सोपाधिकाश्च दृश्यत्वादयः
७. दृश्यत्वादेः सोपाधिकत्वम्
न्यायामृतं
सोपाधिकाश्च दृश्यत्वादयः । स्वबाधकाभिमताबाध्यदोषप्रयुक्तभानत्वस्य तदबाध्य-बाधकं प्रति निषेध्यत्वेन विषयत्वस्य वा (वि)पक्षाद्व्यावृत्तस्य समव्याप्तिमतो व्यतिरेकव्याप्तिमतश्चोपाधित्वात् । न च पर्वतावयववृत्त्यन्यत्वापर्वतीयवह्निसामग्री युक्तत्वादेरिव पक्षमात्रव्यावर्तकविशेषणवत्वात्पक्षेतरत्वम् । वह्निना धूमे साध्ये आर्द्रेन्धनप्रभववह्निमत्त्वादेरिव वक्ष्यमाणानुकूलतर्कैस्साध्यव्यापकत्वनिश्चयात् । बाधिते पक्षेतरत्वस्याप्युपाधित्वाच्च । इह च वक्ष्यमाणप्रत्यक्षादिबाधात् । यद्वा यथाऽनुकूल-तर्काभावान्मित्रातनयत्वेन श्यामत्वे साध्ये शाकपाकजत्वम्, तस्मिन्साध्ये श्यामत्व-मुपाधिः, तथेहापि बाध्यत्वादिरूपे मिथ्यात्वे साध्ये विपरीतप्रमाविषयत्वदोषप्रयुक्त-भानत्वादिकम्, तस्मिन्साध्ये मिथ्यात्वमुपाधिरस्तु । युगपदुभयसाधने त्वर्थान्तरम् । मिथ्यात्व एव विप्रतिपत्तेः । बाधो भ्रान्तिपूर्वकः, विपरीतप्रमा तु नेति तयोर्भेदः ।
अद्वैतसिद्धिः
ननु दृश्यत्वादिहेतवः सोपाधिकाः । तथा हि स्वबाधकाभिमताबाध्यदोषप्रयुक्तभानत्वं स्वबाधका-बाध्यबाधकं प्रति निषेध्यत्वेन विषयत्वं वा विपक्षाद् व्यावृत्तं समव्याप्तम् । अत एव व्यतिरेकव्याप्ति-मदुपाधिर् इति चेन्न । ब्रह्मज्ञानमात्रबाध्ये देहात्मैक्ये मिथ्याभूते साध्याव्यापकत्वात् । पर्वतावयववृत्त्यन्य-त्वादिवत् साधनवत्पक्षमात्रव्यावर्तकविशेषणवत्त्वेन पक्षेतरत्वतुल्यत्वाच्च । न च बाधोन्नीतत्वात् सोऽप्युपाधिः । बाधस्याग्रे निरसिष्यमाणत्वात् । अपि च यद्व्यतिरेकस्य साध्यव्यतिरेकसाधकत्वं तस्यैव साध्यव्यापकत्वम्, इतरांशे अनुकूलतर्काप्रसरात् । तथा च ‘क्षित्यादिकं न कर्तृजन्यं शरीराजन्यत्वा’ दित्यत्र यथा शरीरविशेषणवैयर्थ्यान्न शरीरजन्यत्वं कर्तृजन्यत्वव्यापकम् । एवं ‘वियदादिकं न मिथ्या स्वबाधकाभिमताबाध्यदोषप्रयुक्तभानत्वरहितत्वात्’ इति साध्यव्यतिरेकसाधने स्वबाधकाभिमताबाध्यभागस्य वैयर्थ्यात् स्वबाधकाभिमताबाध्यदोषप्रयुक्तभानत्वं न मिथ्यात्वव्यापकम् । दोषप्रयुक्तभानत्वं तु भवति साध्यव्यापकम् । तच्च साधनव्यापकमपीति नोपाधिः । दृश्यत्वादिनैव मिथ्यात्ववत्तस्यापि साधनात् । एवं द्वितीयोपाधावपि ‘स्वबाधकाबाध्यबाधकं प्रती’ति विशेषणं व्यतिरेकसाधने व्यर्थम् । विशेष्यभागस्तु साध्यसाधनयोर्व्यापक इति नोपाधिः ।
न्यायामृततरङ्गिणी
स्वबाधकाभिमतेति ॥ दिदर्शयिषितोपाधिकमधिकरणं स्वशब्दार्थः । शुक्तिरूप्यादौ साध्यवति शुक्तिरूप्यादिबाधकत्वेनाभिमतेन ‘नेदं रजतमि’ ति ज्ञानेनाबाध्यो यो दोषः सादृश्यादिः, तत्प्रयुक्त-भानत्वस्य, तथोक्तविधया स्वबाधकाभिमताबाध्यबाधकं ‘नेदं रजतमि’ति ज्ञानं प्रति निषेध्यत्वेन विषयत्वस्य सत्त्वात् सपक्षे रूप्यादावुपाध्योः साध्यव्यापकता । हेतुमति पक्षे पररीत्याऽविद्यारूपदोष-प्रयुक्तभानत्वस्य, तथा ‘‘नेति नेती’’ति वेदान्तवाक्यजन्यं बाधकज्ञानं प्रति निषेध्यत्वेन विषयत्वस्य च सत्त्वात् साधनव्याप्तिर्मा भूत्, इति ‘स्वबाधकाभिमताबाध्ये’ति प्रथमोपाधौ दोषविशेषणम् । द्वितीयापाधौ बाधकज्ञानविशेषणम् । एवं चाविद्यारूपो दोषो वियदादिबाधकाभिमतया चरमवृत्त्या बाध्य एव, इति स्वबाधकाभिमताबाध्यत्वरूपविशेषणाभावाद् विशिष्टरूपोपाधिर्नास्त्येव । मम मते तु विशेष्याभावाद् विशिष्टरूपोपाधिर्नास्ति इति भवति पक्षे साधनाव्यापकः । एवं द्वितीयोपाधावपि योजनीयम् । साधनाव्यापकत्वमाह– पक्षादिति ॥ ‘विपक्षाद् व्यावृत्तस्ये’ति पाठेऽनेन साध्याभाववदवृत्तित्वरूपसाध्यव्याप्यत्वोक्तिः ॥ व्यतिरेकव्याप्तिमत इति ॥ साध्यव्यतिरेक-निरूपितव्याप्तिमद्व्यतिरेकप्रतियोगिन इत्यर्थः । अनेन साध्याभावव्याप्याभावप्रतियोगित्व-रूपसाध्यव्यापकत्वोक्तिः । एवं च समव्याप्तिर्लभ्यत इत्यभिसन्धायोक्तम् – समव्याप्तिमत इति ॥ यद्वा समव्याप्तिमत्त्वाद् व्यतिरेकव्याप्तिमत इत्यर्थः ॥ वस्तुतस्तु पक्षाद् व्यावृत्तस्येत्येव युक्तः पाठः । अत एव पक्षेतरत्वशङ्कायां तां निराकरोति – न चेति ॥ पक्षमात्रव्यावर्तकविशेषणवत्त्वं तादृशविशेषणघटितत्वम् । न तु तादृशविशेषणं प्रति विशेष्यत्वम् ॥
तथा हि – उपाधित्वेन प्रेक्ष्यमाणे विशिष्टे प्रविष्टस्यान्यत्वरूपस्य पर्वततदितरसाधारणस्य विशेष्यस्य यद् विशेषणं पर्वतावयववृत्तीति तेनान्यत्वरूपं विशेष्यं पक्षमात्राद् व्यावर्त्यते । पर्वतावयववृत्त्यन्यत्वस्य पर्वतेऽसत्त्वात् । अतः पर्वतावयववृत्तीति विशेषणं पक्षमात्रव्यावर्तकम् । तथाविधविशेषणवानन्यत्वरूपो धर्मः । एवं वह्निसामग्रीयुक्तत्वस्य विशेष्यस्य पर्वततदितरसाधारणस्य यद्विशेषणम् – ‘अपर्वतीये’ति, तेन वह्निसामग्रीयुक्तत्वं विशेष्यं पक्षमात्राद् व्यावर्त्यते, इति पर्वतावयववृत्त्यन्यत्वमपर्वतीयवह्निसामग्रीयुक्तत्वं च पक्षमात्रव्यावर्तकविशेषणवदित्यर्थः । यथाश्रुतेऽन्यविशिष्टोपाधिं प्रति पक्षमात्रव्यावर्तकविशेषणाभावेनासङ्गतिः स्यात् । यद्यप्यत्र पर्वतावयव-वृत्त्यन्यत्वस्य पर्वतावयववृत्तिरूपादिव्यावर्तकत्वान् न पक्षमात्रव्यावर्तकत्वम् । एवम् – ‘अपर्वतीये’-त्यस्यापि पर्वतीयवह्निसामग्रीयुक्तपर्वतीयवृक्षादिव्यावर्तकतया न पक्षमात्रव्यावर्तकत्वम्, तथापि साध्यव्यापकताग्राहकानुकूलतर्कादिराहित्याद् यथा पर्वतावयववृत्त्यन्यत्वादेर्नोपाधित्वम्, तथा प्रकृतयोरपि नोपाधित्वम् । साध्यव्यापकता ग्राहकतर्कादेरभावादिति शङ्कितुरभिप्रायः । अत एव ‘वक्ष्यमाणानुकूलतर्कैः साध्यव्यापकत्वनिश्चयादि’त्यनुकूलतर्केण साध्यव्यापकत्वनिश्चयो वक्ष्यत इत्याशयः । यद्यपि प्रकृतयोः ‘स्वबाधकाभिमताबाध्ये’त्याद्युपाध्योरनुपाधितायां पर्वतेतरत्वादिकमेव निदर्शनीयम्, तथापि पर्वतेतरत्वादेरनुपाधितायां न पक्षमात्रव्यावर्तकविशेषणवत्त्वं प्रयोजकम्, किन्तु पर्वतेतरत्वस्य पक्षमात्रवृत्तिव्यतिरेकप्रतियोगितया पर्वतेतरत्वव्यतिरेकेण साध्याभावसाधनेऽसाधारण्यात् पर्वतेतरत्वस्य नोपाधित्वम् । प्रकृतयोः ‘स्वबाधकाभिमताबाध्ये’त्याद्युपाध्योस्तु न पक्षमात्र-वृत्तिव्यतिरेकप्रतियोगित्वम् । विशिष्टोपाधेर्व्यतिरेकस्य साध्याभाववति ब्रह्मण्यपि सत्त्वेनोपाधि-व्यतिरेकेण मिथ्यात्वरूपसाध्याभावे साध्यमाने ब्रह्मण एव सपक्षत्वसम्भवादिति यदि कश्चिद् ब्रूयात्, तदा स्वव्यतिरेकेण साध्यव्यतिरेकसाधने पर्वतावयववृत्तिरूपादिनिष्ठव्यतिरेकप्रतियोगित्वेन लब्धोदाहरणस्यापि पर्वतावयववृत्त्यन्यत्वादेर्यथा नोपाधित्वम्, तथा प्रकृतयोरपीत्यभिसन्धाय पूर्वपक्षिणा पर्वतावयववृत्त्यन्यत्वादिकं निदर्शितमित्यवधातव्यम् ॥ पक्षेतरत्वमिति ॥ पक्षेतरत्व-तुल्यत्वमित्यर्थः । तत्तुल्यत्वं चानुकूलतर्करहितत्वेन ॥ प्रकृतोपाध्योः पक्षेतरत्वतुल्यत्वं परिहर्तुमनुकूलतर्कैः साध्यव्यापकताऽस्तीत्याह – वह्निनेति ॥
अयमर्थः – यथेश्वरानुमाने जन्यत्वरूपसाधनविशेषितं शरीरजन्यत्वं नोपाधिर् वह्निना धूमे साध्ये आर्द्रेन्धनप्रभववह्निमत्त्वं साधनविशेषितमप्युपाधिः । एवं च साधनविशेषितस्योपाधित्वानु-पाधित्वयोः साध्यव्यापकताग्राहकानुकूलतर्कसदसद्भावौ बीजम्, तथा पर्वतेतरत्वस्य पक्षमात्रव्यावर्तक-विशेषणवतो नोपाधित्वम् । प्रकृतयोः ‘स्वबाधकाभिमताबाध्ये’त्युपाध्योः पक्षमात्रव्यावर्तक-विशेषणवतोरप्युपाधित्वम्, इत्यत्र साध्यव्यापकताग्राहकानुकूलतर्कविरहाविरहौ हेतू इति । यद्वा साधनशून्यं सर्वं पक्षीकृत्य बाधाप्रतिसन्धानदशायां वह्निना धूमे साध्य आर्द्रेन्धनप्रभववह्निमत्त्वं पक्षमात्रव्यावर्तकविशेषणवदपि साध्यव्यापकताग्राहकानुकूलतर्कसद्भावाद् यथोपाधिः, तथा प्रकृतयोरप्युपाधित्वमित्यर्थः । यथाश्रुताभिप्रायेणाह – बाधित इति ॥ बाधेन पक्षस्यैव विपक्षतया पक्षमात्रव्यावर्तकविशेषणवत्त्वमसिद्धमिति भावः । न च ब्रह्मज्ञानमात्रबाध्ये देहात्मैक्ये मिथ्याभूते साध्याव्याप्तिः । तस्य ब्रह्मज्ञानमात्रबाध्यत्वासिद्धेः । ‘‘मम देहः’ इति देहाद् भेदस्य सर्वैरनुभूय-मानत्वेन देहात्मैक्याध्यासासम्भवस्य वक्ष्यमाणत्वेन मिथ्याभूतदेहात्मैक्यासिद्धेः ॥
