच्च । पक्षमात्रव्यावर्तकविशेषणवत्वाच्च । उपलादौ रजतारोपस्य निवर्तकं पाषाणत्वज्ञानं, तच्च न चाकचक्यारोपनिवर्तकं, चाकचक्यस्य क्वचि-त्पाषाणेऽपि सम्भवात् । किन्तु तन्निष्ठनैल्यादिज्ञानम् । वस्तुतस्तु चाकचक्यं न स्वरूप-सत्कारणं, तत्सत्त्वेऽपि ज्ञानाभावे आरोपादर्शनादित्यन्वयव्यतिरेकाभ्यां तज्ज्ञानमेव तत्र कारणम् । तच्च तज्जन्यभ्रमबाधकबाध्यमेव । यत्तु स्वजन्यभ्रमाधिष्ठानं तस्माद्व्यावृत्तं तद्भेदरूपोपाधौ तत्प्रतियोगिरूपविशेषणस्योक्तचाकचक्यादिरूपविपक्षादपि व्यावर्तकत्वेन पक्षमात्राव्यावर्तकत्वादिति । तन्न । तादृशचाकचक्यजन्यभ्रमाप्रसिध्या स्वजन्यभ्रमाधिष्ठान-ज्ञानबाध्यत्वरूपस्य साध्याभावस्य तत्रासिद्धेः । उक्तचाकचक्यादौ हेतुसाध्ययोरुभयोरपि सन्देहाच्च ।

ब्रह्मान्यनादि परमार्थसद् अनादित्वाद् ब्रह्मवत् । न च ध्वंसाप्रतियोगित्वम् उपाधिः । साधनव्यापकत्वात् । अनादित्वं च प्रागभावाप्रतियोगित्वम् । भावत्वं च समवायैका-समवायसम्बन्धेन अखण्डो धर्मो वा । ब्रह्म देशकालादिसम्बन्धं विना नावतिष्ठते पदार्थत्वाद् घटवत् । ननु कालसम्बन्धं विना नावतिष्ठते इत्यस्य, यदा ब्रह्म तदा अवश्यं कालसम्बन्ध इत्येवंरूपा व्याप्तिरित्यर्थः । तथा च सिद्धसाधनम् । न हि यस्मिन् काले ब्रह्म तस्मिन् काले ब्रह्मणः कालसम्बन्धो नास्ति । एवं यत्रात्मा तत्र कालसम्बन्ध इति दैशिकव्याप्तावपि सिद्धसाधनम् । न हि देशकालासम्बन्धः कदाप्यस्ति । परममुक्तौ तु न देशो न काल इति सुस्थिरं सिद्धसाधनमिति चेन्न । कालासंसृष्टतत्ताराहित्यस्य साध्यार्थत्वे सिद्धसाधना-नवकाशात् । न हि परमते मुक्तौ ब्रह्मसत्तायाः कालसंसर्गोऽस्ति । यत्तु देशकालासंसृष्ट-सत्ताया अत्यन्ताभावे साध्ये सत्तावत्वेन निश्चितं देशादिसम्बन्धरूपत्वम् । यत्किञ्चि-त्कालासम्बन्धान्यत्वमादायार्थान्तरं च । तद्वारणाय यदा यदा ब्रह्म तदा तदा देशादि-सम्बन्ध इत्युक्तौ दूषणं बोध्यमिति । तन्न । संसारदशायामिव मोक्षेऽपि तत्सम्बन्धस्य साधनीयत्वात् । न च परममुक्तौ देशादिकं नास्तीति वाच्यम् । संसारकालभिन्नकाल एव परममुक्तेर्वक्तव्यत्वात् । अन्यथा परममुक्तौ संसारकालस्तु नास्ति । असंसारकालोऽपि नो चेत्, संसारदशायां निश्चितव्यापकताकदेशाद्यभावेन ब्रह्मणोऽपि अभावापत्त्या शून्यवादा-पत्तेः । ब्रह्मान्यद्वेदैकगम्यं धर्मादि, परमार्थसत््, श्रुतितात्पर्यविषयत्वात्, ब्रह्मवत् । न च पारमार्थिकत्वेन श्रुतितात्पर्यविषयत्वस्योपाधित्वमिति वाच्यम् । ईश्वरानुमाने शरीरजन्यत्ववत् साधनविशेषितत्वेनानुपाधित्वात् ।

यत्तु मोक्षोपधायकप्रमाविषयत्वं श्रुतिजन्यधीमात्रप्रयोजनरूपत्वं वा उपाधिरिति । तन्न । आद्यस्य पक्षमात्रव्यावर्तकविशेषणवत्वेन पक्षेतरतुल्यत्वात् । द्वितीयस्य साधनव्यापकत्वाच्च । साक्षिवेद्यं सुखादि परमार्थसद् अनिषेध्यत्वेन दोषाजन्यज्ञानं प्रति साक्षाद्विषयत्वाद् आत्मवत् । न च शुक्तिरूप्यादिषु व्यभिचारः । तेषां दोषजन्यवृत्तिविषयत्वेऽपि दोषाजन्य-साक्षिविषयत्वादिति वाच्यम् । दोषजन्यज्ञानाविषयत्वे सतीत्यपि हेतुविशेषणम् । न च स्वरूपासिद्धिः, साक्ष्यवच्छेदिकाया अविद्यावृत्तेर् दोषजन्यत्वादिति वाच्यम् । जीवेश्वरयोरेव साक्षित्वेन तयोरविद्यावृत्यवच्छिन्नत्वाभावात् । अविद्यावृत्तेर्दोषताया अनिश्चितत्वात् । न चासद्गोचरशाब्दज्ञानात्मकविकल्पस्य दोषाजन्यत्वेनासति व्यभिचार इति वाच्यम् । असदर्थ-विषयकज्ञानस्य दोषजन्यत्वावश्यकत्वात् । योग्यताभ्रमादेस्तत्रापि दोषत्वाच्च । न चात्मनो वृत्तिविषयत्वाभ्युपगमे दोषजन्यदेहात्मैक्यभ्रमविषयत्वात् साधनविकलो दृष्टान्त इति वाच्यम् । उभयवादिसिद्धत्वं हि दोषविशेषणम् । विशिष्टाभावस्य तत्रापि सत्त्वेन साधनवैकल्या-भावात् । एतेनात्मनो वृत्तिविषयत्वानभ्युपगमे त्वविषयत्वमात्रस्यैव परमार्थसत्वसाधकत्वो-पपत्तौ दोषेत्यादिविशेषणवैय्यर्थ्याद् व्याप्यत्वासिद्धिः । तावन्मात्रं च पक्षे स्वरूपासिद्धमिति निरस्तम् । अखण्डाभावस्वरूपतया हेतौ न विशेषणस्यासिद्धिवारकतया वैय्यर्थ्यम् ।

विमतं परमार्थसत् स्वविषयज्ञानात्पूर्वभावित्वादात्मवत् । न च दृष्टिसृष्टिपक्षे असिद्धिः, अनादित्वं चोपाधिरिति वाच्यम् । कार्यकारणभावस्य पक्षैकदेशेऽनादावसिद्धेः । सामानाधि-करण्येनानुमितिं प्रति सामानाधिकरण्येन बाधबुद्धेरप्रतिबन्धकत्वात् । अन्योन्याभावातिरिक्तै-तद्घटसमानाधिकरणैतद्घटप्रतियोगिकाभावत्वम् एतद्घटसमानकालीनावृत्ति, अन्योन्याभावाति- रिक्तैतद्घटसमानाधिकरणैतद्घटप्रतियोगिकाभावमात्रवृत्तित्वाद् एतद्घटप्रतियोगिकप्रागभाववत्, व्यधिकरणधर्मावच्छिन्नाभावपक्षे व्यधिकरणधर्मावच्छिन्नेत्यपि विशेषणीयम् । अत्र(अनेन) च स्वसमानाधिकरणः स्वसमानकालीनो योऽत्यन्ताभावस्तदप्रतियोगित्वलक्षणसत्त्वसिद्धिः । ननु साधनावच्छिन्नसाध्यव्यापकस्यैतद्घटप्रतियोगिकजन्यजनकान्यतरमात्रवृत्तित्वस्योपाधित्वमिति चेन्न । पक्षीकृतधर्मस्यात्यन्तापलापकदृष्टिसृष्टिवादस्याप्रामाणिकत्वात्, निरसिष्यमाणत्वाच्च । साध्याभावसाधकोपाध्यभाववृत्तित्वसन्देहे साधनाव्यापकत्वसन्देहात् । न च विपक्षे बाधकतर्कानवतारदशायां तादृशोऽप्युपाधिरिति वाच्यम् । तदभावात् ।

यत्तु ध्वंसप्रागभावकालेऽपि घटो नास्तीति प्रतीतिबलाद् ध्वंसाधिकरणेऽत्यन्ता-भावोऽप्यस्ति । तथा च पक्षस्य तद्घटासमानकालीनैतद्घटात्यन्ताभावनिश्चयेन पक्षे साधन-स्योपाध्यभावस्य च निश्चयादुपाधेः साधनाव्यापकत्वनिश्चय इति । तन्न । ध्वंसादिकाल-वृत्तित्वविशिष्टात्यन्ताभावत्वे साध्यस्यापि सत्वेनोपाधेः साध्याव्यापकत्वात् । विशिष्टमति-रिक्तमिति मते गुणकर्मान्यत्वविशिष्टसत्ताया गुणाद्यवृत्तित्ववद् ध्वंसादिकालवृत्तित्वविशिष्टा-त्यन्ताभावत्वस्य एतद्घटसमानकालीनवृत्तित्वात् ।

