अंशित्वादिहेतुष्वपि मतद्वयेऽपि कार्यस्य कारणाभेदेन तदनाश्रितत्वात्सिद्ध-साधनम्
श्रीवेदव्यासाय नमः
पदवाक्यप्रमाणपारावारपारीणसर्वतन्त्रस्वतन्त्रश्रीव्यासतीर्थविरचितम्
न्यायामृतम्
१६. अंशित्वादिहेतुभङ्गः
अंशित्वादिहेतुष्वपि मतद्वयेऽपि कार्यस्य कारणाभेदेन तदनाश्रितत्वात्सिद्ध-साधनम् । अनाश्रितत्वेनान्याश्रितत्वेन वोपपत्त्या अर्थान्तरं च । यदि च प्रत्यक्ष-बाधादेतत्तन्त्वारब्धस्य पक्षत्वेन पक्षधर्मताबलाद्वा नानाश्रितत्वादिकम्, तर्हि तत एवैतत्तन्तुष्वपि नासत्त्वम् । अपि चात्यन्ताभावः प्रामाणिकः? अप्रामाणिको वा? आद्येऽद्वैतहानिः । अन्त्ये सिद्धसाधनम् । एतेनात्यन्ताभावमात्रं साध्यमिति निरस्तम् । अत्यन्ताभावो व्यावहारिक इति तु निरस्तम् ।
नन्वभावरूपा धर्मा नाद्वैतं घ्नन्तीति मण्डनोक्तेरभावद्वैतं स्वीकृतमिति चेन्न । अभावे अभावत्वादेस्तदाश्रये चाभावाश्रयत्वादेर् भावस्यावश्यकत्वात् । अभावरूप-प्रवृत्तिनिमित्तसम्भवेन ब्रह्मणोऽद्वितीयादिशब्दवाच्यत्वापातात् । अखण्डार्थेन वेदान्तेन ब्रह्माभावयोर्द्वयोरसिद्धेश्च । अन्यस्य च तत्त्वावेदकस्याभावात् । श्रौता-द्वितीयपदस्याभावरूपद्वितीयनिषेधे इव भावरूपद्वितीयनिषेधेऽपि मानान्तरेणाग्र इति स्वपदेन च विरोधाविशेषे भावरूपद्वितीयनिषेधपरत्वेनैव सङ्कोचः, न त्वभावरूप-द्वितीयनिषेधपरत्वेनेत्यत्र हेत्वभावाच्च । भावस्यापि स्वाभावाभावत्वाच्च । अभेद-स्याप्यन्योऽन्याभावप्रतियोगित्वेन तत्सत्यत्वासिद्धेश्च । भेदस्याप्यन्योन्याभावत्वेन तत्सत्यत्वापत्तेश्च । प्रध्वंसादेः प्रतियोगिना सह विरोधाय स्वतुल्यसत्त्वप्रतियोगि-सापक्षेत्वाच्च । भावत्वानिर्वचने भावस्येवाभावत्वानिर्वचनेऽभावस्यापि सत्त्वासिद्धेर-भावे सत्त्वार्थं तवाप्यभावत्वादिनिर्वच(ने)नप्रयासापाताच्च । अभावे दृश्यत्वादे-र्व्यभिचारस्य(वा)चापाताच्च । अभावस्य प्रतियोगिघटितत्वेन भावादपि विशिष्या-द्वैतविरोधित्वाच्च ।
श्रीमधुसूदनसरस्वतीविरचिता
अद्वैतसिद्धिः
चित्सुखाचार्यैस्तु ‘अयं पटः, एतत्तन्तुनिष्ठात्यन्ताभावप्रतियोगी, अंशित्वात्, इतरांशिवद् इत्युक्तम् । तत्र तन्तुपदमुपादानपरम् । तेन स्वोपादाननिष्ठात्यन्ताभावप्रतियोगित्वलक्षणमिथ्यात्व-सिद्धिः । न च कार्यस्य कारणाभेदेन तदनाश्रितत्वात् सिद्धसाधनम्, अनाश्रितत्वेनान्याश्रितत्वेन वा उपपत्त्या अर्थान्तरं च इति वाच्यम् । अभेदे कार्यकारणभावव्याहत्या कथञ्चिदपि भेदस्यावश्या-भ्युपेयत्वात् । न च ‘तदनन्यत्वमारम्भणशब्दादिभ्य’ इत्यधिकरणविरोधः । उपादानव्यतिरेकेणोपादेयं नास्तीत्यस्यैव तदर्थत्वात् । बाधात्तन्मात्राश्रितत्वेन पक्षविशेषणाद्वा नार्थान्तरम् । न च प्रकृतेऽपि बाधः । तस्योद्धरिष्यमाणत्वात् । न चात्यन्ताभावस्य प्रामाणिकत्वाप्रामाणिकत्वविकल्पावकाशः । तस्य प्रागेव निरस्तत्वात् ।
श्रीव्यासरामाचार्यविरचिता
न्यायामृततरङ्गिणी
कार्यस्य कारणाभेदेनेति ॥ अत्र वदन्ति – अभेदे कार्यकारणभावव्याहत्या कथञ्चिदपि भेदोऽवश्यमभ्युपेयः । न च ‘‘तदनन्यत्वमारम्भणशब्दादिभ्यः’’ इत्यधिकरण-विरोधः । उपादानव्यतिरेकेणोपादेयं नास्तीत्यस्यैव तदर्थत्वादिति । तन्न । कथञ्चिद्भेदो नाम यदि मिथ्या भेदः, तदाऽभेद एव सत्यः । अधिष्ठानज्ञानाबाध्यात्यन्ताभावप्रतियोगित्वं हि मिथ्यात्वम् । अधिष्ठानज्ञानबाध्यात्यन्ताभावप्रतियोगित्वस्य सत्यत्वेऽपि सम्भवात्, भेदात्यन्ताभावश्चाभेद इति भेदस्य मिथ्यात्वे कथं नाभेदः सत्यः स्यात्? व्यवहारतोऽपि कार्यकारणयोरभेदाच्च ॥
तर्हि तत एवेति ॥ प्रत्यक्षबाधादेवेत्यर्थः । उक्तमप्यधिकविवक्षयाऽऽह – अपि चेति ॥ प्रामाणिकः पारमार्थिक इत्यर्थः । यथाश्रुते त्वन्तःकरणवृत्तिप्रतिबिम्बितचैतन्यरूपप्रमाविषयत्वेन प्रामाणिकस्यापि घटादेः परैर्बाध्यत्वाङ्गीकारादद्वैतहान्यापादनासङ्गतेः । अप्रामाणिकः प्राति-भासिक इत्यर्थः ॥ एतेनेति ॥ प्रामाणिकत्वाद्यविशेषितात्यन्ताभावमात्रं साध्यनिविष्टमित्यपि सिद्धसाधनादिदोषादेव निरस्तमित्यर्थः ॥ अत्यन्ताभावो व्यवहारिक इतीति ॥ जगदत्यन्ता-भावस्य प्रामाणिकत्वेऽपि बाध्यतया जगत्तात्त्विकसत्ताऽविरोधित्वेनार्थान्तरतापत्तेरित्यादिना द्वितीयमिथ्यात्वलक्षणदूषणे निरस्तमित्यर्थः । अत्यन्ताभावस्य प्रामाणिकत्वपक्षमाश्रित्य शङ्कते– अभावरूपा इति ॥ अभावस्य द्वितीयस्याङ्गीकारे द्वितीयो भावोऽप्यवर्जनीय इत्याह– अभावत्वादेरिति ॥ अभावस्य तात्त्विकत्वाङ्गीकारः परमते विरुद्ध इत्याह – अभावरूपेति ॥ साधिकरणस्य तात्त्विकस्य ब्रह्मारोपितजगदभावस्य ब्रह्मैवाधिकरणम्, इत्यद्वितीयशब्दप्रवृत्ति-निमित्तस्य द्वितीयाभावस्य ब्रह्मणि तत्त्वतः सम्भवेनाद्वितीयपदवाच्यता ब्रह्मणि स्यादित्यर्थः । तात्त्विकाभावे प्रमाणाभावश्चेत्याह– अखण्डेति ॥ श्रौतेति ॥ ‘‘सदेव सोम्येदमग्र आसीदेक-मेवाद्वितीयमि’’त्यादौ तात्त्विकं द्वितीयाभावं बोधयताऽद्वितीयपदेन पुरनभावनिषेधे स्वविरोधो यथा, तथा द्वितीयस्य भावस्यापि निषेधे ‘‘अग्र आसीदि’’त्यादिकालसत्त्वप्रतिपादकेन स्ववाक्यान्तर्गतपदेन विरोधाविशेषात् स्वतन्त्रभावनिषेधपरत्वेनापि संकोच आवश्यक इत्यर्थः ॥ भावस्यापीति ॥ अभावद्वैताङ्गीकारे भावो द्वितीयोऽङ्गीकृतः स्यादित्यर्थः । ननु अभावस्याभावाभावात् तस्य तात्त्विकत्वमित्यत आह– अभेदस्येति ॥ भेदनिष्ठान्योन्याभाव-प्रतियोगित्वेनेत्यर्थः । अन्यथा तव भेददूषणानुपपत्तेरिति भावः ॥ प्रतियोगिघटितत्वेनेति ॥ प्रतियोगिनिरूप्यत्वेनेत्यर्थः ॥
पाण्डुरङ्गि आनन्दभट्टारकविरचितः
न्यायामृतकण्टकोद्धारः
अंशित्वादिहेतुष्विति ॥ ननु – स्वमते कार्यकारणयोरभेदेऽपि कथञ्चिद् भेदस्यापि विद्यमानत्वात् तेन चाधाराधेयभावोपपत्तेरङ्गीकृतत्वात् कथं सिद्धसाधनमिति चेत्, अयमत्राशयः – एतत्तन्तुनिष्ठात्यन्ताभावप्रतियोगित्वं समवायेन वा, संयोगेन वा? साधारणं वा? नाद्यः; कार्यकारणयोः समवायानङ्गीकारेण समवायेनैतत्तन्तुनिष्ठात्यन्ताभावप्रतियोगित्वस्यासिद्धत्वात् । न द्वितीयः । कार्य–कारणयोः संयोगानङ्गीकारेण सिद्धसाधनत्वात् । न तृतीयः; सम्बन्ध-द्वयपुरस्कारेणैवाधेयत्वेन तदभाव आधेयत्वाभावात् । प्रकारान्तरेणाधेयत्वाभावादि’त्यभिधानेन सिद्धसाधनत्वाभिधानादिति । यत्तु – कथञ्चिद्, भेदो नाम यदि मिथ्या भेदः, तदाऽभेद एव सत्यः । अधिष्ठानज्ञानाबाध्यात्यन्ताभावप्रतियोगित्वं मिथ्यात्वम्; अधिष्ठानज्ञानबाध्यात्यन्ता-भावप्रतियोगित्वस्य सत्यत्वेऽपि सम्भवात् । भेदात्यन्ताभावश्चाभेद इति कथं नाभेदः सत्यः स्यात्? व्यवहारतोऽपि कार्य–कारणयोरभेदाच्चेति, तन्न । सिद्धसाधनता हि प्रतिवादिना देया, तथा च सिद्धसाधनतादातुः प्रतिवादिनो मते भेदस्य सत्यस्यैव विद्यमानत्वात् तमादायाश्रया-श्रयिभावसम्भवात् सिद्धसाधनोद्भावनस्याशक्यत्वात् । अनाश्रितत्वेनेति ॥ न च एतत्तन्तु-मात्राश्रितत्वेनेति पक्षविशेषणान् नार्थान्तरमिति – वाच्यम् । पक्षतावच्छेदकसाध्ययोर्विरोधेनानु-मित्यनुदयात् । तत एवेति ॥ प्रत्यक्षबाधादेवेत्यर्थः । अपि चेति ॥ अत्रत्यपरयुक्तिखण्डनं पूर्वमेव कृतमिति तत्रैवानुसन्धेयम् । ननु अत्यन्ताभावो व्यावहारिकोऽङ्गीक्रियते । अतो नोक्तदोषः, इत्यत आह – अत्यन्ताभाव इति ॥ निरस्तम् ॥ बाध्यत्वलक्षण इति शेषः । ननु अत्यन्ताभावः प्रामाणिक एव, न चाद्वैतहानिः । अभावद्वैताङ्गीकारादिति शङ्कते – नन्विति ॥ अभावेऽभावत्वादेरिति ॥ तथा च भावरूपमपि द्वितीयं सत्यमङ्गीकर्तव्यमिति भावः । ननु – अभावत्वादेस्तदाश्रयत्वादेश्चाश्रयस्वरूपत्वेन नातिरिक्ताभावसत्यत्वापत्तिः । अस्तु वा अभावत्वादिकमभावातिरिक्तम् । न चैवमभावस्वरूपस्य मिथ्यात्वापातः । ब्रह्मणि सत्तासामान्याभावेऽपि सद्रूपत्ववदभावत्वादेर्मिथ्यात्वेऽप्यभावस्य सत्यत्वसम्भवादिति – चेत्, न; अभावत्वादेर्विधिमुखवेद्यत्वेन निषेधमुखवेद्याभावरूपत्वासम्भवात् । सत्तासामान्यस्यैव मयाऽ-नङ्गीकारेण तदभावेऽपि त्रिकालाबाध्यत्वरूपसत्त्वस्य सत्त्वेन ब्रह्मणः सद्रूपत्वसम्भवेऽपि भावत्वादेर्मिथ्यात्वे भावस्य सत्यत्वासम्भवात् । धर्मिसत्त्वोपपादकस्य धर्मस्य मिथ्यात्वे हि धर्मिणोऽपि मिथ्यात्वं सम्भवति । यथा हि घटत्वादेर्मिथ्यात्वे घटस्यापि मिथ्यात्वमिति । अभावरूपेति ॥ न च – अद्वितीयादिपदानां समासपदत्वात् समस्तपदानाञ्च वाक्यरूपत्वाद् वाक्ये च शक्तिग्रहानपेक्षत्वेन शक्यतावच्छेदकापेक्षाया एवाभावेन कथं वाच्यत्वापादनमिति – वाच्यम् । ऐकपद्यमैकस्वर्यमेकविभक्तिकत्वञ्च समासप्रयोजनमित्युक्तत्वेन समासपदस्यापि पदत्वात्, पदे च शक्तिग्रहापेक्षत्वेन शक्यतावच्छेदकावश्यकत्वेन तस्य च प्रकृते भावरूपस्या-सम्भवेऽप्यभावरूपस्य सम्भवेन तदापादनसम्भवादिति भावः ॥
किञ्चाभावद्वैतमभ्युपगच्छतस्तवाभावसिद्धिः किं वेदान्तेनाभिप्रेता? तदन्येन वा? नाद्य इत्याह– अखण्डार्थेनेति ॥ सकलस्यापि वेदान्तस्य ब्रह्मैकपरतायाः परेणाङ्गीकारादित्यर्थः । नापर इत्याह– अन्यस्य चेति ॥ अभावरूपद्वैतोररीकरणयुक्तेर्द्वैताङ्गीकारेऽपि साम्यमाह– श्रौतेति ॥ किञ्चाभावद्वैताङ्गीकारे यथाकथञ्चिदभावरूपत्वं वा प्रयोजकम्? भावप्रतियोगित्वं वा? आद्ये दोषमाह– भावस्यापीति ॥ द्वितीयेऽपि दोषमाह– अभेदस्यापीति ॥ न च– अभावप्रतियोगित्वेऽपि सत्यत्वासिद्धिः कुत इति वाच्यम् । अभावप्रतियोगित्वस्य भावत्व-नियतत्वेनाभावस्य सत्यत्वाङ्गीकारेऽभेदस्य भावत्वेन सत्यत्वासिद्धेः । न च – अभावप्रतियोगि-त्वस्य भावत्वसमनियतत्वेऽभावे व्यभिचार इति वाच्यम् । अभावप्रतियोगिकाभावाभावादिति मतेनाभिधानादिति भावः । दूषणान्तरमाह– भेदस्यापीति ॥ किञ्चाभावसत्यत्वाङ्गीकारे ध्वंसस्याप्यभावत्वेन सत्यत्वात् तस्य च प्रतियोगिना सह विरोधार्थं प्रतियागिनोऽपि सत्यत्व-मङ्गीकर्तव्यम्, समसत्ताकयोरेव प्रतियोगिध्वंसयोरेककालत्वविरोधात् । तथा च भावस्यापि सत्यत्वमापतितमित्याह– प्रध्वंसादेरिति ॥ प्रतियोगिघटितत्वेनेति ॥ प्रतियोगिनिरूप्य-त्वेनेत्यर्थः । निरूपकासत्यत्वे निरूप्यसत्यत्वं नोपपद्यत इति हि परेणाङ्गीकृतम् । अन्यथा मिथ्याभूतपरोपाधिघटितानां सार्वज्ञ्यादीनां मिथ्यात्वं न स्यात् । सार्वज्ञ्यादेर्मिथ्यात्वे हि परोपाधिकत्वमेव तन्त्रम्, इति त्वदभ्युपगमेनैव तव दूषणमिति भावः ॥
श्रीनिवासतीर्थविरचितः
न्यायामृतप्रकाशः
मतद्वयेऽपीति ॥ आवयोर्मत इत्यर्थः ॥ कार्यस्येति ॥ कार्यकारणयोरभेदेन आश्रयाश्रयि-भावानङ्गीकाराद् एतत्तन्तोरेव पटत्वेनैतत्तन्तुनिष्ठात्यन्ताभावप्रतियोगित्वं सिद्धमिति सिद्धसाधनमिति भावः ॥ अनाश्रितत्वेनेति ॥ अन्यत्रानाश्रितत्वं सिद्धमेवास्ति एतत्तन्तुष्वपि नास्तीत्युक्तेऽ-नाश्रितत्वेनाप्युपपत्तेः । अथवा विशेषनिषेधः शेषविध्यनुज्ञापक इति न्यायेन एतत्तन्तुष्वसत्त्वेऽ-न्याश्रितत्वमेव सिद्ध्येन्न मिथ्यात्वमित्यर्थः । अर्थान्तराभावमाशङ्क्य निषेधति ॥ यदि चेति ॥ अनाश्रितत्वेऽन्याश्रितत्वे वा प्रत्यक्षबाधः । एतत्तन्त्वारब्धः पटस्तावत्प्रत्यक्षः । अंशित्वं च हेतुः । तत्रांशित्वं नामांशवत्त्वं पटस्यांशाश्च तन्तव एव । तद्वत्त्वं चाश्रयाश्रयिभावसम्बन्धेनैव । एवं चांशित्वहेतुर्यदा एतत्पटे प्राप्तस्तदैतत्पटस्य नानाश्रितत्वादिकमित्यर्थः । असत्त्वमत्यन्ताभाव-प्रतियोगित्वम् । एतत्तन्तुष्वसत्त्वसाधनेऽपि प्रत्यक्षबाधाद् उक्तरीत्यांऽशित्वहेतोः पक्षधर्मताबलाद्वा एतत्तन्तुष्वप्यसत्त्वं न साधयितुं शक्यमित्यर्थः ।
