जडत्वमप्यज्ञातृत्वं वा? अज्ञानत्वं वा? अस्वप्रकाशत्वं वा?..
१४. जडत्वहेतुभङ्गः
न्यायामृतं
जडत्वमप्यज्ञातृत्वं वा? अज्ञानत्वं वा? अस्वप्रकाशत्वं वा? अनात्मत्वं वा? पराभिप्रेतं वा? नाद्यः । त्वन्मते पक्षनिक्षिप्तस्याहमर्थस्यैव ज्ञातृत्वात्, शुद्धात्मनोऽप्य ज्ञातृत्वाच्च । शुद्धेऽपि कल्पितं ज्ञातृत्वमस्तीति चेन्न । कल्पितेन हेत्वभावेन व्यभिचारा- परिहारात् । कल्पितस्य ज्ञातृत्वस्याभावो हेतुरिति चेन्न । गौरोऽहं जानामीति कल्पित-ज्ञातृत्ववति देहादौ तदभावासिद्धेः । धर्मिसमसत्त्वस्य ज्ञातृत्वस्या भावो हेतुरिति चेन्न । तादृशज्ञातृत्ववत्यन्तःकरणे तदभावासिद्धेः । शुद्धे तादृशज्ञातृत्वाभावाच्च ।
न द्वितीयः । वृत्तिज्ञाने भागासिद्धेः । यदि च साङ्ख्यवेदान्तिनां तु ‘करण-व्युत्पत्त्या बुद्धिवृत्तिर्ज्ञानम्’ इति विवरणोक्तेर्वृत्तिरज्ञप्तिः, तर्हि परोक्षवृत्त्या स्वविषये अज्ञाननिवृत्तिव्यवहारस्मृतयो न स्युः, तासां ज्ञप्तिकार्यत्वात् । धर्माधर्मादिकं च जानामीत्यनुभवश्च न स्यात् । किं चात्मनि व्यभिचारः । तथा हि– आत्मरूपं ज्ञानं सविषयं निर्विषयं वा? आद्येऽपि स्वविषयं परविषयं वा? नाद्यः । स्ववृत्तिविरोधेन परैरस्वीकारात् ।
ननु स्वकर्मकत्वाभावेऽपि स्वव्यवहारजननयोग्यत्वरूपं स्वविषयत्वमस्ति । ‘तत्स्वभावस्यापि स्फुरणस्य तद्व्यवहारजनकतया तद्विषयत्वमि’ति चित्सुखोक्तेरिति चेन्न । घटादावप्येतदन्यस्य ज्ञप्तिकर्मत्वस्याभावात् । न हि– घटादावपि तदाकार-वृत्तिः, तत्प्रतिबिम्बितचैतन्यं वा ज्ञप्तिः, तां च प्रति कर्मत्वं तत्कारकविशेषत्वं वा तज्जन्यावरणाभिभवरूपातिशययोगित्वं वेति युक्तम् । ज्ञातैकसति सुखादौ शुक्ति-रूप्यादौ चोक्तरूपज्ञप्तिकर्मत्वाभावापाताच्च । ब्रह्मणोऽपि चरमवृत्तिविषयस्य उक्तरूपां ज्ञप्तिं प्रति उक्तरूपकर्मत्वापाताच्च । किं तु वृत्त्यभिव्यक्तं घटाद्यधिष्ठानचैतन्यं तज्ज्ञप्तिः । न च तस्य घटादावपि व्यवहारादन्यत्कृत्यमस्ति । इयांस्तु भेदः–घटादिः स्वान्यज्ञप्तिकर्म, चैतन्यं तु स्वस्वरूपज्ञप्तिकर्मेति । न द्वितीयः, मोक्षे पराभावात् । त्वन्मते च वर्तमानस्यैव साक्षात्साक्षिविषयत्वात् । वह्निरासीदित्याद्यनुमिताविव साक्षिज्ञाने मोक्षसुषुप्त्योरतीतविषयोल्लेखरूपोपप्लवापाताच्च ।
निर्विषयत्वे तु ज्ञानत्वमेव न स्यात् । तद्धि विषयानुल्लेखित्वम्, न तूल्लिखितस्य विषयस्यावर्तमानत्वम्, अत्यन्तासत्त्वं वा । येनातीतादिज्ञाने तुच्छज्ञाने च व्यभिचारः स्यात् । न च कदाचित्सविषयत्वमात्रेण ज्ञानत्वम् । सप्रतियोगिके अभावादौ सप्रतियोगिकत्ववत् सविषयके इच्छादौ घटादिज्ञाने च सविषयकत्वादेः स्वभावत्वदर्शनात् । परमपुरुषार्थे मोक्षे आनन्दाप्रकाशापाताच्च । अर्थप्रकाशत्वरूप-ज्ञानस्वभावाभावेऽपि ज्ञानत्वे घटादेरपि ज्ञानत्वापाताच्च । अर्थाप्रकाशात्मकजड-व्यावृत्तेरपि अर्थप्रकाशात्मकत्वं विनाऽयोगाच्च ।
अद्वैतसिद्धिः
जडत्वमपि हेतुः । ननु– किमिदं जडत्वम्? अज्ञातृत्वं वा? अज्ञानत्वं वा? अनात्मत्वं वा? नाद्यः; त्वन्मते पक्षनिक्षिप्तस्यैवाहमर्थस्य ज्ञातृत्वात्तत्रासिद्धेषः, शुद्धात्मनोऽज्ञातृत्वेन तत्र व्यभिचाराच्च । नापि द्वितीयः, वृत्त्युपरक्तचैतन्यस्यैव ज्ञानत्वेन केवलाया वृत्तेः केवलस्य चैतन्यस्य चाज्ञानत्वेन वृत्तावसिद्धिपरिहारेऽपि चैतन्ये व्यभिचारतादवस्थ्यात् । नापि तृतीयः, आत्मत्वस्यैव निरूपयितुमशक्यत्वात् । तद्धि न जातिविशेषः, त्वयाऽऽत्मन एकात्वाभ्युपगमाद्, विशिष्टशत्मनां भेदेऽपि तेषां पक्षकुक्षिनिक्षिप्तत्वात् । नाप्यनन्दरूपत्वम्, वैषयिकानन्दे तद्व्यतिरेकस्य हेतोरसिद्धेः, तस्याप्यात्मत्वे अज्ञानपक्षोक्तदोः प्रसञ्जनीय इति चेत्, मैवं द्वितीयतृतीयपक्षयोर् दोषाभावात् । तथा हि ‘अज्ञानत्वं जडत्वमि’ति पक्षे नात्मनि व्यभिचारः, अर्थोपलक्षितप्रकाशस्यैव ज्ञानत्वेन मोक्षदशायामपि तदनपायात् । न च अभावे सप्रतियोगित्कदिवदिच्छाज्ञानादिष्वपि सविषयकत्वस्य स्वाभाविकत्वच्छायामिव ज्ञानेऽपि तस्य समानसत्ताकत्वमिति वाच्यम् । ज्ञानस्य हि सविषयत्वं विषयसम्बन्धः, स च न तात्त्विकः, किंत्वाध्यासिकः, वक्ष्यमाणरीत्या तात्त्विकसम्बन्धस्य निरूपयितुमशक्यत्वात् । अतो न तस्य स्वाभाविकत्वम् । न हि शुक्तौ रूप्यं स्वाभाविकम् । एवं च ज्ञानोपाधिकस्यैव सविषयत्वस्य इच्छादिष्वभ्युपगमान् नितरां तत्र तस्य स्वाभाविकत्वम् ।
न चैवं ज्ञानवद् विषयसम्बन्धं विनाऽपि कदाचिदिच्छायाः सत्त्वापत्तिरिति वाच्यम्; सविषयत्वप्रयोजकोपाध्यपेक्षया अधिकसत्ताकत्वस्य तत्र प्रयोजकत्वाद्, इच्छायाश्च तत्समान-सत्ताकत्वात् । न च त्वया मोक्षावस्थायामात्मनो निर्विषयत्वाङ्गीकाराद् आनन्दाप्रकाशे तदपुमर्थत्वं स्यादिति वाच्यम्; तदा ह्यानन्द एव प्रकाशो न त्वानन्दस्य प्रकाशत्वम्, अर्थोपलक्षितप्रकाशत्वं वा तदास्त्येवेति न ज्ञानत्वहानिरित्युक्तम् ।
न्यायामृततरङ्गिणी
त्वन्मत इति ॥ तथाच तत्रासिद्धिरिति भावः ॥ शुद्धात्मन इति ॥ तथाच तत्र व्यभिचार इति भावः ॥ शुद्धेऽपीति ॥ तथाच शुद्धात्मनि हेतोरगमनाद् न व्यभिचार इत्यर्थः ॥ कल्पितेनेति ॥ अयोगोलकादौ कल्पितेन वन्ह्यभावेन वह्नेरपि धूमाव्यभिचारः स्यादित्यर्थः । अहमर्थे हेत्वसिद्धिर्नेति शङ्कते – कल्पितस्येति ॥
गौरोऽहमिति ॥ अहमर्थनिष्ठस्य ज्ञातृत्वस्य गौरे देहे कल्पितत्वादित्यर्थः । देहादौ हेतुसिद्धिं शङ्कते – धर्मिसमसत्त्वस्येति ॥ तादृशेति ॥ व्यावहारिकेत्यर्थः ॥ शुद्ध इति ॥ शुद्धे तात्त्विकस्य धर्मिसमसत्ताकस्य ज्ञातृत्वस्याभावात् तत्र व्यभिचार इत्यर्थः ॥ वृत्तिज्ञान इति ॥ ज्ञाने ज्ञानत्वस्यावश्यकत्वादित्यर्थः । ननु हेतूकृतमज्ञानत्वमज्ञप्तित्वम् । तच्च वृत्तिरूपे ज्ञानेऽस्ति, इति नासिद्धिरिति शङ्कते – यदि चेति ॥ साङ्ख्यरूपा वेदान्तिनः साङ्ख्य-वेदान्तिनः । बुद्धिवृत्तेर्ज्ञानभिन्नत्वमुपपाद्य तत्र ज्ञानशब्दप्रवादसमर्थनपरो विवरणग्रन्थः । अज्ञप्तित्वमपि वृत्तिरूपे ज्ञाने नास्तीत्यसिद्धिरेवेत्याह – तर्हीति ॥ अपरोक्षवृत्तौ चैतन्य-प्रतिबिम्बनियमात् तस्य च ज्ञप्तित्वादज्ञाननिवृत्त्यादि भविष्यति, इत्यत उक्तम् – परोक्ष-वृत्त्येति ॥ परोक्षवृत्तौ चैतन्यप्रतिफलनादेस्तन्मतेऽप्यभावादज्ञाननिवृत्त्यादेर्ज्ञप्तिकार्यस्य ततो दर्शनात् परोक्षवृत्तेरपि ज्ञप्तित्वमवश्यमभ्युपेयम्, अतोऽसिद्धिरित्यर्थः ॥ तासामिति ॥ ज्ञप्तिकारणाज् ज्ञप्तिकार्यं न दृष्टमिति भावः ॥ धर्माधर्मादिकमिति ॥ धर्मादिवृत्तौ परोक्ष-रूपायां ज्ञप्तित्वरहितायां ज्ञप्तित्वमवगाहमानोऽनुभवः प्रमा न स्यादिति शेषः ॥ किञ्चात्म-नीति ॥ त्वदभिप्रेते आत्मरूपे ज्ञाने ज्ञानत्वाभावस्यापाद्यमानत्वेन तत्राज्ञानत्वरूपहेतोः सत्त्वेन व्यभिचारः ।
