नन्विदं रूप्यमित्यत्रेदमितिवत् सन् घट इत्यत्रापि..
न्यायामृतं
नन्विदं रूप्यमित्यत्रेदमितिवत् सन् घट इत्यत्रापि सन्नित्यधिष्ठानब्रह्मानुवेध एवेति चेन्न, चाक्षुषादिज्ञाने रूपादिहीनब्रह्मास्फुरणादित्युक्तत्वात् । नीलो घटः, मिथ्या रूप्यम् असन्नृशृङ्गमित्यादावपि नील इत्यादिरधिष्ठानानुवेध इत्यापाताच्च । नैल्यादिकं घटेऽस्ति सत्त्वं तु नेति चेन्न, अस्यारोपितत्वसिद्ध्यधीनत्वेनान्योन्या-श्रयात् । अन्यथा सत्यं ज्ञानमित्यत्रापि सत्यमित्यधिष्ठानानुवेध इति स्यात् । न ह्यद्यापि ब्रह्मैव सद्रूपमन्यन्मिथ्येति सिद्धम् ।
ननु तथापि कथं प्रत्यक्षमात्यन्तिकाबाध्यत्वग्राहि ? तात्कालिकाबाधस्तु रूप्यादेरिवेष्ट इति चेत्, किं प्रत्यक्षमप्रमाणमेव ? उत प्रमाणमपि वर्तमानमात्रग्राहि-त्वात् त्रिकालाबाधग्रहाक्षमम् । आद्येऽपि स्वतः प्राप्तस्य तत्त्वावेदनरूपप्रामाण्यस्य त्यागः किमनुमानविरोधात् ? आगमविरोधाद्वा ? भाविबाधकशङ्कामात्रेण वा ? नाद्यौ, तयोः प्रामाण्ये तद्विरोधेनाक्षस्याप्रामाण्यम्, सति च तस्मिन्मानाविरोधेन तयोः प्रामाण्यमित्यन्योन्याश्रयात् । अक्षस्य तु प्रबलस्य प्रामाण्यमनुमानागमा-विरोधापेक्षं नेति नान्योऽन्याश्रयः । न हि सिंहः शशशावकाभावमपेक्ष्य वनं गाहते । प्रत्यक्षस्यानुमित्यादितः प्राबल्यं च तदगृहीतरेखोपरेखादिविशेषग्राहित्वादनुमित्याद्य-निवर्तितदिङ्मोहादिनिवर्तकत्वाच्च जात्यैव । दृष्टं हि वह्निशैत्यानुमाने धर्म्यादे-श्चक्षुरादिनापि सिद्ध्या अनुपजीव्यत्वेऽपि औष्ण्यप्रत्यक्षस्य जात्यैव प्राबल्यम् । ‘‘प्राबल्यमागमस्यैव जात्या तेषु त्रिषु स्मृतम्’’ इति तु वैदिकार्थविषयम् । अत एवोक्तम्– ‘‘क्व च प्रत्यक्षतः प्राप्तमनुमागमबाधितम्’’ इति ।
अद्वैतसिद्धिः
‘किञ्चेदं रूप्यं’ इत्यत्र इदमितिवत् ‘सन् घटः’ इत्यत्रापि सदित्यधिष्ठानभूतं ब्रह्मैव भासते । न च चाक्षुषादिज्ञाने रूपादिहीनस्य ब्रह्मणः कथं स्फुरणमिति वाच्यम् । रूपादिहीनस्यापि कालादि-न्यायेन स्फुरणस्य प्रागेवोपपादितत्वात् । नन्वेवं ‘नीलो घटः’ ‘मिथ्या रूप्यम्’ असन्नृशृृङ्गम्’ इत्यादावपि ‘नीलः’ इत्यदिरधिष्ठानानुवेध इति स्यात् । न च नैल्यं घटादिष्वस्ति, सत्त्वं तु नेति वाच्यम् । अस्यारोपितत्वसिद्ध्युत्तरकालीनत्वेनान्योन्याश्रयात् । अन्यथा ‘सत्यं ज्ञानं’ इत्यत्रापि सत्यमित्यधिष्ठानानुवेध एव स्याद् इति चेन्न । सन्नित्यस्य ‘घटः’ इत्यनेन सामानाधिकरण्यस्य बाधितत्वात् । तथा हि – सत्ताजतिस्फुरणनिबन्धनं वा, स्वरूपसत्त्वनिबन्धनं वा, कालत्रया-बाध्यत्वनिबन्धनं वा सामानाधिकरण्यं स्यात् । न चाभावादिसाधारणसत्प्रतीतौ सत्ताजातिस्फुरणं सम्भवति । अभावादिषु त्वयापि तदनङ्गीकारात् । न च क्वचित्साक्षात्सम्बन्धेन क्वचित् परम्परा-सम्बन्धेन सदिति प्रतीत्युपपत्तिः । विजातीयसम्बन्धेन समानाकारप्रतीत्यनुपपत्तेः । अन्यथा सम्बन्धभेद एव न सिध्येत् । न च स्वरूपसत्त्वेनाभावादौ तत्प्रतीतिः, अननुगमात् । अननुगतेनापि अनुगतप्रतीतौ जातिमात्रोच्छेदप्रसङ्गात् । अत एव न सर्वत्रापि स्वरूपसत्त्वेनैव सद्व्यवहारः । एकेनैव सर्वानुगतेन सर्वत्र सत्प्रतीत्युपपत्तौ बहूनां तद्धेतुत्वकल्पने मानाभावात् । नापि कालत्रया-बाध्यत्वनिबन्धनं तत् । तस्य चक्षुराद्यगम्यत्वस्योक्तत्वात् । ‘सदिदं रजतम्’ इत्यादिभ्रमे अभावाच्च । तस्मादेकं सर्वाधिष्ठानमेव सदिति सर्वत्रानुभूयत इति युक्तम् । नीलादेस्तु घटादिसामानाधिकरण्ये किमपि नास्ति बाधकम् । न वा नीलादेरधिष्ठानत्वं सम्भवति । प्रागसत्त्वात् । नीलपीतादि-प्रातिस्विकानन्ताधिष्ठानकल्पने गौरवात् । अधिष्ठेयेन तुल्ययोगक्षेमत्वाच्च । अधिष्ठेयविषमसत्ताकमेव ह्यधिष्ठानं भवति । ‘मिथ्या रूप्यम् असन्नृशृृङ्गम्’ इत्यादौ मिथ्यात्वासत्त्वयोरधिष्ठानत्वशङ्कापि नास्ति । शून्यवादापत्तेः । तत्र चानुपपत्तिरुक्ता, वक्ष्यते च । यत्तु ‘सत्यं ज्ञानमनन्तम्’ इत्यत्रापि तथा स्याद् इति । तन्न । यतो न तत्र सत्तासम्बन्धेन सत्त्वम्, किंतु स्वरूपेणैवेत्युक्तदोषा-नवकाशात् । न चैवं घटादावपि स्वरूपेणैव तथात्वम् । पूर्वमेव निराकृतत्वात्, इति सन्घट इति प्रत्यक्षेऽधिष्ठानानुवेधनिरूपणम् ।
किञ्च निश्चितप्रामाण्यमेव प्रत्यक्षमितरबाधकं भवेत्, न चात्र प्रामाण्यं निश्चितम्; आगम-विरोधाद्, अनुमानविरोधाद्, भाविबाधाभावानिर्णयाच्च । ननु प्रत्यक्षमेव प्रबलमनुमानागमबाधकम् । नानुमानागमौ । प्रत्यक्षाप्रामण्ये तद्विरोधाभावेनानुमानागमयोः प्रामाण्यम्, तयोः प्रामाण्ये च तद्विरोधात् प्रत्यक्षाप्रामाण्यमित्यन्योन्याश्रयात् । न हि प्रत्यक्षस्य प्रामाण्येऽप्येवमन्योन्याश्रयः । तस्यानपेक्षत्वाद् इति चेन्न । चन्द्रतारकादिपरिमाणप्रत्यक्षे अनुमानागमविरोधेन तस्याप्रामाण्यदर्शनात्, तेनापि स्वप्रामाण्यसिद्ध्यर्थमितराविरोधस्यावश्यमपेक्षणीयत्वात् । तथा चान्योन्याश्रयतुल्यत्वात् परस्परविरोधेन प्रामाण्यसन्देहे सत्यनाप्ताप्रणीतत्वादिना प्रमाजनकत्वव्याप्तेर्वेदप्रामाण्यनिश्चये जाते तेन स्वतस्सम्भावितदोषस्य प्रत्यक्षस्य बाधाद् अस्मन्मते क्वान्योन्याश्रयः ? अन्यथा देहात्मैक्यप्रत्यक्ष-बुद्ध्या बाधाद् देहभिन्नत्वमप्यात्मनो नागमानुमानाभ्यां सिद्ध्येत् ।
ननु प्रत्यक्षमनुमानाद्यपेक्षया जात्यैव प्रबलम् । कथमन्यथा औष्ण्यप्रत्यक्षेण वह्निशैत्यानुमिति-प्रतिबन्धः? न च तत्रोपजीव्यत्वनिबन्धनं प्रत्यक्षस्य बाधकत्वम् । धर्म्यादेश्चक्षुरादिनैव सिद्धेस्त्वचोऽ-नुपजीव्यत्वात् । किञ्च प्रत्यक्षस्य प्राबल्यमनुमानाद्यगृहीतरेखोपरेखादिग्राहकत्वादनुमानाद्यनिवर्तित- दिङ्मोहादिनिवर्तकत्वाच्च इति चेन्न । त्वाचप्रत्यक्षस्याप्युपजीव्यत्वेनैव शैत्यानुमितिप्रतिबन्धकत्व-सम्भवात् । चक्षुरादिना धर्म्यादिग्रहेऽपि त्वचं विना साध्यप्रसिद्धेरभावात् । तथा च न जात्या प्राबल्ये मानमस्ति ।
तदगृहीतग्राहित्वमपि न प्राबल्ये प्रयोजकम् । प्रत्यक्षागृहीतधर्मादिग्राहकत्वेन परोक्षप्रमाणस्यैव प्राबल्यापत्तेः । नाप्यनुमानाद्यनिवर्तितदिङ्मोहादिनिवर्तकत्वेन प्राबल्यम् । एतावता हि वैधर्म्यमात्रं सिद्धम् । न च तावतेतरप्रमाणापेक्षया प्राबल्यं भवति । अन्यथा त्वाचप्रत्यक्षानिवर्तितवंशोरगभ्रम-निवर्तकत्वाच्चक्षुषोऽपि त्वगपेक्षया प्राबल्यं स्यात् । ततश्च चित्रनिम्नोन्नतज्ञानस्य चाक्षुषस्य तद्विरोधित्वाचज्ञानाद् बाधो न स्यात् । प्रत्युतागमस्यैव सर्वतः प्राबल्यं स्मार्यते– ‘प्राबल्यमागमस्यैव जात्या तेषु त्रिषु स्मृतम्’ इति । न च तद्वैदिकार्थविषयमिति वाच्यम् । अद्वैतस्यापि वैदिकार्थत्वात् । ‘क्व च प्रत्यक्षतः प्राप्तमनुमागमबाधितम् इति तु परीक्षितप्रामाण्यप्रत्यक्षविषयम् ।
न्यायामृततरङ्गिणी
सन् घट इति प्रत्यक्षस्य घटादौ सत्त्वाग्राहकत्वेन न तद्विरोधो दृश्यत्वादेरिति शङ्कते ॥ नन्विति ॥ इदं रूप्यमित्यत्र रूप्ये इदंताविरहेणाधिष्ठानभूतशुक्तिकायामिदंत्वेन गृह्यमाणायां तदभिन्नरजतमपीदमिति निर्दिश्यते यथा तथा सद्रूपे ब्रह्मणि घटादेरध्यस्तत्वेन सद्रूपब्रह्माभिन्नत्वा-दधिष्ठानब्रह्माभिन्नत्वेन भाने तद्गतमेव सत्त्वं घटादौ व्यवह्नियते । तथा च न घटादौ सत्त्वं प्रत्यक्षविषय इत्यर्थः ॥ उक्तत्वादिति ॥ परिच्छिन्नत्वहेतुभङ्ग इति शेषः । न च रूपादि-हीनस्यापि कालादिन्यायेन स्फुरणमस्त्विति वाच्यम् । इदानीं रूपमिति कालोल्लेखवद् ब्रह्मणोऽभावेन ब्रह्मणस्तद्विषयत्वाभावात् ॥ न हीति ॥ एवं च यथा सत्यं ब्रह्मेत्यत्र ब्रह्मण्येव सत्त्वं प्रतीयते न त्वधिष्ठानादिगतं तथा सन् घट इत्यत्रापि घटगतमेव सत्त्वं प्रतीयत इत्यभ्युपेयमिति भावः ।
ननु सद्ब्रह्मणोः सामानाधिकरण्यस्याबाधितत्वात्तत्र तथाऽस्तु । न तु घटे । सन्नित्यस्य घट इत्यनेन सामानाधिकरण्यस्य बाधितत्वात् । तथा हि । सत्ताजातिस्फुरणनिबंधनं वा, स्वरूप-सत्तानिबंधनं वा, कालत्रयाबाध्यत्वनिबंधनं वा सामानाधिकरण्यं स्यात् । न चाभावादि-साधारणसत्प्रतीतौ जातिस्फुरणं सम्भवति । अभावादिषु त्वयापि तदनङ्गीकारात् । न च क्वचित्साक्षात्सम्बन्धेन क्वचित्परम्परासम्बन्धेन सदिति प्रतीत्युपपत्तिः । विजातीयसम्बन्धेन समानाकारप्रतीत्यनुपपत्तेः । अन्यथा सम्बन्धभेद एव न सिद्ध्येत् । न च स्वरूपसत्त्वेनाभावादौ तत्प्रतीतिः । अननुगमात् । अननुगतेनाप्यनुगतप्रतीतौ जातिमात्रोच्छेदप्रसङ्गात् । अत एव न सर्वत्रापि स्वरूपसत्वेनैव सद्व्यवहारः । एकेनैव सर्वानुगतेन सर्वत्र सत्प्रतीत्युपपत्तौ बहूनां तद्धेतुत्वकल्पने मानाभावात् । नापि कालत्रयाबाध्यत्वनिबन्धनं तत् । तस्य चक्षुराद्यगम्य-त्वस्योक्तत्वात् । सदिदं रजतमित्यादिभ्रमेऽभावाच्च । तस्मादेकं सर्वाधिष्ठानमेव सदिति सर्वत्रानु-भूयत इति युक्तम् । नीलादेस्तु घटादिसामानाधिकरण्ये नास्ति किमपि बाधकम् । न च नीलादेरधिष्ठानत्वं सम्भवति । प्रागसत्त्वात् । नीलपीतादिप्रातिभासिकानंताधिष्ठानकल्पने गौरवात् । अधिष्ठेयसमानयोगक्षेमत्वात् । अधिष्ठेयविषमसत्ताकं ह्यधिष्ठानं भवति । मिथ्यारूप्य-मसन्नृशृङ्गमित्यादौ मिथ्यात्वासत्त्वयोरधिष्ठानत्वशङ्कापि नास्ति । शून्यवादापत्तेः । यत्तु सत्यं ज्ञानमित्यत्रापि तथा स्यादिति तन्न । यतो न तत्र सत्तासम्बन्धेन सत्त्वं, किंतु स्वरूपेणैवेत्युक्त-दोषानवकाशात् । न चैवं घटादावपि स्वरूपेणैव तथात्वम् । पूर्वमेव निराकृतत्वादिति ॥
अत्रोच्यते । सन् घट इति व्यवहारस्य सत्ताजातिस्फुरणनिबंधनत्वे बाधकाभावात् । न चाभावादिषु सत्ताविरहात्तद्व्यवहारानुपपत्तिः । तत्रापि समवायेतरसम्बन्धेन सत्तासत्त्वात् । न च विजातीयसम्बन्धेन समानाकारप्रतीत्यनुपपत्तिः । लोहितः स्फटिक इति प्रतीतेरेकाकारायाः साक्षात्परम्परासम्बन्धविषयत्वेऽप्रमात्वस्य प्रमात्वस्य च सर्वैरुपपादितत्वात् । नीलो घटो नीलो गुण इति प्रतीत्योरेकाकारत्वेऽपि सम्बन्धभेदाच्च । न च सम्बन्धभेदासिद्धिः । असाधारण्येन तत्तत्सम्बन्धगोचरबुद्धेरेव तत्सिद्धेः । स्वरूपसत्त्वनिबन्धनाद्वा सद्व्यवहारः । न चाननुगमः । तव मते प्रमेयत्वस्याननुगमेऽप्यनुगतव्यवहारवदुपपत्तेः । तव मतेऽपि सत्यं ब्रह्मेति व्यवहारः स्वरूपसत्तया सन् घट इति व्यवहारस्त्वधिष्ठानसत्तानुवेधेनेत्यननुगमस्य तदवस्थत्वाच्च । वस्तुतस्तु उक्तरूपसत्त्वेनैव सर्वत्र सदिति व्यवहारः । तस्य च यथा प्रत्यक्षत्वं तथोक्तम् । न च नीलादेरधिष्ठेयाधिसत्ताविरहान्नाधिष्ठानत्वमिति वाच्यम् । घटादेरधिष्ठानत्वेनाभिमतस्य ब्रह्मणो घटाद्यधिकसत्ताया असम्प्रतिपत्तेः । ब्रह्मणि तत्सत्यमित्यादिश्रुतेरिव सन् घट इति प्रत्यक्षस्यापि घटादौ ब्रह्मसमानसत्त्वग्राहकस्य सत्त्वात् । न च मिथ्या रूप्यमसन्नृशृङ्गमित्यादौ मिथ्यात्वा-सत्त्वयोरधिष्ठानताशङ्काऽपि नास्ति । शून्यवादापत्तेरिति वाच्यम् । वियदादेः सर्वस्य मिथ्यात्वे किं न शून्यवादः ? अधिष्ठानमात्रसत्यत्वस्य च शून्यवादेऽपि सत्त्वात् । तस्मात्सन् घट इत्यादौ यदि ब्रह्मसत्तानुवेधस् तर्हि नीलो घट इत्याद्यप्यधिष्ठानानुवेधः स्यादिति साधूक्तम् ।
प्रत्यक्षस्य जात्या प्राबल्यमनुमानादिभ्यः समर्थयते ॥ प्रत्यक्षस्येति ॥ ननु तत्रोप-जीव्यत्वनिबन्धनं प्रत्यक्षस्य बाधकत्वमत आह ॥ दृष्टं हीति ॥ धर्म्यादेश्चक्षुरादिनैव सिद्धेस्त्व-चोऽनुपजीव्यत्वादित्यर्थः । ननु त्वाचप्रत्यक्षस्याप्युपजीव्यत्वेनैव शैत्यानुमितिप्रतिबन्धकत्वम् । चक्षुरादिना धर्म्यादिग्रहेऽपि त्वचं विना साध्यप्रसिद्धेरभावात् । तथा च न जात्या प्राबल्ये मानमस्ति । तदगृहीतग्राहित्वमपि न प्राबल्यप्रयोजकम् । प्रत्यक्षागृहीतधर्मादिग्राहकत्वेन परोक्ष-प्रमाणस्यैव प्राबल्यापत्तेः । नाप्यनुमानाद्यनिवर्तितदिङ्मोहादिनिवर्तकत्वेन प्राबल्यम् । एतावता हि वैधर्म्यमात्रं सिद्धम् । न च तावतेतरप्रमाणापेक्षया प्राबल्यं भवतीति । मैवम् । शैत्या-द्यनुमित्याद्यनिवर्तितपीतभ्रमनिवर्तकजातिविशेषावच्छिन्नज्ञानजनकत्वेन प्रत्यक्षस्य प्राबल्यम् । न च चक्षुरनिवर्तितवंशोरगभ्रमनिवर्तकत्वात्त्वचोऽपि चक्षुरपेक्षया प्राबल्यं स्यादिति वाच्यम् । मंडूकवसांजनदोषेण हि दुष्टचक्षुषो वंशोरगभ्रमानिवर्तकत्वं दूरादिदोषवशात् । निर्दुष्टस्य चक्षुषः पुरैव च त्वचो वंशोरगादिभ्रमनिवर्तकत्वम् । न च प्रत्यक्षगृहीतधर्मादिग्राहकत्वेन परोक्षप्रमाण-स्यैव प्राबल्यापत्तिः । स्वविषये विशेषग्राहकत्वस्य प्रत्यक्षे प्राबल्यबीजत्वात् । धर्मादेस्तु तदविषयत्वात् । परोक्षप्रमाणे स्वविषये तदग्राहकत्वात् ।
