सन् घट इत्यादिप्रत्यक्षबाधिताश्च दृश्यत्वादयः
१९. सत्त्वनिरुक्तिः
न्यायामृतं
सन् घट इत्यादिप्रत्यक्षबाधिताश्च दृश्यत्वादयः । ननु किमिदं सत्त्वं यत्प्रत्यक्ष-सिद्धं परजातिर्वा ? असद्वैलक्षण्यं वा ? अर्थक्रियाकारित्वं वा ? प्रमाविषयत्वं वा ? तद्योग्यत्वं वा ? भ्रमाऽविषयत्वं वा ? स्वसमानाधिकरणस्वसमानकालीननिषेधा-प्रतियोगित्वं वा ? अबाध्यत्वं वा ? नाद्याः, सिद्धसाधनात् । न चतुर्थः, असति प्रमाणाप्रवृत्त्या तद्विषयत्वात् प्राक् सत्त्वस्य वक्तव्यतया, तस्य सत्त्वादन्यत्वात् । असतोऽपि व्यवसायद्वारा साक्षाच्च असत्त्वप्रकारकप्रमाविषयत्वाच्च । सत्त्वप्रकारक-प्रमाविषयत्वे चात्माश्रयात् । असत्त्वाप्रकारकप्रमाविषयत्वे चासत्त्वस्य सत्त्वनिरूप्य-त्वेनान्योन्याश्रयात् । अत एव न पञ्चमः । न षष्ठः, सतोऽप्यसत्त्वप्रकारकभ्रम-विषयत्वात् । सत्त्वप्रकारकभ्रमाविषयत्वे चात्माश्रयात् । असत्त्वाप्रकारकभ्रमा-विषयत्वे चान्योन्याश्रयात् । न सप्तमः, संयोगादावव्याप्तेः । शुक्तिरूप्यादे-रधिकरणाद्यभावेनातिव्याप्तेश्च । नाप्यष्टमः, बाध्यस्य प्रतिपन्नोपाधौ त्रैकालिक-सत्त्वनिषेधत्वेनान्योन्याश्रयात् ।
अद्वैतसिद्धिः
ननु ‘सन् घट’ इत्याद्यध्यक्षबाधितविषया दृश्यत्वादय इति चेन्न; चक्षुराद्यध्यक्षयोग्य-मिथ्यात्वविरोधिसत्त्वानिरुक्तेः । तथा हि – न तावत् प्रमाविषयत्वं, तद्योग्यत्वं, भ्रमाविषयत्वं वा तादृक्सत्त्वम् । चक्षुराद्यगम्यभ्रमप्रमाघटितत्वेन चक्षुराद्ययोग्यत्वाद्, वक्ष्यमाणदूषणगणग्रासाच्च । तथा हि – नाद्यः, असति प्रमाणाप्रवृत्तेः प्रमाविषयत्वात्प्राक् सत्त्वस्य वक्तव्यत्वेन तस्य तदन्यत्वात् । सत्त्वनिरूपणं विना सदर्थविषयकत्वरूपप्रमात्वस्य निरूपणे चान्योन्याश्रयात् । मिथ्याभूतस्यापि शुक्तिरजतसंसर्गस्य व्यवसायद्वारा साक्षाच्च निषेध्यत्वादिना प्रमाविषयत्वाभ्युपगमाच्च । नापि द्वितीयः, योग्यताया अनिरूपणात् । न तृतीयः, असिद्धेः । सर्वस्यैव क्षणिकत्वादिना भ्रमविषयत्वाभ्युपगमात् । अत एव नासत्त्वाप्रकारकप्रमाविषयत्वमपि, अन्योन्याश्रयाच्च । नापि सत्त्वप्रकारकप्रमाविषयत्वम्, आत्माश्रयात् । नाप्यसत्त्वप्रकारकभ्रमाविषयत्वं सत्त्वम्, अन्योन्याश्रयात् । नापि प्रतिपन्नोपाधौ त्रैकालिकसत्त्वनिषेधविरहः, आत्माश्रयात् । नापि सत्ता जातिरर्थाक्रियाकारित्वमसद्वैलक्षण्यं वा, एतेषां मिथ्यात्वाविरोधित्वेन तत्प्रत्यक्षेण मिथ्यात्वानुमाने बाधाभावात् । नापि वेदान्त्यभिमत-मिथ्यात्वाभावः सत्त्वम्, तुच्छेऽतिव्याप्तेः । नाप्यसद्विलक्षणत्वे सत्यनारोपितत्वम्, अनारोपितत्वं हि आरोपाविषयत्वम्, तच्चासम्भवि । सर्वस्यापि क्षणिकत्वादिना आरोपविषयत्वात् । नापि अस्तित्वप्रकारकप्रमां प्रति कदाचित् साक्षाद्विषयत्वं कालसम्बन्धित्वं वा सत्त्वम् । अस्तित्वं च वर्तमानत्वम् । न तु सत्त्वमतो नात्माश्रयः । अतीतादिरपि कदाचिद् वर्तत एवेति नाव्याप्तिः । आरोपितं च कालत्रयासंबन्धित्वेन बाधेन बोधितमिति न द्वितीयलक्षणेऽतिव्याप्तिरिति वाच्यम् ।
प्रमात्वस्य सत्त्वघटितत्वेन चक्षुराद्ययोग्यत्वेन च पूर्वोक्तदोषाद्, वर्तमानत्वप्रकारक-प्रमाविषयत्वेऽपि मिथ्यात्वाविरोधाच्च । द्वितीयमपि न मिथ्यात्वविरोधि । शुक्तिरूप्यस्यापि प्रतिभासकालसम्बन्धित्वात् । बाधेन तात्त्विककालत्रय सम्बन्धनिषेधेऽप्यतात्त्विककालसम्बन्धस्या-निषेधात् । नापि तात्त्विककालसम्बन्धित्वं तत् । तात्त्विकत्वस्याद्याप्यनिरूपणात् । निरूपणे वा शैषवैय्यर्थ्यात् ।
न्यायामृततरङ्गिणी
प्रतिज्ञाश्रयं प्रबलप्रमाणविरोधाख्यं दोषं बाधं विवक्षुः प्रमाणज्येष्ठप्रत्यक्षविरोधं तावदाह – सन् घट इतीति ॥ प्रत्यक्षगृहीतसत्त्वविरोधिमिथ्यात्वानुमानं प्रत्यक्षबाधितम्, अग्न्यनौष्ण्यानु-मानवदित्यर्थः । ननु न मिथ्यात्वानुमानस्य प्रत्यक्षविरोधः, प्रत्यक्षगृहीतसत्त्वस्यानुमान-गृहीताविरोधित्वात्, अनुमानगृहीतविरोधिसत्त्वस्य च प्रत्यक्षेणाग्रहादित्यभिप्रायेण सत्त्वं पृच्छति ननु किमिदमिति ॥ प्रत्यक्षसिद्धमनुमानविरोधीति शेषः ॥ परजातिरिति ॥ द्रव्यत्वगुणत्वकर्मत्वव्यापिका सत्ताजातिर्वेत्यर्थः । आद्य–द्वितीय–तृतीयान् निराकरोति नाद्या इति ॥ सिद्धसाधनादिति ॥ अनुमीयमानमिथ्यात्वेनाविरुद्धतया परजात्यादिरूपस्य सत्त्वस्य मिथ्यात्ववादिना मयाऽपि प्रत्यक्षविषयत्वस्वीकारादेतादृशसत्त्वं प्रत्यक्षविषय इति वचनं मां प्रति सिद्धसाधनमित्यर्थः । चतुर्थेऽपि स्वातन्त्र्येण स्वाभावाविषयकप्रमाविषयत्वं वा? यथाकथञ्चित् प्रमाविषयत्वं वा? साक्षात् प्रमाविषयत्वं वा । सत्त्वप्रकारकप्रमाविषयत्वं वा? असत्त्वाप्रकारक-प्रमाविषयत्वं वा? इति विकल्पानभिसन्धायाद्यं दूषयति – असतीति ॥ असता सह संयोगादीन्द्रियसन्निकर्षव्याप्त्याद्यभावेनासति स्वातन्त्र्येण प्रमाणाप्रवृत्तेः प्रमाणप्रवृत्त्यर्थं प्रमाण-प्रवृत्तेः पूर्वं स्वरूपसत्यत्वं वक्तव्यम् । तच्च प्रमाणप्रवृत्त्यधीनप्रमायां निर्वक्ष्यति इति सत्त्व-प्रमयोरन्योन्यापेक्षा स्यादित्यर्थः ।
ननु स्वातन्त्र्येण प्रमाणप्रवृत्त्यर्थमेव संयोगादीन्द्रियसन्निकर्षापेक्षा । अन्यार्थप्रवृत्तप्रमाण-जन्यप्रमाविषयत्वं तु संयोगादिसन्निकर्षादिकं विनैव भविष्यतीति न सत्त्वप्रमयोरन्योन्यापेक्षा इति यथाकथञ्चित् प्रमाविषयत्वमेव सत्त्वमस्त्विति द्वितीयं पक्षं दूषयति – असतोऽपीति ॥ तृतीयं दूषयति – साक्षाच्चेति ॥ चतुर्थं दूषयति – सत्त्वप्रकारकेति ॥ पञ्चमं दूषयति – असत्त्वेति ॥ अत एवेति ॥ चतुर्थपक्षवद् विकल्प्य तद्दूषणेभ्य एवेत्यर्थः ॥ सतोऽपीति ॥ तथा चासम्भव इत्यर्थः । चतुर्थपञ्चमषष्ठानां सत्त्वप्रकाराणां प्रमाभ्रमघटितत्वेन प्रत्यक्षायोग्यत्व-मपि बोध्यम् ॥ शुक्तिरूप्ययोरिति ॥ शुक्तेः परिच्छिन्नत्वेऽप्यसत्त्वाभावात्, शून्यस्या-परिच्छिन्नत्वेऽपि सत्त्वाभावादव्याप्त्यतिव्याप्तिभ्यां नापरिच्छिन्नत्वं सत्त्वमित्यर्थः । शुक्तिरूप्ययोः परिच्छिन्नयोर्मध्ये रूप्य एवासत्त्वं न तु शुक्तौ, तस्या अधिष्ठानत्वेनासत्त्वाभावात् । ब्रह्मशून्ययोरपरिच्छिन्नयोर्मध्ये ब्रह्मण्येव सत्त्वं न तु शून्यस्येत्येवं व्यवस्थितत्वेन नियतत्वेना-परिच्छिन्नत्वातिरिक्तं सत्त्वमन्यदेव वाच्यम् । तच्च भ्रमाधिष्ठानत्वेन शुक्तिकादिजगतोऽपि भविष्यतीति भावः ।
न्यायामृतकण्टकोद्धारः
स्वसमानाधिकरणेति ॥ अत्र स्वसमानकालीननिषेधाप्रतियोगित्वोक्तौ गोत्वादेरश्व-निष्ठात्यन्ताभावप्रतियोगित्वेनाव्याप्तिर्मा भूदित्यत आह– स्वसमानाधिकरणेति ॥ तावन्मात्रोक्तौ घटादेरपि स्वसमानाधिकरणध्वंस(रूपनिषेध)प्रतियोगित्वेनाव्याप्तिः स्यात्, इत्यतः – स्वसमानकालीनेति ॥ सिद्धसाधनादिति ॥ सिद्धस्य मिथ्यात्वविरोधिनः सत्त्वस्य, साधनाद् विषयीकरणादिति यावत् । तेन प्रत्यक्षे कथं सिद्धसाधनत्वं दोषः? इति निरस्तम् । असतीति ॥ प्रमाविषयत्वातिरिक्तमेव सत्त्वं वक्तव्यम्, अन्यथा प्रमाविषयत्वरूपं सत्त्वं कदा स्यादित्युक्ते प्रमाणप्रवृत्तौ सत्यामिति वक्तव्यम् । प्रमाणप्रवृत्तिश्च कदा स्यात्, सत्त्वे सति, इत्यन्योन्याश्रयः ।
ननु सत्त्वे सति प्रमाणप्रवृत्तिरित्येतत् कुत इत्यत उक्तम् – असति प्रमाणाप्रवृत्त्येति ॥ असत्त्वस्येति ॥ सत्त्वाभावस्यैवासत्त्वादिति भावः । प्रमाघटितत्वेन प्रत्यक्षाविषयत्वाच्चेत्यपि बोध्यम् ॥ तवात्मनीति ॥
न्यायामृतप्रकाशः
प्रतिज्ञाश्रयं प्रबलप्रमाणविरोधाख्यं दोषं विवक्षुः प्रमाणज्येष्ठप्रत्यक्षविरोधं तावदाह ॥ सन्घट इतीति ॥ प्रत्यक्षगृहीतसत्त्वविरोधिमिथ्यात्वसाधकमनुमानं प्रत्यक्षबाधितमग्न्यनौष्ण्यानुमानवदित्यर्थः । ननु न मिथ्यात्वानुमानस्य प्रत्यक्षबाधः प्रत्यक्षगृहीतव्यावहारिकसत्त्वस्यानुमानगृहीतपारमार्थिक-सत्त्वनिषेधरूपमिथ्यात्वाविरोधित्वात् । अनुमानगृहीतमिथ्यात्वविरोधिसत्त्वस्य च प्रत्यक्षेणा-ग्रहणादित्यभिप्रायेण सत्त्वं पृच्छति ॥ नन्विति ॥ असङ्गतिपरिहारायाह ॥ यदिति ॥ घटादौ यत्प्रत्यक्षसिद्धमनुमानगृहीतमिथ्यात्वविरोधीति शेषः ॥ परजातिरिति ॥ द्रव्यत्वगुणत्वकर्मत्वव्यापिका सत्ताजातिरित्यर्थः । तद्योग्यत्वमिति ॥ प्रमाविषयत्वयोग्यत्वमित्यर्थः ॥ स्वेति ॥ स्वाधिकरणाधि-करणको यः स्वसमानकालीनो निषेधस्तदप्रतियोगित्वमित्यर्थः । निषेधाप्रतियोगित्वमित्युक्ते घटादेः कालान्तरीयनिषेधप्रतियोगित्वादसम्भवोऽतः स्वसमानकालीनेति । तस्य घटादिसमानकालीनत्वाभावेन तादृशनिषेधाप्रतियोगित्वसत्त्वेन नासम्भवः । तावत्युक्ते स्वसमानकालीनदेशान्तरीयनिषेधप्रतियोगि-त्वात् पुनरसम्भवः स्यादतः स्वसमानाधिकरणेत्युक्तम् । देशान्तरीयनिषेधस्य स्वाधिकरणाधिकरण-कत्वाभावान्नासम्भवः ॥ नाद्या इति ॥ चतुर्थापेक्षया आद्याः, प्रथमद्वितीयतृतीया इत्यर्थः ॥ सिद्धसाधनादिति ॥
ननु इदमयुक्तं सिद्धसाधनताया अनुमान एव वक्तव्यत्वात्प्रत्यक्षेणैतादृशसत्त्वं विषयीक्रियत इत्युक्ते सिद्धसाधनोद्भावनस्याकौशलव्यञ्जकत्वमिति चेत् सत्यम् । सिद्धसाधनात् सिद्धार्थाव-गाहित्वादित्यर्थः । परजात्यादिरूपस्य सत्त्वस्य मिथ्यात्ववादिना मयापि प्रत्यक्षविषयत्वाङ्गीकारा-दनुमाननिषेध्यपारमार्थिकसत्त्वावगाहित्वाभावान्न तेन बाध इति भाव इत्याहुः । वस्तुतस्तु परजात्यादिरूपसत्त्वस्य मिथ्यात्ववादिना मयापि प्रत्यक्षविषयत्वाङ्गीकारादेतादृशसत्त्वं प्रत्यक्षविषय इति भवदीयवचनं मां प्रति सिद्धसाधनं सिद्धार्थसाधकं सिद्धार्थबोधकम् असङ्गतमित्यर्थः । तथा चानुमाननिषेध्यपारमार्थिकसत्त्वावगाहित्वाभावेन भिन्नविषयत्वान्नानुमानस्य तेन बाध इति भावः ॥ असतीति ॥ सत्येव प्रमाणं प्रवर्तते नासतीति तावत्सिद्धं तत्कुत इति पृष्टे प्रमाणप्रवृत्तिप्रयोजकीभूतं सत्त्वं सति वर्ततेऽसति च नास्तीति वक्तव्यम् । एवं च प्रमाणप्रवृत्तिप्रयोजकतया प्रमितिविषयत्वा-त्प्राक् सत्त्वस्यावश्यं वक्तव्यत्वेन प्रमितिविषयत्वस्य सत्त्वादन्यत्वेन तदेव सत्त्वं नेत्यर्थः । किञ्च प्रमाविषयत्वं परम्परया वा साक्षाद्वा । नाद्यः । शुक्तिरजतमहं जानामीति व्यवसायद्वाराऽसतोऽप्यनु-व्यवसायविषयत्वाद् असत्यतिव्याप्तिः । न द्वितीयः । इदं रजतमसदिति असत्त्वप्रकारकप्रमां प्रति असतोऽपि साक्षाद्विषयत्वेनासत्येवातिव्याप्तिरित्याह ॥ असतोऽपीति ॥ आत्माश्रयादिति ॥ सत्त्वलक्षणे सत्त्वप्रवेशादित्यर्थः ॥ अन्योन्याश्रयादिति । सत्त्वज्ञाने प्रतियोगिनः प्राप्त्याऽसत्त्वज्ञानं तज्ज्ञाने तद्धटितसत्त्वज्ञानमित्यन्योन्याश्रय इत्यर्थः ॥ अत एवेति ॥ सत्त्वस्य प्रमाविषयत्वयोग्यत्व-प्रयोजकत्वेन तस्य सत्त्वादन्यत्वादेवेत्यर्थः ॥ सतोऽपीति ॥ घटोऽसन्निति भ्रमसम्भवेन तत्र लक्षणाभावादसम्भव इति भावः ॥ असत्त्वाप्रकारकेति ॥ असत्त्वप्रकारकभ्रमविषयत्वं तदप्रकारक-भ्रमविषयत्वं च नास्तीत्येवं सर्वथा भ्रमाविषयत्वेनैव पर्यवसानं न तु असत्त्वप्रकारकभ्रमविषयत्वेनेति ध्येयम् ॥ अन्योन्येति ॥ पूर्ववदसत्त्वस्य सत्त्वनिरूप्यत्वेनाऽन्योन्याश्रयादिति भावः । संयोगादा-विति ॥ संयोगस्याव्याप्यवृत्तित्वेन संयोगाधिकरणाधिकरणको यः स्वसमानकालीनो निषेधः संयोगात्यन्ताभाव एव तदप्रतियोगित्वाभावेनाव्याप्तिरित्यर्थः ॥ शुक्तीति ॥ रूप्यस्यासतोऽधिकरण-स्यैवाभावेन स्वसमानाधिकरणस्वसमानकालीननिषेधस्यैवाभावेन तदप्रतियोगित्वं विशेषणाभावप्रयुक्त-विशिष्टाभावमादायास्तीत्यर्थः ॥ अन्योन्येति ॥ बाध्यत्वज्ञानेऽबाध्यत्वज्ञानम् । तत्र तस्य प्रतियोगि-त्वात् । अबाध्यत्वज्ञाने च बाध्यत्वज्ञानं बाध्यत्वस्याऽबाध्यत्वरूपसत्त्व घटितत्वादित्यन्योन्या-श्रयादित्यर्थः ।
न्यायकल्पलता
