परिच्छिन्नत्वमपि देशतः? कालतः? वस्तुतो वा? नाद्यद्वितीयौ
१५. परिच्छिन्नत्वहेतुभङ्गः
न्यायामृतम्
परिच्छिन्नत्वमपि देशतः? कालतः? वस्तुतो वा? नाद्यद्वितीयौ । देशकाला-ज्ञानेषु त्वदभिमते वियदादे रूप्यादेश्च प्रतिपन्नोपाधिस्थनिषेधे चासिद्धेः । अवकाश-रूपदेशस्य कालस्य चापरिच्छिन्न(तयैव)त्वेनैव धर्मिग्राहिणा साक्षिणा ‘आकाश-वत्सर्वगतश्च नित्यः’ ‘सदेव सोम्येदमग्रे’ ‘दृष्ट्वैव तं मुच्यते’ ‘अथ मर्त्योऽमृतो भवति’ ‘यत्र त्वस्य सर्वमात्मैवाभूद्’ –इत्यादिश्रुत्या, सदा सर्वत्र कार्यदर्शनादियुक्त्या च सिद्धेः । ‘आकाशः संभूतः’ इत्यादिश्रुतेश्च भूताकाशविषयत्वात् । उक्तं चाकाशद्वैतमन्यत्र । अत्र देशो नास्ति, इदानीं कालो नास्तीत्यस्य व्याहतत्वाच्च । ब्रह्म कुत्रचित्कदाचिद् देशं कालं च विनाऽस्तीत्यस्यापि व्याहतत्वाच्च । देशकालयोः स्वोपाधौ निषेधे विरोधेनाविरोधाय निषेधोपाधितया देशकालान्तरयोरावश्यकत्वाच्च ।
देशस्सर्वत्रास्ति कालस्सदाऽस्ति, पूर्वः काल इत्याद्यबाधितप्रतीत्या तयोः स्व-निर्वाहकतया प्रमेयत्वादिवत्स्वसम्बन्धसम्भवाच्च । अज्ञानस्य च सर्वगतदेशकालो-पादानत्वेन सर्वगतं ब्रह्म प्रति विषयसम्बन्ध्यावरणत्वेन च देशादिपरिच्छेदायोगात् । प्रतिपन्नोपाधौ निषेधस्य च कुत्रचित्कदाचिदभावे तत्र तदा प्रतियोगिनः सत्त्वा-पातात् । तथा च–
कालादिर्न परिच्छिन्न अग्र आसीदथामृतः ।
इत्यादिश्रुतिभिर्नो चेद् दुर्वारा व्याहतिर्भवेत् ॥
अद्वैतसिद्धिः
परिच्छिन्नत्वमपि हेतुः । तच्च देशतः कालतो वस्तुतश्चेति त्रिविधम् । तत्र देशतः परिच्छिन्न-त्वम् अत्यन्ताभावप्रतियोगित्वम् । कालतः परिच्छिन्नत्वं ध्वंसप्रतियोगित्वम् । वस्तुतः परिच्छिन्नत्वम् अन्योऽन्याभावप्रतियोगित्वम् । ननु समवायसम्बन्धेनात्यन्ताभावप्रतियोगित्वम् आत्मनि व्यभिचारि । तस्याप्याकाशादिवत् क्वाप्यसमवेतत्वात् । संयोगसम्बन्धेनात्यन्ताभाव-प्रतियोगित्वमाकाशादावसिद्धम् । तस्य यावन्मूर्तसंयोगित्वनियमात् । अमूर्तनिष्ठात्यन्ताभाव-प्रतियोगित्वाभिप्राये तु आत्मनि व्यभिचारस्तदवस्थः । सर्वसम्बन्धित्वाभावविवक्षायामपि सर्व-सम्बन्धशून्ये परमात्मनि व्यभिचारः। अज्ञाने सर्वसम्बन्धिन्यसिद्धिश्च । ध्वंसप्रतियोगित्वमपि आकाशादावसिद्धम् । तेषां परैर्नित्यत्वाभ्युपगमात् । अन्योन्याभावप्रतियोगित्वं चात्मनि व्यभिचारि । तस्य जडनिष्ठान्योन्याभावप्रतियोगित्वात् । अन्यथा जडत्वापत्तेर् इति चेन्न । अत्यन्ताभावे अन्योन्याभावे च प्रतियोगिसमसत्ताकत्वविशेषणेन आत्मनि व्यभिचारपरिहारात् । अज्ञानाकाशादौ च स्वसमानसत्ताकात्यन्ताभावान्योन्याभावप्रतियोगित्वसत्त्वेन असिद्ध्यभावात् । अविद्याकाशादे-र्व्यावहारिकस्य पारमार्थिकाभावपक्षे ‘स्वान्यूनसत्ताके’ति विशेषणं देयम् । अत एव प्रातिभासिक-शुक्तिरूप्यादेर्व्यावहारिकाभावप्रतियोगित्वेऽपि न साधनवैकल्यम् । निरुक्तमिथ्यात्वप्रकाराणामेवं-रूपत्वाभावान् न साध्याविशिष्टता । ध्वंसप्रतियोगित्वं चाकाशादौ नासिद्धम् । ‘तस्माद्वा एतस्मादात्मन आकाशः सम्भूतः’ इति श्रुतिसिद्धजन्यत्वेनानुमितत्वात् । ‘आकाशवत्सर्वगतश्च नित्य’ इत्यत्र चात्मनिदर्शनत्वं स्वसमानकालीनसर्वगतत्वेन, आभूतसंप्लवावस्थायित्वेन चेति द्रष्टव्यम् । ‘अतोऽन्यदार्त’मितिश्रुत्या अनात्ममात्रस्यैव विनाशित्वप्रतिपादनात् ।
न्यायामृततरङ्गिणी
॥ देशत इति ॥ अत्यन्ताभावप्रतियोगित्वमित्यर्थः ॥ कालत इति ॥ प्रध्वंस-प्रतियोगित्वमित्यर्थः ॥ वस्तुत इति ॥ अन्योन्याभाववत्त्वमित्यर्थः । अत्यन्ताभाव-प्रतियोगित्वरूपं देशपरिच्छिन्नत्वं, समवायसम्बन्धेनात्यन्ताभावप्रतियोगित्वं चेदात्मनि व्यभिचारि । तस्य क्वाप्यसमवेतत्वात् । सर्वसम्बन्धित्वाभावविवक्षायां सर्वसम्बन्धशून्ये परमात्मनि व्यभिचारः । संयोगसम्बन्धेनात्यन्ताभावप्रतियोगित्वाभिप्राये त्वाकाशादावसिद्धिः । एवं कालतः परिच्छेदेऽप्यसिद्धिरित्याह – देशकालाज्ञानेष्विति ॥ त्वदभिप्रेत इति निषेधेन सम्बध्यते । आकाशादिषु हेत्वभावमुपपादयति – अवकाशरूपेति ॥ इदमग्रे अस्याग्रे इत्यनेन सर्वजगत्सृष्टेः पूर्वं ‘‘यदा सर्वे प्रलीयन्ते कामा येऽस्य हृदि श्रिताः । अथ मर्त्योऽमृतः’’ इत्यविद्यातत्कार्यनिवृत्तिरूपमोक्षेऽपि देशकालयोः सत्त्वेनापरिच्छेदसिद्धेरित्यर्थः । ननु आकाशे न कालपरिच्छेदराहित्यम् । ‘‘तस्माद्वा एतस्मादात्मन आकाशः सम्भूतः’’ इति श्रुतिसिद्ध-जन्यत्वेन ध्वंसप्रतियोगित्वरूपकालपरिच्छिन्नत्वस्याकाशेऽनुमितत्वात्, ‘‘आकाशवत् सर्वगतश्च नित्यः’’ इत्यत्र चात्मनिदर्शनत्वं स्वसमानकालीनसर्वगतत्वेनाभूतसम्प्लवस्थायित्वेन चोपपन्न-मित्यत आह– आकाशः सम्भूत इति श्रुतेश्चेति । वियदधिकरणसिद्धोत्पत्तिकभूताकाशपरतया सम्भूतश्रुतेः सावकाशतया निश्चितार्थकात्मनिदर्शनश्रुत्या तत्परतयाऽऽकाशस्य कालापरिच्छेद-रूपनित्यत्वसिद्धिरित्यर्थः । ननु भूताकाशातिरिक्तस्याकाशस्याभावात् कथं श्रुत्योर्विरोधपरिहार इत्यत आह– उक्तं चेति ॥ भूताकाशोऽव्याकृताकाशश्चेत्याकाशद्वैतम् ॥
ननु प्रतियोगिसमानसत्ताकात्यन्ताभावप्रतियोगित्वं हेतुः, अतो नात्मनि व्यभिचारः । अज्ञानाकाशादौ च स्वसमानसत्ताकात्यन्ताभावप्रतियोगित्वसत्त्वेनासिद्ध्यभावात् । अविद्या-काशादेर्व्यावहारिकस्य पारमार्थिकाभावपक्षे स्वान्यूनसत्ताकेति विशेषणं देयम् । अत एव प्रातिभासिकशुक्तिरूप्यादेर्व्यावहारिकाभावप्रतियोगित्वेऽपि न साधनवैकल्यम् । सद्विविक्तत्वादि-मिथ्यात्वप्रकाराणां चैवंरूपत्वाभावाद् न साध्याविशिष्टतेत्यत आह– अत्र देश इति ॥ देश–कालयोः सर्वदेश–कालसंसृष्टत्वेन प्रतियोगिसंसर्गवति तदत्यन्ताभावासंसर्गादसिद्धिरेव । अन्यथा ‘अत्रेदानीं’ शब्दाभ्यां देशकालौ निर्दिश्य पुनस्तयोर्निषेधे व्याघातः स्यादित्यर्थः । किंच ब्रह्मणो देशकालाभ्यामपरिच्छिन्नतयैव तयोस्ताभ्यामपरिच्छेदसिद्धिरित्याह – ब्रह्म कुत्रचिदिति ॥ ‘कुत्रचित्कदाचि’च्छब्दाभ्यां देशकालौ निर्दिश्य पुनस्तौ विना ‘ब्रह्मास्ती’त्यभिधाने व्याघाता-पत्त्या ‘ब्रह्म सर्वदेशे सर्वकालसंसृष्टमेव, सर्वकाले सर्वदेशसंसृष्टमेव’ इति ब्रह्मणोऽपरिच्छेदे निरूप्यमाणे देश–कालायोरपि देश–कालाभ्यामपरिच्छेदसिद्धिरिति भावः । देश–कालयोः परिच्छेदनिरूपणायापि देशकालयोरपरिच्छेदसिद्धिरित्याह– देश–कालयोरिति ॥ यदुपाधौ देश–कालौ वर्तेते, तदुपाधौ तयोर्व्यावहारिकनिषेधे विरोधापत्त्या देश–कालयोर्निषेधोपाधिभूतावन्यौ देश–कालौ वक्तव्यौ । तयोरपि देश–कालपरिच्छेदवत्त्वे पूर्ववद् देश–कालान्तराद्यपेक्षाया आवश्यकत्वेनानवस्थापत्त्या कयोश्चिद् देश–कालयोर्देश–कालापरिच्छेदेऽङ्गीकर्तव्ये प्रथमयोरेव तदपरिच्छेद आवश्यक इत्यर्थः । ननु सत्यं यदुपाधौ देश–कालौ वर्तेते, तदुपाधौ न तयो-र्व्यावहारिको निषेध इति । किंतु स्वस्वरूपदेश–कालयोः स्वयं देशकालौ न वर्तेते; आत्माश्रयदोषात् । अतः स्वस्वरूपयोरेव देश–कालयोर्निषेधो भविष्यतीत्याशङ्क्याह– देशः सर्वत्रास्तीति ॥ नात्माश्रयदोषेण देश–कालयोः स्वस्वरूपेऽवृत्तिः । प्रमेयत्वादिवदभेदेन सम्बन्धेन स्वस्मिन्नपि वृत्तेः प्रामाणिकत्वादित्यर्थः । तथा च देश–कालयोः परिच्छिन्नत्वम-सिद्धमिति भावः । अज्ञाने हेत्वसिद्धिमुपपादयति – अज्ञानस्येति ॥ यद्देश–कालयोरज्ञानं न स्यात्, तद्देश–कालस्वरूपमेव न तिष्ठेत् । तव मते देशकालयोरप्यज्ञानोपादानकतया उपादाना-भावे उपादेय देश–कालयोरप्यभावापत्तिः । अतो न कस्मिंश्चिद् देशे काले वाऽज्ञानस्य परिच्छेदः सम्भवति । व्याघातापत्तेरित्यभिप्रायेणोक्तं सर्वदेश–कालोपादानत्वेनेति ॥ आवरणं हि पटादिकमाव्रियमाणपुरुषाद्यन्यूनदेशादि दृष्टम् । अतो देशाद्यपरिच्छिन्नं ब्रह्म प्रति देशाद्यपरिच्छिन्नब्रह्मविषयकावरणमज्ञानमप्याव्रियमाणब्रह्मान्यूनदेशं वाच्यम्, इत्यज्ञानस्य देश–कालाद्यपरिच्छेदसिद्धिरित्यभिप्रायेणोक्तम् ॥ सर्वगतं ब्रह्म प्रतीत्यादि ॥ सूर्यन्यूनदेशं सूर्यावरकच्छत्रादि व्यावर्तयितुं ‘विषयसम्बन्धी’त्युक्तम् । पराभिप्रेतस्य प्रतिपन्नोपाधिस्थ-निषेधस्यापरिच्छिन्नत्वमुपपादयति ॥ प्रतिपन्नोपाधाविति ॥ यद्देशे प्रतियोगिनिषेधोऽत्यन्ता-भावरूपो नास्ति, तद्देशे प्रतियोगिनः सत्त्वम्, यथा तन्तुदेशे पटस्य । यत्काले प्रतियोगिनिषेध उक्तरूपो नास्ति, तत्काले प्रतियोगिनः सत्त्वम्; यथा प्रतियोगिनो गन्धात्यन्ताभावस्य निषेधो गन्धरूपः प्रलये नास्ति । अतः प्रलये गन्धात्यन्ताभावरूपो गन्धस्य प्रतियोगी वर्तते । तस्माद् देश–कालप्रतिपन्नोपाधिस्थनिषेधेष्वपरिच्छिन्नेषु परिच्छिन्नत्वहेतोरसिद्धिरिति ॥
सङ्गृह्णाति – कालादिरिति ॥ इत्यादीति ॥ आदिशब्देन ‘यत्र त्वस्य सर्वमात्मैवाभूत्’ ‘अथ सोऽभयं गतो भवती’ति मोक्षे ‘यत्राथ’ शब्दाभ्यां देश–कालसत्त्वप्रतिपादकश्रुतिसंग्रहः ॥
न्यायामृतकण्टकोद्धारः
देशेति ॥ वियदादे रूप्यादेश्च निषेध इत्यन्वयः । ननु देशस्य ‘देशो नष्टः’ इति, काल-स्याप्यतीतः काल इत्यादिप्रतीत्या परिच्छिन्नत्वावगमात् कथमसिद्धिरित्यत आह– अवकाश-रूपदेशस्येति ॥ देशनाशप्रतीतेस्तदुपाधिविषयकत्वात्, कालनाशप्रतीतेश्च क्षणादिविषयकत्वा-दवकाशरूपदेश, खण्डकालविषयत्वादिति भावः । अपरिच्छिन्नत्वेनैवेति ॥ देशतः काल-तश्चेति शेषः । यस्तु कालावकाशसिद्धिं साक्षिणा नाङ्गीकरोति, तस्य कालावकाशसिद्धिरेव न स्यात् । केचित् ‘इह विहङ्गमः पतती’ति चक्षुर्व्यापारानन्तरं प्रतिभासनादाकाशादेश्चाक्षुष-तामास्थिषत, तदनुपपन्नम् । रूपरहितद्रव्यत्वेन चाक्षुषतासामग्रीवैकल्यात् । अन्यथाऽऽत्म-पवनयोरपि तत्प्रसङ्गात् । तथाप्यनुमानवेद्यमाकाशमस्त्विति चेत्, न । लिङ्गाभावात् ॥
ननु – शब्दस्तावत्, प्रत्यक्षः । स च गुणः । सामान्यवत्त्वे सत्यस्मदादिबाह्येन्द्रिय-ग्राह्यत्वात्; रूपवत् । गुणश्च द्रव्याश्रित इति सामान्यतो द्रव्यसिद्धौ – शब्दः, न स्पर्श-वद्विशेषगुणः; प्रत्यक्षत्वे सत्यकारणगुणपूर्वकत्वात् सुखवत् । नाप्यात्मगुणः; बाह्य्येन्द्रिय-प्रत्यक्षत्वात्, रूपवत्, नापि दिक्कालमनसाम्; प्रत्यक्षत्वात्, विशेषगुणत्वाच्चेति प्रसक्तप्रतिषेधे सति परिशेषादतिरिक्तं द्रव्यं सिद्ध्यति । एवं च शब्दः, अष्टद्रव्यातिरिक्तद्रव्याश्रितः । तद्वृत्तौ बाधकोपपन्नत्वे सति गुणत्वात्, रूपवदित्यनुमानादेव आकाशसिद्धिसम्भवेन लिङ्गाभावोऽसिद्ध इति – चेत्, मैवम् । जातिबधिराणामाकाशप्रतिभासानुपपत्तिप्रसङ्गात् । ततश्चेहालोको नास्तीति प्रतीतिर्न स्यात् । परिशेषानुमानं त्वष्टद्रव्यातिरिक्तद्रव्याप्रसिद्धेरप्रसिद्धविशेषणम् । प्रसिद्धौ चानुमानवैयर्थ्यम् । अष्टद्रव्यातिरिक्ताश्रित इत्येव साधने गुणादिवृत्तिसामान्यादपि व्यावृत्तत्वेन हेतोरसाधारण्यं स्यात् । अस्तु वा शब्दगुणकाकाशसिद्धिरनुमानात्, तथाप्यव्याकृताकाशसिद्धिः साक्षिणैव; तत्साधकलिङ्गाभावात् । जातिबधिराणामप्यकाशप्रतीतेर्नागमोऽपि तत्र मानमिति ॥
ननु तथापि कालसिद्धिः कथम्? साक्षिणेति चेत्, न । सुषुप्तौ हीन्द्रियाणामुपरतत्वान् न बाह्यप्रत्यक्षानुमानागमानां प्रवृत्तिरस्ति,तदाऽपि कालप्रतिभासः – ‘एतावन्तं कालं सुखं सुप्तोऽस्मीत्युत्थितस्य परामर्शनात् । न ह्यननुभूतस्य परामर्शो युज्यते । अतः परिशेषात् साक्षिवेद्य एवेति गम्यते । अत्रायं प्रयोगः – कालः, बाह्यप्रत्यक्षाद्यतिरिक्तप्रमाणवेद्यः, असत्स्वपि तेषु प्रतीयमानत्वात्, यद् यस्मिन् असति प्रतीयते, तत् ततोऽतिरिक्तप्रमाणवेद्यम्; यथाऽसति चक्षुषि प्रतीयमानो गन्धस्तदतिरिक्तघ्राणवेद्य इति । ननु – साक्षिवेद्यत्वेऽपि साक्षीतरप्रमाणवेद्यत्वं किं न स्यात्? इति चेत् । न तावत् प्रत्यक्षवेद्यः काल इत्युक्तम् । जातिबधिराणामपि प्रतिभासात् । नागमवेद्योऽपि । अनुमानमपि कालमेव पक्षीकृत्य प्रवर्तेत? अन्यद्वा? नाद्यः; कालस्यासिद्धा्या, सिद्धौ सिद्धसाधनत्वेन पक्षीकर्तुमशक््यत्वात् । न द्वितीयः; कालप्रतीतिमन्तरेण व्याप्तिस्मरण–पक्षधर्मताज्ञानयोरयोगात् । तथा हि– स्मृत्यनु-भवरूपा हि व्याप्त्यादिप्रतीतयो न केवलमर्थमवगाहन्ते, अपि तु कालकलितमेव । ‘तदि’ति हि स्मृतिरुत्पद्यते । तत्ता च पूर्वकालसम्बन्धितैव । एवमनुभवोऽपि चक्षुरादिजन्यस्तावत् – ‘एतदि’ति जायते । अनुमानादिजन्योऽप्य‘भूदि’ति वा, भवतीति वा ‘भविष्यती’ति वा जायते । एतत्त्वादिकं च न वर्तमानादिकालसम्बन्धित्वातिरिक्तं किञ्चित् । तथा च व्याप्त्यादि-विषया अपि प्रतीतयो न कालविशेषितं स्वार्थं गोचरयितुं शुक्नुवन्ति, इति कालसिद्धिः साक्षिणैवैष्टव्या । विस्तरस्तु सुधायां द्रष्टव्यः । आकाशवदिति ॥ ब्रह्मणो नित्यत्वे ह्याकाशनित्यत्वस्य दृष्टान्तीकरणात् । निर्णीतस्यैव दृष्टान्तीकरणाद् आकाशनित्यत्वं सिद्धमिति भावः । अग्रे प्रलये ॥ तथा च प्रलयेऽपि कालावस्थित्युक्तेर्नित्यत्वं कालस्येति भावः । ‘मुच्यते’ ‘भवती’ति लट्प्रयोगेण मोक्षेऽविद्यायां विलीनायां कालसत्त्वावगमान् नित्यत्वमिति भावः । यत्रेति ॥ अभूदिति ॥ मोक्षकाले कालसत्त्वोक्तेर्नित्यत्वमिति भावः । सदा सर्वत्रेति ॥ देशकार्यं त्ववकाशदातृत्वादिकम्, कालकार्यं तु व्यवहारादिकमिति द्रष्टव्यम् । ननु आकाशस्य नित्यत्वे ‘‘आत्मन आकाशः सम्भूतः’’ इत्यनित्यत्वप्रतिपादकश्रुतिविरोधः स्यादित्यत आह– आकाश इति ॥ ‘‘आकाशवदि’’ति श्रुतेरव्याकृताकाशविषयत्वान् न विरोध इति भावः । ननु आकाशद्वैविध्ये मानाभावेन श्रुत्योः कथं विरोधपरिहार इत्यत आह– उक्तं चाकाशद्वैतमन्यत्रेति ॥ न चाकाशद्वित्वे मानाभावः; भूताकाशातिरिक्ताया देश–कालापरिच्छिन्नायास्तार्किकाभिमतदिश एवास्मन्मतेऽव्याकृताकाशत्वात् । प्राच्यादयो दिग्विशेषास्तु तद्भागाः । उक्तं हि टीकाकारैः – ‘‘अवकाशमात्रं हि दिगुच्यते, अवकाश-भागा एव दिग्विशेषाः’’– इति । किञ्च प्रदेशरूप आकाशो नीरूपः साक्षिसिद्धश्च; अन्यथाऽवकाशे सन्देहेनान्धकारे हस्तचालनादिकं न स्यात् । नच मूर्तविशेषाभाव इव तदाश्रये देशे कश्चित् सन्दिग्धः । भूताकाशं तु ‘भूतमप्यसितं दिव्यदृष्टिगोचरमेव चे’त्यादिश्रुत्या रूपि अप्रत्यक्षं च । किञ्च भूताकाशं ‘‘सर्वं पञ्चभिराविष्टम्’’, ‘‘भूतैरीश्वरबुद्धिजैः’’ ‘‘पञ्चभूतात्मके देहे’’ इत्यादिस्मृतिभिर्देहाकारेण विकारि । अवकाशस्तु कूटस्थनित्यत्वेन साक्षिसिद्धः । नच सर्वाधारभूतौ देश-कालौ किञ्चिद् द्रव्यात्मना विकुरुतः । कथं वाऽवकाशस्य पञ्चीकरणम्? किञ्चावकाशः ‘‘अनादिर्वाऽयमाकाशः’’ इत्यादिश्रुतिभिरवकाशोपादान–प्रागभावयोर्बुद्ध्य-नारोहादियुक्तिभिश्चानादिः । नहि पूर्व(मा)मवकाशो नासीत्, किन्तु सर्वत्र वा क्वचिद्वा घनीभाव एवासीदि’ति धीर्युक्ता; ‘सर्वत्रे’त्यादिनैवाकाशनिर्देशात् । भूतं तु– ‘‘आत्मन आकाशस्सम्भूतः’’ इत्यादिप्रकरणानुगृहीतश्रुतिभिः, ‘‘तामसाच्च विकुर्वाणाद् भगवद्वीर्य-चोदितात् । शब्दमात्रमभूत् तस्मान् नभः श्रोत्रं तु शब्दजमि’’त्यादिस्मृतिभिश्च तामसाहङ्कार-कार्यम् । किञ्च– ‘‘एतदण्डं विशेषाख्यक्रमाद्वृद्धैर्दशोत्तरैः । तोयादिभिः परिवृतमि’’त्यादि-स्मृतिभिरेकमविभु, अन्यस्तु विभुः – ‘‘आकाशवत् सर्वगतश्च नित्यः; ‘‘स यथाऽनन्तोय-माकाशः’’ इत्यादिश्रुतेः । अत्र देशो नास्तीत्येतत् ॥ इदानीं कालो नास्तीत्यादिवद् व्याहतम् । ‘अत्रे’त्यनेनैव देशनिर्देशात् । एवं ब्रह्म वाऽन्यद्वा देशं विना कुत्रचिदस्तीत्येतद् व्याहतम् । अत एव ‘‘स एवाधस्तात् स एवोपरिष्टात् स पश्चात् स पुरस्तात् स दक्षिणतः स उत्तरतः’’ इत्यादिश्रुतिः, ‘‘व्याप्तं त्वयैकेन दिशश्च सर्वाः’’ इत्यादिस्मृतिश्च ब्रह्मणो विभुस्वदेशसम्बन्धेनैव विभुत्वमाहेत्यादियुक्तिश्च ‘मृतिकाले जहत्येनं प्राणा भूतानि पञ्च च । भागशो भागश-स्त्वेनमनुगच्छन्ति सर्वशः ॥’’ इत्यादिस्मृतिभिर्भूताकाशं गत्यादि योग्यभागवत्, अवकाशस्तु न गत्यादियोग्यभागवान् । न हि प्रदेशविशेष एतद्देशं त्यक्त्वा प्रदेशान्तरं गच्छति । किञ्च – ‘‘आकाशे नीलिमोदेति । न प्रदेशः कथञ्चने’’ति श्रुत्यैवाकाशद्वित्वं कण्ठोक्तम् । तस्मा-दाकाशद्वित्वं प्रामाणिकमेव, इति चन्द्रिकायामुक्तत्वाद् युक्तः श्रुत्योरविरोध इति भावः । व्याहत्याऽपि देश–कालयोर्नित्यत्वमङ्गीकर्तव्यमित्याह– अत्र देशो नास्तीति ॥ ननु देश–कालयोः सर्वगतत्वे नित्यत्वे च स्वाश्रितत्वापत्त्याऽऽत्माश्रयः, इत्यत आह– देशः सर्वत्रास्तीति ॥ यथा ‘प्रमेयत्वे प्रमेयत्वमि’ति प्रतीत्या प्रमेयत्वे प्रमेयत्वमङ्गीक्रियते, तथा ‘कालः सर्वदाऽस्ति’ ‘देशः सर्वत्रास्ती’ति प्रतीत्या तयोः स्वनिर्वाहकत्वादिति भावः । अज्ञानस्य देश–कालापरिच्छिन्नत्वमुपपादयति – अज्ञानस्य चेति ॥ प्रतिषेधस्यापरिच्छिन्नत्व-मुपपादयति प्रतिपन्नेति ॥
न्यायामृतप्रकाशः
देशत इति ॥ देशान्तरेऽसत्त्वमित्यर्थः । कालत इति । कालान्तरेऽसत्त्वमित्यर्थः । वस्तुत इति ॥ अन्योन्याभाववत्त्वमित्यर्थः । देशकालयोर्हेत्वभावं प्रत्यक्षानुमानागमैरुपपादयति ॥ अवकाश-रूपेति ॥ अव्याकृताकाशरूपेत्यर्थः ॥ अपरिच्छिन्नत्वेनैवेति ॥ देशस्य देशान्तरनिष्ठात्यन्ताभावा-प्रतियोगित्वेनैव कालस्य च प्रध्वंसाप्रतियोगित्वेनैवेत्यर्थः ॥ इदमग्र इति ॥ जगत्सृष्टेः प्राक् प्रलये कालस्य सत्त्वोक्त्या नित्यत्वसिद्धिरित्यर्थः । दृष्ट्वैवेति ॥ दृष्ट्वेत्यस्य दर्शनानन्तरमित्यर्थः ॥ तथा चापरोक्षज्ञानेन सर्वस्यापि जगतो निवृत्तत्वात् कतकरजोवद्वेणुसङ्घर्षजाग्निवच्च स्वस्यापि नष्टत्वा-त्तदनन्तरमित्युक्त्या साक्षात्कारानन्तरमपि कालः प्रतीयते । तथा च तस्य निवर्तकाभावेन नित्य-त्वावगमान्न कालतः परिच्छिन्नत्वमित्यर्थः ॥ अथेति ॥ ‘‘यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि स्थिता’’ इति ज्ञानेन सर्वकामप्रहाणानन्तरममृतो भवतीत्युच्यते । तथा च ज्ञानेन सर्वकाम-प्रहाणानन्तरमपि कालसत्त्वस्याथेत्यनेनावगमान् नित्यत्वसिद्धिरित्यर्थः ॥ यत्रत्विति ॥ यत्र त्वस्येत्यस्य यस्यामवस्थायामित्यर्थकत्वेनाविद्यानिवृत्तिरूपमोक्षावस्थायामपि कालसत्त्वप्रतीत्या तस्य नित्यत्वसिद्धेर्न तस्य कालतः परिच्छेद इति भावः । नन्वाकाशे नानित्यत्वरूपकालपरिच्छेदराहित्यं ‘‘तस्माद्वा एतस्मादात्मन आकाशः सम्भूत’’ इति श्रुतिसिद्धजन्यत्वेन हेतुना ध्वंसप्रतियोगित्व-रूपकालपरिच्छिन्नत्वस्याकाशेऽनुमातुं शक्यत्वादित्यत आह– आकाश इति ॥ नाव्याकृताकाश-विषया श्रुतिः किंतु भूताकाशविषया । भागासिद्धिश्चाव्याकृताकाश एवास्माभिरभिहितेत्याशयः । आकाशद्वयमप्रामाणिकमिति चेत्तत्राह ॥ उक्तं चेति ॥ भूताकाशोऽव्याकृताकाशश्चेत्याकाशद्वयं वियत्पादे सुधायां टीकाकृद्भिरस्माभिश्च चन्द्रिकायां प्रतिपादितमित्यर्थः ।
देशकालयोर्देशान्तरेऽसत्त्वरूपं देशतः परिच्छिन्नत्वं, कालान्तरेऽसत्त्वरूपं कालतः परिच्छिन्नत्वं च वदता अत्र देशो नास्ति इदानीं कालो नास्तीति प्रतीतिरङ्गीकार्या । अस्तीति चेत्तत्राह ॥ अत्रेति ॥ अत्रेदानींशब्दाभ्यामधिकरणतया देशकालौ निर्दिश्य पुनस्तयोर्निषेधे व्याहतिरित्यर्थः । नन्वत्र देशो नास्ति इदानीं कालो नास्तीति प्रतीत्या देशकालयोर्देशान्तरादावसत्त्वरूपं परिच्छिन्नत्वं नोच्यते येन व्याहतिः स्यात् किन्तु ब्रह्म कुत्रचित्कदाचिद्देशकालौ विनाऽस्तीति । तथाच यत्र यदा
ब्रह्मास्ति तत्र तदा देशकालायोरभावप्राप्त्या देशान्तरादवसत्त्वरूपपरिच्छेदसिद्धिरित्यत आह– ब्रह्मेति ॥ कुत्रचित्कदाचिच्छब्दाभ्यां देशकालौ निर्दिश्य पुनस्तौ विना ब्रह्मास्तीत्यभिधाने व्याघात इत्यर्थः ।
किञ्च देशकालयोर्देशान्तरादावसत्त्वरूपपरिच्छेदनिरूपणार्थमपि देशकालयोरपरिच्छेदसिद्धि-रित्याह ॥ देशकालयोरिति ॥ देशादेर्देशान्तरादावसत्त्वरूपं परिच्छिन्नत्वं वदता यदुपाधौ देशकालौ वर्तेते तदुपाधौ तयोर्निषेधे विरोधापत्त्या देशकालयोर्निषेधोपाधिभूतावन्यौ सत्यभूतौ देशकालौ देशान्तरादावसत्त्वरूपपरिच्छेदशून्यावपरिच्छिन्नावेव वक्तव्यौ । तयोरपि पुनर्देशान्तरादावसत्त्वरूप-परिच्छेदवत्त्वे पुनस्तयोर्यदुपाधौ तौ देशकालौ वर्तेते तदुपाधावेव तयोर्निषेधे विरोधापत्त्या पुनस्तयो-र्देशकालयोर्निषेधाधिष्ठानभूतावन्यौ देशकालौ सत्यभूतौ अपरिच्छिन्नावेव वाच्यावित्येवमनवस्था स्यादतस्तद्भीत्या कयोश्चिद्देशकालयोर्देशान्तरादावसत्त्वरूपपरिच्छेदाभावरूपमपरिच्छिन्नत्वमङ्गीकार्य-मतोऽसिद्धिरिति भावः ।
ननु देशान्तरादावसत्त्वरूपं परिच्छिन्नत्वं नोच्यते । येनैतन्निषेधाधिष्ठानतया देशकालान्तर-योस्सत्यभूतयोरपरिच्छिन्नयोः स्वीकारापत्तिः । किं नाम देशादावसत्त्वमेव देशादिपरिच्छिन्नत्व-मित्युच्यते । इदं च देशे काले चास्ति देशस्वरूपे देशस्यावृत्तित्वात् कालस्वरूपे च कालस्यावृत्तेः । अन्यथाऽऽत्माश्रयात् । अतो देशादौ निषेधरूपपरिच्छिन्नत्वसद्भावेन नासिद्धिरित्यत आह– देश इति ॥ स्वनिर्वाहकतयेति ॥ स्वस्मिन्स्वस्याधाराधेयभावघटकतयेत्यर्थः । नात्माश्रयदोषेण देश-कालयोः स्वस्वरूपेऽवृत्तिर्वाच्या । प्रमेयत्वादिवदभेदेन सम्बन्धेन स्वस्मिन्नपि वृत्तेः प्रामाणिकत्वात् । तथा च देशकालयोर्देशादावसत्त्वरूपं परिच्छिन्नत्वमप्यसिद्धमिति भावः । प्रतिज्ञातामज्ञाने हेत्वसिद्धिमुपपादयति ॥ अज्ञानस्येति ॥ अपरिच्छिन्नत्वोपपादनाय सर्वगतेत्युक्तम् । अपरिच्छिन्न-देशकालोपादानत्वादज्ञानं सर्वगतमेव वाच्यमिति न तस्य परिच्छिन्नत्वमित्यर्थः । अज्ञानस्या-परिच्छिन्नत्वे युक्त्यन्तरं सर्वगतं ब्रह्मेति । द्विविधमावरणं लोके दृष्टम् । एकं ज्ञातृसम्बन्धि यथा नेत्रपटलादि । एकं विषयसम्बन्धि यथाऽन्धकारादि । तत्र ज्ञातृसम्बन्ध्यावरणं नयनपटलादि स्वयं परिच्छिन्नमपि महतः पर्वतादेर्दर्शनप्रतिबन्धकम् । तदिहाज्ञानस्य ज्ञातृसम्बन्ध्यावरणत्वेऽपरिच्छिन्नत्वं न सिद्ध्यतीत्यत उक्तं विषयसम्बन्धीति । अत्र च ब्रह्मणो विषयत्वात्तस्य चापरिच्छिन्नत्वा-त्तदावरणभूतमप्यज्ञानमपरिच्छिन्नमेव वाच्यमित्यसिद्धिरित्यर्थः । प्रतिज्ञातां वियदादे रूप्यादेश्च प्रतिपन्नोपाधिस्थनिषेधे हेत्वसिद्धिमुपपादयति ॥ प्रतिपन्नोपाधाविति ॥ कुत्रचिदिति ॥ देशान्तरादावसत्त्वरूपपरिच्छिन्नत्वे प्रोच्यमान इत्यर्थः ॥ प्रतियोगिन इति ॥ अभावाभावस्य प्रति-योगिसत्त्वव्याप्यत्वादिति भावः ॥ सङ्गृह्णाति ॥ तथा चेति ॥ इत्यादिश्रुतिभिः प्रमाणैः कालादिर्न परिच्छिन्न इत्यन्वयः । न परिच्छिन्नः कालान्तरेऽसत्त्ववान्नेत्यर्थः ॥ नो चेदिति ॥ कालादेः कालान्तरादावसत्त्वरूपपरिच्छिन्नत्वाङ्गीकारे इदानीं कालो नास्तीत्यादिप्रतीत्या व्याहतिर्दुर्वारेत्यर्थः ।