प्रत्यक्षस्य जात्या प्राबल्ये आगमस्य तत्प्रतिपादकेन ब्रह्मतर्कवचनेन विरोधं परिहरति ॥ प्राबल्यमागमस्यैवेति ॥ न चाद्वैतस्यापि वैदिकार्थत्वमिति वाच्यम् । औते प्रमाणाभावस्य वक्ष्यमाणत्वादिति ॥ क्व चेति ॥ न चैतत्परीक्षितप्रामाण्यप्रत्यक्षविषयमिति वाच्यम् । सन् घट इति प्रत्यक्षस्यापि फलपर्यन्तं परीक्षितत्वात् । त्वयाऽपि परोक्षज्ञानेनानिवृत्तस्य भेदभ्रमस्यापरोक्ष-ज्ञानेन निवृत्तेः स्वीकाराच्च । अनुभूयते चानुमानादिभ्योऽपि विश्वासहेतुः प्राबल्यं प्रत्यक्षे । दीक्षणीयेष्टेरर्थवादेऽपि प्रत्यक्षस्य शब्दापेक्षया प्राबल्यं ज्ञायते । तथा ह्यैतरेयब्राह्मणे । ‘‘तस्मा-द्दीक्षितेन सत्यमेव वदितव्यम् अथो खल्वाहुः कोऽर्हति मनुष्याः सर्वं सत्यं वदितुं सत्यसंहिता वै देवा अनृतसंहिता मनुष्या इति विचक्षणवतीं वाचं वदेच् चक्षुर्वै विचक्षणं विधानेन पश्यतीति । एतद्वै मनुष्येषु सत्यं निहितं यच्चक्षुस्तस्मादाचक्षाणमाहुरद्रागिति स यद्यदर्शमित्याह– अथ हास्य श्रद्दधति यस्तु वै स्वयं पश्यति न बहूनां नान्येषां श्रद्दधाति तस्माद्विचक्षणवतीमेव वाचं वदेत् सत्योत्तरा हैवास्य वागुदिता भवति’’ इति । अत्र दीक्षितस्य सत्यवचनं विधाय, सत्यवाक्त्वं देवधर्मो मनुष्याणामशक्य इत्यथो खल्वाहुरित्यनेन पूर्वपक्षयित्वा चक्षुःसंवादिवदनमेव सत्य-वचनमिति सिद्धान्तितं विचक्षणवतीं वाचं वदेदित्यनेन । तत्र विचक्षणवतीमित्यनेन कथं चक्षुःसंवादित्वमित्यपेक्षायां विचक्षणशब्दस्य चक्षुःपरत्वं योगेनेत्युक्तं विधानेन पश्यतीति । एतच्चक्षुः सर्वप्रमाणापेक्षया सत्यं बलवत् । अत एव वक्तारं पृच्छति । अद्राक् दृष्टवानिति । स वाक्योच्चारयिता यद्यदर्शं पश्यामीत्याह तर्हि श्रद्दधति तद्वचनं, नान्यस्य । तस्माच्छ्रुतिसिद्धं प्रत्यक्षस्य प्राबल्यम् ॥
न्यायामृतकण्टकोद्धारः
॥ चाक्षुषादिज्ञान इति ॥ न च रूपादिहीनस्यापि ब्रह्मणः कालादिवच्चाक्षुषादिज्ञाने प्रतिभासोऽस्त्विति वाच्यम् । कालादेर्नियमतः साक्ष्युपनीतत्वेन तज्ज्ञानसम्भवेऽपि सद्रूपब्रह्मणस्तथात्वाभावेन नियमतश्चाक्षुषादिज्ञानविषयत्वानुपपत्तेरित्याद्युक्तत्वात् ।
॥ नीलो घट इति ॥ ननु सन्नित्यस्य घटसामानाधिकरण्यानुपपत्त्या अधिष्ठान-ब्रह्मानुवेधोऽङ्गीक्रियते । तथा हि । तद्धि किं सत्ताजातिनिबन्धनं वा स्वरूपसत्त्वनिबन्धनं वा कालत्रयाबाध्यत्वनिबन्धनं वा सामानाधिकरण्यं स्यात् । न तावदाद्यः । अभावादि-साधारणसत्प्रतीतौ जातिनिबन्धनत्वायोगात् । अभावादौ सत्ताजात्यनङ्गीकारात् । न द्वितीयः । स्वरूपसत्त्वस्याननुगतत्वात् । अनुगतप्रतीतेस्तन्निबन्धनत्वायोगात् । अननुगतेनाप्यनुगतप्रतीतौ जात्युच्छेदापत्तेः । एकेनैव सर्वानुगतेन सत्प्रतीत्युपपत्तौ बहूनां तद्धेतुत्वकल्पने मानाभावाच्च । नापि तृतीयः । तस्य चक्षुराद्यगोचरत्वात् । सदिदं रजतमिति भ्रमे तदभावाच्च । तस्मादेकं सर्वाधिष्ठानमेव सदिति सर्वत्रानुभूयत इति युक्तमुत्पश्यामः । नीलादेस्तु घटादिसामानाधिकरण्ये नास्ति बाधकम् । किञ्च नीलादेरधिष्ठानत्वमसम्भवि । प्रागसत्त्वात् । नीलपीताद्यनेकाधिष्ठान-कल्पने गौरवाच्च । अधिष्ठेयतुल्ययोगक्षेमत्वाच्च । अधिष्ठेयविषमसत्ताकमेव ह्यधिष्ठानं भवति । मिथ्या रूप्यमसन्नृशृङ्गमित्यादौ मिथ्यात्वासत्त्वयोरधिष्ठानत्वशङ्कैव न सम्भवति । शून्यवादा-पत्तेरिति चेन्मैवम् । स्वरूपसत्त्वनिबन्धनमेवास्तु सामानाधिकरण्यम् । सद्ब्रह्मेत्यादौ दृष्टत्वात् । न चाननुगतसत्त्वानामनुगतव्यवहारप्रयोजकत्वं कथमिति वाच्यम् । सत्तात्रैविध्यं वदता त्वया सद्ब्रह्य, सन् घटः, सद्रूप्यमिति अनुगतव्यवहारस्याननुगतैरेव सत्त्वैः समाधेयत्वात् । न चैवं जात्युच्छेद इति वाच्यम् । इष्टापत्तेः ।
अथवा त्रिकालाबाध्यत्वनिबन्धनमस्तु सामानाधिकरण्यम् । न च तस्य चक्षुराद्यगोचरत्व-मुक्तमिति वाच्यम् । तद्योग्यत्वस्याधस्तादेवोपपादितत्वात् । न च सदिदं रजतमिति भ्रमे तदभाव इति वाच्यम् । न हि सत्सामानाधिकरण्यमात्रे त्रिकालाबाध्यत्वं प्रयोजकमिति विदाङ्कुर्मः । किन्तु प्रमिते सामानाधिकरण्ये । एवं च सदिदं रजतमिति सामानाधिकरण्यं भ्रान्तमिति नात्र तत्प्रयोजकमित्यवैहि । तथा च सन्नित्यस्य घट इत्यनेन सामानाधिकरण्ये बाधकाभावेऽपि यद्यधिष्ठानानुवेधः कल्प्यते तर्हि नीलो घट अनित्यो घट इत्यादावपि अधिष्ठानानुवेधः कल्पनीयः । न च नीलादेरधिष्ठानत्वं न सम्भवति, प्रागसत्त्वादिति वाच्यम् । घटादौ नैल्यारोपान् नीलरूपवतोऽप्यधिष्ठानत्वकल्पनसम्भवेन तदनुरोधेन प्रागवस्थानसम्भवात् । आत्मारोपेणात्मनोऽधिष्ठानत्वानापाताच्च । स्वीकृतश्चायम् । अन्यथाऽपसिद्धान्तात् । यच्च नीलपीताद्यनेकधिष्ठानकल्पने गौरवमिति तदपि न । कल्प्यानेकत्वगौरववदधिष्ठानानेकत्व-कल्पनागौरवस्यापि समाधेयत्वात् । कल्पनामात्रशरणस्य नीलपीतादिरूपमधिकरणमेकमित्यपि कल्पनसम्भवे गौरवाभावात् । यच्चाधिष्ठेयविषमसत्ताकत्वाभावान्नाधिष्ठानत्वं नीलादेरिति तन्न । लाघवेनाधिष्ठेयविलक्षणत्वस्यैव प्रयोजकत्वेन विषमसत्ताकत्वस्य तत्त्वे गौरवात् । यदपि मिथ्यात्वासत्त्वयोरधिष्ठानत्वशङ्कैव नोदेति शून्यवादापत्तेरिति तदपि तुच्छम् । त्वयाऽपि आत्मानात्मनोरन्योन्यतादात्म्यारोपमन्योन्यधर्मारोपं च वदता मिथ्याभूतस्याधिष्ठानत्वाभ्युप-गमात् । नृशृङ्गमस्तीति शब्दाभासजन्यज्ञाने सत्त्वारोपं प्रति नृशृङ्गस्याधिष्ठानत्वाच्च । सर्वशून्य-त्वाङ्गीकार एव शून्यवादापत्तिः । तस्मान्नीलो घट इत्यादौ नील इत्याद्यधिष्ठानानुवेध इत्यापादनं साधु ॥ अन्यथेति ॥ मिथ्यात्वसिद्धिदशायामेवं कल्पन इत्यर्थः । यदि सत्यं ज्ञानमित्यत्र ब्रह्मणि सत्तासंबन्धेन न सत्त्वं किन्तु स्वरूपेणैवेति तर्हि घटादावपि तथेत्युक्तमिति समम् ॥ कथमिति ॥ न कथमपीत्यर्थः । तस्याप्रमाणत्वात् प्रमाणत्वेऽपि त्रिकालाबाध्यत्वग्रहाक्षमत्वात् प्रत्यक्षं न बाधकमिति भावः । तथैव विकल्पयति ॥ किं प्रत्यक्षमिति ॥ अक्षस्य त्विति ॥
ननु चन्द्रतारकादिपरिमाणप्रत्यक्षेऽनुमानागमविरोधेन तस्याप्रामाण्यदर्शनात् तेनापि स्वप्रामाण्यसिद्ध्यर्थमितराविरोधस्यावश्यमपेक्षणीयत्वात् कथमन्योन्याश्रयपरिहारः । किञ्च प्रत्यक्षागमयोः परस्परविरोधेनाप्रामाण्यसन्देहे अनाप्ताप्रणीतत्वादिना भ्रमाजनकत्वव्याप्तेर्वेद- प्रामाण्यनिश्चये जाते तेन सम्भावितदोषस्य प्रत्यक्षस्य बाध इति क्वान्योन्याश्रयः । अन्यथाऽऽ-त्मनो देहभिन्नत्वमपि न सिद्ध्येत् । देहात्मैक्यप्रत्यक्षबुद्ध्याऽनुमानागमयोर्बाधादिति चेन्मैवम् । प्रत्यक्षं न स्वप्रामाण्यसिद्ध्यर्थमनुमानागमविरोधपरिहारमपेक्षते । चन्द्रतारकादिपरिमाणप्रत्यक्षमपि नानुमानागमविरोधेनाप्रमाणम् । तत्र हि यद्दूरस्थत्वादिदोषयुक्तं तत् परिमाणादावयथार्थमिति पूर्वमेव विपरीतनिश्चयसत्त्वेन पश्चाज्जायमानं प्रत्यक्षं पूर्वतनप्रबलप्रत्यक्षविरोधादप्रमाणं बाधित-मेवोत्पद्यते, न पुनरनुमानागमविरोधेनाप्रामाण्यम् । न चैवमेव जगत्प्रत्यक्षमस्त्विति वाच्यम् । प्रकृते विपरीते निश्चायकाभावात् । मिथ्यात्वानुमानागमयोश्चाद्याप्यप्रामाण्यसन्देहान्तारनिविष्ट-त्वात् । मिथ्यात्वे प्रबलप्रत्यक्षस्याभावाच्च । तथाच प्रत्यक्षं स्वप्रामाण्यसिद्ध्यर्थं प्रत्यक्षेतर-विरोधपरिहारं नापेक्षते । तद्विरोधेनाप्रामाण्यादर्शनादिति युक्तमुक्तम् ।
यच्चोक्तमनाप्ताप्रणीतत्वादिना वेदे प्रामाण्यनिश्चय इति तन्न । क्रियाकारकफलभेदादि-प्रतिपादकागमे व्यभिचारात् । न च तस्यापि प्रामाण्यं तत्त्वावेदनलक्षणमङ्गीक्रियते । व्यावहारिकपराः कर्मादिप्रतिपादका इति स्वोक्तिविरोधात् । अपि च वेदेऽपि तात्पर्यभ्रमरूपो दोषोऽस्ति । तथा च कथं प्रत्यक्षरूपे विरोधिनि जाग्रति तदभिप्रेतेऽर्थे प्रामाण्यनिश्चयः । तथा चागमेन प्रत्यक्षस्य बाध इति शिष्यव्यामोहनमात्रम् । यच्चोक्तं प्रत्यक्षेणानुमानागमबाधे देहाद्भिन्नत्वमात्मनो न सिद्ध्येत् । देहात्मैक्यप्रत्यक्षबुद्ध्या बाधादिति, तन्न । आविपाल-गोपालदेहात्मभेदस्यैव प्रत्यक्षसिद्धत्वेन देहात्मैक्यभ्रमाभावात् । अन्यथेष्टसाधनताज्ञानानु-मित्यभावेन बालस्य स्तनपानादौ प्रवृत्त्यभावेन जीवनमेव न सिद्ध्येत् । न च देहात्मभेदज्ञाने संसारानुपपत्तिरिति वाच्यम् । स्वातन्त्र्यज्ञानेनैव तदुपपत्तेरिति दिक् ।
॥ प्रत्यक्षस्यानुमित्यादित इति ॥ प्राबल्यं च जात्यैवेत्यन्वयः । प्रत्यक्षस्यानुमानादितः प्राबल्ये हेतुस् तदगृहीतेति । अनुमानाद्यगृहीतरेखोपरेखादिविशेषग्राहित्वादित्यर्थः । ननु तदगृहीतग्राहकत्वं न प्राबल्ये प्रयोजकम् । अन्यथा प्रत्यक्षागृहीतधर्मादिग्राहकत्वेनानुमानस्यैव प्राबल्यापत्तेरिति चेन्न । समानविषययोः प्रत्यक्षानुमानयोरनुमानागृहीतरेखोपरेखादिग्राहकत्वेन प्रत्यक्षस्य प्राबल्यमनुमानादुच्यते । दृष्टं च तथा कन्यासौन्दर्यासौन्दर्यविषययोः प्रत्यक्षानुमान-योरनुमानापेक्षया विशेषग्राहकत्वेन प्रत्यक्षस्य प्राबल्यम् ॥ अनुमानाद्यनिवर्तितेति ॥ नन्वनुमानाद्यनिवर्तितदिङ्मोहादिनिवर्तकत्वमपि प्राबल्ये न तन्त्रम् । एतावता हि वैधर्म्यमात्र-मुक्तम् । न च तावतेतरमानापेक्षया प्राबल्यं भवति । अन्यथा त्वाचप्रत्यक्षानिवर्तितवंशोरगभ्रम-निवर्तकत्वाच् चक्षुषोऽपि त्वगपेक्षया प्राबल्यं स्यात् । तथा सति चित्रनिम्नोन्नतादिज्ञानस्य चाक्षुषस्य तद्विरोधित्वाचज्ञानाद्बाधो न स्यादिति चेन्मैवम् । अनुमानाद्यनिवर्तितदिङ्मोहादि-निवर्तकत्वं प्राबल्ये तन्त्रम् । लोके सम्यक् प्रतिपादकयोः पुरुषयोर्यद्वाक्यादज्ञाननिवृत्तिर्भवति तद्वाक्यस्य प्राबल्यव्यवहारात् । अन्यथा तु तन्न स्यात् । यच्चोक्तमन्यथेत्यादि तत्रोभयोः समबलत्वेऽपि सोपाधिकभ्रमे उपाधिनिवृत्तिसहितस्यैव भ्रमनिवर्तकत्वम् । वंशोरगभ्रमस्थले च त्वाचप्रत्यक्षस्य तत्समवहितत्वाभावादनिर्वतकत्वम् । एतावता त्वचो दुर्बलत्वापादकं न भवति । तेनान्यत्र त्वचोऽपि चाक्षुषभ्रमनिवर्तकत्वं सम्भवति । प्रकृते च प्रत्यक्षस्योपाधिनिवृत्तिरूप-सहकार्यनपेक्षत्वाद् युक्तं प्राबल्यम् । तथा च प्रत्यक्षमनुमानादितः प्रबलं, तदनिवर्तितनिवर्तक-त्वादिति हेतौ उपाधिनिवृत्त्यसहकृतत्वेन विशेषणान्न त्वगनिवर्तितभ्रमनिवर्तके चक्षुषि व्यभिचार इति दिक् ।
॥ दृष्टं हीति ॥ ननु तत्र त्वाचप्रत्यक्षस्योपजीव्यत्वेनैव प्राबल्यम् । धर्म्यादेश्चक्षुरादिना सिद्धावपि साध्यप्रतियोगिन औष्ण्यस्य त्वचं विनाऽसिद्धेरिति चेन्न । शब्दादिना तत्सिद्ध्यु-पपत्तेः । अनुमाने हि साध्यज्ञानं कारणम् । तस्य चाभावरूपस्य ज्ञानं प्रतियोगिज्ञानाधीनम् । प्रतियोगिज्ञानं च शब्दादिनाऽपि धर्मादिज्ञानाद्भविष्यति । अनौष्ण्यस्य भावरूपताया वक्ष्य-माणत्वाच्च । शैत्यानुमाने तथाप्यगतेश्च । तथा चोदाहृतस्थले जात्यैव प्रत्यक्षस्य प्राबल्यमिति ।
॥ प्राबल्यमागमस्येति ॥ नन्वेवमद्वैतस्यापि वेदार्थत्वादीदृशे आगमस्यैव प्राबल्यमिति चेन्न । अत्र हि स एव वैदिकार्थो विवक्षितः यद्भावाभावविषये प्रत्यक्षं न प्रवर्तते । प्रकृते चाद्वैताभावो द्वैतं मिथ्यात्वाभावः सत्त्वं च प्रत्यक्षसिद्धमिति नाद्वैतस्य वेदार्थत्वम् । स्वोक्तेऽर्थे उपोद्बलकमाह ॥ अत एवोक्तमिति ॥
न्यायामृतप्रकाशः
सन्घट इत्यादिप्रत्यक्षस्य घटादै सत्त्वाग्राहकत्वेन न तद्विरोधोऽनुमानस्येत्याशङ्कते ॥ नन्विति ॥ यथा इदं रूप्यमित्यत्र रूप्ये इदन्ताविरहाद् अधिष्ठानभूतशुक्तिकायाम् इदन्त्वेन गृह्यमाणायां तत्रारोपितं रजतमपीदमिति भ्रमे निर्दिश्यते तथा सद्रूपे ब्रह्मणि घटादेरध्यस्तत्वेन तद्गतमेव सत्त्वं घटादौ व्यवह्रियते । तथा च न घटादौ सत्त्वं प्रत्यक्षविषय इत्यर्थः ॥ उक्तत्वादिति ॥ परिच्छिन्नत्वहेतुभङ्ग इति शेषः ॥ अन्योन्याश्रयादिति ॥ घटादेरारोपितत्वसिद्धौ सत्त्वाभावसिद्धिस् तत्सिद्धौ चाधिष्ठानगतमेव सत्त्वं प्रतीयते न वस्तुत इत्येतत्प्रमेयसिद्ध्या आरोपितत्वसिद्धि-रित्यन्योन्याश्रयादित्यर्थः । प्रतिबन्दीं गृह्णाति ॥ अन्यथेति ॥ सदित्यधिष्ठानगतमेव सत्त्वं प्रतीयत इत्यङ्गीकार इत्यर्थः । ननु सत्यंज्ञानमित्यत्र सदित्यधिष्ठानानुवेधो न भवति । ब्रह्मणः सद्रूपत्वाद् घटादौ त्वधिष्ठानानुवेध एव तस्य मिथ्यात्वादित्यत आह ॥ न हीति ॥ तथा च ब्रह्मैव सद्रूपमन्यन्मिथ्येति विभागासिद्धौ सत्यं ज्ञानमित्यत्र सत्यमिति नाधिष्ठानानुवेधः । सन्घट इत्यत्रतु तदनुवेध इति प्रमेयद्वयसिद्धिस्तत्सिद्धौ चोक्तविभागसिद्धिरित्यन्योन्याश्रय इत्यर्थः । एवं च यथा सत्यं ब्रह्मेत्यत्र ब्रह्मगतमेव सत्त्वं प्रतीयते न त्वधिष्ठानगतं, एवं सन्घट इत्यत्रापि घटगतमेव सत्त्वं प्रतीयत इत्यङ्गीकार्यमिति भावः ।
प्रतिपन्नोपाधौ त्रैकालिकनिषेधप्रतियोगित्वरूपमिथ्यात्वसाधकानुमानस्य प्रत्यक्षविरोधे नास्तीत्या-शङ्कते ॥ नन्विति ॥ आत्यन्तिकाबाध्यत्वं कालत्रयेऽपि सत्त्वम् । तथा च ग्राह्याभावानवगाहित्वान्न विरोध इति भावः । ननु वर्तमानकालीनबाधाभावग्राहकत्वमात्रेणैव विरोधोऽस्त्वित्यत आह ॥ तात्कालिकेति ॥ तात्कालिकबाधाभावश्च न वस्तुसत्त्वसाधकः । तथात्वे रूप्यादेरपि तदापातादिति भावः । आद्यपक्षस्य त्रेधा विकल्पितत्वान्नाद्यावित्युक्तम् । तयोर् अनुमानागमयोः ॥ मानेति ॥ प्रत्यक्षरूपप्रमाणाविरोधेनेत्यर्थः । ननु भवत्पक्षेऽप्यन्योन्याश्रयः । प्रत्यक्षस्य प्रामाण्ये तद्विरोधादनु-मानादेरप्रामाण्यं तयोरप्रामाण्ये तद्विरोधाभावात्प्रत्यक्षस्य प्रामाण्यमितीति चेन्न । प्रत्यक्षप्रामाण्य-सिद्धेरनुमानादिविरोधाभावानपेक्षत्वान्नान्योन्याश्रय इत्याह ॥ अक्षस्य त्विति ॥ प्रबलस्य दुर्बल-विरोधाभावापेक्षा नास्तीत्यत्र दृष्टान्तमाह ॥ न हीति ॥ ‘‘पोतस्तोकोऽर्भको डिम्भः पृथुकः शावकः शिशु’’रित्यभिधानम् ।