अत्र वदन्ति । विशेषानुमानेषु आद्यद्वितीययोः स्वपदस्य पक्षदृष्टान्तपरत्वविकल्पेन पूर्वोक्तसाधनवैकल्यादिदोषः । द्वितीये भ्रमत्वस्य एकस्याभावात् । तद्भ्रमं प्रत्येव तद्व्यक्तित्वेन दोषाणां हेतुत्वेन तन्निवेशे अननुगमः । तावदन्यतमत्वेन हेतुत्वानां हेतुत्वेऽपि दृष्टान्तमात्र-वृत्तिहेतुत्वस्यैव तत्वेन हेतुत्वसम्भवेनेतरवैय्यर्थ्यम् । तच्च स्वरूपासिद्धम् । पदार्थत्वं हेतुः पदशक्यत्वं चेत् स्वरूपासिद्धम् । पदलक्ष्यत्वं चेत् पदत्वलक्ष्यत्वयोरननुगतत्वात् पक्षदृष्टान्त-योरनुगतहेत्वभावात् स्वरूपासिद्धिसाधनवैकल्ये । अन्यतमत्वेन हेतुत्वेऽपि वैय्यर्थ्या-सिद्ध्यादिकं, तद्धीविषयत्वेन हेतुत्वे चाप्रयोजकत्वादिकं, दोषजन्येत्यादिहेतावपि दोषत्वस्य तत्तद्भ्रमजनकत्वरूपस्याननुगमादुक्तदोषः । किञ्चिद्भ्रमजनकत्वमात्रनिवेशे भ्रमान्तरविषये व्यभिचारः । दोषाणामन्यतमत्वेन निवेशेऽपि दोषाजन्यज्ञानाप्रसिद्धिः । वस्तुमात्रस्यैव किञ्चिद्भ्रमं प्रति दोषत्वात् । स्वज्ञानात्पूर्वभावित्वादित्यत्रापि पूर्वभावित्वस्य पूर्वकालवृत्तित्व-रूपत्वाद् यत्किञ्चित्स्वज्ञानात्पूर्वभावित्वं शक्तिरूप्यादौ व्यभिचारि । यावत्स्वज्ञानात्पूर्व-वृत्तित्वं घटादावसिद्धम् । यत्किञ्चित्स्वप्रत्यक्षपूर्ववृत्तित्वं शुक्तिरूप्यादावपि सन्निकर्षादिना तत्रापि प्रत्यक्षोत्पत्तौ बाधकाभावात् । सुखादौ साक्षिमात्रवेद्यत्वे तत्रासिद्धिः । तस्य पक्षबहिर्भावेऽपि स्वप्रत्यक्षोत्पत्तिकालोत्पन्नपरिमाणविशेषादावसिद्धिः । संयुक्तसमवेत-समवायमात्रेण तत्प्रत्यक्षानुदयेन तावदवयवावच्छिन्नसंयोगवत्समवायहेतुत्वे तत्तत्पुरुषीयत्वस्य कार्यकारणतावच्छेदकनिवेशे गौरवात्पुरुषनिष्ठपरम्परासम्बन्धेन तावदवयवावच्छिन्नम् । न चैवं तत्परिणामोत्पत्तिपूर्वमपि तत्प्रत्यक्षापत्तिः (तन्त्रम्) । तत्तदवयवावच्छिन्नत्वस्य गुरुत्वेन विजातीयसंयोगत्वेनैव हेतुत्वात् । तादृशस्य तत्पूर्वमसत्वात् संयोगस्यैव लाघवेन तत्प्रत्यक्ष-हेतुत्वेन तदुत्पत्तिकालेऽपि तत्प्रत्यक्षसम्भवात् । स्वप्रत्यक्षपूर्ववृत्तित्वं सुतरामसिद्धम् । ईश्वरयोगिप्रत्यक्षाणां साक्षिणश्च स्वाविषयपूर्वमपि सत्वात् । जीवयावज्जन्यप्रत्यक्षविशेषेऽपि व्याप्तिग्रहानौपयिकत्वेन यावज्जन्यपूर्ववृत्तित्वे इतरांशवैय्यर्थ्यं, तदुपादाने वा असिद्धिरिति ।

अत्रोच्यते । आद्येत्याद्ययुक्तं– स्वपदगतेरुक्तत्वात् । द्वितीयेत्याद्ययुक्तं– कारणत्वादिवद् भ्रमत्वस्यानुगतस्य सम्भवात् । उक्तं हि प्रत्यक्षदीधितौ– ‘स्थाणुज्ञानादेः करादिमद्विशेष्यक-स्थाणुज्ञानत्वादिना भ्रमत्वमनुमीयत’ इति । तावदित्याद्यपि साधु । तावदन्यतमत्वेन हेतुत्वसम्भवे दृष्टान्तवृत्तित्वनिवेशस्य गुरुत्वात् । पदार्थेत्याद्यपि साधु । किञ्चित्पदशक्यत्वा-भावे लक्ष्यत्वस्याप्यभावापातात् । वेदान्तानां वैय्यर्थ्यापत्तेः । विशिष्टशक्यत्वेनैव शुद्धस्यापि शक्यत्वात् । न हि घटत्वादिविशिष्टे शक्तिवादिमते ‘घटो न शक्य’ इति ब्रह्मादिपदा-शक्यस्य ब्रह्मरूपत्वे मानाभावात् । प्रलपितत्वाद् गुरुणा त्वया च तत्र निरवच्छिन्ना हि शक्तिः । पदत्वं शब्दत्वव्याप्यो धर्मविशेषः । शब्दत्वमेव प्रकृते विवक्षितम् । तथा च योग्यतादिमच्छब्दबोध्यत्वम् । दोषजन्येत्याद्यपि साधु । भ्रमत्वान्न कार्यतानिरूपितकारणता-वच्छेदकत्वेनानुगतधर्मसिद्धेः, अन्यतमत्वेन निवेशे क्षतेरभावाच्च । दोषजन्यत्वादौ उभय-सिद्धत्वस्य निवेशितत्वात्् । सर्वस्य क्वचिद्भ्रमत्वेऽपि सर्वत्र तत्वेन कारणत्वाभावात् । न हि समीचीनज्ञानेऽपि दोषजन्यत्वं व्यवहरन्ति । किन्तु भ्रम एव ।

ज्ञानादीत्याद्यपि साधु । शुक्तिरूप्यादेः प्रतिभासमात्रशरीरस्य स्वापरोक्षात्पूर्व-भावित्वस्यासम्भवात् । जन्यलौकिकस्वापरोक्षमात्रवृत्तित्वस्य घटादौ सत्वात् । योगीशादि-ज्ञानस्यालौकिकत्वे तु जन्यत्वस्यानुपादेयत्वात् । शुक्तीत्यादिकं तु प्रलपितम् । ज्ञानसामग्य्रा एव तज्जनकत्वस्वीकारेण ज्ञानात्पूर्वभावित्वे तद्धान्यापत्तेः, अज्ञातरजातादौ मानाभावाच्च । घटादौ सर्वत्रेशज्ञाततायाः सत्वात्् । सुखादेस्तु पक्षबहिर्भावात् । सामानाधिकरण्येनानु-मित्युद्देश्यत्वे तु भागासिद्धेरदोषत्वात् । स्वप्रत्यक्षेत्याद्यशुद्धम् । एतादृशपरिमाणविशेषस्यापि पक्षबहिर्भावे क्षत्यभावात् । लौकिकप्रत्यक्षे विषयस्य कारणत्वेन पूर्वभावावश्यकत्वात् । अन्यथा तादृशसंयोगोत्पत्तिक्षणे द्वितीयक्षणे वा विषयस्य नाशे लौकिकप्रत्यक्षापत्तेः । तदवयवावच्छिन्नत्वस्येत्याद्ययुक्तम् । तथा सति सर्वत्रासमवायिकारणनिवेशेन समवाय-निमित्तयोरुच्छेदापत्तेः । प्रथमक्षणे यत्र संयोगो मध्ये क्षणद्वये परिमाणं नोत्पन्नं, तृतीयक्षणे चोत्पन्नं, तावत्संयोगो नष्टः । तेन संयोगेन तत्परिमाणप्रत्यक्षमप्युत्पादितं तत्र मध्ये परिमाणप्रत्यक्षापत्तेः । तत्र वैजात्यस्यावश्यकत्वात् । यावदित्याद्ययुक्तम् । यत्किञ्चित्स्वा-परोक्षपूर्ववर्तित्वस्यैवोक्तत्वात् । जीवेत्याद्यपि साधु । अखण्डाभावस्यातिरिक्तत्वादिति तव सर्वोऽप्यबुद्ध्या प्रलापः ।

न्यायामृतमाधुरी

दलद्वयात्मकस्य मिथ्यात्वस्यैकदलव्यतिरेकेण जगति दुरुपपादतेत्यभिधित्सयैकदल-व्यतिरेकमनुमिमीते । किं चेत्यादि ॥ तस्येति । शुक्तिरूप्यस्य हेतुविशेषितत्वे साध्यविशेषि-तत्वापत्या नानैकान्त्यमिति भावः । अत्राद्वैतसिद्धिकारः । सत्वे सर्वजनसिद्धबाधविरोधात् । गजादौ गोवैलक्षण्येऽपि तद्विरुद्धाश्ववैलक्षण्ययोगवत्सद्वैलक्षण्येऽप्य सद्वैलक्षण्ययोगोपपत्ते-रित्यवादीत् । तत्पामरमनोरमम् । तादृशबाधोपपत्यर्थमलीकत्वस्यैवोरीकर्तुमौचित्यात् । प्रतीत्युपपत्यर्थं सत्वस्याप्यङ्गीकरणीयत्वान् निषेधसमुच्चयवद्विधिसमुच्चयस्याप्यनिर्वचनीयवादे अविरोधोपपत्तेः । सत्वासत्वयोः परस्परात्यन्ताभावरूपत्वस्य मिथ्यात्वनिरुक्तिभङ्गेऽभिहित-तया गजादौ गवाश्ववैलक्षण्यवत्सामानाधिकरण्यानुपपत्तेरिति प्रत्याचख्युर्व्याख्यातारः । तस्मिन्नपरोक्षेऽपीति । अत्राद्वैतसिद्धिकारः । सामान्याकारेणापरोक्षेऽपि शुक्त्यादौ रजतादेर-निषेध्यत्वेन साक्षाद्भासमानतया तत्र व्यभिचारात् । अथ व्यावृत्ताकारेण यस्मिन् भासमाने यदनिषेध्यत्वेन साक्षाद्भासते तन्न तदज्ञानकार्यादीति व्याप्तिरिति मन्यसे तर्ह्यसिद्धिः । न हि चैतन्यमिदानीं भ्रमनिवर्त्तकत्वाभिमतव्यावृत्ताकारापरोक्षप्रतीतिविषयः । तथा सत्यधिष्ठानमेव न स्यात् । यदातु वेदान्तवाक्यजन्यवृत्तौ व्यावृत्ताकारतया अपरोक्षं तदा अनिषेध्यत्वेन प्रपञ्चापरोक्षशङ्कापि नास्ति । अतः प्रमाणजन्यासाधारणा-कारभानस्यैवाज्ञानविरोधित्वान्ना-परोक्षज्ञानमात्रेणाज्ञानपराहतिप्रसङ्ग इत्यभाषत ।