ननु यद्व्यतिरेकस्य साध्यव्यतिरेकसाधनत्वम्, तस्यैव साध्यव्यापकत्वम् । इतरांशेऽनुकूलतर्का-प्रसरात् । तथा च क्षित्यादिकम्, कर्तृजन्यं न भवति, शरीराजन्यत्वात्, इत्यत्र यथा शरीरविशेषण-वैयर्थ्यान् न शरीरजन्यत्वं कर्तृजन्यत्वव्यापकम्, एवं वियदादिकम्, न मिथ्या, स्वबाधकाभिमता-बाध्यदोषप्रयुक्तभानत्वव्यतिरेकात्, इत्यत्र स्वबाधकाभिमताबाध्यभागस्य वैयर्थ्यात् स्वबाधकाभिमता-बाध्यदोषप्रयुक्तभानत्वं न मिथ्यात्वव्यापकम् । दोषप्रयुक्तभानत्वं तु भवति साध्यव्यापकम् । तच्च साधनव्यापकमपि, इति नोपाधिः । दृश्यत्वादिनैव मिथ्यात्ववत् तस्यापि साधनात् । एवं द्वितीयोपाधावपि ‘स्वबाधकाभिमताबाध्यबाधकं प्रती’ति विशेषणं व्यतिरेकसाधने व्यर्थम् । विशेष्य-भागस्तु साध्यसाधनयोर्व्यापकः, इति नोपाधिः । मैवम् । विशेष्यव्यतिरेकाद् विशिष्टव्यतिरेकस्य भिन्नत्वेन तत्र वैयर्थ्यासम्भवात् । तथा हि – एकस्मिन् धर्मिणि व्याप्यतावच्छेदकत्वेन प्रसक्त-योर्द्वयोर्धर्मयोर्लघुनैव तत्र व्याप्तिर्गृह्यते न तु गुरुणा । यथा नीलधूमे धूमत्व–नीलधूमत्वयोर्मध्ये धूमत्वेन । न चेह विशिष्टाभावनिष्ठां व्याप्तिं परिच्छेत्तुं विशेष्याभावत्वं प्रसक्तम्, विशिष्टाभावे विशेष्याभावत्वस्यासत्त्वात्, किन्तु विशिष्टाभावत्वमेव । एवं च विशिष्टोपाधेरस्त्येव साध्य-व्यापकता । न च ईश्वरानुमानेऽप्युक्तविधया शरीरजन्यत्वमुपाधिः स्यादिति वाच्यम् । श्रुतिबलेन क्षित्यादिकर्तुरीश्वरस्य सिद्धौ पक्ष एव तस्य साध्याव्यापकत्वादनुपाधित्वम् । तस्माद् युक्तावुपाधी ॥
ननु – प्रथमोपाधौ ‘स्वबाधकाभिमताबाध्ये’ति विशेषणं साध्येन समव्याप्त्यर्थम्, न तु पक्षमात्रव्यावृत्त्यर्थम् । अतस्तत्र शङ्कापरिहारावसङ्गतौ । तथा हि सर्वप्रत्ययवेद्यत्वेनाविद्यारूपदोषजन्ये घटादिगोचरे चरमवृत्तिरूपे वा ज्ञाने ब्रह्मणो विषयत्वेनोपाधिमति तस्मिन् साध्यस्याभावेन व्यभिचारात् । तद्विशेषणे तु विशिष्टस्योपाधेर्ब्रह्मण्यप्यसत्त्वान् न तत्र साध्याव्याप्तिरिति चेत्,– स्वयंप्रकाशे तस्मिन् दोषप्रयुक्तभानाभावादिति पररीत्या चोपाधेस्साध्यव्याप्यत्वमस्त्येव इति न तदर्थं विशेषणम्, किंतु पक्षमात्रव्यावृत्त्यर्थम् । अतस्तत्रापि शङ्कापरिहारौ युक्तौ । पक्षमात्रव्यावर्तक-विशेषणवत्त्वशङ्काया अप्यविषयमुपाधिमाह – यद्वेति ॥ ननु विपरीतप्रमाविषयत्वादेरुपाधेर्न साधनवतः पक्षाद् व्यावृत्तिः, साध्यवति पक्ष उपाधेरपि साध्यमानत्वादित्याशङ्कां परिहर्तुं ‘यथे’त्याद्युक्तम् ॥ युगपदिति ॥ तथा चान्योन्यस्यासाध्यमानत्वान्नान्योन्यसाधनेऽन्योन्य-स्योपाधित्वमिति भावः ॥ अर्थान्तरमिति ॥ यद्यप्युभयसाधनेऽप्येकस्योपाधित्वमवर्जनीयमेव; मित्रातनयत्वेन शाकपाकजत्वे साध्ये श्यामत्वस्येव सन्दिग्धसाधनाव्यापकत्वसम्भवात्, तथापि दूषणान्तरे तात्पर्यम् ॥
ननु अत्र बाधकप्रमां प्रति निषेध्यत्वेन विषयत्वमेवोपाधिर्वक्तव्यः । तस्यैव पूर्वोक्तविशिष्टोपाधौ विशेष्यभूतत्वात् । यथा ‘स्वबाधकाभिमते’त्यादिविशिष्टोपाधिनिविष्टं विशेष्यं दोषप्रयुक्तभानत्व-मुपाधित्वेनोक्तम्, विपरीतप्रमाविषयत्वं त्वप्रकृतं किमर्थमुपाधित्वेनोक्तम्? न च – बाध्यत्वरूपसाध्येन सह बाधकं प्रति निषेध्यत्वेन विषयत्वस्योपाधेरवैशिष्ट्यं स्यात्, अत उपाध्यन्तरमुक्तमिति वाच्यम् । विपरीतप्रमाविषयत्वस्यापि बाध्यत्वरूपसाध्येनाभेदादित्याशङ्कायामाह– बाध इति ॥ आरोपपूर्वकस्वात्यन्ताभावप्रमां प्रति निषेध्यत्वेन विषयत्वं बाध्यत्वम्, स्वात्यन्ताभावप्रमां प्रति निषेध्यत्वेन विषयतामात्रं विपरीतप्रमाविषयत्वमिति तयोर्भेदाद् बाध्यत्वे साध्ये विपरीतप्रमाविषयत्वं भवत्युपाधिरित्यर्थः । ननु एतयोरुपाध्योः कथं साध्यव्यापकत्वम्? उपाधिमति तुच्छे साध्यस्या-भावादिति – चेत्, न । मम मत उपाधिमति तुच्छे साध्यस्यापि सत्त्वात् । परमते तत्र साध्योपाध्योर्द्वयोरप्यभावात् । ननु तथापि दोषप्रयुक्तभानत्वस्योपाधेर्न साध्यव्याप्यत्वम् । सर्वप्रत्यय-वेद्यत्वेनाविद्यारूपदोषप्रयुक्तघटादिभानविषये तादृशचरमवृत्तिविषये वा ब्रह्मणि साध्यस्याभावेन व्यभिचारादिति चेन् न । स्वयंप्रकाशत्वेन ब्रह्मणो दोषप्रयुक्तभानत्वाभावादित्यभिप्रायत्वात् ।
न्यायामृतकण्टकोद्धारः
स्वबाधकाभिमतेति ॥ स्वस्यारोप्यस्य यद् बाधकत्वेनाभिमतम्, तदबाध्यो यो दोषः, तत्प्रयुक्तं भानं यस्य, तस्य भावस्तत्त्वम्, तस्येत्यर्थः । तदबाध्यस्येत्यत्र तच्छब्देन स्वबाधकाभिमतपरामर्शः । भवति चेदमुपाधिद्वयं साध्यव्यापकं शुक्तिरजतादौ, तत्र मिथ्यात्वसाध्यस्य सत्त्वात् । स्वं रूप्यम्, तद्बाधकत्वेनाभिमतम् ‘नेदं रजतमि’ति ज्ञानम्, तेनाबाध्यो यः सादृश्यादिदोषः, तत्प्रयुक्तभानत्वस्य, स्वबाधकाभिमतेन ‘नेदं रजतमि’ति ज्ञानेनाबाध्यं ‘नेदं रजतमि’ति ज्ञानमेव, तत् प्रति निषेध्यत्वेन विषयत्वस्य च सत्त्वात् । न भवति च साधनव्यापकम्; साधनवति पक्षे स्वं घटादिकम्, तद्बाधक-त्वेनाभिमता ब्रह्मप्रमा, तदबाध्यदोषप्रयुक्तभानत्वस्य, तदबाध्यबाधकं प्रति निषेध्यत्वेन विषयत्वस्य चाभावात्, किन्तु तद्भानस्य तद्बाध्याविद्यारूपदोषप्रयुक्तत्वात्, तद्बाधकीभूतप्रमाया अपि ब्रह्मप्रमयैव बाध्यत्वेनाबाध्यबाधकाभावाच्च । न च दोषप्रयुक्तभानत्वं बाधकज्ञानं प्रति निषेध्यत्वेन विषयत्वं वोपाधिरस्तु, इतरद् व्यर्थमिति वाच्यम् । परमतानुसारेण साधनाव्यापकत्वार्थत्वात् । अविशेषितयो-स्तयोः पक्षे सत्त्वेन साधनव्यापकत्वात् । न च – देहात्म्यैक्ये साध्याव्यापकत्वम्; अस्ति च तत्र मिथ्यात्वम्, नास्ति चोपाधिः । तस्य ब्रह्मज्ञानमात्रबाध्यत्वेन स्वबाधकाभिमताबाध्यदोष-प्रयुक्तभानत्वाभावात्, सर्वस्य ब्रह्मज्ञानबाध्यत्वादिति वाच्यम् । देहात्मैक्यभ्रमस्यैवाभावात् । ‘‘मम देहः’ इति हि सर्वेषां प्रमैव, न तु ‘देहोऽहमि’ति भ्रमः कस्यापि । गौरोऽहमित्यादि तु ‘सिंहो देवदत्तः’ इतिवदुपचारमात्रम् । उपचारे बीजं त्वेकदेशस्थत्वं स्फुटतरविवेकाभावश्चेत्यादि । अस्तु वा देहात्म्यैक्यभ्रमः, देहात्मविवेकेनैव स निवर्त्यते, इति तत्राप्युपाधिद्वयसत्त्वात् । न च यद्व्यति-रेकस्य साध्यव्यतिरेकसाधकत्वम्, स उपाधिः । इतरांशेऽनुकूलतर्काप्रसरात् । प्रकृते चोपाधिव्यतिरेकेण साध्यव्यतिरेकसाधने व्यर्थविशेषणत्वम् । यथा क्षित्यादिकम्, कर्तृजन्यं न, शरीराजन्यत्वादित्यत्र शरीरविशेषणवैयर्थ्यम् । न च – शरीरजन्यत्वं कर्तृजन्यत्वव्यापकम्, तस्मात् कथमुपाधित्वमिति वाच्यम् । अत्र हि विशिष्टव्यतिरेको हेतुः । वियदादिकम्, न मिथ्या, स्वबाधकाभिमताबाध्यदोष-प्रयुक्तभानरहितत्वात्, इति विशिष्टाभावेन वैयर्थ्यम् । किञ्चानुकूलतर्केण विशिष्टस्य साध्यव्यापकत्वे गृहीते व्यापकनिवृत्त्या व्याप्यनिवृत्तिसाधनं सुशकम्, अत एव शरीरजन्यत्वमुपाधिरित्यन्यत्रोक्तम् । एवं द्वितीयोपाधावपि समाधानं द्रष्टव्यम् । उक्तसमाधानपर्यालोचनप्रयासात् कल्पान्तरमाह– यद्वेति ॥ ननु बाध्यत्व–विपरीतप्रमाविषयत्वयोरैक्यात् कथमुपाधित्वमित्यत आह– बाध इति ॥
न्यायामृतप्रकाशः
स्वबाधकेति ॥ दिदर्शयिषितोपाध्यधिकरणं स्वशब्दार्थः । शुक्तिरूप्ये दृष्टान्ते मिथ्यात्वमस्ति उपाधिश्चास्ति । तथा हि । स्वशब्देन शुक्तिरूप्यं तद्बाधकत्वेनाभिमतं यन्नेदं रजतमिति ज्ञानं तदबाध्यो यो दोषः काचादिस्तज्जन्यभ्रमरूपज्ञानविषयत्वेन तत्प्रयुक्तभानत्वस्य सत्त्वात् । दृश्यत्ववति पक्षे चोपाधिर्नास्ति । तथा हि । स्वशब्देन प्रपञ्चस् तद्बाधकत्वेनाभिमतं यद्वेदान्तजन्यचरमवृत्तिरूपं ज्ञानं, तदबाध्यदोषप्रयुक्तभानत्वं नास्ति । जगद्भ्रमनिमित्ते मायाऽविद्या(दि)रूपे दोषे स्वबाधकाभिमत-बाध्यत्वस्यैव सत्त्वेन विशेषणाभावप्रयुक्तविशिष्टाभावस्यैव सत्त्वात्साधनाव्यापक इति भवत्युपाधिः । दोषप्रयुक्तभानत्वमात्रोक्तौ साधनव्यापकता स्यादतः स्वबाधकाभिमताबाध्येति दोषविशेषणम् ॥ तदबाध्येति ॥ स्वबाधकाभिमताबाध्येत्यर्थः । तथा च मिथ्यात्ववति रूप्ये उपाधिरस्ति । तथा हि । स्वबाधकाभिमतं यन्नेदं रूप्यमिति ज्ञानं तदबाध्यं यद्बाधकज्ञानं स्वयमेव स्वेनैव स्वस्याबाध्यत्वात् तत्प्रति निषेध्यत्वेन विषयत्वमस्ति । साधनवति च पक्षे नास्ति । स्वबाधकाभिमतं यद्बाधकज्ञानं चरमवृत्तिरूपं तद्बाध्यबाधकं प्रत्येव निषेध्यत्वेन विषयत्वमस्ति न तु तदबाध्यबाधकं प्रति निषेध्यत्वेन विषयत्वम् । जगद्बाधकस्य वेदान्तजन्यचरमवृत्तिरूपज्ञानस्य कतकरजोवद्वेणुसङ्घर्षजाग्निवच्च स्वेनैव बाध्यत्वात् । यथोक्तम् ।
‘‘वेणुसङ्घर्षजो वह्निर्दग्ध्वा शाम्यति तद्वनम् ।
एवं गुणव्यत्ययजो वेदः शाम्यति तद्यथा’’ इति ।