स्यादयमन्योन्याश्रयपरिहारः यदि प्रत्यक्षस्यानुमानादितः प्राबल्यं स्यात्तदेव कुत इत्यतस् तस्यानुमानादितो जात्या प्राबल्यं समर्थयते ॥ प्रत्यक्षस्येति ॥ प्रत्यक्षस्यानुमानादितः प्राबल्यं च तदसाध्यकार्यकारित्वेन । तच्च कार्यं द्विविधम् । तदगृहीतार्थविषयकत्वं तदनिवर्त्यनिवर्तकत्वं चेत्यभिप्रेत्योक्तम् ॥ तदगृहीतेत्यादि ॥ अनुमित्याद्यगृहीतवस्तुगतरेखोपरेखादिग्राहकत्वादित्यर्थः । दिङ्मोहादीति ॥ प्रतीच्यां प्राचीत्वारोपेनेयं प्राचीत्याद्याप्तवाक्यजन्यज्ञाने नेयं प्राची सूर्योदयशून्यत्वा-दित्याद्यानुमानिकज्ञाने च सत्यपि यावत्प्रत्यक्षेण सूर्योदयादिकं न पश्यति तावत्स भ्रमो न निवर्तत इत्यर्थः । ननु धर्मिप्रतियोग्यादिग्राहकत्वेनोपजीव्यतयैव प्राबल्यं लोके दृष्टं, तदतिरिक्तं जात्या प्राबल्यं नाम कीदृशमित्यतस्तद्दर्शयति ॥ दृष्टं हीति ॥ वह्निः शीत इत्यनुमाने स्पार्शनप्रत्यक्षस्य प्राबल्येन बाधकत्वं तावदस्ति । तत्र प्राबल्यं कथमिति प्रष्टव्यम् । धर्मिग्राहकत्वेनोपजीव्यत्वादिति चेन्न । चक्षुरादिना धर्मिभूतवह्नेः सिद्धत्वात् । नाप्यनौष्ण्यप्रतियोग्यौष्ण्यग्राहकत्वेनोपजीव्यत्वं सम्भवति । स्यादेतदेवं यद्यनौष्ण्यं साध्यं स्यात् । न चैवं, भावरूपस्य शैत्यस्य साध्यत्वात् । तदिदमुक्तं वह्निशैत्येति । तथा च एतादृशस्थले धर्मिप्रतियोगिग्राहकत्वादिना प्रत्यक्षस्योप-जीव्यत्वाद्यभावेऽपि केवलं जात्यैव प्राबल्यं दृष्टमित्यर्थः । नन्वेवं प्रत्यक्षस्यैवानुमानागमाभ्यां जात्या प्राबल्ये ‘‘प्राबल्यमागमस्यैव जात्या तेषु त्रिषु स्मृत’’मिति ब्रह्मतर्कवचनविरोध इत्यत आह ॥ प्राबल्यमिति । वैदिकपरब्रह्मादिरूपार्थनिर्णयविषये आगमस्यैव जात्या प्राबल्यम् । अत्र तु घटादि-प्रपञ्चरूपलौकिकार्थस्य प्रस्तुतत्वात्तद्विषये जात्या प्रत्यक्षस्य प्राबल्याभिधाने न तद्विरोध इत्यर्थः । अत एवेति ॥ एवं लौकिकार्थविषये प्रत्यक्षस्यैव जात्या प्राबल्यदर्शनादेवेत्यर्थः । उक्तं भगवत्पादैः ।
न्यायकल्पलता
सन्घट इति प्रत्यक्षस्य घटादौ सत्वाग्राहकतया न तद्विरोधो दृश्यत्वादेरिति शङ्कते । नन्विति । रूप्ये इदन्ताविरहेण इदं रूप्यमित्यत्राधिष्ठानभूतशुक्तिकायामिदंत्वेन गृह्यमाणायां तदभिन्नतया गृह्यमाणं रजतमपीदमिति यथा निर्दिश्यते तथा सद्रूपे ब्रह्मणि घटादेरप्यध्यस्तत्वेन सद्रूपब्रह्माभिन्नत्वादधिष्ठान-ब्रह्माभिन्नत्वेन भाने तद्गतमेव सत्वं घटादौ व्यवह्रियते । तथा च न घटादौ सत्वं प्रत्यक्षविषय इत्यर्थः । दृष्टान्तवैषम्येण दूषयति । न चाक्षुषादीति । उक्तत्वादिति ॥ परिच्छिन्नत्वहेतुभङ्ग इति शेषः । न च रूपादिहीनस्यापि कालादिन्यायेन स्फुरणमस्त्विति देश्यम् । साक्ष्युपनीतस्य कालादेश्चाक्षुषादि-ज्ञानेऽधिकरणतया भानवद्ब्रह्मभानकल्पने प्रमाणाभावात् । इदानीं रूपमिति कालोल्लेखवद् ब्रह्मोल्लेखा-भावेन ब्रह्मणस्तद्विषयत्वाभावात् । अतिप्रसङ्गेनापि सन्घट इत्यादि चाक्षुषादिज्ञाने ब्रह्मभानं निराकरोति । नीलो घट इति । वैषम्येणाशङ्कते । नैल्यादिकमिति । नेति । घटादेरनारोपितत्वेन सत्वाभावकल्पने प्रमाणाभावादित्यर्थः । अप्रामाणिकस्य तस्य कल्पनां दूषयति । अन्यथेति । न हीति । एवं च यथा सत्वं ब्रह्मेत्यत्र ब्रह्मण्येव सत्वं प्रतीयते न त्वधिष्ठानगतं तथा सन् घट इत्यत्रापि घटगतमेव सत्वं प्रतीयत इत्यभ्युपेयमिति भावः ।
ननु सद्ब्रह्मेति सद्ब्रह्मणोः सामानाधिकरण्यस्याबाधितत्वात्तत्र तथाऽस्तु न तु घटे । सन्नित्यस्य घट इत्यनेन सामानाधिकरण्यस्य बाधितत्वात् । तथा हि । सत्ताजातिस्फुरणनिबन्धनं वा स्वरूपसत्वनिबन्धनं वा कालत्रयाबाध्यत्वनिबन्धनं वा सामानाधिकरण्यं स्यात् । न चाभावादिसाधारणसत्प्रतीतौ जातिस्फुरणं सम्भवति । अभावादिषु त्वयाऽपि तदनङ्गीकारात् । न च क्वचित्साक्षात्सम्बन्धेन क्वचित्परंपरासम्बन्धेन सदिति प्रतीत्युपपत्तिः । विजातीयसम्बन्धेन समानाकारप्रतीत्यनुपपत्तेः । अन्यथा सम्बन्धभेद एव न सिध्येत् । न च स्वरूपसत्वेनाभावादौ तत्प्रतीतिः । अननुगमात् । अननुगतेनाप्यनुगतप्रतीतौ जाति-मात्रोच्छेदप्रसङ्गात् । अत एव न सर्वत्रापि स्वरूपसत्वेनैव सद्व्यवहारः । एकेनैव सर्वानुगतेन सर्वत्र सत्प्रतीत्युपपत्तौ बहूनां तद्धेतुत्वकल्पने मानाभावात् । नापि कालत्रयाबाध्यत्वनिबन्धनं तत् । तस्य चक्षुराद्यगम्यत्वस्योक्तत्वात् । सदिदं रजतमित्यादिभ्रमे अभावाच्च । तस्मादेकं सर्वाधिष्ठानमेव सदिति सर्वत्रानुभूयत इति युक्तम् । नीलादेस्तु घटादिसामानाधिकरण्ये किमपि नास्ति बाधकम् । न वा नीलादेरधिष्ठानत्वं सम्भवति । प्रागसत्वात् । नीलपीतादिप्रातिस्विकानन्ताधिष्ठानकल्पने गौरवात् । अधिष्ठेयतुल्ययोगक्षेमत्वाच्च । अधिष्ठेयविषमसत्ताकमेव ह्यधिष्ठानं भवति । मिथ्या रूप्यमसन्नृशृङ्ग-मित्यादौ मिथ्याऽसतोरधिष्ठानत्वशङ्काऽपि नास्ति । शून्यवादापत्तेः । यत्तु सत्यं ज्ञानमित्यत्रापि तथा स्यादिति । तन्न । यतो न तत्र सत्तासम्बन्धेन सत्वं किन्तु स्वरूपेणैवेत्युक्तदोषानवकाशात् । न चैवं घटादावपि स्वरूपेणैव तथात्वे पूर्वमेव निराकृतत्वादिति ।
मैवं सन्घट इति व्यवहारस्य सत्ताजातिस्फुरणनिबन्धनत्वे बाधकाभावात् । न चाभावादिषु सत्ताजातिविरहात्सद्व्यवहारानुपपत्तिः । तत्रापि समवायेतरसम्बन्धेन सत्ताजातेः सत्वे बाधकाभावात् । क्वचित् साक्षात्सम्बन्धेन क्वचित्परम्परासम्बन्धेन सदिति प्रतीत्युपपत्तेश्च । न च विजातीयसम्बन्धेन समानाकारप्रतीत्यनुपपत्तिः । लौहितः स्फटिक इति प्रतीतेरेकाकारायाः साक्षात्परम्परासम्बन्धान्यतर-विषयत्वे अप्रमात्वस्य प्रमात्वस्य च सर्वैरुपपादितत्वात् । नीलो घटो, नीलो गुणो, नीलं वस्त्रं, नीलं रूपमिति प्रतीतीनामेकाकारत्वेऽपि सम्बन्धभेदाच्च । न च भेदासिद्धिः । असाधारण्येन तत्तत्सम्बन्ध-गोचरबुद्धेरेव तत्सिद्धेः । सर्वत्र स्वरूपसत्वनिबन्धनाद्वा सद्व्यवहारः । न चाननुगमो दोषाजन्यप्रत्यक्षत्वा-वच्छिन्नं षोढा सन्निकर्षस्य हेतुत्ववदुपपत्तेः । तव मते दृश्यत्वस्यानेकविधत्वेऽपि एकविधमिथ्या-त्वानुमितिवत्प्रमेयत्वादेरननुगमेऽप्यनुगतव्यवहारवच्च तत्सम्भवाच्च । सत्यं ब्रह्मेति व्यवहारः स्वरूपसत्ता-निबन्धनः, सन्घट इति व्यवहारस्तु अधिष्ठानसत्तानुवेधनिबन्धन इति सद्व्यवहारं प्रत्येकप्रयोजकाला-भादननुगमस्य तव मतेऽपि तदवस्थत्वाच्च ।
वस्तुतस्तु । निरुक्तरूपसत्त्वेनैव सर्वत्र सदिति व्यवहारः । तस्य च यथा प्रत्यक्षत्वं तथोपपादितम् । न च नीलादेरधिष्ठेयघटाद्यधिकसत्ताविरहान्नाधिष्ठानत्वमिति देश्यम् । घटादेरधिष्ठान-त्वेनाभिमतस्य ब्रह्मणोऽपि घटाद्यधिकसत्ताया असम्प्रतिपत्तेः । ब्रह्मणि तत्सत्यमित्यादिश्रुतेरिव सन्घट इति प्रत्यक्षस्यापि घटादौ ब्रह्मसमानसत्त्वग्राहकस्य सत्त्वात् । न च मिथ्या रूप्यमसन्नृशृृङ्गमित्यादौ मिथ्यासतोऽरधिष्ठानत्वशङ्कापि नास्ति । शून्यवादापत्तेरिति वाच्यम् । वियदादेः सर्वस्य मिथ्यात्वे किं न शून्यवादापातः । अधिष्ठानमात्रसत्यत्वस्य च शून्यवादेऽपि सत्वात् । न च नीलादेः प्रागसत्वेन घटाद्यनधिष्ठानत्वम् । नीलादेः प्राक्सत्वस्यापि कल्प्यत्वात् । आपादने च प्रमाणविरोधस्यालङ्काराच्च । अन्यथेष्टापादनं स्यात् । किञ्च अधिष्ठेयात्प्रागधिष्ठानसत्वमध्यासहेतुधर्मिज्ञानजनकेन्द्रियसन्निकर्षार्थं वाच्यम् । न च सन्मात्रब्रह्मरूपार्थसन्निकर्षोऽस्ति । केवलस्येन्द्रियागोचरत्वात् । घटानुुविद्धस्येन्द्रिय-गोचरत्वे तु एकवित्तिवेद्यत्वान्नाधिष्ठेयाधिष्ठानभावः । न च ब्रह्मणि स्वतःसिद्धे जगदारोपयितुं युक्तम् । स्वतःसिद्धेर्निरस्तत्वान्निरशिष्यमाणत्वाच्च । तस्माद्यदि सन्घट इत्यत्राधिष्ठानब्रह्मानुवेधः स्यात्तर्हि नीलो घट इत्यादावपि नीलादिरूपाधिष्ठानानुवेध एव स्यादिति साधूक्तम् । अधिष्ठेयस्य घटादेरप्यनुगतत्वेन नीलाद्यननुगमस्यादोषत्वादिति ।
सदिदं रजतमिति शुक्तिरूप्यादिप्रत्यक्षसमानयोगक्षेमस्य सन्घट इति प्रत्यक्षस्यानुमित्सितमिथ्यात्व-बाधकत्वं नोपपद्यत इति शङ्कते । ननु तथापीति । सत्त्वग्राहित्वेऽपीत्यर्थः । स्वतः प्राप्तस्येति । स्वाश्रयग्राहकेण गृहीतत्वादित्यर्थः । ननु प्रत्यक्षस्य प्रामाण्ये निश्चिते तद्विरोधेनानुमानागमयोरप्रामाण्यं, सति च तस्मिन्मानान्तरविरोधेेन प्रत्यक्षस्य प्रामाण्यमित्यन्योन्याश्रयः सम एवेत्यत आह । प्रत्यक्षस्य तु प्रबलस्य प्रामाण्यमिति । अनुमानादिभ्यः प्रत्यक्षस्य जात्या तावत्प्राबल्यं समर्थयते । प्रत्यक्षस्यानु-मित्यादित इति । कथमन्यथौष्ण्यप्रत्यक्षेण वह्निशैत्यानुमितिप्रतिबन्ध इति भावः । ननु तत्रोपजीव्यत्व-निबन्धनं प्रत्यक्षस्य बाधकत्वमत आह । दृष्टं हीति । धर्म्यादेश्चक्षुरादिनैव सिद्धेस्त्वचोऽनुपजीव्यत्वा-दित्यर्थः । ननु त्वाचप्रत्यक्षस्याप्युपजीव्यत्वेनैव शैत्यानुमितिप्रतिबन्धकत्वम् । चक्षुरादिना धर्म्यादिग्रहेऽपि त्वचं विना साध्यप्रसिद्धेरभावात् । तथा च न जात्या प्राबल्ये मानमस्ति । तदगृहीतग्राहित्वमपि न प्राबल्ये प्रयोजकम्् । प्रत्यक्षागृहीतधर्मादिग्राहकत्वेन परोक्षप्रामाण्यस्यैव प्राबल्यापत्तेः । नाप्यनुमानाद्य-निवर्तितदिङ्मोहादिनिवर्तकत्वेन प्राबल्यम् । एतावता हि वैधर्म्यमात्रं सिद्धम् । न च तावतेतरप्रमाणा-पेक्षया प्राबल्यं भवतीति ।
मैवम् । वह्निः शीतो नेति त्वाचप्रत्यक्षस्य यदा शैत्यानुमितिप्रतिबन्धकत्वं तदा पयसि शीतस्पर्श-ग्राहिणः साध्यप्रसिद्धिहेतोस्त्वाचप्रत्यक्षस्योपजीव्यस्य वह्नौ शीतस्पर्शाभावग्राहिणो बाधकत्वादुपजीव्यतया प्राबल्यम् । यदा पुनरुष्णो वह्निरिति उष्णस्पर्शग्राहिणस्त्वाचप्रत्यक्षस्य शैत्यानुमितिप्रतिबन्धकत्वं तदा विषयभेदादुक्तानुमित्युपजीव्येन न बाधः । शैत्यविरहव्याप्यौष्ण्यग्राहिणा प्रत्यक्षेणानुपजीव्येनैव प्रतिबन्धात् । न ह्युष्णस्पर्शः शीतस्पर्शविरहः । तयोः स्पर्शत्वव्याप्यजातिविशेषावच्छिन्नत्वात् । न च साध्यविरहव्याप्यावगाहिज्ञानत्वेनानुमितिप्रतिबन्धकत्वस्यानुमानादिसाधारण्यात् प्रत्यक्षत्वेनेष्टं प्राबल्यं भज्येतेति देश्यम् । प्रतीचीत्वविरहव्याप्याचिरोदितसूर्यमण्डलशालित्वज्ञानेऽपि प्राच्यां प्रतीचीत्वभ्रमा-निवृत्तेः । तदेतभिसन्धायोक्तम् ॥ औष्ण्यप्रत्यक्षस्येति ।
यद्वा शैत्यानुमित्याद्यनिवर्तितपीतभ्रमनिवर्तकजातिविशेषावच्छिन्नज्ञानकरणत्वेन प्रत्यक्षस्य प्राबल्यम् । नन्वनुमानाद्यनिवर्तितभ्रमनिवर्तकत्वात् प्रत्यक्षप्राबल्ये त्वाचप्रत्यक्षानिवर्तितमण्डूकवसाक्तनयनजन्यवंशोरग-भ्रमनिवर्तकत्वाच्चक्षुषोऽपि त्वगपेक्षया प्राबल्यं स्यात् । अथ यदिन्द्रियजन्यो यो भ्रमः स तदिन्द्रियजन्य-विशेषदर्शननिवर्त्य इत्यङ्गीक्रियेत तर्हि चित्रनिम्नोन्नतज्ञानस्य चाक्षुषस्य तद्विरोधित्वाच ज्ञानाद्बाधो न स्यात् । ततश्चक्षुरनिवर्तितभ्रमनिवर्तकत्त्वा त्वचोऽपि चक्षुरपेक्षया प्राबल्यमापन्नमिति चेन्न । दोष-विशेषस्यैव तत्र हेतुत्वात् । न हि जात्यैव कश्चिद्दोषोऽस्ति । क्वचित्कश्चिद्दोष इत्यङ्गीकारात् । चित्रे अवैषम्यावगाहित्वाचज्ञानेन दूरादिदोषनिवृत्तौ चक्षुषैव समूलघातं भ्रमनिवृत्तेश्च । मण्डूकवसांजनदोषेण हि दुष्टस्य चक्षुषो वंशोरगभ्रमानिवर्तकत्वम् । क्वचिद्दूरादिदोषेण वा । अदुष्टस्य तु चक्षुषः पुरैव त्वचो वंशोरगभ्रमादिनिवर्तकत्वम् । न च प्रत्यक्षागृहीतधर्मादिग्राहकत्त्वेन परोक्षप्रामाण्यस्यैव प्राबल्यापत्तिः । स्वयोग्यविषये प्रत्यक्षप्राबल्यस्याभिप्रेतत्वात् । धर्मादेस्तु तदयोग्यत्वात् । न च प्रत्यक्षसामग््रया अनुमिति-सामग््रयपेक्षया बलवत्वेन पर्वते वह्निप्रत्यक्षं स्यादिति युक्तम् । लौकिकप्रत्यक्षहेतोर्विशेषणेन्द्रिय-सन्निकर्षस्याभावात् । स्वविषये विशेषणग्राहकत्वस्य प्रत्यक्षे प्राबल्यबीजत्वाच्च । न च लिङ्गपरामर्शानन्तरं तद्द्वारा तदनुव्यवसायो वा स्यादिति वाच्यम् । भिन्ने विषये अनुमितिसामग््रया बलवत्वात् ।
प्रत्यक्षस्य जात्या प्राबल्ये ब्रह्मतर्कवचनेन विरोधं परिहरति । प्राबल्यमागमस्यैवेति ॥ वैदिकार्थ-विषयं वेदैकसमधिगम्यार्थविषयमित्यर्थः । अन्यथा ‘अनुक्तं पञ्चभिर्वेदैर्न वस्त्वस्ति कुतश्चन’ इति वाक्यविरोधः । न च चन्द्रतारकाद्यल्पपरिमाणग्राहिप्रत्यक्षस्यागमबाध्यत्वं स्यादिति वाच्यम् । यद्दूर-स्थत्वादिदोषयुक्तं तत्प्रत्यक्षे तत्परिमाणादावयथार्थमिति साक्षिणैव तस्य भ्रमत्वनिश्चयेन तत्र प्रवर्तमान-स्यागमस्याबाधकायितत्वेनाबाधकत्वादिति वक्ष्यमाणत्वात् । न चाद्वैतस्यापि वैदिकार्थत्वमिति युक्तम् । स्वप्रकाशब्रह्मात्मभूतस्यैक्यस्य त्वन्मते वेदवेद्यत्वायोगात् । औते प्रमाणाभावस्य वक्ष्यमाणत्वाच्च ।