आत्मनि ज्ञानत्वाभावं वक्तुं ज्ञानत्वव्यापकसविषयत्वाभावमाह– तथाहीत्यादिना ॥ आत्मरूपं ज्ञानमिति ॥ ज्ञप्तिरित्यर्थः ॥ स्ववृत्तिविरोधेनेति ॥ क्रिया हि स्वविषये कर्मणि कर्तरि वा केनचित् सम्बन्धविशेषेणेतरव्यावृत्तेन वर्तते । तत्र सकर्मकक्रियाकर्मणि । यथा छिदिक्रिया छेद्ये, गतिक्रियाऽपि गम्ये केनापि सम्बन्धेन वर्तत एव । अकर्मकक्रिया तु कर्तरि – यथा शयनासनादिक्रिया देवदत्ते । तदत्र स्वरूपभूतज्ञानक्रियां प्रति ब्रह्म यदि विषयः स्यात्, तदा कर्मसर्त्रोरन्यतरत् स्यात् । ततश्च स्वरूपभूतज्ञानं ब्रह्मस्वरूपभूते ज्ञाने वर्तेत, तच्च विरुद्धम् । नहि छिदा छिदायां वर्तते, शयनं वा शयने । एवं स्ववृत्तिविरोधेन ब्रह्मस्वरूपज्ञप्तेः स्वविषयत्वं परैर्नाङ्गीकृतमित्यर्थः ।
ननु ब्रह्मस्वरूपज्ञानं प्रति ब्रह्मणो विषयत्वेऽपि न ज्ञानं प्रति ब्रह्मणः कर्तृकर्मत्वा-न्यतरत्वापत्तिः । कर्तृकर्मत्वातिरिक्तस्य तज्जन्यव्यवहारयोग्यत्वरूपस्य विषयत्वस्य स्वरूपभूतज्ञानं प्रति ब्रह्मणः सत्त्वात् । तथा च न स्ववृत्तिविरोध इति शङ्कते– ननु स्वकर्मत्वभावेऽपीति ॥ अत्र परः स्वाचार्यसम्मतिमाह– तत्स्वभावस्यापीति ॥ तत्र ब्रह्मस्वरूपज्ञानस्य ज्ञप्तिकर्मत्वा-भावेऽपि ज्ञप्तिजन्यव्यवहारयोग्यत्वरूपं ज्ञप्तिविषयत्वमस्त्येव । तथाच ब्रह्मरूपं ज्ञानं स्वविषय-मेव, इति न ज्ञानत्वव्यापकसविषयत्वव्यावृत्तिर्ब्रह्मस्वरूपज्ञाने, इति न तत्र व्यभिचार इति भावः ॥ घटादावपीति ॥ घटादौ ज्ञप्तिकर्मत्वज्ञप्तिविषयत्वयोरेकत्वाद् ब्रह्मणो ज्ञप्तिकर्मत्व-मनभ्युपेत्य ज्ञप्तिविषयत्वाङ्गीकारो विरुद्ध इत्यर्थः ।
कर्मत्वविषयत्वयोर्भेदमाशङ्क्य निराकरोति – न हीति ॥ घटाद्याकारवृत्तिं प्रति कर्त्रादि-भिन्नकारकविशेषत्वं वा, घटाद्याकारवृत्तिजन्यावरणाभिभवातिशययोगित्वं वा, घटाद्याकार-वृत्तिप्रतिबिम्बितचैतन्यं प्रति कारकविशेषत्वं वा, घटाद्याकारवृत्तिप्रतिबिम्बितचैतन्यजन्या-वरणाभिभवरूपातिशययोगित्वं वा घटादीनां कर्मत्वम् । विषयत्वं तु तज्जन्यव्यवहारयोग्यत्वरूपं निरुक्तकर्मत्वाद् भिन्नमेवेत्यर्थः । निराकरणहेतुमाह– ज्ञातैकसतीति ॥ कर्मत्वेन संप्रतिपन्ने सुखादौ निरुक्तकर्मत्वमव्याप्तमित्यर्थः । प्रत्यक्षयोग्यत्वे सति स्वाधिकरणकालवृत्तिप्रागभाव-प्रतियोगिप्रत्यक्षविषयभिन्नत्वं ज्ञातैकसत्त्वम् । तथाच ज्ञप्त्यपेक्षया पूर्वभावित्वाभावात् सुखादेर्न ज्ञप्तिकारकत्वरूपं तत्कर्मत्वम् । ज्ञातैकसत्त्वात् स्वत एवावरणाभावेन ज्ञप्तिजन्यावरणाभि-भवरूपातिशययोगित्वरूपमिति कर्मत्वं सुखादेर्नास्तीत्यव्याप्तिरित्यर्थः । उक्तकर्मलक्षणयोरति-व्याप्तिमप्याह – ब्रह्मणोऽपीति ॥ चरमवृत्तेर्ब्रह्माकारतया तां प्रति ब्रह्मणः कारकत्वात् तज्जन्यावरणाभिभवरूपातिशययोगित्वाच्च चरमवृत्तेर्घटाद्याकारवृत्तिवच् चित्प्रतिफलनयुक्तत्वेन ब्रह्माकारवृत्तिप्रतिफलितचैतन्यं प्रति ब्रह्मणोऽपि कारकत्वात् तादृशचैतन्यजन्यावरणाभिभव-रूपातिशययोगित्वाच्च ब्रह्मण्यतिव्याप्तिरित्यर्थः । विषयत्वातिरिक्तं कर्मत्वं निरस्य कर्मत्वरूपमेव विषयत्वं घटादावित्याह– किंत्विति ॥ एवं घटचैतन्ययोर्ज्ञप्तिकर्मत्वेऽप्यान्तरालिकं भेदमाह– इयांस्त्विति ॥ तथाच चैतन्यस्य स्वकर्मत्वमनङ्गीकुर्वद्भिः स्वविषयत्वमपि नाङ्गीकृत-मेवेत्यर्थः ।
ब्रह्मरूपं ज्ञानं परविषयमिति द्वितीयपक्षं निराकरोति – न द्वितीय इति ॥ मोक्ष इति ॥ तथाच मोक्षकाले साक्षिणो निर्विषयत्वं स्यादित्यर्थः । मोक्षकालेऽपि साक्षिणोऽतीतविषयत्वं भविष्यतीत्याशङ्क्य, तत् किमतीतं साक्षान्मोक्षकाले साक्षिणो विषयः? ज्ञानोपरागेण वा? इत्याशङ्ख्य, न द्वितीयः; असम्भवात्, इत्यभिप्रेत्य प्रथमपक्षं दूषयति – त्वन्मते चेति ॥ वर्तमानस्येति ॥ योग्यस्येति शेषः । अतीतसुखादेर्न साक्षात् साक्षिविषयत्वमिति भावः । साक्षिणोऽतीतविषयत्वे दूषणान्तरमाह – वह्निरासीदिति ॥ मोक्षे सुषुप्तौ च विद्यमाने साक्षिज्ञानेऽतीतविषयोल्लेखरूपः संसारः स्यात् । तथाच मोक्षसुषुप्त्योर्निष्प्रपञ्चता न स्यात् ।
ननु न ज्ञानत्वस्य व्यापकं सविषयत्वं येन तद्व्यावृत्त्या ज्ञानत्वं व्यावर्तेत । किं तर्हि ? निर्विषयमप्यात्मस्वरूपं ज्ञानमस्ति, इति द्वितीयपक्षं दूषयति – निर्विषयत्व इति ॥ अयमभिप्रायः – न ज्ञानत्वस्य व्यापकं सविषयत्वं नेति । ‘इदं जानामि’ इति ज्ञानानुभवेन विषयाङ्कितस्यैव ज्ञानस्य सिद्धेः सविषयत्वस्य ज्ञानत्वव्यापकत्वावधारणादात्मस्वरूपस्य निर्विषत्वे ज्ञानत्वमेव न स्यादिति । यद्यपि ज्ञानत्वव्यापकसविषयत्वाभावोपादानेनैवाज्ञानत्व-मात्मनः सिद्ध्यति; तथापि यदि ज्ञानत्वव्यापकं सविषयत्वं न भवतीति परो वैयात्याद् वदेत्, तदा तं प्रति सविषयत्वस्य ज्ञानत्वव्यापकत्वोपपादनाय द्वितीयविकल्पोपन्यास इत्याशयः ।
ननु आत्मा न ज्ञानम्, निर्विषयत्वात्, घटवत्, इत्यनुमाने त्वदभिप्रेते निर्विषयत्वं किमवर्तमानविषयत्वं वा ? अत्यन्तासद्विषयत्वं वा ? आद्येऽतीतज्ञाने व्यभिचारः । द्वितीये तुच्छज्ञाने व्यभिचारः, इत्याशङ्कां निराकुर्वन् हेतुस्वरूपमाह– तद्धीति ॥ निर्विषयत्वहेतोः स्वरूपासिद्धिं शङ्कते – न चेति ॥ अर्थोपलक्षितस्यैव ज्ञानत्वेन मोक्षदशायामपि तदनपाया-दित्यर्थः ॥ सप्रतियोगिक इति ॥ उक्तानुमाने हेतूकृतं निर्विषयत्वं सविषयत्वस्वभाव-शून्यत्वम् । तच्चात्मनि कदाचिद् विषयसम्बन्धेऽप्यस्ति, इति नासिद्धिरित्यभिप्रेत्य । ननु उक्तसाध्यहेत्वोर्व्यतिरेकसहचारग्रहस्थलाभावान् न व्याप्तिग्रहः, इत्याशङ्क्य व्यतिरेकसहचार-ग्रहस्थलमुक्तम् – घटादिज्ञान इति ॥ ननु – तत्स्वरूपानन्तर्गतस्य विषयस्य कथं तत्स्व-भावनिरूपकत्वम्? इत्याशङ्क्योक्तम् – सप्रतियोगिकेऽभावादौ सविषयके इच्छादाविति ॥ एवं च यथाऽभावादौ सप्रतियोगिकत्वं स्वाभाविकम्, इच्छादौ घटादिज्ञाने च सविषयकत्वं स्वाभाविकम्, तथा ब्रह्मरूपज्ञानेऽपि सविषयकत्वं स्वाभाविकं वाच्यम् । तच्च न सम्भवति । मोक्ष आत्मरूपज्ञानस्य सविषयकत्वाभावादित्यर्थः ॥
अत्र वदन्ति – ज्ञानस्य सविषयत्वं विषयसम्बन्धः । स च न तात्त्विकः, किं त्वाध्यासिकः । तात्त्विकसम्बन्धस्य निरूपयितुमशक्यत्वात् । अतो न तस्य स्वाभाविकत्वम् । नहि शुक्तौ रूप्यं तात्त्विकम् । एवं च ज्ञानोपाधिकस्यैव सविषयत्वस्येच्छादिष्वभ्युपगमान् नतरां तस्य स्वाभाविकत्वम् । न च ज्ञानवद् विषयसम्बन्धं विनाऽपि कदाचिदिच्छायाः सत्त्वापत्ति-रिति वाच्यम् । सविषयत्वप्रयोजकोपाध्यपेक्षयाऽधिकसत्ताकत्वस्य तत्र प्रयोजकत्वात् । इच्छायाश्च तत्समानसत्ताकत्वात् । एवं च सविषयकत्वस्वाभावत्वं न ज्ञानत्वव्यापकम् । अतस्त-न्निवृत्त्याऽऽत्मनि ज्ञानत्वनिवृत्तिर्न इति नाज्ञानत्वस्य हेतोरात्मनि व्यभिचार इति ।