मिथ्यात्वानुमानानि प्रतिज्ञाश्रयप्रबलप्रमाणविरोधाख्यबाधदोषेण प्रत्याचिख्यासुः प्रमाणं तावदाह– सन्घट इतीति । अग्न्यनौष्ण्यानुमानवत्प्रत्यक्षगृहीतसत्त्वविरोधि मिथ्यात्वानुमानं प्रत्यक्षबाधितमित्यर्थः । ननु न मिथ्यात्वानुमानस्य दृश्यत्वादेः प्रत्यक्षेण बाधः । ग्राह्याभावानवगाहित्वात् । अनुमानेन प्रत्यक्ष-गृहीतसत्त्वविरोधिमिथ्यात्वस्यासिसाधयिषितत्वात् । अनुमित्सितमिथ्यात्वविरोधिसत्त्वस्य च प्रत्यक्षेण चाग्रहादिति भावेन सत्त्वं पृच्छति ॥ ननु किमिदमिति ॥ प्रत्यक्षसिद्धमनुमित्सितमिथ्यात्वविरोधीति शेषः । प्रत्यक्षयोग्यमिथ्यात्वविरोधिसत्त्वस्य दुर्वचत्वादिति भावः– परजातिरिति । द्रव्यत्वगुणत्व-कर्मत्वव्यापको सत्ताजातिर्वेत्यर्थः । एवमष्टधा विकल्प्याद्यद्वितीयतृतीयपक्षान्निराह– नाद्या इति । सिद्धसाधनादिति । परजात्यादिरूपसत्त्वस्यानुमीयमानमिथ्यात्वाविरोधितया विवर्तवादिनापि प्रत्यक्ष-विषयत्वस्वीकारादेतादृशसत्त्वं प्रत्यक्षविषय इति वचनं परं प्रति सिद्धसाधनमिष्टाविघातित्वात् । एतेषां सत्त्वप्रकाराणां मिथ्यात्वाविरोधित्वेन तद्ग्राहिप्रत्यक्षेण मिथ्यात्वानुमाने बाधाभावादित्यर्थः । चतुर्थेऽपि स्वातन्त्र्येण स्वाभावाविषयकप्रमाविषयत्वं वा । यथाकथञ्चित्प्रमाविषयत्वं वा । यथाकथञ्चित् साक्षात्प्रमाविषयत्वं वा । सत्त्वप्रकारकप्रमाविषयत्वं वा । असत्त्वाप्रकारकप्रमाविषयत्वं वेति विकल्पान् अभिसन्धायाद्यं दूषयति– असतीति । असता सह संयोगादीन्द्रियसन्निकर्षव्याप्त्याद्यभावेनासति स्वातन्त्र्येण प्रमाणाप्रवृत्तेः, प्रमाणप्रवृत्यर्थं प्रमाणप्रवृत्तेः पूर्वं स्वरूपसत्यत्त्वं वक्तव्यम् । सत्त्वनिरूपणं विना सदर्थविषयकत्वरूपप्रमात्वस्य दुर्निरूपत्वात् । तच्च प्रमाणप्रवृत्यधीनप्रमायां शक्यनिर्वचनं भविष्यतीति सत्त्वप्रमाविषयत्वयोरन्योन्यापेक्षतयाऽन्योन्यज्ञप्तिप्रतिहतिः स्यादित्यर्थः ।
ननु स्वातन्त्र्येण प्रमाणप्रवृत्यर्थं नैव संयोगादीन्द्रियसन्निकर्षाद्यपेक्षा । अन्यार्थप्रवृत्तप्रमाणजन्य-प्रमाविषयत्वं तु संयोगादिसन्निकर्षादिकमन्तरेणैव भविष्यतीति न सत्त्वप्रमाविषयत्वयोरन्योन्यापेक्षेति यथा कथञ्चित् प्रमाविषयत्वमेव सत्वमस्त्विति द्वितीयं पक्षं दूषयति - असतोऽपीति । व्यवसायद्वारा प्रमाविषयत्वादिति बुध्या विवेकेनान्वयः । अनुव्यवसायस्य प्रमात्त्वनियमादिति भावः । तृतीयाभावे हेतुमाह– साक्षाच्चेति । शशविषाणमसदित्यबाधितप्रतीतेरित्यर्थः । चतुर्थस्य चतुर्थं दूषयति– सत्त्वप्रकारकेति । आत्माश्रयात् स्वज्ञप्तावव्यवधानेन स्वापेक्षणादित्यर्थः । चतुर्थस्य पञ्चमं दूषयति– असत्त्वेति । उक्तदूषणातिदेशेन पञ्चमं पक्षम् अपाकरोति- अत एवेति । चतुर्थपक्षवद्विकल्पितदूषणेभ्य एवेत्यर्थः । षष्ठेऽपि भ्रमाविषयत्वमसत्त्वप्रकारकभ्रमाविषयत्वं वा सत्त्वप्रकारकभ्रमाविषयत्वं वा असत्त्वा-प्रकारकभ्रमाविषयत्वं वेति विकल्पानभिप्रेत्याद्यं दूषयति– सतोऽपीति । तथा चैवंविधमसत्व-मसम्भवीत्यर्थः । द्वितीयमनूद्य निराकरोति– सत्त्वेति । तृतीयमपि निराह– असत्त्वेति । चतुर्थ-पञ्चमषष्ठानां सत्त्वप्रकाराणां प्रमाभ्रमघटितत्वेन प्रत्यक्षायोग्यत्वमपि बोध्यम् । अव्याप्त्यतिव्याप्तिभ्यां सप्तमं सत्वपक्षं निराकरोति– न सप्तम इति । अन्योन्याश्रयेणाष्टमं पक्षं दूषयति– नाप्यष्टम इति ।
न्यायामृतमाधुरी
॥ सन् घट इत्यादि ॥ प्रत्यक्षस्य शिष्टप्रमाणाभ्यां प्राबल्येनादौ ग्राह्याभावावगाहितयाऽनुमिति-विघटकज्ञानविषयीभूततद्विरोधस्योक्तिः । वह्न्यनौष्ण्यानुमानमिव जगदलीकत्वानुमानमपि प्रत्यक्ष-बाधितमित्यर्थः । अथ प्रत्यक्षेण यादृशार्थः परिच्छिद्यते तद्व्यतिरेकानुमापकतायामेवानुमानस्य तद्बाध्यता न तदनवगाढार्थव्यतिरेकानुमितिजनकतायाम् । प्रत्यक्षेण पर्वतीयवह्निमत्तानिर्णयेऽपि महानसीयवह्न्यभावानुमानस्य निर्बाधत्वात् । इत्थं च प्रकृतप्रत्यक्षानुमानयोः प्रतियोग्यनुयोगि-भावापन्नार्थग्राहिताविरहेण बाध्यबाधकभावो न सङ्गच्छते इत्ेयभिप्रेत्य शङ्कते ॥ नन्विति ॥ इदं– अनुमानग्राह्याभावप्रतियोगिभूतं प्रत्यक्षेण विषयीक्रियमाणम् । परजातिः पदार्थविभाजकतावच्छेदकी-भूतजातित्रयव्यापिका जातिरित्यर्थः । द्वितीयतृतीययोरपि स्वस्वोत्तरावधिकाद्यताऽविशेषिततया त्रयाणामाद्यपदेन निर्देशः । सिद्धसाधनादिति ॥ स्वबाधयिषितमिथ्यात्वाप्रतिरूपत्वेन प्रत्यक्षस्याद्वैत-वाद्यूरीकृतार्थविषयत्वस्वीकारापत्त्याऽनुमानस्य तद्बाधानवतारादित्यर्थः । प्रमाणाप्रवृत्या प्रमारूपवृत्ते-र्विषयतासम्बन्धेनोत्पादकसामग््रयभावेन । तद्विषयत्वात्् विषयतासम्बन्धेन प्रमारूपवृत्तेः । सत्त्वादन्यत्वादिति । तथा च विषयतासम्बन्धेन प्रमित्यौपयिकस्य सत्वस्य स्वप्रयोज्यताद्रूप्या-योगादिति भावः । विषयतात्वेन प्रमानिरूपितमुख्यविशेष्यताप्रकारतादिकमनुगतमप्यप्रमानिरूपित-विषयताशालित्वं प्रकारताभिन्नत्वरूपमुख्यत्वविशेषितप्रमीयविशेष्यताशालित्वं वा तदिति कल्प-चतुष्टयीमभिसन्दधानः प्रत्याख्याति ॥ सतोऽपीत्यादि ॥ अधिकरणाद्यभावेनेति । सिद्धान्ते अलीकत्वादिति भावः ।
उच्यते– तवात्मनि यत्सत्त्वं तदेवेह मम
न्यायामृतम्
उच्यते– तवात्मनि यत्सत्त्वं तदेवेह मम । उक्तं हि– ‘‘यादृशं ब्रह्मणः सत्त्वं तादृशं स्याज्जगत्यपि’’ इति । तत्र तदनिर्वाच्यं चेदिहापि तथाऽस्तु । सत्त्वा-निर्वचनेऽपि तद्वदेव स्वरूपपारमार्थ्योपपत्तेः । यदि च तत्रानृतव्यावृत्तिमात्रम् अबाधितस्वरूपं वा सत्त्वम् । बाधश्च प्रतिपन्नोपाधौ त्रैकालिकनिषेधः, ज्ञानेन निवृत्तिर्वेति नान्योन्याश्रयः । तर्हीहापि तथाऽस्तु ब्रह्मसाम्यस्यैवापेक्षितत्वात् । अपरिच्छिन्नत्वं तत्र सत्त्वमिति चेन्न, शुक्तिरूप्ययोः परिच्छिन्नत्वे ब्रह्मशून्ययोश्चा-परिच्छिन्नत्वे तुल्येऽपि सत्त्वासत्त्वयोर्व्यवस्थितत्वेन जगत्युक्तपारिभाषिकसत्त्वा-भावस्य ब्रह्मणि परिच्छिन्नत्वरूपसत्त्वाभावस्येवेष्टत्वात् । सौहार्दे तु–
त्रिकालसर्वदेशीयनिषेधाप्रतियोगिता ।
सत्तोच्यतेऽध्यस्ततुच्छे तं प्रति प्रतियोगिनी ॥
सर्वदेशकालसम्बन्धिनिषेधाप्रतियोगित्वं सत्त्वम् । यदवच्छिन्ने संयोगस्तद-वच्छिन्ने तदत्यन्ताभावो नेति न तत्राव्याप्तिः । गगनादेरप्यत्यन्ताभावः केवला-न्वयी नेत्युक्तत्वान्न गगनादावव्याप्तिः । तुच्छमध्यस्तं च उक्तप्रतिषेधप्रतियोगीत्युक्त-त्वान्नातिव्याप्तिरपि ।
अद्वैतसिद्धिः
ननु भवन्मते यत् सत्त्वं ब्रह्मणि, तदेवेह मम । उक्तं हि–
‘यादृशं ब्रह्मणः सत्त्वं तादृशं स्याज्जगत्यपि ।
तत्र स्यात्तदनिर्वाच्यं चेदिहापि तथाऽस्तु नः ।’ इति ।
न च – तत्रापरिच्छिन्नत्वं सत्त्वम्, तच्च न जगतीति वाच्यम् । तुच्छस्यापरिच्छिन्नत्वेऽपि सत्त्वानभ्युपगमान्नापरिच्छिन्नत्वं सत्त्वम् । किं त्वन्यदेव । तच्च ब्रह्मणीव भ्रमाधिष्ठानत्वाच्छुक्ति-कादेरपि भविष्यतीति चेत्, नूनं विवाहसमये कन्यायाः पित्रा निजगोत्रं पृष्टस्य यदेव भवतां गोत्रं तदेव ममापि गोत्रमिति वदतो वरस्य भ्राता भवान्, यतो जामातृश्वशुरयोरेकगोत्रत्वे विवाहानु-पपत्तिवज् जगद्ब्रह्मणोरेकसत्त्वे जगतोऽसत्त्वमेव स्यात् । तथा हि– स्वप्रकाशाद्वितीयचैतन्यरूपत्वमेव ब्रह्मणः सत्त्वम् । तदेव चेज्जडस्यापि जगतस्तदा रजतत्वविरोधिशुक्तिसत्तया रजतस्येव जडत्व-विरोधिस्वप्रकाशसत्तया जगतः स्वरूपतो मिथ्यात्वोपपत्तेः । चैतन्यस्यैवावच्छिन्नानवच्छिन्नाज्ञान-विषयत्वेन सर्वभ्रमाधिष्ठानत्वाभ्युपगमान्न भ्रमाधिष्ठानत्वेन शुक्त्यादेः सत्त्वसिद्धिः । नन्वेवमपि सर्वदेशीयत्रैकालिकनिषेधप्रतियोगित्वमसत्त्वं तुच्छानिर्वचनीयसाधारणम् । तदभावः सत्त्वम् । तच्च ब्रह्मणीव जगत्यपीति ब्रूमः । न च संयोगेऽव्याप्तिः, तस्याव्याप्यवृत्तित्वानभ्युपगमात् । तदभ्युपगमे च व्याप्यवृत्तित्वेनाभावो विशेषणीयः । नापि वियत्यव्याप्तिः, तदत्यन्ताभावस्य केवलान्वयित्वा-नङ्गीकारेण लक्षणस्य विद्यमानत्वादेव । न हि कस्मिंश्चिद् देशे काले वा तस्याभावः, नित्यविभुत्व-भङ्गप्रसङ्गात् । आकाशात्यन्ताभावस्य केवलान्वयित्वाभ्युपगमे च वृत्तिमत्प्रतियोगिकत्वेनाभावो विशेषणीय इति चेन्न । चक्षुराद्ययोग्यानेकपदार्थघटितत्वेनैतादृशसत्त्वस्य ग्रहणे चक्षुरादेरसामर्थ्यात् । न हि सर्वदेशीयत्रैकालिकवृत्तिमत्प्रतियोगिकव्याप्यवृत्तिनिषेधप्रतियोगित्वं कस्यापि प्रत्यक्षम् । येन तदभावः प्रत्यक्षो भवेत् । वृत्तिमत्प्रतियोगिकत्वव्याप्यवृत्तित्वपरित्यागेऽपि सर्वदेशीयत्वत्रैकालिकत्व-योरयोग्यत्वात् ।
ननु स्वदेशकालवृत्तिनिषेधप्रतियोगित्वाभावे गृह्यमाणे कालत्रयमध्ये वर्तमानकालस्य सर्वदेशमध्ये प्रकृतदेशस्यापि प्रवेशेन तत्र निषेधप्रतियोगित्वाभावस्य गृहीतत्वात् तत्संवलितं कालत्रयवृत्ति-सर्वदेशीयनिषेधप्रतियोगित्वरूपं मिथ्यात्वं नानुमानेन ग्रहीतुं शक्यते इति चेन्न । स्वदेशकाल-वृत्तिसकलनिषेधप्रतियोगित्वस्य चक्षुराद्ययोग्यत्वेन तदभावस्य सुतरां तदयोग्यत्वात् । स्वदेशकालवृत्ति-यत्किञ्चिन्निषेधाप्रतियोगित्वस्य मिथ्यात्वाविरोधित्वात् । स्वप्रतियोगिकात्यन्ताभावासामानधिकरण्यस्य च स्वप्रतियोगिकात्यन्ताभावाप्रसिद्ध्या केवलान्वयिनि, सम्बन्धभेदेन घटादौ चासिद्धेः । स्वात्यन्ता-भावयावदधिकरणावृत्तित्वं वा, स्वात्यन्ताभावयत्किञ्चिदधिकरणावृत्तित्वं वेति विकल्पेन पूर्वोक्त-दोषाच्च । तस्मात्तत्प्रकारान्तरस्य निरूपयितुमशक्यत्वान्मिथ्यात्वाविरोधित्वाच्च स्वसमानाधिकरण-यावदत्यन्ताभावप्रतियोगित्वाभावरूपमेव सत्त्वमुपेयम् । तच्च न चक्षुरादियोग्यमित्युक्तम् । ननु यस्मिन्कस्मिंश्चित् स्वदेशकालवृत्तिनिषेधे एतद्देशैतत्कालवृत्तिनिषेधत्वं ज्ञात्वा तेन प्रत्यासत्तिभूतेनोप-स्थापितानां स्वदेशकालवृत्तिसकलनिषेधानां प्रतियोगित्वस्याभावो घटे ग्राह्यः । ततः सार्वकालिक-सर्वदेशीयनिषेधप्रतियोगित्वस्य ग्रहणं घटे दुर्घटमिति चेन्न । एवं सामान्यलक्षणया सर्वनिषेधेषूप-स्थितेष्वपि तत्प्रतियोगित्वाभावस्य चक्षुरादिना ग्रहीतुमशक्यत्वात् । योग्यप्रतियोगिक एव हि संसर्गाभावो योग्यः । न चाशेषनिषेधानां प्रतियोगित्वमतीन्द्रियसाधारणं चक्षुरादियोग्यम् ।
वस्तुतस्तु सामान्यं नेन्द्रियप्रत्यासत्तिः । मानाभावात् । न च महानसीयधूमेन्द्रियसंयोगेन तत्रैव व्याप्तिग्रहे पर्वतीयधूमादनुमितिर्न स्यात्, सामान्यस्य च धूमत्वादेः प्रत्यासत्तित्वे तस्यापि प्रत्यासन्न-त्वात्तत्र व्याप्तिग्रहे ततोऽनुमितिरिति वाच्यम् । पर्वतीयधूमेन्द्रियसन्निकर्षदशायां धूमत्वेन प्रकारेण गृहीतस्मृतव्याप्तेस्तत्र वैशिष्ट्यग्रहसम्भवात् । ‘सुरभि चन्दनम्’ इतिवद् विशेष्येन्द्रियसन्निकर्ष-विशेषणज्ञानासंसर्गाग्रहरूपाया विशिष्टज्ञानसामग्य्राः पूर्णत्वात् । व्याप्तिस्मृतिप्रकारेण वा पक्षधर्मता-ज्ञानस्य हेतुता । महानसीय एव धूमो धूमत्वेन व्याप्तिस्मृतिविषयो भवति । धूमत्वेन पर्वतीयधूमज्ञानं चापि जातम्, तच्च सामान्यलक्षणां विनैव । तावतैवानुमितिसिद्धेः । न च सामान्यप्रत्यासत्तिं विना धूमो वह्निव्यभिचारी न वेति अनुभूयमानः संशयो न स्यात्, प्रसिद्धे धूमे वह्निसम्बन्धावगमाद् अप्रसिद्धस्य चाज्ञानादिति वाच्यम् । प्रसिद्धधूम एव तत्तद्धूमत्वादिना व्याप्तिनिश्चयेऽपि धूमत्वेन तत्संशयोपपत्तेः । तथा चोक्तं मणिकृता ‘घटत्वेनेतरभेदनिश्चयेऽपि पृथिवीत्वादिना तत्र संशयसिषा-धयिषे भवत एवेति । निश्चितेऽप्यर्थे प्रामाण्यसंशयाहितसंशयवद् धूमत्वं वह्निव्याभिचारिवृत्ति न वेति संशयादपि तादृशसंशयोपपत्तेश्च । एतेन वायू रूपवान्न वेति संशयोऽपि व्याख्यातः ।