वेदो वृत्तिज्ञानमित्यर्थः । एवञ्च पक्षे स्वबाधकाभिमताबाध्यबाधकं प्रति निषेध्यत्वेन विषयत्वं नास्तीति विशेषणाभावप्रयुक्तविशिष्टाभावस्य सत्त्वात्साधनाव्यापकत्वमित्यर्थः । पक्षे साधनाव्यापकतालाभाय स्वबाधकाभिमताबाध्येति बाधकज्ञानविशेषणोपादानम् ॥ व्यतिरेकेति ॥ साध्याभावाविनाभाव्यभाव-प्रतियोगित्वस्योपाधित्वेन उपाध्यभाववति ब्रह्मणि साध्याभावसत्त्वादित्यर्थः ॥ पर्वतेति ॥ अन्यत्वस्य केवलान्वयित्वेन साधनव्यापकत्वात्साधनाव्यापकत्वार्थं पर्वतावय ववृत्तीत्युक्तम् । नन्वथापि साधन-व्यापकत्वमेव पर्वते पर्वतावयववृत्तिरूपाद्यन्यत्वसद्भावादिति चेन्न । अन्योन्याभावस्य प्रतियोगितावच्छेदक-व्यधिकरणत्वेन पर्वतावयववृत्तित्वरूपप्रतियोगितावच्छेदकवति पर्वते तदन्यत्वप्रतीतेर्विरुद्धत्वेन साधना-व्यापकत्वमेवेत्यवधेयम् । वह्निसामग्रीयुक्तत्वस्यापि साधनव्यापकत्वात्साधनाव्यापकत्वलाभायापर्वतीये-त्युक्तम् । ननु पर्वतावयववृत्तीत्यस्य न पक्षमात्रव्यावर्तकत्वं पर्वतावयवगतरूपादिव्यावर्तकत्वात् । तथा च कथं पर्वतावयववृत्त्यन्यत्वस्य पर्वतेतरत्वमिति चेत् सत्यम् । पक्षमात्रव्यावर्तकविशेषणवत्त्वादित्यापाततः । वस्तुतस्तु हेतुसाध्ययोर्व्याप्तिग्राहकानुकूलतर्कसद्भावेन साध्यस्य पक्षे निश्चितत्वादुपाधेः साध्यव्यापकता-ग्राहकानुकूलतर्काभावे पक्ष एव साध्यव्यापकताभङ्गात्पर्वतावयववृत्त्यन्यत्वादेर्नोपाधित्वं यथा तथा प्रकृतयोरप्युपाध्योर्मिथ्यात्वव्यापकताग्राहकानुकूलतर्काभावान्नोपाधित्वमिति शङ्कितुरभिप्रायः । अत एव वक्ष्यमाणानुकूलतर्कैः साध्यव्यापकतानिश्चयादित्यनुकूलतर्केण साध्यव्यापकतानिश्चयं वक्ष्यतीति द्रष्टव्यम् ।
प्रकृतोपाध्योः पक्षेतरत्वतुल्यत्वं परिहर्तुम् अनुकूलतर्कैरुपाधेः साध्यव्यापकतानिश्चयोऽस्तीत्याह ॥ वह्निनेति ॥ आर्द्रेन्धनप्रभववह्निमत्त्वोपाधेः साध्येन धूमेन व्यापकत्वग्राहकार्द्रेन्धनोत्कर्षेण धूमोत्कर्षरूपानुकूलतर्कोऽस्ति । एवं प्रकृतोपाध्योरपि साध्यभूतभ्रमविषयत्वरूपमिथ्यात्वव्यापकताग्राहको दोषोत्कर्षेण भ्रमोत्कर्षरूपानुकूलतर्कोऽस्ति । अतः साध्यव्यापकत्वनिश्चयादुपाधित्वं युक्तमित्यर्थः । साध्यव्यापकताग्राहकानुकूलतर्काभावात्पक्षेतरत्वस्योपाधित्वं नास्तीत्यङ्गीकृत्यानुकूलतर्कोपपादनं कृतम् । वस्तुतस्तु क्वचित्पक्षेतरत्वमप्युपाधिरेवेत्याह ॥ बाधित इति ॥ तर्हि प्रकृतानुमाने कथं बाधितत्वमित्यत आह ॥ इह चेति ॥ यथा वह्निरनुष्णः पदार्थत्वादित्यत्र बाधेन हेतुसाध्ययोर्व्याप्तिग्राहकानुकूलतर्काभावेन पक्षे साध्यव्यापकताभङ्गाभावेन तत्र वह्नीतरत्वमुपाधिरेव तद्वदत्रापि सन्घट इत्यादिप्रत्यक्षबाधेन हेतुसाध्ययोर्व्याप्तिग्राहकानुकूलतर्काभावात् पक्षे साध्यव्यापकत्वभङ्गाभावेनोक्तोपाध्योः पक्षमात्रव्यावर्तक-विशेषणवत्त्वेन पक्षेतरत्वेऽप्युपाधित्वं युक्तमित्यर्थः ॥
पक्षमात्रव्यावर्तकविशेषणवत्त्वरूपपक्षेतरत्वशङ्काया अविषयमुपाधिमाह ॥ यद्वेति ॥ ननु विपरीतप्रमा-विषयत्वरूपोपाधेरपि दृश्यत्वहेतुना पक्षे साध्यमानत्वेन साधनव्यापकत्वान्नोपाधित्वमित्यत उक्तम् ॥ तस्मिन्साध्य इति । न चैतददृष्टचरमित्यतो यथेत्युक्तम् । हेतुसाध्ययोर्व्याप्तिग्राहकानुकूलतर्काभावादित्यर्थः । मित्रातनयत्वेनैव हेतुना गर्भस्थस्य शाकपाकजत्वमपि साध्यतेऽतः साधनव्यापकत्वमित्यत उक्तम् ॥ तस्मिन्निति ॥ इहापीति ॥ दृश्यत्वमिथ्यात्वयोरपि व्याप्तिग्राहकानुकूलतर्काभावादित्यर्थः । ननु विपरीतप्रमाविषयत्वदोषप्रयुक्तभानत्वयोरेव मिथ्यात्वेन कथमुपाधित्वमित्यत उक्तम् ॥ बाध्यत्वादीति । यदाऽनयोरुपाधित्वं तदा मिथ्यात्वं बाध्यत्वादिरूपमन्यदेवोच्यत इत्यर्थः । ननु तत्र मित्रातनयत्वेनैव हेतुना युगपदेव गर्भस्थः श्यामः शाकपाकजश्चेत्येवंश्यामत्वशाकपाकजत्वयोरुभयोरपि साधनं क्रियते । ततश्च न परस्परोपाधित्वं युक्तम् । एवं दृश्यत्वेन हेतुना पक्षे मिथ्यात्वविपरीतप्रमाविषयत्वयो-र्मिथ्यात्वदोषप्रयुक्तभानत्वयोर्वा युगपदेव साधनं क्रियतेऽतो न परस्परोपाधिग्रस्तत्वमित्यत आह ॥ युगपदिति ॥ कथमित्यत आह ॥ मिथ्यात्व एवेति ॥ ननु बाध्यत्वरूपे मिथ्यात्वेऽपि कथं विपरीतप्रमाविषयत्वस्योपाधित्वं, विपरीतप्रमाविषयत्वस्यैव बाध्यरूपत्वेन तयोरेकत्वादित्यत आह ॥ बाध इति ॥ यत्रेदं रजतमिति भ्रांतिपूर्वकं नेदं रजतमिति ज्ञानं जायते तद्बाध इत्युच्यते । अत एव ‘‘पूर्वप्रसञ्जितान्यथाकारविलोडकं ज्ञानं बाध’’ इति बाधलक्षणमाहुः । विपरीतप्रमा तु न भ्रान्तिपूर्विका । यथा मार्गे गच्छतः पुरुषस्य इदं रजतमिति भ्रमप्रसक्त्यभावेऽपि शुक्तिं दृष्ट्वा झडिति इदं रूप्यं न भवतीति ज्ञानं जायते सा विपरीतप्रमेति तयोर्भेद इत्यर्थः । प्रमाया विपरीतत्वं च निषेधविषयकत्वादित्यवगन्तव्यम् ॥
न्यायकल्पलता
वक्ष्यमाणदोषेषु सोपाधिकत्वं तावदाह । सोपाधिकाश्चेति । दोषप्रयुक्तभानत्वं दोषान्वयव्यतिरेकानु-धाय्यन्वयव्यतिरेकित्वं भानस्येति ज्ञेयम् । यत्र मिथ्यात्वं तत्र दोषप्रयुक्तभानत्वं यथा शुक्तिरूप्यादाविति साध्यव्यापकत्वे सत्यपि साधनाव्यापकत्वाभावः । जगत्यपि बौद्धपरिकल्पितदोषप्रयुक्तक्षणिकत्वादिप्रतिभा सम्भवति । अतः साधनाव्यापकत्वसिध्यर्थमबाध्येति दोषविशेषणम् । जगत्स्थायित्वादिसमर्थनेन तत्परिकल्पितदोषाणाम् अनिरासात् । तथाप्येकं सन्धित्सतोऽन्यत्प्रच्यवत इत्यापन्नम् । तथाहि । मायिमतेनोपाधेः साध्याव्यापकता । शुक्तिवत्तद्वृत्तिरजतप्रतियोगिकसादृश्यरूपदोषस्य शङ्खपीतत्वभानप्रयोजककरणचक्षुर्दोषस्य च शङ्खसत्तासमानसत्ताकत्वेन बाध्यत्वादत उक्तं स्वबाधकाभिमतेति । अत्र दिदर्शयिषितोपाधिकमधिकरणं स्वशब्दार्थ इति तन्न । पक्षे साधनव्याप्तिनिरासानुपपत्तेः । पक्षस्य दिदर्शयिषितोपाधिकत्वायोगात् । किंनाम समभिव्याहृतार्थपर इति ज्ञेयम् । शुक्तिरूप्यादौ साध्यवति शुक्तिरूप्यादिबाधकत्वाभिमतेन नेदं रजतमिति ज्ञानेनाबाध्यो यो दोषः सादृश्यादिस्तत्प्रयुक्तभानत्वस्य सत्वात् । तथा द्वितीयोपाधावापि उक्तविधया स्वबाधकभिमताबाध्यबाधकं नेदं रजतमिति ज्ञानं प्रति निषेध्यत्वेन विषयत्वस्य सत्वात्सपक्षे साध्यव्यापकता । हेतुमति पक्षे परमतेनाविद्यारूपदोषप्रयुक्तभानत्वस्य सत्वात् सपक्षे, तथा नेह नानास्ति किञ्चनेति वेदान्तजन्यबाधकज्ञानं प्रति निषेध्यत्वेन विषयत्वस्य सत्वात्साधनस्योपाधिना व्याप्तिर्मा प्रसाङ्क्षीदिति स्वबाधकाभिमताबाध्येति प्रथमोपाधौ विशेषणम् । द्वितीयोपाधौ बाधकज्ञानविशेषणम् । एवं च अविद्यारूपो दोषः परमते वियदादिबाधकाभिमतया चरमवृत्या बाध्य एवेति स्वबाधकाभिमताबाध्यत्वरूपविशेषणा-भावाद्विशिष्ठाभावः । विशिष्टरूपोपाधेरसत्वात् । तत्वविन्मते तु विशेष्याभावद्विशिष्टरूप उपाधिर्नास्तीति भवति पक्षे साधनाव्यापकः । वस्तुतो नेह नानास्ति किञ्चनेति श्रुतेर् ज्ञानाद्यनन्तानवद्यकल्याणब्रह्माद्वैतपरतया प्रपञ्चाद्वैतपरत्वाभावेन तदबाधकत्वादद्वैत्यभिमान-निर्मितमेव तद्बाधकत्वमिति सूचयितुमभिमतपदम् ।
उक्तोपाधेः समव्याप्तमुपपादयितुं साध्यव्याप्तिं तावदाह ॥ विपक्षाद्व्यावृत्तस्येति । अनेन साध्याभाववन्निष्ठाभावप्रतियोगित्वरूपसाध्यव्याप्यत्वोक्तिः । साध्यव्यापकतामप्याह । व्यतिरेकव्याप्तिमत इति । साध्यव्यतिरेकनिरूपितव्याप्तिमद्व्यतिरेकप्रतियोगिन इत्यर्थः । अनेन साध्याभावव्याप्याभाव-प्रतियोगित्वरूपसाध्यव्याप्यत्वोक्तिः । एवं च समव्याप्तिर्लभ्यत इत्यभिसन्धायोक्तं समव्याप्तिमत इति । अत्र विशेषणानामाकाङ्क्षानुसारेणान्वयो ज्ञेयः । यत्तु समव्याप्तिमत्वाद् व्यतिरेकव्याप्तिमत इति हेतुहेतुमद्भावेन व्याख्यानं तदसमञ्जसम् । समव्याप्तिमतोऽपि प्रमेयत्वादेर्व्यतिरेकव्याप्त्यभावात् । तद्रहित-स्यापि धूमादेस्तत्सम्भवाच्च । अन्वयव्यतिरेकित्वे सतीति विशेषणं क्लिष्टकल्पनमिति विपक्षाद्व्यावृत्तस्येति पाठानादरणात् । केचित्तु पक्षाद्व्यावृत्तस्येति युक्तस्तेन साधनाव्यापकत्वमाहेत्याहुः । तन्न । समव्याप्तेरनु-पपादनात् । साधनाव्यापकत्वं च विशिष्टोपाधेरुपादानादेव सिद्धम् ।
यद्वा विपक्षाद्व्यावृत्तत्वे सति समव्याप्तिमत्वादिदमुपाधिद्वयं व्यतिरेकव्याप्तिमदिति व्याख्येयम् । ननु नायमुपाधिः । पक्षेतरत्वात् । पक्षेतरश्च नोपाधिः सर्वानुमानोच्छेदापत्तेः । ‘‘उपाधिप्रतिरोधौ तु क्व नामातीव दुर्वचावि’’त्युक्तेरित्याशङ्क्य निराकरोति । न चेति । पक्षमात्रव्यावर्तकविशेषणवत्वं चोपाधेस्तादृशविशेषणघटितत्वं न तु तादृशविशेषणं प्रति विशेष्यत्वम् ।
