दृश्यत्वहेतूक्तिरपि— स्तम्भादिप्रत्ययो मिथ्या प्रत्ययत्वात्तथा हि यः
१३. अथ दृश्यत्वहेतुभङ्गः
न्यायामृतं
दृश्यत्वहेतूक्तिरपि—
स्तम्भादिप्रत्ययो मिथ्या प्रत्ययत्वात्तथा हि यः ।
प्रत्ययस्स मृषा दृष्टः स्वप्नादिप्रत्ययो यथा ॥
इति बौद्धोक्तयुक्तिच्छर्दिमात्रम् । इयांस्तु (भेदः) विशेषः — बौद्धमते ह्य-प्रामाण्यस्य स्वतस्त्वात्तद्युक्तम् । त्वन्मते तु प्रामाण्यस्य स्वतस्त्वात्तदयुक्तमिति ।
किं चेदं दृश्यत्वं वृत्तिव्याप्यत्वम्? फलव्याप्यत्वं वा? साधारणं वा? कदाचित् कथञ्चिद्विषयत्वं वा? स्वव्यवहारे स्वातिरेकिसंविदपेक्षानियतिर्वा? अस्वप्रकाशत्वं वा? नाद्यः । आत्मनोऽपि वेदान्तजनितवृत्तिव्याप्यत्वात् । अन्यथा ब्रह्मपराणां वेदान्तानां ब्रह्मज्ञानार्थं श्रवणादिविधेश्च वैयर्थ्यम् । ब्रह्म विचारयतोर्गुरुशिष्ययोर्मौनं मौढ्यं च स्यात् ।
किं च ब्रह्मजिज्ञासा ब्रह्मज्ञानमित्यादौ कर्मणि षष्ठी, तमेव धीरो विज्ञायेत्यादौ द्वितीया, दृश्यते त्वग्र्यया बुद्ध्येत्यादौ तिङ्, आत्मा वा ओ द्रष्टव्य इत्यादौ तव्यादिप्रत्ययश्च न स्यात् । दृशोऽज्ञाने दृग्विषयत्वरूपदृश्यत्वज्ञानं च न स्यात् । ‘‘सर्वप्रत्ययवेद्ये च ब्रह्मरूपे व्यवस्थिते’’ इत्यादिस्ववचनविरोधश्च स्यात् ।
न च विपक्षे धर्मिसमसत्त्वस्य हेतोर्वृत्तिर्व्यभिचारः, न त्वारोपितस्य, अति-प्रसङ्गात् । दृश्यत्वं च व्यावहारिके जगतीव पारमार्थिकात्मन्यपि व्यावहारिकमेवेति न व्यभिचार इति वाच्यम् । ब्रह्मजगतोः पारमार्थिकत्वव्यावहारिकत्वविभागस्या-द्याप्यसिद्धेः । किं च पक्षे धर्मिसमसत्त्वस्य साध्यस्याभावो बाधः । पक्षे हेतोर्धर्मि-समसत्ताकस्य सत्त्वं च सिद्धिः, तदभावोऽसिद्धिः । तथा चात्मनि तात्त्विकधर्महीने स्वप्रकाशत्वादिरूपसाध्यस्य बाधः । तत्साधकानुभूतित्वादेश्चासिद्धिः । एवं विपक्षे धर्मिसमसत्ताकः साधनस्याभावोऽव्यभिचारित्वम् । तथा च दृश्यत्वादीनाम् आत्मनि व्यभिचार इति च स्यात् ।
तस्माद्यथाऽऽत्मनः पक्षत्वे तत्र व्यावहारिकस्य हेतोस्सत्त्वान्नासिद्धिः, तथा तस्य विपक्षत्वेऽपि व्यावहारिकस्य हेतोस्सत्त्वाद्व्यभिचारः । अथ धर्मिसमसत्त्वं हेतुविशेषणम्, तर्ह्यात्मन्येवं विधधर्मस्य कस्याप्यभावाद्विषयत्वादिरेव मिथ्यात्वे हेतुः स्यात् । मम रीत्या आत्मनि व्यभिचारश्च । दृष्टान्तस्य साधनवैकल्यं च ।
अद्वैतसिद्धिः
ननु– मिथ्यात्वे साध्ये हेतूकृतं यद् दृश्यत्वं तदप्युपपादनीयम् । तथा हि– किमिदं दृश्यत्वम्? वृत्तिव्याप्यत्वं वा? फलव्याप्यत्वं वा? साधारणं वा? कदाचित् कथंचिच् चिद्विषयत्वं वा? स्वव्यवहारे स्वातिरिक्तसंविदन्तरापेक्षानियतिर्वा? अस्वप्रकाशत्वं वा? नाद्यः, आत्मनो वेदान्त-जन्यवृत्तिव्याप्यत्वेन तत्र व्यभिचारात् । अत एव न तृतीयोऽपि । नापि द्वितीयः नित्यातीन्द्रिये शुक्तिरूप्यादौ च तदभावेन भागासिद्धिसाधनवैकल्ययोः प्रसङ्गात् । नापि चतुर्थः, ब्रह्म पूर्वं न ज्ञातमिदानीं वेदान्तेन ज्ञातमित्यनुभवेन आत्मनि व्यभिचारात् । नापि पञ्चमः, ब्रह्मण्यप्य-द्वितीयत्वादिविशिष्टव्यवहारे संविदन्तरापेक्षानियतिदर्शनेन व्यभिचारात् । नापि षष्ठः, स हि अवेद्यत्वे सत्यपरोक्षव्यवहारयोग्यत्वाभावरूपः । तथा च शुक्तिरूप्यादेरपि अपरोक्षव्यवहारयोग्यत्वेन साधन-वैकल्याद् इति चेन्मैवम्, फलव्याप्यत्वव्यतिरिक्तस्य सर्वस्यापि पक्षस्य क्षोदक्षमत्वात् । न च वृत्तिव्याप्यत्वपक्षे ब्रह्मणि व्यभिचारः, अन्यथा ब्रह्मपराणां वेदान्तानां वैयर्थ्यप्रसङ्गादिति वाच्यम्, शुद्धं हि ब्रह्म न दृश्यम्, ‘यत्तदद्रेश्यम् इति श्रुतेः, किंतूपहितमेव, तच्च मिथ्यैव, न हि वृत्तिदशायाम् अनुपहितं तद्भवति । न च ‘सर्वप्रत्ययवेद्ये वा ब्रह्मरूपे व्यवस्थिते’ इति स्ववचनविरोध इति वाच्यम्, तस्याप्युपहितपरत्वात् ।
न्यायामृततरङ्गिणी
हेतुं निराचष्टे– दृश्यत्वेति ॥ मिथ्या मिथ्यार्थविषयकः प्रत्ययत्वादिति मीमांसकरीत्या त्र्यवयवप्रयोगः । नचालयविज्ञाने शून्यविज्ञाने च व्यभिचारः; विशिष्टप्रत्ययत्वस्य विवक्षित-त्वात् । छर्दिः ष्ठीवनम् । बौद्धमत इति । स्तम्भादिप्रत्ययस्यासदर्थविषयकत्वरूपाप्रामाण्यं स्तम्भादिप्रत्ययग्राहकेणोत्सर्गत एव गृहीतम्, इत्यनुकूलतर्कसद्भावादुक्तानुमानेन स्तम्भादि-प्रत्ययस्य मिथ्यार्थकत्वसिद्धिः । अन्यमते तु घटादिज्ञाने प्रामाण्यस्य सदर्थकत्वस्य स्वतस्त्वाद् बुभुत्सिताग्राह्यज्ञानग्राहकेण साक्षिणा प्राक् मिथ्यात्वानुमानात् प्रामाण्यमेव गृहीतम् इति पश्चात् प्रवृत्तस्य मिथ्यात्वानुमानस्य बाधिततया न स्वसाध्यसाधकत्वमित्यर्थः । सम्भावित-प्रकारान् दृश्यत्वस्य दूषयितुं पृच्छति – किंचेति ॥ वृत्तीति ॥ इन्द्रियार्थसन्निकर्षाद् बाह्येन्द्रिय-द्वारा निस्सृतान्तःकरणपरिणामो वृत्तिः । तद्व्याप्यत्वं तया प्राप्यत्वम् । तया सह सम्बन्ध-विशेष इत्यर्थः । फलेति ॥ उक्तरूपायां वृत्तौ प्रतिबिम्बितं चैतन्यं फलम् । तेन सम्बन्धस् तद्व्यप्यत्वमित्यर्थः ।
साधारणमिति ॥ वृत्तिव्याप्यत्वफलव्याप्यत्वयोरनुगतं व्यवहारप्रयोजकविषयत्वं वा, तदन्यतरत्वादिकं वेत्यर्थः । कदाचिदिति ॥ स्वस्याविद्यमानतादशायां चिदविषयत्वेऽपि विद्यमानतादशायां चिद्विषयत्वं कदाचिच् चिद्विषयत्वम् । ‘धर्मं न जानामी’त्यज्ञानोपरागेण वा, ‘घटं जानामी’ति ज्ञानोपरागेण वा चिद्विषयत्वं कथंचिच् चिद्विषयत्वमित्यर्थः । स्वव्यवहार इति ॥ अद्वितीयत्वादिविशिष्टचैतन्यव्यवहारेऽपि स्वातिरिक्तसंविदपेक्षाऽस्तीत्य-व्यभिचाराय – नियतिरिति ॥ स्वातिरिक्तसंविदपेक्षाव्याप्यस्वव्यवहारकत्वं तदर्थः । चैतन्ये तु स्वातिरिक्तसंविदन्तराभावेऽपि सुषुप्तौ नित्यसिद्धस्फुरणरूपव्यवहारदर्शनान् न तन्नियम इत्यर्थः ॥ अस्वप्रकाशत्वं वेति ॥ परप्रकाश्यत्वाभाव इत्यर्थः ॥ आत्मन इति ॥ वेदान्त-जन्येनोक्तरूपमनःपरिणामेन वृत्त्याऽऽत्मनोऽपि व्याप्यमानत्वात् तत्र व्यभिचार इत्यर्थः ॥ अन्यथेति ॥ आत्मनो वृत्तिव्याप्यत्वानङ्गीकार इत्यर्थः । ननु न वेदान्तवैयर्थ्यम्; जपाद्यर्थ-वत्त्वोपपत्तेरित्यत्राह– ब्रह्मपराणामिति ॥ उपक्रमादिलिङ्गैर्ब्रह्मप्रतीतिच्छया पूर्वपूर्वाध्यापको-च्चारितानामित्यर्थः ॥ श्रवणादिविधेश्चेति ॥ फलाभावादित्यर्थः ।
ननु न फलाभावः श्रवणविधेर्विश्वजिन्न्यायेन स्वर्गफलवत्त्वस्यान्ततः सम्भवादित्यत उक्तम् – ब्रह्मज्ञानार्थमिति ॥ ‘आत्मो वा ओ द्रष्टव्यः श्रोतव्यः’ इत्यत्र श्रवणेन भावयेत् किम्? इति फलाकाङ्क्षायां वाक्येन दर्शनं विनियुज्यते, नतु व्यवहितं स्वर्गादि सम्बध्यते । सन्निहितफलाभाव एव व्यवहितस्य कल्पनात् । अतः श्रवणविधिर्ब्रह्मज्ञानार्थस्त्वन्मते व्यर्थः स्यादित्यर्थः । ननु न श्रवणविधिर्ब्रह्मज्ञानार्थः । ब्रह्मणोऽदृश्यतया सन्निहितस्यापि दर्शनशब्दस्य तदबोधकत्वात् । अन्यथा भावयेत् किम्? इत्यपेक्षायां समानपदोपात्तं श्रवणमेव वाक्योपात्त-दर्शनापेक्षयाऽतिसन्निहितं फलत्वेन सम्बध्येत । एवं च सन्निहितफलाभावे व्यवहितस्यापि ग्राह्यतया स्वर्गाद्यर्थ एव श्रवणविधिः । अतो न व्यर्थ इति यो ब्रूयात् तं प्रत्याह– ब्रह्म विचारयतोरिति ॥ ब्रह्म विचारयतोर् ब्रह्म विचारयितुमुपक्रान्तयोः । गुरोर्मौनम्, शिष्यस्य मौढ्यम् । चकारः पूर्वदूषणसमुच्चये । यद्वोभयेषामुभयम् ।
ननु आपाद्यमानं मौनं शब्दवक्तृत्वाभावो वा? वेदान्तरूपशब्दवक्तृत्वाभावो वा? ब्रह्म-ज्ञानोद्देश्यकशब्दवक्तृत्वाभावो वा? नाद्यः; अज्ञेयत्वेऽपि ब्रह्मणस्तद्विचारे प्रवृत्तयोर्देहनिर्वाहादि-हेतुभूतशब्दप्रयोगे विरोधाभावात् । न द्वितीयः; ब्रह्माबोधकस्यापि वेदान्तरूपशब्दस्य स्तुत-शास्त्राधिकरणन्यायेन वचनोपपत्तेः । न तृतीयः; इष्टापत्तेः । ब्रह्मणो ज्ञानाविषयत्वेन तज्ज्ञानो-द्देशेन शब्दप्रयोगस्य मयाऽनङ्गीकरणात् । नचैवं ब्रह्मविचारे वेदान्तवाक्यप्रयोगवैय्यर्थ्यमिति वाच्यम् । वेदान्तवाक्यैरेव ब्रह्मविचारस्य विहिततया तत्प्रयोगसम्भवात्, ‘वेदान्तविज्ञानसु-निश्चितार्थाः’ इति श्रुतेरितिचेत्, उच्यते । उपक्रमादिलिङ्गकस्य ब्रह्मज्ञानेच्छापूर्वकोच्चरितत्वरूप-वेदान्तनिष्ठब्रह्मविषयकतात्पर्यावधारणरूपस्य विचारस्यासिद्धेर्मौनशब्दार्थत्वेन विवक्षितत्वात् । ब्रह्मणोऽज्ञेयत्वे निरुक्तविचारस्यासम्भवत्स्वरूपत्वात् । मौढ्यशब्देन ब्रह्मज्ञानप्रागभावा-भावोऽभिप्रेत इति न कश्चिद् दोषः ॥