ननु सिद्धे नेच्छा, किन्तु असिद्धे । सा च स्वसमानविषयकज्ञानजन्या । तच्च ज्ञानं न सामान्यप्रत्यासत्तिं विना । न च सिद्धगोचरसुखत्वप्रकारकज्ञानादेवाज्ञाते सुखे भवतीच्छा । समान-प्रकारकत्वमात्रस्य नियामकत्वादिति वाच्यम् । रजतत्वेन प्रकारेण रजते अनुभूयमाने घटादौ रजतत्वप्रकारकेच्छाप्रसङ्गात् । न च प्रकाराश्रयत्वमपि नियामकम् । रजतभ्रमाच्छुक्ताविच्छानुदय-प्रसङ्गात् । तथा च समानप्रकारकत्वे सति समानविषयकत्वं तन्त्रम् । अत एवाख्यातिपक्षे रजतस्मरणस्यैव शुक्तौ प्रवर्तकत्वमित्यपास्तमिति चेन्न । यतो रजतभ्रमाच्छुक्ताविच्छा नास्त्येव किंत्वनिर्वचनीये रजत इत्यनिर्वचनीयख्यातौ वक्ष्यते । प्रकाराश्रयत्वं नियामकं वदन्नख्यातिवादी परमेवं विभीषणीयः । तथा च प्रकाराश्रयत्वस्य नियामकत्वादन्यथाख्यातिपक्षोऽपि निरस्त एव । न च तर्हि भ्रमत्वं न स्याद्, इदं रजतमिति भ्रमत्वाभिमतज्ञानस्य व्यधिकरणप्रकारत्वानभ्युपगमादिति वाच्यम् । बाधितविषयत्वेन हि भ्रमत्वं न तु व्यधिकरणप्रकारत्वेन, तस्यापि विषयबाधप्रयोज्य-त्वादिति हि वक्ष्यते ।
ननु अभावज्ञानस्य प्रतियोगिज्ञानजन्यत्वात् प्रौढप्रकाशयावत्तेजोविरहरूपस्य तमसः प्रत्यक्षता न स्यात् । सामान्यप्रत्यासत्तिं विना प्रतियोग्यनुपस्थितेरिति चेन्न । अस्मन्मते तमसो भावान्तरत्वात् । न च तथापि तद्व्यञ्जकत्वात्तदपेक्षेति वाच्यम् । स्वरूपसत एव तादृक्तेजोविरहस्य तमोव्यञ्जकत्वम्, न तु ज्ञातस्य मानाभावादित्यभ्युपगमात् । अन्येषां मते तादृक्तेजोविरहज्ञानस्यापेक्षितत्वेऽपि प्रतियोगितावच्छेदकप्रकारकज्ञानादेव तत्सम्भवेन तदर्थं सकलप्रतियोगिज्ञानजनिकायाः सामान्य-प्रत्यासत्तेरनुपयोगात् । न च गोत्वाभावज्ञानं गोत्वत्वप्रकारकज्ञानजन्यम् । तच्च गवेतरावृत्तित्वे सति सकलगोवृत्तित्वरूपं सामान्यप्रत्यासत्तिमन्तरेण न शक्यमवगन्तुमिति साम्प्रतम् । यत्किञ्चिद्गोव्यक्तेरेव गोत्वत्वरूपत्वात् । एतेन प्रागभावप्रतीतिरपि व्याख्याता । किञ्च अनागतज्ञानस्यापेक्षितत्वे अनुमानादेव तद्भविष्यति । तथा च न्यायकुसुमाञ्जलौ
‘‘शङ्का चेदनुमाऽस्त्येव न चेच्छङ्का ततस्तराम् ।
व्याघातावधिराशङ्का तर्कः शङ्कावधिर्मतः ॥’’
इत्यत्र शङ्कोपपादकमनागतज्ञानमनुमानादेवेत्युक्तम् । अनुमानं च– वर्तमानपाकः पाक-पूर्वकालीनः पाकत्वादतीतपाकवदित्यादि । न च चरमपाके व्यभिचारः । साध्यसिद्ध्युपजीवकस्य व्यभिचारज्ञानस्यादोषत्वात् । अन्यथा सिद्ध्यसिद्धिव्याघातात् । किं च शब्दादपि सकलधूम-पाकादिगोचरज्ञानसम्भवः । न च शङ्कादिपूर्वं शब्दस्योपस्थितिनियमाभाव इति वाच्यम् । कदाचिदेव शब्दादनुभूतस्य तदानीं प्रमुष्टतत्ताकस्मृतिसम्भवात् ।
ननु अनुमितेर्विशेषणज्ञानजन्यत्वेन सामान्यप्रत्यासत्तिसिद्धिः । न चानुमानान्तराद्विशेषण-ज्ञानमनवस्थानादिति चेन्न । विशेषणतावच्छेदकप्रकारकज्ञानादेव साध्यविशेषणकपक्षविशेष्यकानु-मितिसम्भवात् । एतेन ‘सुरभि चन्दनम्’ इत्यादिविशिष्टज्ञानाय कल्पिता ज्ञानलक्षणा प्रत्यासत्तिरपि निरस्ता । चन्दनत्वेन सुरभित्वानुमानोपपत्तेः । अन्यथा साध्यविशिष्टपक्षप्रत्यक्षोपपत्तेरनुमान-मात्रोच्छेदप्रसङ्गात् । न च अभावसाध्यककेवलव्यतिरेकिणि साध्यप्रसिद्धेरनङ्गत्वात्तत्र क्लृप्ताया अनुमितिसामग्य्राः प्रत्यक्षसामग्रीतो बलवत्त्वमिति वाच्यम् । अर्थापत्तिवादिभिरस्माभिस्तदनभ्युप-गमात् । पर्वतवृत्तिधूमो वह्निव्याप्य इति परामर्शात् साध्यविशेष्यकपक्षविशेषणकानुमित्यभ्युपगमे तु नैव काप्यनुपपत्तिः । अनुमितेः पक्षविशेष्यत्वनियमे मानाभावात् ।
किं च धूमत्वादिसामान्यं न स्वरूपतः प्रत्यासत्तिः । धूलीपटले धूमभ्रमानन्तरं धूमत्वेन सकलधूमनिष्ठवह्निव्याप्तिग्रहानुदयप्रसङ्गात् । तत्र स्वरूपतो धूमत्वाभावात् । न चेष्टापत्तिः । तदुत्तरकालमनुमित्यनुदयापत्तेः । तथा च धूमत्वज्ञानं प्रत्यासत्तिरिति वाच्यम् । तच्च धूमेन्द्रिय-सन्निकर्षदशायां धूमज्ञानात् प्राङ्नास्त्येव । निर्विकल्पके मानाभावात् । विशिष्टज्ञानत्वेन विशेषण-ज्ञानत्वेन च कार्यकारणभावानभ्युपगमात् । अवश्यक्लृप्तकार्यकारणभावविशेषेणैव सर्वव्यवहारोपपत्तेः । न च धूमत्वेन सन्निकृष्टधूमव्यक्तिज्ञानानन्तरं तत्समानाकारमसन्निकृष्टधूमगोचरं ज्ञानान्तरमुत्पद्यत इत्यत्र मानमस्ति । धूमत्वेन पुरोवर्तिनं धूमं साक्षात्करोमि न व्यवहितमित्यनुभवाच्च । अन्यथा जगतीगतसकलधूमव्यक्तीरहं साक्षात्करोमीत्यनुव्यवसीयेत । न चैवमनुभवमात्रशरणैरभ्युपेयते ।
किं च सामान्यप्रत्यासत्त्यङ्गीकारे यत् प्रमेयं तदभिधेयम्, यत्प्रमेयवत् तदभिधेयवदित्यादि-व्याप्तिपरिच्छेदे सार्वज्ञ्यापत्तिः । न चेष्टैव सा । परज्ञानविषयो घटो न वेत्यादिसंशयानुपपत्तेः । न च घटत्वप्रकारकघटविषयकनिश्चयो घटसंशयविरोधी । प्रमेयमिति निश्चयस्तु घटविषयोऽपि न घटत्वप्रकारक इति वाच्यम् । भासमानवैशिष्ट्यप्रतियोगिन एव प्रकारत्वात् । घटत्वस्यापि प्रमेयमिति ज्ञाने भासमानवैशिष्ट्यप्रतियोगित्वात् । घटत्वप्रकारकनिश्चयस्य घटत्वज्ञानजन्यत्वविशेषणाददोष इति चेत्, न । विशेषणज्ञानत्वेनैव तस्य जनकता वाच्या । तस्याः प्रागेव निरासात् । स्वरूपसम्बन्ध-विशेषाभ्युपगमे चानिर्वचनीयवादापत्तेः, इत्यादिदूषणानि बहुतरमूहनीयानि । तस्मात् सामान्य-प्रत्यासत्त्या निषेधमात्रप्रतियोगित्वोपस्थितौ तदभावग्रहाद् बाध इत्यनुपपन्नमेव । इति सामान्य-प्रत्यासत्तिभङ्गेन लौकिकालौकिकप्रत्यक्षबाधोद्धारः ।
अथ साक्षिबाधोद्धारः । ननु प्रत्यक्षस्य वर्तमानमात्रग्राहित्वे शुक्तिरूप्यादेः प्रतिपन्नोपाधौ त्रैकालिकनिषेधप्रतियोगित्वरूपं मिथ्यात्वं कथं प्रत्यक्षं स्यात् ? अथ तत्र रजतत्वविरोधिशुक्तित्वे साक्षात्कृते तदन्यथानुपपत्त्या च रजतत्वाभावे निश्चिते मिथ्यैव रजतमभादिति तादृङ्निषेधप्रत्ययः स्वसम्बन्धसर्वावभासकेन साक्षिणैवोपपन्नः, तर्हि साक्षात् स्वविषयस्य गगनादेर्भाविकालनिषेधा-प्रतियोगित्वं सकलकालग्राहिणा साक्षिणा गृह्यतामिति चेन्न । साक्षिणो विद्यमानसर्वावभासकत्वेना-विद्यमानभाविबाधाभावभासकत्वानुपपत्तेः । साक्षिज्ञानस्य भ्रमप्रमासाधारणत्वेन प्रमाणाबाधकत्वाच्च ।
ननु ज्ञानप्रामाण्यं गृह्णन् साक्षी घटादिगतमबाध्यत्वं गृह्णात्येव । न हि विषयाबाधमनन्तर्भाव्य प्रमाण्यग्रहणं नाम इति चेन्न । व्यवहारकालाबाध्यत्वमात्रेण प्रवृत्तावपि संवादोपपत्तेः । तद्रूपगत-प्रामाण्यस्य साक्षिणा ग्रहणेऽपि विरोधाभावात् । न हि घटादिज्ञानस्य संवादिप्रवृत्तिजनकतावच्छेदकं प्रामाण्यं त्रिकालाबाध्यविषयकत्वम् । किंतु शुक्तिरूप्यादिज्ञानव्यावृत्तं व्यवहारकालाबाध्य-विषयकसकलज्ञानवृत्ति व्यवहारकालाबाध्यविषयकत्वमेव । तच्च न भाविकालबाधविरोधीत्युक्तम् । भाविकालबाधतदभावौ च न मानं विना साक्षिणा ग्रहीतुं शक्यौ । तस्य विद्यमानमात्रग्राहित्वादिति चोक्तम् । ननु तर्हि देहात्मैक्यज्ञानमुष्णं जलमित्यादिज्ञानं च प्रमा स्यात् । व्यवहारदशायां विषयाबाधाद् इति चेन्न । आब्रह्मज्ञानमबाधितत्वेन तेषामपि घटादिज्ञानसमानयोगक्षेमत्वात् ।
ननु कालान्तरस्थमपि यद् बाधकं तदपि किं यत्कालावच्छेदेन अनेन स्वार्थो गृहीत-स्तत्कालावच्छेदेनैव तन्निषेधति, उतान्यकालावच्छेदेन ? आद्ये कथमस्य प्रामाण्यम् ? अन्त्ये तु अनित्यत्वादिकमेव इति चेन्न । अबाध्यत्वरूपप्रामाण्यस्य प्रपञ्चज्ञाने मयाऽनङ्गीकारात् । यत्काला-वच्छेदेनैवानेन स्वार्थो गृहीतस् तत्कालावच्छेदेनैव तन्निषेधाभ्युपगमात् । तच्च प्रामाण्यं मयाऽभ्युपेयते यद् व्यवहारदशायां विपरीतप्रमारूपबाधकस्यानुत्पन्नत्वादस्त्येव । न च यद् भवतां घटादिबुद्धेः प्रातिभासिकबुद्धितो वैलक्षण्यं विषयस्य व्यावहारिकसत्त्वसाधकं तदेवेह मम विषयस्य पारमार्थिक-सत्त्वसाधकमस्त्विति वाच्यम् । प्रातिभासिकबुद्धिवैलक्षण्यं हि घटादिबुद्धेः सप्रकारकज्ञानाबाध्य-विषयत्वादिरूपम् । तन्न पारमार्थिकसत्त्वं घटादेः साधयितुं शक्तम् । देहात्मैक्यज्ञाने ब्रह्मज्ञाना-व्यवहितभ्रमे च व्यभिचारात् ।
ननु ‘घटस्सन्’, ‘रूप्यं मिथ्या’ इति प्रतीत्योरविशेषे कथं ‘घटो मिथ्या’, रूप्यमिथ्यात्वं न मिथ्या’ इति विशेषः ? न च तदपि मिथ्यैव, रूप्यस्य तात्त्विकत्वापत्तेर् इति चेन्न । मिथ्यात्व-मिथ्यात्वेऽपि यथा न रूप्यस्य तात्त्विकत्वं तत्रोपपत्तेरुक्तत्वात् । न च पारमार्थिकसत्त्वस्य प्रत्यक्षा-गोचरत्वे तन्निषेधश्रुतीनाम् अप्रसक्तप्रतिषेधकता स्यादिति वाच्यम् । तासां चक्षुरादिप्रसक्तद्वैत-निषेधपरत्वात् । पारमार्थिकत्वेन द्वैतनिषेधपरत्वेऽपि नाप्रसक्तनिषेधकत्वम् । परोक्षप्रसक्तेः सम्भवात् । ‘नान्तरिक्षेऽग्निश्चेतव्यः’ इत्यादिवदप्रसक्तप्रतिषेधस्याप्युपपत्तेश्च । न च अतात्त्विकप्रपञ्चे यदि तात्विकत्वमप्यध्यक्षेण न गृह्यते कथं तर्हि तस्यातत्त्वावेदकत्वम् ? न हि तदेव तत्त्वेना-वेदयदतात्त्विकं नाम, दृश्यते च सार्वलौकिकः प्रपञ्चे पारमार्थिकत्वानुभव इति वाच्यम् । न ह्यस्माकं तत्त्वावेदकत्वं तद्वति तत्प्रकारकत्वम्, तद्भिन्नत्वमतत्त्वावेदकत्वम् । किंत्वबाधितविषयकत्वं तत्त्वावेदकत्वम्, बाधितविषयत्वं चातत्त्वावेदकत्वम् । अबाधितविषयत्वं तु श्रौते ब्रह्मज्ञान एव, न तद्भिन्नज्ञाने । तात्पर्यवद्वेदत्वेनैव तत्त्वावबोधकत्वात् । तथा च प्रपञ्चप्रत्यक्षस्य तात्त्विकत्वा-गोचरत्वेऽप्यतत्त्वावेदकत्वं सङ्गच्छते । सार्वलौकिकी पारमार्थिकत्वप्रसिद्धिस्तु जलगतपिपासोपश-मनसामर्थ्यप्रसिद्धिवत् परोक्षतयाऽप्युपपन्ना नापरोक्षत्वपर्यवसायिनी ।
तस्मादध्यक्षयोग्यस्य सत्त्वस्येहानिरुक्तितः ।
नाध्यक्षबाधो मिथ्यात्वलिङ्गस्यात्रोपपद्यते ॥ १ ॥
न लौकिकं न सामान्यजन्यं साक्ष्यात्मकं न च ।
प्रत्यक्षं बाधते लिङ्गं मिथ्यात्वस्यानुमापकम् ॥ २ ॥
इति प्रत्यक्षयोग्यसत्त्वानिरुक्त्या प्रत्यक्षबाधोद्धारः ॥
न्यायामृततरङ्गिणी
ननु जगद्ब्रह्मणोरेकसत्त्वे जगतोऽसत्त्वमेव स्यात् । तथा हि– स्वप्रकाशाद्वितीय-चैतन्य-रूपत्वमेव ब्रह्मणः सत्त्वम् । तदेव चेद् जडस्यापि जगतस् तदा रजतत्वविरोधिशुक्तिसत्तया रजतस्येव जडत्वविरोधिस्वप्रकाशसत्तया जगतः स्वरूपतो मिथ्यात्वोपपत्तेः । चैतन्यस्यैव चावच्छिन्नाज्ञानविषयत्वेन सर्वभ्रमाधिष्ठानत्वाभ्युपगमान् न भ्रमाधिष्ठानत्वेन शुक्त्यादेः सत्त्व-सिद्धिरिति चेत्, मैवम् । भावानवबोधात् । तवाऽत्मनि यत् सत्त्वं, तदेवेह ममेत्यस्य यः स्वभावो ब्रह्मणः स एव जगत इति नार्थः । किन्तु यादृशेन सत्त्वेन मिथ्यात्वप्रतिपक्षेण सत्य-शब्दावगतेन ब्रह्मणि मिथ्यात्वाभावसम्प्रतिपत्तिः, तादृशेन ‘सन् घटः’ इति प्रत्यक्षसमधिगम्येन घटादिगतेन घटादेरपि मिथ्यात्वाभावसम्प्रत्यय इति । न हि स्वप्रकाशत्वादि मिथ्यात्वप्रतिपक्ष-भूतम् । ‘सर्वं प्रमेयम्’ इति ज्ञानस्य स्वप्रकाशस्यापि तव मते मिथ्यात्वात् । अवेद्यत्वादिरूपस्य स्वप्रकाशत्वयुक्तस्याद्वितीयस्य शून्यस्यापि सद्विविक्तत्वादिरूपमिथ्यात्वयुक्तत्वाच्च । ब्रह्मविषयक श्रौतसत्यत्वव्यवहारप्रयोजकराहित्यस्यैव प्रपञ्चे मां प्रति त्वया सिषाधयिषिततया ब्रह्मणि सत्यत्वव्यवहारं प्रति स्वप्रकाशत्वाद्वितीयत्वादेः प्रयोजकत्वे प्रपञ्चे मिथ्यात्वानुमानेन स्वप्रकाशत्वाद्वितीयत्वादिविरहस्यैव साध्यतापत्तौ सिद्धसाधनापत्तेरिति । तस्माद् युक्तम् – यदेवात्मनि सत्त्वम्, तदेवेह ममेति ॥ तं प्रतीति ॥ त्रिकालसर्वदेशीयनिषेधं प्रतीत्यर्थः । तथा च तत्र नातिव्याप्तिरिति भावः । श्लोकं व्याचष्टे – सर्वदेशेति ॥ सम्बन्धीति ॥ संसृष्टेत्यर्थः । सर्वावच्छेदेनेत्यपि बोध्यम् । अत एव संयोगे नाव्याप्तिरित्याह– यदवच्छिन्न इति ॥ वृक्षभिन्ने सर्वत्र देशे विद्यमानस्य संयोगविशेषात्यन्ताभावस्य वृक्षे संयोगो नेति प्रतीत्या वृक्षेऽपि सत्त्वेन सर्वदेशीयस्यापि संयोगात्यन्ताभावस्य सर्वावच्छेदेन वृत्त्यभावाद् यदवच्छिन्ने संयोगस् तदवच्छिन्ने तदत्यन्ताभावो नेति न तत्राव्याप्तिः । ‘सर्वसंसर्गकप्रतियोगिताके’त्यपि विशेषणम् । तेन सर्वस्मिन् काले सर्वस्मिन् देशे सर्वावच्छेदेन विद्यमानो योऽत्यन्ताभावस् तत्प्रतियोगित्वेऽ-प्याकाशादौ नाव्याप्तिः । आकाशादेः समवायेनारोप्यसम्बन्धेनोक्तरूपात्यन्ताभावं प्रति प्रतियोगित्वेऽप्याकाशाद्यत्यन्ताभावस्य सर्वसंसर्गकप्रतियोगित्वाभावात् । संयोगादिना सम्बन्धे-नाकाशस्य विद्यमानत्वेन तेन सम्बन्धेन तदत्यन्ताभावासम्भवात् । तदेवाह– गगनादेरपीति ॥ केवलान्वयी नेति ॥ सर्वसंसर्गकप्रतियोगिताको नेत्यर्थः । उक्तत्वेनेति ॥ उक्तप्रायत्वे-नेत्यर्थः । देशकालावपि ‘सदा सर्वत्र देशकालौ’ इत्यबाधितप्रतीत्या प्रमेयत्वाभिधेयत्ववत् स्ववृत्ती, अन्यान्यवृत्ती च । अन्यथा त्वन्मतेऽपि तयोः प्रातिभासिकत्वं स्याद् इत्यत्रेत्यर्थः ॥