क्व चेति । न चैतत्परीक्षितप्रामाण्यप्रत्यक्षविषयमिति देश्यम् । सन्घट इति प्रत्यक्षस्यापि फलपर्यन्तं परीक्षितत्वात् । त्वयाऽपि परोक्षज्ञानेनानिवृत्तस्य भेदभ्रमस्यापरोक्षज्ञानेन निवृत्तेः स्वीकाराच्च । अनुभूयते चानुमानादिभ्यो विश्वासहेतुः प्राबल्यं प्रत्यक्षे । न हि श्रुते अनुमिते वा दृष्ट इवाश्वासः । दीक्षणीयेष्टेरर्थवादेऽपि प्रत्यक्षस्यागमाद्यपेक्षया प्राबल्यं श्रूयते । तथा ह्यैतरेयब्राह्मणे । ‘‘तस्माद्दीक्षितेन सत्यमेव वदितव्यमथो खल्वाहुः । कोऽर्हति मनुष्यः सत्यं वदितुं सत्यसंहिता वै देवा अनृतसंहिता मनुष्या इति । विचक्षणवतीं वाचं वदेच्चक्षुर्वै विचक्षणम् । विधानेन पश्यतीति । एतद्वै मनुष्येषु सत्यं निहितं यच्चक्षुस्तस्मादाचक्षाणमाहुरद्रागिति स यद्यदर्शमित्याह अथ हास्य श्रद्दधति यस्तु वै स्वयं पश्यति न बहूनां च नान्येषां श्रद्धधाति तस्माद्विचक्षणवतीमेव वाचं वदेत्सत्योत्तरा हैवास्य वागुदिता भवति’’ इति । अत्र दीक्षितस्य सत्यवदनं विधाय सत्यवाक्त्वं देवधर्मो मनुष्याणामशक्य इति अथो खल्वाहु-रित्यनेन पूर्वपक्षयित्वा चक्षुःसंवादिवदनमेव सत्यवदनमिति सिद्धान्तितं विचक्षणवतीं वाचं वदेदित्यनेन । तत्र विचक्षणवतीमित्यनेन कथं चक्षुःसंवादित्वमुक्तमित्यपेक्षायां विचक्षणशब्दस्य चक्षुःपरत्वं योगेनेत्युक्तं विधानेन पश्यतीति । एतच्चक्षुः सर्वप्रमाणापेक्षया सत्यं बलवत् । अत एव वक्तारं पृच्छन्ति । अद्राक् दृष्टवानिति । स वाक्योच्चारयिता । यद्यदर्शम् अपश्यमित्याह तर्हि श्रद्धधति तद्वचनम् । नान्यथा । तस्मात् श्रुतिसिद्धं प्रत्यक्षस्य प्राबल्यम् ।
न्यायामृतसौगन्ध्यं
ननु ‘इदं रूप्य’मित्यत्र इदमितिवत् ‘सन् घटः’ इत्यत्रापि सदित्यधिष्ठानभूतं ब्रह्मैव भातीति चेन्न दृश्यत्वाद्यापत्तेरुक्तत्वात्, किञ्चैवं नीलो घटः, असन्नृशृङ्गमित्यादावपि नील इत्यादिरधिष्ठानानुवेधः स्यात् । न च नैल्यादिकं घटादिष्वस्ति सत्त्वं तु नेति वाच्यम् । अस्यारोपितत्वसिध्युत्तरकालीन-त्वेनान्योन्याश्रयात् । अन्यथा सत्यं ज्ञानमित्यत्रापि सत्यमित्यधिष्ठानानुवेध एव स्यात् । ननु सन्नित्यस्य घट इत्यनेन सामानाधिकरण्यस्य बाधितत्वात् । तथा हि– सत्ताजातिस्फुरणनिबन्धनं वा स्वरूप-सत्त्वनिबन्धनं वा कालत्रयाबाध्यत्वनिबन्धनं वा सामानाधिकरण्यं स्यात् । न चाभावादिसाधारण-सत्प्रतीतौ जातिस्फुरणं सम्भवति । अभावादिषु त्वयापि तदनङ्गीकारात् । घटादिरूपद्रव्यादौ सत्तायाः समवायसम्बन्धेन द्रव्यादिकं सदिति प्रतीतिर् अभावादिषु सत्तावदनुयोगिद्रव्यादिवृत्तित्वेनाभावादिकं सदिति प्रतीतिरत एव सत्ता सतीति प्रतीतिरपि सत्तायां सत्रावद्द्रव्यादिवृत्तित्वरूपसत्तात्ववत्वेन लीला-वतीकृद्भिर् अङ्गीक्रियते । अत एव गुणादिषु द्वित्वबहुत्वादिसमानाधिकरणद्रव्यत्ववद्वृत्तित्वमत्तया द्वित्वबहुत्वादिसङ्ख्याप्रतीतिरपि तर्करसिकैः स्वीक्रियते । अत एव गुणत्वादिषु द्रव्यत्वाद्यभावे सन्निति प्रतीतिः सत्तावद्वृत्याश्रितत्वरूपपरम्परासम्बन्धेन निर्विशङ्कमुपपद्यते इति न कोऽपि दोषः । न च क्वचित्साक्षात्सम्बन्धेन क्वचित्परम्परासम्बन्धेन सदिति प्रतीत्युपपत्तिः । विजातीयसम्बन्धेन समानाकार-प्रतीत्यनुपपत्तेः । अन्यथा सम्बन्धभेद एव न सिध्येत् । न च स्वरूपसत्वेनाभावादौ तत्प्रतीतिः । अननुगमात् । अननुगतेनाप्यनुगतप्रतीतौ जातिमात्रोच्छेदप्रसङ्गात् । अत एव न सर्वत्रापि स्वरूपसत्त्वेनैव सद्व्यवहारः । एकैनैव सर्वानुगतेन सर्वत्र सत्प्रतीत्युत्पत्तौ बहूनां तद्धेतुत्वकल्पने मानाभावात् । नापि कालत्रयाबाध्यत्वनिबन्धनं तत् । तस्य चक्षुराद्य(गम्य)योग्यत्वस्योक्तत्वात् । सदिदं रजतमित्यादिभ्रमे अभावाच्च तस्मादेकं सर्वाधिष्ठानमेव सदिति सर्वत्रानुभूयत इति युक्तम् । नीलादेस्तु घटादिसामानाधि-करण्येऽपि किमपि नास्ति बाधकम् । न वा नीलादेरधिष्ठानत्वं सम्भवति, प्रागसत्त्वात् । नीलपीतादि-प्रातिस्विकानन्ताधिष्ठानकल्पने गौरवात् । अधिष्ठेयेन तुल्ययोगक्षेमत्वाच्च । अधिष्ठेयविषसत्ताकमेव ह्यधिष्ठानं भवति । मिथ्या रूप्यम् असन्नृशृङ्गगमित्यादौ मिथ्यात्वासत्त्वयोरधिष्ठानशङ्कापि नास्ति शून्यवादापत्तेरिति चेन्न । अनित्यो घटः नीलो घटः पीतो घट इत्यादाविव सन्नित्यत्रापि सत्ताया घटधर्मत्वात् । न हि त्वदभिमतं सर्वासङ्गि निर्विशेषं ब्रह्म घटधर्मो भवति ।
किञ्च तादात्म्यभानं हि केनचिद्रूपेणैव स्यात् । त्वदभिमतनिर्विशेषस्य सतस्तदसम्भवात् सन्निति सत्ताजातिस्फुरणम् । न च सामान्यादौ सत्ताभावेन सदिति व्यवहारो न स्यादिति वाच्यम् । एकार्थप्रत्यासत्या तत्रापि सत्वात् । न च द्रव्यादित्रये साक्षादन्यत्र परम्परया, अन्यत्रैव स्वरूप-सम्बन्धेनाभावत्वादिवदखण्डोपाधिः सत्ता वर्तते । द्रव्यादित्रये तु स्वरूपसम्बन्धघटितपरम्परया वेति विनिगमनाविरह इति वाच्यम् । जन्यसत्वावच्छिन्नं प्रति द्रव्यत्वेनोपादानत्वमावश्यकम् । अन्यथा कपालरूपोपादानकारणस्य स्वसमवायिसमवेतत्वसम्बन्धेन घटादाविव कपालरूपादावपि सत्वात्तत्रापि रूपादिकमुत्पद्येत इति द्रव्यादित्रये सत्तासमवायस्य आवश्यकत्वात् तद्घटितपरम्परासम्बन्धेनान्यत्र सत्तासम्बन्धस्य सत्वात् । अन्यत्र सत्तायाः स्वरूपसम्बन्धोक्तेरयुक्तत्वात् । न च एक एव नीलारुणादिव्यक्तय इत्यस्मिन्मते रूपादीनामाकाशवदविद्यादिजन्यत्वे कपालरूपाद्यजन्यत्वेनोक्तयुक्त्य-सम्भव इति वाच्यम् । एवं हि घटादीनामपि नित्यत्वं स्यात् । किञ्चान्वयव्यतिरेकसिद्धकार्यकारण-भावस्याभिव्यङ्ग्यअभिव्यञ्जकत्वादिना त्वयोपपादनीयत्ववात् । तथा च त्रसरेणुगतरूपस्य स्वसमवायि-समवेतत्वसम्बन्धेन चतुरणकादिरूपाभिव्यञ्जकत्वं वाच्यम् । तथा च स्वसमवायिसमवेतत्व सम्बन्धेन त्रयसरेणुरूपेण त्र्यसरेणुरसादौ रूपाभिव्यक्तिः स्यात् । अभिव्यङ्ग्यसत्वावच्छिन्नं प्रति द्रव्यत्वेन समवायितया अभिव्यञ्जकत्वमावश्यकम् । स्वरूपसत्वेन सत्वस्फुरणम् । न चैकसत्वेनैवानुगत-प्रतीतिसम्भवे अनेकसद्रूपत्वाङ्गीकारोऽनुचित इति वाच्यम् । सद्ब्रह्मेत्यत्र स्वरूपसत्त्वस्फुरणं, सन् घट इत्यत्राध्यासिकसत्त्वमिति तवाप्येकसत्त्वाभावात् । प्रपञ्चमिथ्यात्वस्याद्याप्यसिद्धत्वेन प्रपञ्चाधिष्ठानतया ब्रह्मणः सदाकारबुद्धौ घटादितादात्म्येन भानासम्भवात् । यत्तु घटादितादात्म्येन भासमानत्वं प्रति उपादानत्वप्रयुक्तस्य घटादितादाम्यस्यैव हेतुत्वमिति, तन्न त्वन्मते अज्ञानस्यैव परिणाम्युपादानत्वेन ब्रह्मणस्तदभावात् । ब्रह्मणो हि विवर्ताधिष्ठानस्वरूपमुपादानत्वम् । तच्च विश्वमिथ्यात्वसिद्धेः प्रागसम्भवि । विशिष्टस्य परिणाम्युपदानत्वस्वीकारे तस्यानधिष्ठानत्वात् ।
अननुगमादित्यशुद्धम् । तवापि घटपटादिविशिष्टसद्रूपस्यापि नानात्वात् । नापीत्याद्यसाधु ‘तस्य चाक्षुषत्वं ह्युपपादितम् । सदिदं रजतमित्यशुद्धं, सद्ब्रह्म सदिदं रजतमित्यत्र तवाप्यनुपपत्तेस्तुल्यत्वात् । तस्मादित्यशुद्धं, सद्ब्रह्मेेत्यत्राधिष्ठानसद्रूपस्याभावात् । अतस्तवापि नैकानुगतं सत्त्वं, न वा नीलादे-रित्यप्ययुक्तम् । विश्वमिथ्यात्वसिद्धेः प्राक् ब्रह्मणोऽधिष्ठानत्वासिद्धेः । नीलपीतेत्याद्यशुद्धं, घटपटादि-तादात्म्यापन्नस्य सतस्तवापि नानात्वाच्च । शुद्धस्य चक्षुराद्यगम्यत्वात् । अधिष्ठेयेत्ययुक्तम् । ब्रह्मणोऽपि जगतो अधिकसत्ताकत्वस्याद्याप्यसिद्धेः । प्रमाणसिद्धवियदादिमिथ्यात्वाङ्गीकारे शून्यवादापत्तेस्तुल्यत्वात् । यत्तु सत्यं ज्ञानमित्यत्रापि तथा स्यादिति न युक्तं तर्हि न सत्तासम्बन्धेन सत्वं किन्तु स्वरूपेणैवेति नोक्तदोष इति तन्न । घटादावपि स्वरूपेणैव तथात्वात् । किञ्च जातीयप्रत्यक्षं प्रबलम् अनुमानागम-बाधकं, नानुमानागमौ तद्बाधकौ, प्रत्यक्षाप्रामाण्ये तद्विरोधाभावेनानुमानागमयोः प्रामाण्यं, तयोः प्रामाण्ये च तद्विरोधात् प्रत्यक्षाप्रामाण्यमित्यन्योन्याश्रयात् ।
ननु चन्द्रतारकादिपरिमाणप्रत्यक्षे अनुमानागमविरोधेन तस्याप्रामाण्यदर्शनात् । तेनापि स्वप्रामाण्य-सिध्यर्थमितराविरोधो अपेक्षणीयः । तथा च तुल्योऽन्योन्याश्रय इति चेन्न । परीक्षितप्रत्यक्षस्यैवानु-मानादिबाधकत्वोक्तेः । अन्यथा स्वापि्नकाद्वैतश्रुतेर्बाधितार्थकत्वदर्शनेन त्वदभिमताद्वैतश्रुतावपि अप्रामाण्यशङ्कासम्भवात्प्रत्यक्षस्य जात्यैव प्राबल्यं विना वह्निशैत्यानुमितिप्रतिबन्धकत्वानुपपत्तेः । न च तत्रोपजीव्यत्वनिबन्धनं तत् । धर्म्यादेश्चक्षुरादिनैव सिद्धेः । न च त्वाचप्रत्यक्षस्य उपजीव्यत्वेनैव शैत्यानुमितिप्रतिबन्धकत्वं त्वचं विना साध्यप्रसिद्धेरभावात् । अतो न जात्या प्राबल्ये मानमस्तीति वाच्यम् । शाब्दादिनापि साध्योपस्थितिसम्भवेन तदर्थं नियमेन त्वचोऽनपेक्षणात् साध्यविशेष्यकानुमितौ साध्यप्रसिद्धेरपेक्षणाच्च । किं चानुमानाद्यगृहीतरेखोपरेखादिग्राहकत्वादक्षस्य प्राबल्यम् । न च प्रत्यक्षा-गृहीतधर्म्यादिग्राहकत्वेनानुमानादेरप्यक्षात् प्राबल्यं स्यादिति वाच्यं धर्मादेरक्षायोग्यत्वेन तत्र प्रत्यक्षाप्रसरान् मानानामेकत्र प्रसङ्गे हि प्राबल्यादिविचारः । किं चानुमानाद्यनिवर्तितदिङ्मोहादि-निवर्तकत्वेनापि अक्षस्य प्राबल्यम् । न चैतावता वैधर्म्यमात्रं सिद्धं नेतरप्रमाणापेक्षया प्राबल्यम् । अन्यथा त्वाचप्रत्यक्षानिवर्तितवंशोरगभ्रमनिवर्तकत्वेन चक्षुषोपि त्वगपेक्षया प्राबल्यं स्यात् । ततश्च चित्रनिम्नोन्नतज्ञानस्य चाक्षुषस्य तद्विरोधित्वाचज्ञानाद्बाधो न स्यादिति वाच्यम् । क्वचित्तूलकपिण्डादौ पाषणत्वस्य चाक्षुषस्य त्वचा निवृत्तिदर्शनेनानयोः प्राबल्यदौर्बल्यादेरेकतरस्य नियन्तुमशक्यत्वात् । ‘‘प्राबल्यमागमस्यैव जात्या तेषु त्रिषु स्मृतम्’’ । इति तु वैदिकार्थविषयम् । न चाद्वैतमपि वैदिकं, तस्य सर्वमानविरुद्धत्वात् । न च वैदिके प्रत्यक्षाप्राप्तिः । भीष्मः प्रसारितं शंतनुहस्तं त्यक्त्वा कुशोपर्येव पिण्डं दत्तवान् ॥ यदर्थं हि पिण्डदानं तस्य हस्तः प्रत्यक्षश्चेत्तत्रैव प्रसक्त्तं पिण्डदानं शास्त्रात्तु कुशोपरि अतो हि तत्र प्राबल्यम् । क्व च प्रत्यक्षतः प्राप्तमनुमागमबाधितमिति स्मृत्याऽक्षस्य प्राबल्यमुक्तम् । न च परीक्षितप्रामाण्यं प्रत्यक्षविषयं, सन्घट इति प्रत्यक्षस्यापि सुतरां परीक्षितत्वात् ।
न्यायामृतमाधुरी
अथेदं रजतमिति विपर्यस्तरजतस्याधिष्ठानेदन्तातिरेकेणेदन्तानङ्गीकारेऽपि ताद्रूप्येण गृह्यमाणेऽ-धिष्ठाने तदभिन्नमिदं रजतमित्यादिनिर्देशा यथा सङ्गच्छन्ते । तद्वद्घटादिजगतः सद्रूपे ब्रह्मण्यध्यस्त-तयाऽधिष्ठानसत्तातिरेकेण तदनङ्गीकारेऽपि तत्तादात्म्यभानेऽधिष्ठानगतमेव सत्त्वमवलम्बमानाः सन् घट इत्यादिनिर्देशा अपि युज्यन्ते इति तादृशप्रत्यक्षस्य घटादौ सत्त्वानवगाहितया न तद्बाधः प्रकृतानुमितेरित्याशङ्कते । नन्विति ॥ उक्तत्वादिति । परिच्छिन्नत्वहेतुभङ्ग इति पूरणीयम् । इदानीं रूप्यमिति कालोल्लेखवद्ब्रह्मोल्लेखाभावेन नीरूपस्यापि ब्रह्मणस्तादृशकालस्येव स्फुरणमस्त्विति शङ्का सुदूरनिरस्तैव ।
अत्राद्वैतसिद्धिकारः । सन्नित्यस्य घट इत्यनेन सामानाधिकरण्यस्य बाधितत्वात् । तथा हि सत्ताजातिस्फुरणनिबन्धनं वा स्वरूपसत्त्वनिबन्धनं वा कालत्रयाबाध्यत्वनिबन्धनं वा सामानाधिकरण्यं स्यात् । न चाभावादिसाधारणसत्प्रतीतौ सत्ताजातिस्फुरणं सम्भवति । अभावादिषु त्वयाऽपि तदनङ्गीकारात् । न च क्वचित्साक्षात्सम्बन्धेन क्वचित्परम्परासम्बन्धेन सदिति प्रतीत्युपपत्तिः । विजातीयसम्बन्धेन समानाकारप्रतीत्यनुपपत्तेः । अन्यथा सम्बन्धभेद एव न सिध्येत् । न च स्वरूपसत्वेनाभावादौ तत्प्रतीतिः, अननुगमात् । अननुगतेनाप्यनुगतप्रतीतौ जातिमात्रोच्छेदप्रसङ्गात् । अत एव न सर्वत्रापि सत्त्वेनैव सद्व्यवहारः । एकेनैव सर्वानुगतेन सर्वत्र सत्प्रतीत्युपपत्तौ बहूनां तद्धेतुत्वकल्पने मानाभावात् । नापि कालत्रयाबाध्यत्वनिबन्धनं तत् । तस्य चक्षुराद्यगम्यत्व-स्योक्तत्वात् । सदिदं रजतमित्यादिभ्रमे अभावाच्च । तस्मादेकं सर्वाधिष्ठानमेव सदिति सर्वत्रानुभूयत इति युक्तम् । नीलादेस्तु घटादिसामानाधिकरण्ये किमपि नास्ति बाधकम् । न वा नीलादेरधिष्ठानत्वं सम्भवति । प्रागसत्त्वात् । धूमे नीलपीतादिप्रातिस्विकानन्ताधिष्ठानकल्पने गौरवात् । अधिष्ठेयेन तुल्ययोगक्षेमत्वाच्च । अधिष्ठेयविषमसत्ताकमेव ह्यधिष्ठानं भवति । मिथ्या रूप्यम् असन्नृशृृङ्गमित्यादौ मिथ्यात्वासत्तयोरधिष्ठानशङ्कैव नास्ति । शून्यवादापत्तेः । तत्र चानुपपत्तिरुक्ता वक्ष्यते च । यत्तु सत्यं ज्ञानमनन्तम् इत्यत्रापि तथा स्यादिति । तन्न । यतो न तत्र सत्तासम्बन्धेन सत्त्वं, किन्तु स्वरूपेणै-वेत्युक्तदोषानवकाशात् । न चैवं घटादावपि स्वरूपेणैव तथात्वम् । पूर्वमेव निराकृतत्वादित्यवोचत् ।