ब्रह्मजिज्ञासेति ॥ कृदन्तजिज्ञासाशब्दयोगे जिज्ञासाकर्मभूतब्रह्मगतकर्मत्वमभिदधानाद् ब्रह्मशब्दात् षष्ठी ‘कर्तृ-कर्मणोः कृती’ति सूत्रात् । तस्याश्च ‘प्रतिपदविधाना षष्ठी न समस्यते’ इति समासनिषेधेऽपि ‘कृद्योगलक्षणा षष्ठी समस्यते’इति प्रतिप्रसवात् समासे जाते ‘सुपो धातुप्रातिपदिकयोः’ इति सूत्रेण षष्ठीलोपे ब्रह्मजिज्ञासेति पदं निष्पद्यते । एवं ब्रह्मज्ञानमित्यपि । एवं च ‘ब्रह्मजिज्ञासा’ ‘ब्रह्मज्ञानमि’त्यादौ कर्मत्वार्थकषष्ठ्यर्थान्तर्भावेण वाक्यार्थो न स्यात् । षष्ठ्यर्थान्तर्भावश्च समासशक्त्या वा पूर्वपदलक्षणया वा लुप्तषष्ठीस्मृत्या वा षष्ठ्यर्थोपस्थिता-वित्यन्यदेतत् । ज्ञानापरपर्यायवृत्त्यव्याप्यत्वे ब्रह्मणो ज्ञानक्रिययाऽऽप्तुमिष्टतमत्वरूपज्ञानकर्मत्वानु-पपत्त्योक्तषष्ठ्यर्थान्तर्भावेण वाक्यार्थो न निष्पद्येतेति भावः ॥ तमेवेति ॥ कर्मणीति द्वितीया तिङ्तव्यादिषु सम्बध्यते ॥ दृशोऽज्ञान इति ॥ विशेषणाज्ञाने विशिष्टाज्ञानादित्यर्थः ।
ननु मैव दृशं ज्ञासीत्, तथापि वृत्तिव्याप्यत्वरूपोक्तहेतुः सुज्ञान एव, नहि दृग्विषयत्वरूपं दृश्यत्वमत्र हेतुत्वेनाभिप्रेतमित्यत आह– दृग्विषयत्वेति ॥ अयमर्थः नात्र प्रकृतहेतोर-ज्ञानमापाद्यते । किंतु मिथ्यात्वे साध्ये वृत्तिव्याप्यत्वरूपं पारिभाषिकं दृश्यत्वं हेतूकुर्वताऽपि प्रकृतिप्रत्ययावगतदृग्विषयत्वरूपदृश्यत्वमपि दुरपह्नवम् । परं तु तत् तेन हेतुत्वेन नाभिप्रेतम् । एवं च हेतुत्वेनानभिमतोऽपि दृग्विषयत्वरूप उपाधिर्यदि वृत्तिव्याप्यस् तदा तदुपाधिविशेषणी-भूतदृशोऽपि वृत्तिव्याप्यत्वमवर्जनीयमेव । यदि न वृत्तिव्याप्यः, तदा तदुपाधेर्न मिथ्यात्वसिद्धिः, भागासिद्धिश्च स्यादिति ।
ननु शब्दाजन्यवृत्तिविषयत्वमेव दृश्यत्वम् । अन्यथा ‘शाविषाणं तुच्छमि’त्यादि- शब्द-जन्यवृत्तिविषये तुच्छे व्यभिचारस्य दुरुद्धरत्वापातात् । एवं च सति शुद्धस्य वेदान्तजन्य-वृत्तिविषयत्वेऽपि न तत्र व्यभिचारः । शुद्धतुच्छयोः शब्दाजन्यवृत्तिविषयत्वानभ्युपगमात् । यद्वा – सप्रकारकवृत्तिविषयत्वमेव दृश्यत्वम् । प्रकारश्च सोपाख्यः कश्चिद्धर्मः । तेन निष्प्रकारक-ज्ञानविषयीभूते शुद्धे निरुपाख्यधर्मप्रकारकज्ञानविषयीभूते तुच्छे च न व्यभिचारः । अभावत्व-स्यापि सोपाख्यत्वादभावत्वप्रकारकज्ञानविषयीभूतेऽभावे न भागासिद्धिः । उपाख्यातु अस्तीति प्रतीतिविषयत्वादि इत्यन्यदेतत्, तस्माद् नोक्तो व्यभिचार इति चेत्, न । चाक्षुषतादृशघटादि-विषयकवृत्तिविषयत्वाद् ब्रह्मणस्तत्र व्यभिचारस्य दुष्परिहरत्वात् । नच घटादिप्रत्ययेषु न ब्रह्म विषय इति वाच्यम् । तथा सति तव स्ववचनविरोधः स्यादित्याह– सर्वप्रत्ययेति ॥ घटादिसर्वप्रत्ययविषयो ब्रह्मेत्यङ्गीकुर्वतां स्वाचार्याणां वचनस्यापि स्ववचनत्वात् तद्विरोधः स्यादित्यर्थः । नच विशिष्टं सर्वप्रत्ययवेद्यम्, न शुद्धमिति वाच्यम् । ‘प्रपञ्चस्य प्रविलयः शब्देन प्रतिपाद्यते’ इत्युत्तरार्धेन जगद्विलयाधिष्ठानत्वोक्त्या सर्वप्रत्ययवेद्यस्य शुद्धत्वात् । पूर्वार्धेऽपि व्यवस्थिते इत्यनेनानुगतत्वोक्त्या शुद्धस्यैव प्रतीतेः ॥
दृश्यत्वं चेति ॥ वृत्तिव्याप्यत्वरूपमिति शेषः ॥ व्यावहारिकमेवेति ॥ नतु पारमार्थिक-सत्ताकधर्मिसमसत्ताकम्, अतो न व्यभिचार इत्यर्थः ॥ ब्रह्मजगतोरिति ॥ जगतो व्यावहारिकत्वे सिद्धे तन्मध्यवर्तिनो वृत्तिव्याप्यस्य हेतोः पारमार्थिकव्यावहारिकयोर्ब्रह्मजगतो-र्विद्यमानस्यापि व्यावहारिकत्वं सिद्ध्यति । पारमार्थिकव्यवहारिकविभागश्चाद्यापि न सिद्ध इत्यर्थः । तथाच निश्चितसाध्याभाववति ब्रह्मणि निरुक्तहेत्वभावस्य सन्दिग्धत्वात् सन्दिग्धा-नैकान्तिकता स्यादिति भावः । यदि विपक्षे धर्मिसमसत्त्वस्य हेतोर्वृत्तिव्यभिचारः, तदा गुञ्जा-पुञ्जारोपितवह्नौ वह्नित्वस्य धर्मिसमसत्ताकस्य व्यावहारिकोष्णत्वाभावसमानाधिकरणस्योष्ण-त्वेन व्यभिचाराद् वह्नित्वेनोष्णत्वानुमानं व्यावहारिकवह्नावपि न स्यादित्यपि दोषो बोध्यः ॥
किञ्चेति ॥ दूषकतौपयिके व्यभिचारे यदि धर्मिसमसत्ताकहेतुवृत्तिरपेक्षिता, तर्हि तादृशे बाधादिकेऽपि धर्मिसमसत्ता साध्येऽपेक्षिता स्यात्, समानन्यायत्वात् । किञ्च गमकतौपयिके रूपे च पक्षवृत्तित्वादौ हेतोर्धर्मिसमसत्ताकवृत्तिरपेक्षणीया स्यादित्यर्थः । ततः किमित्यत आह – तथाचेति ॥ आत्मा स्वप्रकाशो ऽनुभूतित्वाद् व्यतिरेकेण घटवत्, इति त्वदुक्तानुमाने पक्षीकृत आत्मनि धर्मिसमसत्ताकस्य साध्यस्याभावोऽस्तीति बाधः स्यात् । तत्रैव धर्मि-समसत्ताकस्यानुभूतित्वस्य हेतोरभावादसिद्धिश्च स्यात् । तत्र हेतुस्तात्त्विकधर्महीन इत्यनेनोक्त इत्यर्थः ॥ एवमिति ॥ साध्याभाववति साधनाभावमात्रं नाव्यभिचारः किन्तु साध्याभाववति धर्मिसमसत्ताकः साधनस्याभावो व्यभिचाराभाव इत्यपि स्यादित्यर्थः । तत्र दोषमाह– तथाच दृश्यत्वादीनामिति ॥ वृत्तिव्याप्यत्वादीनामित्यर्थः । साध्याभाववत्यात्मनि दृश्यत्वादेः साधनस्याभावे विद्यमानेऽपि धर्मिसमसत्ताकत्वरूपविशेषणविशिष्टस्साधनाभावो नास्ति, इति व्यभिचार एव स्यादित्यभिप्रायः ॥ तस्मादिति ॥ त्वदुक्ते स्वप्रकाशत्वानुमानेऽनुभूतित्व-हेतोर्व्यावहारिकस्यात्मनि पक्षे सत्त्वाद् यथा नासिद्धिस् तथा मिथ्यात्वानुमाने वृत्तिव्याप्यत्वस्य हेतोर्व्यावहारिकस्यात्मनि विपक्षे सत्त्वाद् व्यभिचारो दुरुद्धर इत्यर्थः ॥
अथ धर्मीति ॥ धर्मिशब्दस्य सम्बन्धिशब्दतया समभिव्याहृतपरत्वेन घटादिधर्मिसमसत्त्व-रूपविशेषणविशिष्टस्य हेतोः पक्षे सत्त्वान् नासिद्धिः । उक्तन्यायेनैवात्मपरतया धर्मिशब्दस्य विपक्ष आत्मनि तत्समसत्त्वस्य हेतोरभावाद् न व्यभिचारोऽपीत्यर्थः । व्यभिचारलक्षणान्तर्गत-हेतौ धर्मिसमसत्त्वं विशेषणं प्रागभिहितम् । संप्रति तु न्यायवाक्यान्तर्गतहेत्ववयवार्थे प्रकृते हेतौ धर्मिसमसत्त्वं विशेषणमुच्यत इति भेदः ॥ तर्हीति ॥ विषयत्वापरपर्यायकर्मत्वार्थक-कृत्यप्रत्ययान्तेन वृत्तिव्याप्यशब्देन वृत्तिविषयत्वमभिहितम् । तथाच धर्मिसमसत्ताकत्व-रूपविशेषणविशिष्टं विषयत्वमेव हेतुरस्तु, तात्त्विकधर्महीने च ब्रह्मणि धर्मिसमसत्ताकस्य कस्यचिद् धर्मस्याभावाद् व्यभिचाराभावेन वृत्तीत्यस्य विशेषणस्य वैयर्थ्यमिति भावः । ममेति । ब्रह्मणि तात्त्विकधर्मान् अङ्गीकर्तुः । दृष्टान्तेति । व्यावहारिकदृश्यत्वाधिकरणे शुक्तिरूप्ये धर्मिसमसत्त्वस्य दृश्यत्वस्याभावादित्यर्थः ।
न्यायामृतकण्टकोद्धारः
अथ हेतुखण्डनमारभते – दृश्यत्वहेतूक्तिरपीति ॥ मिथ्येति ॥ मिथ्याभूतार्थविषयक इत्यर्थः । प्रत्ययत्वादिति ॥ विशिष्टप्रत्ययत्वादित्यर्थः । तेनाऽलयविज्ञानादौ न व्यभिचारः । छर्दिमात्रमिति ॥ उद्गिरणमात्रमित्यर्थः । छर्दिमात्रता च तेन प्रत्ययमात्रपक्षीकारे तद्विषयप्रपञ्च-मात्रपक्षीकरणम् । प्रत्ययत्वस्य हेतूकरणे प्रत्ययविषयत्वस्य हेतूकरणमित्येवंरूपेति भावः । अस्त्वेवं दृश्यत्वादिहेतूक्तेर्बौद्धयुक्त्युद्गिरणत्वम्, तथापि तन्मत इव मन्मतेऽपि तस्योपपन्नत्वात् तदङ्गीकारो युक्त इत्यत आह– इयांस्तु भेद इति ॥ तथा च बौद्धमतेऽप्रामाण्यस्योत्पत्तौ स्वतस्त्वादुत्पद्यमानं ज्ञानमप्रमाणमेव उत्पद्यत इति प्रत्ययत्वेनाप्रामाण्यसाधनं युक्तम् । त्वन्मते तूत्पत्तौ प्रामाण्यं स्वत इत्युत्पद्यमानं ज्ञानं प्रमाणमेवोत्पद्यते । प्रामाण्यं चाबाधितार्थकत्वम् । एवं च तस्य मिथ्यात्वे साध्यमाने बाधितार्थकत्वमेव साधितं स्यात् । बाधितार्थकत्वमेव चाप्रामाण्यम् इति विरोधादयुक्तमिति भावः ।