उक्तमप्यधिकविवक्षयाऽऽह ॥ अपि चेति ॥ प्रामाणिक इत्यादि ॥ प्रामाणिकात्यन्ताभाव-प्रतियोगित्वं वा साध्यमप्रामाणिकात्यन्ताभावप्रतियोगित्वं वेत्यर्थः । एतेनेति ॥ यावद्विशेषातिरिक्त-सामान्याभावेनेत्यर्थः । व्यावहारिकात्यन्ताभावप्रतियोगित्वं साध्यत इति चेत्तत्राह ॥ अत्यन्ताभाव इति ॥ प्रतियोगितदभावयोर्वैलक्षण्यस्यावश्यकत्वेनात्यन्ताभावस्य व्यावहारिकत्वे तत्प्रतियोगिनोऽ-प्रातिभासिकस्य जगतः पारमार्थिकत्वं स्यादित्येवं निरस्तमित्यर्थः । ननु प्रामाणिकात्यन्ताभाव-प्रतियोगित्वमेव साध्यते तथात्वेऽद्वैतहानिः स्यादिति चेन्न । कुत इत्यत आह ॥ अभावरूपा इति । नेह नानेत्यादिश्रुतीनां भावद्वैतनिषेधपरत्वमेवेति भावः । अभावस्य द्वितीयस्याङ्गीकारे द्वितीय-भावोऽप्यवर्जनीय इत्याह ॥ अभाव इति ॥ तदाश्रय इति ॥ अभावस्य साधिकरणत्वादभावाश्रये ब्रह्मणि अभावाश्रयत्वं, आदिपदेन अभावे तदाश्रितत्वमित्यादि भावरूपबहुधर्माङ्गीकारापत्तिरित्यर्थः । ब्रह्मणीवाऽभावेऽपि व्यावहारिका धर्मास्संत्येवेति नानिष्टमेतदित्यस्वरसादाह ॥ अभावरूपेति ॥ अद्वितीयादीत्यादिपदेन निर्गुणनिराकारादिशब्दग्रहणम् । अत्र किञ्चित्प्रष्टव्यम् । त्वन्मते ब्रह्मणः कस्मात्सर्वशब्दावाच्यत्वमङ्गीकृतमिति । शब्दप्रवृत्तिनिमित्तभूतानां द्रव्यगुणादीनां निर्धर्मके ब्रह्मण्य-भावादिति चेत् तर्हि ब्रह्मणो अद्वितीयादिशब्दवाच्यत्वं स्यात् । द्वितीयाभावरूपप्रवृत्तिनिमित्तस्य प्रामाणिकस्य ब्रह्मणि सद्भावादित्यर्थः । किञ्च तात्विके द्वितीयाभावे प्रमाणाभावेन तस्यासिद्धेश्च । ननु कथमसिद्धिः । ‘‘एकमेवाद्वितीय’’मित्यादि वेदान्तेनैव तत्सिद्ध्युपपत्तेरिति चेत्तत्राह ॥ अखण्डार्थेनेति ॥ अयमर्थः । वेदान्तानां लक्षणया ब्रह्ममात्रप्रतिपादकत्वरूपाखण्डार्थत्वाङ्गीकारेणा-भावाप्रतिपादकत्वात्तदसिद्धिरेव स्यात् । ननु स्वातन्त्र्येणाभावाप्रतिपादकत्वेऽपि ब्रह्मविशेषत्वेन तत्प्रतिपादकत्वं भविष्यतीति चेन्न । तथापि निर्विशेषार्थनिष्ठत्वरूपाखण्डार्थत्वहानिरेवेति न वेदान्तेन तत्सिद्धिरिति । व्यासज्यवृत्त्यभावाभिप्रायेण द्वयोरित्युक्तम् । तथाप्यागमातिरिक्तप्रमाणेन तत्सिद्ध्युप-पत्तिरिति चेत्तत्राह । अन्यस्य चेति ॥ आगमातिरिक्तयोः प्रत्यक्षानुमानयोरतत्वावेदकत्वात् तत्वावेदकं प्रमाणमागम एवेति वाच्यम् । तेन च तत्सिद्धिर्न सम्भवतीत्युक्तमित्यर्थः ॥ श्रौतेति ॥ अयमत्र कक्षाक्रमः । ब्रह्मव्यतिरिक्तं द्वितीयाभावं प्रामाणिकमङ्गीकुर्वता त्वया ब्रह्मव्यतिरिक्तस्य सर्वस्याभावबोधिकायाः ‘‘एकमेवाद्वितीय’’मित्यादिश्रुतेरभावव्यतिरिक्तद्वितीयभावमात्रनिषेधपरत्वेन सङ्कोचः कार्यो न त्वाभावरूपद्वितीयनिषेधपरत्वेनेत्युच्यते । तत्र वदामः । अद्वितीयमित्यत्र ब्रह्म-व्यतिरिक्तं भावरूपं द्वितीयमस्ति अभावरूपं द्वितीयमेव नास्तीत्यपि सङ्कोचः क्रियतां विशेषहेत्व-भावात् । नन्वस्ति विशेषहेतुः । तात्विकद्वितीयाभावं बोधयताऽद्वितीयपदेन पुनरभावनिषेधे स्वविरोधः । ‘‘यत्तदद्रेश्य’’मिति मानान्तरेण च विरोधः । तत्राभावरूपधर्मप्रतिपादनात् । अतो भावरूपद्वितीयनिषेधपरत्वेनैव सङ्कोचः कर्तव्य इति चेत् तर्हि भावरूपद्वितीयमात्रनिषेधेऽप्यग्र आसीदित्यादिकालसत्त्वप्रतिपादकेन स्ववाक्यान्तर्गतपदेन विरोधः । सन्घट इत्यादि प्रत्यक्षरूप-मानान्तरेण च विरोधः समान एवेति (भावरूपपदार्थमङ्गीकृत्याभावरूपपदार्थनिषेधपरत्वेन स्वतन्त्र-भावनिषेधपरत्वेन वा सङ्कोचः क्रियतामिति) भावाभावरूपं पदार्थमङ्गीकृत्य भावरूपपदार्थ एव स्वतन्त्रभावनिषेधपरत्वेनैव सङ्कोचः क्रियतामिति । अभावस्य सत्यत्वाङ्गीकारे सत्यत्वज्ञानत्वा-नन्तत्वादिरूपस्य भावमात्रस्यापि सत्यत्वं लब्धं, सर्वस्यापि भावस्य स्वाभावाभावत्वेनाभावरूपत्वा-दित्याह । भावस्यापीति ॥ अभावस्यैव सत्यत्वमङ्गीकृत्याभावप्रतियोगित्वमात्रेण मिथ्यात्वाङ्गीकारे बाधकमाह ॥ अभेदस्येति ॥ अन्योन्याभावरूपभेदप्रतियोगित्वेनेत्यर्थः । तादात्म्यप्रतियोगिका-भावस्यैवान्योन्याभावत्वादिति भावः । अभावस्य सत्यत्वाङ्गीकारे भेदस्य सत्यत्वं सिद्ध्यतीत्याह ॥ भेदस्यापीति ॥ अन्योन्याभावत्वेन अन्योन्याभावरूपत्वेन । अभावस्य सत्यत्वाङ्गीकारे भावस्यापि सत्यत्वं प्राप्तमित्याह । प्रध्वंसादेरिति ॥ अभावस्य प्रतियोगिना सह तावद्विरोधोऽस्ति । स च तुल्यसत्ताकयोरेव, न भिन्नसत्ताकयोरेव । तथात्वे प्रातिभासिकघटव्यावहारिकतदभावयोर्विरोधापत्तेः । तथा च प्रकृते प्रध्वंसाद्यभावतत्प्रतियोगिनोर्विरोधाय प्रतियोगिनो भावसमसत्ताकत्वमवश्यं वाच्यमेव । अतोऽभावस्य पारमार्थिकत्वेन तत्प्रतियोगिनो भावस्यापि पारमार्थिकत्वापत्तिरित्यर्थः । अभावस्य सत्यत्वाङ्गीकारेऽन्यदप्यनिष्टमापतितमित्याह ॥ भावत्वेति ॥ सर्वस्यापि भावस्य त्वया सत्त्वेन वा भावत्वेन वाऽन्येन वा केनापि प्रकारेण निर्वक्तुमशक्यत्वादेव हि अनिर्वचनीयत्वं स्वीकृतं, सत्यत्वे केनापि प्रकारेण निर्वक्तव्यत्वापत्तेः । तच्चाशक्यं, एवमेवाभावे अभावत्वानिर्वचने तस्या-निर्वचनीयत्वप्राप्त्या पारमार्थिकसत्यत्वासम्भवेन तदर्थमभावत्वादिनिर्वचने महाप्रयासस्तव स्यात् । तच्च त्वया निर्वक्तुमशक्यं, अतस्तस्याप्यनिर्वचनीयत्वापातेन सत्यत्वं न स्यादिति भावः । अभावत्व-प्रकारकप्रमां प्रति विशेष्यत्वमभावत्वमित्यस्यात्माश्रयदुष्टत्वात् प्रतियोगिज्ञानाधीनज्ञानविषयत्वादे-स्तार्किकरीत्या समवायेऽस्मद्रीत्या सादृश्ये चातिव्याप्तत्वादित्यादि द्रष्टव्यम् । अभावस्य सत्यत्वाङ्गी-कारे दृश्यत्वानुमानं च दुष्टं स्यादित्याह ॥ अभाव इति ॥ नन्वभावव्यतिरिक्तत्वे सतीति विशेषणं दीयत इति चेत्तत्राह ॥ अभाववदिति ॥ यथाऽभावे विद्यमानोऽपि हेतुर्न तत्र मिथ्यात्वप्रयोजको जातः किन्तु तद्व्यतिरिक्तस्थल एवेत्युच्यते । एवं पक्षे विद्यमानोऽपि हेतुः साध्ये प्रयोजको न स्यादित्यप्रयोजक इत्यर्थः । यत्र व्यभिचारे प्राप्ते तद्व्यतिरिक्तित्वे सतीति विशेषणं दीयते तत्र सर्वत्राप्यनयैव रीत्याऽप्रयोजकतैव देयेति सम्प्रदायः ॥ प्रतियोगिघटितत्वेनेति ॥ प्रतियोगिनिरूप्य-त्वेनेत्यर्थः । ब्रह्मव्यतिरिक्तस्य भावस्य सत्यत्वाङ्गीकारेऽद्वैतविरोधस्त्वया दीयते तदपेक्षयापि तवैव विशिष्याद्वैतविरोधः स्यात् । ब्रह्मव्यतिरिक्तस्य द्वितीयाभावस्य सत्यत्वङ्गीकारे तस्य प्रतियोगिनिरूप्य-त्वेन प्रतियोगिभूतभावरूपद्वितीयस्यापि सत्यत्वापत्त्या भावाभावद्वयस्य सत्यत्वाङ्गीकारो विशिष्या-द्वैतविरोधीत्याशयः ॥
श्रीकूर्मनरहरिआचार्यविरचिता
न्यायकल्पलता
चित्सुखोक्तानुमानं निराचष्टे । अंशित्वेति । मतेति । तत्वविन्मायिनोर् मतेऽप्युपादेयस्योपादाना-भेदेनेत्यर्थः । अत्राह विवर्तवादी । अभेदे कार्यकारणभावव्याहत्या कथञ्चिदपि भेदस्यावश्याभ्युपेयत्वान्न तदनाश्रितत्वेन सिद्धसाधनम् । तन्तुपदं चोपादानपरम् । तेन स्वोपादाननिष्ठात्यन्ताभावप्रतियोगित्व-लक्षणमिथ्यात्वसिद्धिः । अतोऽनाश्रितत्वेनान्याश्रितत्वेन वोपपत्या नार्थान्तरम्् । न च ‘तदनन्यत्व-मारम्भणशब्दादिभ्यः’ इत्यधिकरणविरोधः । उपादानव्यतिरेकेणोपादेयं नास्तीत्यस्यैव तदर्थत्वात् । बाधात् तन्मात्राश्रितत्वेन पक्षविशेषणाद्वा नार्थान्तरमिति । तदसत् । कथञ्चिद्भेदो नाम यदि मिथ्या भेदस्तर्ह्यभेद एव सत्यः । अधिष्ठानज्ञानाबाध्यात्यन्ताभावप्रतियोगित्वं मिथ्यात्वम् । अधिष्ठानज्ञान-बाध्यात्यन्ताभावप्रतियोगित्वस्य सत्यत्वेऽपि सम्भवात् । भेदात्यन्ताभावश्चाभेद इति भेदस्य मिथ्यात्वे कथं नाभेदः सत्यः स्यात् । अतिविषक्तास्तन्तव एव पट इति व्यवहारतोऽप्युपादानोपादेययोरभेदाच्च ।
यदप्युक्तं– बाधात् तन्मात्राश्रितत्वेन पक्षो विशेष्यत इति नार्थान्तरमित्याशङ्कते । यदि चेति । दूषयति । तर्हि तत एवेति । प्रत्यक्षबाधादेवेत्यर्थः । उक्तमपि दोषमधिकविवक्षया पुनर्ब्रवीति । अपि चेति । प्रामाणिकस्तत एवाबाध्य इत्यर्थः । न चान्तःकरणवृत्तिप्रतिबिम्बितचैतन्यरूपप्रमाविषयत्वेन प्रामाणिकस्यापि घटादेः परैर्बाध्यत्वाङ्गीकाराद् अद्वैतहान्यापादनासङ्गतिरिति देश्यम् । प्रामाणिकस्यापि बाध्यत्वे ब्रह्मणोऽपि बाध्यत्वपातात् । न च तत्त्वावेदकप्रमाणसिद्धत्वान्न ब्रह्मणो बाध्यत्वमिति वाच्यम्् । तत्त्वावेदकातत्वावेदकत्वेन प्रमाणद्वैविध्यकल्पनस्य विप्रतिषिद्धत्वात् । अप्रमाणिकस्तत एव बाध्य इत्यर्थः ।
यद्वा प्रामाणिकः पारमार्थिको ऽप्रामाणिकः प्रतिभासिक इति पर्यवसितोऽर्थ इति । प्रामाणिकत्वाद्य-विशेषितात्यन्ताभावमात्रं साध्यनिविष्टमित्यपि सिद्धसाधनादिदोषेणैव निरस्तमित्याह । एतेनेति । ननु साध्यनिवेशितस्यात्यन्ताभावस्य व्यावहारिकत्वान्नाद्वैतहान्यादिदोष इत्यत आह । अत्यन्ताभावो व्यावहारिक इतीति । जगदत्यन्ताभावस्य व्यावहारिकत्वेऽपि बाध्यतया वियदादेः पारमार्थिकसत्वाविरोधित्वेनार्थान्तरता-पत्तेरित्यादिना द्वितीयमिथ्यात्वलक्षणदूषणे निरस्तमित्यर्थः । अत्यन्ताभावस्य प्रामाणिकत्वपक्षमाश्रित्य शङ्कते । नन्विति । निषेधति ॥ नेति । ब्रह्मसमसत्ताकाभावाङ्गीकारे तत्समसत्ताकास्तदाश्रिता विधिमुखप्रत्यय-वेद्यत्वाद्भावा अभावत्वज्ञेयत्वप्रमेयत्ववस्तुत्वादेर्धर्मस्याभावेऽवश्याभ्युपेयत्वात् । अभावरूपधर्माश्रये ब्रह्मणि चाभावाश्रयत्वाभावत्तया प्रमितिविषयत्वादेस्तत्समसत्ताकस्य भावधर्मजातस्या वर्जनीयस्य स्वीकार्यत्वाच्चेत्यर्थः । ब्रह्मण्यभावस्य तत्समसत्ताकस्य द्वितीयस्याङ्गीकारः परमते विरुद्ध इत्याह । अभावरूपधर्मेति । साधिकरणस्य पारमार्थिकस्य ब्रह्माध्यस्तप्रपञ्चाभावस्य ब्रह्मैवाधिकरणमित्यद्वितीयशब्दप्रवृत्तिनिमित्तस्य द्वितीयाभावस्य ब्रह्मणि तत्वतः सत्वेनाद्वितीयपदवाच्यता ब्रह्मणः स्यादित्यर्थः । आदिपदेन मुक्तानन्तपदवाच्यताप्रसङ्गः सङ्गृह्यते । मुक्तपदप्रवृत्तिनिमित्तस्य ब्रह्मसमसत्ताकस्य बन्धाभावस्यानन्तपदप्रवृत्तिनिमित्तस्य परिच्छेदाभावस्य ब्रह्मणि सत्वादिति ।
किञ्च । पारमार्थिकाभावसिद्धिः किम् एकमेवाद्वितीयमिति वेदान्तवाक्येन उतान्येन । आद्यं दूषयति ॥ अखण्डार्थेनेति ॥ धर्मधर्मिभावापन्नबह्माभावरूपवस्तुद्वयप्रतिपादकत्वे विशेषणविशेष्यभावापन्नतद्बोधकत्वे चासंसृष्टैकार्थगोचरत्वरूपाखण्डार्थत्वहानिः स्यादित्यर्थः । द्वितीयाभावे हेतुमाह ॥ अन्यस्य चेति ॥ तथा च परमते प्रमाणाभावान्न तात्विकाभावसिद्धिरित्यर्थः । अद्वितीयपदं स्वतन्त्रनिषेधपरं न तु द्वितीया-भावमात्रनिषेधपरमित्यत्र नियामकं दर्शयति । श्रौतेति । ‘‘सदेव सौम्येदमिदमग्र आसीत्’’ ‘‘एकमेवाद्वितीयं ब्रह्म’’ इत्यादौ पारमार्थिकं द्वितीयाभावं प्रतिपादयता श्रौताद्वितीयपदेन पुनः स्वबोध्याभावनिषेधे स्वविरोधो यथा तथा द्वितीयस्य भावस्यापि निषेधे ‘‘अग्र आसीत्’’ इति, ‘‘तत्तेज ऐक्षत’’ इत्यादिकालादि-सत्वप्रतिपादकेन स्ववाक्यान्तर्गतपदेन विरोधाविशेषाद्धेतोः स्वतन्त्रद्वितीयवस्तुनिषेधपरत्वमेवावश्यकमित्यर्थः । अभावद्वैताङ्गीकारेणैव भावद्वैतमकामेन सिद्धमित्याह । भावस्यापीति ।
नन्वभावस्याभावो नास्तीति तस्य पारमार्थिकत्वमित्यत आह । अभेदस्येति । अभावप्रतियोगिनो मिथ्यात्वे अभेदस्यापि सत्यत्वं स्यात् । तस्यापि भेदनिष्ठान्योन्याभावप्रतियोगित्वादित्यर्थः । अन्यथा तव भेदखण्डनानुपपत्तेरिति भावः ॥ भेदस्येति ॥ अभावत्वाविशेषादिति भावः । प्रध्वंसादेरिति । तथा च जगतस्तात्विकत्वप्रसङ्ग इत्यर्थः । ननु भावत्वस्य निर्वक्तुमशक्यत्वान् न भावस्तात्विक इत्यत आह । भावत्वानिर्वचन इति । अन्यथा भाववद् ब्रह्माभावयोरपि मिथ्यात्वापातादित्यर्थः । अभाव इति । एवं परिहर वा अभावरूपाणां ब्रह्मधर्माणां पारमार्थिकत्वं स्वीकुरु वा जगतः सत्यत्वमिति दुरुत्तराप्रतिबन्दि-तरङ्गिणीत्याशयः । ननु ब्रह्माद्वैतविरोधित्वान्न भावोऽङ्गीकारार्ह इत्यत आह । अभावस्येति । प्रतियोगिघटितत्वेन प्रतियोगिनिरूपणाधीनिरुपणत्वेनेत्यर्थः । सद्भ्यामेवाभावो निरूप्यत इति न्यायादभावस्य स्वसमसत्ताकप्रतियोग्यधिकरणापेक्षत्वादिति भावः ।
वनमालिमिश्रविरचितम्
न्यायामृतसौगन्ध्यं