तथा हि– उपाधित्वेन निर्दिश्यमाने विशिष्टे प्रविष्टस्यान्यत्वरूपस्य पर्वततदितरसाधारणस्य विशेष्यस्य यद्विशेषणं पर्वतावयववृत्तीति तेनान्यत्वरूपं विशेष्यं पक्षमात्राद्व्यावर्त्यते । पर्वतावयव-वृत्यन्यत्वस्य पर्वतेऽसत्वात् । अतः पर्वतावयववृत्तीति विशेषणं पक्षमात्रव्यावर्तकम् । तथाविधविशेषणा-न्यत्वरूपो धर्मः । एवञ्च वह्निसामग्रीयुक्तस्य विशेष्यस्य पर्वततदितसाधारणस्य यद्विशेषणमपर्वतीयेति, तेन वह्निसामग्रीयुक्तत्वं विशेष्यं पक्षमात्राद् व्यावर्त्यते इति पर्वतावयववृत्त्यन्यत्वमपर्वतीयवह्निसामग्री-युक्तत्वं च पक्षमात्रव्यावर्तकविशेषणवदित्यर्थः । अन्यथाऽविशिष्टोपाधिं प्रति पक्षमात्रव्यावर्तकविशेषणा-भावेनासङ्गतिः स्यात् । यद्यप्यत्र पर्वतावयववृत्तीत्यस्य पर्वतावयववृत्तिरूपादिव्यावर्तकत्वान्न पक्षमात्र-व्यावर्तकत्वम् । एवमपर्वतीयेत्यस्यापि पर्वतीयवह्निसामग्रीयुक्तपर्वतीयवृक्षादिव्यावर्तकतया न पक्षमात्र-व्यावर्तकत्वम् । प्रकृतोपाध्योश्च विपक्षाद्ब्रह्मणोऽपि व्यावर्तनान्न पक्षमात्रव्यावर्तकविशेषणवत्वम् । तथापि साध्यव्यापकताग्राहकानुकूलतर्कादिराहित्याद्यथा पर्वतावयववृत्यन्यत्वादेर्नोपाधित्वं तथा प्रकृत-योरपि उपाध्योर्नोपाधित्वम् । साध्यव्यापकताग्रहानुकूलतर्कादेरभावादिति शङ्कितुरभिप्रायः । अत एव सिद्धान्ती ‘‘वक्ष्यमाणानुकूलतर्कैः साध्यव्यापकत्वनिश्चयादिति’’ अनुकूलतर्केण साध्यव्यापकत्वनिश्चयं वक्ष्यतीति । अथवा अन्यनिष्ठव्यतिरेकप्रतियोगित्वेनोपाधेः साधनाव्यापकत्वं सुवचम् । हेतोरसिध्या प्रतिपक्षोन्नयनासम्भवात् । दूषणौपयिकसाधनवत्पक्षनिष्ठव्यतिरेकतया प्रतियोगित्वप्रयोजकमात्रपदोपादान-मित्यवगन्तव्यम् । यद्यपि प्रकृतयोः स्वबाधकाभिमताबाध्येत्युक्तयोरुपाध्योरनुपाधितायां पर्वतान्यत्वादिक-मेव निदर्शनीयम्, तथापि पर्वतान्यत्वादेरनुपाधितायां न पक्षमात्रव्यावर्तकविशेषणवत्वं प्रयोजकम् । किन्तु पर्वतान्यत्वस्य पक्षमात्रवृत्तिव्यतिरेकप्रतियोगितया पर्वतान्यत्वव्यतिरेकेण साध्याभावसाधने असाधारण्यात्पर्वतान्यत्वस्य नोपाधित्वम् । प्रकृतयोः स्वबाधकाभिमताबाध्येत्युपाध्योस्तु न पक्षमात्र-निष्ठव्यतिरेकप्रतियोगित्वं, विशिष्टोपाध्योर्व्यतिरेकस्य साध्याभाववति ब्रह्मण्यपि सत्वेनोपाधिव्यतिरेकेण मिथ्यात्वरूपसाध्यव्यतिरेके साध्यमाने ब्रह्मणः सपक्षत्वसम्भवादिति यदि कश्चिद् ब्रूयात्, तदा स्वव्यतिरेकेण साध्यव्यतिरेकसाधने पर्वतावयववृत्तिरूपादिनिष्ठव्यतिरेकप्रतियोगित्वेन लब्धोदाहरणस्यापि पर्वतावयववृत्त्यन्यत्वादेर्यथा नोपाधित्वं तथा प्रकृतयोरपीत्यभिसन्धाय पूर्वपक्षिणा पर्वतावयवृत्यन्यत्वादिकं निदर्शितमित्यवधातव्यम् । पक्षेतरत्वमिति । पक्षमितरयति व्यावर्तयतीति पक्षेतरः पर्वतेतरत्वादिस्तस्य भावस्तत्त्वं पर्वतावयववृत्यन्यत्वादिवत्साधनवत्पक्षमात्रव्यावर्तकविशेषणवत्वेन पक्षेतरतुल्यत्वं न तु पर्वतान्यत्वमित्यर्थः । आक्षेपतत्परिहारयोरनुपपत्तेः । तत्तुल्यत्वं चानुकूलतर्कराहित्येनेति बोध्यम् । प्रकृतयोरुपाध्योः पक्षेतरत्वतुल्यत्वं परिहर्तुमनुकूलतर्कैः साध्यव्यापकताऽस्तीत्याह । वह्निनेति ।
अयमर्थः– यथेश्वरानुमाने जन्यत्वरूपसाधनविशेषितं शरीरजन्यत्वं नोपाधिः । वह्निना धूमे साध्ये आर्द्रेन्धनप्रभववह्निमत्वं साधनविशेषितमप्युपाधिः । एवं च साधनविशेषितस्योपाधित्वानुपाधित्वयोः साध्यव्यापकताग्राहकानुकूलतर्कसदसद्भावौ बीजम् । तथा पर्वतेतरत्वस्य पक्षमात्रव्यावर्तकविशेषणवतो नोपाधित्वम् । प्रकृतयोरुपाध्योरस्तु पक्षमात्रव्यावर्तकविशेषणवतोरपि उपाधित्वमित्यत्र साध्यव्यापकता-ग्राहकानुकूलतर्कविरहाविरहौ हेतू इति ।
यद्वा धूमशून्यं सर्वं तप्तायःपिण्डादिकं पक्षीकृत्य बाधाप्रतिसन्धानदशायां वह्निना धूमे साध्ये आर्द्रेन्धनप्रभववह्निमत्वं पक्षमात्रव्यावर्तकविशेषणवदपि साध्यव्यापकताग्राहकानुकूलतर्कसद्भावाद्यथो-पाधिस्तथा प्रकृतयोरप्युपाधित्वमित्यर्थः । वस्तुतस्तु प्रकृतोपाध्योस्तु प्रतिपक्षोन्नयनप्रयोजकपक्षमात्र-निष्ठव्यतिरेकप्रतियोगित्वाभिप्रायेण पक्षमात्रव्यावर्तकविशेषणवत्वम् । विपक्षादपि ब्रह्मणो व्यावर्तनात्पक्ष-मात्रव्यावर्तकविशेषणवत्वमसिद्धमेव । व्याप्तिविरहोन्नायकत्वेनापि दूषकत्वसम्भवात् । दृश्यत्वं मिथ्यात्वाव्याप्यं तद्व्यापकाभाववद्वृत्तित्वात् । वह्निवदिति व्याप्तिविरहोन्नयनोपत्तेः ।
यदुक्तं सर्वानुमानोच्छेदकत्वात्पक्षेतरो नोपाधिरिति तद्दूषयति । बाधित इति । कृतकत्वेन वह्नेरनौष्ण्यसाधने वह्नीतरत्वस्योपाधित्वात् । बाधेन पक्षस्यैव विपक्षतया वह्नीतरान्यत्वस्य निश्चितसाध्य-वद्वह्निवृत्तित्वेनासाधारण्याभावात् । निश्चितसाध्यवतो हि सपक्षत्वं न तु पक्षान्यत्वे सतीति । गौरवादिति भावः । एवञ्च वह्नीतरत्ववद्बाधोन्नीतत्वात्प्रकृतयोरप्युपाधित्वमिति हृदयम् । बाधोन्नीतत्वमनयो-रुपाध्योर्दशयति । इह चेति ।
यद्वा बाधेन पक्षस्यैव विपक्षतया बाधोन्नीतोपाधौ पक्षमात्रव्यावर्तकविशेषणवत्वमसिद्धमित्यर्थः। न च प्रकृतोपाध्योर्ब्रह्मज्ञानमात्रबाध्ये देहात्मैक्ये मिथ्याभूते साध्याव्यापकत्वमिति देश्यम् । पराभिमत-मिथ्याभूतदेहात्मैक्यस्यासिध्या तस्य ब्रह्मज्ञानमात्रबाध्यत्वासिद्धेः । ‘‘मम देहः’’ इति देहाद्भेदस्य सर्वै-रनुभूयमानतया देहात्मैक्याध्यासासम्भवस्य वक्ष्यमाणत्वात् । अत एव ‘‘नैषां ममाहमिति धीः श्वशृृगालभक्ष्ये’’ इति श्रीभागवते वेदगर्भवचनमप्यहमस्य कर्ता ममेदं सर्वमिति देहादौ स्वातन्त्र्याभिमति- निषेधकं न तु देहात्मैक्यनिषेधकम् ।
‘‘विलज्जमानया यस्य स्थातुमीक्षापथेऽमुया ।
विमोहिता विकत्थन्ते ममाहमिति दुर्धियः ॥ इति तत्रैव तद्वचनात् ।
‘‘देहेन्द्रियप्राणबुद्धिनेतृत्वं मन्यतेऽत्मनः ।
अतः संसारपदवीं याति जीवेशयोः सदा ।
वैलक्ष्यण्यं परं ज्ञात्वा मुच्यते बध्यतेऽन्यथा’’ ॥ इति स्मृतेश्च ।
ननु यद्व्यतिरेकस्य साध्यव्यतिरेकस्य साधनत्वं तस्यैव साध्यव्यापकत्वम् । इतरांशे अनुकूल-तर्काभावात् । तथा च क्षित्यादिकं न कर्तृजन्यं शरीराजन्यत्वादित्यत्र यथा शरीरविशेषणवैय्यर्थ्यान् न शरीरजन्यत्वं कर्तृजन्यत्वव्यापकम् । एवं वियदादिकं न मिथ्या स्वबाधकाभिमताबाध्यदोषप्रयुक्त-भानत्वरहितत्वादिति साध्यव्यतिरेकसाधने स्वबाधकाभिमताबाध्यभागस्य वैय्यर्थ्यात्स्वबाधकाभिमता-बाध्यदोषप्रयुक्तभानत्वं न मिथ्यात्वव्यापकम् । दोषप्रयुक्तभानत्वंं तु भवति साध्यव्यापकम् । तच्च साधनव्यापकमपीति नोपाधिः । दृश्यत्वादिनैव मिथ्यात्ववत्तस्यापि साधनात् । एवं द्वितीयोपाधावपि स्वबाधकाभिमताबाध्यबाधकं प्रतीति विशेषणं व्यतिरेकसाधने व्यर्थम् । विशेष्यभागस्तु साध्यसाधनयो-र्व्यापक इति नोपाधिरिति ।
अत्रोच्यते । स्वबाधकाभिमताबाध्येत्युपाधौ विशेषणं न व्यर्थम् । साध्यसमव्याप्त्यर्थत्वात् । तथा हि तत्वविन्नये ब्रह्मणोऽपि बौद्धादिपरिकल्पितदोषप्रयुक्तभानविषयत्वात् । विवर्तनयेऽपि सर्वप्रत्ययवेद्यत्वेना-विद्यारूपदोषजन्ये घटादिगोचरे चरमवृत्तिरूपे वा ज्ञाने विषयत्वाच्चोपाधिमति साध्यस्याभावेन साध्याव्याप्तिः । स्वबाधकाभिमताबाध्येति विशेषणे तु विशिष्टस्योपाधेर्ब्रह्मण्यसत्वान्न तत्र साध्या-व्याप्तिः । न च स्वप्रकाशे तस्मिन्दोषप्रयुक्तभानत्वमेव नास्तीति देश्यम् । अवेद्यत्वरूपस्वप्रकाश-त्वाभ्युपगमे वेदान्तानां वैय्यर्थ्यं, चरमवृत्तेर्निर्विषयत्वं च प्रसज्येत । अपि च यन्न मिथ्या तन्न दोषप्रयुक्तभानं यथा ब्रह्मेति व्यतिरेकव्याप्तिग्रहौपयिकत्वाच्च न विशेषणस्य व्यर्थता । अत एवोपाधि-व्यतिरेकेण साध्यव्यतिरेसाधनेऽपि न वैय्यर्थ्यम् । व्याप्तिसंवेदनौपयिकत्वेन सार्थकत्वात् । विशेषणानु-पादाने तत्र व्याप्तेरेव गृहीतुं दुःशकत्वात् । अन्यस्य व्याप्तिसंवेदनस्थानस्याभावात् । व्याप्तिवत्पक्षधर्मताया अपि अनुमित्यङ्गत्वेन तत्सिद्ध्यर्थत्वाच्च । न चासिद्धिवारकत्वेन वैय्यर्थ्यम् । व्याप्तिसमानाधिकरणाया एव पक्षधर्मताया अनुमित्यङ्गतया तत्सिध्यर्थकविशेषणस्य तन्मात्रार्थत्वाभावेनादोषत्वात् । व्याप्तिग्रहानु-कूलतयोपात्तेनैव विशेषणेनार्थात्पक्षधर्मताया अपि लाभात् ।