पराभिप्रेतदृश्यत्वनिरुक्तिं खण्डयितुं पृच्छति– किं चेति । साधारणमिति । वृत्तिव्याप्यफलव्याप्यसाधारणं ज्ञानविषयत्वमित्यर्थः । कदाचित् कथञ्चिदिति । कदाचित् स्वसत्ताकाले । तेनातीतघटादौ न भागासिद्धिः । नित्यातीन्द्रियादौ भागासिद्धिवारणाय– कथञ्चिदिति ॥ ज्ञातत्वाज्ञातत्वाभ्यामित्यर्थः । आत्मनोऽपीति । तथा चानैकान्त्यमिति भावः । अन्यथेति । ब्रह्मणो वृत्तिव्याप्यत्वानङ्गीकार इत्यर्थः । नन्वेवमपि वेदान्तानां न वैयर्थ्यम्; तेषां कर्मादिपरत्वाद् इत्यत आह – ब्रह्मपराणामिति । ननु श्रवणादिविधेरदृष्टार्थत्वान् न वैयर्थ्यमित्यत आह– ब्रह्मज्ञानार्थमिति । ‘आत्मा वाऽरे द्रष्टव्यः श्रोतव्यः’ इति श्रुतौ दर्शनानुवादेन श्रवणादेर्विहितत्वात् तस्य ब्रह्मज्ञानार्थत्वं गम्यत इति भावः । बाधकान्तरं चाह– ब्रह्म विचारयतोरिति । अन्ये तु – न श्रवणविधिर्ब्रह्मज्ञानार्थः । ब्रह्मणोऽदृश्यतया सन्निहित-स्यापि दर्शनशब्दस्य तदबोधकत्वात् । अन्यथा दर्शनापेक्षयाऽतिसन्निहितं श्रवणमेव भावना-फलत्वेन सम्बध्येत । एवं च सन्निहितफलालाभे व्यवहितस्यापि ग्राह्यतया स्वर्गाद्यर्थ एव श्रवणविधिः, अतो न वैयर्थ्यमित्यरुचेराह – ब्रह्म विचारयतोरिति – इत्याहुः ।
अत्रेदमालोचनीयम् । श्रुतफलपरित्यागेनाश्रुतफलकल्पने ‘‘पशुकामो यजेते’’त्यत्रापि श्रुतपश्वादिरूपफलपरित्यागेनाश्रुतफलं स्वर्गादि कल्प्येत । यदि च तत्रादृश्यत्वरूपबाधकात् तथा कल्पनम्, तर्ह्यत्रापि गौणत्वादिकं बाधकमिति तुल्यम् । किञ्च नादृश्यत्वं तत्र बाधकम् । नहि ‘‘यत्तदद्रेश्यमि’’त्यादि श्रुतावदृश्यत्वं सर्वथा दृगविषयत्वमभिप्रेतम्; किं तहि? वचनवृत्त्या शब्दजन्यवृत्त्यविषयत्वमात्रमेव । अन्यथा सत्यज्ञानादिवाक्यानां लक्षणास्वीकारवैयर्थ्यापत्तेः । अपि च ब्रह्मतत्त्वबोधका वेदान्ता इत्यङ्गीकुर्वाणेन मायिना श्रवणादिविधिः स्वर्गार्थो न ब्रह्मज्ञानार्थ इति वक्तुं शक्यते । तथा सत्यपसिद्धान्तापातादिति । यदुक्तम् – अतिसन्निहितं श्रवणमेव भावनाफलत्वेन सम्बध्येतेति, तदपि न । भावनाकरणत्वेन श्रुतश्रवणस्य तत्फलतया सम्बन्धापादनस्याप्रामाणिकत्वात् । मौनं मौढ्यं चेति । ब्रह्मविषयकबोधजनकवेदान्तरूप-शब्दाप्रयोगो मौनम् । मौढ्यं च तत्त्वज्ञानराहित्यम् । अन्ये त्वत्र – आपाद्यमानं मौनं शब्दवक्तृत्वाभावो वा? वेदान्तरूपशब्दवक्तृत्वाभावो वा? ब्रह्मज्ञानोद्देश्यकशब्दवक्तृत्वाभावो वा? नाद्यः । अज्ञेयत्वेऽपि ब्रह्मणस्तद्विचारे प्रवृत्तयोर्देहनिर्वाहादिहेतुभूतशब्दप्रयोगे विरोधा-भावात् । न द्वितीयः । ब्रह्माबोधकस्यापि वेदान्तरूपशब्दस्य स्तुत – शस्त्राधिकरणन्यायेन तद्वक्तृत्वस्योपपत्तेः । न तृतीयः । इष्टापत्तेः । ब्रह्मणो ज्ञानाविषयत्वेन तज्ज्ञानोद्देशेन शब्द-प्रयोगस्य मयाऽनङ्गीकारादिति चेद् उच्यते । उपक्रमादिलिङ्गकस्य ब्रह्मज्ञानेच्छापूर्वकोच्चारितत्व-रूपवेदान्तनिष्ठब्रह्मविषयकतात्पर्यावधारणरूपस्य विचारस्यासिद्धेर्मौनशब्दार्थत्वेन विवक्षितत्वात् । ब्रह्मणोऽज्ञेयत्वे निरुक्तविचारस्यासम्भावितत्वादित्याहुः ।
अत्रेदमालोचनीयम् – परेण ब्रह्मणो ज्ञानविषयत्वानङ्गीकारेणापाद्यमानतया विवक्षितस्य ब्रह्मज्ञानेच्छापूर्वकोच्चरितत्वादिरूपविचारासिद्धिरूपमौनशब्दार्थस्य परं प्रतीष्टत्वेन तृतीयपक्षदूषणा-परिहारात् । ब्रह्मापि ज्ञानविषय इति यदि, तदा तृतीयपक्षेणैवोपपत्तावुक्तकुसृष्टिकल्पनस्या-युक्तत्वात् । तस्माच्छङ्कासमाधाने अयुक्ते । ननु च वृत्तिकर्मत्वं विवक्षितम् । तथा च वृत्ति-विषयत्वेऽपि वृत्तिकर्मत्वाभावान् न व्यभिचार इत्यत आह– किञ्चेति । कर्मणि षष्ठीति । ‘‘कर्तृ–कर्मणोः कृती’’ ति कर्मणि षष्ठी । यद्यप्यत्र प्रतिपदविधाना षष्ठी न समस्यत इति समासनिषेधस् तथापि कृद्योगलक्षणा षष्ठी समस्यत इति प्रतिप्रसवात् समासोपपतिः । दृश्यते त्विति । अत्र लटः कर्मणि विधानात् तदादेशोऽपि तङ् कर्मणि विहित इति भावः । तव्यादिप्रत्ययश्चेति । तव्यादीनां ‘कृत्याः’ ‘प्राङ्ः ण्वुलः’’ इति कृत्यत्वात् कृत्यानां च ‘‘तयोरेव कृत्यक्तखलर्थाः’’ इति कर्मणि विधानादिति भावः । दृशोऽज्ञान इति । ननु अत्र दृक्शब्देन वृत्तेर्विवक्षितत्वेन वृत्तेर्ज्ञानाङ्गीकाराद् दृग्विषयत्वज्ञानं भविष्यति । न च दृक्शब्देन चैतन्यं विवक्षितमिति वाच्यम् । वृत्तिव्याप्यत्वरूपहेतुपक्षे दूषणानुपपत्तेः । तथा च ‘‘दृशोऽज्ञाने’’ इत्यनेन कथमनैकान्तिकत्वोपपादनमिति चेत् । अयमत्राभिप्रायः, वृत्तिव्याप्यत्व-मस्तु, मिथ्यात्वं माऽस्त्वित्यप्रयोजकत्वशङ्कायां मिथ्यात्वाभावे ज्ञानविषयत्वरूपं दृश्यत्वं न स्यात् । ज्ञान–ज्ञेययोः संयोग–समवायाभावेन सम्बन्धान्तरस्य च निर्वक्तुमशक्यत्वेन दृग-ध्यस्तत्वघटितसम्बन्धेन दृग्विषयत्वे वक्तव्ये दृगध्यस्तत्वज्ञानस्यावश्यकत्वेन दृगज्ञाने दृग-ध्यस्तत्वज्ञानासम्भवेन दृग्ज्ञानमेष्टव्यम् । एवं च विपक्षबाधकतर्कार्थं चैतन्यरूपदृग्ज्ञाने ज्ञान-विषयत्वं ब्रह्मचैतन्येऽनैकान्तिकमिति । वस्तुतस्तु–वृत्तिव्याप्यत्वं हि वृत्तिसम्बन्धित्वम् । तत्र हि वृत्तेः प्रपञ्चस्य च सम्बन्धो वक्तव्यः । स च साक्षाद्वा? परम्परया वा? तत्राऽद्ये साक्षात् सम्बन्धः किं संयोगो वा? समवायो वा? विषयविषयिभावो वा? नाद्य–द्वितीयौ । अनङ्गी-कारात् । न तृतीयः, असम्बन्धत्वात् । विषयत्वस्य दुर्निरूपत्वाच्च । तस्माद् वृत्त्यभिव्यक्ता-धिष्ठानचिदध्यस्तत्वरूपपरम्परासम्बन्धमादायैव वृत्तिसम्बन्धित्वरूपं वृत्तिव्याप्यत्वं वक्तव्यम् । तथा च दृशोऽज्ञाने वृत्त्यभिव्यक्ताधिष्ठानचितोऽज्ञाने दृग्विषयत्वरूपदृश्यत्वज्ञानं न स्यात् । वृत्त्यभिव्यक्ताधिष्ठानचिदध्यस्तत्वरूपदृश्यत्वज्ञानं न स्यादित्यर्थः । घटकपदार्थाज्ञाने तद्घटित-विशिष्टपदार्थज्ञानस्यासम्भवादित्यज्ञानासिद्धिरिति । अन्ये तु – दृशोऽज्ञान इति । विशेषणाज्ञाने विशिष्टाज्ञानादित्यर्थः ।
ननु मैवं दृशं ज्ञासीत्, तथापि वृत्तिव्याप्यत्वहेतुस्तु सुज्ञान एव । नहि दृग्विषयत्वरूपं दृश्यत्वमात्रं हेतुत्वेनाभिप्रेतम् इत्यत उक्तम् – दृग्विषयत्वेति । अयमर्थः – नात्र प्रकृत-हेतोरज्ञानमापाद्यते । किन्तु मिथ्यात्वे साध्ये वृत्तिव्याप्यत्वरूपं पारिभाषिकदृश्यत्वं हेतुकुर्वताऽपि प्रकृतिप्रत्ययावगतदृग्विषयत्वरूपदृश्यत्वमपि दुरपह्नवम् । परन्तु तत् तेन न हेतुत्वेनाभिप्रेतम् । एवं च हेतुत्वेनानभिमतोऽपि दृग्विषयत्वरूप उपाधिर्यदि वृत्तिव्याप्यस् तदा तदुपाधिविशेषणी-भूतदृशोऽपि वृत्तिव्याप्यत्वमवर्जनीयमेव । यदि न वृत्तिव्याप्यस् तदा तदुपाधेर्न मिथ्यात्वसिद्धिः, भागासिद्धिश्च स्यादित्याहुः ।
अत्रेदमालोचनीयम् – यदुक्तं दृग्विषयत्वरूपोपाधिर्वृत्तिव्याप्यो न वेति ? तत्राद्यमङ्गीकुर्मः । न चैवं विशेषणीभूतदृशोऽपि वृत्तिव्याप्यत्वमवर्जनीयमेवेत्युक्तमिति वाच्यम् । दृगज्ञानेऽपि विमतिविषयत्वरूपपक्षतावच्छेदकप्रकारेण दृग्विषयत्वरूपोपाधिज्ञानसम्भवात् । पक्षतावच्छेदक-प्रकारकपक्षज्ञानस्यैवानुमित्यङ्गत्वात् । न हि पक्षीकृतपदार्थानां पक्षतावच्छेदकातिरिक्ततत्तद-साधारणधर्मप्रकारकज्ञानमनुमित्यङ्गम् । येन दृग्विषयत्वोपाधेर्वृत्तिव्याप्यत्वे विशेषणीभूतदृशोऽपि ज्ञानमवर्जनीयं स्यात् । तथा सति प्रकृते पक्षीकृतपदार्थानामानन्त्येन तत्तदसाधारणधर्मपुरस्कारे-णानन्तपदार्थज्ञानस्य जन्मसहस्रेणापि दुःसम्पादत्वाद् अनुमानानवतार एव स्यात् । किञ्च एवमनुगतपक्षतावच्छेदकनिर्वचनायासोऽपि व्यर्थ एव स्यात् । न च दृग्विषयत्वस्य विमति-विषयत्वरूपपक्षतावच्छेदकप्रकारेण ज्ञाने विमत्यवच्छेदकब्रह्मान्यत्वज्ञानस्यावश्यकत्वेन ब्रह्मणोऽपि वृत्तिव्याप्यत्वमवर्जनीयमेवेत्युक्तमुपपन्नमिति वाच्यम् । पृथिवीत्वादीनामननुगतानामेव धर्माणां विमत्यवच्छेदकत्वाङ्गीकारेण गुरुभूतानेकपदार्थघटितत्वेन ‘ब्रह्मप्रमान्येने’त्याद्युक्तस्यावच्छेदकत्वा-नभ्युपगमेन ब्रह्मणो वृत्तिव्याप्यत्वस्य दूरनिरस्तत्वात् । न चैवं पृथिवीत्वादीनामिव दृग्विषयत्व-स्यापि ज्ञातव्यत्वेन दृग्ज्ञानमावश्यकमिति वाच्यम् । पृथिवीत्वादीनामनन्तत्वेन तेषां प्राति-स्विकरूपेण ज्ञानस्य जन्मसहस्रेणापि दुःसम्पादत्वेन विमतिविषयतावच्छेदकत्वेनैव तज्ज्ञानस्य स्वीकर्तव्यत्वेन दृग्विषयकत्वस्यापि तेन रूपेण ज्ञानसम्भवे दृग्ज्ञानस्यानावश्यकत्वात् । किञ्चैवं ब्रह्मणो वृत्तिव्याप्यत्वोपपादनस्योपरितनत्वेन फक्किकार्थत्वाभावेन तदर्थतया योजनस्यात्यन्ता-सङ्गतत्वादिति दिक् ॥