ननु संयोगतदत्यन्ताभावयोरैकाधिकरण्याङ्गीकारे संयोग–तदत्यन्ताभावयोरवच्छेदकभेदेन भिन्नाश्रितत्वस्यैवानुभवेन सत्त्वपक्षे सामानाधिकरण्यायोगादित्यनेन विरोध इति चेत्, न । तार्किकादिसाधारणसत्त्वलक्षणपरैतद्ग्रन्थे संयोगतदत्यन्ताभावयोः सामानाधिकरण्याङ्गीकारस्य मतान्तरे तदनङ्गीकारप्रतिपादकोदाहृतग्रन्थेन विरोधाभावात् । अत्र संयोगतदत्यन्ताभावयोः सामानाधिकरण्यानङ्गीकाराभिप्रायत्वे यत्र संयोगस् तत्र तदत्यन्ताभावो नेत्येवावक्ष्यत्, न पुनर्यद-वच्छिन्ने संयोगस् तदवच्छिन्ने तदत्यन्ताभावो नेतीति ।
न्यायामृतकण्टकोद्धारः
अत्र कश्चित् – नूनं विवाहसमये कन्यायाः पित्रा निजगोत्रं पृष्टस्य यदेव भवतां गोत्रं तदेव ममापीति वदतो वरस्य भ्राता भवान्, यतो जामातृश्वशुरयोरेकगोत्रत्वे विवाहानुपपत्तिवद् जगद्ब्रह्मणोरेकसत्त्वे सत्त्वमेव स्यात् । तथा हि– स्वप्रकाशाद्वितीयचैतन्यरूपत्वमेव ब्रह्मणः सत्त्वम्, तदेव चेद् जडस्यापि जगतः, तदा रजतत्वविरोधिशुक्तिसत्तया रजतस्येव जडत्व-विरोधिस्वप्रकाशसत्तया जगतः स्वरूपतो मिथ्यात्वोपपत्तेरित्याह । तदेतदज्ञाताशयस्य वल्गनम्, स्वव्याहतं च । तथा हि न वयं ब्रह्मसत्त्वमेव जगत्सत्त्वमिति ब्रूमः, येन श्वशुरं प्रति त्वद्गोत्रमेव मद्गोत्रमिति वक्तृवरभ्रातृत्वं स्यात्, किन्तु यादृशं ब्रह्मणः सत्त्वं निरूप्यते, तादृशमेवास्माभिः प्रपञ्चे निरुच्यत इति । न ह्येतावता ब्रह्मसत्त्वमेव जगत्सत्त्वं भवति । न हि त्वत्पुत्रसदृशो मत्पुत्र इत्युक्ते पुत्रैक्यम्, किन्तु गुणसाम्यमेव । एवं प्रकृते सत्त्वनिर्वचन-प्रकारसाम्यमेवायाति । अत एवाह – ‘यादृशं ब्रह्मणः सत्त्वं तादृशं स्याद् जगत्यपि’ । किञ्चास्त्वेकसत्वम्, न ह्येतावताऽपरासत्त्वं भवति, न ह्येकगोत्रत्वेऽपराभावो वा परस्य गोत्राभावो वा परस्यापारमार्थिकगोत्रत्वं वा भवति, किन्तूभयोरपि वास्तवगोत्रत्वम् । यथोभयोर्ब्राह्मणयोरेकब्राह्मण्याश्रयत्वेऽन्यतरस्याब्राह्मणत्वं न भवति, तथा ब्रह्मप्रपञ्चयोरेक-सत्त्वेऽपरासत्त्वं कुतः ? अपि चोभयोरेकसत्त्वे ब्रह्मण एव सत्त्वम्, न प्रपञ्चस्येति कुतः ? विपरीतमेव किं न स्यात् ? न च बहूनां सत्त्वे गौरवम्, एकसत्त्वे लाघवमिति वाच्यम् । प्रामाणिकस्य गौरवस्य न्याय्यत्वात्, प्रमाणानां वक्ष्यमाणत्वात् ।
यच्चोक्तम्–ब्रह्मणि स्वप्रकाशज्ञानानन्दात्मकस्वरूपत्वं सत्त्वमिति, तदतिस्थवीयः । तथात्वे ‘‘सत्यं ज्ञानमनन्तं ब्रह्म’’ इत्यत्र ज्ञानानन्दादिपदैरेव ज्ञानत्वादेर्लब्धत्वात् सत्यपदवैय्यर्थ्यम् । सत्यपदेन हि सत्त्वं प्रतिपाद्यम् । सत्त्वं ज्ञानत्वं चैकमेवेति भवतैवोक्तम् । किञ्च सत्यमित्यनेनैव ज्ञानानन्दादिरूपमिति प्रतीतावानन्दादिपदवैय्यर्थ्यम् । सत्यमित्युक्ते तथा प्रतीतेराभावाच्च । तस्माद् ब्रह्मणि ज्ञानत्वाद्यतिरिक्तं सत्त्वं त्वया निर्वाच्यम्, तादृशमेव जगत्स्वरूपाविरोधि, इति न ब्रह्मसत्त्वेऽपि जगदसत्त्वमित्याशयः ॥
ननु ब्रह्मणि सत्त्वानिर्वचनेऽपि प्रमाणबलात् तत् सत्यमित्यत आह ॥ सत्त्वेति ॥ जगत्यपि प्रमाणबलात् सत्त्वमास्थेयमित्याशयः । अपरिच्छिन्नत्वमिति ॥ तथा चैतादृशसत्त्वस्य जगत्यभावान् न तस्य सत्त्वमिति भावः । एवं तर्हि परिच्छिन्नत्वं सत्त्वमित्यपि केनचिद् वक्तुं शक्यत्वेन ब्रह्मणि तादृशसत्त्वाभावात् तस्यापि सत्त्वं न स्यात् । न च शुक्तिरूप्ययोरुभयोरपि परिच्छिन्नत्वाविशेषेऽपि सत्त्वासत्त्वयोर्व्यवस्थितत्वेन तादृशसत्त्वस्य पारिभाषिकत्वेन तदभावो ब्रह्मणि इष्ट एवेति वाच्यम् । तर्हि ब्रह्मशून्ययोरुभयोरपरिच्छिन्नत्वाविशेषेऽपि सत्त्वासत्त्वयो-र्व्यवस्थितत्वेन तादृशसत्वस्य पारिभाषिकत्वात् तदभावो जगतीष्ट एवेति न जगतोऽप्य-सत्त्वापत्तिरित्याह– शुक्तिरूप्ययोरिति ॥ न च एवं सति ब्रह्मसाम्यप्रतिबन्द्युररीकारो व्याकुप्येतेति वाच्यम् । स हि तदा स्यात्, यद्यपरिच्छिन्नत्वस्य सत्त्वशब्दार्थता स्यात्, सैव न सम्भवति । अन्यथा सत्यानन्दादिपदानां पौनरुक्त्यापत्तेः ॥ तस्मात् सत्त्वशब्दार्थस्यान्यस्यैव वक्तव्यतया तस्य च जगति ममेष्टत्वाद् युक्तं प्रतिबन्दिग्रहणमिति भावः । देशकालेति ॥ सर्वदेशकालसम्बन्धी यो निषेधः, तदप्रतियोगित्वमित्यर्थः । अत्र हि निषेधाप्रतियोगित्वं सत्त्वमित्युक्ते घटादावव्याप्तिः । तस्य प्रागभावरूपनिषेधप्रतियोगित्वात्, अत उक्तम् – सर्वदेशसम्बन्धीति ॥ प्रागभावरूपनिषेधस्य चोपादानदेशमात्रसम्बन्धित्वेन सर्वदेश-सम्बन्धित्वाभावान् नाव्याप्तिः । एवमपि प्रागभावदशायां घट एवाव्याप्तिः । तदा तस्य सर्वदेशसम्बन्धिनिषेधप्रतियोगित्वात् । न च – उपादानदेशातिरिक्तदेशे घटप्रागभावप्रध्वंसा-भावयोरभावात्, अत्यन्ताभावस्य च प्रामाणिकप्रतियोगिकस्य सिद्धान्तेऽनङ्गीकारान् न सर्वदेश-सम्बन्धिनिषेधप्रतियोगित्वं तस्य, इति कथमव्याप्तिः ? इति वाच्यम् । तथापि देशान्तरे घटसंसर्गाभावस्य सद्भावात्, तदभावप्रतियोगिकोटौ घटस्यापि प्रवेशेन घटप्रतियोगिकत्वस्य च घटसंसर्गाभावघटप्रागभावादौ सत्त्वेन सर्वदेशसम्बन्धितादृशनिषेधप्रतियोगित्वस्य घटे सत्त्वेना-व्याप्तेर्दुष्परिहरत्वात् । अतः ‘सर्वकालसम्बन्धी’त्युक्तम् । एवं च तादृशनिषेधस्य प्रागभावोत्तर-कालेऽभावेन सर्वकालसम्बन्धित्वाभावान् नाव्याप्तिः ।
न च एवं देशपदमनर्थकमिति वाच्यम्; सर्वकालसम्बन्ध्यन्योन्याभावरूपनिषेधमादाय घट एवाव्याप्तेः । न च एवं सति घटप्रतियोगिकान्योन्याभावस्याकाशरूपत्वात् सर्वदेशकाल-सम्बन्ध्याकाशरूपान्योन्याभावमादाय घटेऽव्याप्तिः स्यादेवेति वाच्यम् । अभावैकस्वभावत्वेन निषेधस्य विशेषितत्वात् । न च एवमभावैकस्वभावः सर्वकालसम्बन्धी यो निषेधः, तदप्रतियोगित्वमित्येवास्त्विति वाच्यम्; अश्वनिष्ठसर्वकालसम्बन्धिनिषेधप्रतियोगित्वस्य गोत्वे सत्त्वेन तत्राव्याप्तिपरिहारार्थं तदुपादानात् । गोत्वसंसर्गनिषेधप्रतियोगित्वस्य निषेधप्रतियोगि-कोटिप्रवेशेन सर्वकालसम्बन्धिनिषेधप्रतियोगित्वात् तत्राव्याप्तिनिरासाय तदुपादानमावश्यकमेव । न च– एवमपि व्यधिकरणधर्मावच्छिन्नाभावमादाय सम्बन्धान्तरावच्छिन्नाभावमादाय च घटे एवाव्याप्तिरिति वाच्यम् । समानाधिकरणधर्मावच्छिन्नत्वस्ववृत्तिताघटकसम्बन्धावच्छिन्नत्वा-भ्यामभावस्य विशेषितत्वात् । न च एतादृशसत्त्वस्य प्रत्यक्षायोग्यत्वादग्रिमप्रत्यक्षबाधोपवर्णन-मयुक्तमिति – वाच्यम् । यथा प्रत्यक्षयोग्यत्वं तथाऽनुपदमेवोपपादयिष्यते । वस्तुतस्तु – सर्वदेशकालसम्बन्धिनिषेधपदेनात्यन्ताभावस्योक्तत्वादत्यन्ताभावाप्रतियोगित्वमेव सत्त्वमभिमत-मिति न कश्चित् क्षुद्रोपद्रवः । न च संयोगेऽव्याप्तिः, तस्य सार्वदैशिक–त्रैकालिकनिषेध-प्रतियोगित्वादिति वाच्यम् । संयोगस्याव्याप्यवृत्तितानभ्युपगमात् । न च आकाशादावव्याप्तिः । तदत्यन्ताभावस्य केवलान्वयित्वादिति वाच्यम् । ‘अत्रेदानीमाकाशः’ इति प्रतीत्याऽऽकाशस्य देशकालयोः सत्त्वेन तदत्यन्ताभावस्य केवलान्वयित्वानभ्युपगमात् ।
ननु अक्षयोग्यं सत्त्वं पृष्टम्, न चैतदक्षयोग्यम्; सार्वदैशिकत्वत्रैकालिकत्वयोरयोग्यत्वात् । न च स्वदेशकालवृत्तिनिषेधप्रतियोगित्वाभावे गृह्यमाणे कालत्रयमध्ये वर्तमानकालस्य, सर्वदेशमध्ये प्रकृतदेशस्यापि प्रवेशेन तत्र निषेधप्रतियोगित्वाभावस्य गृहीतत्वात् संवलितकाल-त्रयवर्तिसर्वदेशीयनिषेधप्रतियोगित्वरूपं मिथ्यात्वं नानुमानेन ग्रहीतुं शक्यत इति वाच्यम् । स्वदेशकालवृत्तिसकलनिषेधप्रतियोगित्वस्य चक्षुराद्ययोग्यत्वात्, तदभावस्य सुतरामयोग्यत्वात् स्वदेशकालवृत्तियत्किञ्चिन्निषेधाप्रतियोगित्वस्य मिथ्यात्वाविरोधित्वात् । न च स्वप्रति-योगिकात्यन्ताभावासामानाधिकरण्यं विवक्षितमिति वाच्यम्; केवलान्वयिनि स्वप्रति-योगिकात्यन्ताभावाभावेन, घटादौ च सम्बन्धभेदेन स्वप्रतियोगिकात्यन्ताभावसमानाधिकरण-तयाऽव्याप्तेः । स्वात्यन्ताभावयावदधिकरणावृत्तित्वं वा यत्किञ्चिदधिकरणावृत्तित्वं वेति विकल्पेन पूर्वोक्तदोषाच्च । तस्मात् प्रकारान्तरस्य निरूपयितुमशक्यत्वान् मिथ्यात्वाविरोधित्वाच्च स्वसमानाधिकरणयावदत्यन्ताभावप्रतियोगित्वाभावरूपमेव सत्त्वमुपेयम् । तच्च न चक्षुरादि-योग्यमित्युक्तमिति चेत्, न । यदि प्रत्यक्षं वर्तमानमात्रग्राहितया त्रैकालिकबाधाभावग्रहणाक्ष-मम्, तर्हि रजतमिथ्यात्वमपि प्रत्यक्षं न स्यात्; तस्यापि त्रिकालबाध्यरूपत्वेन कालत्रय-घटितत्वात् ।
ननु च तत्र रजतत्वविरोधिशुक्तित्वे निश्चिते तेन च रजतत्वाभावे निश्चिते पश्चात् सहकारिवशात् प्रत्यक्षेण मिथ्यात्वनिश्चयः, केवलस्य वर्तमानमात्रग्राहित्वेऽपि सहकारि-समवहितस्यातीतादिग्राहित्वम् । प्रत्यभिज्ञादौ तथा दर्शनादिति चेत्, न । तर्हि प्रकृतेऽपि प्रत्यक्षप्रामाण्यान्यथानुपपत्त्या मिथ्यात्वविराधिन्येककालसत्त्वे निश्चिते, अथवा तेन त्रिकाला-सत्त्वाभावे निश्चिते तादृशसहकारिवशाच् चक्षुरादिनैव त्रिकालाबाध्यत्वलक्षणसत्त्वनिश्चयो-पपत्तेः । न च मूलप्रत्यक्षप्रामाण्यमनिश्चितमिति वाच्यम्; अग्रे तस्योपपादयिष्यमाणत्वात् । अथवा अस्तु स्वदेशकालवृत्तिनिषेधाप्रतियोगित्वरूपसत्त्वग्राहकत्वं प्रत्यक्षस्य, तावताऽपि त्रिकालासत्त्वग्राहकानुमानागमबाधकत्वं कथम् ? न च एककालसत्त्वस्य व्यावहारिकत्वेन मिथ्यात्वाविरोधित्वमिति वाच्यम् । व्यावहारिकमित्यस्य कोऽर्थः ? व्यवहारमात्रं वस्तुसत्त्वं नास्तीति वा ? अर्थक्रियाक्षमं वा ? नाद्यः । तादृशसत्त्वविषयस्य प्रामाण्यानुपपत्तेः । न द्वितीयः । ततोऽतिरिक्तपारमार्थिकसत्त्वाभावेन सत्त्वेऽपि वा तस्यार्थक्रियाकारित्वव्याप्यत्वेन तस्य मिथ्यात्वविरोधित्वात् । न च स्वदेशकालवृत्तियत्किञ्चिन्निषेधाप्रतियोगित्वं मिथ्यात्वा-विरोधि, स्वदेशकालवृत्तिसर्वनिषेधाप्रतियोगित्वं तु प्रत्यक्षायोग्यमिति वाच्यम्; ज्ञानान्तर-सहकारेण स्वदेशकालनिष्ठसकलनिषेधप्रतियोगित्वस्य सुग्रहत्वात् । न च – ज्ञानरूपप्रत्यासत्त्या प्रत्यासत्त्यनङ्गीकारादयुक्तमिति वाच्यम् । प्रत्यासत्तित्वाभावेऽपि नियामकत्वस्याङ्गीकृतत्वात् । अत एव ज्ञानावच्छेदकत्वेन सर्वं साक्षिगम्यमित्यङ्गीक्रियते । अन्यथा त्रिकालसर्वदेशीयनिषेध-प्रतियोगित्वरूपमिथ्यात्वस्यापि प्रत्यक्षसिद्धत्वं न स्यात् । तस्याप्ययोग्यदेशकालघटितत्वात् । अथवा स्वप्रतियोगिकात्यन्ताभावासामानाधिकरण्यं सत्त्वम्, तस्य प्रत्यक्षेण गृहीतत्वात्, कथं तत्सामानाधिकरण्यरूपं मिथ्यात्वमनुमानेन ग्राह्यम् ? न च केवलान्वयिन्यव्याप्तिः । तस्य स्वप्रतियोगिकात्यन्ताभावाप्रसिद्धेरिति वाच्यम् । मन्मते प्रमेयत्वादिधर्माणामपि प्रत्येकं पर्यवसितत्वेन मया केवलान्वयिधर्मानङ्गीकारात् । न च घटादावव्याप्तिः । तस्य सम्बन्धान्तरेण स्वप्रतियोगिकात्यन्ताभावसमानाधिकरणत्वादिति वाच्यम् । मया विद्यमानपदार्थस्य सम्बन्धान्तरेणाभावानङ्गीकारात्, लाघवात् प्रतियोगित्वस्यैवाभावविरोधित्वात्, प्रतीतेश्च सम्बन्धाभावविषयत्वेनाप्युपपत्तेः । अङ्गीकारे वा स्ववृत्तिताघटकसम्बन्धावच्छिन्नत्वेनाभावस्य विशेषितत्वेन दोषाभावात् ।