न चैवं शरीरजन्यत्वोपाधिसाम्यमिति देश्यम् । तत्र शरीरविशेषणस्य व्याप्तिग्रहानङ्गत्वात् । उपाध्युन्नीतप्रतिपक्षे च व्याप्तिसमानाधिकरणपक्षधर्मतासिद्ध्यर्थत्वाभावाच्च । पक्षधर्मताया व्याप्ति-व्यधिकरणत्वात् । न ह्यजन्यत्वरूपविशेष्यस्याकर्तृकत्वव्याप्तिसंवेदनस्थानं नास्ति । येन तत्सिद्ध्यर्थकं विशेषणमर्थवत्स्यात् । प्रकृते च समव्याप्त्यर्थत्वाद्व्यतिरेकव्याप्तिग्रहौपयिकत्वादुपाधिव्यतिरेकेण साध्य-व्यतिरेकसाधनेऽपि व्याप्तिसंवेदनार्थत्वाच्चोपपन्नमेतयोर्धर्मयोरुपाधित्वमिति ।
किञ्च विशेष्यविशिष्टयोर्भेदेन विशेष्यव्यतिरेकाद्विशिष्टव्यतिरेकस्य भिन्नतया तत्र वैय्यर्थ्यासम्भवः । तथा हि एकस्मिन्धर्मिणि व्याप्यतावच्छेदकत्वेन प्रसक्तयोर्द्वयोर्धर्मयोर्लघुनैव तत्र व्याप्तिरवच्छिद्यते न तु गुरुणा । यथा नीलधूमे धूमत्वनीलधूमत्वयोर्मध्ये धूमत्वेन नीलधूमादावपि विशिष्टनिष्टा व्याप्तिस् तत्र व्यभिचारोपाध्योरभावात् । अन्यथा विशेषाणामव्याप्यत्वे निराश्रया व्याप्तिः स्यात् । यावद्विशेषा-नालिङ्गितसामान्याभावात् । किन्तु नीलधूमत्वं न तदवच्छेदकं, गौरवात् । अपि तु धूमत्वमेव । न चेह विशिष्टाभावनिष्ठां व्याप्तिं परिच्छेत्तुं विशेष्याभावत्वं प्रसक्तम् । विशिष्टाभावे विशेष्याभावत्वस्यासत्वात् । किन्तु विशिष्टाभावत्वमेव । एवञ्च विशिष्टोपाधेरस्त्येव साध्यव्यापकता । न चैवमीश्वरानुमानेऽप्युक्त-विधया शरीरजन्यत्वमुपाधिः स्यादिति वाच्यम् । श्रुतिबलेन क्षित्यादिकर्तुरीश्वरस्य सिद्धौ पक्ष एव तस्य साध्याव्यापकत्वादनुपाधित्वम् । तस्माद्युक्तौ प्रकृतोपाधी इति ।
अस्तु वा दोषजन्यज्ञानविषयत्वं बाधकज्ञानं प्रति निषेध्यत्वेन विषयत्वं वा उपाधिः । न च जगतो बौद्धादिपरिकल्पितदोषजन्यक्षणिकत्वादिज्ञानविषयत्वात्स्थायित्वादिप्रकारकबाधकज्ञानं प्रति निषेध्यत्वेन विषयत्वात् साधनव्यापकत्वेनानयोरनुपाधित्वं, तथा च स्वबाधकाभिमताबाध्येति विशेषणमावश्यकमिति देश्यम् । दोषाणां बौद्धादिपरिकल्पितत्वेन वस्तुतोऽसत्त्वात् । तत्परिकल्पनाया एव जगत्क्षणि-कत्वादिभानहेतुतया दोषाणां तदहेतुत्वात् । जगत्स्थायित्वादिसमर्थनेन दोषाणामसत्वस्यैव सिद्धेः । अथ तदीयं यौक्तिकं ज्ञानं तदीयमज्ञानं वा हेतुः । तच्च सदेवेति दोषजन्यज्ञानविषयत्वं तर्हि प्राप्ताप्राप्तविवेकेन क्षणिकत्वांशे दोषजन्यज्ञानविषयत्वेऽपि जगदंशे न तथात्वम् । अत एवानुपदं दोषप्रयुक्तभानत्वादिक-मुपाधिरिति वक्ष्यति । तथा स्थायित्वादिसमर्थनेन क्षणिकत्वाद्यंशे बाधकज्ञानं प्रति निषेध्यत्वेन विषय-त्वेेऽपि जगदंशेऽतथात्वम् । अन्यथा स्थायित्वादिसमर्थनस्य निरालम्बनत्वापत्तेः । निषेध्यत्वेन विषयत्वे जगतोऽसत्वापाताच्च । एतेन दोषप्रयुक्तभानत्वं नोपाधिः । साध्यसाधनव्यापकत्वादिति निरस्तम् । जगद्ब्रह्मणोर्दृश्यत्वे सत्युपाधेरसत्वात् । न च ब्रह्मणोऽप्यविद्यारूपदोषजन्यज्ञानविषयत्वेन साधनव्यापक-त्वादनुपाधिरिति देश्यम् । विवर्तनये वेदान्तानामप्याविद्यकत्वेन तज्जन्यवृत्तेरप्यप्रमात्वापातात् । तत्त्वविन्नये तु ब्रह्मत्वेन ब्रह्मज्ञानस्य दोषाजन्यत्वात् । ‘‘अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम्’’ इत्यादि स्मृतेः । एवं द्वितीयोपाधावपि निषेध्यत्वेनेति विशेषणेनैव पक्षविपक्षव्यावृत्तिसिद्धावपि उपाधेः प्रतिपक्षोन्नायकत्वपक्षमाश्रित्य परमतेन पक्षव्यावृत्यर्थं स्वबाधकाभिमताबाध्येति विशेषणमित्यवगन्तव्यम् । अव्याप्त्युन्नायकत्वपक्षे तु बाधकं प्रति निषेध्यत्वेन विषयत्वमेवोपाधिः । साध्यव्यापकाभाववद्वृत्तित्वेन दृश्यत्वे व्याप्तिविरहोन्नयनसम्भवाद् इत्युपाधिद्वयमवदातम् ।
पक्षेतरतुल्यत्वशङ्काशूलाकलङ्कितमप्युपाधिं वक्ति । यद्वेति । ननु विपरीतप्रमाविषयत्वादिनोपाधिना व्याप्तिविरहोन्नयनसम्भवेऽपि न प्रतिपक्षोन्नयनसम्भवः । साधनवत्पक्षादव्यावृत्तेः । उपाधेरपि साधनवति पक्षे साध्यमानत्वादित्याशङ्कां परिहर्तंु, यथेत्याद्युक्तम् । दोषप्रयुक्तेत्यत्र प्रयुक्तपदं जन्यत्वपरम् । प्रमाया गुणजन्यत्वाभावेऽप्यप्रमाया दोषजन्यत्वनियमात् । ‘‘न विलक्षणत्वादस्य तथात्वं च शब्दादिति’’ । ननु यदा दृश्यत्वेन मिथ्यात्वविपरीतप्रमाविषयत्वयोरन्यतरत्साध्येत तदैकस्य साधनेऽपर उपाधिर्भवतीति न कस्यापि सिद्धिः स्यात् । यदा तु मिथ्यात्वे सति विपरीतप्रमाविषयत्वं विशिष्टं साध्येत तदा कथमित्यत आह । युगपदिति । उभयसाधने अन्योन्यविशेषणविशेष्यभावापन्नोभयसाधने ।
ननु यस्मिन्साध्ये यद्विप्रतिपन्नं तत्र तत्साधनीयमिति प्रकृतोपयोगित्वेन प्रकृतानुपयुक्तत्वाभावात्कथ-मर्थान्तरत्वमिति चेत् । अयं भावः । साध्यविशेषणप्रयोजनानां सिद्धसाधनतापरिहारादीनामभावेन तथा साध्यनिर्देशासम्भवः । उपाधित्वेनाशङ्क्यमानानाम् अनन्तत्वेन साध्यशरीरप्रवेशायोगश्च । किञ्च । पक्षेतरत्वं न पक्षे साधयितुं शक्यम् । व्याघातात् । अनुकूलतर्कसद्भावे च तस्याप्युपाधित्वात् । एतेन केनचिद्धेतुना विश्वसत्यतासाधने प्रमाणाविरुद्धत्वमुपाधिस्तत्साधने च सत्वमुपाधिरिति उभयसाधने स्वव्याघात इति निरस्तम् । अनुकूलतर्काणां चैकैकमाश्रयणात् । मिथ्यात्वसत्यत्वसाधकानुमानेषु चानुकूलतर्कभावाभावयोर्वक्ष्यमाणत्वात् । अतो न विशिष्टसाधनं व्यर्थमिति । विशेषणविशेष्य-भावापन्नोभयसाध्यसाधनपक्षेऽपि दोषमाह । युगपदुभयेति । विशिष्टाविशिष्टसाध्यपक्षयोरप्यर्थान्तरत्व-मुपपादयति । मिथ्यात्व एवेति । यत्तु यद्यपि विशिष्टाविशिष्टोभयसाध्यसाधनपक्षेऽप्येकस्योपाधित्व-मवर्जनीयमेव । मित्रातनयत्वेन शाकाद्यन्नपरिणतिजत्वे साध्ये श्यामत्वस्येव सन्दिग्धसाधनाव्यापकत्व-सम्भवान्नार्थान्तरं, तथापि दूषणान्तरे तात्पर्यमिति । तन्न । अथ•न्तरस्याप्युपपादितत्वात् । अन्योन्योपाधिभावेनाप्यनुमानस्याभासत्वाच्च ।
नन्वत्र बाधकप्रमां प्रति निषेध्यत्वेन विषयत्वमेवोपाधिर्वक्तव्यः । तस्यैव पूर्वोक्तविशिष्टोपाधौ विशेष्यभूतत्वात् । यथा स्वबाधकाभिमतेत्यादिप्रथमविशिष्टोपाधिनिविष्टं विशेष्यं दोषप्रयुक्तभानत्व-मुपाधित्वेनोक्तम् । विपरीतप्रमाविषयत्वं त्वप्रकृतं किमर्थमुपाधित्वेनोक्तम् । न च बाध्यत्वरूपसाध्येन सह बाधकं प्रति निषेध्यत्वेन विषयत्वोपाधेरवैशिष्ट्यं स्यादत उपाध्यन्तरमुक्तमिति वाच्यम् । विपरीत-प्रमाविषयत्वस्यापि बाध्यत्वरूपसाध्येनाभेदाद् इत्याशङ्कायामाह । बाध इति । भ्रमोत्तरकालीनं भ्रमसमानाधिकरणमेव सन् निषेध्यत्वेन तद्विषयावगाहिसम्यज्ज्ञानं बाधः । विपरीतप्रमा तु भ्रान्ति-समानाधिकरणतद्व्यधिकरणयोरन्यतरत्वे सति भ्रमविषयासत्वावगाहिसम्यज्ज्ञानमिति तयोर्भेदाद्बाध्यत्व-रूपमिथ्यात्वे साध्ये विपरीतप्रमाविषयत्वं भवत्युपाधिरित्यर्थः ।
अत्र सम्यज्ज्ञानं बाध इत्युक्ते घटोऽयमिति सम्यज्ज्ञानमपि बाधः स्यात् । तदर्थं भ्रमोत्तर-कालीनमित्युक्तम् । तावत्येवोक्ते पुरुषान्तरीयसम्यज्ज्ञानेऽतिव्याप्तिस्तदर्थं भ्रमसमानाधिकरणमित्युक्तम् । तावत्येवोक्ते शुक्तिकायां रजतारोपानन्तरं स्यादेवेदमिति धर्मिमात्रावगाहिज्ञानेऽतिव्याप्तिः । तदर्थं निषेध्यत्वेन भ्रमविषयावगाहीत्युक्तम् । तेन तद्विषयस्यासत्वं ज्ञानस्य च भ्रमत्वं सिध्यति । सम्यक्पदा-भावे तु वल्मीके स्थाणुत्वभ्रमानन्तरं नायं स्थाणुः किन्तु पुरुष इति भ्रमानन्तरमपि बाधः स्यात्तदर्थं सम्यग्ग्रहणम् । एवं विपरीतप्रमालक्षणेऽपि विशेष्यमात्रोपादाने बाधाभेदः स्यात्तदर्थं विशेषणोपादानम् । बाधो भ्रान्तिपूर्वक इत्यत्र भ्रान्तिपूर्वकत्वं विशेषणान्तरोपलक्षणम् । अन्यथाऽतिव्याप्त्यापातात् । विपरीतप्रमाऽपि काचिदारोपपूर्विका भवतीति बाधसङ्करप्रसङ्गाच्चेत्युक्तं सोपस्करमवधातव्यम् ।
एवं च बाधो अनीश्वरात्ममात्रवृत्तिः । विपरीतप्रमा तु ईश्वरादिसाधारणवृत्तिरिति बाध्यत्वविपरीत-प्रमाविषयत्वयोर्भेदः । अत एवानुपसञ्जातबाधभ्रमविषये मिथ्यात्वे सत्युपाधेरभावात्साध्याव्यापकतेति निरस्तम् । भ्रान्तेन विषयासत्वस्यानिश्चतत्वेऽपीश्वरादिभिस्तदसत्वस्य निश्चितत्वात् । न हि यथा भ्रान्तिसमानाधिकरणमेव भ्रान्तिविषयासत्वावेदनेन बाधकज्ञानं भवतीति नियमस्तथा भ्रान्तिसमानाधि-करणमेव विपरीतप्रमाणं भवतीति नियमः ।