तदतिस्थवीयः । नीलो घटः, अनित्यो घट इत्यादाविव सन्नित्यत्रापि सत्तारूपस्य घटधर्मस्यैव भानात् । त्वदभिप्रेतनिर्विशेषसर्वासङ्गिब्रह्मणो घटधर्मित्वेन भानायोगात् । सन् घट इत्यादिव्यवहाराः सत्ताजातिस्फुरणनिबन्धना एव । परन्तु सा च जातिर्द्रव्यादित्रितये साक्षात्सम्बन्धेन । निःसामान्ये तु समवाय–स्वरूपसम्बन्धादिघटितसामानाधिकरण्येन भासते । सम्बन्धभेदेऽपि घटाश्चतुर्विंशति-र्गुणाश्चतुर्विशतिः पञ्च घटाः, पञ्च कर्माणि, द्वौ घटौ, द्वे सामान्ये, चत्वारो घटाश्चत्वारो भावा इत्यादितुल्यजातीयप्रतीतेर्नैय्यायिकादिभिरुपपादितत्वात् । उक्ताध्यवसायबलेनैव सम्बन्धभेदस्यापि सिद्धत्वात् । त्वन्मतेऽपि सन् घट इत्यादिव्यवहारा अधिष्ठानसत्तानुविद्धाः । सत्यं ब्रह्मेत्यादिकस्तु स्वरूपसत्तयेत्यननुगमतादवस्थ्येन स्वरूपसत्वनिबन्धनताकल्पोऽपि साधीयानित्यादिकमन्यत्रैव प्रपञ्चितमितीहोपरम्यते ॥
प्रत्यक्षस्य स्वेतरप्रमाणावधिकबलीयस्तां प्रत्यक्षत्वजातिनियन्त्रितां समर्थयते । प्रत्यक्षस्येति । जात्यैव प्रत्यक्षत्वेनैव, न त्वन्यमानाविरुद्धप्रत्यक्षत्वादिना । तथा च प्रत्यक्षपक्षकं तादृशप्राबल्य-साध्यकं ग्राहित्वान्तहेतुकं निवर्तकत्वान्तहेतुकं चौष्ण्यप्रत्यक्षनिदर्शनकमनुमानं ध्वनितम् । निदर्शने साध्यं सङ्गमयति । दृष्टं हीति ॥ (ननु)प्रकृतकार्यौपयिकधर्म्यादिग्रहजननायावश्यमुपेयमुपजीव्यं, तथाविधं चक्षुरादिकमेव न स्पार्शनप्रत्यक्षमपि, तस्य चोपजीव्यत्वेनैव शैत्यानुमितिप्रतिबन्धकत्व-सम्भवात् । चक्षुरादिना धर्मादिग्रहेऽपि त्वचं विना साध्यप्रसिद्धेरभावात् । तथा च न जात्या प्राबल्ये मानमस्ति । तदगृहीतग्राहित्वमपि न प्राबल्ये प्रयोजकम् । प्रत्यक्षागृहीतधर्मादिग्राहकत्वेन परोक्ष-प्रमाणस्य प्राबल्यापत्तेः । नाप्यनुमानाद्यनिवर्तितदिङ्मात्रादिनिवर्तकत्वेन प्राबल्यम् । एतावता हि वैधर्म्यमात्रं सिद्धं न च तावता इतरप्रमाणापेक्षया प्राबल्यं भवति । अन्यथा त्वाचप्रत्यक्षानिवर्तिते वंशोरगभ्रमनिवर्तकत्वाच्चक्षुषोऽपि त्वगपेक्षया प्राबल्यं स्यात् । ततश्च चित्तनिम्नोन्नतज्ञानस्य चाक्षुषस्य तद्विरोधित्वाचज्ञानाद्बाधो न स्यादित्याह । तद्रभसात् । चक्षुरादिना धर्म्यादेरिव शब्दादिना साध्यस्यापि सुग्रहतया साध्यप्रसिद्धेस्त्वगेकनिबन्धनत्वाभावात् । तत्प्रमाणग्रहणयोग्यतायां सत्यामपि तदगृहीतग्राहित्वं तदपेक्षया प्राबल्यहेतुरिति न परोक्षप्रमाणस्यापरोक्षात्प्राबल्यापत्तिः । तदनिवर्तित-निवर्तकत्वमपि तादृगेव । मण्डूकवसाञ्जनदोषेण यदा चक्षुर्दूषितं न तदा तेनापि वंशोरगभ्रमो निवर्तते । तादृशदोषसमवधानदशायां तु त्वाचेनापि स निवर्तत इत्यादिकमन्यत्र विवेचितमिति नेह विवेचनीयम् ।
प्रत्यक्षस्य जात्या प्राबल्ये आगमस्य तदवगमकब्रह्मतर्कवचनेनाविरोधं दर्शयति । प्राबल्य-मागमस्यैवेति । अद्वैतस्य निष्प्रमाणताया अभिधास्यमानतया न तस्य वैदिकत्वमिति भावः । क्व चेति । सन् घट इति प्रत्यक्षस्यापि फलपर्यन्तं परीक्षिततया न क्षतिरिति भावः ।
उपक्रमाधिकरणन्यायेनोपसंहारादुपक्रमस्यैवानुपसञ्जातविरोधित्वाच्च
न्यायामृतम्
उपक्रमाधिकरणन्यायेनोपसंहारादुपक्रमस्यैवानुपसञ्जातविरोधित्वाच्च । उक्तं हि–
असञ्जातविरोधित्वादर्थवादो यथाश्रुतः ।
व्याख्येयस्तद्विरुद्धस्य विध्युद्देशस्य लक्षणा ॥ इति
लिङ्गात् श्रुतेरिव शीघ्रगामित्वाच्च । उक्तं च–
प्रत्यक्षे चानुमाने च यथा लोके बलाबलम् ।
शीघ्रमन्थरगामित्वात्तथेह श्रुतिलिङ्गयोः ॥ इति ॥
अद्वैतसिद्धिः
ननु– प्रत्यक्षस्यासञ्जातविरोधित्वादुपक्रमन्यायेनैव प्राबल्यम् । उक्तं हि– ‘असञ्जातविरोधि-त्वादर्थवादो यथाश्रुतः । आस्थेयस्तद्विरुद्धस्य विध्युद्देशस्य लक्षणा’ इति चेन्न । यत एकवाक्यस्थ-परस्परसापेक्षपदत्वेन उभयोः साम्ये सत्युपक्रमस्थवेदपदानुरोधेनोपसंहारस्थर्गादिपदानां मन्त्रमात्र-वाचिनां कृत्स्नवेदपरत्वे निर्णीतेऽपि न प्रकृते तन्न्यायः सम्भवति । उभयोः साम्याभावात् । गृहीत-प्रमाणभावश्रुत्यपेक्षया भ्रमविलक्षणत्वेनानिश्चितस्य प्रत्यक्षस्य न्यूनबलत्वात् । अन्यथा ‘इदं रजतं’ इति भ्रमोऽपि ‘इयं शुक्तिः’ इति आप्तोपदेशापेक्षया प्रबलः स्यात् । एतेन लिङ्गात् श्रुतेरिव शीघ्रगामित्वात् प्रत्यक्षस्य प्राबल्यम् । तदुक्तम् – ‘प्रत्यक्षे चानुमाने च यथा लोके बलाबलम् । शीघ्रमन्थरगामित्वात्तथैव श्रुतिलिङ्गयोः’ इत्यपास्तम् । परीक्षितस्य मन्थरगामिनोऽपि प्राबल्यात् ।
न्यायामृततरङ्गिणी
उपक्रमाधिकरणन्यायेनेति ॥ तृतीयस्य तृतीये चिन्तितम् । ‘‘श्रुतेर्जाताधिकारः स्यात्’’ । ज्योतिष्टोमे श्रूयते ‘‘प्रजापतिरकामयत प्रजाः सृजेयेति । स तपोऽतप्यत । तस्मात्ते-पानात्त्त्रयो देवा अजायन्त । अग्निर्वायुरादित्यस्ते तपोऽतप्यन्त । तेभ्यस्तेपानेभ्यस्त्रयो वेदा अजायन्त । अग्नेर्ऋग्वेदो वायोर्यजुर्वेद आदित्यात्सामवेदः’’ इत्युपक्रम्य श्रूयते ‘‘तस्मादुच्चैर्ऋचा क्रियते उपांशु यजुषा उच्चैः साम्ना’’ इति । तत्र संशयः । किमुच्चैष्ट्वादय ऋगादिजातानां मन्त्राणां धर्मा ऋचा मन्त्रेणोच्चैरिति, किं वा वेदधर्मा ऋग्वेदो नोच्चैरितीति । उपक्रमे वेदश्रवणादुपसंहारे च ऋगादिश्रवणात्सन्देहः । वेदशब्दो हि मंत्रब्राह्मणसमुदायात्मनो ग्रन्थ-विशेषस्य वक्ता । नैकस्य मन्त्रवाक्यस्य ब्राह्मणवाक्यस्य वा वाचकः । प्रयोगाभावात् । न ह्येकं द्वे त्रीणि वाक्यान्यधीत्य ‘‘वेदानधीत्य वेदौ वा वेदं वाऽपि यथाक्रमम्’’ इत्येतच्छास्त्रार्थ-मनुष्ठितं मन्यन्ते । तस्मात्समुदायो वेदः । ऋगादिशब्दास्तु मन्त्रवचनाः स्थापिताः । तेनोप-क्रमोपसंहारयोर्विप्रतिपत्तेरेकवाक्यत्वाच्चोभयोरेकविषयत्वेऽवश्यम्भाविनि किमुपसंहारस्य विध्युद्देश-वशाद् उपक्रमस्थार्थवादगतो वेदशब्दो वेदैकदेशमन्त्रपरो भवतु, किं वोपक्रमगतार्थवादवशा-दुपसंहारस्थऋगादिपदं वेदपरं भवत्विति सन्देहः । पूर्वपक्षस्तु । प्रधानत्वादप्राप्तविषयत्वाच्च विध्युद्देशस्य यथाश्रुतादन्यथार्थत्वमप्रामाणिकम् । अर्थवादस्तु प्रमाणांतरप्राप्तानुवादकत्वात्तद्वशेन लक्षणया नीयमानो न दुष्यतीति । जाताधिकारा उच्चैष्ट्वादयः । तदुक्तं–
‘‘गुणत्वादनुवादत्वादर्थवादस्य लक्षणा ।
मुख्यस्यापि प्रधानत्वादप्राप्तविषयत्वतः ॥
विध्युद्देशो जघन्योऽपि स्वार्थहानिं न गच्छति ।
मुख्यापि दीक्षणीया हि लभते न स्वधर्मताम् ।
जघन्यस्यापि सोमस्य प्रधानत्वात्स्वधर्मता ।
वक्ष्यते तद्वदत्रापि विध्युद्देशस्य सा भवेत्’’ । इति ।
सिद्धांतस्तु । य इष्ट्या पशुना सोमेन वा यजेत सोऽमावास्यायां पूर्णमास्यां वा यजेतेति वचनात्सोमस्यापि कालो लब्धात्मतया युक्तं दीक्षणीयाकालं बाधते । विध्युद्देश्यस्त्विह मन्त्रविषयत्वेनलब्धात्मा कथमिवार्थवादं बाधेत । तथा हि । वेदशब्दोऽत्रोपक्रमगतोऽसंजात-प्रतिपक्षत्वाद्यथाश्रुतपर एव तावदवधार्यते । तस्मिंश्चावधारिते सत्युपसंहारगत मृगादिपदमुप-जातप्रति पक्षविज्ञानत्वाद्यथाश्रुतार्थं सत्तदेकवाक्यतामप्रतिपाद्यमानं तदनुगुणवेदपरतयैवात्मानं लभते, नान्यथा । येन बाधकं स्यात् । उपक्रम एव वेदानां किंचिद्विधास्यते इत्यवगतम् । किं तद्विधेयमित्यवगतमपेक्षितं च । अतो विध्युद्देशगतोऽपि ऋगादिशब्दोऽवगतविषयत्वादनुवाद इति लक्षणां सहते । तस्माद्वेदधर्माः । ऋग्वेदेन यत्क्रियते विधीयते तदुच्चैरिति । तदुक्तम् ।
‘‘लब्धात्मनः प्रधानस्य बलीयस्त्वं गुणाद्भवेत् ।
विध्युद्देशस्त्वलब्धात्मा लब्धात्मानं न बाधते ॥’’ इति ।
तदिहोपक्रमोपसंहारैकवाक्यतया वेदधर्मत्वमवधारितमिति । तस्माद्यथाऽसंजातविरोधित्वाद् उपक्रमस्योपसंहारापेक्षया प्राबल्यं तथा सन् घट इति प्रत्यक्षस्याप्यद्वैतागमापेक्षया प्राबल्यम् ।
नन्वेकवाक्यस्थपरस्परसापेक्षपदत्वेनोभयोः साम्ये सत्युपक्रमस्थवेदपदानुरोधेनोप संहारस्थ-ऋगादिपदानां मन्त्रमात्रवाचिनां कृत्स्रवेदपरत्वे निर्णीतेऽपि न प्रकृते तन्न्यायः सम्भवति । उभयोः साम्याभावात् । गृहीतप्रमाणभावश्रुत्यपेक्षया भ्रमविलक्षणत्वेनानिश्चितस्य प्रत्यक्षस्य न्यूनबलत्वात् । अन्यथेदं रजतमिति भ्रमोऽपीयं शुक्तिरित्याप्तोपदेशापेक्षया प्रबलः स्यादिति । मैवम् । सन् घट इति प्रत्यक्षस्य भ्रमविलक्षणत्वेनानिश्चये बीजाभावात् । प्रत्युत फलपर्यन्तपरीक्षया प्रामाण्यस्यैव निश्चितत्वाच्च । इदं रजतमिति भ्रमस्यापरीक्षितत्वेन नाप्तोपदेशबाधकत्वमिति ।
॥ लिङ्गात् श्रुतेरिति ॥ तृतीयस्य तृतीयेऽभिहितं ‘‘श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानां समवाये परदौर्बल्यमर्थविप्रकर्षात्’’ । श्रुत्यादीनामेकविषयसमवाये विरोधे सति बलाबलं चिन्त्यते । तत्र श्रुतिलिङ्गयोर्विरोधोदाहरणमेवं श्रूयते । ऐन्द्र्या गार्हपत्यमुपतिष्ठत इति । तत्र संशयः । किमिन्द्रस्यैवोपस्थानं कर्तव्यमुतेन्द्रस्य वा गार्हपत्यस्य वाऽथवा समुच्चयोऽथवा गार्हपत्यस्यैवेति । यदि लिङ्गं बलीयस्तत इंद्रोपस्थानम् । अथ तुल्यबलत्वं ततो विकल्पः । अथ तुल्यबलत्वेऽप्यविरोधस्ततः समुच्चयः । श्रुतिबलीयस्त्वे तु गार्हपत्यस्यैवेति । यः शब्दस्य श्रवणादेव विनियोगः प्रतीयते स श्रौत इत्युच्यते । श्रवणं श्रुतिः । गार्हपत्यमिति च ब्राह्मण-गतद्वितीयान्तपदश्रवणादेव गार्हपत्यस्य प्राधान्यमुपस्थानं प्रत्यवगम्यते । ऐन्द्य्राश्च तृतीयान्तायाः करणत्वमिति श्रौतोऽयं विनियोगः । मन्त्रगतात्त्विन्द्रपदादिन्द्रस्वरूपमात्रं श्रुत्याऽवगम्यते । न तु मन्त्रं प्रतीन्द्रस्य प्राधान्यं मन्त्रस्य वा करणत्वं केनचिच्छब्देनोच्यते । किन्तु मन्त्रस्येन्द्राभि-धानसामर्थ्यमालोच्य नूनमनेन मन्त्रेणेन्द्र उपस्थेय इति कल्प्यत इति लैङ्गिको विनियोगः । गृह्णीम एतदिन्द्रार्थत्वं लिङ्गादिति । न तु गार्हपत्यार्थत्वम् । मन्त्रस्य श्रौतगार्हपत्यमिति शेषित-मात्रमनिर्धारितशेषविशेषं श्रुत्योक्तम् । ऐन्द्रीविषयं तु तदिति वाक्यादवगन्तव्यम् । तथैन्द्य्रेत्य-नवगतशेषिविशेषविषयत्वं श्रुतं वाक्याद्गार्हपत्यविषयं सम्भवति । यच्च श्रुत्युपात्तं सामान्यरूपं च न तल्लिङ्गेगेन विरुध्यते । सम्भवति हि गार्हपत्यस्य काञ्चिदाग्नेयीं प्रति प्राधान्यम् । ऐन्द्य्राश्चेन्द्रं प्रति शेषत्वम् । अन्योन्यान्वयस्तु वाक्यादवगतो लिङ्गेन विरुध्यते । तेन लिङ्गवाक्ययोरेव विरोधो न तु श्रतिलिङ्गयोः । तदुक्तं–
‘‘शेषशेषित्वमात्रं हि श्रुत्यैन्द्रीगार्हपत्ययोः ।
उक्तमन्योन्यविषयनियमस्त्वेकवाक्यतः’’ इति ।
उच्यते । यथैव श्रुतिमात्रमविरुद्धम् एवं वाक्यमपि श्रुतिमनादृत्यालोच्यमानमविरुद्धमेव । यदि हि गार्हपत्यशब्द इन्द्रं लक्षयेद् द्वितीया वा सप्तम्यर्थे ततो लिङ्गाविरोधेन गार्हपत्यपदमैंद्य्रोपतिष्ठत इत्यनेनैकवाक्यतां गच्छति । यस्तु द्वितीयान्तगार्हपत्यशब्दश्रवणादेवार्थः प्रतीयते गार्हपत्यस्य प्राधान्यं स लिङ्गेन विरुध्यते । अतो न केवलं वाक्यं न केवला श्रुतिर्लिङ्गेन विरुध्यते वाक्य-सहिता श्रुतिर्विरुध्यते । तदुक्तं–
‘‘सत्यं वाक्यविरोधोऽस्ति श्रुतिश्चापि विरुध्यते ।
सहिते हि विरुद्ध्येते न तु लिङ्गेन केवले ॥’’ इति ।
कथं पुनरेवमुभयविरोधः सन्नयं श्रुतिविरोध एव व्यवह्रियते न वाक्यविरोधः । उच्यते । श्रुतेः प्राधान्यात् । विनियोगो हि प्रमेयः । स च साध्यसाधनरूपः श्रुत्यैवोक्तः । वाक्यं तु प्रतियोगिविशेषसमर्पणेन श्रुतिमनुगृह्णद्गुणभूतम् । प्रधानेन च विरोधो लक्ष्यते न तु गुणेन । अयं चापरो विशेषः । येन श्रुतेरेवात्र विरोधो न वाक्यस्य । यस्य हि लिङ्गे बलीयसि बाधस्त-ल्लिङ्गेन विरुध्यते न त्वत्र लिङ्गे बलीयसि वाक्यं शक्यते बाधितुम् । तद्बाधे हि पृथक्कृते गार्हपत्यैन्द्रीपदे न कञ्चिदर्थं प्रतिपादयतः । पदमात्रस्याप्रमाणत्वात् । तत्र श्रुतेरप्यत्यन्तबाधो वाक्यस्य वा यत्र पृथक्भूतस्याप्यर्थप्रतिपादकत्वं न विहन्यते । यथा स्योनादिषु । तत्रैव वाक्य-बाधो नैवंजातीयकेषु । ततश्चासम्भवति वाक्यस्य बाधे श्रुतिरेव बाध्यते इति श्रुतिलिङ्गयोरेवैष विरोध इति । तत्र श्रुत्यपेक्षया लिङ्गस्य प्राबल्यादिंद्रोपस्थानमिति प्रथमः पक्षः । तदुक्तं–
यद्वा सामर्थ्यरूपत्वाल्लिङ्गं स्यात्प्रबलं श्रुतेः ।
वस्तुशक्त्यनुसारी हि शब्दः सर्वः प्रवर्तते ॥ इति ।
श्रुतिलिङ्गयोः स्वतः प्रामाण्याविशेषाद्विरोधाच्च विकल्प इति द्वितीयः पक्षः । तदुक्तम् ।
‘‘तत्र स्वतः प्रमाणत्वं लिङ्गादेः श्रुतिवन्मतम् ।
सामर्थ्यालोचनादेव सामर्थ्यं हि प्रतीयते ॥
गार्हपत्यार्थता श्रुत्येत्युभयोस्तुल्यकालता ।
तेन द्वयोरुपस्थानं विकल्पेन भविष्यति ॥’’ इति ।
श्रुतिलिङ्गयोरविरोधात्समुच्चय इति तृतीयः पक्षः । तदुक्तं–
‘‘समुच्चयेन वा मन्त्रः प्रयुज्येत द्वयोरपि ।
प्रतिप्रधानमावृत्तिर्गुणानां न विरुध्यते ।