अत्र ब्रूमः; यदि ज्ञानस्य विषयेणाध्यासिक एव सम्बन्धः, तर्हि चरमवृत्तौ नात्मा विषयः स्यात् । न च वृत्तिप्रतिबिम्बितचैतन्यरूपज्ञानस्य विषयेणाध्यासिकः सम्बन्ध इति वाच्यम् । चरमवृत्तावपि शुद्धात्मगोचराज्ञाननिवृत्त्यर्थं चित्प्रतिफलनस्यावश्यकत्वाद् घटादेर्वृत्तिव्याप्यत्वमेव स्यात्, न फलव्याप्यत्वम् । न चैवमात्मनोऽपि फलव्याप्यत्वापत्तौ मिथ्यात्वापत्तिरिति वाच्यम् । त्यज तर्हि मिथ्यात्वे फलव्याप्यत्वस्य हेतुत्वम् । परोक्षवृत्तेरतीन्द्रियार्थविषयकत्वं च न स्यात् । परोक्षवृत्तावतीन्द्रियस्याध्यासाभावात् । तस्मान् न ज्ञानस्याध्यासरूपः सम्बन्ध इति स्वाभाविकमेव ज्ञाने सविषयत्वम् । एवमिच्छायामपि स्वाभाविकमेव सविषयत्वम् । ‘घटं जानामि’ इतिवत् ‘घटमिच्छामि’ इत्यत्रोपाधिं विना सविषयत्वानुभवात् । तस्मात् साधूक्तम् – ‘ज्ञाने सविषयत्वादेः स्वभावत्वदर्शनात्’ इति ॥
मोक्षे विषयानुल्लेखे ब्रह्मस्वरूपज्ञानस्वभावहान्यापत्त्या ज्ञानत्वाभावमुक्त्वा दोषान्तरमाह – परमपुरुषार्थ इति ॥ त्वया मोक्षावस्थायामात्मनो निर्विषयत्वाङ्गीकारादानन्दाप्रकाशे तदपु-मर्थत्वं स्यादित्यर्थः । नच तदाऽप्यानन्द एव प्रकाशः, न त्वानन्दस्य प्रकाश इति वाच्यम् । सुखरूपताया अपुरुषार्थत्वात् । प्रकाशमानसुखवत्ताया एव पुरुषार्थत्वात् । ननु अर्थोपलक्षित-प्रकाशत्वं मोक्षेऽप्यस्त्येव, इति न ज्ञानत्वहानिरित्यत आह– अर्थप्रकाशत्वेति ॥ मोक्षे ज्ञानोपलक्षणस्याप्यर्थस्य यदि प्रकाशोऽस्ति तदा तदुल्लेखरूपोपप्लवापत्तिः । यदि न प्रकाशस् तदाऽर्थप्रकाशत्वरूपज्ञानस्वाभावाभावाद् घटादिवद् ज्ञानत्वं न स्यादित्यर्थः ।
ननु नार्थप्रकाशात्मकत्वं ज्ञानस्वभावः । किन्तु जडव्यावृत्तिरेव । सा चास्ति मोक्षेऽ-प्यात्मनि, नतु घटादावित्यत आह– अर्थाप्रकाशात्मकेति ॥ अर्थाप्रकाशात्मकं यज्जडं तस्माद् व्यावृत्तिरपि ज्ञानस्यार्थप्रकाशात्मकत्वरूपजडवैधर्म्यादेवेत्यर्थः ।
न्यायामृतकण्टकोद्धारः
अथ जडत्वहेतुं खण्डयितुं विकल्पयति – जडत्वमिति ॥ त्वन्मत इति ॥ परेण कर्तृत्वादिधर्माणामहङ्कारनिष्ठानामात्मन्यध्यस्तत्वाङ्गीकारात् । यथा जपाकुसुमगतं लौहित्यं स्फटिके प्रतिभासते तद्वदिति भावः । शुद्ध इति ॥ तथा च तत्र व्यभिचार इति भावः । व्यभिचारापरिहारादिति ॥ पर्वतो वह्निमान् द्रव्यत्वादित्यत्रापि व्यभिचारपरिहारसम्भवदिति भावः । गौरोऽहमिति ॥ तथा च भागासिद्धिरिति भावः । यदि चेति ॥ साख्यानां करणव्युत्पत्त्या बुद्धिर्ज्ञानम्, वेदान्तिनां ज्ञायतेऽनेनेति व्युत्पत्त्या वृत्तिर्ज्ञानमित्यन्वयः । ननु आत्मनि कथं व्यभिचारः? तस्य ‘‘सत्यं ज्ञानमि’’ति श्रुत्या ज्ञानरूपत्वादित्यत आह – तथा हीति ॥ स्ववृत्तीति ॥ क्रियायाः स्वविषयत्वादर्शनेनात्मरूपज्ञानस्य स्वविषयत्वासम्भवाद-स्वीकार इत्यर्थः । घटादावपीति ॥ घटादौ ज्ञप्तिकर्मत्वज्ञप्तिविषयत्वयोरेकत्वेन ब्रह्मणि ज्ञप्तिकर्मत्वमनभ्युपेत्य ज्ञप्तिविषयत्वाङ्गीकारो विरुद्ध इत्याशयः । कर्म–विषयत्वयोर्भेदमाशङ्क्य परिहरति – न हीत्यादि ॥
॥ किन्त्विति ॥ यद्यप्यत्र ‘ज्ञातैकसती’त्यादिनोक्तदोषतादवस्थ्यम्; तथापि प्रतिबिम्बित-चैतन्यस्य ज्ञप्तित्वे तस्याध्यासानधिष्ठानत्वेनाध्यासिकसम्बन्धस्यातन्त्रत्वापत्त्या तत्परिहारेण वृत्त्यभिव्यक्ताधिष्ठानचैतन्यमेव ज्ञप्तिरित्युक्तमिति मन्तव्यम् ।
यत्तु – पूर्वं स्वकर्मत्वाभावमङ्गीकृत्य व्यवहारजननयोग्यत्वरूपतदङ्गीकारे विरोध इत्यर्थः – इति, तन्न । कारकत्वरूपकर्मत्वाभावमङ्गीकृत्य व्यवहारजननयोग्यत्वरूपकर्मत्वाङ्गीकारेण विरोधाभावात् । कारकत्वरूपमेव यदि कर्मत्वं पुनरङ्गीक्रियेत, तदा हि विरोधावकाश इति । तां च प्रतीति ॥ यद्यपि चैतन्यरूपज्ञप्तिं प्रति कारणत्वं न सम्भवति । तस्या नित्यत्वात् । नापि तज्जन्यावरणाभिभवातिशययोगित्वम् । तस्य वृत्तिसाध्यत्वात् । तथापि चैतन्यप्रतिफल-नोपाधौ वृत्तौ तदुभयसत्त्वेन तत्प्रतिफलितचैतन्ये तदुपचारेण तथोक्तमिति भावः ॥ ब्रह्मणोऽ-पीति ॥ न च इष्टापत्तिरिति वाच्यम् । त्वया चरमवृत्तेरकर्मत्वाङ्गीकारेणापसिद्धान्तात् । न च कारकत्वरूपकर्मत्वाभावेऽङ्गीकृत उक्तरूपकर्मत्वमङ्गीकृतमेवेति कथमपसिद्धान्त इति वाच्यम् । तस्य निर्विशेषत्वेनावरणाभिभवरूपातिशयवत्त्वस्याङ्गीकर्तुमनुचितत्वेनापसिद्धान्तस्य वज्रलेप-त्वात् । मोक्षे पराभावादिति ॥ आत्मातिरिक्तपराभावादित्यर्थः । पराभावेऽपि परविषयत्वं किं न स्यादित्यत आह – वह्निरासीदिति ॥ अन्त्यपक्षं निराकरोति – निर्विषयत्व इति ॥ एवं च ब्रह्म, न ज्ञानम्, निर्विषयत्वादिति फलितानुमानेऽतीतादिज्ञाने व्यभिचारं परिहरति– तद्धीति ॥ सविषयकत्वादेरिति ॥ अत्र कश्चित् । ज्ञानस्य सविषयत्वं हि विषयसम्बन्धः । स च न तात्त्विकः । किन्त्वाध्यासिकः । तात्त्विकसम्बन्धस्य निरूपयितुमशक्यत्वात् । अतो न तस्य स्वाभाविकत्वम् । न हि शुक्तौ रूप्यं स्वाभाविकम् । अत एव ज्ञानौपाधिकमेव सविषयत्वमिच्छादिष्विति तत्रापि न स्वाभाविकमित्याह । तन्न । सविषयत्वं हि विषयोल्लेखित्वम्, न तु विषयाध्यासाधिष्ठानत्वम् । तथात्वे चरमवृत्तेः सविषयत्वं न स्यात् । चरमवृत्तौ चैतन्यारोपाधिष्ठानत्वाभावात् । दृश्यत्वादीनामसिद्धिश्च स्यात् । अध्यासरूप-सविषयत्वासिद्धेः । तस्मादध्यासातिरिक्तं स्वभावविशेषरूपं सविषयत्वमङ्गीकर्तव्यमिति कथं न सविषयत्वं स्वाभाविकम्? एतेन – इच्छादिष्वपि स्वाभाविकमेव सविषयत्वम्, न ज्ञानो-पाधिकम् । उपाध्यननुसन्धाने ज्ञानवदेव सविषयत्वस्य प्रतीतेः । किचैवं वस्तुतो निर्विषयत्वेऽ-पीच्छायाः सविषयकज्ञानजन्यत्वेन सविषयत्वे ज्ञानस्यापि वस्तुतो निर्विषयकत्वेऽपि सविषयकेच्छाजन्यत्वेन सविषयत्वोपपत्तौ स्वाभाविकं तन्न स्यादिति ।
परमेति ॥ तथा च मोक्षस्य पुरुषार्थत्वं न स्यादिति भावः । न च तदाऽऽनन्दस्य प्रकाशाभावेऽप्यानन्दस्य प्रकाशस्वरूपत्वाद् मोक्षस्य पुरुषार्थत्वमिति वाच्यम् । कामनया हि पुरुषार्थत्वम् । सा च सुखी स्यामिति, न तु सुखं स्यामिति । सुखित्वं च सुखानुभववत्त्वम् । तथा च मोक्षावस्थायामात्मरूपज्ञानस्य निर्विषयत्वे आनन्दाप्रकाशादपुरुषार्थत्वमिति । घटादे-रपीति ॥ औपाधिकार्थप्रकाशत्वस्य घटादावपि वक्तुं शक्यत्वादिति भावः ॥ अर्थप्रकाशेति । स्वाभाविकार्थप्रकाशात्मकत्वं विनेत्यर्थः ।
न्यायामृतप्रकाशः