तद्व्याकर्तारः पराचक्रिरे । भ्रमनिवर्तकाभिमताधिष्ठानापरोक्षज्ञानान्न्यूनविषयकाधिष्टाना-परोक्षज्ञानस्यापरोक्षपदेन विवक्षितत्वात् । तव मते च चैतन्यमात्रस्यैव भ्रमनिवर्तकज्ञान-विषयत्वात् । तावन्मात्रस्य चेदानीमपि स्फुरणात् । व्यावृत्तासाधारणाकारस्य स्वरूपाति-रिक्तस्य वेदान्तजन्यवृत्तावपि न विषयता । निष्प्रकारकत्वहान्यापत्तेरिति । अज्ञानपदेन ज्ञानाभावोक्तौ सिद्धसाधनम् । अनिर्वचनीयाज्ञानोक्तौ च तस्याप्रामाणिकत्वेन प्रतियोग्य-प्रसिद्धिरिति शङ्कातु असत्प्रतियोगिकाभावं स्वीकुर्वतः पराभ्युपगममात्रेणैव प्रतियोगिप्रसिद्धि-सम्भवादिति स्वयमेवाद्वैतसिद्धिकृत्समादध इति नास्माभिः प्रयतितव्यम् ।

शङ्खतत्वेति । तत्वशब्दस्य सर्वनामप्रकृतिकभावप्रत्ययनिष्पन्नतया भावप्रत्ययस्य च प्रकृतिजन्यबोधीयप्रकृत्यर्थनिष्ठविशेष्यतानिरूपितप्रकारतापन्नावगमकतया तादृशशङ्खत्वमेव तेन प्रतीयान्न शैत्यमिति तु न शङ्कनीयम् । सर्वनाम्नः श्वेतत्वावच्छिन्नपरामर्शकतामुपेत्य तदर्थे पूर्वपदार्थस्य तादात्म्येन भानोपगमेन क्षत्यनवकाशात् । शङ्खः श्वेत इति वाक्यान्तरेण मानान्तरेण वा श्वैत्योपस्थितिसम्भवेन तदवच्छिन्नपरामर्शकतायाः सर्वनाम्नो निर्बाधत्वात् ।

अत्राद्वैतसिद्धिकारः शशङ्के । प्रतिबिम्बे व्यभिचारात् । स हि मुखैक्यसाक्षात्कारा-त्प्रवृत्तिविषयो मुखेऽध्यस्तः । तद्व्यतिरेकेणोपलभ्यमानत्वस्योपाधित्वाच्चेति । ब्रह्मानन्दस्तु तद्व्यतिरेकेणोपलभ्यमानत्वस्य तदविषयकोपलब्धिविषयत्वस्य । तत्पदमात्मपरम् । प्रपञ्चोप-लब्धेः सद्रूपात्मविषयकत्वनियमात्साधनाव्यापकत्वं बोध्यमिति व्याचकार । तत्समादधिरे प्रपञ्चकाः । आदर्शादौ बालानामपि बालान्तरबोधानुरोधेन प्रतिबिम्बस्य बिम्बाद्भेददर्शनवत एव प्रवृत्तिविषयतया मुखैक्यसाक्षात्कारवतस्तथात्वाभावेनानैकान्त्यानवकाशात् । व्यतिरेक-पदस्य भेदार्थतया तद्भेदविशेषिततयोपलभ्यमानत्वमुपाधिरिति पर्यवस्यति । तच्च शुद्धं ब्रह्म न जानामि, घटस्यास्फुरणमित्यादि भेदेनैव प्रपञ्चोपलब्धेः साधनव्यापकम् । विनेत्यर्थकतायामपि रूपादिहीनस्य संसारमज्ञानावृत्तस्य चैतन्यस्य चाक्षुषादौ भानाभावेऽपि घटादेरुपलभ्यमानतयोपाधेः पक्षाद्व्यावृत्यभावेन नोपाधिता सङ्गच्छत इति । तं प्रतीति ॥ अत्राद्वैतसिद्धिकारः । ऐन्द्रजालिकं प्रत्यपरोक्षे तन्मायाकल्पिते व्यभिचारादिति निबबन्ध । अत्र ब्रह्मानन्दः – एैन्द्रजालिको हि स्वमायाकल्पिताम्रवृक्षतत्फलादिग्रहणच्छेदनादौ प्रवृत्तो दृश्यते । हरिवंशादौ प्रद्युम्नशम्बरयुद्धादौ–

ततो मायां परां चक्रे देवशत्रुः प्रतापवान् ।

सिद्धान् व्याघ्रान्वराहांश्च भारभूतर्क्षवानरान् ।

मुमोच धनुरादाय प्रद्युम्नस्य रथोपरि ।

गन्धर्वास्त्रेण चिच्छेद सर्वांस्तान् खण्डशस्तदा ।

प्रद्युम्नेन तु सा माया हता तां वीक्ष्य शम्बरः ।

अन्यां मायां मुमोचाथ दानवः क्रोधमूर्च्छितः ।

इत्यादौ तथा श्रूयतेऽपीति मायिनो मायिकदर्शनमन्तरेण तत्सर्जनादौ प्रवृत्ययोगादिति व्याचख्यौ । तद्व्याकुर्वाणाः प्रत्याकोषिषुः । ऐन्द्रजालिकेन हि स्वसृष्टाम्रफलादानच्छेदनादि- प्रवृत्तिप्रदर्शनेन जना एव प्रतार्यन्ते । तत्सृष्टानामर्थक्रियाकारिताविरहात् । तेषामपि तदुपगमे तन्निर्मितकाञ्चनादिनैव भरणसम्भवेनान्यान्प्रति भृतियाचनानुपपत्तेः । स्वप्रतारकत्वापत्या स्वमायानिर्मितकर्मकदर्शनकर्तृत्वस्य स्वस्मिन् दुरुपगमत्वात् । धनञ्जयादिनिर्मितजलादीना-मध्वोदन्यानिवर्तकत्वदर्शनेनार्थक्रियाकारितयैन्द्रजालिकनिर्मितजलादीनां तदभावेनालीकत्वेऽपि शम्बरादिमायानिर्मितानामर्थक्रियापर्यवसायितया पारमार्थ्यस्यैवास्थेयत्वात् । मायापदस्य नानार्थतया शम्बरादिस्थले विचित्रशक्त्यर्थत्वोपपत्तेः । न चैन्द्रजालिके स्वसृष्टाननुपसंहृत्य परे ते तथैव दृश्यन्ते । यथा गयाप्रदेशपूर्वदेशे बदरिकाश्रमे च तप्तोदककुण्डमिति वाच्यम् । पृथिवी शिराविशेषेणैव तदुपपत्तेः । बदरिकाश्रमे हि पर्वतान्निसरति तप्तोदकम् । न चैन्द्रजालिकेनापरिमितजलं ब्रह्मणः सृष्टिमारभ्य निस्सरतीत्यत्र प्रमाणमस्तीति । विवेचितं चैतत् ‘न च मायाविना माया’ इति मूलव्याख्यावसरे टीकाकृत्पादैरेवेति नेह विवेचनीयम् । मायाविद्ययोरभेदे देहात्म्ये व्यभिचारशङ्कापि, प्रकृतानुमानस्य तयोर्भेदमताभिप्रायकतया निरवकाशैव । प्रत्यभिज्ञानादिति ॥

सुषुप्तिकालस्थायित्वासाधकत्वस्य प्रत्यभिज्ञाया दृष्टिसमर्थने वक्ष्यमाणत्वादित्यद्वैत-सिद्धिकारीया शङ्का तत्रैव निरशिष्यते ॥ अदृष्टादेरिति ॥ न चादृष्टादेः कारणात्मनाऽव-स्थानात्पुनरुत्थानसम्भव इति तच्छङ्कितम् । कारणस्य कार्यसाध्यक्रियाकरणासमर्थत्वात् । मिथ्यामात्रेति । प्रतियोगित्वविषयत्वादौ व्यभिचारवारणाय मात्रेति । मिथ्यात्वन्यूनवृत्ति-त्वस्योपाधित्वादित्यद्वैतसिद्धिकारीयं वचनं प्रमाविषयत्वादावात्मान्यनिखिलान्तर्गतालीक-वृत्तित्वाभावेनोक्तसाध्यविशेषिते दर्शितोपाधिविरहेण तस्य प्रकृतसाध्याव्यापकतया निर्दलमेव ।

अत्र ब्रह्मानन्दः – न च प्रमेयत्वे आत्मान्यसर्वान्तर्गततुच्छावृत्तौ मिथ्यात्वान्यूनवृत्तौ च साध्याव्यापकत्वमिति वाच्यमिति तरङ्गिणीकारैरुदीरितं क्षतिमाशङ्क्य प्रमेयत्वस्य मिथ्याभूते स्वस्मिन्नवृत्या मिथ्यात्वन्यूनवृत्तित्वात् । यद्यपि प्रमेयत्वे प्रमेयत्वान्तरं वर्तते तथापि न प्रमेयत्वत्वेन रूपेण । सम्बन्धप्रतियोगित्वानुयोगित्वयोरेकरूपेणास्वीकारात् । न च प्रमेयत्वे मिथ्यात्वमसिद्धमिति वाच्यम् । घटः प्रमेयमित्यारोपसत्वात् । तथा च येन रूपेण साध्ये वृत्तिर्निविष्टा तेन रूपेणोपाधाविति न दोषः । किञ्च सदुपरागेणासतोऽपि प्रमाविषयत्वात् । अन्यथा आत्मान्यसर्वमध्यपतितासद्घटितसाध्यप्रमाया असम्भवात्प्रमेयत्वादेः स्ववृत्तित्व-मतेऽपि साध्यव्यापकत्वमक्षतमिति तामुददीधरत् ।