ननु अयं पट एतत्तन्तुनिष्ठात्यन्ताभावप्रतियोगी, अंशित्वादितरांशिवदित्युक्तम् । तत्र तन्तुपद-मुपादानपरम् । तेन स्वोपादाननिष्ठात्यन्ताभावप्रतियोगित्वलक्षणमिथ्यात्वसिद्धिरिति चेन्न । कार्यस्य कारणाभेदेन तदनाश्रितत्वात् सिद्धसाधनात् । अनाश्रितत्वेनान्याश्रितत्वेन वोपपत्त्याऽर्थान्तराच्च । न चाभेदे कार्यकारण-भावव्याहत्या कथञ्चिद्भेेदोऽवश्यमभ्युपेयः । कथञ्चिद्भेदो हि मिथ्याभेदः स्यादिति वाच्यम् । मिथ्यात्वं हि स्वसमानाधिकरणस्वाधिक-सत्ताकात्यन्ताभावप्रतियोगित्वम् । तथा च भेदाभावस्याभेदस्य सत्यत्वं स्यादेव । तच्च तेऽनिष्टम् ।
यत्तु स्वसमानाधिकरणस्वाधिक(स्वान्यून)सत्ताकात्यन्ताभावप्रतियोगित्वमेव मिथ्यात्वमित्युक्तम् । अतोऽभेदस्य सत्यत्वासम्भवात् । तत्सम्भवे वा कथं तेन कार्यकारणत्वमिति । तन्न । भेदाभेदयोः सम-सत्ताकयोर्विरोधेन सत्ताभेदस्यावश्यकत्वात् । तथा च भेदस्य व्यावहारिकत्वे तदभावस्याभेदस्य प्रातिभासिकत्वेन न्यूनसत्ताकत्वेन भेदे मिथ्यात्वलक्षणासिद्धेः । भेदस्य प्रातिभासिकत्वे त्वभेदो व्यावहारिकः स्यात् । तथा च व्यावहारिकाभिन्नेऽत्यन्ताभावस्य सर्वसम्मतत्वात् । घटवद् घटाभाववद् इत्याचार्याशयात् कार्यकारणयोर्भेदसहिष्णुतादात्म्यस्वीकारेण तन्तुषु पटानाश्रितत्वस्य कार्यकारणभावस्य चोपपत्तेः ।
मन्नारी कृष्णाचार्यविरचिता
न्यायामृतमाधुरी
सिद्धसाधनमिति । तदनाश्रये तदभावसत्त्वादिति भावः । अत्राद्वैतसिद्धिकारः । ‘‘अभेदे कार्यकारणभावव्याहत्या कथञ्चिदपि भेदोऽवश्याभ्युपेय एव । न च तदनन्यत्वमारम्भणशब्दादिभ्य इत्यधिकरणविरोध उपादानव्यतिरेकेणोपादेयं नास्तीत्यस्यैव तदर्थत्वात्’’ इति व्याजहार । तद्राभस्येनैव । भेदे कथञ्चिदिति पदाभिप्रेतमिथ्यात्वस्य स्वसमानाधिकरणस्वाधिकसत्ताकात्यन्ताभावप्रतियोगित्वरूपतायां भेदीयव्यावहारिकसत्ताधिकतात्विकसत्ताकभेदाभावरूपाभेदस्या समीहितस्योपगमापत्या, स्वसमानाधिकरण-स्वान्यूनसत्ताकात्यन्ताभावप्रतियोगित्वरूपतायां चैकाधिकरणे प्रतियोगितदभावयोरेकसत्ताकत्वस्य विरुद्ध-तयाऽवश्याभ्युपेये सत्ताभेदे अप्रातिभासिकस्याभेदस्य पारमार्थिकतैव पर्यवसानीदिति दर्शितक्षतितादवस्थ्य-प्रसङ्गेनैवंविधवचनविन्यासानौचित्यात् । अनाश्रितत्वेन न्यायनये विभुचतुष्टयवत् । अन्याश्रितत्वेन तन्त्वन्तराश्रितत्वेन । अर्थान्तरं समीहितजगदलीकत्वासिद्धिः । प्रत्यक्षबाधात् । प्रकृतघट-धर्मिककिञ्चिन्निरूपिताधेयताग्राहकप्रत्यक्षविरोधात् । अनाश्रितत्वादिकं तद्गुणसंविज्ञाननिर्देशोऽ-न्याश्रितत्वसङ्ग्राहकः । तत एव । एतद्व्यक्तिधर्मिकैतत्तन्तुनिरूपिताधेयताग्राहकप्रत्यक्षविरोधादेव । नासत्वं न प्रकृतसाध्यीभूतप्रतियोगित्वम् । निरूपकताप्रत्यासत्या प्रतियोगिताविशेषणतापन्नाभावमधिकृत्य पारमार्थिकत्वप्रातिभासिकत्वव्यावहारिकत्वोपरक्तकल्पत्रयीमभिप्रेत्य क्रमेण पराकुरुते । अपि चेत्यादिना निरस्तमित्यन्तेन । पारमार्थिकताकल्पमुज्जिजीवयिषति नन्विति । एवं च औतोक्तिर्भावद्वैत-निषेधपरेत्याशयः । अभावेत्यादि ॥ प्रतियोगितानिरूपकत्वरूपाभावत्वानुपरागेण जात्यखण्डोपाध्यति-रिक्तस्य धर्मिप्रतिपत्तिनिबन्धनप्रतिपत्तिकस्य अभावस्य किञ्चिन्निरूपिताधेयत्वानुपरागेण भानायोगान्मण्ड-नोक्तिरपि तन्मतखण्डनोक्तिरेवेत्याशयः । अभावेत्यादि । निःस्वादिपदाधीनबोधे धनाभावस्येव प्रकृतेऽपि अद्वितीयादिपदजन्यबोधीयप्रकारतावच्छेदकत्वरूपतत्पदप्रवृत्तिनिमित्तत्वसत्त्वात्समासवृत्तेरपि वृत्त्युपगमादिति भावः । मेयसिद्धेर्मानाधीनतया तादृशतात्विकाभावग्राहकमानमखण्डार्थनिष्ठम् अनखण्डार्थनिष्ठं चेति कल्पद्वयीमभिप्रेत्य निर्भेदार्थतात्पर्यकत्वरूपाखण्डार्थनिष्ठत्वविशेषितस्य भेदनियतद्वित्वावच्छिन्नप्रमापकत्वा-योगेनाद्यं, अलीकार्थनिष्ठस्यानलीकतादृशाभावप्रत्यायकत्वायोगेन द्वितीयं च प्रत्याख्याति । अखण्डार्थे-नेत्यादिना ॥ सदेव सोम्येदमग्र आसीद् एकमेवाद्वितीयमिति वाक्यघटकाद्वितीयपदस्य ब्रह्मान्यत्वा-वच्छिन्नप्रतियोगिताकाभावप्रत्यायकतायां तादृशाभावस्यापि तन्निरूपितप्रतियोगितावच्छेदकीभूत-ब्रह्मान्यत्वविशेषितयावदादिकल्पतापत्या वाक्याप्रामाण्यप्रसङ्गेन सामानाधिकरण्यप्रत्यासत्या ब्रह्मान्यत्व-विशेषितभावत्वावच्छिन्न प्रतियोगिताकाभावप्रमापकतोपेयेत्युच्यते तदापि समभिव्याहृतपदार्थान्तरीभूताग्र-कालवृत्तित्वस्य तन्निरूपितप्रतियोगितावच्छेदकीभूताभावत्वघटितधर्माक्रान्ततया तादृशधर्मावच्छिन्नाभाव-विशेषितब्रह्मधर्मिकाग्रकालवृत्तित्वरूपसमभिव्याहृतपदार्थान्तरविधेयका(न्वय)नुदयबोधस्य नैय्यायिकदिशा पाणिनीयदिशा निखिलकारकविशिष्टक्रियाविशेष्यकस्य वा बोधस्यानुदयप्रसङ्गेन तदप्रामाण्यतादवस्थ्यापत्या भगवत्पादोदीरितभङ्ग्या समाधिकराहित्यपरतैवोपेयेत्याशयेनाह– श्रौतेत्यादि ॥ अभावधर्माणां तात्विकत्वोपगतौ द्वितीयाभावस्य प्रथमाभावप्रतियोगिस्वरूपतया घटादेरपि स्वाभावविरहात्मकतया तात्विक-त्वोपगमावश्यम्भावेन साधु समर्थितो द्वैतवाद इत्याह– भावस्येत्यादि । अभावीयप्रतियोगितानापन्ना-नामेवाभावानां तात्विकत्वोपगमेन जगदभावस्यैव जगन्मज्जनापातेन तादृशतथातथाभावेऽपि घटादेस्तदापन्नतया न तथात्वापत्तिरित्यत आह ॥ अभेदस्येति । अन्योन्याभावप्रतियोगित्वेन भेदधर्मिकाऽन्योन्याभावप्रतियोगित्वेन । भेदस्येति । अभावत्वाविशेषादिति भावः । औतिनये विभिन्नसत्ताकयो रजततदभावयोः शुक्तावैकाधिकरण्यदर्शनेन समानसत्ताकयोरेव विरोधित्वस्येष्टव्यतया अभावत्वावैशेष्येण प्रध्वंसस्य तात्विकतायां तत्प्रतियोगिनामपि तथात्वापत्तिर्दुर्वारेत्याह– प्रध्वंसादेरिति । निखिलभावानुगतभावत्वस्यैव दुर्निरूपतया न तदुपहितानां तात्विकतेत्युपगमे तुल्यदिशा निखिलाभावानुगताभावत्वस्यापि तादृशतया ताद्रूप्यानुपपत्तेस्तस्य सुवचतायान्तु तद्वद्भावत्वस्यापि तादृशतापत्त्या ताद्रूप्यापत्तिर्दुष्परिहरेत्याह । भावत्वेत्यादि । प्रतियोगिघटितत्वेन प्रतियोगि-प्रतिपत्तिनियन्त्रितप्रतिपत्तिकत्वेन ।
किं चात्यन्ताभावप्रतियोगित्वं स्वरूपेण वा? पारमार्थिकत्वेन वा? नोभयमपि
न्यायामृतं
किं चात्यन्ताभावप्रतियोगित्वं स्वरूपेण वा? पारमार्थिकत्वेन वा? नोभयमपि । निरस्तत्वात् । अन्या(न्यत्रा) समवेतस्यांशित्वमेतत्तन्तुसमवेतत्वं विना(ऽनुपपन्नमि) न युक्तमिति विरुद्धश्च । कस्यचित्पटस्य संयोगवृत्त्या एतत्तन्तुषु सत्त्वादनैकान्तिकश्च । समवायवृत्त्या एतत्तन्तुष्वसत्त्वं तु विशेषणासत्त्वेनापि युक्तम् । इह तन्तुषु पट इति प्रत्यक्षबाधितश्च । अयं पट एतत्तन्तुनिष्ठात्यन्ताभावप्रतियोगी न, एतत्तन्त्वारब्ध-त्वाद्व्यतिरेकेण पटान्तरवदिति सत्प्रतिपक्षश्च । न चाप्रसिद्धविशेषणता । एतत्तन्तु-निष्ठात्यन्ताभावप्रतियोगित्वं किञ्चिन्निष्ठात्यन्ताभावप्रतियोगि, संसर्गाभावप्रतियोगित्व-व्याप्यत्वात्, प्रागभावप्रतियोगित्ववदिति सामान्यतस्तत्सिद्धेः ।
एतत्तन्त्वनारब्धत्वं चोपाधिः । न चैतत्तन्त्वारब्धसंयोगे साध्याव्यापकत्वम्, आवयोः संयोगः स्वात्यन्ताभावासमानाधिकरण इति संमतेः । द्रव्यत्वावच्छिन्न-साध्यव्यापकत्वोपपत्तेश्च । उपाधिरेव प्रयोजकः साध्यवति ब्रह्मणि उपाधिवद्धेतोरभावात् । अनुकूलतर्काभावे च व्यतिरेकहीनस्याप्युपाधित्वाच्च । न ह्यंशित्वं साध्यं विना न युक्तम् । उक्तहेतुनैवैतत्पटार्थक्रियाकारित्वाद्यभावस्यापि सुसाधत्वादाभाससाम्यं च ।
अद्वैतसिद्धिः
न च कस्यचित् पटस्य संयोगवृत्त्यैतत्तन्तुषु सत्त्वेन तत्र व्यभिचार इति वाच्यम् । तत्समवेतस्य तन्निष्ठात्यन्ताभावप्रतियोगित्वमङ्गीकुर्वतस् तत्संयोगिनस्तन्निष्ठात्यन्ताभावप्रतियोगित्वाङ्गीकारेण पक्षसमत्वात् । न चाव्याप्यवृत्तित्वेनार्थान्तरम् । पटतदभावयोरेकाधिकरणवृत्तौ विरोधस्य जगति दत्तजलाञ्जलित्वप्रसङ्गात्, संयोगतदभावयोरप्येकाधिकरणवृत्तित्वानभ्युपगमात् । अभ्युपगमे वा एतत्तन्तुत्वावच्छिन्नवृत्तित्वमत्यन्ताभावस्य विशेषणं देयम्, एवमेतत्कालीनत्वमपि । तेन कालान्तरीयाभावमादाय नार्थान्तरम् । न चेह तन्तुषु पट इति प्रत्यक्षबाधः । तस्य भ्रमसाधारणतया चन्द्रप्रादेशिकत्वप्रत्यक्षवदप्रामाण्यशङ्कास्कन्दितत्वेनाबाधकत्वात् । बाधोद्धारे च विस्तरेणैतद्वक्ष्यामः । न च अन्यासमवेतस्यांशित्वमेतत्तन्तुसमवेतत्वं विना न युक्तमिति विरुद्धो हेतुरिति वाच्यम् । एतत्तन्तुनिष्ठात्यन्ताभावप्रतियोगित्वेऽप्येतत्तन्तुसमवेतस्य सत्त्वेनांशित्वस्य साध्येनाविरोधात् । एतन्निष्ठात्यन्ताभावाप्रतियोगित्वं हि एतत्समवेतत्वे प्रयोजकं न भवति, परमते केवलान्वयिधर्ममात्रस्य एतत्समवेतत्वापत्तेः । किंत्वेतन्निष्ठप्रागभावप्रतियोगित्वादिकम् । तच्चैतन्निष्ठात्यन्ता-भावप्रतियोगित्वेऽपि न विरुद्धमित्युपपादितमधस्तात् । एतत्समवेतत्वं चैतदुपादानकत्वम्, न तु नित्यसम्बन्धशालित्वम्, तस्यानभ्युपगमात् । ननु अयं पट एतत्तन्तुनिष्ठात्यन्ताभावप्रतियोगी न, एतत्तन्त्वारब्धत्वाद्, व्यतिरेकेण पटान्तरवदिति प्रतिरोधः । न चाप्रसिद्धविशेषणत्वम् । एतन्निष्ठात्यन्ता-भावप्रतियोगित्वं किञ्चिन्निष्ठात्यन्ताभावप्रतियोगि, संसर्गाभावप्रतियोगित्वव्याप्यत्वात्, प्रागभावप्रतियोगित्व-वदिति सामान्यतस्तत्प्रसिद्धेः । नच आकाशात्यन्ताभावस्य घटादौ संसर्गाभावप्रतियोगित्वव्याप्यत्वग्रहात् तस्य च केवलान्वयित्वेन किञ्चिन्निष्ठात्यन्ताभावप्रतियोगित्वाभावात् तत्र व्यभिचार इति वाच्यम् । संसर्गाभावप्रतियोगित्वानधिकरणे केवलान्वयिनि धर्मे सत्त्वेनाकाशात्यन्ताभावस्य संसर्गाभावप्रतियोगित्वा-व्याप्यत्वेन व्यभिचाराभावाद् इति चेन्न, यत्रैतत्तन्तुनिष्ठात्यन्ताभावप्रतियोगित्वम्, तत्रैतत्तन्त्वारब्धत्वाभाव इति व्यतिरेकव्याप्तावेतन्निष्ठप्रागभावाप्रतियोगित्वस्योपाधित्वेन प्रतिरोधस्य हीनबलत्वाद्, एतत्तन्त्वारब्धत्वा-भावव्यापकस्यैतत्तन्तुनिष्ठप्रागभावाप्रतियोगित्वस्य पक्षावृत्तेः पक्षवृत्तितया संदिह्यमानैतत्तन्तुनिष्ठात्यन्ताभाव-प्रतियोगित्वाव्यापकत्वात् । दृश्यत्वाद्यनुपपत्तिप्रतिकूलतर्कपराहतेर्वक्ष्यमाणत्वाच्च । अत एव एतत्तन्त्वनारब्धत्वमपि नोपाधिः । उपाधिव्यतिरेकेण साध्यव्यतिरेके साध्यमाने सोपाधिकत्वस्योक्तत्वात् । अव्याप्यवृत्तिसंयोगाभ्युपगमे तत्र व्यभिचाराच्च । अत एव यत्रैतत्तन्तुनिष्ठात्यन्ताभावप्रतियोगित्वम्, तत्रैतत्तन्त्वनारब्धत्वमिति न साध्यव्यापकताग्रहोऽपि । तत्रैव व्यभिचारादिति सर्वमनवद्यम् ॥
न्यायामृततरङ्गिणी
निरस्तत्वादिति ॥ न स्वरूपेण । अनङ्गीकारात् । न पारमार्थिकत्वेन; ब्रह्मवत् स्वरूपसत्त्वेनाप्युपपत्त्याऽर्थान्तरादित्यर्थः । एतच्च मिथ्यात्वनिरुक्तिदूषणप्रस्ताव उक्तमप्यनुमान-दूषणावसरे पुनरुच्यते । अतो न पौनरुक्त्यम् ॥ अन्यासमवेतस्येति ॥ एतत्तन्तुनिष्ठात्यन्ताभाव-प्रतियोगित्वव्यापकैतत्तन्त्वसमवेतत्वाभावरूपैतत्तन्तुसमवेतत्वं विनाऽनुपपन्नमिति साध्यव्यापकविरुद्ध इत्यर्थः ॥ अत्र वदन्ति–एतत्तन्तुनिष्ठात्यन्ताभावप्रतियोगित्वेऽप्येतत्तन्तुसमवेतत्वस्य सत्त्वेनांशित्वस्य साध्येनाविरोधात् । एतन्निष्ठात्यन्ताभावाप्रतियोगित्वं ह्येतत्समवेतत्वे प्रयोजकं न भवति । परमते केवलान्वयिधर्ममात्रस्यैतत्समवेतत्वापत्तेः । किंत्वेतन्निष्ठप्रागभावप्रतियोगित्वादिकम् । तच्चैतन्निष्ठात्यन्ताभावप्रतियोगित्वेऽप्यविरुद्धम् – इति, तन्न । तदत्यन्ताभाववति तत्प्रागभावस्यापि विरुद्धत्वेनैतन्निष्ठाप्रागभावप्रतियोगित्वस्याप्येतत्पटेऽसत्त्वात् । अन्यथा रूपात्यन्ताभाववति वाय्वादौ रूपप्रागभावस्यापि प्रसङ्गेन व्यावहारिक्यपि व्यवस्था न स्यात् । यच्चोक्तम् – केवलान्वयीत्यादि, तदपि न । न ह्येतत्समवेतत्वं नामैतन्नित्यसम्बन्धवत्त्वम्, किन्तु यावदेतत्स्वसत्त्वमेतत्सम्बन्धवत्त्व-मात्रम् । तच्च केवलान्वयिनोऽप्येतत्तन्तुना सह विद्यत एव ॥ कस्यचित् पटस्येति ॥ अत्राहुः– (सि०) तत्समवेतस्य तन्निष्ठात्यन्ताभावप्रतियोगित्वमङ्गीकुर्वाणस्य तत्संयोगिनस्तन्निष्ठात्यन्ताभाव-प्रतियोगित्वाङ्गीकारेण पक्षसमत्वान्न व्यभिचारः – इति । तन्न । प्रतियोगिकाले तदत्यन्ताभाव-संसर्गस्य विरुद्धत्वेन व्यभिचारस्य सत्त्वात् । ननु समवायसम्बन्धेनैतत्तन्तुनिष्ठात्यन्ताभावप्रतियोगित्वं साध्यम् । तच्चैतत्तन्तुसंयोगिनि पटेऽप्यस्तीति न व्यभिचार इत्यत आह– समवायवृत्त्येति ॥ तथा सति समवायानभ्युपगमपक्षे निरुक्तसाध्यस्यैतत्पटेऽपि सत्त्वेन सिद्धसाधनमर्थान्तरं वा स्यादित्यर्थः ॥