केचित्तु – चितोऽज्ञाने चिद्विषयत्वरूपजडत्वज्ञानं न स्यात् । न च विमतं मिथ्या जडत्वा-दिति जडत्वं हेतूकुर्वता तज्ज्ञानाभावोऽङ्गीकर्तुं शक्यते । न च तज्ज्ञानं दृक्शब्दशब्दितचिद्ज्ञानं विना सम्भवति । तथा च दृग्रूपचिद्घटितजडत्वादिरूपहेतुज्ञानार्थमवश्यं दृशो वृत्तिव्याप्यत्वं परेणाङ्गीकार्यम् । तथा च वृत्तिव्याप्यत्वस्यैव हेतुत्वे मिथ्यात्वरहिते दृश्ये च हेतुसत्त्वेन व्यभिचार इत्यर्थ इत्याहुः ॥
अत्रेदमालोचनीयम् – प्रकृतदृश्यत्वरूपहेत्वज्ञानासिद्धिपरतायाः स्फुटप्रतिभासत्वेनाप्रकृत-जडत्वहेत्वज्ञानासिद्ध्यापादनस्यागतिकत्वात् । चिद्विषयत्वं जडत्वमिति परेणानङ्गीकाराच्च । अङ्गीकारे वा दृश्यत्वेन साङ्कर्यापत्तेरिति । सर्वप्रत्ययवेद्य इति ॥ न चैतस्य वचनस्योपहित- परत्वेन शुद्धे सर्वप्रत्ययवेद्यत्वाभावान् न विरोध इति वाच्यम् । उपहितस्य च मिथ्यात्वे-नात्रोक्तसर्वप्रत्ययवेद्यत्व–प्रपञ्चप्रविलयाधिष्ठानत्वयोरनुपपत्तेः । आत्मनि व्यभिचारपरिहारमाशङ्क्य निषेधति – न चेति ॥ आरोपितधूमस्य विपक्षे हृदादावपि सत्त्वेन धूमस्यापि व्यभिचारित्वं स्यादित्यतिप्रसङ्गादिति भावः । अद्यापीति ॥ मिथ्यात्वसिद्धेः प्रागित्यर्थः । तथा च व्यावहारिक–पारमार्थिकविभागसिद्धौ दृश्यत्वहेतोर्व्यभिचाराभावसिद्धिः । व्यभिचाराभावसिद्धौ च व्यावहारिकपारमार्थिकविभागसिद्धिरित्यन्योन्याश्रय इति भावः ॥ अतिप्रसङ्गमप्याह– किञ्चेति ॥ उक्तबाधासिद्धिलक्षणफलमाह– तथा चेति ॥ अनुभूतिः, स्वप्रकाशा, अनुभूति-त्वात्; व्यतिरेकेण घटवदिति त्वदुक्तानुमानेऽपि बाधासिद्धी स्यातामिति भावः । अति-प्रसङ्गान्तरं चाह– एवं विपक्ष इति ॥ तथा च तात्त्विकधर्मानधिकरणब्रह्मनिष्ठदृश्यत्वाभावस्य धर्मिसमसत्ताकत्वाभावाद् व्यभिचार इति भावः । यत्तु धर्मिसमसत्ताकत्वं साधनस्य विशेषणम्, एवं च साध्याभाववत्यात्मनि दृश्यत्वादेः साधनस्याभावे विद्यमानेऽपि धर्मिसमसत्ताकत्व-रूपविशेषणविशिष्टप्रतियोगिकत्वरूपविशेषणविशिष्टसाधनाभावस्याभावोऽस्ति इति व्यभिचार एव स्यादित्यभिप्राय इति, तन्न । विशिष्टसाधनरूपप्रतियोगिनोऽभावेऽपि तत्प्रतियोगिकत्व-रूपविशेषणाभावे कारणाभावात् । अन्यथा प्रागभावदशायां घटाभावेन तत्प्रतियोगिकत्वरूप-विशेषणाभावापत्तौ प्रागभावे घटप्रतियोगिकत्ववैशिष्ट्यं न स्यादिति यत्किञ्चिदेतत् । अस्त्वात्मनि दृश्यत्वम् । न च व्यभिचारः; धर्मिसमसत्त्वस्य हेतुविशेषणत्वात् । न चात्मनि धर्मिसमसत्त्वं दृश्यत्वमस्ति, येन व्यभिचारः स्यादिति शङ्कते – अथेति ॥ विषयत्वादि-रेवेति ॥ तथा च दृक्पदानर्थक्यमिति भावः । आदिपदेन वस्तुत्वादिपरिग्रहः । ननु एकधर्मि-गतत्वेन लघु–गुरुभूतधर्मद्वयोपस्थितौ लघुभूतधर्मस्यैवावच्छेदकत्वम्, न तु गुरुभूतस्येति नियमः; यथा धूमगतत्वेन धूमत्व–नीलधूमत्वरूपधर्मद्वयोपस्थितेर्विद्यमानत्वेन लघुभूतधूमत्वस्यैव व्याप्यतावच्छेदकत्वम्, नतु गुरुभूतस्य नीलधूमत्वस्य । एवं प्रकृते यदि धर्मिसमसत्ताकदृश्यत्व-रूपधर्मिगतत्वेन विषयत्वत्व– धर्मिसमसत्ताकदृग्विषयत्वत्वरूपधर्म द्वयस्योपस्थितिः स्यात्, तदा लाघवगौरवचिन्ता । न चैवम् । तथा च वैयर्थ्यदानमनुचितमित्यपरितोषादाह– मम रीत्येति ॥ उभयसाधारणदोषमाह– दृष्टान्तस्येति ॥ मायिमते प्रातिभासिके विषयत्वं व्यावहारिकम्, इति न धर्मितुल्यसत्ताकत्वम्, मन्मते तु धर्म्यसत्त्वादेव न तदिति भावः ।
न्यायामृतप्रकाशः
इदानीं हेतुं पराचष्टे– दृश्यत्वेति ॥ दृश्यत्वहेतुं तु पश्चान्निराकुर्मः । आदौ दृश्यत्वहेतूक्तेरेव बौद्धोक्तयुक्त्युद्गिरणमात्रत्वेन तव बौद्धसाम्यात्त्वं तत्सभायामेव निवेशनीयो नास्माभिर्दूषणाय कक्षीकरणीय इत्याशयेन दृश्यत्वहेतूक्तिरपि बौद्धोक्तयुक्तिच्छर्दिमात्रमित्युक्तम् । मिथ्या मिथ्यार्थ-विषयः । तेन प्रत्ययपक्षकमनुमानं कृतम् । त्वया तु विमतं मिथ्येति विषयपक्षकम् । प्रमेयं त्वेकमेव । ज्ञानस्य मिथ्यात्वे विषयस्यापि मिथ्यात्वादिति द्रष्टव्यम् । मीमांसकरीत्या त्र्यवयवप्रयोगः । छर्दिरुद्गिरणम् । विशेषो बौद्धमायिनोः । तद्युक्तमिति । यःप्रत्ययःस मृषा दृष्टइति ज्ञानमात्रस्या-प्रामाण्यकथनं युक्तम् । ज्ञानं जायमानम् अप्रमाणं सदेव जायत इति अप्रामाण्यस्य स्वतस्त्वाङ्गी-कारात् । त्वन्मते ज्ञानं जायमानं प्रमाणं सदेव जायत इति प्रामाण्यस्य स्वतस्त्वाङ्गीकाराद्यत्र दृश्यत्वं तत्र सर्वत्र मिथ्यात्वमिति वचनमयुक्तम् । तथाच सत्यत्वग्राहिप्रत्यक्षादिविरोधस्तवेत्याशयः ।
सम्भावितान् दृश्यत्वनिर्वचनप्रकारान् दूषयितुं पृच्छति – किञ्चेदमिति ॥ असङ्गतिपरिहारायेद-मित्युक्तम् । यद्धेतूकृतं तदिदमित्यर्थः ॥ वृत्तीति ॥ इन्द्रियार्थसन्निकर्षाद् वाह्येन्द्रियद्वारा निस्सृतान्तःकरणपरिणामो वृत्तिः । तद्व्याप्यत्वं नाम तया प्राप्यत्वम् । विषयत्वमित्यनुक्त्वा व्याप्यत्वमितिवचनं यथा तटाकोदकं कुल्यात्मना बहिर्निर्गत्य केदारान्प्रविश्य तद्वदेव चतुष्कोणा-द्याकारेण भवति तथा सावयवं तैजसमन्तःकरणं चक्षुरादिद्वारा बहिर्निर्गत्य विषयं व्याप्य तदाकारं भवति सेयं वृत्तिरिति परेणोच्यमानत्वाद्विषयं व्याप्येति तदीयवचनानुसारेणेति ज्ञातव्यम् ॥ फलेति ॥ उक्तरूपायां वृत्तौ प्रतिबिम्बितं तदुपारूढं ज्ञातृचैतन्यमस्ति । तथाच घटादिविषयाधिष्ठानचैतन्यं चास्ति । घटाद्यावरकाज्ञानञ्च तत्रैवास्ति । अस्मन्मते तु पुङ्गतं तमः । तन्मते विषयगतमज्ञानम् । तथाच चैतन्याधिष्ठानवृत्त्या अज्ञाननाशेऽनन्तरं विषयाधिष्ठानं चैतन्यं व्यज्यते । अनन्तरं वृत्तिप्रति-बिम्बितं ज्ञातृचैतन्यं विषयाधिष्ठानचैतन्यं चैकीभवति । अत एव मया ज्ञातो घट इत्यादिव्यवहारः । यद्यपि केवलाया वृत्तेर्नाज्ञाननाशकत्वम् । चैतन्यस्य चाज्ञानस्फोरकत्वान्नाज्ञाननाशकत्वं युक्तम् । तथापि वृत्त्युपारूढस्य तद्युक्तम् । यथोक्तम्–
‘‘तृणादेर्भासिकाऽप्येषा सूर्यदीप्तिस्तृणं दहेत् ।
सूर्यकान्तमुपारुह्य तन्न्यायं चिति योजयेत्’’ इति ।
तथाच ज्ञप्तिर्ज्ञानमिति भावव्युत्पत्त्याऽधिष्ठानचैतन्यं ज्ञानमित्युच्यते वृत्तिस्तु ज्ञायतेऽनया चैतन्यमितिकरणव्युत्पत्त्या ज्ञानमित्युच्यत इति तत्प्रक्रिया । यथोक्तं–
‘‘स्वच्छेन्तःकरणेऽशनिप्रसृमरे नेत्रादिमार्गोद्गते
तत्तद्बाह्यचयात्मना परिणते बिम्बीभवन्ती चितिः ।
एकाऽप्यर्थमनोविशेषकवशाद्द्वैतं प्रपन्ना
हरत्यज्ञानं प्रकटीकरोति विषयान् ज्ञातं मयेदं त्विति’’ति ।
प्रसृमरे समाने । बाह्यचयात्मना घटादिबाह्यपदार्थसमूहात्मना । चितिर् ज्ञातृचैतन्यम् । अर्थमनोलक्षणविशेषकवशाद् व्यावर्तकवशाज् ज्ञातृचैतन्यं विषयाधिष्ठानचैतन्यमिति द्वैविध्यं प्राप्ता विषयान् विषयाधिष्ठानचैतन्यानीतियावत् । अत उक्तरूपायां वृत्तौ प्रतिबिम्बितं चैतन्यं तदभिव्यक्तमधिष्ठानचैतन्यं वा फलं तद्व्याप्यत्वं तत्सम्बन्ध इत्यर्थः ।
साधारणमुभयानुगतं दृश्यत्वमात्रमित्यर्थः । अतीतादौ भागासिद्धिवारणाय कदाचिदिति । साक्षिरूपचिद्विषयत्वस्य सुखादावेव सत्त्वेन बाह्ये घटादौ नित्यातीन्द्रियेन धर्मादावभावाद्भागा-सिद्धिरित्यतः कथञ्चिदित्युक्तम् । तथाच साक्षाच्चिद्विषयत्वाभावेपि कथञ्चिद्धटादिकं ज्ञातमिति ज्ञान-विषयकज्ञानस्य साक्षिरूपत्वात्तत्र साक्षिणि ज्ञानावच्छेदकतया घटादेर् धर्मादिकं न जानामीति अज्ञानविषयकज्ञानस्य साक्षिरूपत्वात्तत्र साक्षिणि अज्ञानावच्छेदकतया धर्मादेर्भासमानत्वाददोष इति भावः । आत्मनि स्वव्यवहारे स्वाख्यसंविदपेक्षासद्भावेनातिव्याप्तिवारणाय स्वातिरेकीति । तस्यैवा-द्वितीयत्वादिव्यवहारे एकमेवेत्यादिविशेषणोपनायकमानापेक्षासद्भावेनातिव्याप्तिवारणाय नियतिग्रहणम् । तथाच स्वरूपमात्रस्य स्वप्रकाशत्वेन तद्व्यवहारे स्वातिरेकिसंविदपेक्षाया अभावान्न स्वातिरेकि-संविदपेक्षानियतिरिति भावः ॥
आत्मनोऽपीति ॥ वेदान्तजन्यया उक्तरूपमनःपरिणामरूपचरमवृत्त्या आत्मनोऽपि व्याप्य-मानत्वात्तत्र व्यभिचार इत्यर्थः ॥ अन्यथेति ॥ आत्मनोपि वृत्तिव्याप्यत्वानङ्गीकार इत्यर्थः । ननु न वेदान्तवैयर्थ्यं जपाद्यर्थत्वेन सार्थक्यादित्यत आह– ब्रह्मपराणामिति ॥ तत्प्रतीतीच्छयोच्चरितत्वं तात्पर्यम् । एवंचोपक्रमादिभिर्ब्रह्मप्रतीतीच्छया पूर्वपूर्वाध्यापकोच्चारितानामित्यर्थः ॥ श्रवणादीति ॥ फलाभावादिति भावः ।