परेति ॥ मायावाद्यपेक्षया परेषां तत्त्ववादिनामस्माकं यदभिप्रेतं तद्वेत्यर्थः ॥ अहमर्थस्यैवेति ॥ तथाच भागासिद्धिरिति भावः ॥ शुद्धेति ॥ तथाचात्मनि व्यभिचार इति भावः ॥ शुद्धेपीति ॥ तथाच हेतोरेवाभावान्न व्यभिचार इति भावः ॥ अपरिहारादिति ॥ अज्ञातृत्वरूपो यो हेतुस्तद-भावस्य कल्पितत्वमुक्तं स्यात् । तथाच न व्यभिचारपरिहारः । अन्यथा पर्वतो धूमवान्वह्नेरित्यत्रापि अयोगोलके कल्पितस्य वह्न्यभावस्य सत्त्वाद्व्यभिचारित्वं न स्यादिति भावः । ननु कल्पितत्वं नाभावविशेषणं किंनामाभावप्रतियोगिनो ज्ञातृत्वस्यैव । एवंच ब्रह्मणि कल्पितज्ञातृत्वसद्भावेन तदभावाभावान्न व्यभिचार इति शङ्कते – कल्पितस्येति ॥ गौरोहमिति ॥ अहमर्थनिष्ठस्य ज्ञातृ-त्वस्य गौररूपवति देहे कल्पितत्वादिति भावः । नन्वत्राहमर्थ एव ज्ञातृत्वं प्रतीयते न देह इति चेन्न । गौरोहमिति गौरत्वाहन्त्वयोः सामानाधिकरण्यप्रतीत्या शरीराहमर्थयोरभेदप्रतीतेरिति भावः । देहादौ पक्षीभूते । तथाच भागासिद्धिरिति भावः ॥ धर्मीति ॥ तथाच नासिद्धिः । देहे प्रतीयमानस्य ज्ञातृत्वस्य कल्पिततया प्रातिभासिकत्वेन व्यावहारिकधर्मिभूतदेहसमसत्ताकत्वाभावादिति भावः ॥ तादृशज्ञातृत्ववतीति ॥ व्यावहारिकधर्मिभूतान्तःकरणसमसत्ताकज्ञातृत्ववतीत्यर्थः । एवंच भागासिद्धिरिति भावः ॥ तादृशेति ॥ पारमार्थिकधर्मिभूतशुद्धब्रह्मसमसत्ताकज्ञातृत्वाभावस्य शुद्धे सत्त्वाद्व्यभिचार इति भावः ।
ननु वृत्तिज्ञाने न भागासिद्धिः । अज्ञानत्वादित्यस्याज्ञप्तित्वादित्यर्थो विवक्षितः । वृत्तिरूपं ज्ञानं च न भावव्युत्पत्त्या ज्ञानशब्दवाच्यं किंतु ज्ञायतेऽनया चैतन्यमिति करणव्युत्पत्त्यैव । भावव्युत्पत्त्या तद्वाच्यंतु वृत्तिप्रतिबिम्बितचैतन्यमेवेत्यतो न दोष इत्याशङ्क्य दूषयति – यदिचेति ॥ यदिच वृत्तिरज्ञप्तिरित्यन्वयः । तत्र विवरणसंमतिमाह– साङ्ख्येति ॥ साङ्ख्या वेदान्तिनश्च साङ्ख्य-वेदान्तिनस्तेषाम् । साङ्ख्यरूपा वेदान्तिन इत्यर्थ इत्यप्याहुः । मत इति शेषः । बुद्धेरन्तःकरणस्य वृत्तिः करणव्युत्पत्त्या ज्ञानमित्यन्वयः । अज्ञप्तित्वमपि वृत्तिरूपे ज्ञाने नास्तीत्यसिद्धिरेवेत्याह ॥ तर्हीति ॥ अपरोक्षवृत्तौ चैतन्यप्रतिबिम्बितत्वनियमात्तस्य च ज्ञप्तित्वात्ततोऽज्ञाननिवृत्त्यादिकं भविष्यतीत्यत उक्तं– परोक्षवृत्त्येति । परोक्षवृत्तौ चैतन्यप्रतिफलननियमादेस्त्वन्मतेऽभावादज्ञान-निवृत्त्यादेर्ज्ञप्तिकार्यस्य ततोपि दर्शनात्परोक्षवृत्तेरपि ज्ञप्तित्वमवश्यमभ्युपेयमतोऽसिद्धिरित्यर्थः । कुत इत्यत आह– तासामिति ॥ स्मृतेः संस्कारद्वारा ज्ञप्तिकार्यत्वं द्रष्टव्यम् । तथाच ज्ञप्तिभिन्नाज् ज्ञप्तिकार्यं न दृष्टमिति भावः ॥
जानामीति ॥ ज्ञा अवबोधन इति धातोर् धर्मादिज्ञप्तिमानित्यनुव्यवसायरूपानुभव इत्यर्थः । ज्ञाधात्वर्थभूतज्ञप्तिविषयत्वं धर्मादौ प्रतीयते । तथाच ज्ञप्तित्वरहितायां परोक्षरूपायां धर्मादिवृत्तौ ज्ञप्तित्वमवगाहमानोऽनुभवः प्रमा न स्यादित्यर्थः । घटादिकं जानामीत्यनुभवः प्रमा न स्यादित्यापादनं तु न शक्यम् । ज्ञप्तित्वरहितायाम् अपरोक्षरूपायां घटादिवृत्तौ ज्ञप्तित्वमवगाहमानानुभवस्य प्रमात्वं भविष्यति अपरोक्षवृत्तेरज्ञप्तित्वेऽपि चैतन्यरूपज्ञप्तिप्रतिबिम्बनसद्भावादतो धर्मादिकमित्युक्तम् ॥
किञ्चात्मनीति ॥ त्वदभिप्रेते आत्मरूपे ज्ञाने ज्ञानत्वाभावस्यापाद्यमानत्वेन तत्राज्ञानत्व-रूपहेतोः सत्त्वाद्व्यभिचार इत्यर्थः । ज्ञानत्वव्यापकानां सविषयत्वज्ञातृसाहित्यप्रमाऽप्रमान्यतर-त्वादीनाभावान्नात्मनो ज्ञानत्वमिति ज्ञानत्वाभावं वक्तुं ज्ञानत्वव्यापकसविषयत्वाभावं तावदुपपादयति – तथाहीति ॥ आत्मरूपं ज्ञानं चैतन्यरूपा ज्ञप्तिरित्यर्थः ॥ स्ववृत्तिविरोधेनेति ॥ तथाहि । लोके क्रिया द्विविधा दृष्टा सकर्मका अकर्मका चेति । तत्राकर्मका क्रिया कर्त्राश्रितैव दृष्टा । यथा शयनासनादिक्रिया देवदत्ताश्रितैव । सकर्मका च क्रिया द्विविधा । काचन कर्त्राश्रिता यथा भोजन-गमनादिक्रिया देवदत्ताश्रिता । काचन कर्माश्रिता । यथा छिदा छेद्यरूपकर्माश्रिता । तदिह ज्ञानरूपाच क्रिया सकर्मकेति कर्माश्रिता कर्त्राश्रिता वा वाच्या । तदत्र चैतन्यस्वरूपभूतज्ञान-रूपक्रियां प्रति ब्रह्मण एव विषयत्वाङ्गीकारे तस्यैव कर्तृत्वात्तस्यैवच कर्मत्वात्कर्तृकर्मक्रियाणां सर्वासामप्येकत्वात्क्रियायाः कर्मीभूतायां स्वस्यामेव वृत्तिः प्राप्ता । इदं च विरुद्धम् । नहि छिदा छिदायां वर्तते । शयनं वा शयने । एवं च स्ववृत्तिविरोधेन ब्रह्मस्वरूपज्ञप्तेः स्वविषयत्वं परैर्नाङ्गीकृतमिति संप्रदायः । (ननु स्यादयं स्ववृत्तिविरोधः । यद्यात्मनः कर्मत्वं स्यात् । न चैतदस्ति येन कर्मीभूतायां स्वस्यामेव वृत्तिप्राप्त्या स्ववृत्तिविरोधःस्यात् ।)
ननु ब्रह्मणः स्वरूपज्ञानं प्रति कर्मत्वाभावेऽपि विषयत्वमस्त्येव । नच तदेव कर्मत्वमिति वाच्यम् । तयोर्भेदात् । तथा च न स्ववृत्तिविरोध इत्याशङ्कते – नन्विति ॥ (तथा च ब्रह्म-स्वरूपभूतं ज्ञानं स्वविषयमेवेति न ज्ञानत्वव्यापकसविषयत्वव्यावृत्तिर्ब्रह्मस्वरूपज्ञाने इति न व्यभिचार इति शङ्कते – नन्विति ॥ पाठान्तरम्) कर्मत्वातिरिक्तं ज्ञानजन्यव्यवहारयोग्यत्वमेव विषयत्वम् । ज्ञाने च स्वविषयविषयकव्यवहारजननयोग्यत्वं स्वविषयकत्वमित्यर्थः । यत्र ज्ञानानन्तरं व्यासङ्गादिना व्यवहारो न जातस्तत्र ज्ञाने स्वविषयविषयकव्यवहारजनकत्वाभावात् तद्विषये च ज्ञानजन्यव्यवहारा-स्पदत्वाभावादव्याप्तिवारणाय योग्यत्वमित्युक्तम् । योग्यत्वं च सहकारिविरहप्रयुक्तकार्याभावः । तदिह ज्ञानानन्तरं व्यवहारे जननीये व्यासङ्गाभावः सहकारी तदभावाद्व्यवहारो न भवति । तत्सद्भावेतु भवत्येवेत्येवं व्यासङ्गदशायामपि उक्तरूपयोग्यतासद्भावान्नाव्याप्तिरिति भावः । ब्रह्मज्ञानस्य स्वकर्म-कत्वाभावेऽपि स्वव्यवहारजननयोग्यत्वरूपं स्वविषयत्वमस्तीत्यत्र परः स्वाचार्यसंमतिमाह– तत्स्वभावस्यापीति ॥ आत्मस्वभावस्यापीत्यर्थः । स्फुरणस्य ज्ञानस्य । तद्विषयत्वं तद्विषयकत्वम् । एतदन्यस्य ज्ञानजन्यव्यवहारयोग्यत्वभिन्नस्य । तथाच घटादौ ज्ञप्तिविषयत्वकर्मत्वयोरेकत्वदर्शनाद् ब्रह्मणो ज्ञप्तिकर्मत्वमनङ्गीकृत्य तद्विषयत्वाङ्गीकारो विरुद्ध इत्यर्थः ।
ननु ज्ञानजन्यव्यवहारयोग्यत्वरूपविषयत्वातिरिक्तं ज्ञप्तिकर्मत्वं घटादावस्त्येवेति उक्तमसदित्या-शङ्क्य निराकरोति – नहीत्यादिना ॥ एकदेशिमतेनाह– तदाकारवृत्तिरिति ॥ घटाद्याकारान्तः-करणवृत्तिरित्यर्थः ॥ तां च प्रतीति ॥ तदाकारवृत्तिर्ज्ञप्तिरिति मते तां प्रति कर्मत्वं नाम तत्कारक-विशेषत्वम् । तत्प्रतिबिम्बितं चैतन्यं ज्ञप्तिरिति मते तां प्रति कर्मत्वं नाम तज्जन्येत्यादिरूपमिति विवेकः । घटादेश्चैतन्यकारकत्वाभावेन तत्कारकविशेषत्वरूपकर्मत्वस्य द्वितीयमतेऽयोगादिति ध्येयम् । कर्त्रादिकारकव्यावृत्त्यर्थं विशेषपदम् ॥ तज्जन्येति ॥ वृत्तिप्रतिबिम्बितचैतन्यजन्येत्यर्थः । अतिशय-विशेषणमेतत् । अतिशययोगित्वम् अतिशयजन्यव्यवहारयोगित्वमित्यर्थो द्रष्टव्यः । अन्यथा प्राप्तप्रकाशप्रतिबन्धरूपावरणस्य योऽभिभवो ध्वंसस् तद्रूपातिशययोगित्वं तदभिव्यक्ताधिष्ठानचैतन्य एव स्यान् न घटादाविति ध्येयम् । यद्वा वृत्तिप्रतिबिम्बितचैतन्यजन्यो य आवरणाभिभवरूपोऽतिशयः भग्नावरणचित्सम्बन्ध इति यावत् । तद्रूपातिशययोगित्वमिति व्याख्येयम् । इदं च घटादावस्तीति ध्येयम् ।