तन्न प्राज्ञमनोरम् । प्रमेयत्वस्यापि प्रमेयत्वं प्रमेयधर्म इति वाक्यजनितशाब्दधीरूप-प्रमितिविषयताशालित्वेन निखिलतान्त्रिकसम्प्रतिपन्नतया प्रमेयत्वे प्रमेयत्वं नेत्युक्तेर्मन्दजन-प्रतारणमात्रत्वात् । ईश्वरप्रमाविषयतायाः प्रमाविषयतात्वेन केवलान्वयितायाः परीक्षकोपगत-तया स्वसमयमात्रेण दुरुपह्नवत्वात् । गगनात्यन्ताभावे गगनं नास्तीति द्रव्यं द्रव्यवदित्यादि-प्रतीत्यनुरोधेन सम्बन्धप्रतियोगितानुयोगितावच्छेदकत्वं वैकस्य रूपस्य स्थितमेति अस्वीकारादित्युक्तेरपि न्यायनयाद्यनधीतिनिबन्धनत्वात् । विशेष्यतासमानाधिकरणधर्म-प्रकारकज्ञानस्यैव प्रमापदार्थतया स्वसमानाधिकरणास्तित्वरूपधर्मनिष्ठप्रकारतानिरूपित-ज्ञानीयविशेष्यताशालित्वरूपप्रमेयत्वस्यैवालीकावृत्तित्वेन तरङ्गिणीकृतामभिधित्सिततया सदुपरागेणासतो भानेऽपि दर्शितप्रमेयत्वस्य तत्साधारण्यविरहेणाक्षतमित्यन्तमपि क्षतिम-देवेत्यलम् । अत्राद्वैतसिद्धिकारः–पक्षीकृतं मिथ्यात्वं सदसद्विलक्षणत्वं सद्विलक्षणत्वमात्रं वा । आद्ये सिद्धसाधनम् । तस्यात्मान्यसर्वमध्यपतितासद्वृत्तित्वाभावात् । द्वितीये तु मिथ्यापदस्य सदसद्वैलक्षण्यपरत्वे स्वरूपासिद्धिः । सद्वैलक्षण्यरूपे पक्षे तुच्छसाधारणे सदसद्विलक्षणेतरावृत्तित्वरूपहेत्वभावात् । तस्यापि सद्वैलक्षण्यमात्रपरत्वे सन्दिग्धानैकान्ति-कता, साध्याभाववत्यात्मभेदे हेतुसन्देहात् । अप्रयोजकत्वाच्चेत्याह । तत्प्रतिषिधुर्व्याकर्तारः साध्यगतसर्वशब्दस्य सर्वनामतया असद्विलक्षणसर्वपरत्वात् । अनुकूलतर्कस्याभिधास्य-मानत्वान्नाप्रयोजकत्वादिकमिति । अत्र ब्रह्मानन्देन– न च सर्वपदेनासदन्यं सर्वं वाच्यमिति वाच्यमिति तरङ्गिणीकृतां मतमनूद्य असत्वस्य त्वन्मते शुक्तिरूप्यादावपि स्वीकारेण सर्वपदवैय्यर्थ्यापत्तेः । मन्मतरीत्या सदसदन्यत्वस्य पक्षे निवेशेऽपि सदन्यत्वमात्म-व्यक्तित्वावच्छिन्नभेद एव निवेश्यः । अन्यथा त्रिकालाबाध्यत्वस्य गुरुत्वेन तद्रूपेण भेदस्या-प्रसिद्धेः । तथा चात्मासद्भ्यां भिन्नत्वं स्वाश्रयसर्ववृत्ति नेत्यनुमाने बाध एव गुरोरवच्छेदकत्व-पक्षेऽपि मन्मते सदन्यत्वस्यात्मान्यत्वरूपतया मां प्रति बाध एव । तथा च त्वन्मते दुष्टहेतोर्मां प्रत्युपन्यासो न युक्तः । अप्रयोजकत्वादित्यादिना सत्यत्वं प्रातिभासिकान्य-सर्ववृत्ति न सत्यमात्रवृत्तित्वादात्मत्ववदित्याभाससाम्यमिति चिन्तितम् ।

तदसमञ्जसम् । साध्यशरीरे सर्वपदाप्रवेशे आत्मान्यनिरूपितवृत्तित्वाभावः साध्यमिति पर्यवसित्योभयादिशा निदर्शने साध्यवैकल्यं मा प्रसाङ्क्षीदिति तत्र तत्पदं प्रवेशनीयम् । तच्च व्यापकत्वार्थकमिति आत्मान्यत्वव्यापकनिरूपकताकाधेयत्वाभावस्य साध्यतापर्यवसानेनोक्त-क्षतिर्निरवकाशा । एवमप्यद्वैतिनयेऽलीकसाधारणान्यत्वव्यापकनिरूपकताकाधेयत्वाभावस्य मिथ्यात्वे स्थिततया सिद्धसाधनवारणाय सामानाधिकरण्यप्रत्यासत्या असदन्यत्वविशेषितं यदात्मान्यत्वं तद्व्यापकेति विवक्षितम् ।

इत्थं च व्यापकत्वार्थकसर्वपदाप्रवेशे तत्ववादिनये विपर्यस्तस्यालीकतया तदन्यवृत्ति-त्वाभावस्य निदर्शनेऽङ्गीकृततया तद्दिशा निदर्शने साध्यवैकल्यानवतारेऽपि प्रतिवादिभूता-द्वैतिदिशा तत्र तद्वैकल्यापनोदायैव तदर्थकतत्पदं प्रवेश्योक्तविवक्षाया अवश्याश्रयणीयत्वात् । लघुधर्मसमनियतगुरुधर्मस्य प्रतियोगितानवच्छेदकतानियमेऽपि त्रिकालबाध्यत्वरूपसत्व-स्यात्मत्वसमनैय्यत्यसिद्धेर्विश्वमिथ्यात्वसिध्यधीनतया तस्याश्चैतद्भेदसिध्यधीनतयाऽन्योन्याश्रय प्रसङ्गेन तादृशसत्वावच्छिन्नप्रतियोगिताकभेदस्थाने आत्मत्वावच्छिन्नप्रतियोगिताकभेद-स्याभिषेक्तुमशक्यतया उक्तदिशा बाधानवतारात् । अनुकूलतर्कानुगृहीतव्याप्तिमतः पक्षधर्मता शालिनश्चाभाससाम्योक्तेरेवाभासत्वात् । परमार्थसदन्य इति । परमार्थसत्प्रतियोगिक-भेदवानित्यर्थः । स्वस्मिन् स्वप्रतियोगिकभेदमादाय साध्यपर्यवसानायोगेन हेतोः पक्षधर्म-बलात्स्वेतरपरमार्थसत्प्रतियोगिकभेदः सेधिष्यतीत्याशयः । अत्राद्वैतसिद्धिकारः – न च कल्पितेनात्मप्रतियोगिकभेदेनार्थान्तरम् । कल्पिताकल्पितयोरेकसामान्याभावेन तेन समं व्याप्तेरग्रहात् । अन्यथा मिथ्यात्वानुमानेऽपि कल्पितमिथ्यात्वमादायार्थान्तरं सिद्धसाधनं च स्यादिति सिद्धान्ताशयमाशङ्कमानो व्यावहारिकपदार्थमादाय सिद्धसाधनाभावात् । अनानन्दत्वस्योपाधित्वाच्चेत्याह । ब्रह्मानन्दस्तु न चात्मनि च त्वन्मते तद्भेदस्यास्वीकारान्न सिद्धसाधनमिति वाच्यमिति तरङ्गिणीकृतां तत्प्रत्याख्यानाकारमाशङ्क्य शुद्धब्रह्मणि जीवादेर्भेदसत्वात् । आनन्दो ब्रह्मणो धर्म इत्यादिभेदस्य व्यवहारकालाबाध्यत्वाच्चेति समाधात् । तन्मन्दम् । जीवत्वावच्छिन्नप्रतियोगिकभेदस्योपहितालीकप्रतियोगिकतया परमार्थसत्प्रतियोगिकत्वाभावेन तादृशभेदमादाय दुःसमाधत्वात् । ब्रह्मानन्दस्तु – न च परमार्थसदन्यत्वाभावरूपसाध्याभावं विनाप्यानन्दत्वस्योपाध्यभावस्योन्नीतस्यातद्व्याप्यता-ग्राहकतर्कोऽस्तीति वाच्यमिति तरङ्गिणीकृतामनुपाधित्वसमाहितिमाशङ्क्य परमार्थसद्भेद-स्यानन्दसंसर्गखण्डनयुक्तिभिर्बाधात् । नाल्पे सुखमित्यादिश्रुत्या परमार्थभेदादिरूपस्य परिच्छेदस्यानन्दावृत्तित्वोक्तेश्चेति समाहितवान् । तदनालोचितम् । परमार्थसद्रूपस्यापि परमार्थसदन्तरभिन्नस्यानन्दसंसर्गोपपत्तेः श्रौतस्याल्पपदस्य गुणाल्पपरतया परमार्थ-सद्भिन्नार्थकताविरहेणोक्तेश्चेत्यन्तस्यासमञ्जसत्वात् । भावान्योवा इति । भावाद्वैतमते तात्विकस्याभावस्य स्वीकारात् सिद्धसाधनवारणाय भावेति । यावत्स्वेति ।