इह तन्तुष्विति ॥ अत्राहुः – ‘इह तन्तुषु पटः’ इति प्रत्यक्षं भ्रमसाधारणतया चन्द्रप्रादेशिकत्व-प्रत्यक्षवदप्रामाण्यशङ्कास्कन्दितत्वेनाबाधकमिति, तन्न । फलपर्यन्तार्थक्रियालक्षणपरीक्षापरीक्षित-प्रत्यक्षबाधस्योक्तत्वात् । चन्द्रप्रादेशिकत्वप्रत्यक्षे चाप्रामाण्यशङ्कैव, न तु परीक्षिततेति वैषम्यम् । वक्ष्यते चैतत् प्रत्यक्षबाधे ॥ न चेति ॥ साध्यरूपविशेषणप्रसिद्धिर्नेत्यर्थः । एतत्तन्तुगतरूपादेः पक्षत्वाभिप्रायेणेदम् ॥ संसर्गाभावेति ॥ अभिधेयत्वादिव्याप्ये प्रमेयत्वादौ व्यभिचारवारणाय संसर्गाभावप्रतियोगित्वेति । प्रमेयत्वादेस्तु घटादौ संसर्गाभाव प्रतियोगित्वसामानाधिकरण्येऽपि ‘संसर्गाभावप्रतियोगित्वानधिकरणे केवलान्वयिधर्मेऽपि सत्त्वेन संसर्गाभावप्रतियोगित्वा-व्याप्यत्वेनाव्यभिचारात् । ‘संसर्गाभावप्रतियोगित्वादि’त्युक्तावसिद्धिः । पक्षीकृत एतत्तन्तुनिष्ठात्यन्ता-भावप्रतियोगित्वे संसर्गाभावप्रतियोगित्वस्य हेतोराधाराधेयभावेनानिश्चयात् । प्रागभावप्रध्वंसाभाव-प्रतियोगित्वमादाय पक्षे संसर्गाभावप्रतियोगित्वं न सम्भवति । अत्यन्ताभावप्रतियोगित्वस्य च साध्यत्वात्, तदादायापि पक्षे न हेतोर्निश्चयः । पक्षीकृतोपाधेर्हेतूकृतोपाधेश्चैकस्मिन्नुपधेये वृत्तावपि गन्धवत्त्वरूपवत्त्ववत् तयोर्भेदेनाभेद सम्बन्धेनापि संसर्गाभावप्रतियोगित्वस्य पक्षावृत्तेः । व्याप्यत्वोक्तौ तु नासिद्धिः । पक्षीकृतेऽपि संसर्गाभावप्रतियोगित्वव्याप्यत्वसत्त्वात् । अन्योन्याभावप्रतियोगित्व-मादायाभावप्रतियोगित्वव्याप्ये प्रमेयत्वादौ व्यभिचारवारणाय ‘संसर्गे’ति । ननु साध्यप्रसिद्ध्युप-पादकानुमानेनैव सत्प्रतिपक्षसिद्धेर्व्यर्थं पूर्वानुमानमित्यत आह– सामान्यत इति ॥ विशिष्य सत्प्रतिपक्षार्थं तदनुमानमित्यर्थः ॥ अत्र वदन्ति – (सि०) न सत्प्रतिपक्षः संभवति । यत्रैतत्तन्तु-निष्ठात्यन्ताभावप्रतियोगित्वम्, तत्रैतत्तन्त्वारब्धत्वाभाव इति व्यतिरेकव्याप्तावेतन्निष्ठप्रागभावा-प्रतियोगित्वस्योपाधित्वेन प्रतिरोधस्य हीनबलत्वात् । एतत्तन्त्वारब्धत्वाभावव्यापकस्यैतत्तन्तु-निष्ठप्रागभावाप्रतियोगित्वस्य पक्षावृत्तेः पक्षवृत्तितया संदिह्य्मानैतत्तन्तुनिष्ठात्यन्ताभावप्रतियोगित्वा-व्यापकत्वात्, दृश्यत्वाद्यनुपपत्तिरूपप्रतिकूलतर्कपराहतेर्वक्ष्यमाणत्वाच्च – इति । अत्र ब्रूमः । एवं हि पृथिवी, इतरभिन्ना, पृथिवीत्वात्, इत्यत्र पाकजरूपाभावादिकमुपाधिः स्यात् । पृथिवीत्वाभाव-व्यापकस्य पाकजरूपाभावस्य पक्षावृत्तेः पक्षवृत्तितया सन्दिह्यमाने तदभेदाव्यापकत्वादिति तत्रापि शक्यं वक्तुम् । तस्मान्नैतन्निष्ठप्रागभावाप्रतियोगित्वमुपाधिः । संयोगादिना दृश्यत्वोपपत्तेर्वक्ष्यमाणत्वान् न प्रतिकूलतर्कपराहतिरिति सुस्थः सत्प्रतिपक्षः ॥ उपाधिरेवेति ॥ यत्रैतत्तन्तुनिष्ठात्यन्ताभाव-प्रतियोगित्वम्, तत्रैतत्तन्त्वनारब्धत्वम्; यथाऽऽकाशादौ । यत्रैत्तन्त्वारब्धत्वम्, तत्रैतत्तन्तुनिष्ठात्यन्ता-भावप्रतियोगित्वाभावः; यथैतत्तन्त्वारब्धगुणादावित्यन्वयसहचारग्रहादिभिः साध्योपाध्योर्व्याप्य-व्यापकभावनिश्चयाद् उक्तसाध्यं प्रत्युक्तोपाधिरेव प्रयोजकः, न तु हेतुः । तस्य साध्यवति ब्रह्मण्यविद्यमानस्य साध्याव्यापकत्वेन साध्यं प्रत्यप्रयोजकत्वादित्यर्थः । ननु धूमादिरप्येवमेवाप्रयोजकः स्यादिति – चेत्, सत्यम् । तत्र कार्यकारणभावतर्केण व्याप्तिग्रहात् । प्रकृते तथा तर्काभावादिति वक्ष्यते । ननु नासावुपाधिः । तथा हि – एतत्पटस्यैवैतत्तन्त्वारब्धरूपादेरप्येतत्तन्तु-निष्ठात्यन्ताभावप्रतियोगित्वं परस्य सिषाधयिषितम् ।
‘‘अंशिनः स्वांशगात्यन्ताभावस्य प्रतियोगिनः ।
अंशित्वादितरांशीव दिगेवैषा गुणादिषु’’ ॥ इति तत्त्वप्रदीपोक्तेः ।
तथा चोपाधिव्यतिरेकवत्येतत्तन्त्वारब्धरूपादौ साध्यव्यतिरेकानिश्चयेनोक्तोपाधेः साध्याभावा-विनाभाव्यभावप्रतियोगित्वाभावादित्यत आह– अनुकूलेति ॥ यद्वा – प्रयोजको धर्म उपाधिः । प्रयोजकत्वं च न न्यूनाधिकवृत्तेः । तस्मिन् सत्यभवतस्तेन विनाऽपि भवतस्तदप्रयोजकत्वात् । एतत्तन्तुनिष्ठात्यन्ताभावप्रतियोगित्वरूपसाध्यविरहिणि प्रमेयत्वादौ विद्यमानस्यैतत्तन्त्वनारब्ध-त्वस्योपाधेस्तेन विनाऽपि भवत उक्तसाध्यं प्रत्यप्रयोजकत्वान् नोपाधित्वम् । अत आह – अनुकूलेति ॥ वाद्युपन्यस्तसाध्यनिरूपितव्याप्तिग्राहककार्यकारणभावाद्यनुकूलतर्काभावे व्यतिरेक-हीनस्यापि साध्यव्यतिरेकव्याप्यव्यतिरेकाप्रतियोगिनः साध्यव्यापकस्याप्युपाधित्वमार्द्रेन्धनादि-वदक्षतमेवेत्यर्थः । वादिहेतावनुकूलतर्काभावमेवाह– न हीति ॥ यत्तु एतत्तन्त्वनारब्धत्वं नोपाधिः । उपाधिव्यतिरेकेण साध्यव्यतिरेके साध्यमाने व्यतिरेकव्याप्तावेतत्तन्तुनिष्ठप्रागभावाप्रतियोगित्वस्यो-पाधित्वाद् इति, तन्न । व्यतिरेक्युच्छेदापत्तेर्नैवंविधस्योपाधित्वमित्युक्तत्वात् ॥ आभाससाम्यमिति ॥ अप्रयोजकत्वमित्यर्थः । आभाससाम्यस्यादोषत्वात् ॥
न्यायामृतकण्टकोद्धारः
अन्यासमवेतस्येति ॥ अत्र कश्चित् – विरुद्धत्वं हि प्रकृतसाध्याभावव्याप्यत्वम् । न चांशित्वमेतत्तन्तुनिष्ठात्यन्ता भावप्रतियोगित्वाभावव्याप्यम् । तं विनाऽप्यंशित्वसम्भवेनाप्रयोजकत्वात् । न च एतदंशित्वे एतत्तन्तुनिष्ठात्यन्ताभावाप्रतियोगित्वं प्रयोजकमिति वाच्यम् । केवलान्वयिधर्मस्यापि एतदंशित्वापत्तेः । किन्तु एतत्तन्तुनिष्ठप्रागभावप्रतियोगित्वमेवैतदंशित्वे प्रयोजकम् । तच्चैतत्तन्तु-निष्ठात्यन्ताभावप्रतियोगित्वे विद्यमानेऽपि सम्भवति, इति कथं विरुद्धत्वम्? इत्याह । तन्न । एवमत्राभिप्रेतम् – पट एतत्तन्तुनिष्ठाभावप्रतियोगी न स्यात् प्रागभावात्यन्ताभावयोरेकदेशस्थत्व-विरोधात् । नच – संयोगात्यन्ताभावः प्रागभावसमानदेश इति वाच्यम् । संयोगस्याव्याप्यवृत्तिता-नभ्युपगमात् । अत्यन्ताभाव–प्रागभावयोः समानदेशत्वे प्रागभाव–प्रतियोगिनोरपि समानकालत्वं स्यात्; विरोधाविशेषात् । तथा चैतत्तन्तुनिष्ठात्यन्ताभावप्रतियोगित्वैतत्तन्तुनिष्ठप्रागभाव-(प्रतियोगित्व)योरेकत्र विरोधेनैतत्तन्तुनिष्ठप्रागभावप्रतियोगित्वरूपप्रयोजकनिवृत्तावेतत्तन्त्वारब्धत्व-रूपमेतदंशित्वरूपं प्रयोज्यमपि निवर्तेत । तथा चान्यारब्धत्वाभाव एतदनारब्धत्वे चांशित्वं न स्यादिति प्रतिकूलतर्कसम्भवात् साध्याभावव्याप्यत्वसम्भवेन विरुद्धत्वं दुर्वारम्, – इति साधूक्तम् – ‘विरुद्धश्चे’ति ॥ यद्वा – यो यदंशः, स तन्निष्ठात्यन्ताभावप्रतियोगी नेति सामान्यतः साध्या-भावव्याप्यत्वसम्भवः । न च अप्रयोजकत्वमिति वाच्यम्; यदन्वयव्यतिरेकप्रयुक्तान्वय–व्यतिरेकौ यस्य स्तः, तस्य तत् प्रयोजकम् । यथा हि वह्न्यन्वयव्यतिरेकप्रयुक्तान्वय–व्यतिरेकवति धूमे वह्निः प्रयोजकः, तथेहाप्येतत्तन्तुनिष्ठात्यन्ताभावप्रतियोगित्व एवैतदंशित्वम् । तदभावे तदभावः, इति तस्य तत्र प्रयोजकत्वान् न दोषः । वस्तुतस्तु – एतदंशित्वं हि एतत्तन्तुसमवेतत्वेन वा? अन्यसमवेतत्वेन वा? इति द्वेधा वक्तव्यम् । तत्र प्रत्यक्षाबाधादेतत्पटस्यान्यासमवेतत्वे सिद्धे, एतदंशित्वमेतत्समवेतत्वं विना न सिद्ध्यति, अत एवाह– अन्यासमवेतस्येति ॥ तथा चैतत्पटस्यैतत्तन्तुनिष्ठात्यन्ता-भावप्रतियोगित्वे साध्य एतदंशित्वं विरुद्धमिति ।
॥ कस्यचिदिति ॥ न च – तत्समवायेन तन्निष्ठात्यन्ताभावप्रतियोगित्वमङ्गीकुर्वतः संयोगेनापि तन्निष्ठात्यन्ताभावप्रतियोगित्वमिष्टमेवेति कथं व्यभिचारः? इति वाच्यम् । मद्रीत्या व्यभिचारात् । न च पक्षसमत्वान् न व्यभिचार इति वाच्यम् । बीजाभावात् । न च पक्षसमव्यभिचारस्य दोषत्वे पक्षीयव्यभिचारस्यापि दोषत्वापत्त्याऽनुमानमात्रोच्छेद एव बीजमिति वाच्यम् । तावता हि पक्षतावच्छेदकाक्रान्ते मा भवतु दोषो व्यभिचारः, तदनाक्रान्ते तु स्यादेव दोषः । अस्तु वा पक्षीयव्यभिचारस्यापि दोषत्वम् । न चानुमानमात्रोच्छेदः । अनुकूलतर्कादिना तन्निरासेऽनुमान-सम्भवात् । यत्तु – प्रतियोगिकाले तदत्यन्ताभावसंसर्गो विरुद्ध इति व्यभिचारसम्भव इति, तन्न; समवायेन तन्निष्ठात्यन्ताभाव(प्रतियोगित्व)मभ्युपगच्छतः प्रतियोगिकाले तदत्यन्ताभावसंसर्गोऽप्यविरुद्ध एवेति व्यभिचारोद्भावनायोगादिति ॥
ननु समवायेन तदत्यन्ताभावः साध्यः, पटान्तरस्य च संयोगेनैतत्तन्तुनिष्ठत्वेनैतन्निष्ठात्यन्ता-भावप्रतियोगित्वाभावेऽपि समवायेन तन्निष्ठात्यन्ताभावप्रतियोगित्वसत्त्वेन साध्याभावाभावान् न व्यभिचारः, इत्यत आह – समवायवृत्त्येति ॥ संयोगेन विद्यमानस्य पटान्तरस्य समवायेन निषेधो हि समवायरूपविशेषणमात्रनिषेधपरत्वेनापि पर्यवस्यति । तथा च कार्यकारणयोरभेदाङ्गीकारे समवायस्याप्यनङ्गीकारेण तादृशनिषेधस्यामिथ्यात्वेनाप्युपपत्त्याऽर्थान्तरमिति भावः । इह तन्तुष्विति ॥ न च प्रत्यक्षभ्रमसाधारणस्य चन्द्रप्रादेशिकप्रत्यक्षत्ववदप्रामाण्यशङ्कास्कन्दितत्वान् न बाधकत्वमिति – वाच्यम् । सत्यः पटो भवत्येवेत्यर्थसत्तानिश्चयत्वेनाप्रामाण्यशङ्कानास्कन्दितत्वात्, निष्कम्पप्रवृत्तिजनकत्वाच्च, स्वत एव प्रामाण्यावधारणाच्च, बाधकाभावस्याग्रे वक्ष्यमाणत्वाच्च । चन्द्रप्रादेशत्वादिकं तु दूरस्थत्वादिदोषयुक्तत्वादप्रामाण्यशङ्कास्कन्दितम् । न चाज्ञानमेवेह दोषः । तस्य मिथ्यात्वसिद्धु्यत्तरकालीनत्वेनान्योन्याश्रयात् । तस्मात् सुस्थो बाधः । सत्प्रतिपक्षश्चेति ॥ ननु अत्र दृष्टान्ताभावेनान्वयव्याप्तेरभावाद् व्यतिरेकव्याप्तिर्वाच्या । एतत्तन्तुनिष्ठात्यन्ता-भावप्रतियोगित्वं यत्र, तत्रैतत्तन्त्वारब्धत्वाभाव इति । तत्रैतत्तन्तुनिष्ठप्रागभावाप्रतियोगित्व-स्योपाधित्वम् । अस्ति च साध्यव्यापकता – यत्रैतत्तन्त्वारब्धत्वाभावः, तत्रैतत्तन्तुनिष्ठ-प्रागभावप्रतियोगित्वस्योपाधित्वं पटान्तरादौ । पक्षे सन्दिग्धं व्याप्यम्, उपाधिव्यतिरेकश्च निश्चितः । तथा च सन्दिग्धोपाधित्वेन हीनबलत्वात् (न) सत्प्रतिपक्षत्वमिति (चेन्न) वाच्यम् । स्थापनानु-मानेऽप्यस्योपाधेः सम्भवात् । यत्रैतत्तन्तुनिष्ठात्यन्ताभावप्रतियोगित्वम्, तत्रैतत्तन्तुनिष्ठप्रागभावा-प्रतियोगित्वम्; पटान्तरे दृष्टत्वात्, यत्र च पटत्वमंशित्वं वा, तत्र नोपाधिः; पक्षे व्यभिचारात् । इयांश्च भेदः – प्रतिपक्षे सन्दिग्ध उपाधिः, स्थापनायां तु निश्चित इति । तथाच तुल्यबलत्वात् सुस्थः प्रतिपक्षः ॥ नच – स्थापनायां नोपाधेः साध्यव्यापकता । अनुकूलतर्काभावात्, इति वाच्यम् । प्रतिपक्षेऽपि व्यतिरेकव्याप्तौ तुल्यत्वात् । निरुपाधिकसहचार एवानुकूलतर्क इति तु तुल्यम् । न च संयोगादौ साध्याव्यापकतेति वाच्यम् । संयोगस्याव्याप्यवृत्तित्वानभ्युपगमात्, पक्षधर्मावच्छिन्न-साध्यव्यापकत्वसम्भवाच्च । अत एव प्रतिपक्षानुमाने व्यतिरेकव्याप्तौ संयोगादौ व्यभिचारोऽप्य-पास्तः । तस्मात् साधूक्ता सत्प्रतिपक्षता । संसर्गाभावप्रतियोगित्वव्याप्यत्वादिति ॥ व्याप्यत्वादित्युक्ते प्रमेयत्वे व्यभिचारः । अतो ऽभावप्रतियोगित्वेति । तावत्युक्तेऽप्यन्योन्याभाव-प्रतियोगित्वव्याप्यत्वसत्त्वेन तत्रैव व्यभिचारः । तदर्थं ‘संसर्गे’ति विशेषणम् । केवलान्वयिनः संसर्गाभावाभावान् न व्यभिचारः । संसर्गाभावप्रतियोगित्वमात्रोक्तावसिद्धिः स्यात् । अतो ‘व्याप्यत्वे’ति । न च – अत्र ध्वंसप्रतियोगित्वव्याप्यत्वमेव हेतुरस्तु, केवलान्वयिनि धर्मे न व्यभिचारः, नाप्यसिद्धिरिति वाच्यम् । प्रागभावप्रतियोगिनि ध्वंसे ध्वंसप्रतियोगित्वाभावात् साधनवैकल्यं स्यात् । किञ्चासिद्धिरपि तदवस्था; एतत्तन्तुनिष्ठात्यन्ताभावप्रतियोगिनि घटत्वे ध्वंसप्रतियोगित्वाभावात् । अत एव न प्रागभावप्रतियोगित्वव्याप्यत्वं हेतुः । एतत्तन्त्विति ॥ ननु नायमुपाधिः स्वव्यतिरेकेण साध्यव्यतिरेकसाधने सोपाधिकत्वादिति चेत्, न; तस्यैवोपाधेः स्थापनायामपि प्रतिपादितत्वादिति दिक् ॥