ज्ञानकर्मत्वेन संप्रतिपन्ने दुःखादौ निरुक्तकर्मत्वमव्याप्तमित्याह– ज्ञातैकसतीति ॥ दुःखादीनामविद्यावृत्तितत्प्रतिबिम्बितसाक्षिचैतन्यविषयत्वेनोक्तरूपज्ञप्तिद्वयं प्रति कारकविशेषत्वा-भावादित्यर्थः । एतदुपपादनाय ज्ञातैकसतीत्युक्तम् । दुःखादीनां शुक्तिरूप्यादीनांच प्रातिभासिकत्वेन प्रतीतिसमयमात्रवृत्तित्वेन ज्ञातैकसत्त्वात्तत्र चावरणाभावेन आवरणाभिभवरूपातिशययोगित्वाभावेन कर्मत्वाभावापातात् । तथा दुःखादेर्ज्ञातैकसत्त्वेन ज्ञप्त्यपेक्षया पूर्वभावित्वाभावेन वृत्तिरूपज्ञप्ति-कारकत्वरूपं कर्मत्वमपि नास्ति । कारकत्वस्य जनकत्वगर्भत्वेन तस्य पूर्ववृत्तित्वघटितत्वात् । अतोऽव्याप्तिरित्यर्थः । उक्तयोः कर्मत्वलक्षणयोरतिव्याप्तिंचाह– ब्रह्मणोऽपीति ॥ चरमवृत्तेर्ब्रह्मा-कारतया तां प्रति ब्रह्मणः कारकत्वाच् चरमवृत्तेश्चित्प्रतिफलनाभावे वृत्तेर्मूलाज्ञाननिवर्तकत्वायोगात् तदन्यथानुपपत्त्या घटाकारवृत्तिवच् चित्प्रतिफलनयुक्तताया अवश्यं वाच्यत्वेन ब्रह्माकारवृत्ति-प्रतिफलितचैतन्यं प्रति ब्रह्मणोऽपि कर्मत्वात् । सकलसामर्थ्यविधुरस्य कारकत्वं नास्तीत्येतच्च निराकरिष्यत इति हृदयम् । तादृशचैतन्यजन्यावरणाभिभवरूपातिशययोगित्वाद् ब्रह्मण्यतिव्याप्ति-रित्यर्थः । विषयत्वातिरिक्तं कर्मत्वं निरस्य ज्ञानजन्यव्यवहारयोग्यत्वरूपं विषयत्वमेव कर्मत्वं घटादावित्याह– किंत्विति ॥ तज्ज्ञप्तिर् घटज्ञप्तिः । इत्येव त्वया वाच्यमिति शेषः । तस्य ज्ञप्ति-रूपघटाधिष्ठानचैतन्यस्य । एवं घटचैतन्ययोर्ज्ञप्तिकर्मत्वेऽपि आंतरालिकमेव भेदमाह– इयांस्त्विति ॥ एवं सति कर्मत्वविषयत्वयोरैक्येन ब्रह्मणोऽपि कर्मत्वावश्यम्भावात्स्ववृत्तिविरोधादिति भावः ॥
मोक्ष इति ॥ तथाच मोक्षकाले साक्षिणो निर्विषयत्वं स्यादिति भावः । मोक्षकालेऽपि साक्षिणो मया पूर्वं सुखादिकमनुभूतमित्येवंरूपेणातीतविषयकत्वं भविष्यतीत्याशङ्क्य तदतीतं किं साक्षान्मोक्षे साक्षिणो विषयः । ज्ञानादिद्वारा वा । न तावद्द्वितीयः । उपनायकस्य वृत्तिज्ञानस्य मोक्षेऽ-भावादित्यभिप्रेत्य प्रथमपक्षं निराचष्टे त्वन्मतेचेति ॥ वर्तमानस्यैवेति ॥ योग्यस्यैव सुखादेरित्यर्थः । तथाचातीतसुखादेर् न साक्षात्साक्षिविषयत्वमिति भावः । साक्षिणोऽतीतविषयत्वे दूषणान्तरमाह– वह्निरिति ॥ वह्निरत्र पर्वते पूर्वमासीदित्यनुमितौ यथाऽतीतवह्न्युल्लेखो भवत्येवं मोक्षे सुषुप्तौच अतीतविषयोल्लेखरूपसंसाराख्योपप्लवः स्यात् । तथाच मोक्षसुषुप्त्योर्निष्प्रपञ्चता न स्यादित्यर्थः । तथाच ज्ञानत्वव्यापकसविषयत्वरहितत्वान्न ज्ञानमात्मेति तत्राज्ञानत्वहेतोर्व्यभिचारः सुस्थ इति भावः। आत्मरूपं ज्ञानं निर्विषयमिति द्वितीयपक्षं दूषयति – निर्विषयत्व इति ॥
आत्मा न ज्ञानं निर्विषयत्वाद् घटवदित्यत्र निर्विषयत्वं नाम अवर्तमानविषयत्वं वा अत्यन्ता-सद्विषयकत्वं वा । आद्येऽतीतज्ञाने व्यभिचारः । द्वितीये तुच्छज्ञाने व्यभिचार इति ध्येयम् । ननु निर्विषयत्वे ज्ञानमेव न स्यादित्युक्तमयुक्तं निर्विषयत्वेऽपि कदाचित्सविषयत्वमात्रेण ज्ञानत्वमस्तु । तथाच मोक्षकालीनात्मरूपज्ञानस्य संसारावस्थायां सविषयकत्वाज्ज्ञानत्वमुपपन्नमित्यप्रयोजकता-माशङ्क्य निराकरोति – नचेति ॥ सप्रतियोगिक इति ॥ तथाचाभावादौ सप्रतियोगिकत्वादीनां स्वभावत्वमिव ब्रह्मरूपज्ञानेऽपि सविषयत्वं स्वभाव एवेत्यङ्गीकर्तव्ये कदाचित्सविषयत्वस्या-प्रयोजकत्वात्, मोक्षे चात्मरूपज्ञानस्य सविषयकत्वाभावाज्ज्ञानत्वं न स्यादेवेत्यर्थः । मोक्षे विषयानु-ल्लेखे ब्रह्मरूपज्ञानस्य ज्ञानस्वभावहान्यापत्त्या ज्ञानत्वाभावमुक्त्वा दोषान्तरमाह– परमेति ॥ मोक्षे आत्मरूपज्ञानस्य निर्विषयत्वांगीकारे आनन्दस्य आत्मरूपज्ञानाविषयत्वप्राप्त्या आनन्दाप्रकाश एव स्यात् । तथाच मोक्षस्य परमपुरुषार्थत्वं न स्यादित्यर्थः । नचानन्दरूपत्वाद्युक्तं परमपुरुषार्थत्वमिति वाच्यम् । द्रविणवत्त्वेहि पारिवृढ्यं नतु द्रविणत्वेऽतस्तन्न्यायेनानन्दप्रकाशोऽवश्यं वाच्य इति भावः ।
निर्विषयत्वे ज्ञानमेव न स्याद्धटवदिति भगवत्पादीयवाक्ये निर्विषयत्वाज्ज्ञानमेव न स्यादित्यंश-मुपपाद्य घटवदित्यंशमुपपादयति – अर्थेति ॥ ज्ञानस्वभावेति ॥ ज्ञानस्वरूपलक्षणेत्यर्थः । ‘‘बुद्धिरर्थप्रकाशन’’मिति वचनादिति भावः । नन्वर्थप्रकाशात्मकत्वरूपज्ञानस्वभावाभावेऽपि ज्ञानत्वमस्तु नच घटादेरपि ज्ञानत्वापत्तिर् अर्थाप्रकाशकं यज्जडं तद्व्यावृत्तत्वमेव ज्ञानत्वमित्यङ्गी-कृतत्वाद् घटादेस्त्वर्थाप्रकाशात्मकजडव्यावृत्तेरभावादिति चेन्न । ज्ञानस्यार्थप्रकाशात्मकत्वाभावेऽर्था-प्रकाशकजडव्यावृत्तेरेव वक्तुमशक्यत्वादित्याह– अर्थाप्रकाशेति ॥
न्यायकल्पलता
अथ जडत्वहेतुमपि प्रत्याचिख्यासुस्तत्पञ्चधा विकल्पयति । जडत्वमपीति । कल्पितदूष्य-दूषणपरिहारायोक्तं पराभिप्रेतमिति । आद्याभावे हेतुमाह । त्वन्मत इति । तथाच हेतोर्भागासिद्धि-रिति भावः । शुद्धात्मन इति । एवं च तत्र व्यभिचार इति भावः । साध्यात्यन्ताभाववति तत्र हेतोरेवागमनान्न व्यभिचार इति शंकते । शुद्धेऽपीति । आरोपितेन हेत्वभावेन व्यभिचारो दुरुद्धर इत्याह कल्पितेनेति । अन्यथा तप्तायःपिण्डादावारोपितेन वह्न्यभावेन वह्नेरपि धूमाव्यभिचारः स्यादित्यर्थः । कल्पितत्वेन ज्ञातृत्वं विशिष्य तदभावस्य हेतूकरणान्नासिद्धिः । अहमर्थे स्वसम-सत्ताकस्य ज्ञातृत्वस्य सत्वात् । शुद्धात्मनि त्वारोपितस्य ज्ञातृत्वस्य सत्वान्न व्यभिचारोऽपीति शङ्कते । कल्पितस्येति । गौरोऽहमिति । अहमर्थनिष्ठस्य ज्ञातृत्वस्य गौरदेहेऽध्यस्तत्वादित्यर्थः । धर्मिसमसत्ताकत्वेन ज्ञातृत्वं विशिष्य तदभावो हेतूक्रियते अतो देहादौ नासिद्धिरिति शङ्कते । धर्मिसमसत्त्वस्येति । तादृशेति । धर्मिणोऽन्तःकरणस्य व्यावहारिकत्वात् त्वन्मते तत्समसत्ताकस्य ज्ञातृत्वस्यान्तःकरणे सत्वादित्यर्थः । शुद्ध इति । त्वन्मते शुद्धात्मनि तात्विकस्य धर्मिसत्तासमान-सत्ताकस्य ज्ञातृत्वस्याभावात् तत्र व्यभिचार इत्यर्थः । वृत्तिज्ञान इति । तस्याप्यर्थप्रकाशत्वेन ज्ञानत्वाज्ज्ञाने च ज्ञानत्वस्यावश्यकत्वादित्यर्थः ।