यद्यपि स्याद्बलीयस्त्वं श्रुतेर्लिङ्गात्तथापि तु ।
अविरोधादबाधः स्यात्सम्भवीह समुच्चयः’’ इति । अत्राहुः ।
‘‘तत्र तावद्बलीयस्त्वं लिङ्गस्य न च तुल्यता ।
विनियोगः श्रुतेः पश्चाल्लिङ्गस्यारादसौ स्थितः ।
यावदेव हि मन्त्रार्थो मन्त्रेण प्रतिपाद्यते ।
तावदेव श्रुतिर्मन्त्रं गार्हपत्यार्थतां नयेत् ।
मन्त्रार्थं मन्त्रतो बुध्वा पश्चाच्छक्तिं निरूप्य च ।
मन्त्राकाङ्क्षावशेनेह शेषत्वे श्रुतिकल्पना ।
श्रुत्या प्रत्यक्षया पूर्वं गार्हपत्याङ्गतां गते ।
निराकाङ्क्षीकृते मन्त्रे निर्मूला श्रुतिकल्पना ।
तेन शीघ्रं प्रवर्तिन्या श्रुत्या लिङ्गस्य बाधनम् ।
प्रत्यक्षे चानुमाने च यथा लोके बलाबलम् ।
शीघ्रमन्थरवृत्तित्वात्तथेह श्रुतिलिङ्गयोः ।
अविरोधादबाधो यो वर्णितः स न युज्यते ।
लिङ्गस्य द्विप्रमाणत्वं मन्त्राकाङ्क्षानिबन्धनम् ।
तां च श्रुतिर् निक्षिपन्ती (निकृन्तन्ती) नाविरोधेन गच्छति ।
विरोधे च श्रुतिर्लिङ्गं बलीयस्त्वेन बाधते ।
गार्हपत्ये तु सामर्थ्यं गौणं मन्त्रस्य विद्यते ।
गुणाद्वाऽप्यभिधानं स्यादित्यत्रैतद्धि साधितम् ॥’’ इति ॥
प्रत्यक्षे चेति । श्रुतिलिङ्गयोः शीघ्रमन्थरगामित्वेन बलाबलचिन्तायां प्रत्यक्षानुमानयो-रुदाहृतत्वेन प्रत्यक्षस्यानुमानापेक्षया बलवत्त्वं निश्चितमित्यर्थः । ननु परीक्षितस्य मन्थर-गामिनोऽपि प्राबल्यमिति चेन्मैवम् । प्रत्यक्षेऽपि फलपर्यन्तं परीक्षायाः सत्त्वात् ।
न्यायामृतकण्टकोद्धारः
उपक्रमाधिकरणन्यायेनेति ॥ ‘‘श्रुतेर्जाताधिकारः स्यात्’’ । तृतीयाध्याये तृतीयपादे प्रथमाधिकरणे चिन्तितम् – ज्योतिष्टोमे श्रूयते । ‘‘प्रजापतिरकामयत । प्रजाः सृजेयेति । स तपोऽतप्यत । तस्मात्तेपानात्रयो देवा असृज्यन्त । अग्निर्वायुरादित्यः । ते तपोऽतप्यन्त । तेभ्य-स्तेपानेभ्यस्त्रयो वेदा असृज्यन्त । अग्नेर्ऋग्वेदो वायोर्यजुर्वेद आदित्यात्सामवेदः’’ इत्युपक्रम्योप-संहारे श्रूयते ‘‘उच्चैर्ऋचा क्रियते । उपांशु यजुषा । उच्चैः साम्ना’’ इति । अत्र संशयः – किमुच्चैष्ट्वादयो ऋगादिजातीनां धर्माः किं वा वेदानाम्? ऋगादिजातिमन्त्रधर्मत्वपक्षे ऋगादि-मन्त्रैर्यत् क्रियते तदुच्चैरिति वचनव्यक्तिर्भवति । वेदधर्मत्वे ऋग्वेदादिभिर्यत् क्रियते तदुच्चैरिति । किमत्र संशयबीजम्? उपक्रमे वेदशब्दश्रवणमुपसंहारे ऋगादिशब्दश्रवणमेव । न च ऋगादिऋग्वेदादिशब्दानामेकार्थत्वेनाविरुद्धत्वात् कथं संशयकारणत्वमिति वाच्यम् । वेदशब्दो हि मन्त्रब्रह्मणसमुदायवाचकः । ऋगादिशब्दा मन्त्रमात्रवाचकाः । न च वेदशब्दोऽपि एकस्य मन्त्रस्य ब्राह्मणवाक्यस्य वा वाचकः किं न स्यादिति वाच्यम् । एकस्मिन् मन्त्रे ब्राह्मणवाक्ये वा प्रयोगाभावात् । यद्येकस्य मन्त्रस्य ब्राह्मणवाक्यस्य वा वाचकः स्यात्तर्हि एकं मन्त्रं मन्त्रौ वा मन्त्रान् वा अधीत्य ‘वेदानधीत्य वेदौ वा वेदं वाऽपि यथाक्रममि’त्येतच्छास्त्रार्थं कृतं मन्येत । तस्मात् समुदायवाचको वेदशब्दः, मन्त्रमात्रवाचका ऋगादिशब्दाः । अतः सन्देहो युक्तः । न चोपक्रमोपसंहारयोर्भिन्नविषयत्वमेवास्त्विति तदेकविषयत्वसमर्थनार्थमिदमधिकरणं नारम्भणीय-मिति वाच्यम् । एकवाक्यत्वस्यावश्यकत्वात् । तस्मादुपक्रमोपसंहारयोर्विप्रत्तिपत्तेरेकवाक्य-त्वेऽवश्यं भाविनि किमुपसंहारस्थविध्युद्देशवशादुपक्रमार्थवादगतवेदशब्दो वैदिकऋगादिमात्रपरो
भवतु किं वोपक्रमगतार्थवादवशाद् उपसंहारस्थम् ऋगादिपदम् ऋगादिप्रायवेदपरं भवत्विति संशयः ।
तत्र पूर्वपक्षसूत्रं – ‘श्रुतेर्जाताधिकारः स्यात्’ । अस्यार्थः – उपक्रमगता ऋग्वेदादिशब्दा ऋगादिजातमन्त्रपराः । कुतः? श्रुतेः श्रवणादेव जातप्रतिपत्तिहेतुत्वात् । न च वेदप्रत्यायकः शब्दोऽस्ति । किञ्च जातिपरत्वे तस्या ऋचः यजुर्वेदे उच्चैः प्रयोगो भविष्यति । अन्यथा एकस्या एवर्च उभौ धर्मौ वैकल्पिकौ स्याताम् । तथा च पक्षे बाधः स्यात् । तस्माज्जातपरा इति । न चोपक्रमगतार्थविरोधः । तत्तत्पर्यालोचनयोच्चैष्ट्वादीनां वेदधर्मत्वप्रतीतेरिति वाच्यम् । अर्थवादस्य गुणत्वेन विध्युद्देशानुसारेण योजनीयत्वात् । न चार्थवादस्य विधिं प्रति गुणत्वमेव कथमिति वाच्यम् । विधिप्रतिपादितशाब्दभावनापेक्षितांशत्रयमध्यगतेतिकर्तव्यतासमर्पकत्वात् । प्राशस्त्य-लक्षणया तथान्वयात् । न चार्थवादस्य मुख्यत्वादसञ्जातविरोधित्वेन प्राबल्यमिति वाच्यम् । मुख्यस्याप्यर्थवादस्यानुवादरूपत्वेन दुर्बलत्वात् । जघन्यस्यापि विध्युद्देशस्याप्राप्तविषयत्वेन प्रधानत्वात् । प्रधानानुसारेणाप्रधानस्य नेष्यत्वात् । यथैकादिदीक्षापक्षे मुख्याया अपि दीक्षणीयायाः प्रधानसोमयागकालानुरोधेन पर्वरूपकालबाध इत्यङ्गमुख्यविरोधे च तादर्थ्यादित्यत्र वर्णितम् । सर्वं ह्यङ्गजातं प्रधानसाद्गुण्याय क्रियते । तस्यैव साक्षाद्वैगुण्येऽङ्गस्य साद्गुण्यं कुत्रोपयोगीति प्रधानसाद्गुण्याय दीक्षणीयायाः पर्वरूपकालबाधः । एवं प्रकृतेऽपि विध्युद्देशानु-सारेणार्थवादगतवेदशब्दलक्षणया ऋग्जातपरा इति पूर्वपक्षः ।
अत्र सिद्धान्तसूत्रं – ‘वेदो वा प्रायदर्शनादि’ति । वेदमधिकृत्य ऋगादिशब्दाः प्रवृत्ताः । कुतः? प्रायदर्शनात् । वेदोपक्रमवाक्ये एषामृगादिशब्दानां दर्शनादित्यर्थः । अयमाशयः । प्रधानानुसारेणाप्रधानं योजनीयमित्युक्तं सत्यम् । तत्रैव प्रधानानुसारेणाप्रधानं योजनीयं यत्र प्रधानस्य लब्धात्मकता भवति । एकादिदीक्षापक्षेऽपि प्रधानस्य सोमयागकालस्य य इष्ट्या पशुना सोमेन वा यजेत सोऽमावास्यायामिति लब्धात्मकत्वात् । य इष्ट्येत्यङ्गकालस्यापि प्राप्तत्वात् प्रधानकालेनाप्रधानकालबाधनं युक्तम् । प्रकृते च विध्युद्देशो मन्त्रविषयत्वेनालब्धात्मा कथमर्थवादं बाधेत । तथा हि वेदशब्दः प्रक्रमगतो यथाश्रुतार्थपर एवावधार्यते । कुतः? असञ्जातप्रतिपक्षत्वात् । तस्मिंश्च यथाश्रुतार्थेऽवधारिते उपसंहारगतम् ऋगादिपदं सञ्जात-प्रतिपक्षत्वाद् यथाश्रुतार्थं सत्तदेकवाक्यताप्रतिपद्यमानं तदनुगुणवेदपरतयैवात्मानं लभते । नान्यथा । येन बाधकं भवेत् । न च विध्युद्देशस्याप्राप्तविषयत्वात् कथं लाक्षणिकत्वमिति वाच्यम् । उपक्रम एव वेदानां किञ्चिद्विधास्यत इत्यवगतम् । किन्तु तद्विधेयमित्येतावदनवगत-मपेक्षितमतो विध्युद्देशगतोऽपि ऋगादिशब्दोऽवगतविषयत्वादनुवाद इति लक्षणां सहते । न चैवं सति विकल्पः । एकैव कदाचिदुपांशु पठनीया कदाचिदुच्चैरिति वाच्यम् । यजुर्वेदगतत्व-ऋग्वेदगतत्वपुरस्कारेणोभयोरुपपत्तेरिति । तस्मादुच्चैष्ट्वादयो वेदधर्मा एवेति वेदेन यत्क्रियते तदुच्चैरिति वचनव्यक्तिर्भवति । उक्तेऽर्थे भट्टसम्मतिमाह ॥ उक्तं हीति ॥ नन्वेकवाक्यस्य परस्परसापेक्षपदत्वेनोभयोः साम्ये सत्युपक्रमस्थवेदपदानुरोधेनोपसंहारस्थ- ऋगादिपदानां मन्त्रमात्रवाचिनां कृत्स्नवेदपरत्वे निर्णीतेऽपि न प्रकृते तन्न्यायः सम्भवति । उभयोः साम्या-भावात् । गृहीतप्रमाणभावश्रुत्यपेक्षया भ्रमविलक्षणत्वेनानिश्चितप्रत्यक्षस्य दुर्बलत्वात् । अन्यथेदं रजतमिति भ्रमोऽपि इयं शुक्तिरित्याप्तवाक्यापेक्षया प्रबलः स्यादिति । मैवम् । अत्र श्रुतिप्रत्यक्षयोरुपक्रमोपसंहारसाम्यं किं परस्परसापेक्षत्वरूपं नास्ति उत निश्चितप्रामाण्यरूपं वा । नाद्यः । श्रुतिप्रत्यक्षयोरुपजीव्योपजीवकभावेन परस्परसापेक्षत्वात् । न द्वितीयः । जगत्प्रत्यक्षस्य बाधकाभावेन दोषजन्यत्वाभावनिश्चयेन प्रामाण्यनिश्चयस्यापि समानत्वात् । यत्र परस्पर-सापेक्षत्वे सति निश्चितप्रामाण्यं तत्रैवोपक्रमाधिकरणन्यायावतारः । प्रकृते च तथात्वमस्तीति युक्तं न्यायोदाहरणम् । न च प्रत्यक्षे बाधशङ्कया न प्रामाण्यनिश्चय इति वाच्यम् । सर्वशङ्का-समुद्धारस्याग्रे मूल एव करिष्यमाणत्वात् । रजतप्रत्यक्षे च दोषबाधकनिश्चयेनाप्रमाण्यनिश्चयेनैव तन्न्यायाविषयत्वम् ।
॥ लिङ्गात् श्रुतेरिवेति ॥ यथा श्रुतेर्लिङ्गापेक्षया शीघ्रं स्वार्थप्रतीतिजनकत्वेन प्राबल्यं तथा प्रत्यक्षस्यानुमानाद्यपेक्षया शीघ्रगामित्वेन प्राबल्यमित्यर्थः । श्रुतिलिङ्गाधिकरणन्यायस्त्वित्थम्– तृतीयस्य सप्तमाधिकरणे चिन्तितम् । ‘‘श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानां समवाये पारदौर्बल्यमर्थविप्रकर्षात्’’ इति सूत्रम् । अत्र श्रुत्यादीनां प्रमाणानां समवाये एकविषये तन्निपाते विरोधे च सति पारदौर्बल्यं परदुर्बलत्वम् । अर्थविप्रकर्षात् परेषां पूर्वापेक्षया विलम्बेन पूर्वपूर्वप्रमाणपरिकल्पनयाऽर्थप्रतीतिजनकत्वादित्यर्थः । तत्रादौ श्रुतिलिङ्गविरोधश्चिन्त्यते । एवं श्रूयते – ऐन्द्य्रा गार्हपत्यमुपतिष्ठत इति । अत्र सन्देहः । किमिन्द्रस्यैवोपस्थानं कर्तव्यमथवा विकल्प उत समुच्चयोऽथ गार्हपत्यस्यैवेति । यदि लिङ्गं बलीयस्तदेन्द्रोपस्थानम् । अथ तुल्य-बलत्वं ततो विकल्पः । अथ तुल्यत्वेऽप्यविरोधस्ततः समुच्चयः । श्रुतिबलीयस्त्वे तु गार्हपत्य-स्यैवोपस्थानम् । तत्र ऐन्द्य्रा गार्हपत्यमुपतिष्ठत इति ब्राह्मणवाक्यम् । तत्रैन्द्री इन्द्रप्रतिपादको मन्त्रः । स चेत्थमाम्नायते कदाचन स्तरीरसि नेन्द्र सश्चसि दाशुष इति । अनयेन्द्रः प्रकाश्यते – भो इन्द्र । कदाचन कदाचिदपि न स्तरीरसि घातको न भवसि । किन्तु दाशुषे आहुतिं दत्तवते यजमानस्य सश्चसि प्रीयस इति । अत्रेन्द्रस्वरूपमात्रं प्रतीयते, न तु मन्त्रस्य साधनत्वं न चेन्द्रस्य प्राधान्यम् । केवलमर्थप्रकाशनसामर्थ्यरूपाल्लिङ्गादनेन मन्त्रेणेन्द्र उपस्थेय इति साधनत्वं कल्प्यते । यद्ययं मन्त्र इन्द्रोपस्थाने साधनं न स्यात्तर्हीन्द्रप्रकाशको न स्यात् । तस्मादिन्द्रोप-स्थाने साधनम् । सोऽयं लिङ्गविनियोगः । श्रुतिविनियोगस्तु यः शब्दस्य श्रवणादेव प्रतीयते स श्रौत इत्युच्यते । श्रवणं श्रुतिः । गार्हपत्यमिति ब्राह्मणवाक्यगतद्वितीयान्तपदश्रवणादेव गार्ह-पत्यस्य प्राधान्यं गम्यते । ऐन्द्य्रेति तृतीयया ऐन्द्य्राश्च करणत्वम् । तथा चैन्द्य्रा गार्हपत्य उपस्थेय इति श्रौतो विनियोगः । तत्रेन्द्रोपस्थानार्थत्वं लिङ्गादिति ।
ननु मन्त्रस्य गार्हपत्यार्थत्वं कथं श्रौतम्? गार्हपत्यमिति द्वितीयया गार्हपत्यस्य शेषित्वमात्रं श्रुतम् । तच्चैन्द्य्रेति पदसमभिव्याहारबलाद् ऐन्द्रीविषयं भवति । यच्च श्रुत्या प्रतीतं गार्हपत्य-प्राधान्यं तन्न लिङ्गेन विरुद्ध्यते । गार्हपत्यस्य काञ्चिदाग्नेयीं प्रति प्राधान्यसम्भवात् । ऐन्द्य्रेति तृतीयया यन्मन्त्रस्य साधनत्वं प्रतीतं तदिन्द्रं प्रति भविष्यतीति न श्रुतिलिङ्गविरोधः । किञ्च यश्चैन्द्रीगार्हपत्ययोः साध्यसाधनभावः प्रतीयते स वाक्यबलात् । तथा च वाक्यावगते-नैन्द्रीगार्हपत्ययोः साध्यसाधनभावेन लिङ्गं विरुद्ध्यते । अतो लिङ्गवाक्यविरोधोऽयं न श्रुति-लिङ्गविरोध इति । अत्रोच्यते । यदुक्तं श्रुतिमात्रमविरुद्धमिति तत्सत्यम् । यथैव श्रुतिमात्र-मविरुद्धं तथा वाक्यमप्यविरुद्धम् । कथम्? यदि गार्हपत्यपदमिन्द्रं लक्षयेत्, यदि वा द्वितीया सप्तम्यर्थे, ततो लिङ्गाविरोधेन गार्हपत्यपदमैन्द्य्रोपतिष्ठत इत्यनेनैकवाक्यतां गच्छति । तथा च न वाक्यविरोधः । तर्हि केन विरोधः ? यस्तु द्वितीयान्तगार्हपत्यपदश्रवणादर्थः प्रतीयते गार्हपत्य-प्राधान्यं स लिङ्गेन विरुद्ध्यते । न च श्रुतिरपि न विरुद्ध्यत इत्युक्तमिति वाच्यम् । केवलाया अविरोधेऽपि वाक्यसहिताया अस्ति विरोधः ।
नन्वेवं तर्हि श्रुतिवाक्यविरोधोऽयं कथं श्रुतिलिङ्गविरोध इत्युच्यते न वाक्यविरोध इति । उच्यते । प्राधान्याद्विनियोगो हि प्रमेयः । स च साध्यसाधनभावः । स च श्रुत्यैवोक्तः । प्रतियोगिविशेषसमर्पकं हि वाक्यम् । तथाच प्रधानीभूतसाध्यसाधनभावप्रतिपादकत्वात् श्रुतिः प्रधानम् । वाक्यं तु श्रुतिमनुगृण्हद् गुणभूतम् । प्रधानेन च विरोधो लक्ष्यते, न गुणेन ।
अयं चापरो विशेषः, येन श्रुतेरेवात्र लिङ्गेन विरोधो न वाक्यस्य । यस्य हि लिङ्गेन बलीयसा बाधस्तल्लिङ्गेन विरुद्ध्यते । न ह्यत्र लिङ्गे बलीयसि वाक्यं शक्यते बाधितुम् । तद्बाधे हि पृथक्कृते गार्हपत्यैन्द्रीपदे न कञ्चिदर्थं प्रतिपादयतः । पदमात्रस्याप्रामाण्यात् । तत्र श्रुतेरप्यबाधो वाक्यस्य च । यत्र तु पृथग्भूतस्याप्यर्थप्रतिपादकत्वं न विहन्यते यथा स्योनादिषु, तत्रैव वाक्यबाधः । ततश्चासम्भविनि वाक्यस्य बाधे श्रुतिरेव बाध्यत इति श्रुतिलिङ्गयोरेव विरोध इति युक्तो विचारः । तथा च लिङ्गेनेन्द्रार्थत्वं श्रुत्या गार्हपत्यार्थत्वं वेति संशयो युक्तः ।