न्यायकल्पलता
अथ परिच्छिन्नत्वहेतुं निराचकीर्षुस्त्रेधा विकल्पयति । परिच्छिन्नत्वमपीति । तत्र देशतः परिच्छिन्नत्वमत्यन्ताभावप्रतियोगित्वम् । कालतः परिच्छिन्नत्वं ध्वंसप्रतियोगित्वम् । वस्तुतः परिच्छिन्नत्वम् अन्योन्याभावप्रतियोगित्वमिति विवेचनीयम् । अत्यन्ताभावप्रतियोगित्वरूपं देशपरि-च्छिन्नत्वं समवायसम्बन्धेनात्यन्ताभावप्रतियोगित्वं चेदात्मनि व्यभिचारि । तस्याप्याकाशादि-वत्क्त्वाप्यसमवेतत्वात् । सर्वसम्बन्धित्वाभावविवक्षायामपि सर्वसम्बन्धशून्ये परमात्मनि व्यभिचारः । अज्ञाने सर्वसम्बन्धिन्यसिद्धिश्च । संयोगसम्बन्धेनात्यन्ताभावप्रतियोगित्वाभिप्राये त्वाकाशादावसिद्धिः । तस्य यावन्मूर्तद्रव्यसंयोगित्वनियमात् । ध्वंसप्रतियोगित्वरूपं कालतः परिच्छिन्नत्वमप्याकाशादाव-सिद्धमिति पक्षद्वयं तावन्न युक्तमित्याह । नाद्यद्वितीयाविति ।
देशशब्देनाव्याकृताश उच्यते । कालशब्देनाखण्डकालः । अज्ञानशब्देन तमःशब्दवाच्या प्रकृतिः । तम आसीत्तमसा गूल्हमग्र इति श्रुत्या महाप्रलयेऽपि तत्सत्वावगमात् । पराभिमतं प्रपञ्चोपादानं भावरूपाज्ञानं च ग्राह्यम् । त्वदभिप्रेत इति निषेध इत्यनेन सम्बध्यते । आकाशादिषु विवक्षितहेत्व-भावमुपपादयति । अवकाशरूपेति । इदमग्रे अस्य जगतोऽग्रे इत्यनेन सर्वजगत्सृष्टेः पूर्वं यदा सर्वे प्रलीयन्ते कामा येऽस्य हृदि श्रिताः । अथ मर्त्यो अमृतो भवति यत्र ब्रह्म समश्नुत इति यत्र यदेति श्रुत्याच विद्यातत्कार्यनिवृत्तिरूपमोक्षेऽपि सत्वेन न देशकालयोर्देशकालापरिच्छेदसिद्धेरित्यर्थः । नन्वाकाशे न कालपरिच्छेदराहित्यम् । तस्मादात्मन आकाशः सम्भूत इति श्रुतिसिद्धजन्यत्वेन ध्वंसप्रतियोगित्वरूपकालपरिच्छिन्नत्वस्याकाशे अनुमितित्वात् । आकाशवत् सर्वगतश्च नित्य इत्यत्र चात्मनिदर्शनत्वं स्वसमानकालीनत्वं स्वसमानकालीनसर्वगतत्वेन आभूतसम्प्लवावस्थायित्वेन चोपपन्नमित्यत आह । आकाशः सम्भूत इति श्रुतेश्चेति । वियदधिकरणसिद्धोत्पत्तिकभूताकाश-परत्वेन सम्भूतश्रुतेः सावकाशत्वान् निरवकाशत्वेनानन्यपरया निश्चितार्थकात्मनिदर्शनश्रुत्याऽऽकाशस्य कालापरिच्छिन्नत्वरूपनित्यत्वसिद्धिरित्यर्थः ।
ननु भूताकाशातिरिक्तस्याभावस्याभावात्कथं श्रुत्योर्विरोधपरिहार इत्यत आह । उक्तं चेति । भूताकाशो अव्याकृताकाशश्चेत्याकाशयोर्द्वैतं द्वित्वेनेतौ द्वैतौ तयोर्भावो द्वैतं भेदो वियच्चरणे समर्थित इत्यर्थः । ननु प्रतियोगिसत्ताकात्यन्ताभावप्रतियोगित्वं हेतुरतो नात्मनि व्यभिचारः । अज्ञानाकाशादौ च समसत्ताकात्यन्ताभावप्रतियोगित्वसत्वेनासिध्यभावात्् । व्यावहारिकस्याविद्यकाकाशादेः पारमार्थिका-भावपक्षे स्वान्यूनसत्ताकेऽत्यन्ताभावविशेषणं देयम् । अत एव प्रातिभासिकरूप्यादेर्व्यावहारिकात्यन्ता-भावप्रतियोगित्वेऽपि न साधनवैकल्यम् । सद्विविक्तत्वादिनिरुक्तमिथ्यात्वप्रकाराणां चैवंरूपत्वाभावान्न साध्याविशिष्टतेत्यत आह । अत्र देश इति । देशकालयोः सर्वदेशकालपदार्थसंसृष्टत्वेनाबाधितप्रतीतेः प्रतियोगिसंसर्गवति तदत्यन्ताभावसंसर्गानुपपत्तिः सिद्धिरेव । अन्यथा अत्रेदानींशब्दाभ्यां देशकालौ निर्देश्य पुनस्तयोर्निषेधे व्याघातः स्यादित्यर्थः ।
किञ्च ब्रह्मणो देशकालाभ्यामपरिच्छिन्नत्वादेव तयोस्ताभ्यामपरिच्छेदरसिद्धिरित्याह ब्रह्मेति । कुत्रचित्कदाचिच्छब्दाभ्यां देशकालौ निर्दिश्य पुनस्तौ विना ब्रह्मास्तीत्यभिधाने व्याहत्यापत्या ब्रह्म सदा सर्वदेशकालसंसृष्टमेवेति ब्रह्मणः सर्वदेशकालापरिच्छेदे निरूप्यमाणे देशकालयोरपि देश-कालाभ्यामपरिच्छेदसिद्धिरित्यर्थः । ननु विभुत्वं न सर्वदेशसंसृष्टत्वं नित्यत्वं च न सकलकाल-सम्बन्धित्वं किन्तु देशकालापरिच्छिन्नत्वमेव । असङ्गो ह्ययं पुरुष इति श्रुतेः । एवं च न व्याहति-रिति चेन्न । तुच्छे अतिव्याप्तेः । त्वदंगीकृताविद्यासम्बन्धानुपपत्तेश्च । असंगश्रुतिस्तु ब्रह्मणः पापालेपवादिनी । नच यावदविद्याब्रह्मणोर्देशकालसम्बन्धो यत्र यदा तन्निवृत्तिस्तत्र तदा तन्निवृत्तिरिति देश्यम् । व्याहतिमाविस्मार्षीरिति भावेनोक्तं ब्रह्म कुत्रचिदिति ।
किञ्च देशकालयोः परिच्छेदांगीकारेऽपि देशकालापरिच्छेदसिद्धिरित्याह । देशकालयोरिति । यदुपाधौ देशकालौ वर्तेते तदुपाधौ न तयोर्व्यावहारिको निषेध इति सत्यम् । किं नाम देशकालयोः स्वरूपेण देशकालौ न वर्तेते आत्माश्रयदोषात् । अतः स्वस्वरूप एव तमोनिषेधात्परिच्छिन्नत्व-सिद्धिरित्यत आह । देशः सर्वत्रास्तीति । नात्माश्रयदोषेण देशकालयोः स्वरूपेणावृत्तिः कल्पनीया । प्रमेयत्वं प्रमेयमभिधेयत्वमभिधेयमित्यबाधितप्रतीत्या प्रमेयत्वादेः स्ववृत्तित्ववत्् स भगवः कस्मिन् प्रतिष्ठितः स्वे महिम्नीति श्रुत्या ब्रह्मणः स्ववृत्तिवच्चाभेदेन स्वस्मिन्नपि स्ववृत्तेः प्रामाणिकत्वादित्यर्थः । न च ब्रह्मणोऽनन्याश्रयत्वं श्रुत्यभिमतमिति देश्यम् । तुच्छाव्यावृत्तेः । न च सत्वे सतीति विशेषणीयमिति वाच्यम् । कालासम्बन्धिनः सत्वानुपपत्तेः । स्वस्मिन्नपि स्ववृत्तेः प्रामाणिकतया सविशेषाभेदेनोपपादनीयत्वात् । एवं सदा सर्वदेशसम्बन्धित्वं विभुत्वं सर्वकालसम्बन्धित्वं च नित्यत्वम् । ध्वंसाप्रतियोगित्वादेस्तुच्छाव्यावर्तनात् । ब्रह्मणो अनृतव्यावृत्तेः सत्यपदेन त्वयोक्तत्वात् । तथा च देशकालयोः परिच्छिन्नत्वमसिद्धमिति भावः ।
अज्ञानहेत्वसिद्धिमुपपादयति । अज्ञानस्य चेति । यद्देशकालयोरज्ञानं न स्यात् तद्देशकाल-स्वरूपमेव न स्यात् । तव मते देशकालयोरप्यज्ञानोपादानकत्वेनोपादानाभावे उपादेयदेशकालयोरपि अभावापत्तिरतो न कश्चिद्देशकाले वा अज्ञानस्य परिच्छेदः सम्भवति व्याघातापातादित्याशयेनोक्तं सर्वदेशकालोपादानत्वेनेति । पूर्ववत्परन्यायेनाज्ञानस्य देशकालापरिच्छिन्नत्वं साधयितुमुक्तं सर्वगतं ब्रह्म प्रतीत्यादि । विमतमज्ञानम् आव्रियमाणान्यूनदेशवृत्ति आवरणत्वाद् यदावरणं पटादि तदाव्रियमाणपुरुषान्यूनदेशकालवृत्ति दृष्टमतो देशाद्यपरिच्छिन्नं ब्रह्म विषयावरणमज्ञानमप्याव्रियमाण-ब्रह्मान्यूनदेशं वाच्यमित्यज्ञानस्य देशाद्यपरिच्छेदसिद्धिरिति भावः । उपलक्षणमेतत् । तत्वविदभिमत-प्रधानापरपर्यायप्रकृत्याख्यतमस्याप्यसिद्धिरिति ज्ञेयम् ।
पराभिप्रेतस्य प्रतिपन्नोपाधिस्थनिषेधस्यापि देशकालापरिच्छिन्नत्वमुपपादयति । प्रतिपन्नो-पाधाविति । यद्देशे प्रतियोगिनिषेधोऽत्यन्ताभावरूपो नास्ति तत्र तद्देशप्रतियोगिनः सत्वम् । यथा व्यतिषक्ततन्तुदेशे पटस्य । यत्काले प्रतियोगि निषेध उक्तरूपो नास्ति तदा तत्काले प्रतियोगिनः सत्वम् । यथा गन्धवती पृथिवीत्यप्रलयकाले प्रतियोगिनो गन्धात्यन्ताभावस्य निषेधो गन्धरूपः प्रलये तु गन्धात्यन्ताभावरूपो गन्धस्य प्रतियोगी वर्तते । तस्माद्देशकालापरिच्छिन्नत्वे त्वदभिप्रेतप्रतिपन्नो-पाधिस्थनिषेधे देशकालपरिच्छिन्नत्वस्य हेतोरसिद्धिरित्यर्थः ।