ननु तथापि तत्रानुपसञ्जातबाधत्वादेवानुपसञ्जातबाधभ्रमविषये बाध्यत्वरूपमिथ्यात्वविरहवति उपाधेः साध्याव्याप्तिरिति चेन् न । तत्रापि बाधार्हत्वस्य सत्वात् । बाध्यत्वं बाधार्हत्वमेव विवक्षणीयम् । अन्यथाऽनुपसञ्जातबाधभ्रमविषये दृश्यत्वहेतोर्व्यभिचारप्रसङ्गात् । यद्वा विपरीतप्रमाविषयत्वं स्वभावाव-गाहिनीं प्रमां प्रति रजतादेः प्रतियोगितया तदवच्छेदकत्वेन च रजतत्वादेर्विषयत्वमित्यर्थः । तुशब्देन विपरीतप्रमाया आरोपपूर्वकत्वनियमं व्यवच्छिनत्ति । यत्तु आरोपपूर्वकस्वात्यन्ताभावप्रमां प्रति निषेध्य-त्वेन विषयत्वं बाध्यत्वं, स्वात्यन्ताभावप्रमां प्रति निषेध्यत्वेन विषयत्वमात्रं विपरीतप्रमाविषयत्वमिति । तदसमञ्जसम् । नेदं रजतमित्यन्योन्यभावावगाहिबाधकज्ञानासङ्ग्रहापातात् । चैत्रस्य शुक्तौ रजतारोपोत्तर-कालीनमैत्रीयतदत्यन्ताभावप्रमाया अपि चैत्रीयशुक्तिरजतारोपबाधत्वप्रसङ्गाच्च ।
नन्वेतयोरुपाध्योः कथं साध्यव्यापकत्वम् । उपाधिमति तुच्छे साध्यस्याभावादिति चेत् । न । मम मते उपाधिमति तुच्छे साध्यस्यापि सत्त्वात् । परमते तत्र साध्योपाध्योर्द्वयोरप्यभावादिति । तदिदमाक्षेपसमाधानमयुक्तम् । परमते तत्र शशविषाणमस्तीति शब्दाभासादिना प्रसक्तस्य शश-विषाणादेर्बाधादिसम्भवात् । अन्यथाऽतीन्द्रियप्रपञ्चबाधानुपपत्तिप्रसङ्गात् । ननु दोषप्रयुक्तभानत्वस्योपाधेर्न साध्यव्याप्यत्वम् । सर्वप्रत्ययवेद्यत्वेनाविद्यारूपदोषप्रयुक्तघटादिभानविषये तादृशचरमवृत्तिविषये वा ब्रह्मणि साध्यस्याभावेन व्यभिचारादिति चेत् । न । स्वयं प्रकाशत्वेन ब्रह्मणो दोषप्रयुक्तभानत्वा-भावादिति मतेनोपाधेरपि तत्रासत्वादिति । तदप्यसमञ्जसम् । अवेद्यत्वरूपस्वप्रकाशत्व दूषितत्वात्, दूषयिष्यमाणत्वाच्च । यदवच्छेदेन दोषप्रयुक्तभानत्वं तदवच्छेदेन ब्रह्मणि बाध्यत्वस्यापि सत्वाच्च ।
न्यायामृतसौगन्ध्यं
सोपाधिकाश्च दृश्यत्वादयः । स्वबाधकाभिमताबाध्यदोषप्रयुक्तभानत्वं, स्वबाधकाबाध्यबाधकं प्रति निषेध्यत्वेन विषयत्वं चेत्युपाधिसम्भवात् । न च ब्रह्मज्ञानमात्रबाध्ये देहात्म्यैक्ये मिथ्याभूते साध्याव्यापकत्वमिति वाच्यम् । तस्य देहात्मज्ञानबाध्यत्वेन ब्रह्मज्ञानमात्रबाध्यत्वासिद्धेः । न च पर्वतावयववृत्त्यन्यत्वादिवत् साधनवत्पक्षमात्रव्यावर्तकविशेषणवत्त्वेन पक्षेतरत्वतुल्यत्वमिति वाच्यम् । यदि ह्युक्तभानविषयो न स्यात् तर्हि मिथ्या न स्यादिति विपक्षे बाधकसत्त्वेन पक्षेतरत्वतुल्यत्वा-भावात् । प्रत्यक्षादिना बाधस्य वक्ष्यमाणत्वेन बाधोन्नीतत्वाच्च ।
ननु यद्व्यतिरेकस्य साध्यव्यतिरेकसाधकत्वं स एवोपाधिः । इतरांशेऽनुकूलतर्काप्रसरात् । तथा च – वियदादिकं न मिथ्या, स्वबाधकाभिमताबाध्यदोषप्रयुक्तभानत्वाभावादिति साध्यव्यतिरेकसाधने स्वबाधकाभिमताबाध्यभागस्य वैयर्थ्यात् स्वबाधकाभिमताबाध्यदोषप्रयुक्तभानत्वं न मिथ्यात्व-व्यापकम् । दोषप्रयुक्तभानत्वं तु भवति तद्व्यापकम् । तच्च साधनव्यापकमपीति नोपाधिः । एव-मुपाध्यन्तरे बोध्यमिति चेत् । न । विशिष्टाभावस्यातिरिक्तत्वेन धर्मिभेदेन वैयर्थ्याभावात् । न हि स्वबाधकाभिमताबाध्यदोषप्रयुक्तभानत्वनिष्ठा व्याप्तिर्दोषप्रयुक्तभानत्वेनावच्छिद्यते । आत्मधीर् न स्वविषयविषयकधीबाध्या धीत्वात् शुक्तिधीवद् इति अस्माकमनुमाने भवदुद्भावितं स्वविरोध्य-विषयकरूपोपाधौ एतस्यावैय्यर्थ्यस्याकामेनापि त्वयेष्टव्यत्वात् । तथा हि आत्मज्ञानं स्वविषयक-ज्ञानबाध्यं स्वविरोध्यविषयकत्वरूपोपाध्यभावसत्वादित्येवं साध्याभावसाधने विरोधिभागस्य वैय्यर्थ्यम् । स्वविषयकत्वमात्रस्य हेतोरसाध्यसाधकत्वात् । तथा च स्वविरोध्यविषयकत्वं न स्वविषयकज्ञानबाध्यत्वाभावरूपसाध्यव्यापकं, स्वविषयक(त्व)मात्रं तु भवति तद्व्यापकं, तच्च साधनव्यापकमित्यस्मिन् पक्षे विशिष्टाभावातिरिक्तत्वपक्षाङ्गीकार आवश्यकः ।
यत्तु साध्यासमानाधिकरणेत्यादिप्रागुक्तोपाधिलक्षणानाक्रान्तत्वान् नायमुपाधिरिति । तन्न । व्यभिचारोन्नायकत्वपक्षे हि तल्लक्षणं, न तु सत्प्रतिपक्षोन्नायकत्वपक्षे । तत्र पक्षावृत्तिः साध्यव्यापक इत्येव हि तल्लक्षणम् । तच्चास्ति प्रकृते । अत्र साधनाव्यापकत्वस्य निष्प्रयोजनत्वात् । स्वाधिक-सत्ताकदोषवद्धेतुजन्यज्ञानविषयत्वञ्चोपाधिः । स्वप्नेऽपि निद्राऽविद्यादिरूपस्तादृशो दोषोऽस्त्येव ।
ननु स्वबाधकेत्यादौ स्वत्वस्यानुगतत्वेऽपि स्वबाधकबाध्यत्वं यदि स्वजनकाज्ञाननिवर्तक-ज्ञाननिवर्त्यत्वं तदा जनकत्वस्य स्वावच्छेदकघटितत्वात् स्वजनकत्वस्य शुक्त्यवच्छिन्नचिद्विषयका-ज्ञानत्वादिरूपावच्छेदकभेदेन भिन्नत्वात् स्ववृत्तिजनकत्वस्य शुक्तित्वप्रकारकेदं विशेष्यकत्वादि-रूपावच्छेदकभेदेन च भिन्नत्वादननुगमः । पल्लवाज्ञानास्वीकारपक्षे शुक्तिरूप्यादिबाधकब्रह्मज्ञाना-बाध्यदोषाप्रसिद्धिः ।
यदि च स्वमिथ्यात्वनिश्चयनिश्चितमिथ्यात्वकत्वं तत् तदापि निश्चयत्वस्य तत्तद्धर्मिता-वच्छेदकादिभेदेन नानात्वादननुगमः । ‘नेह नानाऽस्तीत्यादिश्रुत्यादिजन्येनेश्वरीयेन मिथ्यात्वनिश्चयेन दोषमात्रस्य निश्चितमिथ्यात्वकत्वादतादृशदोषप्रसिद्धिः । अथ जनकत्वं तत्त्वं वाऽखण्डम् । न तु स्वावच्छेदकघटितम् । तूलाज्ञानं चास्तीत्यङ्गीकृत्याद्य एव पक्षः दोषभिन्नं यत् स्वभिन्नं तदविशेष्यक-मिथ्यात्वनिश्चयनिश्चितमिथ्यात्वकत्वं तदिति वा पक्षो ग्राह्यः । उक्तश्रुतिजन्यमिथ्यात्वनिश्चयस्तु स्वभिन्नविशेष्यः स्वभिन्नाविशेष्यकमिथ्यात्वनिश्चयनिश्चितमिथ्यात्वकदोषप्रयुक्तभानकत्वस्य घटादावपि सत्त्वाद् दोषभिन्नेति । स्वभिन्नं यद् दोषभिन्नं तद्विशेष्यके ‘घटाविद्ये मिथ्या इत्यादिनिश्चयेनाविद्या-रूपदोषमिथ्यात्वं निश्चितमिति न घटादौ तदिति चेन्न । तथापि द्वितीयपक्षे ‘शुक्तिरूप्य-तज्ज्ञापकदोषो मिथ्येति निश्चयमादाय साध्याव्यापकत्वात् । यत्र प्रातिभासिकान्तराविशेष्यकं स्वविशेष्यकमिथ्यात्वज्ञानं न जातम् । तत्रापि साध्याव्यापकत्वाच्च । पक्षद्वयेऽपि दोषमात्राननुगत-त्वात् साध्याव्यापकत्वात् । अबाध्यान्तरवैयर्थ्याच्च । न चान्यतमत्वेन दोषाणामनुगमः । अनन्त-दोषघटिततया युगसहस्रेणापि तद्दुर्ज्ञेयत्वापत्तेः । न च स्वरूपतोऽन्यतमत्वं निवेश्यमिति । त्वन्मते तस्य स्वरूपतो ज्ञेयत्वे गोत्वादिजात्यपलापापत्तेः । तावदन्यतमत्वस्यैव तत्सम्भवादविद्यान्यदोषाणा-मन्यतमत्वस्यैव निवेशसम्भवेनाबाध्यान्तवैयर्थ्यात् । साध्याव्यापकत्वस्य तेन रूपेण ग्राहकतर्का-भावात् । अन्यथा प्रातीतिकानामन्यतमत्वेन तादात्म्येनोपाधिसम्भवात् । तदपेक्षया गुरूरूपानु-धावनस्य तेऽनुचितत्वात् । अविद्यान्यदोषप्रयुक्तभानकत्वावच्छिन्नप्रतियोगिताकाभावत्वस्याप्रसिद्ध्या तेन रूपेण साध्याभावाव्याप्यत्वात् । स्वबाधकेत्यादिरूपेण व्यापकताग्राहकतर्काप्रसरादुपाधित्वा-सम्भवात् । स्वाप्नादिभ्रमे स्वाप्नादिप्रातीतिकस्यापि दोषत्वेन तत्र स्वबाधकजाग्रदादिबोधबाध्यत्वेन साध्याव्यापकत्वाच्च ।
अत्रोच्यते । यदीत्याद्ययुक्तम् । स्वध्वंसप्रयोजकध्वंसप्रतियोगित्वसम्बन्धेन स्वविशिष्टत्वं हि स्वबाधकबाध्यत्वम् । पल्लवेत्याद्ययुक्तम् । स्वध्वंसप्रयोजकत्वेनाभिमतं यत्, तस्य वस्तुगत्यैकस्य सम्बन्धे निवेशात् । देहात्म्यैक्यब्रह्मक्षणिकत्वादिप्रातीतिकनिवर्तकस्य सप्रकारकस्याविद्यादिदोषा-निवर्तकत्वात् । स्वाप्नादिदोषस्य स्वाप्ननिवर्तकनिवर्त्यत्वस्वीकारेऽपि यत्किञ्चिन्निद्रादृष्टादिदोषस्य तदभावात् ।
यदि चेत्याद्यप्यसाधु । स्वमिथ्यात्वनिश्चयनिश्चितमिथ्यात्वकत्वसम्बन्धेन स्वविशिष्टस्य तदर्थ-त्वात् । सम्बन्धाननुगमस्यादोषत्वात् । नेहेत्यादिश्रुतिजन्यस्येश्वरीयज्ञानस्य च मिथ्यात्वनिश्चय-रूपतैवासिद्धेः । अथेत्याद्यप्यसाधु । तादृशनिश्चयस्योभयमतसर्वांशप्रमात्वस्य विवक्षितत्वात् । शुक्ति-रूप्यतज्ज्ञापकमिथ्यात्वनिश्चयस्यास्मन्मते ज्ञापकमिथ्यात्वांशे भ्रमत्वात् । स्वनिश्चयनिश्चितमिथ्यात्व-कत्वस्य शुक्तिरजतादावेव प्रसिद्धेः । स्वजनकदोषे तदभावात् । तत्रेत्याद्ययुक्तम् । स्वाभावादेरेव स्वभिन्नादिपदेनोक्तत्वेन प्रातिभासिकान्तरस्य स्वविशेष्यकमिथ्यात्वमितिज्ञाने भानेऽपि क्षतेरभावात् ।