नन्वज्ञानत्वं ज्ञानभिन्नत्वं, ज्ञानं च ज्ञप्तिः । भावल्युडन्तत्वात् । तद्भिन्नत्वं च हेतूकृतं वृत्तिरूपे ज्ञानेऽस्तीति नासिद्धिरिति शङ्कते । यदिचेति । साङ्ख्यरूपा वेदान्तिनः साङ्ख्यवेदान्तिनः । मनोवृत्तेर्ज्ञानभिन्नत्वमुपपाद्य तत्र ज्ञानशब्दप्रवादसमर्थनपरो विवरणग्रन्थः । अज्ञप्तित्वमपि वृत्तिरूपे ज्ञाने नास्तीत्यसिद्धिरेवेति विपक्षबाधकोपदर्शनेनाह । तर्हीति । अपरोक्षवृत्तौ चैतन्यप्रतिफलननियमात् तस्य च ज्ञप्तित्वादज्ञाननिवृत्यादिर्भविष्यतीत्यत उक्तं परोक्षेति । परोक्षवृत्तौ चैतन्यप्रतिफल-नादेस्त्वन्मतेऽप्यभावादज्ञाननियमवृत्यादेर्ज्ञप्तिकार्यस्य ज्ञ्यप्त्यन्यतोऽदर्शनात्परोक्षवृत्तेरपि ज्ञप्तित्वमवश्य-मभ्युपेयमतोऽसिद्धिरित्यर्थः । तासामिति । तदकारणात्कार्यं न दृष्टमिति ज्ञप्त्यकारणाद् ज्ञप्तिकार्यं कथं स्यादिति भावः । परोक्षवृत्तेर्ज्ञप्तित्वसाधकमुपदर्शयन्विपक्षे दण्डमपि दर्शयति । धर्माधर्मादिक-मिति । परोक्षरूपायां धर्मादिवृत्तौ ज्ञप्तित्वाभावे ज्ञप्तित्वमवगाहमानः साक्ष्यनुभवः प्रमा न स्यादिति शेषः । यदि च वृत्युपरक्तचैतन्यस्यैव ज्ञानत्वेन केवलाया वृत्तेः केवलस्य चैतन्यस्याज्ञानत्वं तर्हि वृत्तावसिद्धिपरिहारेऽपि चैतन्ये व्यभिचारो दुरुद्धरः ।
प्रकारान्तरेणात्मनि व्यभिचारमुपपादयिषुराह । किञ्चेति । पराभिप्रेते आत्मरूपे ज्ञाने व्यापका-भावेन ज्ञानत्वाभावस्यापाद्यमानत्वेन तत्राज्ञानत्वरूपहेतोः सत्वाद्व्यभिचार इत्यर्थः । आत्मरूपतया पराभिमते ज्ञाने ज्ञानत्वाभावमापादयितुं तद्व्यापकसविषयत्वाभावं समर्थयते । तथाहीति । ज्ञप्ति-रूपमात्मरूपं ज्ञानमित्यर्थः । स्ववृत्तिविरोधेनेति । क्रिया हि स्वविषये कर्मणि कर्तरि वा केनचित्सम्बन्धविशेषेणेतरव्यावृत्तेन वर्तते । तत्र सकर्मकक्रियातु कर्मणि । यथा च्छिदिक्रिया छेद्ये दार्वादौ समैवेति । कर्त्रसमवेताऽपि गमनक्रिया गम्ये ग्रामादौ केनापि सम्बन्धेन वर्तते एव । अकर्मकक्रियास्तु कर्तर्येव । यथा शयनादिक्रिया देवदत्ते । तत्र ब्रह्म स्वरूपज्ञानक्रियां प्रति विषयः स्यात्, तदा कर्तृकर्मोभयरूपं स्यात् । ततश्चात्मस्वरूपभूतं ज्ञानमात्मस्वरूपे वर्तते । तच्च विरुद्धम् । नहि छिदा छिदायां वर्तते । शयनं वा शयने । एवं स्ववृत्तिविरोधेनात्मस्वरूपज्ञप्तेः स्वविषयत्वं परैर्नांगीकृतमित्यर्थः ।
ननु ब्रह्मस्वरूपज्ञानं प्रति ब्रह्मणो विषयत्वेऽपि न ज्ञानं प्रति ब्रह्मणः कर्तृकर्मत्वान्यतरापत्तिः । कर्मत्वातिरिक्तस्य तज्जन्यव्यवहारयोग्यत्वरूपस्य विषयत्वस्य स्वरूपज्ञानं प्रति ब्रह्मणः सत्वात् । तथा च न स्ववृत्तिविरोध इति शंकते । नन्विति । उक्तमर्थं परः स्वाचार्यसम्मत्या दृढयति । तत्स्व-भावस्यापीति । तथाच ब्रह्मस्वरूपज्ञानस्य स्वकर्मत्वाभावेऽपि स्वजन्यव्यवहारयोग्यत्वरूपं स्वज्ञप्ति-विषयत्वमस्त्येव । एवं च ब्रह्मरूपं ज्ञानं स्वविषयमेवेति न ज्ञानत्वव्यापकसविषयत्वव्यावृत्तिर्ब्रह्मरूपे ज्ञान इति न ज्ञानत्वव्यावृत्तिरतो न तत्र व्यभिचार इति भावः । निष्क्रियब्रह्मस्वरूपज्ञाने स्वव्यवहारजनकत्वानुपपत्या स्वजन्यव्यवहारयोग्यत्वरूपं स्वविषयत्वमसम्भवीति सविषयत्वव्यावृत्या तद्व्याप्यज्ञानत्वव्यावृत्तेरज्ञानत्वापत्या दुरुद्धरस्तत्र व्यभिचार इति दूषणे सत्येव दूषणान्तरमाह । घटादावपीति । ब्रह्म ज्ञातमितिवद्घटो मया ज्ञात इत्यनुभवेन ज्ञप्तिकर्मत्वतद्विषयत्वयोरेकत्वेनाव-गाहनाद्ब्रह्मणि ज्ञप्तिकर्मत्वमनभ्युपेत्य ज्ञप्तिविषयत्वांगीकारो विरुद्ध इत्यर्थः । तथा च ज्ञानं प्रति कर्मत्वविषयत्वयोरभेदात्कर्मत्वाभावे विषयत्वमपि न स्यादित्युक्तो व्यभिचारस्तदवस्थ इति भावः । कर्मत्वविषयत्वयोर्भेदमाशंक्य निराकरोति । नहीति । युक्तमित्यनेनान्वयः । घटाद्याकारवृत्तिं प्रति कर्त्रादिकारकपञ्चकभिन्नकारकत्वं वा, घटाद्याकारवृत्तिजन्यावरणाभिभवरूपातिशययोगित्वं वा, घटाद्याकारवृत्तिप्रतिफलितचैतन्यं प्रति कारकविशेषत्वं वा घटाद्याकारवृत्तिप्रतिबिम्बितचैतन्य-जन्यावरणाभिभवरूपातिशययोगित्वं घटादीनां कर्मत्वम् । विषयत्वं तज्जन्यव्यवहारयोग्यत्वरूपं निरुक्तकर्मत्वादन्यदेवेत्यर्थः ।
कुतो न युक्तमित्यत आह । ज्ञातैकसतीति । मतिबुद्धिपूजार्थेभ्यश्चेति वर्तमाने कर्मणि क्तः । कर्मत्वेन सम्प्रतिपन्ने अनुभूयमानैकसत्स्वरूपे घटादौ निरुक्तं कर्मत्वमव्याप्तमित्यर्थः । प्रत्यक्षयोग्यत्वे स्वाधिकरणकालवृत्तिप्रागभावप्रतियोगिप्रत्यक्षविषयभिन्नत्वं स्वज्ञप्तेः पूर्वमसत्वे सति स्वज्ञप्तिकाल एव विद्यमानत्वं वा ज्ञातैकसत्वम् । तथाच स्वज्ञप्त्यपेक्षया पूर्वभावित्वाभावात् सुखादेर्न ज्ञप्तिकारकत्वरूपं तत्कर्मत्वम् अनुभूतैकसत्वात् स्वत एवावरणाभावे ज्ञप्तिजन्यावरणाभिभवरूपातिशययोगित्वलक्षणमपि कर्मत्वं तु सुखादेर्नास्तीत्यव्याप्तिरित्यर्थः। उक्तकर्मत्वलक्षणयोरतिव्याप्तिमप्याह । ब्रह्मणोऽपीति । घटाकारवृत्तिवच् चरमवृत्तेर् ब्रह्माकारतया तां प्रति ब्रह्मणः कारकत्वात् तज्जन्यावरणाभिभव-रूपातिशययोगित्वाच्च । चरमवृत्तेर्घटाकारवृत्तिवच् चित्प्रतिफलनयुक्तत्वेन ब्रह्माकारवृत्तिप्रतिफलित-चैतन्यं प्रति ब्रह्मणोऽपि कारकत्वात् । तादृशचैतन्यजन्यावरणाभिभवरूपातिशययोगित्वाच्च ब्रह्मण्यतिव्याप्तिरित्यर्थः ।
निरुक्तविषयत्वातिरिक्तं कर्मत्वमव्याप्त्यतिव्याप्तिभ्यां निराकृत्य सुहृद्भावेन पृच्छन्तं प्रति कर्मत्वरूपमेव विषयत्वं घटादावङ्गीकार्यमित्याह । किन्त्विति । तज्ज्ञप्तिर्घटादिज्ञप्तिः । परमते इति शेषः । एवं घटचैतन्यर्योज्ञप्तिकर्मत्वाविशेषेऽप्यान्तरालिकं वैलक्षण्यमस्तीत्याह । इयांस्त्विति । तथा च चैतन्यस्य स्वकर्मत्वमनङ्गीकुर्वाणैः परैः स्वविषयत्वमपि नाङ्गीकार्यमेवेत्यर्थः । ब्रह्मस्वरूपं ज्ञानं परविषयमिति द्वितीयपक्षं निराकरोति । न द्वितीय इति । मोक्ष इति । तथाच मुक्तिदशायां साक्षिणो निर्विषयत्वं स्यादित्यर्थः । ननु मुक्तिकालेऽपि साक्षिणोऽतीतविषयत्वं भविष्यतीत्याशंक्य तत्किमतीतं वस्तु साक्षात्साक्षिणो विषयः ज्ञानोपरागेण वेति विकल्पं हृदि निधाय न द्वितीयोऽसम्भवादित्यभिप्रेत्य प्रथमपक्षं दूषयति । त्वन्मते चेति । वर्तमानस्येति । योग्यस्येति शेषः । अतीतसुखादेर्न साक्षात्साक्षिविषयत्वमिति भावः । साक्षिणोऽतीतार्थविषयत्वे दूषणान्तरमाह । वह्निरासीदिति । मोक्षे सुषुप्तौ च विद्यमाने साक्षिज्ञाने अतीतविषयोल्लेखरूपः संसारः स्यात् । तथा च मोक्षसुषुप्त्योर् निष्प्रपञ्चता न स्यादतो ज्ञानत्वव्यापकसविषयत्वरहितत्वान्न ज्ञानमात्मेति तत्राज्ञानत्वहेतोर्व्यभिचार इत्यर्थः ।