न च यत्र कुत्रचित् स्वप्रतियोगिकात्यन्ताभावासामानाधिकरण्यं वा ? यावदधिकरणेषु स्वप्रतियोगिकात्यन्ताभावासामानाधिकरण्यं वा ? आद्ये मिथ्यात्वाविरोधित्वम्, द्वितीये प्रत्यक्षायोग्यत्वमित्युक्तमिति वाच्यम् । स्वप्रतियोगिकात्यन्ताभावसामानाधिकरण्यसामान्या-भावस्य विवक्षितत्वात् । तस्य च ज्ञानान्तरसहकारेण प्रत्यक्षयोग्यत्वसम्भवात् । अन्यथोक्त-सामानाधिकरण्यरूपं रजतमिथ्यात्वं प्रत्यक्षं न स्यादित्युक्तत्वात् । किञ्च यस्मिन् कस्मिंश्चित् स्वदेशकालवृत्तिनिषेधे एतद्देशैतत्कालवृत्तिनिषेधत्वं ज्ञात्वा तेन प्रत्यासत्तिभूतेनोपस्थितानां स्वदेशकालवृत्तिसकलनिषेधानां प्रतियोगित्वस्याभावो घटे सुग्राह्यः । न च सामान्यलक्षणया प्रत्यासत्त्या सर्वनिषेधेषूपस्थितेष्वपि तत्प्रतियोगित्वाभावश्चक्षुरादिना ग्रहीतुं न शक्यते; योग्यप्रतियोगिकस्यैव संसर्गाभावस्य योग्यत्वात्, अशेषनिषेधानां प्रतियोगित्वं चातीन्द्रिय-साधारणमिति न चक्षुरादियोग्यमिति वाच्यम् । अतीन्द्रियसाधारणत्वेऽप्युपनीतस्य प्रतियोगि-त्वस्य योग्यत्वेन तदभावस्य चक्षुरादिना ग्रहीतुं शक्यत्वात्, अतीन्द्रियस्याप्युपनीतस्य परमाणो-र्मानसज्ञानविषयत्ववत् ।
ननु सामान्यं नेन्द्रियप्रत्यासत्तिर् मानाभावादिति चेत्, व्याप्तिग्रहान्यथानुपपत्त्या सामान्य-प्रत्यासत्तेरावश्यकत्वात् । अन्यथा महानसीयधूमेन्द्रियसन्निकर्षे तत्रैव व्याप्तिग्रहे पर्वतीयधूमेन वह्न्यनुमानं न स्यात् । सामान्यप्रत्यासत्तिस्वीकारे हि धूमत्वसामान्यप्रत्यासत्त्याऽतीतानागत-सकलधूमोपस्थितौ जातायां पर्वतीयधूमे व्याप्तेर्गृहीतत्वेन तेन तदनुमानसम्भवात् । यदत्रोक्तं परेण पर्वतीयधूमेन्द्रियसन्निकर्षदशायां धूमत्वेन प्रकारेण गृहीतस्मृतव्याप्तेस्तत्र वैशिष्ट्यग्रह-सम्भवात् सुरभि चन्दनमितिवद् विशेष्येन्द्रियसन्निकर्ष विशेषणज्ञानतदुभयासंसर्गाग्रहरूपाया विशिष्टज्ञानसामग्र्याः पूर्णत्वात् । व्याप्तिस्मृतिप्रकारेण वा पक्षधर्मताज्ञानस्यानुमितिहेतुता । महानसीय एव धूमो धूमत्वेन व्याप्तिस्मृतिविषयः, धूमत्वेन पर्वतीयधूमज्ञानं चापि जातम् । यद्धर्मावच्छेदेन यद्धर्मज्ञानम्, तद्धर्मज्ञानं तदुपनयसामग्रीति नियमात् । तच्च सामान्यलक्षणां विनैव, तावतैवानुमितिसिद्धेरिति । तन्न । तथा सत्यवच्छेदकानुमितौ व्याप्तिग्रहो न स्यात् । न च एतादृशं स्थलमेव नास्तीति वाच्यम् । अयमालोको धूमो वा ? उभयथाऽपि वह्निव्याप्यो भावो वा अभावो वा ? उभयथापि प्रमेयम् । यो वह्निव्याप्यवान् स वह्निमानि’त्यादाव-वच्छेदकानुपस्थितावपि व्याप्तिग्रहदर्शनात् । न च यो वह्निव्याप्यवानिति प्रत्येकवृत्तिव्याप्त्य-वच्छिन्ना महाव्याप्तिर्भासत इति व्याप्यतावच्छेदकोपस्थितिरावश्यकीति वाच्यम् । सकलधूमादि-निष्ठप्रत्येकवृत्तिव्याप्त्यैवोपपत्तौ प्रत्येकवृत्तिव्याप्त्यतिरिक्तधूमालोकसाधारणमहाव्याप्तिकल्पने मानाभावात् । तथा चैतादृशस्थलेष्ववच्छेदकाज्ञानेन व्याप्तिग्रहासम्भवेन तदुपनयासम्भवाद् अनुमानानुदयप्रसङ्गात् सकलधूमोपस्थित्यर्थं सामान्यप्रत्यासत्तिरावश्यकी । किञ्चानागतया पाक-ज्ञानान्यथानुपपत्त्याऽपि सामान्यप्रत्यासत्तिरावश्यकीति । तथा हि – पाकं कृत्या साधयामीति तावदिच्छा जायते, सा च सिद्धे न सम्भवति, असिद्धविषयत्वनियमादिच्छायाः, किन्त्वसिद्धे । सा च स्वसमानविषयकज्ञानजन्येत्यसिद्धपाकादिज्ञानमावश्यकम् । तच्च न सामान्यप्रत्यासत्तिं विना सम्भवति । न च सिद्धगोचरपाकत्वादिप्रकारकज्ञानादेवाज्ञाते पाके भवतीच्छा, समान-प्रकारकत्वमात्रस्य नियामकत्वादिति वाच्यम् । रजतत्वेन रजतेऽनुभूयमाने घटादौ रजतत्व-प्रकारकेच्छाप्रसङ्गात् । न च प्रकाराश्रयत्वमपि नियामकम्, रजतभ्रमात् शुक्तावपीच्छानुदय-प्रसङ्गात् । न च रजतभ्रमात् शुक्ताविच्छा नास्त्येव, किंत्वनिर्वचनीयरजत इत्यनिर्वचनीयख्यातौ वक्ष्यत इति वाच्यम् । ‘अनिर्वचनीयख्यातेरग्रे निराकरिष्यमाणत्वेन तत्रेच्छेत्यस्यासम्भव-दुक्तिकत्वात् । तथा च समानप्रकारकत्वे सति समानविषयकत्वस्यावश्यकत्वेनानागततज्ज्ञानार्थं सामान्यप्रत्यासत्तिस्वीकार आवश्यक एव ॥ यदपि चोक्तं – अनागतज्ञानस्यापेक्षितत्वे अनुमानादेव तद् भविष्यति । अनुमानं च, वर्तमानः पाकः पाकपूर्वकालीनः पाकत्वादतीत-पाकवद् इति । विमतः प्रदेशो धूमवान् प्रदेशत्वात् सम्प्रतिपन्नदेशवद् इत्यादि । शब्दादपि सकलधूमपाकादिगोचरज्ञानोपपत्तेश्चेति । तदपि न । अनुमानस्याभासत्वेन तेनानागतपाकादि-ज्ञानानुपपत्तेः । कथमनुमानस्याभासत्वमिति चेच् चरमपाके पाकत्वसत्त्वेऽपि पाकपूर्व-कालीनत्वाभावेन व्यभिचारात् । न च साध्यसिद्ध्युपजीवकव्यभिचारज्ञानस्यादोषत्वम्, अन्यथासिध्यसिद्धिव्याघातादिति वाच्यम् । तर्कितचरमपाकज्ञानमादाय तत्र व्यभिचार-ज्ञानसम्भवात् । तर्कितस्थले च सिद्ध्यसिद्धिव्याघाताभावात् । अत एव तर्कितानेककर्तृ-ज्ञानमादाय कल्पनागौरवादिदानम् । अन्यथा अनेककर्तृसिद्धौ कल्पनागौरवं न बाधकम्, तदसिद्धौ च कल्पनागौरवेण सुतरां तन्निषेधस्य कर्तुमशक्यत्वमिति सिद्ध्यसिद्धिव्याघातस्य वक्तुं सुकरत्वेन कल्पनागौरवश्रुतहानादिकं किमपि नोद्भाव्यमेव । वस्तुतस्तु आभासलिङ्ग-जन्यत्वेनानुमितेर्भ्रमत्वान् नानागतपाकादिसिद्धिः । द्वितीयप्रयोगस्य च प्रदेशत्वेन धूमा-भावस्यापि साधयितुं सुकरत्वेन प्रतिपक्षग्रस्तत्वान् न विप्रकृष्टादिधूमसिद्धिः । शब्दादपि न सकलधूमादिगोचरज्ञानसम्भवः । सकलधूमाद्युपस्थितिं विना तत्र शक्तिग्रहासम्भवेन सकल-धूमवाचिपदादपि तज्ज्ञानमशक्यमेव ।
यदपि च, अभावज्ञानस्य प्रतियोगिज्ञानजन्यत्वात् प्रौढप्रकाशकयावत्तेजोविरहस्य तमसः प्रत्यक्षता न स्यात् । सामान्यप्रत्यासत्तिं विना प्रतियोग्यनुपस्थितेर् इत्याशङ्क्य तमसः स्वमते भावत्वेन समाहितम् । तत्तुच्छम् । तमसो भावान्तरत्वेऽपि तद्व्यञ्जकत्वेन प्रौढप्रकाशक-यावत्तेजोविरहस्यावश्यापेक्षितत्वात् तस्य च यावत्तेजोरूपप्रतियोगिज्ञानं विना (अवगन्तुं) ज्ञातु-मशक्यत्वात्, तस्य च सामान्यप्रत्यासत्तिं विनाऽसम्भवात् । न च स्वरूपसत एव यावत्तेजो-विरहस्य तमोव्यञ्जकत्वम् । न तु ज्ञातस्य । मानाभावादिति – वाच्यम् । ज्ञातस्यैव व्यञ्जक-ताया आवश्यकत्वात् । अन्यथा ध्वनेरज्ञातस्यैव वर्णव्यञ्जकतापत्तौ ध्वन्यश्रवणेऽपि देशान्तरे ध्वन्युत्पत्ताविह वर्णव्यक्त्यापत्तेः । अत एवालोकोऽपि ज्ञात एव व्यञ्जकः । न च यावत्तेजो-विरहज्ञानस्यापेक्षितत्वेऽपि प्रतियोगितावच्छेदकप्रकारकयत्किञ्चित्प्रतियोगिज्ञानादेव तत्सम्भवे सकलप्रतियोगिज्ञानजनकसामान्यप्रत्यासत्तिस्वीकारो न युक्त इति वाच्यम् । यावत्तेजोविरहज्ञाने यावत्प्रतियोगिज्ञानस्याप्यावश्यकत्वत् । न हि प्रतियोगितावच्छेदकप्रकारकयत्किञ्चित्प्रतियोगि-ज्ञाने यावदभावज्ञानं सम्भवति । तस्माद् यावत्प्रतियोगिज्ञानार्थं सामान्यलक्षणाऽऽवश्यकी ॥
अपि च गोत्वाभावज्ञानं गोत्वत्वप्रकारकज्ञानजन्यम्, तच्च गवेतरावृत्तित्वे सति सकल-गोवृत्तित्वरूपम्, तच्च सामान्यप्रत्यासत्तिमन्तरेण न शक्यमवगन्तुमिति सामान्यप्रत्यासत्त्यङ्गीकार आवश्यक एव । न च – यत्किञ्चिद्गोव्यक्तेरेव गोत्वत्वरूपत्वान् न तदङ्गीकार इति वाच्यम् । गोत्वत्वस्य गोत्ववृत्तित्वाद् गोव्यक्तेश्च तद्वृत्तित्वाभावेन गोव्यक्तिरूपताया वक्तुमशक्यत्वात् ॥
अपि च व्यभिचारसंशयविषयत्वान्यथानुपपत्त्या सामान्यलक्षणाप्रत्यासत्तिरवश्यमङ्गीकर्तव्या । सामान्यप्रत्यासत्तिं विना धूमो वह्निव्यभिचारी न वेत्यनुभूयमानः संशयो न स्यात् । प्रसिद्धधूमे वह्निसम्बन्धावगमात्, अप्रसिद्धस्य च ज्ञानाभावात् । न च प्रसिद्धधूम एव तद्धूमत्वादिना व्याप्तिनिश्चयेऽपि धूमत्वेन तत्संशयोपपत्तिः, अत एव घटत्वेनेतरभेदनिश्चयेऽपि पृथिवीत्वादिना तत्र संशयसिषाधयिषे भवत एव, निश्चितेऽप्यर्थे प्रामाण्यसंशयाहितसंशयवद् ‘धूमत्वं वह्नि-व्यभिचारिवृत्ति न वे’ति संशयादपि तादृशसंशयोपपत्तेश्चेति वाच्यम् । धूमत्वेन संशयासम्भवात्, विशेषप्रकारकनिश्चयस्य सामान्यप्रकारकसंशयविरोधित्वात् । अन्यथा इदंपर्वतीयत्वेन वह्निनिश्चये तत्रैव पर्वतीयत्वेन वह्निसंशयापत्तेः । घटत्वादिनेतरभेदनिश्चयेऽपि पृथिवीत्वादिना संशयादिकं तूपपन्नमेव, निश्चयप्रकारीभूतघटत्वस्य पृथिवीत्वाप्रवेशात् । इह तु धूमत्वस्य तत्तद्धूमत्वप्रविष्टत्वेन विषयत्वात् । ‘धूमत्वं वह्निव्यभिचारिवृत्ति न वे’ति संशयाहितोऽपि संशयो न भवति, धूमत्वस्य वह्निसम्बन्धितावच्छेदकत्वस्य ग्रहणे विरोधिनिश्चयसत्त्वात्, अन्यथा घटत्वप्रकारेण घटनिश्चयेऽपि ‘घटत्वं घटवृत्ति न वे’त्यपि संशयापत्तेः । किञ्च शक्तिग्रहान्यथानुपपत्त्या च तत्स्वीकार आवश्यक एव । तथा हि – सामान्यप्रत्यासत्तिस्वीकारे गोत्वरूपसामान्यप्रत्यासत्या सकलगोव्यक्त्युपस्थितौ सत्यां तत्र गोपदशक्तिग्रहे देशान्तरे ‘गामानये’त्युक्तेऽपूर्वव्यक्ति-लाभोपपत्तिः । अन्यथैकस्यामेव शक्तेर्गृहीतत्वादपूर्वव्यक्तिलाभो न स्यात् । न च शक्त्यनु-भवतत्स्मरणवाक्यार्थज्ञानानां समानप्रकारकत्वेन जन्यजनकभावान् न सकलगोव्यक्त्युपस्थिति-रावश्यकीति वाच्यम् । तथा सति ‘सास्नादिमन्तं पिण्डमानये’त्युक्ते गवानयनं न स्यात्; प्रकारीभूतगोत्वस्यानुपस्थितत्वात् । तथा च न समानप्रकारकत्वेन जन्यजनकभावः । न च सास्नादिमत्त्वमेव तत्र शक्यतावच्छेदकमिति वाच्यम् । लाघवेन गोत्वस्यैव शक्यतावच्छेदकत्व-स्वीकारात् ॥
यदपि चोक्तम् – सामान्यलक्षणाप्रत्यासत्तिस्वीकारे यत् प्रमेयं तदभिधेयम् इत्यादि-व्याप्तिपरिच्छेदे सार्वज्ञ्यापत्तिरिति, इष्टापत्तेः । न च – एवं सति परज्ञानविषये ‘घटो न वे’ति संशयानुपपत्तिरिति वाच्यम् । समानप्रकारकसमानविषयकनिश्चयस्यैव संशयविरोधित्वेन घटत्व-प्रकारकघटविषयकनिश्चयस्य संशयविरोधित्वात् तदभावादेव तदुपपत्तेः । प्रमेयत्वप्रकारकनिश्चयस्य घटविषयकत्वेऽपि घटत्वप्रकारकत्वाभावात् । न च – भासमानवैशिष्ट्यप्रतियोगिन एव प्रकारत्वाद् घटत्वस्यापि ‘प्रमेयमि’ति ज्ञाने भासमानवैशिष्ट्यप्रतियोगित्वात् प्रकारत्वमिति वाच्यम् । उक्तप्रकारत्वस्यासम्भवित्वात् । किमत्र भासमानं यद्वैशिष्ट्यं तत्प्रतियोगित्वमित्यर्थः ? उत भासमानं यद्वैशिष्ट्यप्रतियोगित्वं तत्त्वमिति वा ? नाद्यः । गवि गोत्वमित्यत्र गोत्वस्यापि प्रकारतापत्तेः । नान्त्यः; ‘प्रमेय’मिति ज्ञानस्य सर्वप्रकारतापत्तेः । तस्मात् स्वरूपसम्बन्धविशेष एव प्रकारत्वम् । एवं च प्रमेयमिति ज्ञाने घटत्वस्य प्रकारत्वाभावाद् विरोधिनिश्चयाभावेन संशयाद्युपपत्तेर्न सार्वज्ञ्यापत्तिः । न च – स्वरूपसम्बन्धविशेषाभ्युपगमेऽनिर्वचनीयवादापत्तिरिति वाच्यम् । विद्यमानस्वरूपस्यैव सम्बन्धत्वाभ्युपगमेन स्वरूपहान्यभावादनिर्वचनीयवादानापत्तेः । न हि स्वरूपसम्बन्धविशेषो नाम स्वरूपस्यानिर्वचनीयत्वम्; येनानिर्वचनीयवादापत्तिः स्यादिति यत्किञ्चिदेतत् ।
यदप्युदितम् – मानाभावाद् ज्ञानलक्षणा प्रत्यासत्तिरपि निरस्तेति, तत्तुच्छम् । ‘सुरभि चन्दनमि’त्यादिविशिष्टप्रत्यक्षस्यैव प्रमाणत्वात् । नन्वत्र चन्दनत्वेन सुरभित्वानुमानोपपत्तेर्नेदं विशिष्टप्रत्यक्षम् । अन्यथा साध्यविशिष्टपक्षप्रत्यक्षोपपत्तेरनुमानमात्रोच्छेदप्रसङ्गादिति चेत्, न । तथा सति ‘घटो रूपवानि’त्यादावपि घटत्वेन रूपवत्त्वानुमानोपपत्तेर्विशिष्टप्रत्यक्षता न स्यात् । विशिष्टप्रत्यक्षत्वानुभवस्योभयत्रापि (अविशेषात्) तुल्यत्वात् । न च एवं पर्वतो वह्निमानित्यादौ प्रत्यक्षमेव स्यादिति वाच्यम् । अत्र हि वह्निप्रत्यक्षमापाद्यमानं किमलौकिकम् ? लौकिकं वा ? नाद्यः । अलौकिकप्रत्यक्षसामग्र्याः समाने विषये मानान्तरसामग्रीतो दुर्बलत्वात् । अन्यथा शब्दादिस्थलेऽपि पदादिस्मारितपदार्थानां मनसैव संसर्गप्रत्यक्षसम्भवेन मानान्तरविलयापत्तेः ।