किं बलीय इति । तदर्थं किं श्रुतिवल्लिङ्गाद्यपि स्वतः प्रमाणमुत श्रुतिकल्पनेनेति । तत्रैकः पूर्वः पक्षः – श्रुतिवल्लिङ्गस्यापि प्रमाणत्वाविशेषाद् लिङ्गेनेन्द्रार्थत्वं श्रुत्या गार्हपत्यार्थत्वमिति व्रीहियववद्विकल्प इति । यद्वा इन्द्रगार्हपत्ययोः प्रधानत्वाविशेषादुपस्थानस्य च गुणत्वात् प्रतिप्रधानं गुणावृत्तिरिति न्यायेनोपस्थानावृत्त्या श्रुतिलिङ्गयोः समुच्चय इति द्वितीयः पूर्वपक्षः । अथवा श्रुतिर्विनियुञ्जाना वस्तुसामर्थ्यमनुसृत्य विनियुङ्क्ते । अन्यथा वह्निना सिञ्चेद्वारिणा दहेदित्यपि विनियुज्येत । अतो वस्तुसामर्थ्यानुसारेण श्रुतेर्विनियोजकत्वाद्वस्तुसामर्थ्यरूपं लिङ्गं श्रुतिविनियोगे उपजीव्यम् । अतः प्रबलत्वाल्लिङ्गेनेन्द्रोपस्थान एव विनियोगः । गार्हपत्यशब्दस्तु लक्षणया इन्द्रपर इति तृतीयः । सिद्धान्तस्तु – यद्यैन्द्रीमन्त्रस्य गार्हपत्यप्रतिपादनेऽत्यन्त-मशक्तता स्यात्तदा श्रुतिविनियोगप्रतिबन्धः स्यात् । न चैवम् । ऐन्द्रीमन्त्रस्य गार्हपत्ये मुख्यशक्त्यभावेऽपि गुणवृत्त्या शक्तिरस्तीति ‘‘गुणाद्वाऽभिधानं स्यात्’’ इत्यत्रैव साधितम् । तथा च सामर्थ्याभावरूपप्रतिबन्धाभावान् निर्विघ्ना श्रुतिः शीघ्रं मन्त्रं विनियुङ्क्ते । लिङ्गं विलम्बते । यावदेव हि मन्त्रेण स्वाभिधेयं प्रतिपाद्यते तावदेव श्रुतिर् मन्त्रं गार्हपत्यार्थतां नयेत्, लिङ्गस्य कथं विलम्ब इति चेन्न । मन्त्रपदान्यादौ स्वाभिधेयमर्थं प्रतिपादयन्ति । तत ऊर्ध्वं मन्त्रस्य सामर्थ्यं निरूप्यते । पश्चात् सामर्थ्यवशात् प्राधान्यवाचिनी श्रुतिः कल्प्यते । सा च श्रुतिर्मन्त्रेणेन्द्रमुपतिष्ठेतेति विनियुङ्क्ते । तथा च प्रत्यक्षश्रुतौ स्वाभिधेयप्रतिपादनविनियोगयो-र्मध्यवर्तिनौ सामर्थ्यनिरूपणश्रुतिकल्पनव्यापारौ न स्त इति प्राबल्यात्तया लिङ्गं बाध्यते । न च प्रत्यक्षश्रुतिर्विनियोगवेलायामलब्धात्मकत्वादप्राप्तलिङ्गं कथं बाधेतेति शङ्कनीयम् । भविष्यत्प्राप्ति-प्रबन्धस्यैवात्र बाधकत्वात् । न च श्रुतिविनियोगानन्तरं लिङ्गविनियोगोऽस्त्विति वाच्यम् । मन्त्राकाङ्क्षनिबन्धनो हि विनियोगः । श्रुत्या विनियुक्तस्य मन्त्रस्य पुनर्विनियोगाकाङ्क्षानु-दयात् । तथा च लिङ्गस्य प्रमाणत्वं मन्त्राकाङ्क्षनिमित्तम् । सा चाकाङ्क्षा श्रुत्या निराकृतेति श्रुत्या लिङ्गस्य विरोधः । विरोधे च बलीयस्त्वात् श्रुत्या लिङ्गबाधो, न समुच्चयो न वा विकल्पो न वा लिङ्गस्यैव प्राबल्यमिति ।
उक्तेऽर्थे भट्टवार्तिकसम्मतिमाह ॥ उक्तं चेति ॥ अत्र प्रत्यक्षस्य शीघ्रगामित्वेन प्राबल्यस्य श्रुतिप्राबल्ये दृष्टान्तत्वेनोपादानान् निर्णीतं हि दृष्टान्तत्वेनोपादीयत इति न्यायात् प्रत्यक्षस्य प्राबल्यं सुदृढतरमिति भावः ।
न्यायामृतप्रकाशः
एवं जात्या प्राबल्यमुपपाद्यानुपसञ्जातविरोधित्वाच्च प्रत्यक्षस्य प्राबल्यमित्याह ॥ उपक्रमाधि-करणन्यायेनेति ॥ तृतीयाध्याये तृतीयपादे चिन्तितम् । ‘‘श्रुतेर्जाताधिकारः स्यात्’’ इत्यत्र ज्योतिष्टोमे श्रूयते ‘‘प्रजापतिरकामयत प्रजाः सृजेयेति स तपोऽतप्यत तस्मात्तेपानात्त्रयो देवा असृज्यन्त अग्निर्वायुरादित्यस्ते तपोऽतप्यन्त तेभ्यस्तेपानेभ्यस्त्रयो वेदा असृज्यन्त अग्नेर्ऋृग्वेदो वायोर्यजुर्वेद आदित्यात्सामवेद’’ इत्युपक्रम्य श्रूयते ‘‘उच्चेर्ऋचा क्रियते उपांशु यजुषा उच्चैः सामो’’ इति । तत्र सन्देहः किमुच्चैष्ट्वादयो ऋगादिधर्मा ऋचा मन्त्रेण यत्क्रियते तदुच्चैः कर्तव्यमिति । किंवा ऋग्वेदादिधर्मा ऋग्वेदेनोच्चैरिति । तत्र क्रियत इति लकारव्यत्ययेन कुर्यादिति विधेरभिप्रेत-तयोपसंहारगतेषु विध्युद्देशेषु ऋगादिशब्दश्रवणादुपक्रमगतार्थवादे ऋग्वेदादिशब्दसत्त्वेऽपि अर्थवादस्य विधिबोधितार्थप्राशस्त्यमात्रप्रतिपादकस्य विधिशेषत्वेन गुणप्रधानयोर्विरोधे प्रधानस्य विध्युद्देशस्यैवानु-सरणीयत्वादृगादिधर्मा उच्चैष्ट्वादयः । तथा चार्थवादगतऋग्वेदादिपदं लक्षणया स्वार्थत्यागेन विध्युद्देशानुसारेण ऋगादिमात्रपरमेव । एवं च यजुर्वेदेऽपि ऋग्वेदस्थार्चां सत्त्वाद्यजुर्वेदादिगते-ष्वप्यृगादिषु उच्चैष्ट्वादयः कर्तव्या इति पूर्वपक्षः । सिद्धान्तस्तु लब्धात्मन एव प्रधानस्य गुणा-द्बलीयस्त्वं वाच्यम् । न चेह विध्युद्देशानाम् ऋगादिविषयतया लब्धात्मता । उपक्रमे वेदशब्दसङ्कीर्तनेन वेदानामतः परं किञ्चिद् विधास्यत इत्याकाङ्क्षायाम् अनन्तरं विधास्यमानस्योच्चैष्ट्वादेर्वेदधर्मत्वावगमा-त्तदेकवाक्यतया पश्चादापतत उपसंहारस्य तद्विरुद्धार्थबोधकत्वासम्भवाद् असञ्जातविरोध्युपक्रमगतार्थ-वादानुसारेण पश्चादापततस्तद्विरुद्धस्योपसंहारस्थविध्युद्देशस्य लक्षणैव कार्या । तथा च ऋक्शब्दस्य ऋग्वेदलक्षकत्वेनोच्चैष्ट्वादय ऋग्वेदधर्मा एवेति । एवं च ऋग्वेदेन यत्क्रियते तदेवोच्चैः कर्तव्यम् अतो यजुर्वेदादिगतेष्वप्यृगादिषु उच्चैष्ट्वादिकं न कर्तव्यं किन्तूपांशुत्वादिकमेवेति । एवं च यथाऽसञ्जात-विरोधित्वादुपक्रमस्योपसंहारापेक्षया प्राबल्यं तथा प्रत्यक्षसिद्धान्पदार्थान्पक्षीकृत्यानुमानं प्रयोक्तव्यम् । एवं च सन्घट इत्यादिप्रत्यक्षस्याप्यसञ्जातविरोधित्वेन प्रबलत्वादद्वैतागमाद्यपेक्षया प्राबल्यमित्यर्थः । विध्युद्देशस्य विधिर्विधानमेवोद्देशो यस्येति विध्युद्देशो विधिप्रतिपादकं वाक्यं तस्येत्यर्थः ।
लिङ्गाद्यपेक्षया शीघ्रगामित्वाच्च प्रत्यक्षस्य प्राबल्यमित्याह ॥ लिङ्गात् श्रुतेरिवेति ॥ तृतीयाध्याये तृतीयपादे ‘‘श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानां समवाये परदौर्बल्यमर्थविप्रकर्षात्’’ इति बलाबलाधिकरणसूत्रम् । तत्र श्रुतिलिङ्गयोर्विरोधे इदमुदाहरणम् । अग्निचयने श्रूयते ‘‘ऐन्द्र्या गार्हपत्यमुपतिष्ठत’’ इति । अत्र लकारव्यत्ययेन गार्हपत्योपस्थानं कुर्यादित्यर्थः । तत्र ‘‘प्रवक्षणा अभिनत्पर्वतानां वज्रं जघन्वान् नेन्द्रसश्चित्’’ इत्यादि ऐन्द्य्रा इन्द्रप्रकाशिकया ऋचा इन्द्रस्योपस्थानं कर्तव्यम् उत गार्हपत्यस्याग्नेरिति संशये ‘‘वस्तुशक्त्यनुसारी हि शब्दः सर्वः प्रवर्तत’’ इति न्यायेन अशक्यार्थे वस्तुनः केनापि विनियोक्तुमशक्यत्वादैन्द्य्रेति तृतीयाश्रुत्या ऐन्द्री शक्य एव विनियोक्तव्या । तस्याश्च शक्तिरिन्द्रप्रकाशन एवेति तस्यैवोपस्थानं कर्तव्यम् । गार्हपत्यशब्दस्तु यज्ञसाधनत्व-साधर्म्यादिना इन्द्रे प्रवर्तयितव्य इति पूर्वपक्षः । सिद्धान्तस्तु यत्र वस्तुनः सर्वथाऽसामर्थ्यं तत्रैव विनियोगो न सम्भवति अस्ति त्विन्द्रशब्दस्य गार्हपत्ये गौणं तत्, यथोक्तं ‘‘गार्हपत्ये तु सामर्थ्यं गौणं मन्त्रस्य विद्यते’’ इति । अवश्यं च मन्त्रस्थेन्द्रशब्दस्य वा विनियोजकवाक्यपरब्राह्मणस्थ-गार्हपत्यशब्दस्य वा कस्यचिदमुख्यार्थत्वं कल्पनीयम् । तच्च मन्त्रस्थेन्द्रशब्द एव युक्तं विधौ लक्षणाया अन्याय्यत्वात् । न च विध्यनुसारेण ऐन्द्य्रा ऋचो लक्षणया गार्हपत्योपस्थाने विनियोगेऽपि इन्द्रप्रकाशनशक्तिरूपया मुख्यवृत्त्या लिङ्गात्मिक्या इन्द्रोपस्थाने विनियोगोऽस्त्विति वाच्यम् । गार्हपत्यमुपतिष्ठत इति प्रत्यक्षश्रुत्या शीघ्रं मन्त्रे विनियुक्ते सति तावतैव मन्त्राम्नानस्य चरितार्थतया मन्थरगामिलैङ्किकविनियोगकल्पनाऽयोगात् । तस्माद्गार्हपत्यस्यैवोपस्थानं कर्तव्यमिति । एवं च प्रकृते व्याप्त्यादिसापेक्षतया मन्थरगाम्यनुमानाद्यपेक्षया प्रत्यक्षस्य झडित्यर्थावगाहित्वात्प्राबल्यमित्यर्थः ॥ प्रत्यक्ष इति ॥ यथा लोके प्रत्यक्षे चानुमाने च शीघ्रं मन्थरगामित्वाद् बलाबलं दृष्टं तथेह श्रुतिलिङ्गयोरित्यर्थः । एवं च श्रुतिलिङ्गयोः शीघ्रमन्थरगामित्येन बलाबलचिन्तायाम् उदाहरणतया प्रत्यक्षानुमानयोर्गृहीतत्वात्प्रत्यक्षस्यानुमानापेक्षया प्राबल्यं निश्चितमस्तीत्याशयः ।
न्यायकल्पलता
उपक्रमाधिकरणन्यायेनेति । जैमिनीयतृतीयाध्यायस्य तृतीये पादे चिन्तितम् । ‘‘श्रुतेर्जाताधिकारः स्यात्’’ इत्यत्र ज्योतिष्टोमे श्रूयते ‘‘प्रजापतिरकामयत प्रजाः सृजेयेति । स तपोऽतप्यत । तस्मा-त्तेपान्नात्त्रयो देवा असृज्यन्त । अग्निर्वायुरादित्यस्ते तपोऽतप्यन्त तेभ्यस्तेपानेभ्यस्त्रयो वेदा असृज्यन्त । अग्नेर्ऋग्वेदो वायोर्यजुवेद आदित्यात् सामवेदः ॥ इत्युपक्रम्य, तदुपसंहारे श्रूयते । ‘‘तस्मादुच्चैर्ऋचा क्रियते उपांशु यजुषा उच्चैः साम्ना’’ इति । तत्र सन्देहः । किमुच्चैष्ट्वादय ऋगादिजातानां मन्त्राणां धर्मा ऋचा मन्त्रेणोच्चैरिति । उत ऋग्वेदादिधर्मा ऋग्वेदेनोच्चैरिति । उपक्रमे वेदश्रवणादुपसंहारे च ऋगादि-श्रवणात् सन्देहः । वेदशब्दो हि मन्त्रब्राह्मणसमुदायात्मनो ग्रन्थविशेषस्य वाचको नैकस्य मन्त्रवाक्यस्य ब्राह्मणवाक्यस्य वा । प्रयोगाभावात् । न ह्येकं द्वे त्रीणि वा वाक्यन्यधीत्य ‘‘वेदानधीत्य वेदौ वा वेदं वापि यथाक्रमम्’’ इत्येतच्छास्त्रार्थमनुष्ठितं मन्यन्ते । तस्माद्वेदशब्दस्तत्समुदायवाची । ऋगादिशब्दास्तु मन्त्रवचनाः स्थापिताः । तेनोपक्रमोपसंहारयोर्विप्रतिपत्तेरेकवाक्यत्वाच्चोभयोरेक विषयत्वेऽवश्यंभाविनि किमुपसंहारस्य विध्युद्देशादुपक्रमस्थार्थवादगतो वेदशब्दो वेदैकदेशमन्त्रपरो भवतु, किंवोपक्रमगतार्थवाद वशादुपसंहारस्थमृगादिपदमृगादिप्रायवेदपरं भवत्विति संशयः । पूर्वपक्षस्तु प्रधानत्वादप्राप्तविषयत्वाच्च विध्युद्देशस्य यथाश्रुतादन्यथार्थत्वमप्रामाणिकम् । उपसंहारगतेषु विध्युद्देशेषु ऋगादिशब्दश्रवणात् । उपक्रमगतार्थवादे ऋग्वेदादिशब्दसत्वेऽप्यर्थवादस्य विधिशेषतया गुणप्रधानविरोधे प्रधानस्य विध्युद्देश-स्यैवानुसरणीयत्वात् तद्वशेन लक्षणयाऽपि नीयमानोऽर्थवादो न दुष्यतीति जाताधिकारा उच्चैष्ट्वादयः । तदुक्तम्–
गुणत्वादनुवादत्वादर्थवादस्य लक्षणा ।
मुख्यस्यापि प्रधानत्वादनाप्तविषयत्वतः ।
विध्युद्देशो जघन्योऽपि स्वार्थहानिं न गच्छति ।
मुख्यापि दीक्षिणीया हि लभते न स्वधर्मताम् ।
जघन्यस्यापि सोमस्य प्रधानत्वात् स्वधर्मता ।
वक्ष्यते तद्वदत्रापि विध्युद्देशस्य सा भवेत् ॥ इति ।
एवं च यजुर्वेदादिगतेष्वपि ऋगादिषु उच्चैष्ट्वादयः कर्तव्या इति पूर्वः पक्षः । सिद्धान्तस्तु– ‘‘य इष्ठ्या पशुना सोमेन वा यजेत सोऽमावास्यायाम् पूर्णमास्यां वा यजेत ॥ इति वचनात् सोमस्यापि कालो लब्धात्मतया युक्तं यद्दीक्षणीयाकालं बाधते । विध्युद्देशस्त्विह मन्त्रविषयत्वेनालब्धात्मा कथमिवार्थवदं बाधेत ।
तथा हि । लब्धात्मनः प्रधानस्य गुणत्वाद्बलीयस्त्वम् । उपक्रमे वेदशब्दसङ्कीर्तनेन वेदानां किञ्चिद् विधास्यत इति प्रथममेव विधास्यमानस्य वेदधर्मत्वावगत्या तदेकवाक्यतया पश्चादापतत उपसंहारस्य तद्विरुद्धार्थबोधकत्वासम्भवाद् वेदशब्दक्रमगतोऽसञ्जातप्रतिपक्षत्वाद्यथाश्रुतार्थपर एवेति तावदवधार्यते । तस्मिंश्चावधारिते सति उपसंहारगतमृगादिपदमुपजातप्रतिपक्षविज्ञानत्वाद्यथाश्रुतार्थं सत्तदेकवाक्यताम-प्रतिपाद्यमानं तदनुगुणवेदपरतयैवात्मानं लभते नान्यथा । येन बाधकं स्यात् । उपक्रम एव वेदानां किञ्चिद्विधास्यत इत्यवगतं किं तद्विधेयमित्येतावदवगतमपेक्षितं च । अतो विध्युद्देश्यगतोऽप्यृगादिशब्दो अवगतविषयत्वादनुवाद इति लक्षणां सहते । तस्मादृगादिशब्दस्य वेदलक्षकत्वेन वेदधर्मा उच्चैष्ट्वादयः । ऋग्वेदेन यत्क्रियते विधीयते तदुच्चैरिति । तदप्युक्तम् ।
लब्धात्मनः प्रधानस्य बलीयस्त्वं गुणाद्भवेत् ।
विध्युद्देश्यस्त्वलब्धात्मा लब्धात्मानं न बाधते ॥ इति ।
तदिहोपक्रमोपसंहारैकवाक्यतया वेदधर्मत्वमवधारितमिति । उपक्रमादिलिङ्गानां बलीयो यद्यदुत्तरमिति वचनं प्रथमानवधारितार्थोपक्रमविषयम् । ‘‘ह्वयाम्यग्निं प्रथमं स्वस्तये ह्वयामि मित्रा वरुणा विहावसे ॥ इत्युपक्रमे बहूनामग्न्यादीनामुक्तत्वेनोपक्रमस्यानवधारितार्थत्वम् । ‘‘आकृष्णेन रजसा वर्तमानः’’ इत्युपसंहारस्य सवित्रेकार्थत्वादुपसंहारवशेन सूक्तस्य सावित्रर्थत्वमवसीयते । तस्मात्प्रथम-मुपक्रमेण क्वचिदर्थेऽवधारिते तदेकवाक्यत्वेनापतन्नुपसंहारस्तदाकारस्तदाकाङ्क्षानुसारेण लक्षणादि प्रतिपद्यत इति । एवं चासञ्जातविरोधित्वाद्यथोपक्रमस्योपसंहारापेक्षया प्राबल्यं तथा सन्घट इति प्रत्यक्षस्याप्यद्वैतागमापेक्षया प्राबल्यम् । असञ्जातविरोधित्वादिति । असत्प्रतिपक्षत्वादर्थवादो यथाश्रुतार्थो आस्थेय आश्रयणीय इत्यर्थः । नन्वेकवाक्यस्थपरस्परसापेक्षपदत्वेनोभयोः साम्ये सत्युपक्रमस्थवेदपदानुरोधेनोपसंहारस्थऋगादिपदानां मन्त्रमात्रवाचिनां कृत्स्नवेदपरत्वे निर्णीतेऽपि न प्रकृते तन्न्यायः सम्भवत्युभयोः साम्याभावात् । गृहीतप्रमाणभावश्रुत्यपेक्षया भ्रमविलक्षणत्वेनानिश्चतस्य प्रत्यक्षस्य न्यूनबलत्वात् । अन्यथेदं रजतमिति भ्रमोऽपीयं शुक्तिरित्याप्तोपदेशापेक्षया प्रबलः स्यादिति । मैवम् । सन्घट इति प्रत्यक्षस्य भ्रमविलक्षणत्वेनानिश्चिये बीजाभावात् । प्रत्युत फलपर्यन्तपरीक्षया दोषापनयनेनाप्रामाण्याभावे निश्चिते साक्षिणा प्रामाण्यनिश्चयाच्च । इदं रजतमिति भ्रमोऽपरीक्षित-त्वान्नाप्तोदेशं बाधते । प्रत्युत तन्मूलप्रत्यक्षेण बाध्यत इति ।