यच्चोक्तम् आत्मनि व्यभिचारोद्दिधीर्षुर् या प्रतियोगिसत्तासमानसत्ताकेति वा तदन्यूनसत्ताकेति वा अत्यन्ताभावे विशेषणं देयमिति । तदयुक्तम् । ब्रह्मणोऽनन्याश्रयतया पारमार्थिकात्यन्ताभाव-प्रतियोगित्वेन तत्राव्यभिचारस्य दुरुद्धरत्वात् । बाध्यात्यन्ताभावप्रतियोगित्वस्य तु प्रतियोग्यबाध्यत्वेन व्याप्ततया हेतोर्विरुद्धत्वात् । सत्तात्रैविध्यस्य प्रपञ्चमिथ्यात्वसिद्ध्यधीनत्वेनान्योन्याश्रयाच्चेति । उपसंहरन् सङ्गृह्णाति । तथाचेति । इत्यादीत्यादिशब्देन यत्रत्वस्य सर्वमात्मैवाभूत् । परं ज्योति-रूपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते स तत्र पर्येति । यत्रानन्दाश्च मोदाश्च अथ सोऽभयं गतो भवति । एतमानन्दमयमात्मानमुपसङ्क्रम्य अथ मर्त्यो अमृतो भवतीति यत्र तत्रेत्यादिशब्दैर्देशकाल-प्रतिपादकश्रुतिसङ्ग्रहः । न चैवं सर्वे निमेषा जज्ञिरे विद्युतः पुरुषादधि इत्यादिश्रुतिविरोधः । पराधीनविशेषावाप्तेरुत्पत्तिशब्दार्थत्वात् । उपचितांशार्थत्वाच्च । अन्यथा स्वत एव काले विशेषाङ्गी-कृतेश्च । ‘‘नित्या हि जीवाः प्रकृतिश्च नित्या कालश्च नित्यः किमु देवदेवः’’ इत्यादिकालनित्यत्व-प्रतिपादकभगवत्पादवाक्यविरोधः । नचैवमेकदेशेनोत्पत्तिविनाशावेकदेशेन तदभाव इति तत्व-सङ्ख्यानटीकाविरोधः । उत्पत्तिशब्दस्योपचयार्थत्वात् । यावदंशातिरिक्तस्यांशिनोऽसत्वादिति । दूषणान्तरमभावानुपपत्तिश्च । एवं रूप्यादेश्चात्यन्तासत्वापातेन प्रतिपन्नासद्विलक्षणस्वरूपोपमर्दश्च । न हि रूपं कदाचित्कुत्रचिद्गन्धो भवतीति तत्रापि सुवचत्वात् । नचापरिच्छिन्नत्वं सच्छब्दार्थः । तुच्छस्यापि तथात्वप्रसङ्गात् । नापि परिच्छिन्नत्वमसच्छब्दार्थः । तुच्छस्यासत्वाभावापातादित्येवं दूषणकलापेन निरस्तमित्यन्वयार्थः ।
न्यायामृतसौगन्ध्यं
ननु परिच्छिन्नत्वमपि हेतुः । तच्च देशतः कालतो वस्तुतश्चेति त्रिविधं देशतः परिच्छिन्नत्वम् अत्यन्ताभावप्रतियोगित्वम् । कालतः परिच्छिन्नत्वं ध्वंसप्रतियोगित्वम्, वस्तुतः परिच्छिन्नत्वम् अन्योन्याभावप्रतियोगित्वमिति चेन्न । सर्वासङ्गे ब्रह्मण्यप्यत्यन्ताभावप्रतियोगित्वरूप-परिच्छिन्नत्वस्य सत्त्वेन व्यभिचारात् । अनृतादिनिष्ठान्योन्याभावप्रतियोगित्वरूप-परिच्छिन्नत्वस्यापि सत्त्वाच्च । न चात्यन्ताभावान्योन्याभावयोः प्रतियोग्यन्यूनसत्ताकत्वेन विशेषणान्न व्यभिचारः । ब्रह्मणोऽभावस्य ततो न्यूनसत्ताकत्वात् । शुक्तिरूप्याकाशाद्यभावस्य च तादृशत्वादिति वाच्यम् । ब्रह्मेतरस्य मिथ्यात्वसिद्धौ हि तदभावस्य ततो न्यूनसत्ताकत्वेन व्यभिचाराभावेन हेतोख्यभिचारित्वसिद्धिः । तत्सिद्धौ च ब्रह्मेतरस्य मिथ्यात्वसिद्धिरित्यन्योन्याश्रयात् । ध्वंसप्रतियोगित्वं चाकाशादावसिद्धम् । ‘आकाशवत् सर्वगतश्च नित्यः’ इति श्रुत्या तस्य नित्यत्वोक्तेः । न च स्वसमानकालीनसर्वगतत्वेनाभूतसंप्लवस्थायित्वेन वा दृष्टान्त इति वाच्यम् । श्रुतौ नित्यपदास्वारस्यापत्तेः । न च ‘आत्मन आकाशः सम्भूत’ इति तस्योत्पन्नत्वेन ध्वंसोऽप्यावश्यक इति वाच्यम् । भूताकाशस्योत्पत्तिविनाशवत्वेऽपि अवकाश इति व्यवह्रियमाणस्य दिगित्यपरपर्यायस्य महाकाशस्योत्पत्याद्यभावात् । उत्पत्या हि तस्य नाशादिः स्यात् । सा चायुक्ता । यत्तु ब्रह्मवृत्तित्वविशिष्टप्रतियोगिताकत्वेनात्यन्ताभावोऽन्योन्याभावो वा विशेष्य इति न ब्रह्मणि व्यभिचार इति । तन्न । विमता वृत्तित्वविशिष्टप्रतियोगिताकत्वविशिष्ठात्यन्ताभावान्योन्या-भावप्रतियोगित्वेन ब्रह्मणोऽपि मिथ्यात्वापत्त्याऽऽभाससाम्याच्च ।
न्यायामृतमाधुरी
देशत इत्यादि । देशतः परिच्छिन्नत्वमत्यन्ताभावप्रतियोगित्वं, कालतः परिच्छिन्नत्वं ध्वंस-प्रतियोगित्वं, वस्तुतः परिच्छिन्नत्वमन्योन्याभावप्रतियोगित्वमित्यद्वैतिनामाकरे व्यक्तम् । नाद्यद्वितीया-वित्यादिका तृतीयकल्पप्रतिविधानग्रन्थतात्पर्यमद्वैतसिद्धिकृतैवानुवदता ‘‘समवायसम्बन्धेनात्यन्ताभाव-प्रतियोगित्वमात्मनि व्यभिचारि । तस्याप्याकाशादिवत् क्वाप्यसमवेतत्वात् । संयोगसम्बन्धेनात्यन्ता-भावप्रतियोगित्वमाकाशादावसिद्धम् । तस्य यावन्मूर्तसंयोगित्वनियमात् । अमूर्तनिष्ठात्यन्ताभाव-प्रतियोगित्वाभिप्राये त्वात्मनि व्यभिचारस्तदवस्थः । सर्वसम्बन्धित्वाभावविवक्षायामपि सर्वसम्बन्ध-शून्ये परमात्मनि व्यभिचारः । अज्ञाने सर्वसम्बन्धिन्यसिद्धिश्च । ध्वंसप्रतियोगित्वमप्याकाशादावसिद्धं तेषां परैर्नित्यत्वाभ्युपगमात् । अन्योन्याभावप्रतियोगित्वं चात्मनि व्यभिचरितस्य जडनिष्ठान्योन्याभाव-प्रतियोगित्वाद् अन्यथा जडत्वापत्ते’’रिति प्रकाशितम् । अत्यन्ताभावे अन्योन्याभावे च प्रतियोगि-समसत्ताकत्वविशेषणेनात्मनि व्यभिचारापरिहारात् । अज्ञानाकाशादौ च स्वसमानसत्ताकात्यन्ता-भावान्योन्याभावप्रतियोगित्वसत्त्वेनासिध्यभावात् । अविद्याकाशादेर्व्यावहारिकस्य पारमार्थिकाभावपक्षे स्वान्यूनसत्ताकेति विशेषणं देयम् । अत एव प्रातिभासिकशुक्तिरूप्यादेर्व्यावहारिकाभाव-प्रतियोगित्वेऽपि न साधनवैकल्यम् । निरुक्तमिथ्यात्वप्रकाराणां चैवंरूपत्वाभावान्न साध्याविशिष्टता । ध्वंसप्रतियोगित्वं च आकाशादौ नासिद्धम् । तस्माद्वा एतस्मादात्मन आकाशः सम्भूत इति श्रुतिसिद्धजन्यत्वेनानुमितत्वात् । आकाशवत्सर्वगतश्च नित्य इत्यत्र चात्मनि दर्शनत्वं स्वसमान-कालीनसर्वगतत्वेनाभूतसम्प्लवावस्थायित्वेन वेति द्रष्टव्यम् ।
अतोऽन्यदार्तमिति श्रुत्या अनात्ममात्रस्यैव विनाशप्रतिपादनादित्यद्वैतसिद्धिकारीयो ग्रन्थकृदुक्त-क्षत्यपनोदप्रकारः, सत्ताभेदस्य विश्वमिथ्यात्वसिध्यधीनसिद्धिकतयेतराश्रयणप्रसङ्गेन परास्तः । ‘आकाशे नीलिमोदेति न प्रदेशः कथञ्चने’त्याकाशद्वैविध्यस्य समर्थिततया भूताकाशस्य जनिमत्वेऽपि नित्यभूताव्याकृताकाशे सिद्धिध्रौव्यात् । अक्षरार्थस्तु । आकाशवत् । प्रथमान्ताद्वतिः । उपमेये प्रथमादर्शनात् । उपपत्तिश्चान्द्रिकानन्दमयनयीयभावदीधितितोऽवसेयः । इदमग्रे अस्याग्रे । षष्ट्यर्थे द्वितीयेति बृहद्भाष्यात् । स्वोपाधौ स्वाधिष्ठाने । स्वनिर्वाहकतया स्वानुयोगिकस्वप्रतियोगिका-धाराधेयभावोपपादकतया । विषयसम्बन्धि विषयरूपसम्बन्धि । सत्त्वापाताद् द्वितीयाभावस्य प्रथमाभावप्रतियोगिस्वरूपत्वादिति भावः ।
किं च कालादिपरिच्छिन्नत्वं न तावदेककालादिमात्रे सत्त्वम्
न्यायामृतं
किं च कालादिपरिच्छिन्नत्वं न तावदेककालादिमात्रे सत्त्वम् । रूप्यादौ ममा-सिद्धेः । तेन त्रैकालिकनिषेधसाधने विरोधाच्च । नापि तथा धीमात्रम् । मात्रशब्दे-नैककालादिमात्रे सत्त्वरूपार्थाभावोक्तौ भ्रमोक्तौ च प्रपञ्चे ममासिद्धेः । प्रमाभ्रम-साधारणधीत्वसामान्योक्तावात्मन्यपि तादृशभ्रमसम्भवेन व्यभिचारात् । व्यावहारिक प्रमोक्तौ रूप्यादावभावात् । नापि कालान्तरादावसत्त्वम् । तेन स्वकालादावप्य-सत्त्वसाधने प्रमाणविरोधस्याविशिष्टतया स्वकालादौ सत्त्वेन कालान्तरादौ सत्त्व-साधनापातात् । रूपान्तरेणासतो ब्रह्मणः स्वरूपेणाप्यसत्त्वापाताच्च । रूप्यादे-र्वियदादेश्च स्वकालेऽप्यसद्विलक्षणस्वरूपाभावापाताच्च । एतेन यत्सत्, तत् सदा सर्वत्र सदेव । न हि रूपं कदाचित् कुत्रचिद् गन्धो भवति । तथा च यत्कदा-चित्कुत्रचिदसत्तत्सदा सर्वत्रासदेवेति वाचस्पतीयं शून्यवाद्युक्तयुक्त्युद्गिरणं निरस्तम् ।