ननु यदि मानान्तरसामग्रीतोऽलौकिकप्रत्यक्षसामग्री दुर्बला, तर्हि वस्तुतः स्थाणुशाखादौ करादिभ्रमात् संशयोत्तरप्रत्यक्षस्थले पुरुषभ्रमो न स्यात्, तस्यालौकिकत्वात्, किन्त्वनुमितिरेव स्यात् । न च – भ्रमानुमितिसामग्र्यपेक्षयाऽलौकिकप्रत्यक्षसामग्री प्रबलेति तत्रालौकिक-प्रत्यक्षमेव भ्रमरूपा भवति, नानुमितिरिति वाच्यम् । तथा सति धूलीपटले धूमभ्रमाद् वह्न्यनु-मितिर्न स्यादिति चेत् । मैवम् । फलबलेन दोषघटितसामग्य्रा बलवत्त्वकल्पनात् । पुरुष-प्रत्यक्षस्थले चालौकिकसामग्र्यां दोषानुप्रवेशेन प्रत्यक्षमेव भवति । धूमभ्रमाद् वह्न्यनुमितिस्थले चानुमितिसामग्र्यां दोषानुप्रवेशादनुमितिरेव, न तु प्रत्यक्षम्, इति न क्वाप्यनुपपत्तिः । न द्वितीयः । लौकिकविशेषणसन्निकर्षाभावेन लौकिकप्रत्यक्षासम्भवात् । न च तस्य कारणत्वे मानाभाव इति वाच्यम् । तदितरसकलतद्धेतुसत्त्वे पर्वते वह्न्यनुमितिसमये तद्विशिष्टप्रत्यक्षा-नुत्पादस्यैव तत्र मानत्वात् । न च अत्र प्रत्यक्षमेवोत्पद्यत इति वाच्यम्; ‘वह्निमनुमिनोमी’त्य-बाधितानुभवविरोधात् । किञ्चाभावसाध्यके केवलव्यतिरेकिणि साध्यप्रसिद्धेरनङ्गत्त्वात् तत्र क्लृप्ताया अनुमितिसामग्र्याः प्रत्यक्षसामग्रीतो दुर्बलत्वमावश्यकमिति नानुमानमात्रोच्छेदः । न च अर्थापत्तिवादिभिरस्माभिस्तदनभ्युपगमात् स्यादेवोक्तदोष इति वाच्यम् । व्याप्तिप्रतीति-मपेक्ष्यार्थप्रतीतिजनकत्वरूपानुमानत्वस्यार्थापत्तौ सत्त्वेन तस्या अनुमानताया आवश्यकत्वात् । अन्यथा धूमस्याप्यनुमानत्वं न स्यात् । तस्मात् सामान्यप्रत्यासत्तिस्वीकारे बाधकाभावात्, साधकसद्भावाच्च तया निषेधमात्रप्रतियोगित्वोपस्थितौ तदभावस्य सुग्रहत्वाद् बाध इत्युपपन्नम् । इदं च सामान्यप्रत्यासत्तिमादाय बाधवर्णनम् । तत्र च परोक्तयुक्तिखण्डनं च न्यायमतानुसारेण । अन्यथाऽस्मदीयसामान्यप्रत्यासत्त्यनभ्युपगमस्य परेणावगतत्वादनुक्तोपालम्भापत्तेः । न च सामान्यप्रत्यासत्तिदूषणखण्डनाद् भवतामपि सामान्यलक्षणप्रत्यासत्तिस्वीकारापत्तिरिति वाच्यम् । मन्मतेऽनुगतसामान्यस्यैवाभावेन तत्प्रत्यासत्तित्वस्य दूरनिरस्तत्वात् ।
किञ्च ज्ञानप्रामाण्यं गृह्णन् साक्षी घटादिगतमबाध्यत्वं गृह्णात्येव । प्रामाण्यस्य विषयाबाधरूपत्वेन ततोऽतिरिक्तस्याभावात् । न च साक्षी भ्रमसाधारण इति वाच्यम् । तर्हि तेन निश्चितस्यैक्यागमस्य प्रामाण्यमविश्वसनीयं स्यात् । ततश्चैक्यज्ञानप्रामाण्यस्याप्यनिश्चयः स्यात् । न च – अन्यप्रमाणेन तत्प्रामाण्यनिश्चय इति वाच्यम् । प्रमाणान्तरप्रामाण्येऽप्य-निश्चयेनानाश्वासात् । साक्षी च स्वयम्प्रकाशः स्वप्रामाण्यं परप्रामाण्यं चावधारयतीत्यकामेनापि स्वीकरणीयम् । अन्यथा क्वापि प्रामाण्यसिद्धिर्न स्यादिति ।
ननु व्यवहारकालाबाध्यत्वमात्रेण प्रवृत्तावविसंवादोपपत्तेस् तद्रूपप्रामाण्यस्य साक्षिणा ग्रहणेऽपि न विरोधः । न च घटादिज्ञानस्य संवादिप्रवृत्तिजनकतावच्छेदकं प्रामाण्यं त्रिकाला-बाध्यविषयकत्वमिति तद्ग्रहणे कथं न विरोधः ? इति वाच्यम् । शुक्तिरूप्यादिज्ञानव्यावृत्तस्य व्यवहारकालाबाध्यविषयत्वस्यैव तदवच्छेदकत्वात्, तस्य च भाविकालविरोधित्वाभावात् । भाविकालाबाधाभावश्च न साक्षिणा ग्रहीतुं शक्यः । तस्य विद्यमानमात्रग्राहकत्वादिति चेत् । मैवम् । व्यवहारकालाबाध्यत्वं ह्यबाध्यत्वभावेप्यबाध्यत्वेन व्यवहारमात्रमिति वा ? अर्थक्रियारूपव्यवहारनिर्वाहहेतुभूतमबाध्यत्वं वा ? नाद्यः । तथा सत्येतादृशस्यापि संवादि-प्रवृत्त्युपयुक्तत्वाभावेन तद्ग्राहिणः साक्षिणः प्रामाण्यं न स्यात् । न द्वितीयः । इतोऽतिरिक्त-त्रिकालाबाध्यत्वाभावेन साक्षिणाऽस्य ग्रहणे तद्वाधस्यापरिहारात् । न च तस्य विद्यमानमात्र-ग्राहित्वमिति वाच्यम् । अस्या व्यवस्थाया मिथ्यात्वसिद्धु्यत्तरकालीनत्वेनान्योन्याश्रयात् ।
अपि च कालान्तरस्थमपि यद् बाधकं तदपि किं यत्कालावच्छेदेनानेन स्वार्थो गृहीतः, तत्कालावच्छेदेनैव ? उतान्यकालावच्छेदेन ? आद्ये कथमस्य प्रामाण्यम् ? अन्त्ये त्वनित्य-त्वादिकमेव स्यात् । न च अबाध्यत्वरूपप्रामाण्यस्य मया प्रपञ्चज्ञानेऽनङ्गीकारेण यत्काला-वच्छेदेनानेन स्वार्थो गृहीतस् तत्कालावच्छेदेन तन्निषेधोऽभ्युपगम्यत इति वाच्यम् । अबाध्यत्व-रूपं प्रामाण्यं प्रपञ्चज्ञाने साक्षिणा सुग्रहमित्युपपादितत्वेन त्वदङ्गीकारस्य निर्मूलत्वेन प्राति-भासिकवैलक्षण्येन घटादेः पारमार्थिकसत्त्वस्य साधयितुं शक्यत्वाच्च । न च सप्रकारक-ज्ञानाबाध्यत्वादिरूपस्य प्रातिभासिकवैलक्षण्यस्य न पारमार्थिकसत्त्वसाधकत्वम् । देहात्मैक्ये ब्रह्मज्ञानाव्यवहितभ्रमविषये च व्यभिचारादिति वाच्यम् । देहात्मैक्यादेः सप्रकारक-ज्ञानबाध्यत्वस्योक्तत्वेन व्यभिचाराभावात् ।
किञ्च ‘घटः सन्’ ‘रूप्यं मिथ्ये’ति प्रतीत्योरविशेषे कथं घटसत्त्वं मिथ्या ? रूप्य-मिथ्यात्वममिथ्येति विशेषः ? न च तदपि मिथ्यैव रूप्यतात्त्विकतापत्तेः । यदत्र वक्तव्यम्, तत् सामान्यतो मिथ्यात्वभङ्ग एवोक्तमिति तत्रैवावगन्तव्यम् । किञ्च पारमार्थिकसत्त्वस्य प्रत्यक्षा-गोचरत्वे कथं तन्निषेधः ? अप्रसक्तत्वात् । न च अपरोक्षप्रसक्त्यभावेऽपि परोक्षप्रसक्तेः सम्भवान् निषेधोपपत्तिः । ‘‘नान्तरिक्षे न दिवी’’त्यादिवदप्रसक्तस्यापि निषेधसम्भवाच्चेति – वाच्यम्; पक्षीकृतातीन्द्रियप्रपञ्चविषये वेदस्य तदुपजीव्यनुमानस्य वाऽपेक्षितत्वात् तस्य चोपजीव्यत्वेन धर्मिग्राहकतया प्रबलेन वाधे निषेधकस्याप्रामाण्यापत्तेः । अप्रसक्तप्रतिषेधोऽप्यनु-पपन्नः । ‘‘नान्तरिक्षे’’ इत्याद्यप्रसक्तनिषेधस्तु ‘‘हिरण्यं निधाय चेतव्यमि’’ ति विधिस्तुत्यर्थः । न च प्रकृते पारमार्थिकत्वनिषेधस्य विधिस्तुतिरूपं प्रयोजनमस्ति । वेदान्तानां लक्षणया ब्रह्मपरत्वाङ्गीकारेण स्तुत्यर्थत्वासम्भवात् । किञ्च प्रपञ्चतात्त्विकत्वागोचरत्वे कथं प्रत्यक्षस्या-तत्त्वावेदकत्वम् ? न च न प्रत्यक्षस्य तत्त्वावेदकत्वम्, तद्ध्यबाधितविषयकत्वम्, न च तदस्ति प्रत्यक्षे, किन्तु श्रौतज्ञान एवेति वाच्यम् । अस्य मिथ्यात्वसिद्धु्यत्तरकालीनत्वेनेतरेतरा-श्रयत्वात् ॥
तस्मादध्यक्षयोग्यस्य सत्त्वस्येह निरुक्तितः ।
प्रत्यक्षबाधो मिथ्यात्वलिङ्गस्यात्रोपपद्यते ॥
लौकिकं चैव सामान्यजन्यं साक्ष्यात्मकं त्वपि ।
प्रत्यक्षं बाधते लिङ्गं मिथ्यात्वस्यानुमापकम् ॥
न्यायामृतप्रकाशः
इह जगति । तत्र ब्रह्मणि । तत् सत्त्वम् । अनिर्वाच्यं निर्वक्तुमशक्यमित्यर्थः ॥ इहापीति ॥ जगत्यपि निर्वक्तुमशक्यमित्यर्थः । दूषणान्तरमाह ॥ सत्त्वेति ॥ ब्रह्मणि सत्त्वस्य निर्वक्तुमशक्य-त्वेऽपि यथा तत्परमार्थसद्रूपम् एवं जगन्निष्ठसत्त्वस्यापि निर्वक्तुमशक्यत्वेऽपि ब्रह्मवदेव परमार्थ-सद्रूपमस्त्वित्यर्थः । तत्र ब्रह्मणि ॥ अनृतेति ॥ अपोहवादाश्रयणेनेत्यर्थः । ‘‘अनृतजडविरोधि-रूप’’मित्यादितद्वचनात् । नन्वबाधितस्वरूपं सत्त्वं चेद्बाधस्य त्रैकालिकसत्त्वनिषेधरूपत्वेन पूर्वोक्तरीत्याऽन्योन्याश्रय इत्यत आह ॥ बाधश्चेति ॥ निषेधः स्वरूपनिषेधः । तथा च बाधो न सत्त्वघटित इत्यर्थः । ननु ब्रह्मजगतोरेकप्रकारसत्ताकत्वे जगतो ब्रह्मसाम्यापत्तिरित्यत आह ॥ ब्रह्मसाम्यस्यैवेति ॥ पारमार्थिकसत्त्वरूपधर्मेणेत्यर्थः ।
ननु ‘‘यादृशं ब्रह्मणस्सत्त्वं तादृशं स्याज्जगत्यपी’’त्ययुक्तम् । कुत इत्यत आह ॥ अपरिच्छिन्नत्वमिति ॥ तत्र ब्रह्मणि न हि जगत्येतादृशं सत्त्वं वक्तुं युक्तमित्याशयः ॥ शुक्तिरूप्ययोरित्यादि ॥ अयमत्रोत्तरक्रमः । यथाऽपरिच्छिन्नत्वं सत्वमङ्गीकृत्य जगति तदभावा-त्सत्त्वं नास्तीत्युच्यते एवं वयमपि वदामः । परिच्छिन्नत्वमेव सत्त्वं ब्रह्मणि तु तदभावात्तत्रापि सत्त्वं नास्तीति ।
ननु परिच्छिन्नत्वं सत्त्वं न भवति शुक्तिवद्रूप्यस्यापि परिच्छिन्नत्वेन तत्रातिव्याप्तेरिति चेत्तर्ह्यपरिच्छिन्नत्वमपि न सत्त्वं शून्यवादिना शून्यस्याप्यपरिच्छिन्नत्वाङ्गीकारेण शून्येऽतिव्याप्तेः । एवं च अपरिच्छिन्नत्वं सत्त्वमिति स्वीकुर्वता त्वया ब्रह्मशून्ययोरपरिच्छिन्नत्वे तुल्येऽपि ब्रह्मण्येव सत्त्वमस्ति न शून्य इति यथा सत्त्वासत्त्वयोर्व्यवस्थितत्वं स्वीकृतम् एवं परिच्छिन्नत्वं सत्त्वमिति स्वीकुर्वता मयापि शुक्तिरूप्ययोः परिच्छिन्नत्वे समानेऽपि शुक्तावेव सत्त्वं न रूप्य इत्यपि सत्त्वासत्त्वयोर्व्यवस्थितत्वमेव स्वीकृतम् । सति चैवं ब्रह्मणि मदभिप्रेतपारिभाषिकपरिच्छिन्नत्वरूप-सत्त्वाभावेऽप्यपरिच्छिन्नसद्रूपं ब्रह्म भवति । एवं जगत्यपि त्वदभिप्रेतपारिभाषिकापरिच्छिन्नत्वरूप-सत्त्वाभावेऽपि परिच्छिन्नसद्रूपत्वेनैवोपपत्तेर् अपरिच्छिन्नत्वं सत्त्वमित्यङ्गीकृत्य जगति तदभावेनासत्त्वं न वक्तव्यमिति । प्रतिबन्द्या अनुत्तरत्वादाह ॥ सौहार्दे त्विति ॥ सुहृद्भावेन विचारे त्वित्यर्थः । तं प्रति त्रिकालसर्वदेशीयनिषेधं प्रति । श्लोकं व्याचष्टे ॥ सर्वेति ॥
ननु वृक्षकपिसंयोगस्तावदितरत्र कुत्रापि नास्ति । स्वयं यत्रास्ति तत्रापि तदत्यन्ताभावोऽस्त्येव । संयोगस्याव्याप्यवृत्तित्वेन स्वात्यन्ताभावसमानाधिकरणत्वात् । अतः सार्वदैशिकनिषेधप्रतियोगित्व-सद्भावेन तदप्रतियोगित्वाभावादव्याप्तिरित्यत आह ॥ यदवच्छिन्न इति ॥ भावे क्तः, यदवच्छेदे-नेत्यर्थः । आवयोर्मते संयोगस्य स्वात्यन्ताभावसामानाधिकरण्यरूपाव्याप्यवृत्तित्वस्यासम्मतत्वेन यत्प्रदेशावच्छेदेन संयोगस्तत्प्रदेशावच्छेदेनैव तदत्यन्ताभावाभावान्न सार्वदैशिकनिषेधप्रतियोगित्वमिति नाव्याप्तिः ।
नन्वथापि गगनादिनित्यद्रव्यात्यन्ताभावस्य केवलान्वयित्वेन सार्वदैशिकत्वाद्गगनादौ सार्वदैशिक-निषेधप्रतियोगित्वस्यैव सद्भावेनाव्याप्तिरित्यत आह ॥ गगनादेरपीति ॥ उक्तत्वादिति ॥ देश-कालावपि सदा सर्वत्र देशकालावित्यबाधितप्रतीत्या प्रमेयत्वाभिधेयत्ववत्स्ववृत्ती अन्योन्यवृत्ती चेत्युक्तत्वेन देशकालयोर्देशकालयोरेव सत्त्वेन न सार्वदैशिकनिषेधप्रतियोगित्वम् अतो नाव्याप्ति-रित्यर्थः ॥ तुच्छेऽध्यस्ते चातिव्याप्तिं परिहरति ॥ तुच्छमिति ॥ उक्तत्वादिति । ‘‘अध्यस्ततुच्छे तं प्रति प्रतियोगिनी’’ इति कारिकायामुक्तत्वादित्यर्थः । मन्मतेऽध्यस्तस्य तुच्छत्वेऽपि पररीत्येयमुक्ति-रिति ज्ञातव्यम् ।
सत्वस्य लक्षणे कृत्यं पदानां तु विचार्यते ।
विद्वत्प्रमोदकः स स्याद् दयया श्रीपतेर्गुरोः ॥
तथा हि । अत्र लक्षणे विद्वत्प्रमोदार्थं पदकृत्यादिविचारः क्रियते । तथा हि । सार्वदैशिक-सार्वकालिकनिषेधाप्रतियोगित्वं सत्त्वमित्यत्र सार्वदैशिकनिषेधाप्रतियोगित्वं सत्त्वमित्येवोक्ते समवायि-कारणनाशजन्यनाशप्रतियोगिनि किञ्चित्कालमनाश्रिततया विद्यमाने पटेऽव्याप्तिः स्यात् । तस्य पटस्य कपालादिदेशेष्वभावस्य सर्वसम्मतत्वेन स्वसमवायिदेशेऽवस्थानेन भाव्यम् । समवायिकारणाभावा-त्तत्रावस्थानासम्भवेन सार्वदैशिकनिषेधप्रतियोगित्वसद्भावेन तदप्रतियोगित्वाभावादव्याप्तिः स्यादतः सार्वकालिकेत्युक्तम् । तथा च तस्य पटस्य समवायिकारणनाशात्पूर्वं स्वसमवायिकारणे स्थितत्वेन त्रैकालिकनिषेधाप्रतियोगित्वसद्भावान्नाव्याप्तिः । नन्वत्र निषेधपदस्यात्यन्ता भावपरत्वात्समवायि-कारणनाशजन्यनाशप्रतियोगिपटे कथमव्याप्तिः । नाशस्यात्यन्ताभावत्वाभावेन नाशप्रतियोगित्वादेव तत्रात्यन्ताभावाप्रतियोगित्वमस्तीति कथमव्याप्तिः । अतः सार्वकालिकपदं व्यर्थमिति चेन्न । निषेध-पदस्य संसर्गाभावपरत्वाङ्गीकारात् । तथा च नाशप्रतियोगिनि संसर्गाभावप्रतियोगित्वसद्भावादव्याप्तिः स्यादेवेत्यतः सार्वकालिकपदं सार्थकमेव । सार्वकालिकनिषेधाप्रतियोगित्वमित्येवोक्तौ अश्वे गोत्वं कदापि नास्तीति प्रतीत्याऽश्वनिष्ठगोत्वात्यन्ताभावप्रतियोगिनि गोत्वे सार्वकालिकनिषेधप्रतियोगित्वस्यैव सत्त्वेन तदप्रतियोगित्वाभावादव्याप्तिः स्यादतः सार्वदैशिकेत्युक्तम् । तथा च गोत्वस्याश्वादि-देशेऽभावेऽपि गवि सत्त्वेन सार्वदैशिकनिषेधप्रतियोगित्वाभावान्नाव्याप्तिः ।