लिङ्गात् श्रुतेरिति । तृतीयाध्याये तृतीयपादे बलाबलाधिकरणसूत्रम् । ‘श्रुतिलिङ्गवाक्य-प्रकरणस्थानसमाख्यानां समवाये पारदौर्बल्यमर्थविप्रकर्षात्’ । श्रुत्यादीनामेकविषयसमवाये विरोधे सति बलाबलं चिन्त्यते । तत्र श्रुतिलिङ्गयोर्विरोधे इदमुदाहरणम् अग्निचयने श्रूयते । ‘ऐन्द्र्या गार्हपत्यमुपतिष्ठत’ इति । तत्र संशयः । ऐन्द्र्या ऋचा किमिन्द्रस्यैवोपस्थानं कर्तव्यम् उतेन्द्रस्य गार्हपत्याग्नेर्वा अथवा समुच्चयो अथवा गार्हपत्यस्यैवेति । यदि लिङ्गं बलीयस्तत इन्द्रोपस्थानं, अथ तुल्यबलत्वं ततो विकल्पः । अथ तुल्यबलत्वेऽप्यविरोधस्ततः समुच्चयः । श्रुतिबलीयस्त्वे तु गार्हपत्याग्नेरेवेति । यः शब्दस्य श्रवणादेव विनियोगः प्रतीयते स श्रौत इत्युच्यते । श्रुवणं श्रुतिः । गार्हपत्यमिति च ब्राह्मणगतद्वितीयान्त-शब्दश्रवणादेव गार्हपत्यस्य प्राधान्यमुपस्थानं प्रत्यवगम्यते । एैन्द्र्याश्च तृतीयान्तया श्रुत्या करणत्व-मुपस्थानं प्रतीति श्रौतोऽयं विनियोगः । मन्त्रगतादिन्द्रपदादिन्द्रस्वरूपमात्रं श्रुत्याऽवगम्यते । न तु मन्त्रं प्रतीन्द्रस्य प्राधान्यम् । मन्त्रस्य वा करणत्वं केनचिच्छब्देनोच्यते । किन्तु मन्त्रस्येन्द्राभिधान-सामर्थ्यमालोच्य नूनमनेन मन्त्रेणेन्द्र उपस्थेय इति कल्प्यत इति लैङ्गिको विनियोगः । गृह्णीम एतदिन्द्रार्थत्वलिङ्गादिति न तु गार्हपत्यार्थत्वम् । मन्त्रस्य श्रौतं गार्हपत्यमिति शेषितमात्रमनिर्धारित-शेषविशेषं श्रुत्योक्तं, ऐन्द्रीविषयं तु तदितिवाक्यादवगन्तव्यम् । तथैन्द्य्रेत्यनवगतशेषिविशेषविषयत्वं श्रुतं वाक्याद्गार्हपत्यविषयं भवति । यच्च श्रुत्युपात्तं सामान्यरूपं न तल्लिङ्गेन विरुध्यते । सम्भवति हि गार्हपत्यस्य काञ्चिदाग्नेयीं प्रति प्राधान्यम् । ऐन्द्र्याश्चेन्द्रं प्रति शेषत्वं, अन्योन्यान्वयस्तु वाक्यादवगतो लिङ्गेन विरुध्यते । तेन लिङ्गवाक्ययोरेव विरोधो न तु श्रुतिलिङ्गयोः । तदुक्तम् ।
‘‘शेषशेषित्वमात्रं हि श्रुत्यैन्द्रीगार्हपत्ययोः ।
उक्तमन्योन्यविषयनियमस्त्वेकवाक्यतः’’ ॥ इति ।
उच्यते । यथैव श्रुतिमात्रमविरुद्धमेवं वाक्यमपि श्रुतिमनादृत्यालोच्यमानमविरुद्धमेव । यदि हि गार्हपत्यशब्द इन्द्रं लक्षयेद् द्वितीया वा सप्तम्यर्थे, ततो लिङ्गाविरोधेन गार्हपत्यपदमैन्द्र्योपतिष्ठत इत्यनेनैकवाक्यतां गच्छति । यस्तु द्वितीयान्तगार्हपत्यशब्दश्रवणादेवार्थः प्रतीयते गार्हपत्यस्य प्राधान्यम् । स लिङ्गेन विरुध्यते । अतो न केवलं वाक्यं केवला श्रुतिर्लिङ्गेन विरुध्यते । वाक्यसहिता तु श्रुतिर्विरुध्यते । तदुक्तम्–
सत्यं वाक्यविरोधोऽस्ति श्रुतिश्चापि विरुध्यते ।
सहिते हि विरुद्ध्येते न तु लिङ्गेन केवले ॥ इति ।
कथं पुनरेवमुभयविरोधः सन्नयं श्रुतिविरोध एव व्यवह्रियते न वाक्यविरोधः । उच्यते । श्रुतेः प्राधान्यात् । विनियोगो हि प्रमेयः । स च साध्यसाधनरूपः श्रुत्यैवोक्तः । वाक्यं तु प्रतिविशेषसमर्पणेन श्रुतिमनुगृह्णद्गुणभूतम् । प्रधानेन च विरोधो लक्ष्यते न तु गुणेन । अयं चापरो विशेषः । येन श्रुतेरेवात्र विरोधो न वाक्यस्य । यस्य हि लिङ्गे बलीयसि बाधस्तल्लिङ्गेन विरुद्ध्यते । न त्वत्र लिङ्गे बलीयसि वाक्यं शक्यते बाधितुम् । तद्बाधे हि पृथक्कृते गार्हपत्यैन्द्रीपदे न कञ्चिदर्थं प्रतिपादयतः । पदमात्रस्या-प्रामाणत्वात् । तत्र श्रुतेरप्यत्यन्तबाधो, वाक्यस्य वा यत्र पृथग्भूतस्यार्थप्रतिपादकत्वं न विहन्यते । यथा स्योनादिषु । तत्रैव वाक्यबाधो नैवंजातीयकेषु । ततश्चासम्भवति वाक्यस्य बाधे श्रुतिरेव बाध्यते इति श्रुतिलिङ्गयोरेवैष विरोध इति ।
लिङ्गवाक्ययोर्विरोधे त्विदमुदाहरणम् । दर्शपूर्णमासयोः श्रूयते । ‘‘स्योनन्ते सदनं करोमि घृतस्य धारया सुशेवं कल्पयामि ते । तस्मिंत्सीदामृते प्रतितिष्ठ । व्रीहीणामेध सुमनस्यमानः’’ इति । अस्य मन्त्रस्यार्थः । हे पुरोडाश तव समीचीनं स्थानं करोमि । तच्च घृतस्य धारया सुष्टु सेवितुं योग्यं कल्पयामि । हे व्रीहिसारभूत त्वं समाहितमनस्कस्तस्मिन् समीचीने स्थाने उपविश । तत्र च स्थिरो भवेति ।
अत्रैवं विचार्यते । सकलोऽप्ययं मन्त्रः सदनकरणप्रतिष्ठापनयोरङ्गम् । तस्मिन्नित्यनेन तच्छब्देन प्रकृतवाचिना पूर्वोत्तरार्धयोरेकवाक्यत्वप्रतीतेर् इति वाक्यबलादर्थः प्राप्यते । लिङ्गबलात्तु पूव•र्धस्य सदनकरणाङ्गत्वम् । पूर्वार्धस्य सदनकरणमात्रप्रकाशकत्वात्् । उत्तरार्धस्य प्रतिष्ठापनाङ्गत्वम् । तेन प्रतिष्ठापनस्यैव प्रकाशनात् । वाक्यबललभ्यार्थाल्लिङ्गबललभ्यार्थ एव बलीयान् । शीघ्रप्रातीतिकत्वात् । वाक्येन हि सकलाङ्गत्वं, सकलस्य सदनप्रकाशकत्वरूपसामर्थ्यलक्षणलिङ्गकल्पनद्वारा बोधनीयम् । एवं च लिङ्गवाक्ययोः समवाये लिङ्गमेव बलवत् । अविलम्बितार्थप्रत्यायकत्वादिति । तत्र श्रुत्यपेक्षया लिङ्गस्य प्राबल्यादिन्द्रोपस्थानमिति प्रथमः पक्षः । तथा हि । अशक्यार्थे वस्तुनः केनापि विनियोक्तु-मशक्यत्वात् । ऐन्द्र्येति तृतीयाश्रुत्याप्यैन्द्री ऋक् शक्य एव विनियोक्तव्या । तस्याश्च शक्तिरिन्द्रप्रकाशन एवेति तस्योपस्थानं कर्तव्यम् । गार्हपत्यशब्दस्तु यज्ञसाधनत्वसाधर्म्यादिनेन्द्रे वर्तितव्यः । सङ्ग्रहश्च–
यद्वा सामर्थ्यरूपत्वाल्लिङ्गं स्यात्प्रबलं श्रुतेः ।
वस्तुशक्त्यनुसारी हि शब्दः सर्वः प्रवर्तते ॥ इति ।
श्रुतिलिङ्गयोः स्वतः प्रामाण्याविशेषाद्विरोधाच्च विकल्प इति द्वितीयः पक्षः । तदुक्तम् ।
तत्र स्वतः प्रमाणत्वं लिङ्गादेः श्रुतिवन्मतम् ।
सामर्थ्यालोचनादेव तादर्थ्यं हि प्रतीयते ॥
गार्हपत्यार्थता श्रुत्येत्युभयोस्तुल्यकालता ।
तेन द्वयोरुपस्थानं विकल्पेन भविष्यति ॥ इति ।
श्रुतिलिङ्गयोरविरोधात्समुच्चय इति तृतीयः पक्षः । तदप्युक्तम्–
समुच्चयेन वा मन्त्रः प्रयुज्येत द्वयोरपि ।
प्रतिप्रधानमावृत्तिर्गुर्णानां न विरुध्यते ।
यद्यपि स्याद्बलीयस्त्वं श्रुतेर्लिङ्गात्तथापि तु ।
अविरोधादबाधः स्यात्सम्भवीह समुच्चयः ॥ इति ।
सिद्धान्तस्तु । यत्र वस्तुतः सर्वथा असामर्थ्यं तत्रैव विनियोगो न सम्भवति । अस्ति त्विन्द्रशब्दस्य गार्हपत्ये गौणं सामर्थ्यम् । अवश्यं च मन्त्रे इन्द्रशब्दस्य ब्रह्मणो गार्हपत्यशब्दस्य वा कस्यचिद-मुख्यार्थत्वं कल्पनीयम् । तच्च प्राप्तार्थे मन्त्र एव युक्तम् । विरोधो लक्षणाया अन्याय्यत्वात् । न च विध्यनुसारेण लक्षणाया गार्हपत्योपस्थाने विनियोगेऽपीन्द्रप्रकाशनशक्तिरूपया मुख्यवृत्या लिङ्गात्मिक-येन्द्रोपस्थाने विनियोगोऽस्त्विति देश्यम् । प्रत्यक्षश्रुत्या शीघ्रं विनियुक्ते मन्त्रे तावतैव मन्त्राम्नातस्य चरितार्थतया लैङ्गिकविनियोगकल्पनानिमित्ताभावात् । तस्माद्गार्हपत्याग्नेरेवोपस्थानं कर्तव्यम् । तदुक्तम्–
तत्र तावद्बलीयस्त्वं लिङ्गस्य न च तुल्यता ।
विनियोगः श्रुतेः पश्चाल्लिङ्गस्यारादसौ स्थितः ।
यावदेवहि मन्त्रार्थो मन्त्रेण प्रतिपाद्यतेे ।
तावदेव श्रुतिर्मन्त्रं गार्हपत्यार्थतां नयेत् ।
मन्त्रार्थं मन्त्रतो बुध्वा पश्चाच्छक्तिं निरूप्य च ।
मन्त्राकाङ्क्षावशे(नेह)नैव शेषत्वे श्रुतिकल्पना ।
श्रुत्या प्रत्यक्षया पूर्वं गार्हपत्याङ्गतां गते ।
निराकाङ्क्षीकृते मन्त्रे निर्मूला श्रुतिकल्पना ।
तेन शीघ्रं प्रवर्तिन्या श्रुत्या लिङ्गस्य बाधनम् ।
प्रत्यक्षे चानुमाने च यथा लोके बलाबलम् ।
शीघ्रमन्थर(शीघ्रमन्थरवृत्तित्त्वा)गामित्वात्तथेह श्रुतिलिङ्गयोः ।
अविरोधादबाधो यो वर्णितः स न युज्यते ।
लिङ्गस्य हि प्रमाणत्वं मन्त्राकाङ्क्षानिबन्धनम् ।
तां च श्रुतिर्निकृन्तन्ती नाविरोधेन गच्छति ।
विरोधे च श्रुतिर्लिङ्गं बलीयस्त्वेन बाधते ।
गार्हपत्ये तु सामर्थ्यं गौणं मन्त्रस्य विद्यते ।
गुणाद्वाप्यभिधानं स्यादित्यत्रैतद्धि साधितम् ॥ इति ।
प्रत्यक्षे चेति । बलाबलं बलं चाबलं चेति द्वन्द्वैकवद्भावः । सर्वो द्वन्द्वो विभाषयैकवद्भवतीति वचनात् । श्रुतिलिङ्गयोः शीघ्रमन्थरगामित्वेन बलाबलचिन्तायां प्रत्यक्षानुमानयोर्निदर्शितत्वात्प्रत्यक्ष-स्यानुमानापेक्षया बलवत्त्वं निश्चितमित्यर्थः ।
ननु परीक्षितस्य मन्थरगामिनोऽपि प्राबल्यमिति चेन् मैवम् । शीघ्रगामिन्यपि सन्घट इति प्रत्यक्षे फलपर्यन्तं परीक्षाया अपि सत्वात् ।
न्यायामृतसौगन्ध्यं
किञ्च प्रत्यक्षस्यासञ्जातविरोधित्वाद् उपक्रमादिन्यायेनापि प्राबल्यम् । उक्तं हि–
असञ्जातविरोधित्वादर्थवादो यथाश्रुतः ।
आस्थेयस्तद्विरुद्धस्य विध्युद्देश्यस्य लक्षणा ।
ननु एकवाक्यस्थपरस्परसापेक्षपदत्वेनोभयोः साम्ये सति उपक्रमस्थवेदपदानुरोधेन उपसंहारस्थ-ऋगादिपदस्य मन्त्रमात्रावाचिनो वेदपरत्वे निर्णीतेऽपि न प्रकृते तन्न्यायः सम्भवति । उभयोस्साम्या-भावाद् गृहीतप्रमाणभावश्रुत्यपेक्षया भ्रमविलक्षणत्वेनानिश्चितस्य प्रत्यक्षस्य न्यूनबलत्वादिति चेन्न । सन् घट इत्यादिप्रत्यक्षेऽपि सजातीयविजातीयसंवादविसंवादाभावरूपपरीक्षायाः सत्वात् । क्वचित्प्रत्यक्षे बाधदर्शनेन सर्वत्र तदापादने स्वापि्नकाद्वैतश्रुतिबाधदर्शनेन त्वदभिमताद्वैतश्रुतावपि तत्प्रसङ्गात् । किञ्च लिङ्गाच्छ्रुतेरिव शीघ्रगामित्वात् प्रत्यक्षस्य प्राबल्यम् । तदुक्तम्–
प्रत्यक्षे चानुमाने च यथा लोके बलाबलम् ।
शीघ्रमन्थरगामत्वात् तथैव श्रुतिलिङ्गयोः ॥ इति ।
न च परीक्षितस्य मन्थरगामिनोऽपि प्राबल्यमिति वाच्यम् । सन् घट इति प्रत्यक्षस्यापि परीक्षितत्वात् ।
न्यायामृतमाधुरी
उपक्रमाधिकरणन्यायेनेति । तृतीयस्य तृतीये चिन्तितम् । ‘‘श्रुतेर्जाताधिकारस्स्यात्’’ । ज्योतिष्टोमे प्रजापतिरकामयतेत्युपक्रम्याग्नेर् ऋग्वेदो वायोर्यजुर्वेद आदित्यात्सामवेद इत्युक्त्वोच्यते । उच्चैर्ऋचा क्रियते उपांशु यजुषोच्चैः साम्नेति । तत्रोच्चैष्ट्वादिकं मन्त्रस्यैव धर्मो न तु वेदस्योपसंहार-गतस्य ऋगादिशब्दस्याप्राप्तविषयप्रधानविध्युद्देशगतत्वेन प्राबल्यादुपक्रमगतस्यापि वेदशब्दस्य तद्विपरीततया दौर्बल्यात् । अत ऋङ्मन्त्रो यस्मिन् कस्मिंश्चिद्वेदे स्थित उच्चैः प्रयोक्तव्यः । एवमन्येऽपि मन्त्रा इति चेत् । उच्चैष्ट्वाद्या वेदधर्माः स्युरुपक्रमगौरवात् । अर्थवादगतोऽपि वेद-शब्दोऽनुपसञ्जातविरोधित्वादुपसञ्जातविरोधिनमृगादिशब्दं मुख्यार्थं प्रच्याव्य वेदे लाक्षणिकत्वं नयति । उपक्रम एवैतदवगतम् । प्रजापतिसृष्टाग्न्यादिसृष्टत्वेन वेदानां स्तवनात्तत्सम्बन्धिकिञ्चिद्विधित्सितमिति तद्विशेषमात्रं विधितः प्राप्तव्यमिति प्राप्तार्थम् ऋगादिपदं लक्षणां सहते । अन्यथोपक्रमोपसंहारयोरेक-वाक्यत्वायोगादिति ऋग्वेदविहितं कर्मोच्चैः कर्तव्यमित्यादिक्रमेण वेदधर्माः स्वरविशेषा इति सिद्धान्तितम् । तस्मादसञ्जातविरोधित्वाद्यथोपक्रमस्योपसंहारापेक्षया प्राबल्यं तथा सन् घट इति प्रत्यक्षस्याप्यद्वैतागमापेक्षया प्राबल्यम् ।
अत्राद्वैतसिद्धिकारः । एकवाक्यस्थपरस्परसापेक्षपदत्वेनोभयोः साम्ये सत्युपक्रमस्थवेदपदानुरोधे-नोपसंहारस्थर्गादिपदानां मन्त्रमात्रवाचिनां कृस्नवेदपरत्वे निर्णीतेऽपि न प्रकृते तन्नाय्यः सम्भवति । उभयोः साम्याभावाद् गृहीतप्रमाणभावश्रुत्यपेक्षया भ्रमविलक्षणत्वेनानिश्चितस्य प्रत्यक्षस्याप्राबल्यम् । अन्यथेदं रजतमिति भ्रमोऽपि इयं शुक्तिरित्याप्तोपदेशापेक्षया प्रबलः स्यादित्याह । तन्मन्दम् । सन् घट इति प्रत्यक्षस्यापि फलपर्यन्तपरीक्षया प्रामाण्यस्य निश्चितत्वेनोभयोः साम्यस्य सुस्थिरत्वात् । इदं रजतमिति भ्रमस्यापरीक्षिततया परीक्षिताप्तोपदेशतुल्यकक्ष्यत्वायोगात् । लिङ्गाच्छ्रुतेरिति । तृतीयस्य तृतीयेऽभिहितम् । ‘‘श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानां समवाये पारदौर्बल्यमर्थविप्रकर्षात्’’ । तत्र श्रुत्यादीनामेकत्र समवाये विरोधे सति बलाबलं चिन्त्यते । ऐन्द्र्या गार्हपत्यमुपतिष्ठते इत्यत्र तृतीयाश्रुत्या ऋचः शेषत्वं द्वितीयया च गार्हपत्यस्य शेषित्वमिति श्रौतोऽयं शेषशेषित्वबोधः । मन्त्रस्थेन्द्रपदेनेन्द्रप्रतीतिमात्रं न तु मन्त्रस्येन्द्रशेषत्वप्रत्ययः । इन्द्रप्रतीत्यनुपपत्या तच्छेषत्वं मन्त्रस्य कल्प्यमिति लैङ्गिकोऽयं विनियोगः । यद्यपि न केवलं श्रुत्या पदार्थान्तरनिरूपितं शेषत्वं शेषित्वं वा बोध्यत इति अस्ति तदंशे वाक्यापेक्षा । तथापि शेषशेषिभावे वाक्यस्याव्यापारात् श्रौत एवायं विनियोगः । तत्र द्वैयोरेकमन्त्रसमवाये लिङ्गं बलवत्सामर्थ्यापेक्षत्वात् श्रुतेरति चेन्न । गौणसामर्थ्यस्य गार्हपत्येऽपि सत्त्वात् । नापि मन्त्रस्योभयत्र विकल्पः । विरोधाभावेन प्रतिप्रधानं गुणावृत्तिन्यायेन समुच्चयोपपत्तेरिति चेत् । श्रुतेर्लिङ्गम् । दुर्बलत्वं प्रपद्यत इत्युत्तरेण सम्बन्धः । न तावत् श्रुतिलिङ्गयोरविरोधः । येनोभयत्र मन्त्रस्य समुच्चयः स्यात् । निरपेक्षश्रुत्या गार्हपत्योपस्थानशेषत्वे मन्त्रस्य प्रथममवगते मन्त्रादर्थं बुध्वा तत्प्रतीतिजननसामर्थ्यं च तस्मिन्नालोच्य मन्त्राकाङ्क्षावशे-नेन्द्रोपस्थानशेषत्वबोधकश्रुतिकल्पनया विलम्बेन विनियोजकं लिङ्गं मन्त्रप्रयोजनाकांक्षालक्षणमूलस्य श्रुत्या निराकृतत्वात् श्रुतिकल्पनायामसमर्थं सद्बाध्यत इति गार्हपत्योपस्थान एव श्रुत्या मन्त्रविनियोग इति स्थितम् ।