ननु देशपरिच्छिन्नत्वं सर्वमूर्तासंयोगित्वं वा, परममहत्परिमाणानधिकरणत्वं वा, महत्त्वानधिकरणपरिमाणाधिकरणत्वं वेति चेन्न । आद्ययोरसङ्गे निर्गुणे च ब्रह्मण्यपि भावाद्, अन्त्यस्य गुणादावप्यभावात् । कालपरिच्छिन्नत्वमन्योन्याभवादौ प्रतिवाद्यसिद्धं च । न तृतीयः । तद्धि भिन्नत्वम् । तस्य च तात्त्विकस्य प्रपञ्चेऽप्य-भावात् । आत्मन्यप्यनृतव्यावृत्तिस्तात्त्विकीति वक्ष्यमाणत्वाच्च । कल्पितस्य त्वात्म-न्यपि भावात् । धर्मिसमसत्त्वस्य रूप्येऽपि ममाभावाद्, भिन्नत्वमात्रस्य चाध्यस्ता-द्भेदेन सत्त्वेऽप्युपपत्तेः, सत्याद्भेदस्य चासिद्धेः ।
न्यायामृततरङ्गिणी
किञ्चेति ॥ कालादिपरिच्छिन्नत्वं किमेकस्मिन् देशमात्रे कालमात्रे च सत्त्वं वा? एकस्मिन् देशमात्रे कालमात्रे च सत्त्वरहितत्वे सत्येकस्मिन् देशमात्रे कालमात्रे च सत्त्वेन ज्ञानविषयत्वं वा? । एकस्मिन् देशमात्रे कालमात्रे च सत्त्वेन भ्रमविषयत्वं वा? एकस्मिन् देशमात्रे कालमात्रे च सत्त्वेन ज्ञानविषयत्वं वा? एकस्मिन् देशमात्रे कालमात्रे च सत्त्वेन व्यावहारिकप्रमाविषयत्वं वा? स्वदेशकालेतरदेशकालयोरसत्त्वं वा? इति विकल्पानभि-सन्धायाद्यमपवदति – न तावदिति ॥ एककालादिमात्रे सत्त्वम्, न तु द्वयोस्त्रिषु कालादिषु सत्त्वमित्यर्थः ॥ रूप्यादाविति ॥ ममात्यन्तासद्रूप्यवादिनो मते रूप्यस्यैकस्मिन्नपि कालादाव-सत्त्वादित्यर्तः ॥ तेनेति ॥ एकस्मिन् देशे काले च सत्त्वेन सर्वदेशेऽपि कालत्रयेऽपि निषेधे साध्यमाने यद्देशे काले वा यस्य सत्त्वमस्ति, तद्देश-कालायोरपि तस्यासत्त्वं साधितं स्यात् । तथा च तद्देशे काले च सत्त्वेन तद्देशे कालेऽसत्त्वसाधने विरोध इत्यर्थः । द्वितीयतृतीयौ दूषयति– प्रपञ्च इति ॥ मया प्रपञ्चे सत्त्वाभावानङ्गीकारात्, सत्त्वेन भ्रमानङ्गीकाराच्चेत्यर्थः । चतुर्थमुक्त्वा दूषयति – प्रमाभ्रमेति ॥ पञ्चममुक्त्वा दूषयति – व्यावहारिकेति ॥ षष्ठमप-वदति ॥ नापीति ॥ दूषयति – तेनेति ॥ तथा चागृह्यमाणविशेषदशायामाभाससाम्यम्, विशेषग्रहे तु बाध इत्यर्थः ॥ रूपान्तरेणेति ॥ तथा चाभासान्तरसाम्यरूपमप्रयोजकत्व-मित्यर्थः । रूप्यादेरिति ॥ रूप्यादेर्वियदादेश्चान्यकाले स्वरूपोपमर्दसत्त्वेन स्वकालेऽपि स्वरूपोपमर्दः स्यात् । न चेष्टापत्तिः । तथा सति कालत्रयेऽपि रूप्यादिवियदादि स्वरूपोपमर्देनासत्त्वापत्त्याऽसद्विलक्षणस्वरूपाभावापातादित्यर्थः । तथा चासद्विलक्षणस्वरूपा-नुपमर्देनपारमार्थिकत्वाकारेण निषेध इति त्वत्सिद्धान्तविरोधः स्यादिति भावः ॥
एतेनेति ॥ स्वदेश-कालेतरदेश-कालयोरसत्त्वेन स्वदेश-कालयोरप्यसत्त्वसाधने विरोधा-पातेनेत्यर्थः ॥ निरस्तमिति ॥ स्वासत्त्वग्राहकेण प्रमाणेन देश-कालयोः स्वसत्त्वग्राहकेणापि विरोधस्याविशिष्टतया यत् कदाचित् कुत्रचिदसत्, तत् सदा सर्वत्रासदेव, इति वियदादेः स्वोपाधावप्यसत्त्वसाधने यत् कदाचित् कुत्रचित् सत्, तत् सर्वत्र सदा सदेव, इति स्वोपाध्यति-रिक्तदेशादावपि वियदादेः सत्त्वं स्यादिति दोष उक्तप्रायत्वाद् नोक्तः ॥ आद्ययोरिति ॥ असङ्गत्वात् सर्वमूर्तासंयोगित्वम्, निर्गुणत्वान् महत्परिमाणानधिकरणत्वं च ब्रह्मणि व्यभिचारीत्यर्थः ॥ अन्त्यस्येति ॥ गुणकर्मादीनां निर्गुणत्वेन तादृशपरिमाणानधिकरणत्वाद् गुणादिषु हेत्वसिद्धिरित्यर्थः ॥ कालपरिच्छिन्नत्वमिति ॥ प्रागभावप्रतियोगित्वे सति ध्वंसप्रतियोगित्वं वा, एकैकप्रतियोगित्वं वा कालपरिच्छिन्नत्वम् । तच्च नित्येष्वन्योन्या-भावादिषु जगत्सत्यत्वादिनोऽसिद्धमित्यर्थः ।
परिच्छिन्नत्वहेतौ कृतेषु त्रिषु विकल्पेष्वाद्यौ विकल्पौ निरस्य, वस्तुतः परिच्छेद इति तृतीयं विकल्पं दूषयितुमुपक्रमते – न तृतीय इति ॥ तद्धीति ॥ भेदवत्त्वमित्यर्थः । ‘भेदवत्त्वं वस्तुतः परिच्छेदः’ इत्यत्र किं तात्त्विकभेदवत्त्वम्? कल्पितभेदवत्त्वं वा? धर्मिसमसत्त्वभेदवत्त्वं वा? भेदवत्त्वमात्रं वा? सत्यप्रतियोगिकभेदवत्त्वं वा? इति विकल्पानभिप्रेत्याद्यं दूषयति – तस्येति ॥ भेदस्येत्यर्थः । तथा चासिद्धिरित्यर्थः ॥ आत्मन्यपीति ॥ तथा चात्मनि व्यभिचार इत्यर्थः । द्वितीयं दूषयति – कल्पितस्येति ॥ तथा च व्यभिचार इत्यर्थः । तृतीयं दूषयति– धर्मीति ॥ ननु – रूप्यस्य प्रातिभासिकत्वेऽपि तत्र घटादिभेदस्य व्यावहारिकत्वेऽपि स्वप्रतियोगिकभेदभ्रममादाय धर्मिसमसत्ताकानिर्वचनीयभेदवत्त्वं रूप्येऽप्यस्ति, इति न तत्र साधनवैकल्यमिति– चेत्, न। रूप्यस्याविद्यावृत्तिरूपस्य साक्षिगोचरतया विशेषदर्शनस्य सत्त्वेन तस्मिन् स्वप्रतियोगिकभेदभ्रमस्यासंभवदुक्तिकत्वादिति भावः । धर्मिसमसत्त्वस्येति बहुव्रीहिः । तस्येत्यनुषक्तेन सम्बध्यते । चतुर्थं दूषयति – भिन्नत्वमात्रस्य चेति । भेदवत्त्वमात्रस्य हेतोः पक्षेऽध्यस्तप्रतियोगिकभेदसत्त्वेनाप्युपपन्नतया सदसद्भेदरूपसाध्यं विनाऽनुपपत्त्यभावेन सदसद्भेद-रूपसाध्यं प्रत्यप्रयोजकत्वादध्यस्तप्रतियोगिकभेदवत्त्वसिद्धौ च सत्यत्वमेव सिद्ध्यतीत्यर्थः । भेद-वत्त्वमात्रं कल्पितभेदवत्यात्मन्यनैकान्तिकं चेत्यपि बोध्यम् । पञ्चमं दूषयति – सत्याद्भेदस्य चेति ॥ ननु स्वसमानसत्ताकभेदप्रतियोगित्वरूपवस्तुपरिच्छेदस्य विविक्षितत्वाद् न ब्रह्मणि तुच्छे वा व्यभिचारः । न वा प्रपञ्चेऽसिद्धिरिति – चेत्, मैवम् । रूप्यप्रतियोगिकघटादि-निष्ठभेदस्य व्यावहारिकतया स्वसमानसत्ताकभेदप्रतियोगित्वं रूप्येऽसिद्धमिति साधनवैकल्यम् । न च – रूप्यस्य प्रातिभासिकरूप्यान्तरनिष्ठभेदप्रतियोगित्वमादाय तत्र हेतुः स्यादिति वाच्यम् । तद्भेदस्यापि व्यावहारिकत्वात् । अन्यथा तुच्छान्तरनिष्ठो यस्तुच्छभेदः प्रतीयते, तत्प्रतियोगित्वेन तुच्छे व्यभिचारापत्तेः । अविद्यावृत्तिरूपस्य साक्षिसिद्धस्य रूप्यस्य स्वप्रतियोगिकभेदवत्त्वेन ज्ञानमसम्भवि । येन तादृशानिर्वचनीयभेदप्रतियोगित्वमादाय रूप्ये हेतुसत्त्वं स्यादिति ॥
न्यायामृतकण्टकोद्धारः
तथेति ॥ एककालादिसत्त्वं नेत्यर्थः । तादृशेति ॥ एककालादिमात्रसत्त्वभ्रम-सम्भवेनेत्यर्थः । स्वकालादाविति ॥ मिथ्यात्वस्य स्वकालादावप्यसत्त्वरूपत्वादित्यर्थः । एक-कालासतः कालान्तरासत्त्वमिव रूपान्तरेणासतो रूपान्तरेणासत्त्वसाधने विशेषाभावात् तदपि स्यादित्याह– रूपान्तरेणेति ॥ रूप्यादेरिति ॥ कालान्तरे सद्विलक्षणत्वरूपाभावादिति भावः ।
एतेनेति ॥ रूपान्तरेणासत्त्वेन स्वरूपेणाप्यसत्त्वाद्यापत्त्येत्यर्थः । यथाकथञ्चिदसतः सर्वथा सत्त्वाङ्गीकारादिति भावः । आद्ययोरिति ॥ असङ्गत्वात् सकलमूर्तासंयोगित्वरूपं परिच्छिन्न-त्वम्, निर्गुणत्वाच्च महापरिमाणानधिकरणत्वरूपं देशपरिच्छिन्नत्वं ब्रह्मण्यस्तीत्यर्थः ॥ अन्त्य-स्येति ॥ परिमाणस्य गुणत्वेन गुणे गुणानङ्गीकारादित्यर्थः । अन्योन्याभावादाविति ॥ नित्यान्योन्या भावादावित्यर्थः । आत्मनीति ॥ अखण्डार्थवाद इति शेषः । धर्मिसमसत्त्व-स्येति ॥ न च – घटादिप्रतियोगिकरूप्यधर्मिकभेदस्य प्रातिभासिकत्वेऽपि रूप्यप्रतियोगिघटादि-धर्मिकभेदस्य व्यावहारिकस्य घटादिप्रतियोगिकरूप्यधर्मिकभ्रमे धर्मिसमसत्ताकानिर्वचनीयभेद-वत्त्वस्य रूप्येऽपि सत्त्वेन न साधनवैकल्यमिति वाच्यम् । साक्षिवेद्ये रूप्यादौ विशेषदर्शन-सत्त्वेनाज्ञानमूलकभ्रमासम्भवात् ।