ननु न फलाभावः विश्वजिन्न्यायेन स्वर्गार्थत्वोपपत्तेरित्यत उक्तं– ब्रह्मज्ञानार्थमिति । ‘‘आत्मा वा ओ द्रष्टव्यःश्रोतव्य’’ इत्यत्र दर्शनार्थं श्रोतव्य इति श्रवणादेर्दर्शनार्थत्वस्यैव प्रतीर्तर्न व्यवहित-स्वर्गार्थत्वमित्यर्थः । ब्रह्मविचारयतोर् ब्रह्मविचारमुपक्रान्तवतोरिति व्याख्येयम् । अन्यथा विचार-करणकाले मौनाभावादिति ध्येयम् । गुरोर्मौनं शिष्यस्य मौढ्यम् । गुरोर्मौने शिष्यस्य मौढ्यं स्वत एवायातम् उपदेशाभावेन ब्रह्मज्ञानाभावादिति भावः ॥ दृशोऽज्ञान इति ॥ दृशः ब्रह्मचितः । सर्वस्यापि जगतः पक्षत्वेन चिद्विषयत्वरूपदृश्यत्वधर्मस्यापि पक्षकोटिनिविष्टत्वेन तज्ज्ञानमपि वाच्यम् । तच्च न सम्भवति । विशेषणीभूताया दृशः ब्रह्मरूपचितो ऽज्ञाने चिद्विषयत्वरूप-विशिष्टस्याप्यज्ञानात् । तथाच तस्मिन्नाश्रयैकदेशे वृत्तिव्याप्यत्वस्य ज्ञातुमशक्यत्वात् हेतोर्भागेऽ-ज्ञानासिद्धिरिति सांप्रदायिकोऽर्थः । दृग्विषयत्वेति ॥ वृत्तिविषयत्वेत्यर्थः ।
केचित्तु दृग्विषयत्वरूपदृश्यत्वज्ञानं च न स्यादित्यस्य चिद्विषयत्वरूपदृश्यत्वज्ञानं न स्यादित्यर्थः । तथाच दृशश्चितो ब्रह्मणोऽज्ञाने कदाचित्कथञ्चिच्चिद्विषयत्वरूपस्य दृश्यत्वस्य ज्ञातुमशक्यत्वाच् चिद्विषयत्वरूपदृश्यत्वहेतोरसिद्धिरित्यर्थ इत्याहुः । तच्चिंत्यम् । वृत्तिव्याप्यत्व-रूपदृश्यत्वदूषणावसरे चिद्विषयत्वस्यासिद्धिवचनस्यानवसरग्रस्तत्वादिति ॥ इत्यदीति ॥ ‘‘प्रपञ्चस्य प्रविलयः शब्देन प्रतिपाद्यते’’ इत्युत्तरार्धः । न च विशिष्टमेव सर्वप्रत्ययवेद्यं न शुद्धमिति वाच्यम् । उत्तरार्धे प्रपञ्चविलयाधिष्ठानत्वोक्त्या सर्वप्रत्ययवेद्यस्य शुद्धत्वावगमादित्यर्थः ।
ननु नात्मनि व्यभिचारस् तल्लक्षणाभावात् । तथाहि– विपक्षे हेतोः सत्त्वमात्रं न व्यभिचारस् तथात्वे धूमवत्त्वस्यापि ह्रदे व्यभिचारः स्यात् । तत्रापि प्रातिभासिकधूमवत्त्वस्य सत्त्वात् । तस्मा-द्धर्मिसमसत्त्वस्य हेतोर्वृत्तिर्व्यभिचारः । धर्मिभूतहृदस्य व्यावहारिकत्वेन तत्समसत्ताकधूमवत्त्वस्य तत्राभावान्न व्यभिचार इति वक्तव्यम् । एवं च ब्रह्मण्यपि न व्यभिचारः । पारमार्थिके ब्रह्मणि दृश्यत्वस्य व्यावहारिकत्वेन धर्मिसमसत्ताकदृश्यत्वहेतोर्ब्रह्मण्यवृत्तेरित्याशङ्क्य निषेधति – नचेति ॥ अद्यापीति ॥ तथाच ब्रह्मजगतोः पारमार्थिकत्वव्यावहारिकत्वविभागे सिद्धे लक्षणाभावेन दृश्यत्वस्य व्यभिचारा-भावादनुमानस्य सम्यक्त्वसिद्धिस् तत्सिद्धौचास्य विभागस्य सिद्धिरित्यन्योन्याश्रयादिति भावः ।
ननु नान्योन्याश्रयः । विभागसिद्धेरनुमानसम्यक्त्वसिद्ध्यधीनत्वाभावात् । अपि तर्हि अनाशङ्कितदोषया ‘‘तत्सत्यम्’’ ‘‘अतोऽन्यदार्त’’मित्यादिश्रुत्यैव विभागसिद्धौ उपोद्बलकतयैवानु-मानस्योच्यमानत्वादित्यस्वरसादाह– किञ्चेति ॥ यदि धर्मिसमसत्त्वस्य हेतोर्वृत्तिर्व्यभिचार इति लक्षणं कल्पयित्वा व्यभिचारपरिहारः क्रियते तर्हि साध्याभावमात्रं न बाधलक्षणम् । तथात्वे वह्निरनुष्ण इत्यत्रापि प्रातिभासिकानुष्णत्वस्य सद्भावेन साध्याभावाभावाद्बाधाभावापत्तेः । तथा पक्षेहेतोस्सत्त्वमात्रं न सिद्धिः । तथात्वे शब्दो नित्यश्चाक्षुषत्वादित्यत्रापि प्रातिभासिकहेतोः पक्षे सत्त्वेनासिद्ध्यभावापत्तेः । तस्मात्तत्परिहाराय धर्मिसमसत्ताकस्य साध्यस्याभावो बाधः पक्षे धर्मिसमसत्ताकस्य हेतोः सत्त्वं सिद्धिस् तदभावोऽसिद्धिरिति लक्षणं वाच्यम् । तथाच अनुभूतिः स्वप्रकाशा अनुभूतित्वादिति ब्रह्मणस्स्वप्रकाशत्वसाधकानुमानोऽपि अनुभूत्याख्यपारमार्थिक-ब्रह्मरूपधर्मिसमसत्ताकस्य स्वप्रकाशत्वरूपसाध्यस्याभावाद्बाधः स्यात् । ब्रह्मणि स्वप्रकाशत्वस्य व्यावहारिकत्वेन पारमार्थिकब्रह्मसमसत्ताकत्वाभावात् । तथा धर्मिसमसत्ताकस्यानुभूतित्वरूपहेतोः पक्षेऽभावेनासिद्धिश्च स्यात् । ब्रह्मण्यनुभूतित्वस्यापि व्यावहारिकत्वेन पारमार्थिकब्रह्मसमसत्ताकत्वा-भावादित्यपि स्यात् । एवं विपक्षे साधनाभावमात्रमव्यभिचारो न भवति । तथात्वे पर्वतो धूमवा-न्वह्नेरित्यत्रापि विपक्षेऽयोगोलके वह्निरूपसाधनाभावस्यारोपितस्य सत्त्वादव्यभिचारित्वापत्तेः । तस्माद्धर्मिसमसत्ताकः साधनस्याभावोऽव्यभिचारित्वं विपक्षेऽयोगोलके व्यावहारिके वह्निरूपसाधना-भावस्य प्रातिभासिकत्वेन धर्मिसमसत्ताकत्वाभावान्नाव्यभिचार इति वाच्यम् । तथाच मिथ्यात्व-साधकदृश्यत्वानुमानस्य व्यभिचारः स्यात् । ब्रह्मणि दृश्यत्वरूपं यत्साधनं तदभावस्याद्वैतभङ्गापत्त्या ब्रह्मरूपधर्मिसमसत्ताकत्वाभावेनाव्यभिचारित्वलक्षणाभावात् ।
तस्मात्स्वप्रकाशत्वानुमाने व्यावहारिकस्य साध्यस्य व्यावहारिकस्य हेतोश्च पक्षे सत्त्वमात्रेण बाधासिद्धी परिहरणीये । एवमेव विपक्षे ब्रह्मणि व्यावहारिकस्य दृश्यत्वस्य सत्त्वाद्व्यभिचारस्तदवस्थः ।
ननु तथापि नात्मनि व्यभिचारः । धर्मिसमसत्ताकदृश्यत्वादिति दृश्यत्वे धर्मिसमसत्ताकत्व-विशेषणं दीयत इति चेत्तर्हि दृश्यत्वं नाम वृत्तिव्याप्यत्वं, व्याप्यत्वं च विषयत्वम् । एवं च धर्मिसमसत्ताकविषयत्वादित्येवास्तु । वृत्तीतिविशेषणं व्यर्थम् । नच ब्रह्मणि धर्मिसमसत्ताकं विषयत्वमस्तीति तत्र व्यभिचारवारणाय वृत्तीति विशेषणमिति वाच्यम् । ब्रह्मणि धर्मिसमसत्ताकस्य कस्यापि धर्मस्याभावेन धर्मिसमसत्ताकविषयत्वरूपधर्मस्याप्यभावेन हेतोरेवाभावेन व्यभिचाराप्रसक्त्या वृत्तीति विशेषणं व्यर्थमेव स्यादित्याह– पक्ष इत्यारभ्य मिथ्यात्वे हेतुः स्यादित्यन्तेन ग्रन्थेन ॥ धर्मिसमसत्ताकं साध्यं नास्तीत्युपपादनाय तात्विकधर्महीन इत्युक्तम् । दृश्यत्वादीनां वृत्तिव्याप्य-त्वादीनाम् ॥ नासिद्धिरिति ॥ व्यावहारिकसाध्यस्यापि सत्त्वान्न बाध इत्यपि द्रष्टव्यम् ॥ विषयत्वादिरेवेति ॥ वृत्तिविषयत्वमित्यत्र व्याप्यत्वापरपर्यायं विषयत्वमेव हेतुःस्यात् । वृत्तीति विशेषणं व्यर्थमिति भावः ।
ननु न वृत्तीति विशेषणं व्यर्थम् । धर्मिसमसत्ताकवृत्तिविषयत्वस्याखण्डोपाधित्वात् । अखण्डो-पाधौ च न वैयर्थ्यं व्यर्थविशेषणताबीजाभावात् । एकस्मिन्धर्मिणि लघुगुरुधर्मद्वयसमावेशे लघुना व्याप्त्यवच्छेदे गुरोरनावश्यकत्वं हि तद्बीजम् । यथा नीलधूमवत्त्वादित्यत्र नीलधूमवतो भावो नीलधूम एव तत्र हेतुस् तत्र एकस्मिन्धर्मिणि धूमे धूमत्वनीलधूमत्वरूपधर्मद्वयसमावेशे लघुना धूमत्वेन व्याप्तिज्ञानोपपत्तेर्गुरोर्नीलधूमत्वस्यानावश्यकत्वं दृष्टमित्येवं तद्बीजसद्भावेन व्यर्थविशेषणत्वं दृष्टम् । नह्येवं वृत्तीत्यस्य वैयर्थ्यं वक्तुं युक्तम् । अत्र विषयत्वं हेतुः । तत्र विषयत्वत्वं धर्मोऽस्ति वृत्ति-विषयत्वे वृत्तिविषयत्वत्वधर्मोऽस्तीत्येवं विषयत्वत्ववृत्तिविषयत्वत्वयोर्लघुगुरुधर्मयोरेकस्मिन्धर्मिणि विषयत्वे समावेशाभावेन व्यर्थविशेषणताबीजाभावेन वृत्तीति विशेषणवैयर्थ्यस्य वक्तुमशक्यत्वादित्य-स्वरसादाह– मम रीत्येति ॥ मन्मते दृश्यत्वादिधर्माणां ब्रह्मणि तात्विकत्वेन धर्मिसमसत्ताकत्वादिति भावः ॥ दृष्टान्तस्येति ॥ रजतं दृष्टमित्यनुभवेन व्यावहारिकदृश्यत्वाधिकरणे शुक्तिरूप्ये धर्मिसम-सत्ताकदृश्यत्वस्य त्वन्मतेऽभावादित्यर्थः ।
न्यायकल्पलता