अत्राद्वैतसिद्धिकारः । यावत्स्वरूपमित्यत्र स्व(रूप)शब्दस्य यत्किञ्चित्स्वरूपपरत्वे सिद्धसाधनम् । आत्मस्वरूपपरत्वे साध्याप्रसिद्धिः । न हि यावदात्मस्वरूपमनुवर्त्त-मानोऽनात्मा प्रसिद्धोऽस्ति । तथा सत्यनुमानवैय्यर्थ्यात् । अथ स्वरूपपदस्य समभि-व्याहृतपरत्वाद्व्याप्तिग्रहदशायां दृष्टान्तस्वरूपं पक्षधर्मताग्रहदशायाम् आत्मस्वरूपपरत्वमेवेति न साध्याप्रसिद्धिर्न वा सिद्धसाधनमिति चेन्न । शब्दस्वभावोपन्यासस्यानुमानेऽ-नुपयोगादित्याह । अत्र ब्रह्मानन्दः शब्दस्वभावेति । उदाहरणवाक्यस्थस्वपदस्य दृष्टान्तपरत्वे पदार्थत्वस्य यावत्स्वरूपमनुवर्तमानानात्मवत्वव्यभिचारित्वेन व्यापकत्वग्रहासम्भवः । स्वात्मकपदार्थत्वस्य हेतुत्वेन तद्वारणेऽपि सत्वान्यभागवैय्यर्थ्यं स्वरूपासिद्धिश्च । प्रतिज्ञा-वाक्यस्थस्वपदयोः पक्षपरतया पक्षरूपस्वपदार्थघटितसाध्यहेत्वोः प्रतिज्ञावाक्यनिर्दिष्टयोरुदा-हरणादिवाक्याद्व्याप्यव्यापकत्वादिलाभासम्भवात् । कुतोऽस्य गमकत्वमित्यादिजिज्ञासा-निवर्तकत्वासम्भवः । तथा चोक्तशब्दस्वभावो नानुमानोपयुक्तः । उक्तं च मणावीश्वरवादे कार्यत्वहेतुस्वोपादानाभिज्ञजन्यत्वसाध्ययोर्व्याप्तिग्रहः किं घटोपादानान्तर्भावेन किं वा तत्त-दुपादानान्तर्भावेन किं वोपादानमात्रान्तर्भावेन । आदौ व्यभिचारः । द्वितीये तत्तदुपादानत्व-स्याननुगतत्वान्न व्यापकताग्रहः । अथ स्वशब्दस्य समभिव्याहृतपरत्वान्न दोष इति चेन्न । अनुमाने शब्दस्वभावोपन्यासस्याप्रयोजकत्वात् । तृतीये च सिद्धसाधनमिति । स्वपदस्य पक्षदृष्टान्तान्यतरपरत्वेऽपि सिद्धसाधनमिति व्याचकार ।

उभावप्याकर(दर्शिनां)दर्शनपन्थानमतिगामिनौ । तथा हि । प्रत्यक्षचिन्तामणौ– अनभ्यासदशापन्नज्ञानप्रामाण्यं न स्वाश्रयग्राह्यं स्वाश्रयातिरिक्तग्राह्यं वा । स्वाश्रयनिश्चये सत्यपि तदुत्तरतृतीयक्षणवृत्तिसंशयविषयत्वात्, अप्रामाण्यसंशयाजन्यसंशयविषयत्वाद्वा अप्रामाण्यवत् । विवादपदेन यावत्स्वाश्रयग्राहकग्राह्यं स्वाश्रयनिश्चये तदुत्तरतृतीयक्षणे प्रामाण्यसंशयादिना सन्दिह्यमानवादप्रामाण्यवदित्यादिस्वपदघटितसिद्धान्तानुमानानि प्रयुञ्जानैः, न च स्वपदस्य प्रामाण्यमात्रपरत्वात्तदाश्रयाग्राह्यत्वे बाध इत्याशङ्क्य स्वशब्दस्य सम्बन्धिशब्दत्वेन समभिव्याहृतपरत्वादिति समादधानैर्चिन्तामणिकारैरेव शब्दस्वभावोप-न्यासस्यानुमानेऽप्यादृततया ब्रह्मानन्दोपन्यस्तेश्वरवादीयग्रन्थस्य च तत्रत्यशङ्काग्रन्थतया तद्व्याकर्तृभिर्न चैवं स्वपदार्थः क्वचित्पक्षः क्वचिदृष्टान्त इति पूर्वोक्ताननुगमस्तदवस्थ इति वाच्यमित्याशङ्क्य सामान्यव्याप्तिग्रहे तस्यादोषत्वात् तस्या एव प्रकृतानुमानाङ्गत्वेनाभि-मतत्वाद् द्वितीये साध्ये स्वपदोपादानेन तथैव ग्रन्थकृत्तात्पर्योन्नयनादिति समाहिततया तद्विरोधशङ्कानवकाशेन ग्रन्थकृता स्वपदार्थघटितसाध्यविभावनेऽपि क्षतिविरहात् । कथ-मन्यथेतो दोषात्स्वप्रागभावव्यतिरिक्तस्वविषयावरणेत्याद्यनेकस्वपदार्थघटितभावरूपाज्ञान-साधकानुमानानि प्रयुञ्जानो विवरणकारो विमुच्येतेत्यलम् । व्याकुर्वाणास्तु । आत्मा यावत्स्वरूपमनुवर्तमानेति वाक्ये यतो विशेषादाकाङ्क्षोत्थापने सति स्वपदेनात्मस्वरूपमेव बाध्यते न त्वन्यत् । स च विशेषः पक्षधर्मताया विशेषसामर्थ्य उपयुज्यत एव । यदेव हि विशेषबोधने प्रतिज्ञायामाकाङ्क्षाविशेषोत्थापकतया सहकारि तदेव तत्रानुमाने पक्षधर्मतया तथा अत एव प्रतिज्ञायामाकाङ्क्षालभ्योऽर्थः पक्षधर्मताविशेष इति न कश्चिद्दोषः । विवरणे ह्यज्ञानसाधकस्वशब्दघटितसाध्यस्याभिधानादिति व्याकुर्वते । स्वप्रतियोगीति । स्वपदे-नोपात्ताया बन्धनिवृत्तेः प्रतियोगि बन्धस्तद्विषयस्तदाश्रय आत्मा तद्विषयकं ज्ञानमात्म-तत्वसाक्षात्कारस्तदबाध्यो योऽनात्मा तत्साहित्यं साध्यमित्यर्थः । निगडेति ।

अत्राद्वैतसिद्धिकारः पक्षदृष्टान्तयोर्बन्धपदार्थस्यैकस्याभावेन स्वरूपासिद्धिसाधनवैकल्या-न्यतरापातात् स्वपदे चोक्तः साध्याप्रसिद्धिर्दोषः । हेतौ च व्यर्थविशेषणत्वाद्व्याप्यत्वासिद्धिर-प्रयोजकत्वं च कस्याश्चिन्निवृत्तेरनात्मसमानकालीनत्वदर्शनं निवृत्तिमात्रस्य तथात्वसाधने संसारकालीनाया दुःखप्ननिवृत्तेः समानाधिकरणदुःखप्रागभावसमानत्वदर्शनेन दुःखनिवृत्ति-मात्रस्य तथात्वसाधनं स्यादिति जगाद । तदतिस्थवीयः । शक्तिसम्बन्धेन बन्धपद-वत्वस्यानुगतस्य सम्भवात् । हेतुशरीरे बन्धपदोपादानस्याखण्डाभावसम्पादकतयोप-योगोऽवसेयः । प्रकृतसाध्यनिरूपितप्रकृतहेतुनिष्ठव्याप्तेः प्रकृतसाध्यसाधनयोः कार्यकारण-भावानुपपत्तिलक्षणतर्कानुगृहीततया निदर्शितस्थले च तदनुग्रहवैधुर्येण उक्तक्षत्यनवकाशात् । दुःखत्वावच्छिन्नध्वंसस्य दुःखप्रागभावासमानकालिकस्य सुखस्य वा पुरुषार्थत्वेन मोक्षे दुःखोत्पत्तौ तद्व्याघातापत्तेः । न हि कार्यं विना अन्यत्प्रागभावे मानमस्तीत्यपि स्थितम् ।

स्वविषयविषयकेति । क्षणिकत्वाद्युपरागेणात्मधीरक्षणिकत्वादिनाऽऽत्मधीबाध्येति बाध-वारणाय धीर्विशेषिता । अत्राद्वैतसिद्धिकारः । स्वविरोध्यविषयकत्वस्योपाधित्वम् । अन्धोऽयं रूपज्ञानवानित्यन्धस्य रूपविषयतया कल्पितं यज्ज्ञानं तस्य रूपं नान्धगम्यमिति स्वविषय-विषयकप्रत्ययबाध्यत्वदर्शनेन व्यभिचारः । कल्पितत्वात्तत्र तद्बाधने प्रकृतेऽपि वृत्तौ कल्पितत्वे समम् । वृत्तिपदेन चैतन्यमात्रविवक्षायां तु सिद्धसाधनमेवेत्यवोचत् ।