अत्र कश्चित् – अत्यन्ताभावप्रतियोगित्वं देशपरिच्छिन्नत्वम्, ध्वंसप्रतियोगित्वं काल-परिच्छिन्नत्वम्, अन्योन्याभावप्रतियोगित्वं वस्तुपरिच्छिन्नत्वम् । न च – आत्मनोऽपि जडनिष्ठात्यन्ताभावान्योन्याभावप्रतियोगित्वेन व्यभिचारः । ध्वंसप्रतियोगित्वस्य च काला-काशादावभावेनासिद्धिरिति वाच्यम् । अत्यन्ताभावेऽन्योन्याभावे च प्रतियोगिसमसत्त्वं विशेषणं देयम् । एवं च न ब्रह्मणस्तादृशाभावप्रतियोगित्वम्, इति न व्यभिचारः । आत्म-प्रतियोगिकजडनिष्ठभेदस्य प्रतियोगिभूतब्रह्मसमसत्ताकत्वाभावात् । नाप्यसिद्धिः । ‘‘अतोऽन्य-दार्तमि’’ति श्रुत्या ब्रह्मातिरिक्तस्य सर्वस्य ध्वंसप्रतियोगित्वावगमात् – इत्याह । तन्न । अत्यन्ताभावप्रतियोगित्वं हि किञ्चिन्निष्ठात्यन्ताभावप्रतियोगित्वं वा, सार्वत्रिकत्रैकालिक निषेधप्रतियोगित्वं वा । नाद्यः । किञ्चिन्निष्ठात्यन्ताभावप्रतियोगित्वस्यान्यत्र सत्त्वेनाप्युप-पत्त्याऽर्थान्तरत्वात् । न द्वितीयः । तस्य साध्यमानमिथ्यात्वानतिरेकेण साध्यावैशिष्ट्यात् । न च – अनिर्वचनीयत्वादिरूपसाध्यान्तरस्य हेतुत्वान् न साध्यावैशिष्ट्यमिति – वाच्यम् । तथाप्यसिद्ध्यनिस्तारात् । न च – दृश्यत्वादिहेतुभिरेतादृशहेतुसिद्धिरिति – वाच्यम्; दृश्य-त्वादीनां निरस्तत्वात् । किञ्चात्यन्ताभावप्रतियोगित्वमात्मनोऽप्यस्ति, इति तत्र व्यभिचारः । न च – प्रतियोगिसमसत्ताकात्यन्ताभावप्रतियोगित्वाभावान् नात्मनि व्यभिचार इति वाच्यम्; प्रतियोगिभूतब्रह्मणोऽन्या सत्ता, अत्यन्ताभावस्य चान्या सत्ता, इत्यस्यार्थस्य प्रपञ्चमिथ्यात्व-सिद्धु्यत्तरकालीनत्वेनान्योन्याश्रयात् । तार्किकमते व्यभिचारश्च । किञ्च शुक्तिरजतादौ प्रतियोगिसमसत्ताकात्यन्ताभावप्रतियोगित्वाभावेन साधनवैकल्यम् । न हि शुक्तिरजतात्यन्ता-भावः प्रातिभासिकः । न च प्रतियोगिनः प्रातिभासिकत्वात् तदभावः प्रातिभासिक इति वाच्यम् । प्रतियोगि–तदभावयोरेकसत्ताकत्वनियमाभावात् । अन्यथा ब्रह्मप्रतियोगिकान्योन्या-भावस्यापि पारमार्थिकत्वापत्तेः । नापि ध्वंसप्रतियोगित्वं कालपरिच्छिन्नत्वमिति द्वितीयः । कालाकाशादावसिद्धेः । न च – ‘‘अतोऽन्यदार्तमि’’ति श्रुत्या तत्सिद्धिरिति वाच्यम् । तस्य ब्रह्मान्यस्यपारतन्त्र्यपरत्वेनाप्युपपत्तेरुक्तार्थसाधकत्वात्, कालाकाशाद्यभावे व्याहतेर्मूल एवोक्त-त्वाच्च । परोक्तत्रैकालिकनिषेधप्रतियोगित्वस्यापि पक्षान्तःपातित्वेन तस्य ध्वंसप्रतियोगित्वे यदैव निषेधाभावः, तदैव प्रतियोगिसत्यत्वापत्तेश्च । नाप्यन्योन्याभावप्रतियोगित्वं वस्तुपरिच्छिन्नत्व-मिति तृतीयः । ब्रह्मणि व्यभिचारात् । न च प्रतियोगिसमसत्त्वेति विशेषणान्न व्यभिचार इति वाच्यम् । परमते व्यभिचारापरिहारात् । अस्याश्च व्यवस्थाया मिथ्यात्वसिद्ध्युत्तरकालीनत्वाच्च । शुक्तिरूप्यादौ साधनवैकल्याच्च । तस्मात् परिच्छिन्नत्वं निर्वक्तुमशक्यमिति स्थितम् ॥
न्यायामृतप्रकाशः
एवं कालान्तरादौ निषेध एव कालादिपरिच्छिन्नत्वमित्यङ्गीकृत्य दूषणमुक्तम् । इदानीं कालादिपरिच्छिन्नत्वं नाम किमेककालादिमात्रे सत्त्वं वा कालान्तरादावसत्त्वं वेति विकल्प्याद्यं निराह ॥ किञ्चेत्यादिना ॥ एककालमात्र इति ॥ एककालादौ सत्त्वमात्रं नासत्त्वमिति योज्यम् । एवमुत्तरत्रापि । यथास्थिते तु एककालादिमात्रे सत्त्वोक्त्या मात्रपदव्यवच्छेद्यतया कालान्तरादाव-सत्त्वस्य लब्धत्वान्नापि कालान्तरादावसत्त्वमिति पृथग्विकल्पानुपपत्तिरिति ध्येयम् । न च भवत्पक्षेऽपि कालान्तरादावसत्त्वरूपस्य कालान्तरादि परिच्छिन्नत्वस्याग्र आसीदित्यादिश्रुतिविरोधेन दूषितत्वान्नापीति पुनर्निषेधः किमर्थ इति वाच्यम् । दूषणान्तरदानाय पुनराशङ्क्य निषेधोपपत्तेरिति ध्येयम् । रूप्यादाविति ॥ रूप्यादेरत्यन्तासत्त्वाङ्गीकारेणैककाले सत्त्वस्याभावात्साधनवैकल्यमिति भावः ॥ त्रैकालिकनिषेधेति ॥ तद्रूपमिथ्यात्वेत्यर्थः ॥
विरोधाच्चेति ॥ एककालादौ सत्त्वरूपपरिच्छिन्नत्वहेतोस् त्रैकालिकसत्तानिषेधाख्यमिथ्यात्वा-भावव्याप्यत्वाद्विरोध इत्यर्थः ॥ धीमात्रमिति ॥ एककाले सत्त्वेन ज्ञानमात्रमित्यर्थः । एककाले सत्त्वेन ज्ञानमात्रं तु रूप्यादावस्त्येव । अन्यथा प्रवृत्तिर्न स्यादिति भावः ॥ मात्रशब्देनेति ॥ सत्त्वेन ज्ञानमात्रं न तु सत्त्वरूपोऽर्थ इत्यर्थसत्त्वं मात्रपदव्यवच्छेद्यमिति भावः ॥ भ्रमोक्ताविति ॥ सत्त्वेन ज्ञानमात्रं तज्ज्ञानं तु प्रमारूपं न भवति किंतु सत्त्वमस्ति । परन्तु तज्ज्ञानं भ्रमरूपमिति मात्र-शब्दाभिप्राय इत्यर्थः । पूर्वोत्तरपक्षयो रीतिभेद एव न त्वर्थभेदः । ज्ञानस्य भ्रमत्वेऽर्थस्यासत्त्व-नियमादिति द्रष्टव्यम् ॥ प्रपञ्च इति ॥ प्रपञ्चे सत्त्वाङ्गीकारेण सत्त्वरूपार्थाभावस्वरूपमात्रपदार्थस्य तथा तज्ज्ञाने भ्रमत्वस्य चानंगीकारेणासिद्धिरित्यर्थः ॥ सामान्येति ॥ सामान्यतः प्रयुक्तस्य विशेषविकल्पेन निराकरणेऽनुमानमात्रोच्छेद इत्यर्थः । यावद्विशेषातिरिक्तं सामान्यं नास्तीत्यभिप्रेत्य दूषणमाह ॥ आत्मन्यपीति ॥ तादृशेति ॥ एककालमात्रे सत्त्वेन भ्रमसम्भवादिति भावः ॥ व्यावहारिकेति ॥ एककाले सत्त्वप्रकारकव्यावहारिकप्रमाविषयत्वं मात्रशब्दार्थ इत्यर्थः ॥ रूप्या-दाविति ॥ व्यावहारिकप्रमाविषयत्वाभावेन साधनवैकल्यमिति भावः । पूर्वं दूषितमपि द्वितीयपक्षं दूषणान्तरदानायाशङ्क्य निराकरोति ॥ नापीति ॥ कालान्तरादावसत्त्वरूपं कालादिपरिच्छिन्नत्व-मितोऽपि नोपपद्यत इत्यर्थः । कुतो नोपपद्यत इत्यतोऽतिप्रसङ्गादित्याह । तेनेत्यादि ॥ अयमर्थः । तेन कालान्तरादावसत्त्वरूपपरिच्छिन्नत्वहेतुना यथेदानीमपि स्वोपाधावसत्त्वरूपं मिथ्यात्वं साध्यते तथा वयमपि वदामः । इदानीं स्वदेशकालयोः सत्त्वेन कालान्तरादावपि सत्त्वं किं न स्यादिति । नन्विदानीं सत्त्वेन कालान्तरादावपि सत्त्वसाधने भाविबाधकशङ्कादिरूपबाधकसद्भावान्न तत्साधनं युक्तमिति चेत् तर्हि कालान्तरेऽसत्त्वेनेदानीमप्यसत्त्वसाधने संघट इत्यादि प्रत्यक्षबाधस्याविशिष्ट-त्वादिति कालान्तरेऽसत्त्वादिदानीमप्यसत्त्वमित्यस्य केनचिद्रूपेणासतः प्रतीयमानस्वरूपेणाप्य-सत्त्वमिति हि फलितोऽर्थः । तत्रातिप्रसङ्गमाह ॥ रूपान्तरेणेति ॥ निर्धर्मकतया पारमार्थिकत्व-रूपेणासत इत्यर्थः । यद्वा मिथ्यात्वादिरूपेणासत इत्यर्थः ।
किञ्च कालान्तरेऽसत्त्वादिदानीमप्यसत्त्वसाधने रूप्यादेर्वियदादेश्च कालान्तरेऽसत्त्वादिदानीमपि स्वरूपेणासत्त्वं स्यात् । न चेष्टापत्तिः । असद्विलक्षणस्वरूपाङ्गीकारात् । असद्विलक्षण-स्वरूपानुपमर्देन पारमार्थिकत्वाकारेणैव निषेध इति त्वत्सिद्धान्तविरोधादित्याशयेनाह ॥ रूप्या-देरिति ॥ एतेनेति ॥ कालान्तरादावसत्त्वेनेदानीमप्यसत्त्वसाधने रूप्यादेरित्युक्तातिप्रसङ्गापातेनेत्यर्थः॥ कदाचिदिति ॥ भाविबाधकदशायामित्यर्थः । तथा च तदानीमसत्त्वादिदानीमप्यसत्त्वमिति भावः ॥ शून्यवादीति ॥ तेनेदानीं जगदसत्त्वाङ्गीकारान् मायिना चासद्विलक्षणत्वाङ्गीकारादिदानी-मप्यसत्त्वसाधनं शून्यवाद्युक्तिच्छर्दिरेवेत्यर्थः ।