ननु सविषयत्वं न ज्ञानत्वव्यापकं येन ब्रह्मरूपे ज्ञाने तद्व्यावृत्या ज्ञानत्वं व्यावर्तेत तत् किं नाम निर्विषयमप्यात्मरूपं ज्ञानमस्तीति । द्वितीयपक्षमनूद्य दूषयति । निर्विषयत्व इति । अयमभिसन्धिः । यदुक्तं सविषयत्वं न ज्ञानत्वव्यापकमिति । तन्न । इदमहं जानामीति ज्ञानानुभवेन विषयाङ्कितस्यैव ज्ञानस्य सिद्धेः सविषयत्वस्य ज्ञानत्वव्यापकत्वावधारणाद् आत्मस्वरूपज्ञानस्य निर्विषयत्वे ज्ञानत्वमेव न स्यादिति । यद्यपि परमते ज्ञानत्वव्यापकसविषयत्वाभावोपपादनेनैवाज्ञानत्वमात्मनः सिध्यति तथापि ज्ञानत्वव्यापकं सविषयत्वं न भवतीति वेदान्तिब्रुवः परो वैय्यात्याद्वदेत्तदा तं प्रति सविषयत्वस्य ज्ञानत्वव्यापकत्वोपपादनाय तृतीयपक्षोपन्यास इति हृदयम् ।
नन्वात्मा न ज्ञानं निर्विषयत्वाद्घटवदिति भवदभिप्रेते अनुमाने निर्विषयत्वं वर्तमानाविषयकत्वम् उतात्यन्तासद्विषयत्वम् । आद्ये अतीतानागतज्ञानयोर्व्यभिचारः । द्वितीये तुच्छज्ञाने व्यभिचार इत्याशंकां निराचकीर्षुर्हेतुं निर्वक्ति । तद्धीति । विषयानुल्लेखित्वं विषयोल्लेखित्वाभावः । विषयोल्लेखित्वं नाम विषयांकितत्वम् । ज्ञानग्राहकेण साक्षिणा विषयावच्छिन्नस्यैव ज्ञानस्य ग्रहणात् । ज्ञानस्य विषयित्वस्वाभाव्यात् । तदंकितमेव हि तद्धितार्थो न त्वस्तित्वम् । येनोक्तदोषः प्रादुष्यात् ।
ननु विषयानुल्लेखित्वं तदभिलपनरूपव्यवहारजननयोग्यत्वं तेन मौनिज्ञाने न व्यभिचारः । तस्यापि तद्व्यवहारजननयोग्यत्वात् ।
न सोऽस्तिप्रत्ययो लोके यः शब्दानुगमादृते ।
अनुविद्धमिव ज्ञानं सर्वशब्देन गृह्यते ॥
इति वचनात् सामान्यं वात्र विवक्षितम् । तेन पश्वादिज्ञाने नानैकान्त्यमिति चेत् । न । सविषयत्वस्य ज्ञानस्वाभाव्यापातात् । प्रमाणतो वाच्यार्थज्ञानेन तद्वाचकशब्दस्मृतौ भूतायां तदनुविद्धस्यार्थस्य व्यवह्रियमाणत्वात् । अवच्छेदकापरिचये तद्योग्यतायाः परिचेतुमशक्यत्वाच्चेति । नन्वर्थोपलक्षितप्रकाशस्यैव ज्ञानत्वेन मुक्तिदशायामपि तदनपायान्निर्विषयत्वहेतोः स्वरूपासिद्धि-रित्याशङ्क्य निराकरोति । नचेति । सप्रतियोगिक इति । उक्तानुमाने हेतूकृतं निर्विषयत्वं सविषयत्वस्वभावशून्यत्वं तच्चात्मनि कदाचिद्विषयसम्बन्धोऽप्यस्तीति नास्मद्विवक्षितहेतोरसिद्धिः । त्वयाऽऽत्मरूपे ज्ञाने सविषयत्वस्वाभाव्यस्यानभ्युपगमादिति भावः । ननूक्तहेतुसाध्ययोर्व्यतिरेक-सहचारग्रहस्थलाभावान्न व्याप्तिनिश्चय इत्यतो व्यतिरेकसहचारग्रहस्थलं दर्शयितुमुक्तं घटादिज्ञाने इति । ननु तत्स्वरूपानन्तर्गतस्य विषयस्य कथं तत्स्वभावनिरूपकत्वमित्यत उक्तं सप्रतियोगिके अभावादौ सविषयके इच्छादाविति । एवं चाभावसादृश्यादौ यथा सप्रतियोगिकत्वं स्वाभाविकं यथाचेच्छादौ घटादिज्ञाने च सविषयकत्वं स्वाभाविकं तथा ब्रह्मस्वरूपज्ञानेऽपि सविषयत्वं स्वाभाविकमावश्यकम् । ससम्बन्धिकपदार्थस्वरूपानन्तर्गतस्यैव सम्बन्धिनस्तत्स्वभावनिरूपकत्व-दर्शनात् । तच्च परमते न सम्भवति । मुक्तावात्मरूपज्ञानस्य सविषयकत्वाभावात् । अन्यथा निर्विशेषत्वभंगापातादित्यर्थः ।
अत्राहुरद्वैतवादिनः । यदुक्तमभावे सप्रतियोगिकत्ववदिच्छाज्ञानादिष्वपि सविषयकत्वस्य स्वाभाविकत्वादिच्छायामिव ज्ञानेऽपि तस्य समानसत्ताकत्वमिति । तदयुक्तम् । ज्ञानस्य हि सविषयत्वं विषयसम्बन्धः । सच न तात्विकः । किन्त्वाध्यासिकः । तात्विकसम्बन्धस्य निरूप-यितुमशक्यत्वात् । अतो न तस्य स्वाभाविकत्वम् । न शुक्तौ रूप्यं स्वाभाविकम् । एवं च ज्ञानो-पाधिकस्यैव सविषयत्वस्येच्छादिष्वभ्युपगमान्नतरां तस्य स्वाभाविकत्वम् । नचैवं ज्ञानवद्विषयसम्बन्धं विनाऽपि कदाचिदिच्छायाः सत्वापत्तिरिति वाच्यम् । सविषयत्वप्रयोजकोपाध्यपेक्षया अधिक-सत्ताकत्वस्य तत्र प्रयोजकत्वात् । इच्छायाश्च तत्समानसत्ताकत्वात् । एवं च सविषयत्वस्वभाववत्वं न ज्ञानत्वव्यापकमतस्तन्निवृत्याऽऽत्मनि ज्ञानत्वनिवृत्तिर्नेति नाज्ञानत्वस्य हेतोरात्मनि व्यभिचार इति ।
अत्रोच्यते । यदि ज्ञानस्य विषयेणाध्यासिक एव सम्बन्धो न तात्विकस्तर्हि चरमवृत्तावात्मा विषयो न स्यात् । न च वृत्तिप्रतिबिम्बितचैतन्यरूपस्य ज्ञानस्य विषयेणाध्यासिक एव सम्बन्धो नतु वृत्तेरिति वाच्यम् । चरमवृत्तावपि शुद्धात्मगोचराज्ञाननिवृत्यर्थं चित्प्रतिफलनस्यावश्यकत्वात् । वृत्ति-मात्रस्य तत्राज्ञाननिवर्तकत्वे घटादावपि तथात्वापातेन तत्रापि चित्प्रतिफलनाभावापत्या घटादेर्वृत्ति-व्याप्यत्वमेव स्यान्न फलव्याप्यत्वम् । नचैवमात्मनोऽपि फलव्याप्यत्वापत्तौ मिथ्यात्वं प्रसज्येेतेति वाच्यम् । त्यज तर्हि मिथ्यात्वे फलव्याप्यत्वस्य हेतुत्वम् । किञ्चैवं घटाद्याकारवृत्तिप्रतिबिम्बितस्य घटादिविषयत्वं न स्यात् । स्वाकारवृत्तिप्रतिफलितचैतन्ये घटादेरनध्यासात् । परोक्षवृत्तेरतीन्द्रियार्थ-विषयत्वं च न स्यात् । तत्रातीन्द्रियस्याध्यासाभावात् । तस्मान्न ज्ञानस्य विषयेणाध्यासरूपः सम्बन्ध इति स्वसमानसत्ताकत्वात्स्वाभाविकमेव ज्ञाने सविषयत्वम् । एवमिच्छायामपि स्वाभाविकं सविषयत्वम् । घटं जानामीतिवद्घटमिच्छामीति अन्योपाधिं विना सविषयत्वानुभावात् । कामस्तदग्रे समवर्तताधीत्यजन्यकामस्यापि श्रवणात् । तस्मात्साधूक्तं ‘‘ज्ञाने च सविषयकत्वादेः स्वभावत्व-दर्शनात्’’ इति ।
मोक्षे विषयानंकितत्वे ब्रह्मरूपज्ञानस्य ज्ञानस्वभावहान्यापत्या ज्ञानत्वाभावमुक्त्वा दोषान्तरमाह । परमपुरुषार्थ इति । त्वया मोक्षावस्थायामात्मनो निर्विषयत्वांगीकारादानन्दाप्रकाशे तदपुमर्थत्वं स्यादित्यर्थः । नच तदाप्यानन्द एव प्रकाशो नत्वानन्दस्य प्रकाश इति देश्यम् । अप्रकाशमान-सुखरूपतायाः संसारदशायामपि सत्वेनापुरुषार्थतयाऽनुभूयमानसुखरूपताया एव परमपुरुषार्थत्वात् । प्रकाशमानानन्दरूपता हि परमपुरुषार्थः । आनन्दप्रकाशलक्षणपुरुषार्थताया लौकिकालौकिक-पुरुषार्थसाधारणत्वात् । एतदभिसन्धायोक्तं परमपुरुषार्थे मोक्ष इति ।
नन्वर्थोपलक्षितप्रकाशत्वं तदाऽप्यस्त्येवेति न ज्ञानत्वहानिरित्यत आह -अर्थप्रकाशत्वेति । मोक्षदशायां ज्ञानोपलक्षणत्वं नानन्दरूपार्थस्य । यावद्वस्तुभावित्वात्तद्रूपत्वाच्च । अन्यस्य तदुपलक्षण-स्याप्यर्थस्य यदि मोक्षे प्रकाशोऽस्ति तर्हि तदुल्लेखरूपोपप्लवापत्तिः । यदि न प्रकाशस्तदाऽर्थ-प्रकाशत्वरूपज्ञानस्वभावाभावाद्घटादिवज् ज्ञानत्वं न स्यादित्यर्थः । ननु नार्थप्रकाशात्मकत्वं ज्ञान-स्वभावः किन्तु जडव्यावृत्तिरेव । साचास्ति मोक्षेऽप्यात्मनि । नतु घटादावित्यत आह । अर्थाप्रकाशात्मकेति । नच वृत्तिज्ञाने अव्याप्तिः । परमते मनोवृत्तेरज्ञप्तित्वात् । तत्वविन्मते तु अज्ञातृत्वं जडत्वमित्यदोषः । वृत्यजन्यजडस्य लिलक्षयिषतत्वाद्वा । अर्थाप्रकाशात्मकं यज्जडं तस्माद्व्यावृत्तिरपि ज्ञानस्यार्थप्रकाशात्मकत्वरूपजडवैधर्म्यादैवेत्यर्थः । विमत आत्मा न प्रकाशः प्रकाश्यशून्यत्वादन्धकारवदित्यनुमानं प्रयोक्तव्यम् ।