अत्र ब्रह्मानन्दः – ननु स्वविषयान्यूनानतिरिक्तविषयकज्ञानाबाध्यत्वस्य साध्यत्वे नायं दोष इति चेन्न । अन्धोऽयं रूपज्ञानवान् इत्यस्य रूपमन्धगम्यमिति वाक्यजन्यज्ञाने तात्पर्यात् । रूपं नान्धगम्यमित्यस्य च रूपमन्धगम्यत्वाभाववदिति वाक्यजन्यज्ञाने तात्पर्यात् । तथा च समानविभक्तिकनामद्वयजन्यज्ञानस्य निर्विकल्पकत्वेन प्रकृते रूपमात्र-विषयकत्वादुपलक्षणविधया तयोर्ज्ञानयोरन्धगम्यत्वतदभावयोः प्रकारत्वेऽपि विशेषणविधया प्रकारत्वाभावात्तादृशज्ञानयोरन्यूनानतिरिक्तविषयकत्वात्तादृशधीबाध्येऽन्धप्रत्यक्षविषयत्वे व्यभिचारस्य दुर्वारत्वात् । यथाह्युपलक्षणविधया व्यावर्तकधर्मस्य बाधकधीविषयत्वं तथोपलक्षणविधया बाध्यधीविषयस्य बाध्यत्वं न्यायतौल्यादिति भावः । चैतन्यमात्रैति । आत्मधीरात्मव्यवहारप्रयोजकधीः । सा च चिद्रूपा नित्येति भाव इति व्याकृतवान् । तद्यथाजातवचनतया सुधीभिरवधीरणीयमेव । अन्धो रूपज्ञानवानित्यादिवाक्यस्य रूपं नान्धगम्यमित्याद्यर्थे तात्पर्यस्य कथञ्चिदुपपादनेऽपि समानविभक्तिकनामद्वयजन्यशाब्द-बुद्धेरभेदसंसर्गावच्छिन्नैकनामार्थनिष्ठविशेष्यतानिरूपितापरनामार्थनिष्ठप्रकारताकत्वेन निखिल-परीक्षकावधृततया निर्विकल्पकत्वोपगमे स्वपरिभाषामात्रमूलत्वेनादर्तव्यत्वात् । वृत्तिमत्पद-ज्ञानजन्योपस्थितिविषयतावच्छेदकरूपेणैव पदार्थस्य शाब्दबोधे भाननियमेन किञ्चिदनु-परागेण व्यक्तिमात्रावगाहिनोऽन्वयबोधस्य निरङ्कुशेनैवोपेयत्वात् । उपलक्षणविधयाऽन्ध-गम्यत्वतदभावयोः प्रकारतया तादृशज्ञानयोर्भानोपगमे प्रकारतासामान्यनिरूपकत्वाभावरूप-निर्विकल्पकत्वस्य दुरुपगमत्वात् । आत्ममात्रगोचरतया निर्विकल्पकत्वेन परोरीकृतधियोऽ-ध्यस्तव्यावर्तकप्रकारतानिरूपकत्वघटितबाधकतावच्छेदकानाक्रान्तत्वेन बाधकत्वस्यैवायोगात् । (स्व)विरोध्यविषयकत्वेन चोपाधेः साधनव्यापकत्वादित्यलम् । आत्माधिष्ठानेति । काचादावंशतः सिद्धसाधनादात्माधिष्टानकेति । शुक्तौ रजतभ्रमहेतुभूतचाकचक्यस्य घटादौ बाधदर्शनात्साध्यशरीरे स्वकार्येति पदोपादानम् । शुक्त्यज्ञानमपीति । तथा च तत्र नानैकान्त्यमिति भावः ।

अत्राद्वैतसिद्धिकारः व्यावृत्ताकाराधिष्ठानज्ञानानवधित्वं वा स्वकार्यभ्रमाधिष्ठाना-नारोपितत्वं वोपाधिर् दूरादिदोषादुपलादौ यत्र चाकचक्यकल्पना तेन चाकचक्यदोषेण रजतकल्पना तत्राधिष्ठानज्ञानेन चाकचक्यरूप्ययोरुभयोरपि बाधदर्शनेन व्यभिचारश्चेति शशङ्के । अत्र तरङ्गिणीकारैः प्रदर्शितां तदुक्तक्षत्यपनोदभङ्गीं पराचकीर्षुर्ब्रह्मानन्दस्तु– व्यावृत्ताकारेत्यादि । यं प्रति व्यावर्तकधर्मवत्तया ज्ञातं सत् स्वजन्यभ्रमाधिष्ठानं स्वजन्य-भ्रमनिवर्तकं तदन्यत्वस्येत्यर्थः । अविद्यादिकं प्रति व्यावर्तकं द्वितीयाभावादिकं तद्वत्तया ज्ञातमविद्यादिजन्यभ्रमाधिष्ठानं ब्रह्मोक्तभ्रमनिवर्तकमतोऽविद्याना(का)मकर्मरूपो दोषो न तदन्यः किं तु काचादिरिति बोध्यम् । यद्यपि व्याप्यभ्रमस्य भ्रमानुमितिजनकस्य ह्रदो निर्वह्निरित्यादिज्ञानबाधाद्यथाश्रुते व्यभिचारस्तथापि भ्रमत्वव्याप्यधर्मावच्छिन्नकार्यता-निरूपितकारणतानिवेशे हेत्वाभावादेव न व्यभिचारः । व्याप्यभ्रमस्य सर्वत्र व्यापकभ्रमे दोषविधया अकारणत्वादित्याशयेन स्थलान्तरे व्यभिचारमाह ॥ दूरादिति । न च चाकचक्यज्ञानं हेतुस्तच्च न बाध्यं मन्मत इति वाच्यम् । चाकचक्यस्य हि सर्वस्य ज्ञानं न हेतुः किन्तु चाकचक्यव्यक्तिविशेषाणाम् । तथा च तत्तद्व्यक्तिज्ञानापेक्षया तत्तद्व्यक्तेरेव लघुत्वेन हेतुत्वम् । जातिविशेषरूपेण ज्ञानस्य हेतुत्वे तद्रूपं प्रातीतिकचाकचक्यव्यक्तिष्वपि सम्भवत्येव । यत्तु व्यावृत्ताकारेत्यादेर्विशेषणस्य पक्षमात्रव्यावर्तकत्वेनोक्तोपाधिः पक्षेतरत्वरूप इति । तन्न । उक्तावधिभिन्नत्वरूपोपाधिर्हि यदभाववत्वेन ज्ञातमधिष्टानं स्वजन्यभ्रमनिवर्तकं तादृशदोषान्यत्वं, तथा च तादृशदोषप्रतियोगिकत्वरूपस्य विशेषणस्य प्रातीतिक-चाकचक्यादिरूपाद्विपक्षादपि व्यावर्तकत्वेन पक्षमात्राव्यावर्तकत्वाद्विपक्षाव्यावर्तकविशेषणा-नवच्छिन्नस्य साध्यव्यापकत्वस्य सत्वादुक्तोपाधेरसत्वे उक्तसाध्यानुपपत्तेः साध्यव्यापकता-ग्रहादिति तदाशयमुदबीभवत् ।

तदविभावितम् । औतिनये अखण्डार्थनिष्ठवेदान्तवाक्यजन्यनिष्प्रकारकचरमान्तःकरण-रूपवृत्तेस्तादृशवृत्तिरूपज्ञानविषयीभूतब्रह्मणो वाऽविद्यानिवर्तनद्वारा तत्कार्यभ्रमादिनिवर्तक-तेति स्थिततया द्वितीयाभावादिरूपाविद्यादिदोषव्यावर्तकधर्मवत्तया ज्ञातस्य ब्रह्मणस्तन्निवर्त-कत्वोपगमेऽपसिद्धान्तप्रसङ्गेन तथा दुरुपगमतया यं प्रतीति यत्पदेनाविद्यादेरुपादातुमशक्य-तया काचादेरिवाविद्यादरेपि तदन्यतापत्योपाधेः साधनव्यापकताप्रसङ्गेन तत्वस्य दुरुपपाद-त्वात् । व्यधिकरणप्रकारकत्वरूपभ्रमत्वावच्छिन्नजन्यतानिरूपितजनकतानिवेशनेनैव त्वन्मत-दिशा व्याप्यभ्रमे क्षतिनिवर्तनसम्भवेन व्याप्यपर्यन्तानुधावनस्य मन्दप्रयोजनत्वेनावतरणिका-ग्रन्थस्यापि तादृशत्वात् । सिद्धान्ते व्याप्यभ्रमस्याबाध्यतया तच्छङ्कैव नावतरितुमर्हति । स्वरूपसतश्चाकचक्यादेर्भ्रमानुत्पादकतया तत्प्रतीतेरेव तद्धेतुतयाऽवश्येष्टव्यतया लघुत्वेनेत्यपि लाघवमेवात्मनः सम्पादयति । उपाधेर्विपक्षव्यावर्तकविशेषणघटितत्वोपपादनप्रयासोऽपि मन्दप्रज्ञतानिबन्धन एव । चाकचक्यादिप्रतीतेरेव भ्रमहेतुतायाः समर्थिततया चाकचक्यादि- जन्यभ्रमासिध्या स्वप्नभ्रमाधिष्ठानज्ञानबाध्यरूपस्य प्रकृतसाध्याभावस्य तत्रासिध्या विपक्षत्व-स्यैव दुरुपपादतया तदुपपादनस्य दुष्करत्वात् । वनमालिमिश्रस्तु । उपाधिव्यतिरेकस्य पक्षसन्दिग्धत्वेन साध्याभावासाधकत्वेनानुपाधित्वात् । स्थापनायामनुकूलतर्काणां वक्ष्यमाण-त्वेन पक्षीयसन्देहस्येवादोषत्वाच्च । पक्षमात्रव्यावर्तकविशेषणवत्वाच्च । उपलादौ रजतारोपस्य निवर्तकं पाषाणत्वज्ञानं तच्च न चाकचक्यारोपनिवर्तकम् । चाकचक्यस्य क्वचित्पाषाणेऽपि सम्भवात् । किन्तु तन्निष्ठनैल्यादिज्ञानमित्यादिना तदपभाषितं प्रत्याकोशीत् । ब्रह्मान्य-दनादीति । अत्र तरङ्गिणीकारोक्तां क्षतिमपनिनीषुणा ब्रह्मानन्देन ध्वंसाप्रतियोगित्व-स्योपाधित्वादित्यद्वैतसिद्धिकारीयोक्तिः, पक्षे हेतौ चानादित्वं प्रागभावाप्रतियोगित्वं चेत्तदा तुच्छे बाधव्यभिचारौ । तद्विशिष्टभावत्वं चेत्तदापि भावत्वं तुच्छान्यत्वं चेत्तदा शुक्तिरूप्यादौ मन्मते तौ अत एव प्रागभावे साधनाव्यापकत्वमुपाधेरिति भाव इति न्यभावि ।