पक्षद्वयेऽपीत्याद्ययुक्तम् । भ्रमजनकतावच्छेदकत्वेनानुगतदोषप्रसिद्धेः । उक्तं हि प्रत्यक्ष-मणिदीधितौ ‘भ्रमत्वावच्छिन्नकार्यतानिरूपितकारणताशक्तित्वं च दोषत्वमिति । अत एवान्यतम-त्वेनापि दोषानुगमः । त्वन्मत इत्याद्ययुक्तम् । व्यक्तान्यतमत्वेनानुगतबुद्ध्युपपत्तावतिरिक्तजात्यसिद्धौ नः क्षत्यभावात् । अविद्यान्येत्याद्यशुद्धम् । अविद्यान्यत्वमबाध्यान्यत्वं वेत्यत्र विनिगमनाविरहात् । देहात्म्यैक्यादावतिरिक्तदोषाभावे तूूक्तविशेषणस्य साध्यव्यापकतासम्पादकत्वेनोपाधित्वौपयिकत्वात् । तेन रूपेणेत्यादिकं तु सत्तावान् द्रव्यत्वात्, विशिष्टसत्तावान् वा, द्रव्यत्वादित्यादौ व्याप्यत्वाद्य-नापत्त्यैव निरस्तम् । अन्यथेत्याद्ययुक्तम् । तस्याप्युपाध्यन्तरत्वात् । अविद्यान्यदोषेत्याद्ययुक्तम् । अविद्यान्यदोषप्रयुक्तभानत्वस्य गुरुत्वात् तादृशाभावासिद्धिः? केवलान्वयित्वाद्वा? आद्येऽखण्डाभाव-स्यातिरिक्तत्वव्यवस्थापनात् । द्वितीये स्वप्रकाशे ब्रह्मण्येव तत्सिद्धेः । स्वाप्नादीत्याद्ययुक्तम् । यत्किञ्चिन्निद्राविद्यादिदोषस्य स्वप्नबाधकाबाध्यत्वात् । एवमन्येऽपि दोषा निरसनीयाः ।
न्यायामृतमाधुरी
स्वबाधकेत्यादि । यच्चोपाधिस्तत्स्वपदेनोपादेयम् । स्वं निदर्शनीभूतशुक्तिरूप्यादि, तद्बाधकत्वे-नाभिमतम् इयं शुक्तिरित्यादिज्ञानं, तदबाध्यसादृश्यादिदोषप्रयुक्तभानविषयत्वस्य, तथा स्वं शुक्ति-रूप्यादि, तद्बाधकं यच्छुक्तिज्ञानादि, तदबाध्यं यदिदंवृत्तिनिषेधप्रतियोगिरजतमिति ज्ञानं तदीय-निषेधप्रतियोगि(त्व)त्वावच्छिन्नप्रकारतानिरूपितविशेष्यताश्रयत्वस्य च तत्र सत्त्वेन प्रकृतसाध्य-व्यापकत्वं, साधनवतो वियदादेः स्वबाधकाबाध्यदोषप्रसिध्या न तादृशोपाधिमतेति प्रकृतसाधना-व्यापकत्वं च वर्तत इति तयोरुपाधितेत्यर्थः । सिद्धान्ते शुक्तिरूप्यादेरलीकतास्वीकारात्तद्बाधकं न स्वीक्रियत इत्यतो अभिमतेत्युक्तम् । स्वबाधकत्वोपरक्ताद्वैतवाद्युपगतिविषयीभूतेत्यर्थः । प्रथमे दोषांशे द्वितीये च बाधकज्ञानांशे स्वबाधकाभिमताबाध्यत्वनिवेशनं, तदघटितप्रकृतोपाधिद्वय-स्याद्वैतिदिशा जगतो अविद्यादिदोषप्रयुक्तभानविषयतयाऽखण्डार्थनिष्ठवेदान्तवाक्यजन्यब्रह्मप्रमारूप-बाधकज्ञानीयतादृशविषयताश्रयतया चोपाध्योः पक्षसाधारण्यापत्या साधनाव्यापकतानिर्वाहाय । तन्निवेशने च ब्रह्मान्यत्वावच्छेदेन ब्रह्मज्ञानबाध्यत्वोपगन्तृमते तादृग्दोषस्य विश्वबाधकब्रह्मज्ञानस्य च तद्बाध्यत्वात् तदबाध्यत्वघटितोपाधिद्वयव्यतिरेकस्य विशेषणव्यतिरेकनिबन्धनस्य तत्त्ववादिनये च विशेष्याभावनियन्त्रितस्य पक्षवृत्तितया साधनव्यापकतानिर्वाहाद् अग्रिमपक्षेतरत्वतुल्यताशङ्काग्रन्थानु-रोधेन पक्षाद्व्यावृत्तस्येति पाठमेव युक्तमुपगच्छन्तो व्याचक्षाणाः साधनाव्यापकतामाह पक्षाद्व्यावृत्त-स्येतीत्यवतारयन्ति । समव्याप्तिमत इति ग्रन्थार्जवानुरोधादद्वैतसिद्धिकृता विपक्षाद्व्यावृत्तमित्यनूदि-तत्वाद्ब्रह्मानन्देन विपक्षाद्ब्रह्मणस्तुच्छाच्च व्यावृत्तमित्यर्थापनाच्च विपक्षाद्व्यावृत्तस्येति पाठ एव स्वरस इति नव्याः । दर्शितविन्यासेन प्रकृतसाध्याभाववदवृत्तित्वरूपसाध्यव्याप्यतायां, व्यतिरेकव्याप्तिमत इत्यनेन च साध्यव्यतिरेकनिरूपितव्याप्तिमद्व्यतिरेकप्रतियोगित्वरूपसाध्यव्यापकतायाश्च लाभे तद्व्याप्यत्वे सति तद्व्यापकत्वरूपसमाव्याप्ततालाभात् । परन्तु द्वितीयमत्वन्तोत्तरविन्यसनं प्रथम-मत्वन्तस्यानुसन्धेयम् । साधनव्यापकत्वमपि पूरितपदानुसन्धानलक्ष्यमुपेयमेतन्मते । चिरन्तनमते तु दर्शितसमव्याप्तताघटकव्याप्यत्वांशस्योपपादकं पूरणीयमित्यलम् । नव्यमते विषमव्याप्तस्योपाधित्वेऽपि समव्याप्तस्यैवोपाधित्वमित्युदयनमतमनुरुन्धानेनेत्थमुक्तम् ।
अत्र अद्वैतसिद्धिकारः । ब्रह्मज्ञानमात्रबाध्यदेहात्मैक्ये मिथ्याभूते साध्याव्यापकत्वादिति समाहितिं पर्यालुलोचे । तदतिस्थवीयः । जातमात्रा मृता गाव इत्यादिना भगवत्पादैरेव देहात्मैक्या-ध्यासस्य सप्रपञ्चं निरस्तत्वात् । ब्रह्मज्ञानेतरदेहात्मभेदज्ञानबाध्यत्वेन ब्रह्मज्ञानमात्रबाध्यत्वासिद्धेश्च । न चेत्यादि ॥ न च पक्षेतरे स्वव्याघातकत्वेनानुपाधावतिव्याप्तिः । तत्रानुकूलतर्काभावेन साध्य-व्यापकत्वानिश्चयात् । सहचारदर्शनादेस्तेन विना (संशायक) सांशयिकत्वात् । एवं पर्वतावयववृत्त्य-न्यत्वादेरपि नोपाधित्वम् । पक्षमात्रव्यावर्तकविशेषणवत्त्वाद् इत्युपाधिवादीयचिन्तामणिग्रन्थाशय प्रकाशकस्य, ‘‘पक्षमात्रेति । यद्यपि पर्वतावयवरूपादेरपि व्यावर्तकं तत् तथापि तस्य व्यावृत्ति-र्नोपाधितायामुपयुज्यते । अपि तु पक्षस्यैवेति तन्मात्रव्यावर्तकत्वमुक्तमिदं चानुपाधितायां न बीजम् । परिभाषामात्रत्वात् किन्त्वनुकूलतर्काभावेन तादृशसाध्यव्यापकत्वानिश्चय इति द्रष्टव्य’’मिति दीधितिग्रन्थस्य गदाधरेण ‘‘पर्वतावयववृत्त्यन्यत्वादौ वृत्त्यन्तस्य भेदविशेषणस्य पक्षभिन्नमपि व्यावर्त्यमस्तीति मूलोक्तस्य पक्षमात्रव्यावर्तकविशेषणवत्वादिति तदनुपाधित्वप्रयोजकहेतोरसङ्गति-माशङ्कते ॥ यद्यपीति ॥ नोपाधितायामुपयुज्यते इति ॥ उपाधेः सङ्कोचनं तल्लक्षणप्रविष्टसाधना-व्यापकत्वसम्पादकतयोपाधितायामुपयुज्यते । तदव्यापकत्वसम्पादकता च तदधिकर(णउ)णानु-पाधिव्यावृत्तिरेव । न तु तदनधिकरणपर्वतावयवरूपादिव्यावृत्तितायामुपयुज्यतेरिति भावः । पक्षस्यैवेति ॥ व्यावृत्तिरुपाधि इत्यनुषज्यते । पक्षस्य साधनत्वादिति भावः । इति इत्याशयेन । उक्तमिति । मात्रपदेनोपाधित्वौपयिकपक्षभिन्नव्यावृत्तिप्रयोजकताया विशेषणे व्यवच्छेदात् । पर्वतभिन्नतदवयवरूपादिव्यावर्तकत्वेऽप्युक्तविशेषणे उक्तव्यावृत्तिप्रयोजकत्वाभावस्याक्षततया मात्रार्थ-सङ्गतेरिति भावः’’ इति भावस्य स्फुटीकरणात् तद्दिशा उपाधित्वघटकसाधनव्यापकत्वौपायिक-पक्षभिन्नव्यावृत्तिप्रयोजकत्वाभावविशेषिततदौपयिकपक्षव्यावृत्तिप्रयोजकत्वविशेषितविशेषण-वत्वादित्यर्थः । पक्षेतरत्वं पक्षेतरतुल्यत्वम् । अनुपाधित्वमिति यावत् । यद्यपि प्रकृतोपाधिद्वय-पक्षकानुपाधित्वसाध्यकपक्षमात्रव्यावर्तकविशेषणवत्वलिङ्गकानुमाने पक्षेतरत्वं निदर्शनीकर्र्तंु शक्यते एवेति पर्वतेत्यादिकान्यत्वान्तपर्यन्तानुधावनं निर्बीजम् । तथाप्युपाधित्वौपयिकपक्षभिन्नव्यावृत्ति-प्रयोजकत्वाभावो हेतुतावच्छेदकघटकः पर्वतावयववृत्त्यन्यत्वे पक्षीभूतोपाधिद्वये च स्वप्रयोज्य-पक्षभिन्नव्यावृत्तेरुपाधित्वौपयिकत्वरूपविशेषणाभावनिबन्धन एव । पक्षेतरत्वे तु स्वप्रयोज्यपक्षभिन्न-व्यावृत्तिरूपविशेष्याभावनिबन्धन इति वैलक्षण्यादन्यत्वान्तमेव निदर्शितम् । न तु पक्षेतरत्वमित्यव-धेयम् । अत्र व्याकर्तारः । यद्यपि प्रकृतयोः स्वबाधकाभिमताबाध्येत्याद्युपाध्योरनुपाधितायां पर्वते-तरत्वादिकमेव निदर्शनीयम् । तथापि पर्वतेतरत्वादेरनुपाधितायां न पक्षमात्रव्यावर्तकविशेषणवत्त्वं प्रयोजकम् । किन्तु पर्वतेतरत्वस्य पक्षमात्रवृत्तिव्यतिरेकप्रतियोगितायां पर्वतेतरत्वव्यतिरेकेण साध्याभावसाधने असाधारण्यात्पर्वतेतरत्वस्य नोपाधित्वं, प्रकृतयोः स्वबाधकाभिमताबाध्येत्या-द्युपाध्योस्तु न पक्षमात्रवृत्तिव्यतिरेकप्रतियोगित्वम् । विशिष्टोपाधेर्व्यतिरेकस्य साध्याभाववति ब्रह्मण्यपि सत्त्वेनोपाधिव्यतिरेकेण मिथ्यात्वरूपसाध्यस्याभावे साध्यमाने ब्रह्मण एव सपक्षत्वसम्भवादिति यः कश्चिद्ब्रूयात् तदा स्वव्यतिरेकेण साध्यव्यतिरेकसाधने पर्वतावयववृत्तिरूपादिनिष्ठव्यतिरेकप्रतियोगित्वेन लब्धोदाहरणस्यापि पर्वतावयववृत्त्यन्यत्वादेर्यथा नोपाधित्वं तथा प्रकृतयोरपीत्यभिसन्धाय पूर्वपक्षिणा पर्वतावयववृत्त्यन्यत्वादिकं निदर्शितमित्यवधातव्यमित्यपि व्याकुर्वते ।
अत्राद्वैतसिद्धिकारः । पर्वतावयववृत्त्यन्यत्वादिवत्साधनवत्पक्षमात्रव्यावर्तकविशेषणवत्वेन पक्षेतर-तुल्यत्वादिति न्यभान्त्सीत् । ब्रह्मानन्दस्तु – पर्वतावयववृत्तीत्यस्य विशेषणस्य पर्वतावयवरूपादितो विपक्षाद्व्यावर्तकत्वमस्त्येव । स्वबाधकेत्यादिविशेषणस्यापि वासनादिदोषप्रयुक्तविकल्पविषयादलीका-द्व्यावर्तकत्वमस्तीत्यतः साधनवदित्युक्तम् । तथा च साधनवत्पक्षव्यावर्तकं यत्साधनवद्विपक्षव्यावर्तकं विशेषणं तद्वत्वेनेत्यर्थः । साधनवद्विपक्षनिष्ठभेदप्रतियोगितावच्छेदकताया यन्निष्ठाया अनवच्छेदकं यद्विशेषणं तन्न तत्साधनवद्विपक्षाव्यावर्तकम् अन्यत्वादिनिष्ठाया उक्तावच्छेदकताया अनवच्छेदकं पर्वतावयववृत्तीत्यादिकम् । पर्वतो धूमवान् वह्नेरित्यादौ साधनवद्विपक्षे अयःपिण्डादौ पर्वतावयव-वृत्यन्यत्वादिमतो भेदासत्त्वाद् यद्यपि स्वबाधकेत्याद्युपाध्योः प्रकृतसाधनवान् विपक्षोऽप्रसिद्धस्तथापि यद्विशेषणघटितस्योपाधेराश्रयभिन्ने यावद्धर्मिणि प्रकृतसाधनवत्वविपक्षत्वोभयाभावोऽस्ति तत्तत्र साधनवद्विपक्षाव्यावर्तकमिति बोध्यम् ।