ननु देशपरिच्छिन्नत्वं नाम न देशान्तरेऽसत्त्वमेकदेशमात्रे सत्त्वं वा विवक्षितं येनोक्तदोषः किंत्वन्यदेवेति तार्किकरीत्या शङ्कते ॥ नन्विति ॥ परिमाणाधिकरणत्वं विभुद्रव्येऽतिव्याप्तमतो महत्त्वानधिकरणेति परिमाणविशेषणम् । महत्त्वानधिकरणत्वमात्रं गुणेऽतिप्रसक्तमतः परिमाणाधि-करणत्वमित्युक्तमिति द्रष्टव्यम् ॥ आद्ययोरिति ॥ ‘‘असङ्गो ह्ययं पुरुष’’ इति श्रुतेर् ब्रह्मणोऽ-सङ्गत्वावगमात्सर्वमूर्तासंयोगित्वमस्ति । ‘‘केवलो निर्गुणश्च’’ इति श्रुतेर्ब्रह्मणो निर्गुणत्वावगमा-त्परममहत्परिमाणरूपगुणाभावेन न परममहत्परिमाणाधिकरणत्वं चास्तीत्यतिव्याप्तिरिति भावः ॥ गुणादाविति ॥ गुणकर्मादौ गुणानङ्गीकारादिति भावः । तथा च भागासिद्धिरिति भावः । लक्षणत्रयस्याप्यवकाशप्रकृत्यादावसिद्धिः स्पष्टेति नोक्तेति द्रष्टव्यम् । कालान्तरासत्त्वाख्यानित्यत्वमेव कालतः परिच्छिन्नत्वमिति पक्षे पूर्वानुक्तदूषणान्तरमाह ॥ कालेति ॥ अन्यान्याभावादा-वित्यत्रादिपदेन नित्यभूतप्रध्वंसाभावग्रहणम् । अन्योन्याभावस्याऽनित्यत्वे सर्वपदार्थानां तादात्म्या-पत्तिः । प्रध्वंसस्यानित्यत्वे च प्रतियोग्युन्मज्जनापत्तिरिति हृदयम् ॥ तद्धीति । वस्तुतः परिच्छिन्नत्वमित्यर्थः । किं तात्विकभेदवत्त्वं वा कल्पितभेदवत्त्वं वा धर्मिसमसत्ताकभेदवत्त्वं वा उभयसाधारणभिन्नत्वमात्रं वा । नाद्य इत्याह ॥ तस्येति ॥ तथाच प्रपञ्चे त्वया तात्विकभेद-वत्त्वानङ्गीकारादसिद्धिरित्यर्थः । आत्मन्यपि अनृतव्यावृत्तिरूपतात्त्विकभेदवत्त्वसत्त्वेन ब्रह्मण्येव व्यभिचारश्चेत्याह ॥ आत्मन्यपीति ॥ न द्वितीयः । ब्रह्मण्येव व्यभिचारादित्याह ॥ कल्पितस्येति ॥ न तृतीयः । मन्मतेऽन्योन्याभावस्य धर्मिस्वरूपत्वेनासति च धर्मिण एवाभावेनान्योन्याभावमात्र-स्यैवानङ्गीकारेण धर्मिसमसत्ताकभेदवत्त्वं रूप्येऽसिद्धमिति साधनवैकल्यमित्याह ॥ धर्मीति ॥ धर्मिसमसत्त्वस्येति बहुव्रीहिः । तस्येत्यनुवर्तते । अनृतव्यावृत्तेस्तात्विकत्वेन धर्मिसमसत्ताकभेदवत्त्वस्य ब्रह्मणि व्यभिचारोऽपि द्रष्टव्यः । न चतुर्थः । तत्रापि किमध्यस्ताद्भिन्नत्वं विवक्षितमुत सत्या-द्भिन्नत्वम् । नाद्यः । अध्यस्ताद्भिन्नत्वस्य अमिथ्यात्वेनैव व्याप्ततया सत्यत्वसाधकत्वाद्विरुद्धत्वं स्यादित्याह । भिन्नत्वेति ॥ अध्यस्ताद्भेदेन विद्यमानेन निमित्तेन न द्वितीय इत्याह ॥ सत्यादिति ॥ प्रपञ्चस्य मया सत्यत्वाङ्गीकारादिति भावः ॥
न्यायकल्पलता
स्वदेशकालेतरदेशकालयोः स्वसत्वग्राहकेण प्रमाणेनैव स्वदेशकालयोः स्वसत्वग्राहकेणापि विरोधस्याविशिष्टतया यत्कदाचित् कुत्रचिदसत् तत्सदा सर्वत्रासदेवेति वियदादेः स्वोपाधावप्य-सत्वसाधने यत्सर्वत्र सदा सदेवेति स्वोपाध्यतिरिक्तदेशादावपि वियदादेः सत्वं स्यादित्युक्तदोषेणैवेति वा प्रकारान्तरेण देशपरिच्छिन्नत्वं निर्वक्तुं शंकते । नन्विति । आद्ययोरिति । असङ्गतत्वा-त्सर्वमूर्तासंयोगित्वं निर्गुणत्वान् महत्परिमाणानधिकरणत्वं च ब्रह्मणि व्यभिचारीत्यर्थः । अन्त्य-स्येति । गुणकर्मादीनां निर्गुणत्वेन तादृशपरिमाणाधिकरणत्वाभावाद्गुणदिषु हेत्वसिद्धिरित्यर्थः । वैशेषिकादिनयेन गगनादिष्वप्यभावादिसिद्धिरित्यपि द्रष्टव्यम् ।
कालपरिच्छिन्नत्वमपीति । तच्च प्रागभावप्रतियोगित्वे सति ध्वंसप्रतियोगित्वमुतैकप्रतियोगित्वं तत्त्रिविविधमपि नित्येष्वन्योन्याभावादिषु प्रपञ्चसत्यत्ववादिनो सिद्धमित्यर्थः । एवं परिच्छिन्नत्वहेतोः कृतेषु त्रिषु विकल्पेष्वाद्यौ निरस्य तृतीयं वस्तुतः परिच्छिन्नत्वकल्पं दूषयितुम् उपक्रमते । न तृतीय इति । तद्धीति । वस्तुनिरूपितपरिच्छेदवत्वं भेदवत्वमिति यावत् । अन्यस्य दुर्निरूपत्वादिति हेरर्थः । भेदवत्वं च वस्तुतः परिच्छेद इत्यत्र किं तात्विकभेदवत्वम् उत कल्पितभेदवत्वम् आहोस्विद् धर्मिसत्तासमानसत्ताकभेदवत्वं भेदवत्वमात्रं वा सत्यप्रतियोगिकभेदवत्वं वेति पञ्चकल्पानभिप्रेत्याद्यं दूषयति । तस्येति । भेदस्येत्यर्थः । चशब्देन वाद्यसिद्धिं समुच्चिनोति । आत्मन्यपीति । तथाचात्मनि व्यभिचार इत्यर्थः । द्वितीयाभावे हेतुमाह । कल्पितस्येति । एवं च व्यभिचार इत्यर्थः । तृतीयं निराह धर्मीति । धर्मिणा समं सत्वं यस्य स धर्मिसमसत्वस्तस्येति बहुव्रीहिः । धर्मिपदेन तत्सत्वं गृह्यते । तस्य भेदस्येत्यनुवर्तते । ननुु दृष्टान्तीकृतस्य रूप्यस्य प्रातिभासिकत्वेन तत्र घटादिभेदस्य व्यावहारिकत्वेऽपि स्वप्रतियोगिकभेदभ्रममादाय धर्मिसत्तासमसत्ताकानिर्वचनीय-रूप्येऽस्तीति न तत्र साधनवैकल्यमिति चेत् । मैवं वोचः देवानां प्रियोऽसि । तत्वविन्नयेन साधनवैकल्यस्योक्तत्वात् । अत एवोक्तं ममेति ।
एवमजानानस्य अयमांशकेत्यजानन्तः केचित्परिजह्नुः । रूप्यस्याविद्यावृत्तिरूपस्य साक्षिगोचरतया विशेषदर्शनस्य सत्वेन तस्मिन् स्वप्रतियोगिकभेदभ्रमस्यासम्भवदुक्तिकत्वाद्दुष्परिहरं साधनवैकल्यमिति । तदसारम् । भ्रमदशायां प्रातीतिकत्वेन रूप्यदर्शने रजतार्थिनः पुरोवर्तिनि प्रवृत्यनुपपत्तेः । नेदं रजत-मिति स्वस्मिन् स्वप्रतियोगिकभेदभ्रमस्यासम्भवदुक्तिकत्वेऽपि नेदं प्रातिभासिकं किन्तु व्यावहारिक-मिति भेदभ्रमस्य सुवचत्वात्् । तत्र प्रातिभासिकभेदज्ञानस्य व्यावहारिकाभेदावगाहिनः प्रवृत्यौपयि-कत्वात् । अधिष्ठानसत्तासमसत्ताकभेदवत्वविवक्षायां त्वसिद्धिः । विवर्तनये प्रातीतिकेषु स्वसत्ताकभेदवत्वं सम्भावयितुं मम तत्वविद इत्युक्तम् । यदि प्रातीतिकं प्रातीतिकत्वेनाविद्या-वृत्तिप्रतिबिम्बितसाक्षिगोचरः स्यात् तदा का नाम भ्रान्तिस् तदभावे बाधो दत्तजलाञ्जलिः स्यादित्युक्तमेव साधीय इति ।
चतुर्थमपाकरोति । भिन्नत्वमात्रस्येति । यत्किञ्चिन्निरूपितभेदवत्वस्य हेतोः पक्षे अध्यस्त-रूप्यादिप्रतियोगिकभेदस्य सत्वेनाप्युपपन्नतया सदसद्वैलक्षण्यरूपसाध्यं विनाऽनुपपत्यभावेन सद-सद्भेदवत्वरूपसाध्यं प्रत्यप्रयोजकत्वात् । अध्यस्तप्रतियोगिकभेदवत्वसिद्धौ च पक्षीकृतस्य सत्यत्वमेव सिध्यतीत्यर्थः । अन्योन्याभावप्रतियोगित्वं त्वात्मनि व्यभिचारि । तस्य जडनिष्ठान्योन्याभाव-प्रतियोगित्वात् । अन्यथा तस्य जडत्वापत्तेः । भेदवत्वमात्रं कल्पितभेदवत्यात्मन्यनैकान्तिकं चेत्यपि बोध्यम् । पञ्चममपाकरोति । सत्यादिति । तुच्छे व्यभिचारश्च । जगन्मिथ्यात्वसिद्धौ जगति मत्प्रयोगिकभेदवत्वसिद्धिस्तत्सिद्धौ च तत्सिद्धिरित्यन्योश्रयाच्चेत्यपि ज्ञेयम् ।
ननु स्वसत्तासमसत्ताकान्योन्याभावप्रतियोगित्वरूपस्य वस्तुपरिच्छिन्नत्वस्य हेतोर्विवक्षितत्वान् न ब्रह्मणि तुच्छे च व्यभिचारः । न वा प्रपञ्चे असिद्धिरिति चेत् । मैवमुच्चैर्वोचः । अध्यस्तप्रतियोगिक-घटादिधर्मिकभेदस्य व्यावहारिकतया स्वसत्तासमानसत्ताकभेदप्रतियोगित्वं रूप्ये नास्तीति साधन-वैकल्यम् । नच प्रातिभासिकरूप्यस्य प्रातिभासिकरूप्यान्तरधर्मिकभेदप्रतियोगित्वमादाय तत्र हेतुः स्यादिति वाच्यम् । ब्रह्मज्ञानेतराबाध्यत्वेन तद्भेदस्यापि व्यावहारिकत्वात् । नहि तच्छुक्त्य-वच्छिन्नचिदाश्रिताविद्योपादानकं रजतमेतच्छुक्त्यवच्छिन्नचिदाश्रिताविद्योपादनकं रजतमेकमितीदानीं कस्यचिदनुभवोऽस्ति । अत्र यदन्यथा तुच्छान्तरधर्मिको यस्तुच्छभेदस्तत्प्रतियोगित्वेन तुच्छे व्यभिचारापत्तिरिति दूषणं नोद्भाव्यम् । भेदे प्रतियोगिसमसत्ताकत्वविशेषणमुपात्तवता परेण तुच्छे व्यभिचारस्य परिहृतत्वात् । यदप्यविद्यावृत्तिरूपस्य साक्षिसिद्धस्य प्रातिभासिकरूप्यस्य स्वप्रति-योगिकभेदवत्वेन ज्ञानमसम्भवि । येन तादृशानिर्वचनीयभेदप्रतियोगित्वमादाय रूप्ये हेतुसत्वं स्यादिति तदप्यधस्तादवचिन्तितमिति ।
न्यायामृतमाधुरी
रूपान्तरेण उपहितरूपेण । आद्ययोस् तृतीयं प्रति द्वितीयस्याप्याद्यत्वादिति भावः । निर्गुणे गुणेभ्यो निष्क्रान्ते । ‘‘निरादयः क्रान्ताद्यर्थे पञ्चम्या इत्यनेनात्र वृत्तिः । अनृतव्यावृत्तिर् अलीकव्यावृत्तिः । अध्यस्ताद् विपर्यस्तात् । असिद्धेः प्रतिवादितापन्नतत्ववादिदिशेति ।