तद्ग्रन्थकृत्तात्पर्यानधिगतिनिबन्धनम् । प्रकृतपक्षतावच्छेदकावच्छेदेनानुमितेरुद्देश्यत्वेऽपि नव्यमतत्रातः सिद्धसाधनस्यादोषत्वेऽपि न तदुपगन्तृप्राचीनमते तद्ब्रह्मणि तद्वारणाय ब्रह्मान्यदित्यस्योपादेयत्वेऽप्युभयदिशाऽलीके बाधवारणमनादित्वांशनिवेशेनापि कर्तुम-शक्यम् । तस्य मतद्वयेऽपि प्रागभावाप्रतियोगित्वात् । सामानाधिकरण्येन बाधबुद्धे-रवच्छेदकावच्छेदेनानुमितिविरोधित्वात् । अतोऽनादिपदं न प्रागभावाप्रतियोगित्व-रूपानादित्वस्य पक्षतावच्छेदककोटिनिवेशतात्पर्यकम् । किं तु सामानाधिकरण्यप्रत्यासत्या अभावविलक्षणत्वविशेषितं यदलीकविलक्षणत्वं तद्विशेषिततात्पर्यकम् अभावविलक्षणत्वांशस्य मन्दप्रयोजनत्वात् । इत्थं चोभयदिशाऽलीके बाधस्याद्वैतिदिशा शुक्त्यवच्छिन्नचैतन्यावरका-ज्ञानोपादानकप्रागभावप्रतियोगिनि विपर्यस्तरूप्ये पूर्वदलाभावेनानैकान्त्यस्य च प्रसञ्ज(न)-नावकाशः । पाषाणमयः पर्वतो वह्निमान्धूमादित्यादाविव प्रकृतपक्षशरीरे अभावविलक्षण-त्वांशनिवेशनस्य विकासकतयैव सार्थक्यमवसेयमिति प्रागभावस्य प्रकृतपक्षतावच्छेदका-नाक्रान्ततया तदन्तर्भावेनोपाधेः साधनाव्यापकताया दुःसम्पादत्वात् । प्रागभावस्य च पक्षतुल्यतयोपन्यस्तोपाधेस्तत्र सन्दिग्धसाध्यव्यापकताकत्वेन निश्चितसाध्यव्यापकताकत्व-विरहेण क्षतिविरहात्सर्वं समञ्जसम् । अत्र पक्षे हेतौ चानादिपदमनादिभावपरं बोध्यम् । अत एव ध्वंसाप्रतियोगित्वं नोपाधिः । पक्षादव्यावृत्तेरित्यपि व्याचख्युः ।

कालाद्यसम्बद्धं नावतिष्ठत इति । अत्राद्वैतसिद्धिकारः । कालसम्बन्धं विना नावतिष्टत इत्यस्य यदा ब्रह्म तदाऽवश्यं कालसम्बन्ध इत्येवंरूपा व्याप्तिरर्थस्तथा च सिद्धसाधनम् । न हि यस्मिन् काले ब्रह्म तस्मिन् काले ब्रह्मणः कालसम्बन्धो नास्ति । एवं यत्रात्मा तत्र कालसम्बन्ध इति दैशिकव्याप्तावपि सिद्धिसाधनम् । न हि देशकालासम्बन्धः कदाऽप्यस्ति । परममुक्तौ तु न देशो न काल इति सुस्थिरं सिद्धसाधनमित्याह । तरङ्गिणीकारोक्त-क्षत्यपनिनीषुर्ब्रह्मानन्दस्तु देशकालसम्बन्धवत्वेन प्रतीयमानं वस्तुमात्रम् । ब्रह्मणोऽप्य-विद्यादिदेशकालसम्बन्धात् । तथा च तदन्यभेदस्य देशादिसम्बन्धरूपस्य साधने सिद्ध-साधनम् । देशकालासंसृष्टसत्तारूपत्वाभावसाधनेऽपि विशेष्यवत्वेन निश्चितेऽधिकरणे यो विशिष्टस्याभावस् तस्य विशेषणाभावस्वरूपत्वमिति न्यायेन प्रकृतेऽपि सत्तारूपत्वेन निश्चिते उक्ताभावस्योक्तसम्बन्धरूपतया पर्यवसानात् किञ्चित्कालावच्छिन्नदेशाद्यसम्बद्धान्यत्व-मादायार्थान्तरं च । तद्वारणाय यदा ब्रह्म तदा देशादिसम्बन्ध इत्युक्तौ मूलोक्तो दोष इति प्रतिपपाद । तद्वनमालिमिश्रः प्रत्यषेधीत् । संसारदशायामिव मोक्षेऽपि तत्सम्बन्धस्य साधनीयत्वात् । न च परममुक्तौ देशादिकं नास्तीति वाच्यम् । संसारकालभिन्नकाल एव परममुक्तेर्वक्तव्यत्वात् । अन्यथा परममुक्तौ संसारकालस्तु नास्ति असंसारकालोऽपि न चेत्संसारदशायां निश्चितव्यापकताकदेशाद्यभावेन ब्रह्मणोऽप्यभावापत्या शून्यवादापत्तेः । वेदैकगम्यमिति । अत्र पारमार्थिकत्वेन श्रुतितात्पर्यविषयत्वस्योपाधित्वादित्यद्वैतसिद्ध-कारीयोक्तिस्तरङ्गिणीकृदुक्तक्षत्यपनिनीषया ब्रह्मानन्देन पारमार्थिकत्वेनेत्यादि । परमार्थः परमप्रयोजनमर्हति यत्तादृशश्रुतितात्पर्यविषयत्वस्येत्यर्थः । तथा च मुक्त्युपधायकप्रमाविषयत्वं श्रुतिजन्यधीमात्रप्रयोजनवत्वं वोपाधिस्तादृशविषयत्वयोग्यताया विवक्षितत्वात् । एतेन साधनविशेषितत्वान्नायमुपाधिरीश्वरानुमाने शरीरजन्यत्ववदित्यपास्तम् । वस्तुतस्तु साधन-विशेषितत्वं नोपाधेराभासताप्रयोजकम् । दूषकताबीजविघटकस्यैव तथात्वेन दीधित्यादावुक्त-त्वात्साध्यव्यापकताग्राहकतर्कस्तु पूर्ववदिति व्याकारि । तच्छिवेतरत् । ब्रह्मसाक्षात्कारजनित प्रसादस्यैव प्रयोजकतासम्बन्धेन तत्फलोत्पत्तिविशिष्टत्वरूपमोक्षोपधायकत्वोपगमेन प्रमाया-स्तद्राहित्येन तद्घटितस्य साध्यव्यापकताराहित्येन पक्षमात्रव्यावर्तकविशेषणवत्वेन पक्षेतर-तुल्यतया चाद्यस्यानुपाधित्वात् । द्वितीयस्य साधनव्यापकत्वात् ।

दोषाजन्येति । अत्राद्वैतसिद्धिकारः – शुक्तिरूप्यादिषु व्यभिचारात् । तेषां दोषजन्य-वृत्तिविषयत्वेऽपि दोषाजन्यसाक्षिविषयत्वात् । शुद्धस्य वृत्तिविषयत्वानभ्युपगमे दृष्टान्तस्य साधनविकलत्वाच्च । दोषजन्यज्ञानाविषयत्वविवक्षायां चासिद्धोर् हेतुः । साक्ष्यवच्छेदिकाया अविद्यावृत्तेर्दोषजन्यत्वात् । असद्गोचरशाब्दज्ञानात्मकविकल्पस्य दोषाजन्यत्वेनासति व्यभिचारश्च । आत्मनो वृत्तिविषयत्वाभ्युपगमे दोषजन्यदेहात्मैक्यभ्रमविषयत्वात्साधनविकलो दृष्टान्तस्तदनभ्युपगमेतु अविषयत्वमात्रस्यैव परमार्थसाधकत्वोपपत्तौ दोषजन्येति विशेषण-वैय्यर्थ्याद्व्याप्यत्वासिद्धिः । तावन्मात्रं च पक्षे स्वरूपासिद्धमित्यवादीत् । अत्र तरङ्गिणी-कृद्भिरभिहितदोषापनुत्तये ब्रह्मानन्देन – साक्ष्यवच्छेदिकाया इति । न च दोषजन्यत्वेनोभय-वादिसिद्धं यज् ज्ञानं तदविषयत्वं वाच्यम् । अविद्यावृत्तिस्तु न तथेति वाच्यम् । तथा सति जीवेशयोरैक्ये जीवानणुत्वे च तात्विकत्वासिध्द्यापत्तेस्त्वन्मते व्यभिचारात् । शुक्तिरूप्यादौ व्यभिचाराच्च । न हि तद्धीरुभयवादिसिद्धा । मया अविद्यावृत्तेस्तदन्यस्या एव स्वीकारात् । भ्रमविषयत्वादिति । विशिष्टविषयकात्माकारवृत्तेः शुद्धात्मापि विषय इति भाव इति तद्व्याकृतम् ।