ननु अस्योपाधेर्व्यतिरेकव्याप्त्यभावात् कथमुपाधित्वम्? अत आह– अनुकूलतर्काभावे चेति ॥ न च व्यतिरेकशून्यस्यानुकूलतर्काभावे नोपाधित्वमदृष्टचरमिति वाच्यम् । तेजोमात्रं पक्षीकृत्यानुष्णत्वे साध्येऽतेजस्त्वस्य तादृशस्योपाधित्वाङ्गीकारात् । न च उपाधिव्यतिरेकेण साध्यव्यतिरेके साधनीये संयोगादौ सन्दिग्धव्यभिचार इति – वाच्यम् । अनुकूलतर्केण व्यभिचारसंशयनिरासादिति । स च प्रागेव दर्शितः ।
न्यायामृतप्रकाशः
निरस्तत्वादिति ॥ एतत्तन्तुनिष्ठात्यन्ताभावप्रतियोगित्वं स्वरूपेण अनङ्गीकारान् नापि पारमार्थिकत्वेन । ब्रह्मवत्सत्यत्वेऽप्युपपत्त्याऽर्थान्तरादिति निरस्तमित्यर्थः । एतच्च मिथ्यात्वनिरुक्ति-दूषणप्रस्तावे उक्तमपि अनुमानदूषणायात्रोच्यत इत्यपौनरुक्त्यम् । अंशित्वहेतोर्विरुद्धानैकान्तिकबाध-सत्प्रतिपक्षोपाध्याभाससाम्यानि क्रमेण दर्शयिष्यन् विरुद्धत्वं तावदाह ॥ अन्यासमवेतस्येति ॥ अंशित्वं तन्तुरूपांशवत्त्वं तच्चाश्रयाश्रयिभावसम्बन्धेनैव नान्यथा । एवं चान्यासमवेतत्वेन सिद्धस्य पटादेरंशित्वम् एतत्तन्तुसमवेतत्वं, विना न युक्तम् । तथा चांशित्वरूपहेतोरेतत्तन्तुनिष्ठात्यन्ताभावप्रतियोगित्वरूपसाध्येन विरोध इत्यर्थः । साध्याभावोपपादनाय संयोगवृत्त्येत्याद्युक्तम् ॥ समवायवृत्त्येति ॥ तथा च साध्यस्यापि सत्त्वान्न पूर्वोक्तो व्यभिचार इति ध्येयम् ॥ विशेषणासत्त्वेनेति ॥ समवायस्यैवाप्रामाणिकत्वादिति भावः ॥ अप्रसिद्धेति ॥ एतत्तन्तुनिष्ठात्यन्ताभावप्रतियोगित्वाभावो ह्येतत्तन्तुषु सत्त्वं, तच्च पक्षादन्यत्र कुत्राप्यप्रसिद्धमित्यर्थः । न च तन्तुगतरूपादौ विशेषणं प्रसिद्धमिति वाच्यम् । अत्र हि एतत्तन्तुनिष्ठैतत्पटमात्रस्यैव न पक्षत्वं किंनामैतत्तन्तुनिष्ठतया सम्प्रतिपन्ना ये पदार्थाः पटतद्गतरूपादयस्ते सर्वेऽपि पक्षत्वेनाभिमता एव । पटसमानन्यायत्वादतो न तत्र विशेषणप्रसिद्धिर्युक्तेति हृदयम् । पटमात्रपक्षीकरणं तु लाघवायेति ज्ञेयम् । तथा च पटादिरित्यर्थः । सामान्यतः प्रसिद्धिरस्तीत्याह ॥ एतत्तन्त्विति ॥ किञ्चिदिति ॥ यन्निष्ठात्यन्ताभावप्रतियोगि तद् एतत्तन्तुनिष्ठात्यन्ताभावप्रतियोगित्व-रहितमेवायास्यतीति भावः ॥ संसर्गाभावेति ॥ अत्राभावप्रतियोगित्वाभावादित्युक्ते अन्योन्याभाव-प्रतियोगित्वदशायां घटादौ व्यभिचारः स्यात् । अन्योन्याभावप्रतियोगित्वदशायाम् अत्यन्ताभावप्रतियोगित्व-व्यवहाराभावेन साध्याभावात्, अतः संसर्गाभावेत्युक्तम् । तावत्युक्तेऽसिद्धिर् दृष्टान्ते साधनवैकल्यं च स्यात् । पक्षीभूतमत्यन्ताभावप्रतियोगित्वं दृष्टान्तीकृतं, प्रागभावप्रतियोगित्वं च संसर्गाभावप्रतियोगित्व-व्याप्यमेव न तु संसर्गाभावप्रतियोगित्वरूपमेव तदुभयम् । न हि नीलघटत्वं घटत्वं चैकमेवेत्यतोऽ-सिद्धिसाधनवैकल्यपरिहाराय व्याप्यत्वादित्युक्तमिति द्रष्टव्यम् ॥ साध्येति ॥ संयोगस्याव्याप्यवृत्तित्वेन स्वात्यन्ताभावसमानाधिकरणत्वादेतत्तन्तुनिष्ठात्यन्ताभावप्रतियोगित्वरूपं साध्यमस्तीति द्रष्टव्यम् ॥ स्वेति ॥ यदधिकरणावच्छेदेन स्वयमस्ति तदधिकरणावच्छेदेन स्वयमस्तीति तत्र साध्यमेव नास्तीति भावः । अव्याप्यवृत्तित्वमङ्गीकृत्याप्याह ॥ द्रव्यत्वेति ॥ तथा च पक्षधर्मावच्छिन्नसाध्यव्यापकोपाधिरयमिति भावः । ननु अयं पट एतत्तन्तुनिष्ठात्यन्ताभावप्रतियोगी अंशित्वादित्यत्र एतत्तन्त्वनारब्धत्वं नोपाधिः । हेतुसाध्ययोर्व्याप्यव्यापकभावग्राहकानुकूलतर्कसद्भावेन पक्ष एव साध्यव्यापकताभङ्गात् । यथोक्तम् ।
अनुकूलेन तर्केण सनाथे सति साधने ।
साध्यव्यापकताभङ्गात्पक्षे नोपाधिसम्भवः ॥ इति ।
ततश्चानुकूलतर्कसत्त्वे साध्ये हेतुरेव प्रयोजकतया प्राप्तो नोपाधिरित्यत आह ॥ उपाधिरेवेति ॥ साध्ये उपाधिरेव प्रयोजको नांशित्वहेतुः । कुत इत्यत आह ॥ साध्यवतीति ॥ ब्रह्मण एतत्तन्तुष्व-वृत्तित्वेनैतत्तन्तुनिष्ठात्यन्ताभावप्रतियोगित्वरूपसाध्यवति ब्रह्मणि एतत्तन्त्वनारब्धत्वरूपोपाधिवद् अंशित्वाख्यहेतोरभावेन तस्मिन्सत्यभवतोंऽशित्वहेतोस्तस्मिन्साध्येऽप्रयोजकत्वात् । अत उपाधिरेव साध्ये प्रयोजक इति भावः । ननु हेतुसाध्ययोर्व्याप्यव्यापकभावग्राहकानुकूलतर्कसद्भावदशायां साध्यवति पक्षे उपाधेरभावेन पक्ष एव व्यभिचारादुपाध्यभावसाध्याभावयोर्व्याप्त्यभावात्साध्याभावाविनाभाव्यभाव-प्रतियोगित्वरूपोपाधि लक्षणाभावान्नास्योपाधित्वमित्यत आह ॥ अनुकूलतर्काभावे चेति ॥ व्यतिरेक-हीनस्यापीति ॥ उपाधिव्यतिरेकसाध्यव्यतिरेकयोर्व्याप्तिहीनस्यापीत्यर्थः । अयमाशयः । स्यादेवं यद्यत्रानुकूलतर्कः स्यात् । स च न हीति वक्ष्यमाणरीत्या नास्त्येव । तथा चैवमनुकूलतर्काभावे तु पक्षे साध्यानिश्चयेन व्यभिचाराभावेनोपाध्यभाववति पक्षे साध्याभावसद्भावादुपाधित्वं युक्तमेव । नन्वनुकूल-तर्काभावदशायां पक्ष एवोभयव्यतिरेकसद्भावात्कथं व्यतिरेकहीनस्यापीत्युक्तमिति चेन्न । पक्षादन्यत्र व्यतिरेकहीनस्यापीति व्याख्यानात् । तन्तुरूपादीनां च पक्षतुल्यत्वात् । एवं च यत्रैतत्तन्त्वनारब्धत्वाभावः, एतत्तन्त्वारब्धत्वमिति यावत्, तत्रैतत्तन्तुनिष्ठात्यन्ताभावप्रतियोगित्वाभावः, एतत्तन्तुषु सत्त्वमिति यावत् । इत्येवमुपाधिसाध्यव्यतिरेकयोः पक्षे सद्भावेऽपि तन्तुरूपादीनां पक्षतुल्यतया पक्षादन्यत्र कुत्राप्य-भावेनोपाधित्वमुपपद्यत एवेति । ननु कथमत्रानुकूलतर्काभावः । यद्येतत्तन्तुनिष्ठात्यन्ताभावप्रतियोगित्वं न स्यात् तर्ह्यंशित्वं न स्यादिति हेतूच्छित्तिरूपबाधकतर्कस्य सत्त्वादित्यत आह ॥ न हीति ॥ साध्यं विनापि युक्तमेवेत्यर्थः । एतत्तन्तुनिष्ठात्यन्ताभावप्रतियोगित्वाभावरूपापादकस्यांशवत्त्वरूपं यदंशित्वं तदभावरूपं यदापाद्यं तदभावेनैव व्याप्ततया तर्कस्य विरुद्धत्वापत्त्याऽनुकूलतर्कस्य दुष्टत्वेन वक्तुमशक्यतया पक्षे व्यभिचाराभावेन युक्तमेतत्तन्त्वनारब्धत्वस्योपाधित्वमिति भावः ॥ उक्तहेतुनैवेति ॥ अयं पट एतत्पटोचितार्थक्रियाकारी न । अंशित्वात्पटान्तरवदित्याभासानुमानेन साम्यम् । अत्र बाधादिकस्य त्वदुक्तानुमानेऽपि साम्यादिति भावः ॥
न्यायकल्पलता
उक्तमपि दोषमधिकविवक्षया प्रस्तावयति । किञ्चेति । न जगतः स्वरूपेणात्यन्ताभावप्रतियोगित्वम् । अत्यन्तासत्वप्रसङ्गेनापसिद्धान्तप्रसङ्गात् । न पारमार्थिकत्वेन । निर्धर्मकब्रह्मवत्स्वरूपसत्वेनाप्युपपत्याऽर्थान्तरा-पातादित्येवं निरस्तत्वादित्यर्थः । केचित्तु मिथ्यात्वनिरुक्तिदूषणप्रस्तावे उक्तमप्येतदनुमानदूषणावसरे पुनरुच्यते अतो न पौनरुक्त्यमित्याहुः । दृश्यत्वाद्यपेक्षया प्रकृतहेतोरधिकदोषमाह । अन्यासमवेतस्येति । ननु कथमयं विरुद्धः साध्यविपर्ययव्याप्तत्वाभावात् । साध्यव्यापकात्यन्ताभावप्रतियोगित्वाभावाच्च । पटान्तरे अंशित्वादौ साध्ये सत्यपि साध्यविरहासत्वादित्यत उक्तम् ॥ अन्येति । अंशित्वं हि द्वेधा । एतत्समवेतत्वेन वा एतदन्यसमवेतत्वेन वा । असमवेतस्यांशित्वायोगात् । एवं च समवेतस्यैव एतत्तन्तुनिष्ठात्यन्ताभावप्रतियोगित्वं तद्व्यापकमेतत्तन्त्वसमवेतत्वम् । तदभाव एतत्तन्तुसमवेतत्वं भवति । तथा च पक्षे अंशित्वमेतन्तु-निष्ठात्यन्ताभावप्रतियोगित्वव्यापकैतत्तन्त्वभावरूपैतत्तन्तुसमवेतत्वं विना अनुपपन्नमिति साध्यव्यापकविरुद्धो हेतुरित्यर्थः । अंशित्वं साध्यव्यभिचारि । साध्यव्यापकात्यन्ताभावसमानाधिकरणत्वाद्वह्निवदिति ।
अत्राह विवर्तवादी । एतत्तन्तुनिष्ठात्यन्ताभावप्रतियोगित्वेऽपि एतत्तन्तुसमवेतत्वस्य सत्वेनांशित्वस्य साध्येनाविरोधः । एतत्तन्तुनिष्ठात्यन्ताभावाप्रतियोगित्वं हि एतत्समवेतत्वे प्रयोजकं न भवति । परमते केवलान्वयि धर्ममात्रस्यैतत्समवेतत्वापत्तेः । किन्त्वेतन्निष्ठप्रागभावप्रतियोगित्वादिकम् । तच्चैतन्निष्ठान्ता-भावप्रतियोगित्वेऽपि न विरुद्धमिति । एतत्समवेतत्वं चैतदुपादानकत्वम् । न तु नित्यसम्बन्धशालित्वम् । तस्यानभ्युपगमादिति ।
तत्र ब्रूमः । तदत्यन्ताभाववति तत्प्रागभावस्यापि विरुद्धत्वेनैतन्निष्ठप्रागभावप्रतियोगित्वस्याप्येतत्पटे अनुपपत्तिः । अन्यथा रूपात्यन्ताभाववति वाय्वादौ रूपप्रागभावस्यापि सत्वप्रसङ्गेन व्यावहारिकी व्यवस्थाऽपि न स्यात् । यदप्युक्तं केवलान्वयीत्यादि तदप्यसारम् । न ह्येतत्समवेतत्वं नामैतदुपादानकत्वम् । जात्यादाव-भावात् । नापि नित्यसम्बन्धवत्वं किन्तु यावत्स्वसत्वमेतत्सम्बन्धवत्वमात्रं स्वापृथक्सिद्धसम्बन्धवत्वं वा । तच्च केवलान्वयिनोऽप्येतत्तन्तुना सह विद्यत एवेति न कश्चिद्दोषः ।
कस्यचित्पटस्येति । अत्राप्याह । तत्समवेतस्य तन्निष्ठात्यन्ताभावप्रतियोगित्वमङ्गीकुर्वाणस्य तत्संयोगिन-स्तन्निष्ठात्यन्ताभावप्रतियोगित्वाङ्गीकारेण पक्षसमत्वान् न तत्र व्यभिचार इति । तदपि प्रतियोगिमत्यधिकरणे तदत्यन्ताभावसंसर्गस्य विरुद्धत्वेन व्यभिचारस्य दुष्परिहरत्वात् । ननु समवायसम्बन्धेनैतत्तन्तुनिष्ठात्यन्ता-भावप्रतियोगित्वं साध्यम् । तच्चैतत्तन्तुसंयोगिनि पटेऽप्यस्तीति न व्यभिचार इत्यत आह । समवायवृत्येति । तथा सति समवायानभ्युपगन्तृपक्षे निरुक्तसाध्यस्य पक्षीकृतेदंपटेऽपि सत्वेन सिद्धसाधनमर्थान्तरं वा स्यादित्यर्थः । इह तन्तुष्विति ।
नन्विह तन्तुषु पट इति प्रत्यक्षं भ्रमसाधारणतया चन्द्रप्रादेशिकत्वप्रत्यक्षवदप्रामाण्यशङ्कास्कन्दित-त्वेनाबाधकमिति । उच्यते । फलपर्यन्तस्वोचितार्थक्रियालक्षणपरीक्षापरीक्षितप्रत्यक्षबाधस्योच्यमानत्वात् । चन्द्रप्रादेशिकत्वग्राहिप्रत्यक्षे चाप्रामाण्यशङ्कैव । न तु परीक्षेति वैषम्यम् । वक्ष्यते चैतत्प्रत्यक्षबाधे । एतैनैव ‘‘न च अव्याप्यवृत्तित्वेनार्थान्तरम् । पटतदभावयोरेकाधिकरणवृत्तौ विरोधस्य जगति दत्तजलाञ्जलित्वप्रसङ्गात् । संयोगतदत्यन्ताभावयोरप्येकाधिकरणवृत्तित्वानभ्युपगमात् । अभ्युपगमे वा एतत्तन्तुत्वावच्छिन्नवृत्तित्व-मत्यन्ताभावस्य विशेषणंं देयम् । एवमेतत्कालीनत्वमपि । तेन कालान्तरीयाभावमादाय नार्थान्तरम्’’ इति निरस्तम् । स्वव्याहतिबाधादिदोषात् ।
उपाधिव्याप्तं प्रतिपक्षं तावद्दर्शयति । अयं पट इति । नन्वत्र साध्यस्योक्तविधात्यन्ताभाव-प्रतियोगित्वाभावस्याप्रसिद्धत्वाद्व्याप्तिग्रहानुपपत्तिः । पक्षनिर्देशायोगः । साध्याप्रतीतौ तद्विशेषणकानुमित्यनु-दयश्चेत्याशङ्कां निराकरोति । न चेति ॥ साध्यरूपविशेषप्रसिद्धिर्नेत्यर्थः । एतत्तन्तुनिष्ठेति । वस्तुतस्त्वत्रैतत्तन्तुसमवेतरूपादौ साध्यप्रसिद्धेः सुवचत्वेऽपि तस्यापि पक्षत्वाभिप्रायेणेदं बोध्यम् । अभिधेयत्वादिव्याप्ये प्रमेयत्वादौ व्यभिचारवारणाय संसर्गाभावप्रतियोगित्वेति । प्रमेयत्वादेस्तु घटादौ संसर्गाभावप्रतियोगित्वसामानाधिकरण्येऽपि संसर्गाभावप्रतियोगित्वानधिकरणे केवलान्वयिधर्मेऽपि सत्वेन संसर्गाभावप्रतियोगित्वाव्याप्यतया व्यभिचाराभावात् । अभावप्रतियोगित्वादित्युक्तावपि अन्योन्याभाव-प्रतियोगित्ववति प्रमेयत्वादौ व्यभिचारस्तन्निरासायोक्तं संसर्गेति । संसर्गाभावप्रतियोगित्वादित्येवोक्तेऽप्यसिद्धिः । पक्षीकृते एतत्तन्तुनिष्ठात्यन्ताभावप्रतियोगित्वे संसर्गाभावप्रतियोगित्वस्य हेतोराधाराधेयभावेन निश्चेतुमशक्यत्वात् । प्रागभावप्रध्वंसाभावप्रतियोगित्वमादाय पक्षे संसर्गाभावप्रतियोगित्वपर्यवसानस्यासम्भवदुक्तिकत्वात् । अत्यन्ताभावप्रतियोगित्वस्य च साध्यत्वात् तदादायापि न पक्षे हेतोः पर्यवसितिर्युक्ता । साध्यावैशेष्यात् । पक्षीकृतोपाधेर्हेतूकृतोपाधेश्चैकस्मिन्नुपधेये वृत्तावपि गन्धवत्वरूपवत्ववत् तयोर्भेदेनाभेदरूपसम्बन्धेनापि संसर्गाभावप्रतियोगित्वस्य हेतोः पक्षवृत्तेश्च । व्याप्यत्वोक्तौ तु नासिद्धिः । पक्षीकृते एतत्तन्तुनिष्ठात्यन्ता-भावप्रतियोगित्वे संसर्गाभावप्रतियोगित्वव्याप्यत्वस्य सत्वात् । अन्योन्याभावप्रतियोगित्वमादाया-भावप्रतियोगित्वव्याप्ये प्रमेयत्वादौ व्यभिचारवारणाय संसर्गेति । ननु साध्यप्रसिद्ध्युपपादकानुमानेनैव सत्प्रतिपक्षसम्भवाद्व्यर्थं पूर्वानुमानमित्यत उक्तं सामान्यत इति । विशिष्य सत्प्रतिपक्षानुमानार्थं तदनुमानमित्यर्थः ।