अत्र विपक्षव्यावर्तकत्वेऽपि साधनवद्विपक्षाव्यावर्तकत्वं प्रकृतोपाध्योरस्ति । पर्वतावयववृत्त्य-न्यत्वादौ चास्तीति स एव दृष्टान्तीकृतो न तु पर्वतेतरत्वादिकं, तत्र तदभावात् । तथा च पक्षेतर-तुल्यत्वेन पर्वतावयववृत्त्यन्यत्वादेर्यथोक्तमणिवाक्ये अनुपाधित्वमुक्तं तथा तत्सदृशयोः स्वबाधका-बाध्येत्युपाध्योरिति भाव इति व्याचक्रे । उभावप्युपन्यस्ताकरग्रन्थतात्पर्यस्याननुसन्धातारौ । तत्र साध्यीभूतानुपाधित्वे हेतूकृतविशेषणवत्वान्तस्य पक्षे साधनवत्वविशेषणमनुपादायैव मात्रपदे-नेत्यादिकमात्रार्थसङ्गतेरिति भाव इत्यन्तेन गदाधरेण पक्षे सङ्गमिततया तत्र तद्विशेषणोपादानेन तत्सङ्गमनप्रयासस्याकरतात्पर्यानधिगतिज्ञापकत्वात् । वह्निना धूमसाधने साध्यव्यापकताग्राहकानुकूल-तर्केणार्द्रेन्धनप्रभवह्निमत्वस्य साध्यव्यापकता निश्चीयत इति तत्र तस्योपाधिता यथाऽऽकरे समर्थिता तद्वत्प्रकृतोपाधिद्वयस्यापि तद्बलेन तन्निश्चयात्सा सङ्गच्छत इत्याह ॥ वह्निनेत्यादि । बाधोन्नीतेऽ-त्रानुकूलतर्को अस्त्येवेत्यादिना बाधोन्नीतपक्षेतरत्वस्योपाधिताया मणिकारादिभिः समर्थिततया प्रकृतेऽपि बाधोन्नीतत्वावैशिष्ट्येन तेन सोपगन्तव्येति समाधत्ते । बाधित इत्यादि । अत्राद्वैतसिद्धि-कारः । अपि च यद्व्यतिरेकस्य साध्यव्यतिरेकसाधकत्वं तस्यैव साध्यव्यापकत्वम्, इतरांशे अनुकूल-तर्काप्रसरात् । तथा च क्षित्यादिकं न कर्तृजन्यं शरीराजन्यत्वादित्यत्र यथा शरीरविशेषणवैय्यर्थ्यान्न शरीरजन्यत्वं कर्तृजन्यत्वव्यापकम् । एवं वियदादिकं न मिथ्या, स्वबाधकाभिमताबाध्यदोषप्रयुक्त भानत्वरहितत्वादिति, साध्यव्यतिरेकसाधने स्वबाधकाभिमताबाध्यभागस्य वैयर्थ्यात् स्वबाधकाभिमता-बाध्यदोषप्रयुक्तभानत्वं न मिथ्यात्वव्यापकम् । दोषप्रयुक्तभानत्वं तु भवति साध्यव्यापकम् । तच्च साधनव्यापकमपीति नोपाधिरित्याह । ब्रह्मानन्दस्तु ‘‘यदिति यदवच्छिन्नप्रतियोगिताकस्येत्यर्थः । साधकत्वं व्याप्यत्वम् । तस्य तद्विशिष्टस्य । व्यापकत्वं व्यापकत्वधीः । तथा चेत्यादि । शरीर-जन्यत्वं यदि कर्तृजन्यत्वव्यापकं न स्यात्तदा कर्तृजन्यत्वाभावव्याप्याभावप्रतियोगि न स्यादिति तर्को नावतरति । लाघवेन जन्यत्वसामान्याभावत्वेनैव व्याप्यतासम्भवेन शरीरविशेषणस्य वैय्यर्थ्यात् तद्वल्लाघवाद्दोषप्रयुक्तभानत्वेनैव व्याप्यतासम्भवेन स्वबाधकेत्यादिवैय्यर्थ्यादित्यर्थः । यत्र तु विशिष्ट-प्रतियोगिकाभावत्वेनैव व्याप्यता व्यर्थविशेषणत्वाद्यभावात्तत्र विशिष्टरूपेणापि व्यापकत्वम् । तर्क-प्रसरात् । उक्तं हि मणावीश्वरवादे– ‘धूमविशेषादौ चन्दनवह्न्यादेः कारणत्वाद् विपक्षबाधेन विशिष्टस्य व्यापकत्वाद् विशिष्टप्रतियोगिकाभावत्वेनैव हेत्वभावव्याप्यता । यत्र तु विपक्षे बाधकं नास्ति तत्र विशिष्टव्यापकता नास्ती’त्यादि । न च शरीरजन्यत्वाभावे जन्यत्वसामान्या-भावत्वस्यासत्त्वात् तत्र शरीरांशस्य तेन न वैय्यर्थ्यम् । धूमत्वेनेव धूमप्रागभावत्वादेः स्वसमानाधिकरणव्याप्यतावच्छेदकान्तरघटितत्वस्य व्यर्थविशेषणतारूपत्वादिति वाच्यम् । विशेष्यविशेषणाभावयोरेव विशिष्टाभावत्वात् । येन विशेषणेन विनापि व्याप्तिर्गृह्यते तदेव व्यर्थ-विशेषणमिति स्वीकाराच्च । उक्तं हि मणौ– उक्तस्थले शरीराजन्यत्वे व्यर्थविशेषणत्वं लाघवेना-जन्यत्वस्यैव व्याप्यत्वात् । येन विशेषणेन विना व्याप्तिर्न गृह्यते तस्यैव व्याप्यतावच्छेदकत्वनियमात् । अत एव घ्राणं पार्थिवं रूपादिषु पञ्चसु मध्ये गन्धस्यैव व्यञ्जकत्वादित्यादौ ‘रूपादिषु मध्ये’ इत्यसिद्धिमात्रवारकमपि व्यर्थम् । तेन विना व्याप्त्यग्रहादित्यादि । किञ्च तर्काप्रसरादित्यनेन व्यापकताग्राहकतर्कमात्रमुपाधित्वे बीजमित्युक्तम् । पूर्वोक्तमणिवाक्येपि तथोक्तम् । तथा च व्यर्थ-विशेषणत्वाभावेऽपि शरीरजन्यत्वं यथा नोपाधिस्तादृशतर्काभावात् । तथा स्वबाधकेत्यादिकमित्यत्र प्रकृतग्रन्थतात्पर्यम् । व्यतिरेके व्यर्थत्वं तु तादृशतर्काप्रसरबीजोपलक्षणत्वेनोक्तम् । ’’ इति तद्ग्रन्थं व्याचकार । उभावपि निपुणमाकरमविभाव्यैव वक्तारौ । सिद्धान्ते विशेषणवैशिष्ट्यावच्छिन्न-प्रतियोगिताकाभावादतिरिच्यमानतया तस्य ताद्रूप्याभावात् । धर्मिभेदेन वैय्यर्थ्यमित्यस्यासकृद्धूम-प्रागभाववदवैय्यर्थ्यमिति समादधानस्य दीधितिकारादेरभिप्रेतत्वात् । येन विशेषेणेन विनेत्यादि त्वसमञ्जसमेव ।
ब्रह्मणः प्रपञ्चस्य दोषप्रयुक्तनिर्गुणत्वक्षणिकत्वादिभानविषयतयाऽलीकस्य च ख्यातेरेवोपगमेन तादृशतया अबाध्यान्तघटितोपाधिव्यतिरेकस्याप्रसिद्धस्य तदन्तविशेषणं विना व्याप्तेर्दुर्ग्रहत्वात्् । पूर्वपक्षिमतेऽपि ब्रह्मणः सर्वप्रत्ययवेद्यत्वोपगमेन दोषप्रयुक्तः सन् घट इत्यादिभानविषयतया प्रपञ्च-कल्पत्वात् । शब्दज्ञानानुपाती वस्तुशून्यो विकल्प इति वचनं प्रमाणीकुर्वताऽलीकस्यापि तादृश-प्रतीतिविषयत्वोपगमात् । असिद्धिवारकस्यापि व्याप्तिग्रहौपयिकतया सार्थक्यस्याकरनिरूढत्वात् । शरीरविशेषणस्यासिद्धिवारकतया वैय्यर्थ्यस्यैवाभावात् । व्यर्थविशेषणस्याधिकोक्त्या निग्रहस्थानत्वेऽपि तज्ज्ञानस्य व्याप्तिज्ञानप्रतिबन्धकत्वे मानाभावात् । शरीरजन्यत्वे तु व्यर्थविशेषणताप्रयुक्तानुपाधिता-शङ्कनेति तथा चेत्यादिकतर्काभावादित्यन्तेन स्वयमेव प्रतिपादितमाकरसम्मत्येति नास्माभिस्तत्समर्थने प्रयतितव्यम् । ग्रन्थकारेणैव वक्ष्यमाणानुकूलतर्कैरित्यादिकनिश्चयादित्यन्तेन तादृशतर्कबाहुल्य-प्रयुक्तनिश्चयध्रौव्येनोपाधित्वं समर्थितमिति तथास्वबाधकेत्यादिकमिति तदुक्तिरपि तादृश्येवेत्यलं निर्दलपक्षप्रतीकाराभियोगेन । पक्षमात्रव्यावर्तकविशेषणघटितत्वकोटिकशङ्कानास्कन्दितमप्युपाधिमाह– यद्वेति ॥ प्रकृतहेतुनैव प्रकृतोपाधिद्वयस्यापि पक्षे सिषाधयिषिततया साधनव्यापकत्वेनानवधृत्यो-पाधित्वायोग इति शङ्कापनोदाय दृश्यत्वेन मिथ्यात्वसाधनदशायामुपन्यस्तोपाधिद्वयस्य तेनैव तत्साधनदशायां च मिथ्यात्वस्य सिषाधयिषेति ध्वनयितुं यथेत्यादिना द्वयोर्निदर्शनीकरणम् । उभयसाधने व्यासज्यवृत्तिधर्मावच्छिन्नविधेयकानुमितेरुद्देश्यत्वे अर्थान्तरम् अप्राप्तकालत्वम् । मिथ्यात्व एव (क)वले विप्रतिपत्तेरित्याशयः ।
अत्र ब्रह्मानन्दः । दृश्यत्वादिनैव मिथ्यात्ववत्तस्यापि साधनादित्यनूद्य युगपदुभयसाधनेऽपि नाप्राप्तकालत्वम् । मिथ्या(त)त्वावच्छिन्नविधेयताकानुमितेरेव प्राप्तकालत्वात् । समूहालम्बनानु-मितेरपि तथात्वादिति तदाशयं प्राकाशयत् । तन्न साधीयः । घटपटचक्षुःसन्निकर्षादिघटितसामग््रय-सम्मेलनदशायामेव तदवगाहिसमूहालम्बनचाक्षुषवह्निघटादिनिरूपितव्याप्तिस्मृत्याद्यधीनतत्तद्व्याप्य-वत्तापरामर्शादिघटितसामग्रीसंवलनदशायामेव तत्तदवगाहिनीसमूहालम्बनरूपस्वार्थानुमितिर्नाना-पुरुषप्रणीतवाक्यघटकपदजन्यपदार्थोपस्थित्यादिघटितसामग्रीयौगपद्य एव तादृशी शाब्दधीश्चोदेतीति सङ्गच्छते । परार्थानुमित्यौपयिकासम्भवत्समानकालीनताकावश्योपगन्तव्यैकप्रणेतव्यताकन्यायवाक्यद्वय-प्रयोगाधीननानाव्याप्यवत्तापरामर्शादिघटितसामग्रीयौगपद्यस्यैवायोगेन तदेकनिबन्धनायास्तादृश-समूहालम्बनपरार्थानुमितेरयोगात् । अवयवग्रन्थे उचितानुपूर्वीकं प्रतिज्ञादिपञ्चकसमुदायत्वं न्यायत्व-मिति दीधितिग्रन्थव्याख्यावसरे एवमपि एकैकन्यायघटकं यत्प्रतिज्ञाद्येकैकवाक्यं तत्समुदायेऽतिप्रसङ्गो दुर्वार एवेत्याशङ्क्य मैवं स्वाश्रयीभूतयत्किञ्चित्प्रतिज्ञाद्यव्यवहितोत्तरत्वशून्यहेत्वादिवृत्तियद्यत्समुदायत्वं तत्तदन्यत्वस्य तादृशसमुदायत्वे विवक्षणीयत्वादिति गदाधरेणैव प्रातिस्विकनानाधर्मावच्छिन्न-साध्यकप्रतिज्ञाद्वयोत्तरहेत्वादिघटितस्यासङ्ग्राह्यताया एव सिद्धान्तितत्वात् । नन्वबाध्यत्वान्तविशेषणा-घटितस्य तद्विशेष्यतापन्नदोषप्रयुक्तभानत्वस्यैव तादृशविशेषणाघटितस्य तद्विशेष्यतापन्नबाधकप्रमां प्रति निषेध्यत्वेन विषयत्वस्यैवोपाधिता वक्तव्या न त्वतादृशविपरीतप्रमाविषयत्वस्येत्यत आह ॥ बाध इति । साध्योपाध्योरवैशिष्ट्यापत्त्या तथा अभ्युपगमायोगादिति भावः । सिद्धान्ते अलीके दर्शितोपाधिमति साध्यस्यापि सत्त्वेन पूर्ववादिनये च तत्र द्वयोरप्यभावेन साध्यसमव्याप्तताराहित्य-शङ्का नोदोत्येव । सर्वप्रत्ययवेद्यतां ब्रह्मण उपगच्छतां पूर्ववादिनां मते साध्यविनिर्मुक्तस्य तस्या-विद्यादिदोषप्रयुक्तघटादिभानविषयत्वेन तादृशचरमवृत्तिविषयत्वेन चोपाधेः साध्यव्याप्यता दुरुपपादे-त्यपि न शङ्कनीयम् । ब्रह्मणः स्वप्रकाशत्वेन न दोषप्रयुक्तभानविषयतेत्याशयात् ।