एवं प्रतिज्ञां निरस्य हेतुं निराचष्टे– दृश्यत्वेति । मिथ्या मिथ्यार्थविषयकः प्रत्ययत्वात् । सप्रकारकप्रत्ययत्वात् तेन शून्याद्वैतविज्ञाने न व्यभिचारः । तथाहीति । विशिष्टप्रत्ययत्वहेतोर्मिथ्यार्थ-विषयत्वरूपसाध्येनाविनाभावः प्रदृश्यत इत्यर्थः । ज्ञानार्थयोरधिष्ठानाध्यस्तभावलक्षणतादात्म्यसम्बन्धेना-विनाभावो द्रष्टव्यः । तादात्म्यं तदुत्पत्तिभ्यामेवाविनाभाव इति हि सौगताः । यद्यप्युदाहरणोपनयौ द्वावेवावयवाविति बौद्धमतम् । तथापि मीमांसकरीत्या त्र्यवयवप्रयोग इति ध्येयम् । छर्दिर्वान्तिरूपं ष्ठीवनम् । तथागतयुक्तिस्वीकरणं वेदान्तिब्रुवस्य तव त्वयुक्तं चेत्याह -इयांस्त्विति । भेदः वैलक्ष्यण्यम् । शून्यवादिमते हि स्तम्भादिप्रत्ययस्यासदर्थविषयकत्वरूपाप्रामाण्यं स्तम्भादिप्रत्यय-ग्राहकेणोत्सर्गत एव गृहीतमित्यनुकूलतर्कसद्भावात्तदुक्तानुमानेन स्तम्भादिप्रत्ययमिथ्यार्थकत्वसिद्धिः । बादरायणीयमते प्रामाण्यस्य स्वतस्त्वम्् । न विलक्षणत्वादस्य तथात्वं च शब्दादिति हि ब्रह्मसूत्रम् । तत्प्रामाण्यं बादरायणस्यानपेक्षत्वादिति च जैमिनिसूत्रम् । तथा च प्रत्यक्षादिप्रत्ययानां प्रामाण्यस्य साक्षिणा गृहणात् । न हि स्वग्राह्यप्रत्ययविषयस्य त्रैकालिकाबाध्यत्वमनन्तर्भाव्य स्वग्राह्य-प्रामाण्याश्रयप्रत्ययस्य प्रामाण्यं शक्यग्रहम् । अतो घटादिज्ञाने प्रामाण्यस्य सदर्थकत्वरूपस्य स्वतस्त्वादबुभुत्सितग्राह्यज्ञानग्राहकेण साक्षिणा मिथ्यात्वानुमानात् प्राक् प्रामाण्यं गृहीतमिति पश्चात्प्रवृत्तस्य मिथ्यात्वानुमानस्य बाधिततया न त्वदभिप्रेतसाध्यसाधकत्वमित्यर्थः । सम्भावित-प्रकारान् दृश्यत्वस्य दूषयितुं पृच्छति– किञ्चेदमिति । वृत्तीति ॥ मनोऽधिष्ठितबहिरिन्द्रियाणां स्वरश्मिद्वारकार्थसन्निकर्षे सति बाह्येन्द्रियद्वारा निःसृतान्तःकरणपरिणामो वृत्तिः । प्रमाणजन्यान्तः-करणपरिणामो वृत्तिः । इयं च परोक्षापरोक्षसाधारणी । तद्व्याप्यत्वम् । तया प्राप्यत्वं तया सह सम्बन्धविशेष इत्यर्थः । फलेति । उक्तरूपायां वृत्तौ प्रतिबिम्बितचैतन्यं फलं तेन सम्बन्धविशेष इत्यर्थः । साधारणमिति । वृत्तिव्याप्यत्वफलव्याप्यत्वानुगतं व्यवहारप्रयोजकविषयत्वं तदन्यतरत्वं वा व्यवहर्तव्यविषयत्वं वेत्यर्थः । कदाचिदिति । स्वस्याविद्यामानतादशायां चिदविषयत्वेऽपि विद्य-मानतादशायां चिद्विषयत्वं कदाचिद्विषयत्वम् । धर्मं न जानामीत्यज्ञानोपरागेण वा घटं जानामीति ज्ञानोपरक्ततया वा कथंचिद्विषयत्वमित्यर्थः । स्वव्यवहार इति । अद्वितीयत्वादिना आत्मव्यवहारे स्वातिरिक्तसंविदपेक्षाऽस्ति इति अव्यभिचाराय नियतिरिति । स्वातिरिक्तसंविदपेक्षानियत-स्वव्यवहारकत्वमिति यावत् । आत्मस्वरूपे तु स्वातिरिक्तसंविदन्तराभावेऽपि सुषुप्तौ नित्य-सिद्धस्फुरणरूपव्यवहारदर्शनान्न तन्नियम इत्यर्थः ।
अस्वप्रकाशत्वं वेति । परप्रकाश्यत्वाभाव इत्यर्थः । न हि विकल्पनमेव दोष इत्यतः षोढा विकल्पितस्य दृश्यत्वस्याद्यं पक्षं निषेधति । नाद्य इति । आत्मन इति । पक्षसपक्षयोरिव विपक्ष-भूतस्यापीत्यपिशब्दार्थः । वेदान्तजन्येनोक्तरूपमनःपरिणामेन वृत्याऽऽत्मनोऽपि व्याप्यमानत्वात्तत्र व्यभिचार इत्यर्थः । यद्यपि परमते अधिष्ठानांश एवान्तःकरणवृत्तिर्नाध्यस्तांशे तथापि तत्राविद्या-वृत्तिरस्तीत्यभिप्रेत्योक्तमिति ज्ञेयम् । वस्तुतस्तु । वृत्तिः किमन्तःकरणवृत्तिरुताविद्यावृत्तिः । आद्ये विरुद्धो हेतुः । पक्षविपक्षयोरेव वर्तमानत्वात् । द्वितीये स्वरूपासिद्ध इत्यपि दृष्टव्यम् । व्यभिचारो विरुद्धोऽभिचारो हेतोर्वृत्तिरित्यर्थः । प्रतिवाद्यनैकान्तिको वा । विपक्षे बाधकेन परं प्रत्यात्मनो वृत्तिव्याप्यत्वानङ्गीकारे इत्यर्थः ।
ननु नोपनिषदां वैय्यर्थ्यं विषहरमन्त्रवज्जपार्थकत्वोपपत्तेरित्यतो वेदान्तान् विशिनष्टि ब्रह्म-पराणामिति । उपक्रमादिलिङ्गैर् ब्रह्म परं मुख्यं प्रतिपाद्यं येषाम् । ब्रह्मप्रतीतीच्छया पूर्वपूर्वाध्यापकोच्चरितानामिति वार्थः । श्रवणादिविधेश्चेति । फलाभावादित्यर्थः । ननु नैष्फल्य-श्रवणविधेर्विश्वजिन्न्यायेन स्वर्गफलकत्वस्यान्ततः सम्भवादित्यत उक्तं ब्रह्मज्ञानार्थमिति । आत्मा वा ओ दृष्टव्यः श्रोतव्य इत्यत्र श्रवणमिष्टसाधनमिति प्रतिपादिते किमिष्टमिति तदाकाङ्क्षायां वाक्येन दर्शनं विनियुज्यते न तु व्यवहितं स्वर्गादि सम्बध्यते । सन्निहितफलाश्रवण एव व्यवहितस्य कल्पनादतः श्रवणविधिर्ब्रह्मज्ञानार्थस्त्वन्मते व्यर्थः स्यादित्यर्थः ।
ननु श्रवणविधिर्न ब्रह्मदर्शनार्थः ब्रह्मणोऽदृश्यत्वेन सन्निहितस्यापि दर्शनशब्दस्य तदबोधकत्व-मिति चेन्न । निर्दोषवाक्ये तदयोगात् । एतेन श्रवणेन भावयेत्किमित्यपेक्षायां समानपदोपात्तं श्रवणमेव वाक्योपात्तदर्शनापेक्षयाऽतिसन्निहितं फलत्वेन सम्बध्यत इति निरस्तम् । इष्टसाधनताया एव विध्यर्थत्वात् । श्रवणस्य यागवत्स्वयमिष्टत्वाभावेन फलत्वेनान्वयायोगात् । भिन्नपदोपात्त-स्वर्गवद्वाक्यान्तरोपात्तस्यापि मोक्षान्वयिब्रह्मदर्शनस्य श्रवणफलत्वेनान्वयोपपत्तिरिति । अदृश्यत्वे दोषान्तरमाह । ब्रह्मविचारयतोरिति । ब्रह्मविचारयितुमपक्रान्तयोरित्यर्थः । चकारः पूर्वदूषण-समुच्चये । गुरोर्मौनं शिष्यस्य मौढ्यम्् । यद्वोभयेषाम् उभयम् । ननु यदि ब्रह्माज्ञेयं स्यात्तर्हि तद्विचार-यतोर्गुरुशिष्ययोर्मौनं स्यादिति कथमापादनम् । व्यधिकरणत्वादिति चेत् । न । यद्यदज्ञेयं तत्तच्छास्त्रविचारविषयो न । यथा वात्स्यायनशास्त्राज्ञेयो धर्मस्तच्छास्त्रीयाविचारविषयो नेति व्याप्तौ सत्यां वैय्यधिकरणस्यादोषत्वात् ।
यद्वा यदि ब्रह्म वेदान्तशास्त्रसाध्यज्ञानविषयो न स्यात्तर्हि मुमुक्षुविचार्यं न स्यात् कामशास्त्र-विचार्यवत् । मौनशब्देनात्रोपक्रमादिलिङ्गकस्य ब्रह्मदर्शनेच्छापूर्वकोच्चरितत्वरूपवेदान्तिनिष्ठ-ब्रह्मविषयकतात्पर्यावधारणरूपमननापरपर्यायविचारासम्भवस्य विवक्षितत्वात् । अज्ञेयत्वे तु निरुक्तब्रह्मविचारस्यासम्भवस्वरूपत्वात् । मौढ्यशब्देनात्र प्रमादो विवक्षितस् तदसाध्ये तदर्थितया तद्धेतुरिति बुध्या तत्साधने यतमानत्वम् । न तु ब्रह्मज्ञानप्रागभावः । इष्टत्वेनापादानायोगात् । कार्यस्यासम्प्रतिपत्या प्रागभावस्य कल्पयितुमनर्हत्वाच्च । तस्य कार्यैकोन्नेयत्वात् । अज्ञेयत्ववादिन-स्तदत्यन्ताभावस्यापीष्टत्वादिति । ततश्चेैतन्निरस्तम् । किमत्रापाद्यमानं मौनं शब्दवक्तृत्वाभाव उत वेदान्तरूपशब्दवक्तृत्वाभावः । आहोस्विद् ब्रह्मदर्शनोद्देश्यकशब्दवक्तृत्वाभावः । नाद्यः । अज्ञेयत्वेऽपि ब्रह्मणस्तद्विचारे प्रवृत्तयोर्गुरुशिष्ययोर्देहनिर्वाहादिहेतुशब्दप्रयोगे विरोधाभावात् । न द्वितीयः । ब्रह्माबोधकस्यापि वेदान्तिरूपशब्दस्य स्तुतशस्त्राधिकरणन्यायेन प्रयोगोपपत्तेः । न तृतीय इष्टापत्तेः । ब्रह्मणो ज्ञानाविषयत्वेन तज्ज्ञानोद्देशेन शब्दप्रयोगस्य मया नाङ्गीकृतत्वात् । न चैवं ब्रह्मविचारे वेदान्तवाक्यप्रयोगवैय्यर्थ्यमिति देश्यम् । तस्याज्ञेयत्वेप्युक्तन्यायेन वेदान्तवाक्यप्रयोगसम्भवादिति । निरुक्तब्रह्मविचारासिद्धेर्मौनशब्दार्थत्वेन ग्रहणादिति ।
अदृश्यत्वे दोषान्तरं समुच्चिनोति । किञ्चेति । ब्रह्मजिज्ञासेति । अप्रत्ययादिति सूत्रविहित-कृदन्तजिज्ञासाशब्दयोगे जिज्ञासाकर्मभूतब्रह्मगतकर्मत्वमभिदधाना ब्रह्मशब्दात्षष्ठी कर्तृकर्मणोः कृतीति सूत्रात् तस्याश्च प्रतिपदविधाना षष्ठी न समस्यत इति समासनिषेधेऽपि कृद्योगलक्षणा षष्ठी समस्यत जाते सुपो धातुप्रातिपदिकयोरिति सूत्रेण षष्ठी लोपे ब्रह्मजिज्ञासेति पदं निष्पद्यते । एवं चाज्ञेयत्वे ब्रह्मजिज्ञासा ब्रह्मज्ञानमित्यादौ कर्मत्वार्थकषष्ठ्यर्थान्तर्भावेण वाक्यार्थो न स्यात् । षष्ठ्यर्थान्तर्भावश्च समासशक्त्या वा पूर्वपदलक्षणया वा लुप्तषष्ठीस्मृत्या वा षष्ठ्यर्थोपस्थितावित्यन्यदेतत् । तथाच ज्ञप्त्यपरपर्यायवृत्यव्याप्यत्वे ब्रह्मणो ज्ञानलक्षणक्रियया आप्तुमिष्टतमत्वरूपज्ञानकर्मत्वानुपपत्योक्त-षष्ठ्यर्थान्तर्भावेन वाक्यार्थो न निष्पद्येतेत्यर्थः । तमेवेति । कर्मणीति द्वितीया तिङ्तव्यादिषु च सम्बध्यते । अत एव दृश्यते त्वित्यादौ तिङादिभिः कर्मणोऽभिहितत्वात् कर्मणि प्रथमा । यदि ब्रह्म दृश्यं न स्यात् तर्हि श्रौतद्वितीयाद्यभिधेयकर्मवन्न स्यात् कर्तुरीप्सिततमं कर्मेति सूत्रोक्तकर्मलक्षणा-भावादित्यर्थः । एवं श्रुत्यादिबलेनात्मनो वृत्तिव्याप्यत्वलक्षणं दृश्यत्वं समर्थ्य परन्यायेनापि तदुपपादयति । दृशोऽज्ञाने इति । ब्रह्मरूपदृशो ज्ञानकर्मत्वाभावे विशेषणाज्ञानेन विशिष्टाज्ञाना-दित्यर्थः । यद्यपि वृत्तिरूपदृग्विषयत्वरूपदृश्यत्वहेतुदूषणमुपक्रान्तं न तु ब्रह्मरूपदृग्विषयत्व-रूपदृश्यत्वहेतुदूषणम् । तथापि परेण चिन्मात्रव्यतिरिक्तस्य सर्वस्य प्रपञ्चस्य ब्रह्मरूपदृगध्यस्तत्व-लक्षणं दृग्विषयत्वं स्वीक्रियते । परैरेतदन्यस्य दृग्विषयत्वस्य दुर्निरूपत्वेनोक्तत्वात् । तत्रेदं दूषणमुपतिष्ठते । प्रपञ्चे तादृग्दृश्यत्वज्ञानं तव न स्यात् । अयं प्रपञ्चो ब्रह्मरूपदृगध्यस्त इति ज्ञानं न स्यादिति यावत् । तदभावे च प्रवचनानुपपत्तिः । तथा च प्रपञ्चारोपाधिष्ठानस्य शुद्धस्य ब्रह्मणो वृत्तिव्याप्यत्वावश्यभावाद्व्यभभिचारः सुस्थ इति भावः ।