ननु तार्किकनये आकाशात्यन्ताभावस्य घटादौ संसर्गाभावप्रतियोगित्वव्याप्यत्वग्रहात् तस्य च केवलान्वयित्वेन किञ्चिन्निष्ठात्यन्ताभावप्रतियोगित्वाभावात् तत्र व्यभिचार इति चेत् । न । संसर्गाभाव-प्रतियोगित्वानधिकरणे केवलान्वयिप्रमेयत्वादावपि सत्वेनाकाशात्यन्ताभावस्य संसर्गाभावप्रतियोगित्वाव्याप्यत्वेन व्यभिचाराभावात् ।
अत्राहुर्विवर्तवादिनः । नायं सत्प्रतिपक्षः । यत्र एतत्तन्तुनिष्ठात्यन्ताभावप्रतियोगित्वं तत्रैतत्तन्त्वारब्धत्वाभाव इति व्यतिरेकव्याप्तावेतत्तन्तुनिष्ठप्रागभावाप्रतियोगित्वस्योपाधित्वेन प्रतिरोधस्य हीनबलत्वात् । एतत्तन्त्वा-रब्धत्वाभावव्यापकस्यैतत्तन्तुनिष्ठप्रागभावाप्रतियोगित्वस्य पक्षावृत्तेः पक्षवृत्तितया सन्दिह्यमानैतत्तन्तुनिष्ठात्यन्ता-भावप्रतियोगित्वाव्यापकत्वात् । दृश्यत्वानुपपत्तिरूपप्रतिकूलतर्कपराहतेर्वक्ष्यमाणत्वाच्चेति ।
तत्र ब्रूमः । यद्येतत्तन्त्वारब्धत्वे एतन्निष्ठप्रागभावाप्रतियोगित्वं प्रयोजकं स्यात् तदा तद्व्यतिरेकात् तद्व्यतिरेकः स्यात् । न च तत्सम्भवति । प्रागभावस्य स्वप्रतियोग्यत्यन्ताभावसादेश्यासम्भवात् । अत्यन्ताभावस्यापि तत्प्रागभावविरुद्धत्वेनैतत्तन्तुनिष्ठात्यन्ताभावाप्रतियोगित्वाभ्युपगमे एतत्पटे एतत्तन्तुनिष्ठप्रागभावाप्रतियोगि-त्वस्यानुपपत्तेः । न चात्यन्ताभावः पारमार्थिकः प्रागभावस्तु व्यावहारिक इति भिन्नसत्ताकत्वान्न विरोध इति देश्यम् । अद्वैतहान्यादिप्रसङ्गेन निरस्तत्वात् । किञ्च । एवं हि पृथिवी इतरभिन्ना पृथिवीत्वादित्यत्र पाकजरूपाभावादिकमुपाधिः स्यात् । पृथिवीत्वाभावव्यापकस्य पाकजरूपाभावस्य पक्षावृत्तेः पक्षवृत्तितया सन्दिह्यमानेतरभेदाव्यापकत्वादिति तत्रापि सुवचत्वात् । तथा च तद्व्यतिरेकप्रयोजकव्यतिरेका-प्रतियोगित्वान्नैतन्निष्ठप्रागभावाप्रतियोगित्वमुपाधिः । संयोगादिनैव दृश्यत्वोपपत्तेर् वक्ष्यमाणत्वान्न प्रतिकूलतर्कपराहतिरपीति सुस्थः सत्प्रतिपक्षः ।
उक्तप्रतिपक्षोद्बलकमुपाधिमप्याह । एतत्तन्त्वानारब्धत्वं चेति । एतत्तन्त्वनुपादानकत्वमित्यर्थः । न्यायमतेनोपाधेः साध्याव्यापकतामाशंक्य निराचष्टे । न चेति । आवयोरिति । बादरायणीयमत इत्यर्थः । संयोगस्याव्याप्यवृत्तित्वमभ्युपेत्यापि समाधत्ते । द्रव्यत्वेति । पक्षधर्मावच्छिन्नसाध्यव्यापक इत्यर्थः । ननु सत्प्रतिपक्षेनोपाधिरुद्भावनीयः । तस्यापि प्रतिपक्षोन्नायकत्वेन दोषत्वादित्यत आह । उपाधिरेवेति । व्याप्तिग्रहदशायामुपलब्ध उपाधिरेव साध्य प्रति प्रयोजकः साधने साध्यव्याप्तिविरहोन्नायकः, पक्षपरिग्रहोत्तर-कालन्तु प्रतिपक्षोन्नायकः साधनं त्वप्रयोजकम् । अनुकूलतर्काभावात् । तदुक्तम् ।
यस्यानुकूलस्तर्कोऽस्ति स एव स्यात्प्रयोजकः ।
तदभावेऽन्यथासिद्धिस्तस्याः स हि निवारकः ॥ इति ।
वाद्युपन्यस्तसाधनस्याप्रयोजकत्वसिध्यर्थम् उपाध्युद्भावनमिति भावः । यद्वा साध्यव्याप्यहेत्वव्यापकत्वेनोपाधेः साध्याव्यापकत्वमित्यत आह । उपाधिरेवेति । यत्रैतत्तन्तुनिष्ठात्यन्ताभावप्रतियोगित्वं तत्रैतत्तन्त्वनारब्धत्वं यथाऽऽकाशादावित्यन्वयसहचारग्रहव्यभिचाराग्रहादिभिः साध्योपाध्योर्व्याप्यव्यापकभावनिश्चयादुक्तसाध्यं प्रत्युक्तोपाधिरेव प्रयोजकः न तु हेतुः । कुत इत्यत आह । साध्यवतीति । ब्रह्मण्येतत्तन्तुनिष्ठात्यन्ता-भावप्रतियोगित्वमस्ति अनाश्रितत्वात् । ‘‘भूतभृन्न च भूतस्थो ममात्मा भूतभावनः’’ इति गीतोक्तेः । साध्योपाध्योर्ब्रह्मणि सत्वेऽपि परोपन्यस्तहेतोरसत्वात् । ‘‘अपाणिपादो जवनो गृहीता’’ इत्यादिश्रुतेः । तथा च साध्यव्यापकोपाध्यव्याप्यत्वादप्रयोजकत्वमित्यर्थः । तदुक्तम् ।
समासमाविनाभावावेकत्रस्तो यदा तदा ।
समेन यदि नोऽव्याप्तस्तयोर्हीनोऽप्रयोजकः ॥ इति ।
केचित्तु साध्यवत्याकाशादाविद्यमानस्य साध्यव्यापकत्वेन साध्यं प्रति हेतोरप्रयोजकत्वमित्याहुः । न च धूमादेरेवमप्रयोजकत्वं स्यादिति शङ्क्यम् । तत्र व्याप्तिग्रहानुकूलस्य कार्यकारणभावलक्षणतर्कस्य सत्वात् । प्रकृते तु तादृशतर्काभावादिति वक्ष्यते । तदुक्तम् ।
अनुकूलेन तर्केण सनाथे सति साधने ।
साध्यव्यापकताभङ्गात्पक्षे नोपाधिसम्भवः ॥ इति ।
ननु नासावुपाधिः । तथा हि । इदंपटस्येवैतत्तन्त्वारब्धरूपादेरप्येतत्तन्तुनिष्ठात्यन्ताभावप्रतियोगित्वं परस्य सिसाधयिषितम् ।
अंशिनः स्वांशात्यन्ताभावस्य प्रतियोगिनः ।
अंशित्वादितरांशीव दिगेवैषा गुणादिषु ॥ इति तत्वप्रदीपोक्तेः ।
तथा चोपाधिव्यतिरेकवत्येत्तन्त्वारब्धरूपादौ साध्यव्यतिरेकानिश्चयेनोपाधौ साध्याभावाविनाभाव्यभाव-प्रतियोगित्वाभावादित्यत आह । अनुकूलेति । परोपन्यस्तसाधने साध्यनिरूपितव्याप्तिग्रहानुकूलतर्काभावे । तथोपाधेरपि साध्यव्यापकताग्रहानुकूलतर्कानवतारे व्यतिरेकहीनस्यानिश्चितव्यतिरेकव्याप्तिकस्याप्युपाधित्वात् । यथा शाकपाकजत्वस्य साध्यव्यापकतासन्देहे मैत्रीतनयत्वेन श्यामत्वे साध्ये शाकपाकजत्वमुपाधिः । यद्वा प्रयोजकधर्म उपाधिरित्युच्यते । प्रयोजकत्वं च न न्यूनाधिकवृत्तेः । तस्मिन्सत्यभवतस्तेन विनापि भवतस्तद-प्रयोजकत्वात् । एतत्तन्तुनिष्ठान्ताभावप्रतियोगित्वरूपसाध्यविरहिणि प्रमेयत्वादौ विद्यमानस्यैतत्तन्त्व-नारब्धत्वस्योपाधेस्तेन विनापि भवत उक्तसाध्यं प्रत्यप्रयोजकत्वान् नोपाधित्वमित्यत आह । अनुकूलेति । वाद्युपन्यस्तसाधने तदुपन्यस्तसाध्यनिरूपितव्याप्तिग्राहककार्यकारणभावाद्यनुकूलतर्काभावे व्यतिरेकहीनस्यापि साध्यव्यतिरेक व्यापक(व्याप्य)व्यतिरेकाप्रतियोगिनः साध्याव्याप्य (साध्याव्यापक) स्याप्युपाधित्वमार्द्रेन्धनादि-वदक्षतमेवेत्यर्थः ।
अत्रदेमालोचनीयम् । उपाधेर्द्रव्यत्वावच्छिन्नसाध्यव्यापकत्वाभिधानादुपाधिव्यतिरेकवत्येतत्तन्त्वारब्धरूपादौ परमतेऽप्यवच्छिन्नसाध्यव्यतिरेकोऽस्त्येवेति आद्यपक्षोऽनुपपन्नः । अत एव द्वितीयपक्षोऽप्ययुक्तः । द्रव्यत्वविशिष्टैतत्तन्तुनिष्ठात्यन्ताभावप्रतियोगित्वरूपसाध्यविरहस्य प्रमेयत्वादावसत्वात् । न चैतत्तन्तुषु द्रव्यत्वसमानाधिकरणस्य प्रमेयत्वस्य सत्वात्प्रमेयत्वे द्रव्यत्वावच्छिन्नोक्तसाध्यविरहोऽस्त्येवेति देश्यम् । तथात्वे उपाधेर् द्रव्यत्वावच्छिन्नसाध्यव्यापकत्वोक्तिवैय्यर्थ्यापातात् । संयोगादेरपि द्रव्यत्वसमानाधिकरणतया तत्र तदवच्छिन्नस्योक्तसाध्यस्य सुवचत्वेनोपाधेः साध्यव्यापकताभङ्गप्रसक्तेः । तर्हि कथमत्र सङ्गतिरिति । इत्थम् । यदुक्तं साध्यवति ब्रह्मणि उपाधिवद्धेतोरभावादुपाधिरेव प्रयोजक इति तदयुक्तमिव भाति । ब्रह्मणः सर्वगतत्वेन तत्रोक्तसाध्यस्यैवायोगात् । ‘‘तत्सृष्ट्वा तदेवानुप्राविशत् ।’’ ‘‘यः पृथिव्यां तिष्ठन्’’ इत्यादिश्रुतेः । न च ‘‘असङ्गो ह्ययं पुरुषः’’ इति श्रुतिविरोधः । श्रुतेः पापलेपाभावपरत्वात् । अनेन ‘‘न च भूतस्थः’’ इति गीतावाक्यमपि स्वोपजीवनार्थं न भवतीति व्याख्येयम् । भूतान्तर्यामित्वादिश्रुतिविरोधात् । तथा चोपाधेरुक्तसाध्येन विनापि भवतस्तदप्रयोजकत्वेनैतत्तन्तुनिष्ठात्यन्ताभावप्रतियोगित्वरूपसाध्यविरहिणि ब्रह्मणि विद्यमानस्यैतत्तन्त्वनारब्धत्वस्य नोपाधित्वमत आह । अनुकूलेति । वाद्युपन्यस्तसाधने वाद्युपन्यस्तसाध्य-निरूपितव्याप्तिग्रहानुकूलकार्यकारणभावादिरूपतर्काभावे व्यतिरेकहीनस्यापि साध्यव्यतिरेकव्यापकव्यतिरेका-प्रतियोगिनः साध्याव्यापकस्याप्युपाधित्वमुद्भूतरूपवत्वादेरिवाप्रत्यूहमेवेत्यर्थः । वादिहेतावनुकूलतर्काभावमेवाह ॥ न हीति ॥ प्रत्युत वाद्युपन्यस्तसाध्यप्रतिकूलमेवेत्यर्थः ।
यत्तु एतत्तन्त्वनारब्धत्वं नोपाधिः । अयं पट एतत्तन्तुनिष्ठात्यन्ताभावप्रतियोगी न, एतत्तन्त्वारब्धत्वात् । व्यतिरेकेण पटान्तरवदिति उपाधिव्यतिरेकेण साध्यव्यतिरेके साध्यमाने व्यतिरेकव्याप्तौ एतत्तन्तुनिष्ठ-प्रागभावाप्रतियोगित्वस्योपाधित्वादिति । तदसत् । एतत्पटस्यैतत्तन्तुनिष्ठात्यन्ताभावप्रतियोगित्वमनुमिमानेनै-तन्निष्ठप्रागभावप्रतियोगित्वस्य दुर्वचत्वादिति । तदत्यन्ताभाववति तत्प्रागभावायोगात् । अन्यथा वाद्यादावपि (अत्र पत्रद्वयपरिमितः भागस् त्रुटितः) ।
न्यायामृतसौगन्ध्यं
किञ्च ‘इह तन्तुषु पटः’ इति प्रत्यक्षबाधः । न च चन्द्रप्रादेशिकप्रत्यक्षवदप्रामाण्य-शङ्काकलङ्कितत्वेन भ्रमसाधारणतया न बाधकत्वमिति वाच्यम् । ‘सन् घटः’ इति प्रत्यक्षस्य फलपर्यन्तं परीक्षितत्वेनापरीक्षित-चन्द्रप्रादेशिकप्रत्यक्षसाधारण्यासम्भवात् । किञ्चान्यासमवेतस्यांशित्वमेतत्तन्तुसमवेतत्वं विना न युक्तमिति विरुद्धो हेतुः । न च एतत्तन्तुनिष्ठात्यन्ताभावप्रतियोगित्वेऽप्येतत्तन्तुसमवेतत्वस्य सम्भवेनाविरोधः । एतत्तन्तुनिष्ठात्यन्ताभावाप्रतियोगित्वं ह्येतत्समवेतत्वे न प्रयोजकम् । परमते केवलान्वयिधर्ममात्रस्यै-तत्समवेतत्वापत्तेरिति वाच्यम् । समवेतत्वं हि न नित्यसम्बन्धेन सम्बन्धित्वम् । किन्तु संसृष्टत्वमात्रम् । तच्च केवलान्वयिनां तन्तुष्वस्त्येव । अत्यन्ताभाववत्यपि एतत्समवेतत्वं हि एतत्तन्तुनिष्टप्रागभावा-प्रतियोगित्वम् । तत्रैत्ततन्तुनिष्टात्यन्ताभावाप्रतियोगित्वं प्रयोजकं चेद् यत्रात्यन्ताभावस् तत्र प्रागभाव इति अत्यन्ताभावप्रागभावयोः सामानाधिकरण्यम् । प्रागभावाङ्गीकारे वाय्वादौ रूपप्रागभावापत्तेः ।
यत्तु अत्यन्ताभावप्रागभावयोर्विरोधस्तु दीधितावेव निरस्तः । ‘घटे रक्तं रूपं नास्तीति प्रत्ययात् । तस्य प्रागभावादिविषयकत्वे रक्तताप्रागभावादिमति रक्तेऽपि तत्प्रसङ्गात् । वाय्वादौ रूपादि-प्रागभावापत्तिरयुक्ता । अत्यन्ताभावस्य प्रागभावाव्याप्यत्वाद् इति । तन्न । त्रैकालिकसंसर्गस्य कालत्रय-प्रतियोगिसत्तामसहमानस्यात्यन्ताभावेन सह विरोधोक्तेः । घटे रक्तस्य त्रैकालिकसंसर्गस्यात्यन्ताभावस्या-भावात् । गुणादिवृत्तित्वविशिष्टस्योक्तलक्षणस्य रक्तात्यन्ताभावस्य रक्तादिप्रागभावविरोधित्वात् । त्रैकालिकात्यन्ताभाववत्यपि चेत् प्रागभावः स्वीक्रियते तर्हि विरोधिनोऽभावात् तदापत्तिरिति ग्रन्थतात्पर्यात् । किञ्चायं पटः । एतत्तन्तुनिष्ठात्यन्ताभावप्रतियोगी न एतत्तन्त्वारब्धत्वात् । व्यतिरेके पटान्तरवदिति प्रतिरोधः । न चाप्रसिद्धविशेषणत्वम् । एतत्तन्तुनिष्ठात्यन्ताभावप्रतियोगित्वम् । किञ्चिन्निष्ठात्यन्ताभाव-प्रतियोगि संसर्गाभावप्रतियोगित्वव्याप्यत्वात् । प्रागभावप्रतियोगित्ववदिति सामान्यतस्तत्प्रसिद्धेः । न चाकाशात्यन्ताभावस्य घटादौ संसर्गाभावप्रतियोगित्वव्याप्यत्वग्रहात् तस्य च केवलान्वयित्वेन किञ्चिन्निष्ठात्यन्ताभावप्रतियोगित्वाभावात् तत्र व्यभिचार इति वाच्यम् । संसर्गाभावप्रतियोगित्वानधिकरणे केवलान्वयिधर्मे सत्त्वेनाकाशात्यन्ताभावस्य संसर्गाभावप्रतियोगित्वाव्याप्यत्वेन व्यभिचाराभावात् ।