न्यायामृतसौगन्ध्यं
नन्वस्तु जडत्वं हेतुः । तच्च ज्ञानभिन्नत्वम् । न चात्मनि व्यभिचारः । अर्थोपलक्षितप्रकाशस्यैव ज्ञानत्वेन मोक्षदशायां तदनपायादिति चेन्न । मोक्षान्वयिशुद्धस्वरूपस्य कदाप्यर्थवैशिष्ट्याभावेनार्थोप-लक्षितत्वासम्भवात् ।
किञ्चाभावे सप्रतियोगिकत्ववद् ज्ञानेऽपि सविषयकत्वं स्वाभाविकं ज्ञानसमसत्ताकं च वृत्यात्मके ज्ञाने तथैव दृष्टम् । एतेन ज्ञानस्य सविषयकत्वं विषयसम्बन्धः । स च न तात्त्विकः किन्त्वाध्यासिकः । तात्त्विकसम्बन्धस्य निरूपयितुमशक्यत्वात् । अतो न तस्य स्वाभाविकत्वमिति निरस्तम् । जगन्मिथ्यात्वसिद्धेः प्रागाध्यासिकसम्बन्धासिद्ध्या हेतोस्साध्यसमत्वात् ।
किञ्च त्वया मोक्षावस्थायामात्मनो निर्विषयत्वाङ्गीकाराद् आनन्दाप्रकाशे तदपुमर्थत्वं स्यात् । एतेन ‘आनन्दस्य प्रकाशः’ इत्युक्ते आनन्दसम्बन्धिप्रकाशभावो मोक्षे ममेष्टः । पुमर्थत्वमपि पूर्णानन्दावरणविरोधिवृत्तिसम्भव इति निरस्तम् । वृत्तिविशिष्टरूपस्य मिथ्यात्वेन परमपुमर्थत्वाभावेन तदुद्देशेन श्रवणादिप्रवृत्त्यसम्भवात् । न च तदाऽनन्द एव प्रकाशः न त्वानन्दस्य प्रकाश इति वाच्यम् । प्रकाशस्य पुमर्थत्वे दुःखप्रकाशोऽपि हि पुमर्थस्स्यात् ।
न्यायामृतमाधुरी
कल्पितं विपर्यस्तम् । कल्पितेनेत्यादि । वह्निना धूमसाधनेऽपि निर्धूमे अयोगोलकादौ विपर्यस्तस्य वह्न्यभावस्य सत्वादनैकान्त्यं न स्यादित्यर्थः । देहे प्रातिभासिकस्य ज्ञातृत्वस्य सत्वेऽपि व्यावहारिकस्याभावेन धर्मिसत्तासमसत्ताकस्य ज्ञातृत्वस्यभावोऽस्तीति शङ्कते धर्मीत्यादि । भागासिद्धेर् अन्योन्याभावस्य नासिद्धिरिति प्रतियोगितावच्छेदकेन सह विरोधादिति भावः । करणे-त्यादि । ल्युटो भाव इव करणाधिकरणयोश्चेति करणेऽप्यनुशिष्टत्वादिति भावः । अनुभवः ज्ञप्तिगोचरप्रमारूपानुव्यवसायः । स्ववृत्तिविरोधेन स्वस्मिन् क्रियात्वकर्मत्वयोर् वृत्तेः सहावस्थानस्य विरोधेन दौर्घट्येन । आत्मरूपज्ञानस्य स्वविषयतायाम् एकत्रैव क्रियात्वकर्मत्वसमावेशापत्या दुरुपगमत्वादिति भावः । ग्रामं गच्छति त्यजतीत्यादौ ग्रामादेः क्रियाजन्यसंयोगविभागरूप-फलाश्रयतया मुख्यकर्मत्वस्येवात्मनि तादृशफलाश्रयताविरहेण मुख्यकर्मत्वायोगेऽपि स्वगोचर-व्यवहारजनकतावच्छेदकधर्मावच्छिन्नत्वरूपतद्योग्यत्वात्मकस्वविषयत्वरूपगौणकर्मत्वोपगमे न क्षति-रित्याशङ्कते– नन्वित्यादि ।
घटं जानातीत्यादावपि धातूपात्तक्रियाजन्यफलाश्रयताया घटादौ प्रत्याख्यास्यमानतया स्वविषयकवस्त्वभिधायकधातूपात्तक्रियानिरूपितविषयताया एव तादृशधातुसमभिव्याहारस्थले कर्मतारूपतया तद्दिशैवात्मन्यपि सा सूपपादेत्याह– घटादावित्यादिकज्ञप्तिकर्मेत्यन्तेन । वृत्तिश्चैतन्यं वा ज्ञप्तिरिति मतद्वयीमभिप्रेत्य तथानिर्देशः । तत्कारकविशेषत्वं जानात्यर्थनिरूपितकर्तृकरणाधि-करणभिन्नकारकत्वम् । तज्जन्येत्यादि वृत्तिरावरणाभिभवार्थेति मतमनुरुध्य । ज्ञातैकसति स्वविषयक-ज्ञानाधिकरणत्वव्याप्यस्वाधिकरणताकक्षणवर्तिनि । सुखादेर्ज्ञप्तिपूर्वकालवृत्तिताविरहेण तद्धेतुत्वरूप-कारकत्वस्य स्वत एव भग्नावरणकतया तादृशाभिभवस्य चाभावं ध्वनयितुमिदम् । ब्रह्मणोऽपीति । घटादेः स्वाकारवृत्या तत्प्रतिफलितचैतन्येन वा निरूपितकारकताविशेषिततया तज्जन्यतदभिभवाख्य-फलभागितया च तत्तत्कर्मतेव ब्रह्मण्यपि तुल्यदिशा स्वाकारचरमवृत्तिं तत्प्रतिबिम्बितचैतन्यं प्रति वा तथा कर्मतायाः सूपपादिततयाऽतिप्रसङ्ग इति भावः । मोक्ष इति । विषयिताप्रत्यासत्या विषया-विशेषितत्वेन ज्ञानत्वाभावसाधनादिति भावः । मोक्षदशायां साक्षिज्ञानस्यातीतविषयविशेषितत्वोपगमेन हेतोरसिद्धिशङ्कापरिजिहीर्षया तादृशज्ञानस्यातीतवृत्तिमुख्यविशेष्यतानिरूपकत्वमुपेयते । अतीतमहं जानामीति नैय्यायिकाभिमतानुव्यवसायस्थानाभिषिक्तसाक्षिनिरूपितात्मनिष्ठविशेष्यतानिरूपित-स्वामितासंसर्गावच्छिन्नज्ञाननिष्ठप्रकारत्वाभिन्नविषयितासम्बन्धावच्छिन्नविशेषितानिरूपितातीत-प्रकारतानिरूपकता वेति कल्पद्वयीमभिप्रेत्याद्यमपाकुरुते– त्वन्मत इति । साक्षात्साक्षिविषयत्वात् साक्षिनिरूपितमुख्यविशेष्यताशालित्वात् । एवकारेणातीतानागते व्यवच्छिद्येते । उपप्लवः संसारः ।
हेतूकृतनिर्विषयत्वस्य अविद्यमानविषयकत्वरूपस्यात्यन्तासद्विषयकत्वरूपस्य चानभिप्रेततया अतीताद्यर्थ विषयकसाम्प्रतिकज्ञानेऽलीकज्ञाने च तत्साधारण्येऽपि किञ्चिद्वृत्तिविषयतानिरूपक-भिन्नत्वरूपाभिप्रेतस्य तत्साधारण्यविरहेण क्षत्यभावादित्याह– तद्धीति । ननु सविषयकत्वस्य विषयितयाविषयविशेषितत्वरूपस्य कालिकाव्याप्यवृत्तितया तदवच्छिन्नप्रतियोगिताकभेदस्य च व्याप्यवृत्तितया साक्षिज्ञानस्य मोक्षदशायामर्थाविशेषितत्वेऽपि संसृतिदशायां तद्विशेषिततया अथापि लक्षितप्रकाशस्यैव ज्ञानत्वेन मोक्षदशायामपि तदनपायेन तदवच्छिन्नप्रतियोगिताकभेदस्य तत्राप्य-योगेनासिद्धिरित्याशङ्कायां प्रतियोगितानिरूपकत्वकारणतानिरूपकत्वादेरिव तादृशधर्मस्य नैसर्गिकतया कालिकाव्याप्यवृत्तिताविरहेण मोक्षदशायां साक्षिज्ञाने तद्धर्मानुपगतौ कदाप्यनुपगतिप्रसङ्गेन तदवच्छिन्नप्रतियोगिताकभेदस्य तत्राव्याहततयाऽसिद्ध्यनवतारादित्याह– न चेत्यादिकायोगा-च्चेत्यन्तेन ।
अत्राद्वैतसिद्धिकारः– ज्ञानस्य हि सविषयकत्वं विषयसम्बन्धः । स च न तात्विकः किन्त्वा-ध्यासिको ऽतो न तस्य स्वाभाविकत्वम् । वक्ष्यमाणरीत्या तात्विकसम्बन्धस्य निरूपयितुमशक्य-त्वात् । नहि शुक्तौ रूप्यं स्वाभाविकम् । एवं च ज्ञानोपाधिकस्यैव सविषयकत्वस्येच्छादिष्वभ्युप-गमान्न नितरां तस्य स्वाभाविकत्वम् । न चैवं ज्ञानवद्विषयसम्बन्धं विनापि कदाचिदिच्छायाः सत्वापत्तिरिति वाच्यम् । सविषयत्वप्रयोजकोपाध्यपेक्षयाऽधिकसत्ताकत्वस्य तत्र प्रयोजनत्वात् । इच्छायाश्च तत्समानसत्ताकत्वादिति प्रतिपपाद तद्रभसात् । विषयविषयिसम्बन्धाध्यासिकताया जगदलीकतासिध्यधीनतया अद्यापि गहननिविष्टत्वाद् वक्ष्यमाणदिशा सम्बन्धाध्यासिकताया निरूपयितुमशक्यत्वात् । परमेति । मोक्षदशायामात्मनो निर्विषयत्वोपगत्या तदनवगाहितायाः पुरुषैरर्थ्यमानत्वाभावेन प्रवृत्युद्देश्यत्वरूपफलत्वानुपपत्तिरित्यर्थः । यदत्रानन्द एव प्रकाशो नत्वानन्दस्य प्रकाश इति निबन्धनं तदपि प्रकाशस्यानन्दकर्मकत्वाभावेन प्रवृत्युद्देश्यत्वरूपफलत्वा-भावेनैव निरस्तम् । अर्थेति । ब्रह्मरूपज्ञानेन दर्शितोपप्लवापत्योपलक्षणत्वेनोपगतमपि यदि नावगाढं तदाऽर्थावगाहिवत्वरूपस्वभावापाये ज्ञानत्वं न स्यादित्यर्थः । अर्थावगाहित्वरूपप्रवर्तकतावच्छेद-कानुपगमे तदनवगाहिजडव्यावृत्ययोगादित्याह– अर्थेति ।