केचित्तु श्रोतावा मैवं ज्ञासीत् । तथापि वृत्तिव्याप्यत्वरूपोक्तहेतुः सुज्ञान एव । न हि दृग्विषयत्वरूपदृश्यत्वमत्र हेतुत्वेनाभिप्रेतमित्यत उक्तं दृग्विषयत्वेति । अयमर्थः । नात्र प्रकृतहेतोरज्ञानमापद्यते किन्तु मिथ्यात्वे साध्ये वृत्तिव्याप्यत्वरूपं पारिभाषिकं दृश्यत्वं हेतूकुर्वताऽपि प्रकृतिप्रत्ययावगतदृग्विषयत्वरूपदृश्यत्वमपि दुरपह्नवम्् । परन्तु तत्तेन हेतुत्वेन नाभिप्रेतम् । एवञ्च हेतुत्वेनानभिमतोऽपि दृग्विषयत्वरूप उपाधिर्यदि वृत्तिव्याप्यस् तदा तदुपाधिविशेषणीभूतदृशोऽपि वृत्तिव्याप्यत्वमावर्तनीयमेव । यदि न वृत्तिव्याप्यस्तदा तदुपाधेर्नमिथ्यात्वसिद्धिर्भागासिद्धिश्च स्यादित्याहुः । तदपेशलम् । उक्तरीत्या ग्रन्थाक्षरार्ज्जवेनैव प्रतिज्ञातव्यभिचारोपपादनसम्भवेऽन्यथा व्याख्यानस्य क्लिष्टत्वात् । यदपि वृत्तिव्याप्यत्वरूपं पारिभाषिकमित्यादिवचनं तदज्ञानविजृम्भितम्् । मतद्वयेऽपि वृत्तिशब्दस्य जन्यज्ञानपरत्वात् । प्रकृतिप्रत्ययावगतार्थानपायाच्च । अन्यथाऽपरोक्षज्ञाने वृत्तिशब्दप्रयोगापत्तेः । बहिरिन्द्रियजन्यान्तःकरणेत्यादि तु जन्यज्ञानविशेषपरम् । उक्तं च विष्णुतत्वनिर्णयटीकायाम् । किमिदं दृश्यत्वं दृग्विषयत्वमुत अस्वप्रकाशत्वम् । आद्येपि किं दृग्वृत्ति-रूपा चिद्रूपा वा । नाद्यः । आत्मन्यनैकान्त्यात् । तस्यापि वेदान्तजन्यवृत्तिविषयत्वादिति । स्ववचनविरोधाख्यविपक्षबाधकेनापि व्यभिचारं सुदृढं करोति । सर्वेति । घटाद्याकारसर्वापरोक्ष-वृत्तिवेद्य इत्यर्थः । घटादिसर्वप्रत्ययविषयो ब्रह्मेत्यङ्गीकुर्वतां स्वाचार्याणां वचनस्यापि स्वयं प्रमाण-तयाऽङ्गीकृतत्वेन स्ववचनत्वात् तद्विरोधश्च प्रसज्येतेति भावः । परोक्षवृत्तावधिष्ठानब्रह्मस्फुरणस्य परैरनङ्गीकारात् । अन्यथाभिव्यक्तापरोक्षैकरसचित्सम्बन्धेन तद्विषयस्यापरोक्ष्यापातात् । यत्तु घटोऽय-मित्याद्यपरोक्षवृत्तिवेद्यं न शुद्धं ब्रह्म यत्तद्रेश्यमिति श्रुतेः किन्तूपहितमेव तन्मिथ्यैव । न हि वृत्तिदशायाम् अनुपहितं तद्भवतीति । तदसत् । शुद्धस्यैव ब्रह्मणो घटाद्यधिष्ठानत्वात् । घट-सन्निकृष्टेन्द्रियजन्यवृत्त्युपहितस्य घटाद्यधिष्ठानत्वानुपपत्तेश्च । अन्यथाऽन्योन्याश्रयप्रसङ्गः । वृत्युपहितस्य वृत्तिविषयत्वे वृत्तेः स्वप्रकाशत्वापाताच्चेति ।
एतेन शब्दजन्यवृत्तिविषयत्वमेव दृश्यत्वम् । अन्यथा शशविषाणं तुच्छमित्यादिशब्दजन्य-वृत्तिविषये तुच्छे व्यभिचारस्य दुरुद्धरत्वात् । एवं च सति शुद्धस्य वेदान्तजन्यवृत्तिविषयत्वेऽपि न तत्र व्यभिचारः । तुच्छशुद्धयोः शब्दजन्यवृत्तिविषयत्वानभ्युपगमात् ।
यद्वा सप्रकारकवृत्तिविषयत्वमेव दृश्यत्वम् । प्रकारश्च सोपाख्यः कश्चिद्धर्मः । तेन निष्प्रकारक-ज्ञानविषयीभूते शुद्धे निरुपाख्यधर्मिप्रकारकज्ञानविषयीभूते तुच्छे च न व्यभिचारः । अभावत्वस्यापि सोपाख्यत्वादभाववत्वप्रकारकज्ञानविषयीभूते अभावेन भागासिद्धेः । उपाख्या चास्तीति प्रातीतिक-विषयत्वादीत्यन्यदेतत् । तस्माद्व्यक्तो व्यभिचार इति निरस्तम् । त्वदुक्तहेतोः स्वरूपासिद्धत्वात् । ब्रह्मवदग्निहोत्रादेरपि वेदैकसमधिगम्यत्वात् । घटादेरपि घटमानयेत्यादिशब्दजन्यवृत्तिविषयत्वात् । तदिदमेकं सन्धित्सतोऽन्यत्प्रच्यवत इत्यापन्नम् । शब्दजन्यवृत्तिविषयत्वे सति शब्दान्यजन्यवृत्तिविषयत्वं विवक्षितमिति चेत् । न । नित्यातीन्द्रिये भागासिद्धेः । किञ्चैवमपि उक्तव्यभिचारो दुष्परिहरः । ब्रह्मणश्चाक्षुषतादृशघटादिविषयवृत्तिविषयत्वात् । न च घटादिचाक्षुषप्रत्ययेषु न ब्रह्म विषय इति देश्यम् । तथा सति तव सर्वप्रत्ययवेद्य इत्यादि स्ववचनविरोधः स्यादिति मूल एवोक्तत्वात् । न च विशिष्टं सर्वप्रत्ययवेद्यम्, न शुद्धमिति शङ्क्यम् । प्रपञ्चस्य प्रविलयः शब्देन प्रतिपाद्यते इत्युत्तरार्धे जगद्विलयाधिष्ठानत्वोक्त्या सर्वप्रत्ययवेद्यस्य शुद्धत्वात् । पूर्वार्धेऽपि व्यवस्थिते इत्यनेनानुगतत्वोक्त्या शुद्धस्यैव प्रतीतेः ।
यदपि व्यभिचारपरिजिहीर्षया पक्षान्तरोपादानं सप्रकारकवृत्तिविषयत्वमेव दृश्यत्वमिति । तदतीव मन्दम् । अस्तीत्येवोपलब्धव्य इति श्रुतेरात्मनोऽपि सोपाख्यप्रकारकवृत्तिविषयत्वात् । शशशृृङ्गादेरपि वा तथाऽऽभासादिनाऽस्तीतिप्रकारकावगाहिप्रतीतिविषयत्वात्तुच्छब्रह्मणो व्यभिचारो न शक्यसमाधान इति क्षोदीयस्यालमतिपीडयेति ।
ननु साध्यात्यन्ताभावाधिकरणसत्तासमसत्ताकस्य हेतोर्निश्चितसाध्यात्यन्ताभाववति वृत्ति-र्व्यभिचारः । अपरथा हृदीयबाष्पारोपितधूमस्य हृदे वृत्या धूमस्यापि वह्निव्यभिचारः स्यात् । वृत्तिव्याप्यत्वरूपं दृश्यत्वं च प्रपञ्चे यथा तत्सत्तासमसत्ताकं व्यावहारिकत्वात् । तथा ब्रह्मण्यपि व्यावहारिकत्वान्न पारमार्थिकसत्ताकधर्मिसमसत्ताकमतो न व्यभिचार इत्याशङ्क्य निराकरोति । न चेति । कुतो न वाच्यमित्यत आह । ब्रह्मजगतोरिति । जगतो व्यावहारिकत्वे सिद्धे जगदन्तः-पातिनो वृत्तिव्याप्यत्वस्य हेतोः पारमार्थिकव्यावहारिकयोर्ब्रह्मजगतोर्विद्यमानस्यापि व्यावहारिकत्वं सिद्ध्यति । पारमार्थिकव्यावहारिकविभागश्चाद्यापि न सिद्ध इत्यर्थः । निश्चितसाध्याभाववति ब्रह्मणि निरुक्तहेत्वभावस्य सन्दिग्धत्वात्सन्दिग्धानैकान्तिकता स्यादिति भावः ।
किञ्च व्यावहारिकत्वं व्यवहारसिद्धसत्ताकत्वं चेद् ब्रह्मणोऽपि व्यावहारिकत्वापत्तिः । बाध्यत्वं चेन्न तेन मिथ्यात्वसिद्धिः । स्वयमलब्धसत्ताकस्यान्यासाधकत्वात् । अन्योन्याश्रयाच्च । त्वदुक्तानु-मानेन जगतो मिथ्यात्वे सिद्धे मिथ्याभूतस्य साधकत्वसिद्धिस्तत्सिद्धौ चैतत्सिद्धिरिति । वस्तुतस्तु सत्वाभावादसत्वाद्वा आरोपितस्यासाधकत्वे सम्भवति सति तद्व्यावृत्यर्थं साध्यात्यन्ताभावाधिकरण-सत्तासमसत्ताकत्वेन हेतुर्न विशेषणीयः । यदि तु व्यावहारिकप्रातीतिकानुगतसत्ताकमङ्गीकृत्य विपक्षे धर्मिसमत्वस्य हेतोर्वृत्तिर्व्यभिचार इत्युच्यते तदा तु गुञ्चापुञ्जारोपितवह्नौ त्वन्मते वह्नित्वसधर्मि-सत्तासमसत्ताकस्य व्यावहारिकौष्ण्यत्वाभावसमानाधिकरणस्य उष्णत्वेन व्यभिचारात् । वह्नित्वे-नोष्णत्वानुमानं व्यावहारिकवह्नावपि न स्यादिति । न चाभासविविक्तत्वेन वह्नित्वहेतुर्विशेषणीय इति साम्प्रतम् । सत्ताभेदासिद्ध्याऽन्योन्याश्रयात् । लौकिकपरीक्षकानुभवविरोधाच्च । हृदोऽग्निमान् धूमवत्वादिति प्रयुक्ते असिद्धिमेवोद्भावयन्ति । एवञ्च पर्वते वह्निसिद्ध्यर्थं प्रयुक्तस्य धूमस्य हृदीयबाष्पारोपितधूमेन व्यभिचारे अभिहिते धूम एवायं न भवतीति प्रतिवक्तारो भवन्ति परीक्षकाः । न तु धूमाभासविविक्तत्वेन विशिंषन्ति । स्वसमयपरिकल्पनमात्रस्य लौकिकव्यवहार-नियामकत्वादिति ।
किञ्चेति । अन्यच्चेत्यर्थः । दूषकतौपायिकव्यभिचारे यदि विपक्षसत्तासमानसत्ताकहेतु-वृत्तिरपेक्षिता तर्हि तादृशे बाधेऽपि धर्मिसमसत्तासाध्ये अपेक्षितः । स्यात्् समानन्यायत्वात् । अन्यथा प्रपञ्चे पारमार्थिकत्वेन प्रातिभासिकत्वेन वा दृश्यत्वस्याभावेनासिद्धिः स्यादित्यर्थः । ततः किमित्यत आह । तथाचेति ॥ आत्मा स्वप्रकाशो ऽनुभूतित्वाद्व्यतिरेकेण घटवदिति त्वदुक्तानुमाने पक्षीकृते आत्मनि धर्मिसमसत्ताकस्य साध्यस्याभावोऽस्तीति बाधः स्यात् । तत्रैव धर्मिसमसत्ताकस्यानुभूतित्वस्य हेतोरसत्वादसिद्धिश्च स्यात् । एवं विमता आत्मानः परमात्मनस्तत्वतो न भिद्यन्ते आत्मत्वात् परमात्मवदित्यनुमानेऽपि बाधासिद्ध्यादिकं दूषणं देयमिति सूचयितुम् आदिपदं प्रायोजि । कुतो बाधासिद्धिप्रसङ्ग इत्यत उक्तम् । तात्विकधर्महीन इति । आश्रयसत्ता-समानसत्ताकस्यापि धर्मस्याभावादित्यर्थः ।