यत्तु किञ्चिन्निष्ठेत्याद्यनुमानं न सम्भवदुक्तिकम् । संसर्गाभावप्रतियोगित्वस्यैव तादात्म्येन हेतुत्वसम्भवेन व्याप्यत्वांशवैय्यर्थ्याद् इति । तन्न । धर्मिभेदेन धूमप्रागभाववदवैयर्थ्यात् । ननु यत्रैतत्तन्तु-निष्ठात्यन्ताभावप्रतियोगित्वं तत्रैतत्तन्त्वारब्धत्वाभाव इति व्यतिरेकव्याप्तावेतन्निष्ठप्रागभावाप्रतियोगित्व-स्योपाधित्वेन प्रतिरोधस्य हीनबलत्वाद् एतत्तन्त्वारब्धत्वाभावव्यापकस्यैतत्तन्तुनिष्ठप्रागभावाप्रतियोगित्वस्य पक्षावृत्तेः पक्षवृत्तितया सन्दिह्यमानैतत्तन्तुनिष्ठात्यन्ताभावप्रतियोगित्वाव्यापकत्वमिति चेन्न । सत्प्रतिपक्षे सत्प्रतिपक्षान्तरस्यादोषत्वेन त्वदुक्तोपाध्युद्भावनस्य वैयर्थ्यात् । त्वदुक्तोपाध्यभावेन साध्याभावसाधने एतत्तन्त्वनारब्धत्वस्योपाधित्वात् । संयोगस्याव्याप्यवृत्तित्वे द्रव्यत्वावच्छिन्नसाध्यव्यापकत्वात् । अनुकूल-तर्काणां वक्ष्यमाणत्वेन सन्दिग्धोऽपीहोपाधिः सम्भवति । किञ्चैवं पृथिवी, इतरेभ्यो भिद्यते, पृथिवीत्वा-दित्यादौ पाकजरूपाभावादिरप्युपाधिः स्यादिति व्यतिरेक्युच्छेदः स्यात् । पृथिवी, इतरेभ्यो भिद्यते, पृथिवीत्वात्, इत्यादावपि यत् पृथिवीतरत् तन्न पृथिवीत्वाभाव इत्यादिव्याप्तिग्रहे पाकजरूपाभावस्य पृथिवीत्वाभावव्यापकस्य पक्षावृत्तेः पक्षवृत्तितया सन्दिदिह्यमानपृथिवीतरव्यापकत्वाभावात् ।
यत्तु साध्यासमानाधिकरणधर्मस्याधिकरणं यत् साधनवत्तन्निष्ठाभावप्रतियोगितावच्छेदकः साध्या-समानाधिकरणवृत्तिर्यो धर्मस् तद्वत्त्वरूपस्य दीधितिकाराद्युक्तस्योपाधिलक्षणस्य पाकजरूपाभावे विरहात् । पृथिवीतरतादात्म्येन निश्चिते जलादौ पृथिवीत्वाभावरूपसाध्यसमानाधिकरणधर्मस्याभावात् पाकजरूपा-भावरूपोपाधिव्यभिचारित्वस्य पृथिवीतररूपसाधने निश्चयाभावेन तेन हेतुना तत्र पृथिवीत्वाभाव-रूपोपाध्यव्यभिचारित्वानुमानासम्भवात् । सत्प्रतिपक्षोन्नायकतया दूषकत्वस्य तत्रासम्भवाच्चेति । तन्न । अत्रानुकूलतर्काणां स्थापनायां प्रतिकूलतर्काणां च वक्ष्यमाणत्वेन सत्प्रतिपक्षोन्नायकतया हि सन्दिग्धोपाधिरयं सम्भवति । यद्वा प्रत्यक्षेण पक्षे साध्यस्य बाधात् पक्षातिरिक्ते साध्ये व्यापकत्वेन निश्चितोपाधिरयम् । किञ्च दीधित्युक्तलक्षणस्य प्रागभावाप्रतियोगित्वरूपोपाधौ नास्ति । पक्षातिरिक्ते साध्यसाधनयोर्व्याप्तिनिश्चयात् । पक्षे साध्यसन्देहेनोपाधिव्यतिरेकस्य साध्यव्यतिरेकव्याप्यत्वानिश्चयात् । सत्प्रतिपक्षोन्नायकस्याप्यसम्भवात् । एतत्तुल्यत्वं च पाकजरूपाभावेऽप्यस्ति ।
यत्तूक्तोपाधौ तूक्तलक्षणमस्त्येव । उक्तप्रतियोगित्वरूपसाधनवत्वेनोभयवादिनिश्चिते तन्त्ववच्छिन्न-चिदुपादानकसर्पादौ तत्पटोपादानोपादानकत्वाभावरूपसाध्यस्यासमानाधिकरणधर्मनिश्चय इति । तन्न । सर्पस्योपादानं हि विवर्ताधिष्ठानरूपं तन्त्ववच्छिन्नं चैतन्यम् । परिणाम्युपादानं चाज्ञानम् । तन्तूनां तदनुपादानत्वात् । न हि त्वदभिमतव्यावहारिकपटप्रातिभासिकसर्पाद्युपादानमेकम् । तथा चैतत्तन्तु-निष्ठात्यन्ताभावप्रतियोगिनि सर्पे एतत्तन्तुनिष्ठप्रागभावाप्रतियोगित्वरूपोक्तोपाधेरपि सत्त्वेन साधनाव्यापकत्वं नास्त्येव । किञ्च समवायादिसम्बन्धेनैतत्तन्तुनिष्ठो यः पटः स्वीकृतस् तेनैव सम्बन्धेन तत्र तदभावस्त्वया साध्यः । तथा च एतत्तन्त्वनारब्धे सर्पादौ तादृशप्रतियोगित्वस्यास्मदिष्टत्वात् । तन्त्वाद्यवच्छिन्नचैतन्ये पटस्यास्मदनङ्गीकारात् । किञ्चाभावस्य तात्त्विकत्वे मिथ्यात्वे च दोष उक्तः ।
ननु ‘अभावरूपा धर्मा औतं न घ्नन्ति’ इति मण्डनोक्तेस्तात्विक एवायमभाव इति चेत् । न । अभावेऽभावत्वादेस्तदाश्रये चाभावाश्रयत्वादेर्भावस्य चावश्यकत्वात् । श्रौताद्वितीयपदस्याभावरूप-द्वितीयनिषेध इव भावरूपद्वितीयनिषेधेऽपि मानान्तरेणाग्रे इति स्वपदेन च विरोधाविशेषे भावरूपद्वितीय-निषेधपरत्वेनैव सङ्कोचो न त्वभावरूपद्वितीयनिषेधपरत्वमित्यत्र मानाभावात् । यत्तु अभावत्वाश्रयत्वादेश्च स्वाश्रयरूपत्वमेवेति । तन्न । विधेयतावच्छेदकविधेययोरभावत्वाभावयोरुद्देश्यतावच्छेदकोद्देश्ययोराश्रय-त्वाश्रययोश्चाभेदासम्भवादिति ।
न्यायामृतमाधुरी
निरस्तत्वादिति । मिथ्यात्वनिरुक्तिभङ्ग इति पूरणीयम् । अन्यासमवेतस्येति । नैय्यायिकाभिमत-समवायस्थानाभिषिक्त सम्बन्धविशेषावच्छिन्नप्रकृततन्तुभिन्ननिरूपितवृत्तित्वाभावविशेषितस्येत्यर्थः । समवायविद्वेषिणां सिद्धान्तिनां समवायसम्बन्धावच्छिन्नत्वघटितार्थकत्वायोगात् । अंशित्वं सोपादानकत्वम् । एतत्तन्तुसमवेतत्वं तत्स्थानाभिषिक्तसम्बन्धविशेषावच्छिन्नप्रकृततन्तुनिरूपितवृत्तित्वम् । सोपादानकत्वरूपांशित्वं हि द्विरूपम् । प्रकृततन्तुभिन्नोपादानकत्वं प्रकृततन्तूपादानकत्वं चेति । तत्र प्रकृततन्तुभिन्नोपादानकत्वस्य प्रत्यक्षतो बाधेन प्रकृततन्तूपादानकत्वरूपमेव पर्यवस्यमानं स्वनियामक-परिष्कृतप्रकृततन्तुसमवेतत्वमन्तरेणानुपपद्यमानं त(दू)द्रूढयत्येवेति तद्विरुद्धप्रकृततन्तुनिष्ठात्यन्ताभाव-प्रतियोगित्वरूपसाध्यस्य दूरोत्सारिततापत्त्या तेन तत्साधनायोगादिति भावः ।
अत्राद्वैतसिद्धिकारः । एतत्तन्तुनिष्ठात्यन्ताभावप्रतियोगित्वेऽप्येतत्तन्तुसमवेतत्वस्य सत्वेनांशित्वस्य साध्येनाविरोधः । एतन्निष्ठात्यन्ताभावप्रतियोगित्वं ह्येतत्समवेतत्वे प्रयोजकं न भवति । परमते केवलान्वयिधर्ममात्रस्यैतत्समवेतत्त्वापत्तेः । किन्त्वेतन्निष्ठप्रागभावप्रतियोगित्वम् । तच्चैतन्निष्ठात्यन्ताभाव-प्रतियोगित्वेऽप्यविरुद्धमित्युपपत्तिमचिचिन्तत् । तदापादयितुराशयानवधानविजृम्भितम् । केवलान्वयिधर्म-मात्रस्य नैय्यायिकमतैतत्समवेतत्वस्याभावेऽपि सिद्धान्त्यभिमतदर्शितैतत्समवेतत्वस्य सत्वेनापाद्यानिष्टता-घटितापत्तिसामग्रीविघटनेनापत्त्ययोगात् । एतन्निष्ठप्रागभावप्रतियोगित्वस्यैतत्समवेतत्वप्रयोजकतामूरीकुर्वाणेन स्वयमपि एतत्समवेतत्वं चैतदुपादानकत्वं, न तु नित्यसम्बन्धशालित्वं तस्यानभ्युपगमादिति निबद्धत्वात् । तद्ग्रन्थस्य ब्रह्मानन्देनापि– ननु प्रागभावप्रतियोगित्वमपि न व्यापकम् । तत्तन्तुसमवेतद्रव्यत्वादौ तदभावात्, तत्राहैतत्समवेतत्वमितीति व्याख्यातत्वाच्च । प्रत्युत सिद्धान्ते एतत्समवेतत्वेत्यस्य दर्शितदिशा मुख्यार्थकता । मतान्तरे त्वे तदुपादानकत्वरूपलक्ष्यार्थपरतेति फलमधिकमासादितम् । एतत्समवेतत्वस्यैतदुपादानकत्व-रूपतापि दुरुपगमैव । तथा सति तस्यैव एतन्निष्ठप्रागभावप्रतियोगित्वात्मकतया प्रयोजकत्वोक्तेरयुक्त-त्वादित्यलम् । कस्यचित्पटस्येति । तत्समवेतस्य तन्निष्ठात्यन्ताभावप्रतियोगित्वमङ्गीकुर्वत-स्तन्निष्ठात्यन्ताभावप्रतियोगित्वाङ्गीकारेण पक्षसमत्वान्न व्यभिचार इत्यद्वैतसिद्धिकारः समाहितिं पर्यालुलोचे । तद्वैय्यात्त्यमात्रनिबन्धनम् । संयोगेन द्रव्यस्याव्याप्यवृत्तितामते व्याप्यवृत्तितादृशाभावस्य कथञ्चित्सम्भवेऽपि साध्यतावच्छेदककोटावभावांशे अद्वैतसिद्धिकृता निवेशितस्य अव्याप्यवृत्त्यभावमादाय अर्थान्तरवारण-फलकस्य एत्ततन्तुत्वावच्छिन्नवृत्तिकत्वमित्यस्यावच्छिन्नवृत्तिकान्यत्वपर्यन्तस्य ब्रह्मानन्देन विवक्षिततया संयोगेन द्रव्याधिकरणे तत्सम्बन्धावच्छिन्नतदभावस्यावच्छिन्नवृत्तिकान्यस्य सद्भावोपगमस्य चक्रवर्तिलक्षणीय सिद्धान्तविरुद्धतया प्रेक्षावदनादरणीयत्वेन तुरगशृङ्गित्वोपपगतिकल्पत्वात् । ननु प्रकृततन्तुसमवेतपटस्यैव पक्षीकृततया तत्रैतत्तन्तुवृत्त्यभावीयसंयोगसम्बन्धावच्छिन्नप्रतियोगितायाः सिषाधयिषिततायां सिद्धसाधनाद्यापत्या समवायसम्बन्धावच्छिन्नतादृशाभावीयप्रतियोगिताया एव सोपेयत इति न क्षतिरित्यत आह– समवायेति । इह तन्तुष्विति ।
अत्राद्वैतसिद्धिकारः । न चेह तन्तुषु पट इति प्रत्यक्षबाध इति शङ्कमानस्तस्य प्रत्यक्ष(भ्रम)-साधारणतया चन्द्रप्रादेशिकत्वप्रत्यक्षवदप्रामाण्यशङ्कास्कन्दितत्वादिति समादधे । तदुत्पथगामितयैव । परीक्षासमवधाने तच्छङ्कानास्कन्दनात् । अन्यथा परीक्षका नेदं रजतमिति बाधग्रहाद्यप्रमाचिन्हेनेदं रजतमिति ज्ञानस्याप्रामाण्यं निश्चिन्वते । प्रवृत्तिसामर्थ्यरूपपरीक्षाविषयीभूतजलादिज्ञानं प्रमाणमित्यवधार्य निःशङ्कं प्रवर्तत इति व्यवस्थाया निखिलतान्त्रिकोररीकृताया उच्छेदापत्त्या बहुविप्लवापातात् । विवेचनीयं चेदमुपरिष्ठात् । अयमित्यादि । एतन्निरूपितनिरवच्छिन्नाधेयताकात्यन्ताभावीय समवायावच्छिन्न-प्रतियोगित्वत्वपर्याप्तावच्छेदकताकस्वरूपसम्बन्धावच्छिन्नप्रतियोगिताकाभावः विशेषितः । नैय्यायिकेना-द्वैतीनप्रतिसाधनदशायां ध्वंसप्रागभावकालावच्छेदेनैतत्पटात्यन्ताभावस्य ध्वंसप्रागभावाभ्यामत्यन्ताभावस्य विरोधित्वस्यानुपगन्तॄणां नवीनानां मते एतत्तन्तुषु सत्वेन बाधवारणायाधेयतायां निरवच्छिन्नत्वं निवेशितम् । काले कालिकसम्बन्धेन पटाभाववृत्तिः पटानधिकरणदेशावच्छिन्नैवेति तेनैव जन्यमात्रस्य कालोपाधितामते प्रकृततन्तुषु कालिकप्रत्यासत्या पटाभावमादाय बाधवारणसम्भवेनाधेयतायां विशेषणताविशेष-सम्बन्धावच्छिन्ननिवेशोऽनुपादेयः । सम्बन्धभेदनिबन्धनोक्तक्षतितादवस्थ्यवारणाय प्रतियोगितायां समवायावच्छिन्नत्वस्य निवेशनम् । एतत्क्षणवृत्तित्वैतदन्यक्षणवृत्तित्ववैशिष्ट्यव्यासज्यवृत्तिधर्मावच्छिन्ना-भावमादाय तद्विधूननाय पर्याप्तावच्छेदकताकान्तोपादानम् । औतिनये पक्षे तादृशप्रतियोगित्वस्य व्यधिकरणसम्बन्धावच्छिन्नाभावमादाय सिद्धसाधनवारणाय सम्बन्धसामान्यावच्छिन्नत्वनिवेशे, न्यायनये कालिकप्रत्यासत्या पक्षवृत्त्यभावीतरीयप्रतियोगित्वमादाय बाधवारणाय चरमप्रतियोगितायां स्वरूपसम्बन्धा-वच्छिन्नत्वस्य निवेशः । अप्रसिद्धविशेषणता अप्रसिद्धसाध्यकता । एतदित्यादि । एतन्निरूपित-निरवच्छिन्नाधेयताकात्यन्ताभावीयवैशिष्ट्यव्यासज्य वृत्तिधर्मानवच्छिन्नसमवायावच्छिन्नप्रतियोगित्वमित्यर्थः । किञ्चिदित्यादि । किञ्चिन्निरूपितविशेषणताविशेषसम्बन्धावच्छिन्नाधेयताकात्यन्ता भावीयस्वरूपसम्बन्धा-वच्छिन्नतादृशधर्मावच्छिन्नप्रतियोगिताश्रयः । संसर्गेत्यादि । स्वसमानाधिकरणभेदप्रतियोगितानवच्छेदक-प्रागभावादित्रितयान्यतमाभावीयप्रतियोगितासमानाधिकरणत्वादित्यर्थः । समवायेनाव्याप्यवृत्तिद्रव्याभाव-धर्मभेदसम्बन्धभेदनिबन्धनोक्तक्षतितादवस्थ्यवारणाय पक्षशरीरघटकविशेषणानि । एतन्निष्ठात्यन्ताभाव-प्रतियोगित्वमत्र नास्तीति प्रतीतेर्नैय्यायिकवदद्वैतिनाप्यभ्युपगमेन विषयितासम्बन्धेन तादृशप्रतीतिवृत्त्यत्यन्ता-भावप्रतियोगित्वस्याद्वैतिसम्प्रतिपन्नतया सिद्धसाधनवारणाय साध्यशरीरे सम्बन्धविशेषावच्छिन्नत्वस्याधेयतायां निवेशनम् । सम्बन्धभेदनिबन्धनस्य धर्मभेदनिबन्धनस्य चोक्तदोषस्य वारणाय तच्छरीरे विशेषणान्त-द्वयोरुपादानम् । समानाधिकरणत्वं प्रतियोगितासमानाधिकरणत्वं प्रागभावादित्रितयान्यतमीय-प्रतियोगितासमानाधिकरणत्वं चाभिधेयत्वादावनैकान्तिकमिति अनवच्छेदकान्तस्य हेतुतावच्छेदकघटकतया उपादानम् ।
अत्राद्वैतसिद्धिकारः । नन्वयं पट एतत्तन्तुनिष्ठात्यन्ताभावप्रतियोगी न । एतत्तन्तुना आरब्धत्वात् । व्यतिरेकेण पटान्तरवदिति प्रतिरोधः । न चाप्रसिद्धविशेषणता । एतन्निष्ठात्यन्ताभावप्रतियोगित्वं किञ्चि-न्निष्ठात्यन्ताभावप्रतियोगि, संसर्गाभावप्रतियोगित्वव्याप्यत्वात् प्रागभावप्रतियोगित्ववदिति सामान्यतस्त-त्प्रसिद्धेः । न चाकाशात्यन्ताभावस्य घटादौ संसर्गाभावप्रतियोगित्वव्याप्यत्वग्रहात्तस्य च केवलान्वयित्वेन किञ्चिन्निष्ठात्यन्ताभावप्रतियोगित्वाभावात् तत्र व्यभिचार इति वाच्यम् । संसर्गाभावप्रतियोगित्वानधिकरणे केवलान्वयिनि धर्मे सत्वेनाकाशात्यन्ताभावस्य संसर्गाभावप्रतियोगित्वाव्याप्यत्वेन व्यभिचाराभावादिति चेदित्यनूद्य न यत्रैतन्निष्ठात्यन्ताभावप्रतियोगित्वं तत्रैतत्तन्त्वारब्धत्वाभाव इति व्यतिरेकव्याप्तावेतन्निष्ठ-प्रागभावाप्रतियोगित्वस्योपाधित्वेन प्रतिरोधस्य हीनबलत्वात् । एतत्तन्त्वारब्धत्वाभावव्यापकस्यैतत्तन्तुनिष्ठ-प्रागभावाप्रतियोगित्वस्य पक्षावृत्तेः पक्षवृत्तितया सन्दिह्यमानैतत्तन्तुनिष्ठात्यन्ताभावप्रतियोगित्वाव्यापकत्वाद् दृश्यत्वानुपपत्तिरूपप्रतिकूलतर्कपराहतेर्वक्ष्यमाणत्वाच्च । अत एव एतत्तन्त्वनारब्धत्वमपि नोपाधिः । उपाधिव्यतिरेकेण साध्यव्यतिरेके साध्यमाने सोपाधिकत्वस्योक्तत्वात् । अव्याप्यवृत्तिसंयोगाभ्युपगमे तत्र व्यभिचाराच्च । अत एव यत्रैतन्निष्ठात्यन्ताभावप्रतियोगित्वं तत्रैतत्तन्त्वनारब्धत्वमिति न साध्यव्यापकताग्रहोऽपि, तत्रैव व्यभिचारादिति समाधात् ।