तदमञ्जसम् । दोषजन्यत्वेनोभयमतसिद्धं यज्ज्ञानं तदविषयत्वस्य हेतुत्वेनाभिप्रेततया सिद्धातिना जीवेश्वरैक्यप्रतीतेर्जीवा(न)णुत्वप्रतीतेश्च शक्तितात्पर्यभ्रमरूपदोषजन्यतोपेततया पूर्ववादिना च ब्रह्मान्यवस्तुमात्रप्रतीतेरेव तदुपगमेन दोषजन्यत्वेनोभयोपगतप्रतीतिविषयतया तद्व्यतिरेकाभावेनानैकान्त्यानवकाशात् । शुक्तिरूप्यादावप्युक्तदिशा तदनवकाशात् । न हि दोषजन्यत्वातिरिक्तेनाविद्यावृत्तित्वतदन्यत्वादिनाऽप्युभयसिद्धत्वं निवेशितं हेतुशरीरे, येन तच्छङ्कोदीयात् । शुद्धस्यापि वृत्तिविषयत्वोपगत्या देहात्मैक्यभ्रमस्य यत्ते प्रत्याख्यानेन च निदर्शने साधनवैकल्यशङ्कानवकाशैव । शशशृृङ्गमस्तीत्यादिवाक्याभासजनितालीकगोचर-ज्ञानस्यापि योग्यताभ्रमादिदोषजन्यतयोभयसिद्धतया तत्राप्यनैकान्त्यानवतारात् । हेतु-भूताभावेप्रतियोगितया विशेषणीभूतविषयत्वांशे तादृशज्ञाननिरूपितत्वस्यासिद्धिवारकतया सार्थकताऽवसेयेत्याद्यन्यत्र प्रपञ्चितमितीहोपरम्यते । स्वविषयेति । औतिदिशा प्रातिभासिकेऽनैकान्त्यविधूननाय स्वविषयकेत्यादि । अत्र दृष्टिसृष्टिपक्षेऽसिद्धेर् विषमव्याप्त-स्यानादित्वस्योपाधित्वाच्चेत्यद्वैतसिद्धिकृदाह । ब्रह्मानन्दस्तु पूर्वभावित्वं पूर्वकालवृत्तित्वम् । तथा च यत्किञ्चित्स्वज्ञानात्पूर्ववृत्तित्वं शुक्तिरूप्यादौ व्यभिचारि । यावत्स्वज्ञानपूर्ववृत्तित्वं घटादावसिद्धम् । स्वप्रत्यक्षपूर्ववृत्तित्वं सुखादौ वृत्त्यस्वीकारपक्षे तत्रासिद्धम् । स्वप्रत्यक्षोत्पत्तिकालोत्पन्नपरिमाणविशेषादावसिद्धं च । हस्तादिपरिमाणप्रत्यक्षे हि न संयुक्तसमवायमात्रं हेतुर्हस्तादिपरिमितवस्त्रादेस्तावदवयवावच्छिन्नचक्षुःसंयोगं विनाऽपि प्रत्यक्षापातात् । किं तु तादृशसंयोगः स्वाश्रयचक्षुःसंयुक्तमनःसंयोगवत्वसम्बन्धेन पुरुषनिष्ठेन हेतुः । तादृशसंयोगवत्समवायस्य विषयनिष्ठसम्बन्धेन हेतुत्वे तु तत्तत्पुरुषीयत्वस्य कारणतावच्छेदके निवेशे गौरवम् । न चैवं तादृशपरिमाणोत्पत्तेः पूर्वक्षणेऽपि तत्प्रत्यक्ष-मुत्पद्येत तावदवयवावच्छिन्नसंयोगस्य पूर्वमपि सत्वादिति वाच्यम् । विजातीयत्वेनैव तस्य हेतुत्वात्तादृशसंयोगे तादृशवैजात्याभावात् । तथा चोक्तपरिमाणस्योत्पत्तिक्षणेऽपि तत्प्रत्यक्षोत्पत्या तत्र हेत्वसिद्धिः स्यादेवेति तद्व्याचकार ।

तद्ग्रन्थकृत्तात्पर्यानधिगतिनिबन्धनम् । अनुमानमणिदीधितावनुमितिग्रन्थे स्वविषयक-लौकिकसाक्षात्कारात्पूर्वभावित्वं हि हेतूकृतम् । तच्च विलक्षणविषयतासंसर्गावच्छिन्नलौकिक- सन्निकर्षजन्यज्ञानवृत्तिकार्यतानिरूपिततादात्म्यसम्बन्धावच्छिन्नकारणाताशालित्वमिति सामान्यतः प्रत्यक्षे विषयत्वेन तत्तद्विषयप्रत्यक्षे तत्वेन कदाचिज्ज्ञानादिप्रत्यक्षे ज्ञानत्वादिना हेतुत्वमिति प्रतीकव्याख्यावसरे गदाधरादिभिः सप्रपञ्चं समर्थिततया प्रकृते सामानाधिकरण्ये-नानुमित्युद्देश्यकप्रकरणस्यैवारब्धतया क्वचित्तद्धेत्वभावोपपादनप्रयासस्याकरविरुद्धत्वात् प्रकृतानुमित्यपरिपन्थित्वाच्च । अनुभूयमानकार्यकारणभावापलापकदृष्टिसृष्टिपक्षस्य प्रत्याख्यास्यमानतया निष्प्रमाणतया च प्रकृतोपाध्याभावेन साध्याभावसाधने अप्रयोजकतया तदुपाधित्वस्य दुरुपपादतया च क्षत्यभावादिति सामञ्जस्यं विभावनीयम् ।

अन्योन्येति । एतद्घटभेदनिष्ठाभावत्वे बाधाद्व्यतिरिक्तान्तमभावविशेषणम् । समवाये-नैतद्घटात्यन्ताभावनिष्ठाभावत्वे बाधादेतद्घटसमानाधिकरणेति । एतद्घटसमवायिनिष्ठ इत्यर्थः । कपालरूपादिनिष्ठे घटसमानाधिकरणत्वे बाधादेतद्घटप्रतियोगिकाभावत्वेति । हेतौ चैतद्घटभेदत्वे समवायावच्छिन्नघटात्यन्ताभावत्वे पटात्यन्ताभावत्वे प्रमेयत्वादौ चानैकान्त्य-मपहस्तयितुं क्रमेण विशेषणानि । प्रागभावत्वे साधनवैकल्याद्दृष्टान्ते एतद्घटेति । अत्र पक्षहेतुशरीरयोर्व्यतिरिक्तान्तमन्योन्याभावत्वपर्याप्तावच्छेदकताकप्रतियोगिताकभेदविशेषितार्थकम् । तेन व्यासज्यवृत्तिधर्मावच्छिन्नान्योन्याभावभिन्नत्वस्यान्योन्याभावसाधारणत्वेऽपि न क्षतिः । एवम् एतद्घटसमानाधिकरणत्वमेतद्घटसमवायिनिर्देशिकविशेषणतासम्बन्धेन वर्तमानत्वरूपम् । तेन समवायेन घटात्यन्ताभावस्य कालिकसम्बन्धेन घटसमवायिवृत्तित्वेऽपि न क्षतिस् तथै-तद्घटप्रतियोगिकत्वं वैशिष्ट्यव्यासज्यवृत्तिधर्मानवच्छिन्नैतद्घटवृत्तिप्रतियोगिताकत्वमवसेयम् । तेन पूर्वक्षणवृत्तित्वविशिष्टघटात्यन्ताभावस्य समवायेन घटपटोभयात्यन्ताभावस्य च तत्समवायिवृत्तित्वेऽपि न क्षतिः ।

अत्राद्वैतसिद्धिकारः । साधनावच्छिन्नसाध्यव्यापकस्यैतद्घटप्रतियोगिकजन्यजनकान्यतर-मात्रवृत्तित्वस्योपाधित्वात् । न च पक्षीकृतधर्मस्यात्यन्ताभाववृत्तित्वसन्देहे साधनाव्यापकत्व- सन्देह इति वाच्यम् । विपक्षे बाधकतर्कानवतारदशायां सन्दिग्धोपाधेरपि दूषणत्वसम्भवात् । घटात्यन्ताभावत्वे च व्यभिचारात् । संयोगसम्बन्धेन घटवत्यपि भूतले समवायसम्बन्धेन घटात्यन्ताभावसत्वात्साध्याभाववति तत्र हेतुवृत्तेरित्यवदत् । ब्रह्मानन्दस्तु – शुद्धसाध्यस्यै-तद्घटासमानकालीनतत्तद्व्यक्तित्वेऽपि तत्रोपाध्यसत्वादाह साधनावच्छिन्नेति । एतद्घटेत्यादि ॥ एतद्घटप्रतियोगिकं यदेतद्घटस्य जन्यं जनकं च तयोरन्यतरदेतद्घटस्य प्रागभावो ध्वंसश्च, तन्मात्रवृत्तित्वस्येत्यर्थः । साध्यसमव्याप्तिरक्षार्थं मात्रेति । विषमव्यापकस्याप्युपाधित्वेन साध्यव्याप्यत्वस्य दूषकतायामनुपयोगादिति शुद्धमते तु तन्न देयम् । सन्देह इति । एतद्घटे मिथ्यात्वसन्देहकाले तत्समवायिनि समवायेन तदत्यन्ताभावस्य सन्देहात्पक्षेऽत्यन्ताभाव-वृत्तित्वसन्देहः । तद्घटध्वंसप्रागभावकाले च तद्घटसमवायिनि समवायावच्छिन्नतद्घटात्यन्ता-भावो नाभ्युपेयते । तद्घटो नास्तीति बुद्धेस्तद्घटविरोधिप्रागभावाद्यवगाहित्वादित्यर्थापया-मास । तन्मन्दम् । विपक्षबाधकतर्कस्यानङ्कुरिततया प्रत्युतानुकूलतर्काणां स्थापनायामेवाभि-धास्यमानतया न सन्दिग्धोपाधिः सङ्गच्छत इत्याह । अत्र चेति ॥ ध्वंसप्रागभावकालेऽपि घटोनास्तीति प्रतीतिबलाद् ध्वंसाधिकरणेऽत्यन्ताभावोऽप्यस्ति । तथा च पक्षस्यैतद्घटा-समानकालीने तद्घटात्यन्ताभावे निश्चयेन पक्षे साधनस्योपाध्यभावस्य च निश्चयादुपाधेः साधनाव्यापकत्वनिश्चय इति ब्रह्मानन्दीया शङ्कापि न साधीयसी । तथा सति विशिष्टस्य शुद्धादतिरिक्ततामते ध्वंसप्रागभावकालावच्छिन्नवृत्तिकत्वविशिष्टात्यन्ताभावत्वे प्रकृतसाध्य-विशेषिते दर्शितोपाध्यभावेन साध्याभावेन साध्यव्यापकत्वस्य दुरुपपादत्वादित्यलं व्यासेन । विनेयप्रत्यनुकूलनायोक्तप्रमेयं समासेनाह ॥ तथा चेत्यादि ।

नेष्टे विश्वानलीकत्वहेतुभिर्बाधिताऽनुमा ।

परिच्छेत्तुं तन्मृषात्वमिति चेतसि भाव्यताम् ॥