न्यायकल्पलता
पूर्वपक्षं प्रतिक्षेप्तुं प्रतिजानीते– उच्यत इति । सत्त्वं निर्विविक्षुः साम्येन तावत् समाधत्ते– तवेति । वेदान्तिब्रुवस्य तवात्मनि यत्सत्त्वमभिप्रेतं तदेव इह परमात्मसृष्टे जगति मम तत्वविदोऽभिप्रेतम् । अन्यथा शून्यवादापातात् । सांवृतसत्त्वस्य जगति शून्यवादिनाऽभ्युपगतत्वात् । उक्तमर्थं भगवत्पादोक्त्या संवादयति– उक्तं हीति । ‘तत्र स्यात्तदनिर्वाच्यं चेदिहापि तथास्तु नः, इत्युत्तरार्धं द्रष्टव्यम् । तत्रेति । समः समाधिरित्यर्थः । सत्त्वानिर्वचनेऽपीति । आख्यातुमशक्यत्वे प्रत्याख्यातुमशक्यत्वादिति भावः । साम्येन समाधानान्तरमाह– यदि चेति । अहृदयवाचामहृदया एव प्रतिवाचो भवन्तीति न्यायमनु-सृत्योक्तमत्यवधेयम् । नान्योन्याश्रय इति । बाधस्य सत्त्वाद्यघटितत्वादित्यर्थः । तर्हीति । समः समाधिरिति भावः ॥ ब्रह्मेति । ब्रह्मसत्तासमसत्ताकत्वेन तत्साम्यस्याभिप्रेतत्वादित्यर्थः ।
अयमभिसन्धिः । स ऐक्षत लोकान्नु सृजा इति । सोऽकामयत तदैक्षतेत्यादिश्रुतिषु ब्रह्मण ईक्षा-पूर्वकं जगत्सृष्ट्रत्वमुच्यते । तत्र यदि जगन्मिथ्या स्यात्तर्हि तत्कर्ता परमेश्वरो भ्रान्तः प्रसज्येत । उपादानादिगोचरापरोक्षज्ञानादिमत एव कर्तृत्वात् । अत एव परमेश्वरस्याभ्रान्तत्वसिध्यर्थं जीवजडात्मक-प्रपञ्चस्य तत्त्वविद्भिर्ब्र्रह्मसत्तासमसत्ताकत्वमभ्युपेयते । एतेनास्मदादिगृहीतार्थग्राहितया श्रुतसाक्षिवदीश्वरो न भ्रान्त इति निरस्तम् । अन्यदीयज्ञानेनान्यस्य प्रेक्षावतः प्रवृत्त्यनुपपत्तेः । अस्मदादीनां वियदा-द्युपादानगोचरापरोक्षज्ञानानुपपत्तेश्च । ननु देशकालवस्तुपरिच्छेदशून्यत्वं ब्रह्मणि सत्त्वमिति न समः समाधिरित्याशङ्कते– अपरिछिन्नत्वमिति । तदेतन्निषेेधति । न शुक्तिरूप्ययोरिति । शुक्तिरूप्यस्य परिच्छिन्नत्वोक्तिर्विवर्तनयेनेति ज्ञेयम् । तत्त्वविन्नयेन तु तस्यासत्या सत्त्वेन देशकालासम्बन्धित्वाद-परिच्छिन्नत्वमेवेति बोध्यम् । शुक्तेः परिच्छिन्नत्वेऽप्यसत्त्वाभावात् शून्यस्यापरिच्छिन्नत्वेऽपि सत्त्वा-भावादव्याप्त्यतिव्याप्तिभ्यां नापरिच्छिन्नत्वं सत्त्वं युक्तमित्यर्थः । शुक्तितदध्यस्तरूप्ययोः परिछिन्नयोर्मध्ये रूप्य एवासत्वं न तु शुक्तौ, तस्य अधिष्ठानत्वेनासत्त्वाभावात् । ब्रह्मशून्ययोरपरिच्छिन्नयोर्मध्ये ब्रह्मण एव सत्त्वं न तु शून्यस्येत्येवं व्यवस्थितत्वेन नियतत्त्वेन परिच्छिन्नत्वातिरिक्तं सत्वमन्यदेव वाच्यम् । तच्च ब्रह्मणीव भ्रमाधिष्ठानत्वात् शुक्तिरूप्यादेरपि जगतो भविष्यति सर्वस्यापि बौद्धादिपरिकल्पित-क्षणिकत्वाद्यारोपाधिष्ठानत्वात् । तथा च यथा परिच्छिन्नत्वं न सत्वमेवमपरिच्छिन्नत्वमपीति भावः ।
अत्र केनचित्तत्ववित्सैद्धान्तिकाभिप्रायमविदुषा वाचाटेन विवर्तवादिना प्रलपितम् । यदुक्तं ‘‘तवात्मनि यत्सत्त्वं तदेवेह ममेति । तदयुक्तम् । जगद्ब्रह्मणोरेकसत्त्वे जगतोऽसत्त्वमेव स्यात् । तथा हि । स्वप्रकाशाद्वितीयचैतन्यरूपत्वमेव ब्रह्मणः सत्त्वम् । तदेव जडस्यापि जगतस् तदा रजतत्व-विरोधिशुक्तिसत्तया रजतस्येव जडत्वविरोधिस्वप्रकाशसत्तया जगतः स्वरूपतो मिथ्यात्वोपपत्तेः । चैतन्यस्यैवावच्छिन्नानवच्छिन्नाज्ञानविषयत्वेन सर्वभ्रमाधिष्ठानत्वाभ्युपगमान्न भ्रमाधिष्ठानत्वेन शुक्त्यादे-र्जगतः सत्त्वसिद्धि’’रिति ।
मैवं भाषिष्ठा भावानवबोधात् । तवात्मनि यत्सत्त्वं तदेवेह ममेत्यस्य यदेव सत्त्वं ब्रह्मणस्तदेव जगतः, तत्सत्तयैव जगत्सत्, जगति सत्त्वं नास्तीति नार्थः । येन रजतवज्जगतः सत्त्वं न स्यात् । न हि यदेतत् सास्नादिमत्त्वं तदेव गवान्तर इत्युक्तेऽन्यत्र तदसत्त्वप्रतीतिः । किं तु यादृशेन सत्त्वेन मिथ्यात्वप्रतिपक्षेण श्रौतसत्यशब्दागतेन ब्रह्मणि मिथ्यात्वाभावसम्प्रतिपत्तिस् तादृशेन सन् घट इति प्रत्यक्षसमधिगम्येन घटादिगतेन सत्त्वेन घटादेरपि मिथ्यात्वाभावसम्प्रत्यय इति । न हि स्वप्रकाशा-द्वितीयचैतन्यरूपत्वं मिथ्यात्वप्रतिपक्षभूतम् । येन श्रौतसत्यशब्दार्थः स्यात् । मिथ्यात्वविरहव्याप्यतया निरुक्तसत्त्वस्य तत्प्रतिपक्षत्वे पदार्थतया श्रौतशब्दादवगतिर्न स्यात् । अतो मिथ्यात्वविरहरूपतया निरुक्तसत्त्वं तद्विरोधीति वक्तव्यम् । न च तद्युक्तम् । सर्वं प्रमेयमिति ज्ञानस्य स्वप्रकाशस्यापि तव मते मिथ्यात्वात् । अवेद्यत्वादिरूपस्वप्रकाशत्वादित्युक्तस्याद्वितीयस्य शून्यस्यापि सद्विविक्तत्वादिरूप-मिथ्यात्वयुक्तत्वाच्च । ज्ञानस्यापि सत्यपदार्थान्तर्भावे सत्यज्ञानादिवाक्ये सत्यज्ञानपदयोः सहप्रयोगा-नुपपत्तेश्च । ब्रह्मणि सत्यत्वव्यवहारं प्रति स्वप्रकाशाद्वितीयचैतन्यरूपत्वस्य प्रयोजकत्वे मिथ्यात्वानुमानेन प्रपञ्चे स्वप्रकाशाद्वितीयचैतन्यरूपत्वविरहस्यैव साध्यत्वापत्तौ सिद्धसाधनापातात् । ब्रह्मविषयकश्रौत-सत्यत्वव्यवहारप्रयोजकराहित्यस्यैव प्रपञ्चे मां प्रति त्वया सिसाधयिषितत्वादिति । विस्मृतसिद्धान्तस्य स्वशिष्यबन्धनमेतदिति । तस्मात् साधूक्तं यदेवात्मनि सत्त्वं तदेवेह जगतीति । सुहृद्भावेन पृच्छन्तं प्रति सत्त्वं निर्विविक्षुराह– सौहार्दे त्विति । तं प्रतीति । त्रिकालसर्वदेशीयनिषेधं प्रतीत्यर्थः । तथा च तयोर्नातिव्याप्तिरिति भावः । श्लोकं व्याचष्टे– सर्वदेशेति । सम्बन्धि संसृष्टेत्यर्थः । सर्वावच्छेदेनेत्यपि बोध्यम् । अत एव संयोगेनाव्याप्तिरित्याह– यदवच्छिन्न इति ।
वृक्षभिन्ने सर्वदेशे विद्यमानस्य संयोगविशेषात्यन्ताभावस्य वृक्षे संयोगो नेति प्रतीत्या वृक्षेऽपि सत्त्वेन सर्वदेशीयस्यापि संयोगात्यन्ताभावस्य सर्वावच्छेदेन वृत्यभावात् । यदवच्छिन्ने संयोगस्तदवच्छिन्ने तदत्यन्ताभावो नेति न तत्राव्याप्तिः । सर्वसंसर्गकप्रतियोगिताकेत्यपि विशेषणम् । तेन सर्वस्मिन् काले सर्वस्मिन्देशे सर्वावच्छेदेन विद्यमानो योऽत्यन्ताभावस्तत्प्रतियोगित्वेऽप्याकाशादौ नाव्याप्तिः । आकाशादेः समवायेनारोप्यसम्बन्धेनोक्तरूपात्यन्ताभावं प्रति प्रतियोगित्वेऽप्याकाशात्यन्ताभावस्य सर्वसंसर्गक-प्रतियोगिकत्वाभावात् । संयोगादिना सम्बन्धेनाकाशस्य विद्यमानत्वेन तेन सम्बन्धेन तदत्यन्ता-भावासम्भवात् । तदेवाह– गगनादेरपीति । केवलान्वयी नेति । सर्वसंसर्गकप्रतियोगिताको नेत्यर्थः । उक्तत्वादिति । नित्यद्रव्याणामपि काले सत्त्वेन दृष्टान्तस्य साध्यवैकल्याच्चेत्यत्रोक्तत्वादित्यर्थः । देशकालावपि सदा सर्वत्र देशकालावित्यबाधितप्रतीत्या प्रमेयत्वाभिधेयत्ववत्स्ववृत्ती अन्योन्यवृत्ती च । अन्यथा त्वन्मतेऽपि तयोः प्रातिभासिकं स्यादित्युपपादितत्वादिति भावः ।
ननु संयोगतदत्यन्ताभावयोरैकाधिकरण्यं कथमत्रोच्यते । संयोगतदत्यन्ताभावयोरवच्छेदकभेदेन भिन्नाश्रितत्वस्यैवानुभवेन सत्त्वपक्षे सामानाधिकरण्यायोगादिति पूर्वग्रन्थविरोधादिति चेत् । न । तार्किकादिसाधारणसत्त्वलक्षणपरे तद्ग्रन्थे संयोगतदत्यन्ताभावयोरैकाधिकरण्याभ्युपगमस्य मतान्तरे तदनङ्गीकारप्रतिपादकोदाहृतग्रन्थेन विरोधाभावात् । अत्र संयोगतदत्यन्ताभावयोः सामानाधिकरण्याङ्गी-कारानभिप्रायत्वे यत्र संयोगस् तत्र तदत्यन्ताभावो नेत्यवक्ष्यत् । न पुर्नयदवच्छिन्ने संयोगस् तदवच्छिन्ने तदत्यन्ताभावो नेतीति । तथा च सर्वदेशीयत्रैकालिकनिषेधप्रतियोगित्वमसत्वं तुच्छानिर्वचनीयसाधारणं तदभावः सत्त्वं तच्च ब्रह्मणीव जगत्यपीति ब्रूमः । न च संयोगेऽव्याप्तिः । तस्याव्याप्यवृत्तित्वा-नभ्युपगमात् । तदभ्युपगमे च व्याप्यवृत्तित्वेनाभावो विशेषणीयः । नापि वियत्यव्याप्तिः । तदत्यन्ता-भावस्य केवलान्वयित्वानङ्गीकारेण तल्लक्षणस्य विद्यमानत्वादेव । न हि कस्मिंश्चिद्देशे काले वा तस्याभावः । तदत्यन्ताभावस्य केवलान्वयिन्वानङ्गीकारेण नित्यविभुत्वभङ्गप्रसङ्गात् । आकाशात्यन्ता-भावस्य केवलान्वयित्वाभ्युपगमे च वृत्तिमत्प्रतियोगिकत्वेनाभावो विशेषणीय इत्युक्तम् भवति ।
न्यायामृतसौगन्ध्यं
ननु ‘सन् घटः’ इत्याद्यध्यक्षबाधिता दृश्यत्वादय इत्ययुक्तम् । प्रत्यक्षयोग्यमिथ्यात्व-विरोधिसत्त्वानिरुक्तेरिति चेन्न । यदेव हि तव ब्रह्मणि मिथ्यात्वविरोधि सत्त्वं तदेवास्माकं जगत्यपि । न च ब्रह्मणस्तत्रापरिच्छिन्नत्वं सत्त्वम् । तच्च न जगतीति वाच्यम् । तुच्छस्यापरिच्छिन्न-त्वेऽपि सत्त्वानभ्युपगमात् । ननु यथा वरसमानगोत्रत्वं कन्याया असम्भवि, तथा ब्रह्मसमसत्त्वं जगत्यसम्भवि । तथा हि स्वप्रकाशाद्वितीयचैतन्यरूपत्वमेव ब्रह्मणः सत्त्वम् । तदेव चेज्जडस्यापि जगतः, तदा रजतत्वविरोधिशुक्तिसत्तया रजतस्येव जडत्वविरोधिस्वप्रकाशसत्तया जगतः स्वरूपतो मिथ्यात्वोपपत्तिरिति चेन्न । यः स्वभावो ब्रह्मणः, स एव जगत इति हि नार्थः । किन्तु यादृशेन सत्त्वेन मिथ्यात्वविरोधिना सत्यशब्दावगतेन ब्रह्मणि मिथ्यात्वाभावसम्प्रतिपत्तिः । तादृशेन सन् घट इति प्रत्यक्षाधिगतेन घटादिगतेन सत्त्वेन घटादेरपि मिथ्यात्वाभावसम्प्रत्ययः । न ह्यनन्याधीना-परोक्षत्वरूपस्वप्रकाशत्वाद्वितीयत्वचैतन्यादि मिथ्यात्वप्रतिपक्षि । एतादृशपारिभाषिकस्वप्रकाशत्वं घटादिसाधारणमिति दृश्यत्वभङ्ग उक्तत्वात् । अद्वितीयस्य शून्यस्यापि सद्विविक्तत्वात् । किञ्चि-दवच्छिन्नचैतन्यस्य त्वयाऽपि मिथ्यात्वाङ्गीकाराच्च ।
एवं सर्वदेशीयत्रैकालिकनिरवच्छिन्नवृत्तिकनिषेधाप्रतियोगित्वं सत्त्वम् । आकाशस्य कालादिवृत्तित्वेन तदभावो न सम्बन्धसामान्येन केवलान्वयि । किञ्चानया भङ्ग्या जडत्वस्वप्रकाशत्वयोः सहानवस्थान- रूपविरोधः प्रतिपादितः न तु जगतः स्वरूपतोऽपि मिथ्यात्वं शुक्तिरूप्यस्यापि त्वया स्वरूपतो मिथ्यात्वाङ्गीकारे असत्ख्यातिरङ्गीकृता स्यात् । ननु चक्षुराद्ययोग्यानेकपदार्थघटितत्वेनैतादृशसत्त्वस्य ग्रहणे चक्षुरादेरसामर्थ्यम् । न हि सर्वदेशीयत्रैकालिकवृत्तिमत्प्रतियोगिकव्याप्यवृत्तिनिषेधप्रतियोगित्वं कस्यचित् प्रत्यक्षम्, येन तदभावः प्रत्यक्षो भवेत् । वृत्तिमत्प्रतियोगिकव्याप्यवृत्तित्वपरित्यागेऽपि सर्वदेशीयत्वत्रैकालिकत्वयोरयोग्यत्वादिति चेन्न । स्वदेशकालवृत्तिनिषेधप्रतियोगित्वाभावे गृह्यमाणे कालत्रयमध्ये वर्तमानकालस्य सर्वदेशमध्ये प्रकृतदेशस्यापि प्रवेशेन तत्र निषेधप्रतियोगित्वाभावस्य गृहीतत्वात् तत्संवलितकालत्रयवर्तिसर्वदेशीयनिषेधप्रतियोगित्वरूपमिथ्यात्वं नानुमानेन ग्रहीतुं शक्यते ।
ननु स्वदेशकालवृत्तिसकलनिषेधप्रतियोगित्वस्य चक्षुराद्ययोग्यत्वेन तदभावस्य सुतरां तदयोग्य-त्वात् स्वदेशकालवृत्तियत्किञ्चिन्निषेधाप्रतियोगित्वस्य मिथ्यात्वाविरोधित्वमिति चेन्न । सर्वदेशकाल-वृत्तिनिषेधप्रतियोगित्वस्य चक्षुराद्ययोग्यत्वेऽपि तदभावरूपसत्त्वस्य योग्यत्वात्, घट आकाशत्वा-भाववद् घटे आकाशत्वसत्त्वे तस्यानेकव्यक्तिगतत्वेन जातित्वापत्त्या घटत्ववत् तदुपलम्भापादानवद् घटे तादृशाभावप्रतियोगित्वोपलम्भनस्याप्यापादनसम्भवात्, घटादिज्ञानानन्तरमयमिहैव नान्यत्रेत्यन्य-निष्ठाभावप्रतियोगित्वस्यानुभूयमानत्वात् । किञ्चैतद्देशकालवृत्त्यत्यन्ताभावप्रतियोगित्वं सेन्द्रियातीन्द्रिय-वृत्त्यखण्डम् । तच्चैतद्देशकालवृत्ति यदि घटे स्यात् तर्ह्युपलभ्येत । एतद्देशकालवृत्त्यत्यन्ताभाव-प्रतियोगिनि देशान्तरातीन्द्रियसन्निकृष्टघटान्तरे यथा देशकालयोः परिचायकतया निवेशो न तु विशेषणतया । अतीन्द्रियसाधारणानामपि सत्ताजडत्वपृथिवीत्वादीनां योग्यव्यक्तिवृत्तितया प्रत्यक्षं स्फुटम् । एतद्देशकालवृत्त्यत्यन्ताभावप्रतियोगित्वमेतद्देशकालवृत्तितया प्रतीतघटादेस्त्वन्मते मिथ्यात्वं न