ब्रह्मानन्दस्तु । किञ्चिन्निष्ठेत्याद्यनुमानं न सम्भवदुक्तिकम् । संसर्गाभावप्रतियोगित्वस्यैव तादात्म्येन हेतुत्वसम्भवेन व्याप्यत्वांशवैय्यर्थ्यात् । किञ्च व्याप्यत्वं यदि केनचिद्रूपेणोच्यते तदा आकाशाभावस्यापि घटादिवृत्तित्वविशिष्टरूपेण तदस्त्येवेति व्यभिचारः । न च व्याप्यतावच्छेदकोक्तरूपेण साध्यस्यापि तत्र सत्वान्न व्यभिचार इति वाच्यम् । तथा सति ‘न चाकाशाभावस्ये’त्यादिशङ्काग्रन्थस्य निरालम्बनत्वेन भ्रान्तशङ्कापरत्वापत्तेः । न च संसर्गाभावप्रतियोगित्वव्याप्यत्वं येन केनचिद्रूप्येण, अत्यन्ताभावप्रतियोगित्वं तु उभयावृत्तिधर्मेण इत्यभिप्रेत्याशङ्का । उत्तरन्तु उभयावृत्तिधर्मेणैव व्याप्यत्वमपि निवेश्यमित्यभिप्रायेणेति नोक्तदोष इति वाच्यम् । तथा सति एतत्तन्तुनिष्ठात्यन्ताभावप्रतियोगित्वरूपे पक्षे उभयावृत्तिना तत्प्रतियोगिताव्यक्तित्वेनात्यन्ताभावे सिद्धेऽपि अस्मदीयसाध्यतावच्छेदकावच्छिन्नप्रतियोगिताका-भावानुमानासिध्या सत्प्रतिपक्षासिद्धेः । अथोक्तमूलवाक्यमुपेक्ष्य येन रूपेण व्याप्यत्वं तेनैवात्यन्ताभावप्रतियोगित्वमित्युच्यते तथापि तद्व्यक्तित्वेनात्यन्ताभावसिध्या न सत्प्रतिपक्षसिद्धिः । अथ येन येन व्याप्यत्वं तेन तेनोक्तप्रतियोगित्वमित्युच्यते तथापि येन येनेति वीप्सालब्धयावद्रूपमध्ये अत्यन्ता-भावप्रतियोगितात्वसंसर्गाभावप्रतियोगितात्वयोरपि पतितत्वेन ताभ्यामेव तदुक्तिर्युक्ता । अत्यन्ताभाव-प्रतियोगितात्वे न तदुक्तौ साधनवैकल्यम् । संसर्गाभावप्रतियोगितात्वेन तदुक्तौ स्वव्यापकसाध्य-समानाधिकरण वृत्तिहेतुतावच्छेदकरूपव्याप्तिरूपे साधने संसर्गाभावप्रतियोगितात्वस्य प्रविष्टत्वेन तस्यैव हेतुतावच्छेदकत्त्वसम्भवेनेतरांशवैयर्थ्यम् । अत्यन्ताभावप्रतियोगितात्वस्योक्तव्याप्तौ प्रविष्टत्वेन तस्यैव हेतुतावच्छेदकत्वसम्भवेनेतरांशवैयर्थ्यं च । न चास्तु तथैवेति वाच्यम् । अप्रयोजकत्वात् । द्वितीयपक्षे साधनवैकल्यात् । अन्यथा भेदप्रतियोगित्वेनापि उक्तसाध्यानुमित्यापत्तेरित्युक्तानुमानमसम्भवदुक्तिकम् । तथापि तदभ्युपेत्य दूषणान्तरमाह । ‘यत्रैतदिति,’ अवतार्य तदाशयं प्राकाशयत् । उभावपि यथाश्रुतग्राहिणौ । तत्र तावद् व्याप्यत्वांशवैय्यर्थ्यादित्याकरापरिशीलननियन्त्रितम् । धूमालोकयोरिव संसर्गाभावप्रतियोगित्वतद्व्याप्यत्वयोरेकसाध्यं गमकत्वेऽपि परस्परं भिन्नतया धूमत्वालोकत्वयोरिव तादृश-प्रतियोगि तात्वस्वव्यापकतादृशप्रतियोगित्वाधिकरणनिरूपितवृत्तित्वरूप गमकतावच्छेदकयोरैकाधिकरण्य-विरहेण नीलधूमत्वादेरिव स्वसमानाधिकरणव्याप्यतावच्छेदकं धर्मान्तरघटितत्वविरहेणैकदेश-वैय्यर्थ्यशङ्कानवतारात् । अयमालोको धूमो वेत्यादौ विशिष्यसन्देहेऽपि सामान्यतोऽवच्छेदकत्वनिर्णयः सम्भवत्येवेति दीधितिप्रतीकव्याख्यावसरे, गदाधरेण – तन्मते धूमालोकान्यतरत्वादिशरीरे अवच्छेदकताघटकसमवायेन धूमत्वादेरप्रवे(शनस्या)शात्तस्यावच्छेदकत्वसम्भवेन तत्प्रकारकपक्षधर्मता ज्ञानादेवानुमित्युपपत्तेरिति सिद्धान्तिततया तादृशधर्मद्वयसामानाधिकरण्येऽपि भङ्ग्यन्तरेण सङ्ग्रहस्य क्वचिदुपपादितत्वाच्च । अत एवोपाधिमणिदीधितौ तथा मित्रातनयत्वं श्यामत्वव्यभिचारि मित्रातनयत्वा-व्यभिचारित्वे सति श्याममित्रातनयत्वव्यभिचारित्वाद् अघटत्ववदिति प्रतीकव्याख्यावसरे, नन्वेवं शेषवैय्यर्थमित्यनेन मित्रातनयत्वव्यापकत्वरूपस्य सत्यन्तार्थस्यैव श्यामत्वव्यभिचारगमकत्वसम्भवात्, विशेष्यदलानर्थक्यमाशङ्क्य धूमप्रागभावाद्धर्मिभेदादवैय्यर्थ्यमिति चेत्तथापि मित्रातनयत्वव्यापकत्वविशेषितं वृत्तिमत्वमेव गमकमिति चेन्नेत्यनेन विशेष्यांशावैय्यर्थ्यमुपेत्यैवं विशेष्यतावच्छेदकस्य शाकपाकजत्वा-भाववद्वृत्तित्वस्य वैय्यर्थ्येन श्याममित्रातनयत्वव्यापकव्यभिचारित्वादित्युपन्यासासाङ्गत्यं पुनराशङ्कमानस्तेन श्यामत्वादौ न व्यभिचार इति ग्रन्थेन विशेष्यतावच्छेदकांशस्य सार्थक्यं सम्पपाद । व्याचचक्षिरे च तथैव गदाधरप्रभृतय इति साधु सङ्गच्छते । प्रकृतहेतुशरीरे तादृशप्रतियोगितांशस्य तादात्म्येन घटकत्वाभावेन तद्विशेषितवृत्तिमत्वमेव गमकमस्त्विति शङ्का तद्दिशा अत्र नैवोदेतीत्याकरदृशां निरूढः पन्थाः । पक्षे हेतूकृतं व्याप्यत्वं साध्यीभूतं प्रतियोगित्वं च केनापि रूपेण दुर्वचमित्यभिधानमपि स्वस्यैवापरिष्कर्तृतां ज्ञापयति । अत्यन्ताभावप्रतियोगितात्वेनैव व्याप्यत्वस्य साध्यस्य चोपगमे क्षत्यभावात् । एतन्निष्ठात्यन्ता-भावप्रतियोगितात्वावच्छिन्नाधिकरणवृत्त्यभावप्रतियोगितानवच्छेदकी भूतसंसर्गाभावप्रतियोगितात्वावच्छिन्न-समानाधिकरणत्वस्य हेतुत्वे तात्पर्यात् ।
प्रकृतपक्षतावच्छेदकीभूतैतन्निष्ठात्यन्ताभावप्रतियोगितात्वावच्छेदेन किञ्चिन्निष्ठात्यन्ताभावप्रतियोगित्वं प्रसाध्य, एतत्पटत्वावच्छेदेनैतन्निष्ठात्यन्ताभावप्रतियोगितात्वावच्छिन्नात्यन्ताभावसाधने सत्प्रतिपक्षताया अनाबाधतयाकथमद्वैतिनोऽभीप्सितं नाभाङ्क्षीत् । सिद्धान्तिमनोरथद्रुमो वा नाफालीत् । न हीदानीं साधनवैकल्यस्य कस्यचिद्वैय्यर्थ्यस्य वा शङ्कावकाशोऽस्ति । विशेषधर्मावच्छिन्नस्य सामान्यधर्मव्यवच्छिन्नव्याप्यतामाश्रित्य हि सिद्धान्तलक्षणे ‘अयं वृक्षः शिंशुपायाः’ इत्याद्यनुमानप्रकारा दीधितिकृदुपगताः साधु सङ्गच्छन्ते । वैय्यर्थ्यस्य प्रागेव निरस्तत्वात् ।
अत्र ब्रह्मानन्दः– तरङ्गिणीकृतां मतं, ननु यत्रैतन्निष्ठेत्यादिकं यदुक्तं तदयुक्तम् । तथा सति व्यतिरेकमात्रोच्छेदापत्तेः । पृथिवी इतरेभ्यो भिद्यते पृथिवीत्वादित्यादावपि १यत् पृथिवीतरत् तत्र पृथिवीत्वाभाव इत्यादिव्याप्तिग्रहे पाकजरूपाभावस्य पृथिवीत्वाभावव्यापकस्य पक्षावृत्तेः पक्षवृत्तितया सन्दिह्यमानपृथिवीतरव्यापकत्वाभावादिति चेदित्यनूद्य न साध्यासमानाधिकरणस्याधिकरणं यत्साधनवत्, तन्निष्ठाभावप्रतियोगितावच्छेदकः साध्यसमानाधिकरणवृत्तिर्यो धर्मस्तद्वत्वरूपस्य दीधितिकाराद्युक्त-स्योपाधिलक्षणस्य पाकजरूपाभावे विरहात् । पृथिवीतरतादात्म्येन निश्चिते जलादौ पृथिवीत्वाभावरूप-साध्यासमानाधिकरणधर्मस्याभावात्, पाकजरूपाभावरूपोपाधिव्यभिचारित्वस्य पृथिवीतररूपसाधने निश्चयाभावेन तेन हेतुना पृथिवीत्वाभावरूपसाध्यव्यभिचारित्वानुमानासम्भवात् । सत्प्रतिपक्षोत्थापकतया दूषकत्वस्य तत्रासम्भवाच्च । न च तथापि सन्दिग्धोपाधित्वेन दूषकत्वं तत्र स्यादिति वाच्यम् । साध्योपाध्योर्व्याप्तिग्राहकतर्कसत्वात् । उक्तं हि मणौ(र्वा) यत्र साध्यहेत्वोः साध्योपाध्योश्च व्याप्तिग्राहकसाम्यान्नैकत्रापि व्याप्तिनिश्चयस्तत्रैव सन्दिग्धोपाधित्वमिति । उक्तोपाधौ तूक्तलक्षणमस्त्येव । उक्तप्रतियोगित्वरूपसाधनवत्वेन उभयवादिनिश्चिते तत्तन्त्ववच्छिन्नचिदुपादानकसर्पादौ तत्पटोपादानोपादानकत्वाभावरूपसाध्यसमानाधिकरणधर्मस्य निश्चयात् । न चैवमुक्तसर्पादौ उभयोर्वादि-नोरुक्तनिश्चयसम्भवेन साधनाव्यापकत्वसौलभ्यात्पक्षावृत्तेः पक्षवृत्तितया सन्दिह्यमानेत्याद्युक्तिर्मूले व्यर्थेति वाच्यम् । यद्यप्युक्तसर्पादेर्नोपस्थितिस्तथापि व्याप्तिग्राहकतर्काभावादुक्तोपाधित्वमित्याशयेन तथोक्तेः सार्थक्यादिति जगाद । तदतिस्थवीयः । यत्र साध्यहेत्वोः साध्योपाध्योर्वा व्याप्तिग्राहकसाम्यान्नैकत्र व्याप्ति-निश्चयस्तत्रैव सन्दिग्धोपाधित्वमिति मणिकारोक्त्या प्रकृतसाध्यसाधनयोर्व्याप्तिग्राहकानुकूलतर्कस्य वक्ष्यमाणतया सन्दिग्धोपाधित्वासम्भवात् । यदि च तादृशतर्कमवगणय्य तदुद्भाव्यते तदा व्यतिरेकि-मात्रोच्छेदापत्तिस्तत्रापि दर्शितदिशा तदुद्भावनस्य सुशकत्वाद् इत्याशयेनोपन्यस्तपाकजरूपा-भावरूपसन्दिग्धोपाधौ दीधितिकारीयस्य साध्यासमानाधिकरणधर्मस्य साध्यव्यापकाभावस्य वा समानाधिकरणं यत्साधनं तद्वन्निष्ठात्यन्ताभावप्रतियोगितावच्छेदकावच्छिन्नव्यधिकरणात्यन्ताभावप्रतियोगिताव च्छेदकसाध्यसमानाधिकरणवृत्तिधर्मवत्वमिति निश्चितोपाधिलक्षणस्याभावमभिदधानस्य स्वव्याख्येय-मूलोपन्यस्तसन्दिग्धोपाधिं निश्चितोपाधीकुर्वतस्तत्रोक्तलक्षणसद्भावं दुष्प्रतिपादमपि प्रतिपिपादयिषोस्तादृश-मूलस्यासाङ्गत्यमाशयान्तरकल्पनेन परिजिहीर्षोः कौशलीं धीराश्चेतसि विभावयन्तु । शतेनापि मपल्लानां निश्चितोपाधिताया दुःसम्पादत्वात् । उक्तप्रतियोगित्वरूपसाधनवत्वेनोभयवादिनिश्चितस्यै-तत्तन्त्वध्यस्तसर्पस्यान्यथाख्यात्युपगन्तृनये सर्पावयवारब्धत्वेनैतत्तन्त्वारब्धत्वाभावात् । अलीकख्यातिवादिमते चालीकत्वात् । अनिर्वचनीयख्यातेरूरीकर्तृणां च पक्षे तादृशाध्यस्तसर्पनिरूपितभ्रमाधिष्ठानतारूप-विवर्तोपादानतायास्तंत्ववच्छिन्नचैतन्यस्य, तन्निरूपितपरिणाम्युपादानतायाश्च तादृशचैतन्यावरका-ज्ञानस्योपगत्या तन्तोरुभयविधोपादानताविनिर्मुक्तत्वेनैतत्तन्त्वारब्धत्वाभावरूपसाध्यस्य दुरपह्नवतया साध्या-समानाधिकरणधर्मनिश्चयेन लक्षणस्य तत्र दुःसङ्गमत्वात् । अत एव तादृशतन्तुषु व्यावहारिकपटस्वरूपस्य प्रातिभासिकसर्पादेश्चैकानुपादानकताप्रकारोऽपि तदीयः साधु सङ्गच्छत इति ध्येयम् । घटादीनामे-तन्निष्ठात्यन्ताभावप्रतियोगित्वरूपसाध्यमन्तरेणापि घटचक्षुस्सन्निकर्षादिघटितसामग्य्रैव दृश्यतोपपत्स्यत इति प्रतिकूलतर्कपराहतिरपि पराहतैवेत्यलं प्रपञ्चेन । उपाधिमभिधत्ते ॥ एतदिति । आवयोर् द्वैताद्वैतिनोः । द्रव्यत्वेति ॥ वायुः प्रत्यक्षः स्पर्शाश्रयत्वादित्यादाविव पक्षधर्मावच्छिन्नसाध्यव्यापकतासम्भवादिति भावः । उपाधिरेवेति । एतन्निष्ठात्यन्ताभावप्रतियोगित्वरूपसाध्यस्यैतत्तन्त्वनारब्धत्वरूपोपाधेश्च व्यभिचारादर्शन-सत्कृतसहचारदर्शनादिरूपव्याप्तिग्राहकसमवधानेनाकाशादौ व्याप्तेः सुग्रहतया प्रकृतसाध्यव्यापकतयाऽ-वधारितोपाधेरेव तत्र प्रयोजकता न तादृशसाध्यवद्ब्रह्मव्यावृत्तस्य हेतोस्तत्र प्रयोजकतेत्यर्थः । धूमेन वह्निस्थापनायामपि तुल्यदिशा हेतोः साध्यव्यापकतया अप्रयोजकत्वापत्तिः । धूमो यदि वह्निव्यभिचारी स्यात् तर्हि वह्निजन्यो न स्यादिति तर्केण वारयिष्यते । प्रकृते तु न तादृशस्तर्क इति । विवेचयिष्यते चेदमुपरिष्टात् । अत्राद्वैतसिद्धिकारीयम् ‘अत एवैतत्तन्त्वनारब्धत्वं नोपाधिरित्यादिकव्यभिचारादित्यन्तं’ प्रागेव परास्तम् । उपाधिव्यतिरेकेण साध्यव्यतिरेकसाधने सोपाधिकत्वस्य साध्योपाध्योर्व्याप्ति-ग्राहकानुकूलतर्कसाचिव्यस्थले असम्भवादित्यावेदितत्वात् । पक्षधर्मावच्छिन्नसाध्यव्याप्यत्वोपपादनेन संयोगादौ व्यभिचारस्याप्युद्धृतत्वात् ।
ननु एतत्तन्त्वनारब्धत्वरूपोपाधिमति प्रमेयत्वादौ तादृशप्रतियोगित्वरूपसाध्याभावेन साध्याभाव-व्यापकाभावप्रतियोगित्वरूपसाध्यव्याप्यत्वघटितसाध्यसमव्याप्तिकत्वाभावात् कथमुपाधितेत्याशङ्कां प्रकृतसाध्यसाधनयोर्व्याप्तिग्राहकानुकूलतर्कराहित्ये विषमसाध्यव्याप्तस्याप्युपाधितायाश्चिन्तामण्याद्याकर-निरूढतया न क्षतिरित्याशयेन पराकुरुते– अनुकूलेति । व्यतिरेकहीनस्य साध्याभावव्यापकाभाव-प्रतियोगित्वरूपसाध्य निरूपितव्याप्यताविनिर्मुक्तस्य । अनुकूलतर्कराहित्यं द्रढयति । न हीति ॥ आभाससाम्यं च प्रकृतसाध्यनिरूपितव्याप्तिग्राहकबलवत्तरानुकूलतर्कवैर्धुर्यं च । यथाश्रुतार्थस्यानुपयोगात् ।