तु देशान्तरादिवृत्त्यभावप्रतियोगित्वमित्युक्तप्रतियोगित्वाभावे घटादौ गृहीते चक्षुरादिना सत्त्वं गृहीतमेव ।
ननु स्वा(स्वप्रतियोगिका)त्यन्ताभावासामानाधिकरण्यस्य स्वप्रतियोगिकात्यन्ताभावाप्रसिद्ध्या केवलान्वयिनि सम्बन्धभेदेन घटादौ चासिद्धिः । स्वात्यन्ताभावयावदधिकरणावृत्तित्वं वा स्वात्यन्ता-भावयत्किञ्चिदधिकरणावृत्तित्वं वेति विकल्पग्रासश्चेति चेन्न । येन येन सम्बन्धेन यो यत्र प्रसिद्धस् तत्सम्बन्धावच्छिन्नप्रतियोगिताकाधिकरणावृत्तित्वस्य निर्दोषत्वात् । केवलान्वयिनोऽपि कालिक-सम्बन्धेन कालवृत्तित्वात् । न च तुच्छाभावप्रतियोगिताया निरवच्छिन्नत्वेन तत्रातिव्याप्तिः । बाधादिज्ञानप्रसिध्या प्रतिबन्धकभावानुरोधेन तुच्छाभावप्रतियोगितायाः स्वावच्छिन्नत्वावश्यकत्वात् । ‘शशशृृङ्गं नास्ति’ इति धीकाले ‘नृविषाणमस्तीति धीसम्भवात् । समवायेन तन्नास्तीति धीकाले संयोगादिना तदस्तीति धीसम्भवाच्च । तुच्छज्ञानस्वीकर्तृमते प्रतियोगिताया वैज्ञानिकावच्छिन्नत्वे बाधका-भावाच्चेति । किञ्च प्रत्यक्षस्य वर्तमानमात्रग्राहित्वे शुक्तिरूप्यादेः प्रतिपन्नोपाधौ त्रैकालिकनिषेध-प्रतियोगित्वरूपं मिथ्यात्वं कथं प्रत्यक्षं स्यात्? अथ तत्र रजतत्वविरोधिशुक्तित्वे साक्षात्कृते तदन्यथानुपपत्त्या च रजतत्वाभावे निश्चिते ‘मिथ्यैव रजतमभादि’ति तादृशनिषेधप्रत्ययः स्वसम्बद्ध-सर्वभासकेन साक्षिणैवोपपन्नः । तर्हि साक्षात् स्वविषयस्य गगनादेर्भाविकालनिषेधाप्रतियोगित्वं सकल-कालग्राहिणा साक्षिणा ग्राह्यम् । ननु साक्षिणो विद्यमानसर्वावभासकत्वेनाविद्यमानभाविबाधाभाव-भासकत्वानुपपत्तेः । साक्षिज्ञानस्य भ्रमप्रमासाधारणत्वेन प्रमाणाबाधकत्वाच्चेति चेत् । न । जातान्ध-बधिरस्यापि ‘एतावत्कालमहं सुखी स्थितः’ ‘इदानीमहं दुःखी’ ‘इतः परं किं भविष्यती’ति व्यवहारस्य सत्त्वेन साक्षिणः कालत्रयग्रहणावश्यकत्वात् । जातान्धादेर्हस्तप्रसारणोत्सर्पणाद्यन्यथानुपपत्त्या ‘सावका-शेऽहं तिष्ठामि इत्यनुभवेन च गगनाद्यपि तद्ग्राह्यम् । तथा च स्वयोग्यानां गगनादीनामुक्तबाधाभावः साक्षिणा सुग्रह एव । यत्तु विद्यमानं स्वतादात्म्यापन्नं साक्षी भासयतीति । तन्न । अधिष्ठानमेव तादात्म्येन स्वस्मिन्नध्यस्तानवभासयतीति त्वन्मतम् । तन्न युक्तम् । शुद्धस्य विश्वाधिष्ठानस्य साक्षित्वाभावात् । साक्षाद् द्रष्टा हि साक्षी । तत्तु विशिष्टमेव मिथ्याभूतं नाधिष्ठानम् । साक्षिसिद्ध-सुखदुःखादौ सन्देहाद्यभावेन साक्षिणो भ्रमसाधारण्योक्तेस्तुच्छत्वात् । किञ्च ज्ञानप्रामाण्यं गृह्णन् साक्षी घटादिगतमबाध्यत्वं गृह्णात्येव । न हि विषयाबाधमनन्तर्भाव्य प्रामाण्यग्रहणं नाम ।
ननु व्यवहारकालाबाध्यत्वमात्रेण प्रवृत्तिसंवादोपपत्तेः । तद्रूपगतप्रामाण्यस्य साक्षिणा ग्रहणेऽपि विरोधाभावात् । न हि घटादिज्ञानस्य संवादिप्रवृत्तिजनकतावच्छेदकं प्रामाण्यं त्रिकालाबाध्यविषय-कत्वम् । किन्तु शुक्तिरूप्यादिव्यावृत्तं व्यवहारकालाबाध्यविषयकसकलज्ञानवृत्तिव्यवहारकालाबाध्य-विषयकत्वमेव । तच्च न भाविकालबाधविरोधीत्युक्तम् । भाविकालबाधतदभावौ च न मानं विना साक्षिणा ग्रहीतुं शक्यौ । तस्य विद्यमानमात्रग्राहित्वादिति चोक्तमिति चेत् । न । वर्तमानमात्रा-बाध्यत्वग्रहणेनापि तदनुमानात् प्रवृत्तिसम्भवात् । कालान्तरे बाधो ह्यनित्यत्वे पर्यवस्यति । किञ्च कालान्तरस्थमपि यद्वाधकं तदपि किं यत्कालावच्छेदेनानेन स्वार्थो गृहीतस्तत्कालावच्छेदेनैव तन्निषेधति ? उतान्यकालावच्छेदेन? आद्ये कथमस्य प्रामाण्यम्? अन्त्ये त्वनित्यत्वादिकमेव ।
ननु अबाध्यत्वरूपप्रामाण्यं प्रपञ्चज्ञाने मया नाङ्गीक्रियते । अतो यत्कालावच्छेदेनैवानेन स्वार्थो गृहीतस्तत्कालावच्छेदेनैव तन्निषेधः । यच्च प्रामाण्यं मयाऽभ्युपेयते त(य)द्व्यवहारदशायां विपरीत-प्रमारूपबाधकस्योत्पन्नत्वादस्त्येवेति चेत् । न । क्लृप्तदोषहीनकरणजन्ये प्रपञ्चज्ञाने निर्बीजप्रामाण्य-त्यागस्यातिप्रसक्तत्वात् । किञ्च पारमार्थिकसत्त्वस्य प्रत्यक्षागोचरत्वे त्वदभिमतनिषेधश्रुतीनामप्रसक्त-प्रतिषेधता स्यात् । न च परोक्षप्रसक्तेः सम्भवान्नाप्रसक्तप्रतिषेधतेति वाच्यम् । श्रुत्या प्रसक्तस्य श्रुत्या सर्वथा निषेधासम्भवात् । श्रुतिप्रत्यक्षाननुगृहीतानुमानस्याप्रमाणत्वाच्च । न च ‘नान्तरिक्षेऽग्निश्चेतव्यः’ इत्यादिवदप्रसक्तप्रतिषेधत्वेनाप्युपपत्तिः । निषेधश्रुतेर्वैयर्थ्यापत्तेः ।
यत्तु यत्र प्रतिषेधे तात्पर्यं तत्र प्रतियोगिप्रस(क्त्यादिकं)क्तिरपि तां विना तत्कल्पनावैयर्थ्यात् तदावश्यकता । यत्र तु ‘नान्तरिक्षे’ इत्यादौ न प्रतिषेधपरत्वं किन्तु मानान्तरसिद्धतदनुवादद्वारा विधेयस्तुतिपरत्वं तत्र न तदावश्यकता । तथा च सत्यत्वविशिष्टद्वैतरूपप्रतियोगिनो ब्रह्मणि ज्ञानरूपां प्रसक्तिं विनाऽपि मिथ्यात्वानुमानादिसिद्धस्य ब्रह्मगतस्य सत्यत्वरूपेण द्वैताभावस्यानुवादद्वारोक्तश्रुतीनां विधेयब्रह्मस्तुतिपरत्वमिति । तन्न । पुंधीचमत्कारानुमानमात्रप्राप्तस्य श्रुत्याऽनुवादासम्भवात् । उक्तं च वाचस्पतौ(त्ये) ‘तर्काप्रतिष्ठानात्’ इत्यत्र ‘यत्नेनानुमितोऽप्यर्थः कुशलैरनुमातृभिः । अभियुक्ततरैरन्यै-रन्यथैवोपपाद्यते’ ॥ इति । अनाद्यायाः श्रुतेरुत्तरकालप्रवृत्तानुमानगृहीतग्राहित्वेनानुवादकत्वोक्ते-स्तुच्छत्वाच्च ।
किञ्च त्वदभिमतातात्त्विकप्रपञ्चे यदि तात्त्विकत्वमध्यक्षेण न गृह्यते कथं तर्हि तस्य त्वदुक्तमतत्त्वावेदकत्वम्? न हि तदेव तत्त्वेनावेदयदतत्त्वावेदकम् । न च अबाधितविषयत्वकत्वं तत्त्वावेदकत्वं श्रौते ब्रह्मज्ञान एवेति वाच्यम् । वैषम्ये बीजाभावात् ।
न्यायामृतमाधुरी
शुक्तिरूप्ययोरिति । सत्त्वेनाङ्गीकृतायां शुक्तौ अपरिच्छिन्नत्वस्य असत्वेन सत्वेनानङ्गीकृतेऽपि शून्ये अपरिच्छिन्नत्वस्य सत्त्वेनाव्याप्तेरतिप्रसङ्गस्य चापत्त्या नापरिच्छिन्नत्वस्य सत्त्वरूपतेत्यर्थः । अत्राद्वैतसिद्धिकारः । जगद्ब्रह्मणोरेकसत्त्वे जगतोऽसत्त्वमेव स्यात् । तथा हि । स्वप्रकाशाद्वितीय-चैतन्यरूपत्वमेव ब्रह्मणः सत्त्वं तदेव चेज्जडस्यापि जगतस्तदा रजतत्वविरोधिशुक्तिसत्तया रजतस्येव जडत्वविरोधिस्वप्रकाशसत्तया जगतः स्वरूपतो मिथ्यात्वोपपत्तेः । चैतन्यस्यैवावच्छिन्नानवच्छिन्ना-ज्ञानविषयत्वेन सर्वभ्रमाधिष्ठानत्वाभ्युपगमान्न भ्रमाधिष्ठानत्वेन शुक्त्यादेः सत्त्वसिद्धिरित्यभाषिष्ट । तत् प्रतिवक्तृतात्पर्यानधिगतिनिबन्धनमेव । न हि सुमेरोः, सावित्रतेजसः, मृगनाभिजायाः, पञ्चाननस्य, वा यत्पर्वतत्वं तेजस्त्वं पृथिवीत्वं पशुत्वं वा तदेवैतदद्रिदीपमृदजानामित्युक्तिर्द्वयोः स्वभावैक्यपरा । येन कनकमयत्व–जगत्प्रकाशकत्वत्प्राणतर्षणत्व–मातङ्गविदारकत्वादीनां तत्र तत्रादर्शनादप्रामाण्यं तदुक्तेरिति शङ्का स्यात् । किन्तु यल्लोकवेदयोस्तत्र तत्र तत्तच्छब्दप्रवृत्तिनिमित्तंं तदेवात्रेति तात्पर्यि-कैव । इत्थं च प्रकृतेऽपि तद्दिशा ब्रह्मजगतोः सत्त्वैक्योक्तेस्तयोः स्वभावैक्यतात्पर्यकताविरहेण तद्राहित्यनियन्त्रिताप्रामाण्यशङ्कानवकाशात् । किन्तु लोकवेदयोर्ब्रह्मणि सत्पदप्रयोगनिमित्तं यदलीकता प्रतिरूपं समधिगतं तदेवानुगतमननुगतमपि वैशेषिकपरीक्षोक्तदिशाऽनुगतकार्यनिर्वाहकं वा जगत्यपि तत्पदप्रयोगनिमित्तं तत्प्रतिरूपं प्रत्यक्षेणावगाह्यत इति तात्पर्यकत्वोपगत्या सामञ्जस्यात् । निर्धर्म-कत्वाद्ब्रह्मणस् तत्समानधर्मकत्वं जगतो न सङ्गच्छत इति शङ्का तु ग्रन्थकृतैव निरसिष्यते । अत्र व्याख्यातारः । न हि स्वप्रकाशत्वाद्वितीयत्वादि मिथ्यात्वप्रतिपक्षभूतं, सर्वं प्रमेयमिति ज्ञानस्य स्वप्रकाशस्यापि तव मते मिथ्यात्वात् । अवेद्यत्वादिरूपस्वप्रकाशत्वयुक्तस्य अद्वितीयस्य शून्यस्यापि सद्विविक्तत्वादिरूपमिथ्यात्वयुक्तत्वात् । ब्रह्मविषयकश्रौतसत्यत्वव्यवहारप्रयोजकराहित्यस्यैव प्रपञ्चे मां प्रति सिषाधयिषिततया ब्रह्मणि सत्यत्वव्यवहारं प्रति स्वप्रकाशत्वाद्वितीयत्वादेः प्रयोजकत्वे प्रपञ्चमिथ्यात्वानुमानेन स्वप्रकाशत्वाद्वितीयत्वादिविरहस्यैव साध्यतापत्तौ सिद्धसाधनापत्तेरिति । तस्माद्युक्तं यदेवात्मनि सत्वं तदेवेह ममेतीति व्याकुर्वते । कारिकां व्याकुरुते । सर्वदेशेति । देशविशेषणीभूतसर्वत्वस्य व्यापकत्वपर्यवसायित्वे कालविशेषणीभूतस्य तस्य निरवच्छिन्नत्वतात्पर्यक-तया, कालविशेषणीभूतस्यास्यैव व्यापकत्वपर्यवसायित्वे देशविशेषणीभूतस्य तस्य निरवच्छिन्नत्व-तात्पर्यकतया इहेति प्रतीतिनियामकत्वरूपदेशत्वव्यापकनिरवच्छिन्नाधारताकाभावीयप्रतियोगित्वाभावः, इदानीमिति प्रतीतिनियामकत्वरूपकालत्वव्यापकनिरवच्छिन्नाधारताकाभावीयप्रतियोगित्वाभावो वा सत्त्वमिति पर्यवसितार्थः । सिद्धान्ते अलीकप्रतियोगिकात्यन्ताभावमादायैव लक्षणसमन्वयः । प्रामाणिकप्रतियोगिकात्यन्ताभावानुपगमेन तादृशाधारताकान्तस्य विकासकतयैव सार्थकत्वात् । न्यायमते च संयोगादावव्याप्यवृत्त्यभावमादायाव्याप्तिवारणाय तादृशाधारताकान्तोपादानम् । निर्वह्नि-वृत्त्यभावीयप्रतियोगित्वं वह्नेरप्यस्तीति आधारतायां देशत्वसामानाधिकरण्यमुपेक्ष्य तद्व्यापकत्व-पर्यन्तानुधावनम् । तदेतदभिप्रेत्याह । यदवच्छिन्न इति । अयं च न्यायमततात्पर्यक इति सिद्धान्ते संयोगतदत्यन्ताभावयोः सामानाधिकरण्यनिषेधकेन संयोगतदत्यन्ताभावयोरवच्छेदकभेदेन भिन्नाश्रित-त्वस्यैवानुभवेनेत्यादिग्रन्थेन निरुध्य इति मन्तव्यम् । अथैवमपि नित्यद्रव्याणामवृत्तित्वेन गगनाद्य(त्य)न्ताभावस्य केवलान्वयितया तत्प्रतियोगिनि गगनादावव्याप्तिर्दुर्वारेति चेदित्याशङ्क्य सिद्धान्ते गगनादेरपि संयोगेन वृत्तिमत्तायाः समर्थिततया घटादिकल्पतया तदत्यन्ताभावस्य केवलान्वयित्वाभावादेव नाव्याप्तिरिति समाधत्ते– गगनादेरिति ॥ यद्यपि प्रामाणिक-प्रतियोगिका-त्यन्ताभावानुपगमादेव नाव्याप्तिरिति समाधेयं तथापि विनेयमपि वैचित्र्याय इत्त्थं समाहितमित्यव-सेयम् । नन्वेवमपि गगनात्यन्ताभावस्य केवलान्वयितामुपगच्छतां मते तादृशाभावसमवायादि-रूपव्यधिकरणसम्बन्धेन प्रमेयत्वाद्यभावसमवायेन घटत्वपटत्वोभयाभावमेतत्क्षणावच्छिन्नवृत्तित्वै-तदन्यक्षणावच्छिन्नवृत्तित्वं वैशिष्ट्यावच्छिन्न घटाभावं चादाय क्षतेर्दुर्वारतया कः प्रतीकारः । न च प्रतियोगितायां स्वसमानाधिकरणाधेयता घटकसम्बन्धावच्छिन्नत्वं वैशिष्ट्यव्यासज्यवृत्तिधर्मान-वच्छिन्नत्वं च निवेश्यत इत्युक्ताभावानां वारणं सम्भवतीति वाच्यम् । अलीकाभावोपगन्तृमते लक्षणघटकाभावीयाया अलीकमात्रनिष्ठप्रतियोगितायास्तादृशसम्बन्धावच्छिन्नाया अप्रसिध्या क्षत्यभावेऽपि न्यायमते तादृशाभावीयप्रतियोगित्वाप्रसिध्या तदभावस्य दुःसम्पादतेति चेन्न । तादृशाधारताकाभावीयस्वाश्रयाप्रतियोगिकवृत्तिनियामकसंसर्गानवच्छ्न्निप्रतियोगितासामान्ये तादृशधर्मानवच्छ्न्नित्वयन्निष्ठत्वोभयाभावस्तत्वस्य सत्वरूपतयोक्तक्षत्यनवकाशात् । व्याप्त्यनुमान-मणिदीधितौ वृत्त्यनियामकसंयोगमात्रस्याभावप्रतियोगितावच्छेदकसम्बन्धरूपत्वे इति फक्किकाया व्याख्यावसरे गदाधरेण वृत्त्यनियामकसंयोगव्यावृत्तरूपेण संयोगस्याभावप्रतियोगितावच्छेदकसम्बन्ध-त्वेन साध्यतावच्छेदकसम्बन्धस्य गगनीयसंयोगस्याभावप्रतियोगितानवच्छेदकतयेत्यादिना गगनीय-संयोगस्याभावीयप्रतियोगितानवच्छेदकतायाः समर्थिततया घटादिसंयोगावच्छिन्नगगनादिवृत्तिप्रतियोगि-तायाश्च तादृशसंसर्गानवच्छिन्नत्वविरहेण तदसङ्ग्रहाय अनवकाशादलीकनिष्ठप्रतियोगिताया अप्यलीक-संसर्गावच्छिन्नतया तादृशसंसर्गानवच्छिन्नत्वेन तत्सङ्ग्रहादित्यलं पल्लवितेन । तुच्छमध्यस्तं चेति । औतिदिशेदम् । तेन सिद्धान्ते द्वयोरैक्येऽपि न क्षतिः ।