एवमिति । साध्यात्यन्ताभाववति साधनात्यन्ताभावमात्रं न व्यभिचारः । किन्तु साध्य-स्यात्यन्ताभाववति धर्मिसमसत्ताकः साधनस्याभावो व्यभिचाराभाव इत्यपि स्यादन्यथा व्यतिरेकव्याप्तौ साध्याभाववति ब्रह्मणि साधनस्य सत्वेन व्यभिचारः स्यात् । नच साधनमेव धर्मिसमसत्ताकत्वेन विवक्षणीयमतो न व्यभिचार इति देश्यम् । साध्याभावाधिकरणसत्तासमानसत्ताकदृश्यत्वस्य क्वाप्य-सम्भवेन तादृशहेतोर्निर्वक्तुमशक्यत्वात् । तथा च व्यभिचारलक्षणान्तर्गते हेतौ धर्मिसमानसत्ताकत्वं विशेषणम् । तथा साध्याभाववति साधनाभाववत्वरूपाव्यभिचारलक्षणान्तर्गतसाधनाभावेऽपि धर्मि-समसत्ताकत्वेन विशेषणीयः । एवञ्च साध्याभाववति ब्रह्मणि व्यावहारिकदृश्यत्वे सत्यपि पारमार्थिकः साधनाभावो नास्तीति व्यतिरेकव्याप्तौ व्यभिचारः । स न भवेदित्यर्थः । ततः किमित्यतस्तत्र दोषं दर्शयति । तथाच दृश्यत्वादीनामिति । प्रपञ्चमिथ्यात्वसाधनाय प्रयुक्तानां दृश्यत्वजडत्वादीनाम् इत्यर्थः ।
अयमाशयः । साध्यात्यन्ताभाववत्यात्मनि दृश्यत्वादेः साधनस्याभावे विद्यमानेऽपि धर्मि-सत्तासमानसत्ताकत्वविशेषणविशिष्टः साधनभावो नास्तीति व्यभिचार एव स्यादिति । धर्मिसमान-सत्ताको हेत्वभावः किमात्मस्वरूपमुत तदतिरिक्तः । नाद्यः । सोपाधिकस्य निरूपाधिकब्रह्म-स्वरूपत्वायोगात् । नान्त्यः । अद्वैतहान्यापत्या पारमार्थिकात्मस्वरूपव्यतिरिक्तहेत्वभावानङ्गीकारेण व्यभिचार इति ध्येयम् । तथा च साध्याभावाधिकरणसत्तासमानसत्ताकसाधनस्य कुत्राप्यप्रसिद्धत्वेन तदभावस्य ब्रह्मणि वक्तुमशक्यत्वात् साधनं धर्मिसमसत्ताकत्वेन विशेषितुमशक्यमित्यन्वयव्याप्तौ व्यभिचारस्सुस्थः । एवं व्यतिरेकव्याप्तौ व्यभिचारपरिहारार्थं धर्मिसमसत्ताकत्वं साधनाभावेऽपि विशेषणम्् । तदप्ययुक्तम् । व्यभिचारस्य तदवस्थात्वात् । दत्तेऽप्यौषधे न शान्तो व्याधिरिति उभयतः पाशारज्जुर्मायावादिन इति । ततश्चान्वयव्याप्तेर्व्यतिरेकव्याप्तेश्चाभावाद् दृश्यत्वस्यान्वव्य-तिरेकित्वासम्भव इति भावः ।
तस्मादिति ॥ धर्मिसमसत्ताकत्वरूपस्य हेतुविशेषणस्यानुपपन्नत्वादित्यर्थः । त्वदीये स्वप्रकाशत्वानुमानेऽनुभूतित्वस्य हेतोर्व्यावहारिकस्यात्मनि पक्षीकृते सत्वाद् यथा नासिद्धिस्तथा त्वदुक्ते मिथ्यात्वानुमाने वृत्तिव्याप्यत्वरूपदृश्यत्वस्य हेतोर्व्यावहारिकस्यात्मनि विपक्षे सत्वाद् व्यभिचारो दुरुद्धर इति भावः । अथ धर्मीति । धर्मिशब्दस्य सम्बन्धिशब्दतया समभिव्याहृतपरत्वेन घटादिधर्मिसमसत्त्वरूपविशेषणविशिष्टस्य हेतोः पक्षे सत्वान्नासिद्धिः । उक्तन्यायेनैवात्मपरतया धर्मिशब्दस्यात्मनि विपक्षे तत्समसत्ताकस्य हेतोरसत्वान्न व्यभिचारोऽपीत्यर्थः । पूर्वं धर्मिसम-सत्ताकत्वं स्वरूपसल्लिङ्गविशेषणमिति हृदयम् । अत्र तु ज्ञाततयोपात्तं तद्विशेषणमित्यपुनरुक्तिः । यद्वा व्यभिचारलक्षणान्तर्गतहेतौ धर्मिसमसत्ताकत्वं विशेषणं प्रागभिहितं सम्प्रति न्यायवाक्यान्तर्गत-हेत्ववयवार्थे प्रकृते लिङ्गे धर्मिसत्तासमानसत्ताकत्वं विशेषणमुच्यत इति भेदः । तर्हीति । विषयत्वा-परपर्यायकर्मत्वार्थककृत्यप्रत्ययान्तेन वृत्तिव्याप्यत्वहेत्वन्तर्गतेन व्याप्यशब्देन समभिव्यवह्रियमाण-वृत्तेर्विषयत्वमभिहितम् । एवञ्च धर्मिसत्त्वरूपविशेषणविशिष्टं विषयत्वमेव हेतुरस्तु । तात्विकधर्महीने च ब्रह्मणि धर्मिसमसत्ताकस्य कस्यचिद्धर्मस्याभावाद्व्यभिचाराभावेन वृत्तीत्यस्य विशेषणस्य वैय्यर्थ्य-मिति भावः । विषयत्वं ज्ञाननिरूप्यो ज्ञेयसत्तानपेक्षः प्रतियोगित्ववत् कश्चिद्धर्मविशेष इति बोध्यम् । यद्वा विषयत्वं ज्ञाननिरुप्यो विषयसत्वानपेक्षः सम्बन्धविशेष इति सम्बन्धित्वादित्येवास्तु किमधिके-नेत्यादिपदं प्रयुञ्जानस्य भावः ।
ननूपायस्योपायान्तरादूषकत्वाद्धर्मिसमसत्ताकं विषयत्वमेव मिथ्यात्वे हेतुरस्त्विति न देश्यम् । त्वन्मते विपक्षस्य ब्रह्मणो निर्धर्मकत्वेन हेतोस्तथा विशेष्टुमशक्यत्वात् । अविशेषणे च व्यभिचारस्य दुरुद्धरत्वादित्येवमुभयतः पाशारज्जुर्मायावादिनः । ममेति । ब्रह्मणि तात्विकधर्मान्् अङ्गीकर्तुस्तत्ववादिन इत्यर्थः । वदन्ति तत्तत्वविदस्तत्वं यद् ज्ञानमद्वयम् । ब्रह्मेति परमात्मेति भगवानिति शब्द्यते’’ इति हि श्रीभागवते । दृष्टान्तस्य । त्वन्मते ब्रह्मज्ञानेतराबाध्यत्वेन व्यावहारिकदृश्यत्वाधिकरणे शुक्तिरूप्ये धर्मिसमसत्ताकस्य दृश्यत्वस्याभावदित्यर्थः । तथा च पक्षविपक्षमात्रवृत्तित्वाद् विरुद्धो हेतुरिति भावः । यद्वा हेतुशरीरप्रविष्टा वृत्तिः किं परोक्षा उतापरोक्षा । आद्ये दोषमाह । दृष्टान्तेति । चकारो द्वितीयपक्षदूषणसमुच्चयार्थः । त्वन्मतेऽध्यस्तस्य शुक्तिरूप्यादेरपरोक्षवृत्तिविषयत्वाभावादित्यर्थः । यद्वाऽनुक्तसमुच्चयार्थेन चकारेण सुखादौ भागासिद्धिः समुच्चीयते ।
न द्वितीयः । तुच्छे ब्रह्मणि चानैकान्त्यात् । एवमन्तःकरणवृत्तिविषयत्वे विवर्तनये सपक्षीकृत-प्रातीतिकशुक्तिरूप्याद्यवृत्तित्वेन विरूद्धो हेतुः । अविद्यावृत्तिविषयत्वे त्वसिद्धिरिति दोषो बोध्यः ।
न्यायामृतसौगन्ध्यं
ननु मिथ्यात्वे साध्ये हेतूकृतं दृश्यत्वमुपपादनीयम् । तथाहि तच्च वृत्तिव्याप्यत्वमिति चेत् । न । ब्रह्मणि व्यभिचारात् । अन्यथा ब्रह्मपराणां वेदान्तानां वैयर्थ्यप्रसङ्गात् । न च शुद्धं ब्रह्म न दृश्यम् । ‘यत्तदद्रेश्यम्’ इति श्रुतेः । किन्तूपहितमेव । तच्च मिथ्यैव । न हि वृत्तिदशायामनुपहितं भवतीति वाच्यम् । ‘सर्वप्रत्ययवेद्ये च ब्रह्मरूपे व्यवस्थिते’ इति त्वदीयैर्ब्रह्मणस्सर्वप्रत्ययवेद्यत्वोक्तेः । न च घटाद्याकारवृत्या आवरणाभिभवे शुद्धं ब्रह्म प्रकाशेन घटाधिष्टानचैतन्यप्रकाशे घटादेर्बाधापत्तेर् विशिष्ट-चैतन्यस्य वृत्तावध्यस्तत्वेनानुव्यवसायकाले बाधापत्तेः । न च तदप्युपहितविषयकम् । उपहितोप-धेयांशस्य शुद्धस्य वृत्तिवेद्यत्वावश्यकत्वात् । अन्यथा शुद्धस्यासिद्ध्यापत्तेः । न च स्वप्रकाशत्वेन स्वतस्सिद्धं तत् । प्रमाणं विना सिद्धौ खपुष्पादीनामपि सिद्ध्यापत्तेः । किञ्चाज्ञाते धर्मिणि कस्यचिद् धर्मस्य विधातुं निषेद्धुं वाऽशक्यत्वेन शुद्धे दृश्यत्वं निषेधता शुद्धस्य ज्ञेयत्वमवश्यं स्वीकार्यम् । न च स्वप्रकाशत्वेन स्वतस्सिद्धे शुद्धे वृत्त्या दृश्यत्वनिषेध इति वाच्यम् । ‘शुद्धं स्वप्रकाशमिति शब्द-जन्यविशिष्टवृत्तौ शुद्धाप्रकाशे तस्य स्वप्रकाशत्वासिद्धेः । न च वृत्तिकाले वृत्तिरूपधर्मिणः शुद्धत्वासम्भव इति न शुद्धस्य वृत्तिविषयत्वं सम्भवतीत्यतः शुद्धं स्वप्रकाशमिति वाक्यस्य लक्षणयाऽशुद्धत्वम-स्वप्रकाशत्वव्यापकमित्यर्थः । तथा चाशुद्धत्वव्यावृत्त्या शुद्धे स्वप्रकाशत्वं पर्यवस्यति । यथा भेद-निषेधेनाभिन्नत्वमिति वाच्यम् । यत्राशुद्धत्वाभावस्तत्रास्वप्रकाशत्वाभाव इति व्यतिरेकसहचारज्ञानाय शुद्धस्यापि ज्ञेयत्वात् । किञ्च वृत्तिपदेनाविद्यावृत्तिः । मनोवृत्तिर्वा विवक्षिता? नाद्यः । जगन्मिथ्यात्वसिद्धेः प्राग् भ्रमरूपाविद्यावृत्तिविषयत्वासम्भवात् । नान्त्यः साक्षिवेद्यशुक्तिरूप्यादावन्तःकरणधर्मसुखादिषु भागासिद्धेः ।
यत्तु ‘शुक्तिरूप्यादिकं मिथ्येत्याकारकमनोवृत्तिविषयत्वमादाय शुक्तिरूप्ये सुखादौ साधन-मस्तीति । तन्न । शुद्धं ब्रह्म वृत्तिव्याप्यं नेत्याकारकवृत्तिविषयत्वस्य तत्रापि सम्भवेन व्यभिचारात् ।
यत्तु अस्वप्रकाशत्वव्यापकाभावप्रतियोगित्वरूपायास्स्वप्रकाशत्वव्यतिरेकव्याप्तेर्यदोप-हितत्वा-भावरूपे शुद्धत्वे ज्ञानमुद्बुद्धसंस्कारो वा । तदोक्तं शुद्धत्वविशिष्टे स्वप्रकाशत्वस्याभावो न ज्ञायते । वह्न्यभावव्यापकीभूताभावप्रतियोगित्वस्य धूमे निश्चय उद्बुद्धसंस्कारे वा सति धूमवति वह्न्यभावस्या-ज्ञानत्वादिति । तादृशव्याप्तिज्ञानस्य तादृशज्ञानाभावप्रयोजकत्वमेव स्वप्रकाशत्वविशिष्टशुद्धसाधकत्व-मिति । तन्न । स्वप्रकाशत्वव्याप्यवत्तया शुद्धस्य ज्ञानाभावे तत्र स्वप्रकाशत्वाभावज्ञानस्य बाधका-भावात् । स्वप्रकाशत्वव्यतिरेकव्याप्त्युपहितत्वाभावरूपे शुद्धत्वे ज्ञाते शुद्धज्ञानस्याप्यवर्जनीयत्वाच्च । दृष्टान्तेऽपि वह्निव्याप्यधूमवत्तया ज्ञात एव हि पर्वतादौ वह्न्यभावो न ज्ञायते । किञ्चोपहितत्वस्या-स्वप्रकाशत्वव्यापकत्वे ज्ञातव्ये शुद्धत्वस्वप्रकाशत्वयोः सहचारज्ञानमपेक्ष्यते । अन्यथोपहितत्वाभाव-वद्वृत्यस्वप्रकाशत्वमिति व्यभिचारज्ञानानुच्छेदेनोक्तव्यापकताज्ञानासम्भवात् । उक्तसहचारस्याशुद्धत्व-घटितत्वेन तद्धीशुद्धविषयका स्यादेव । न च शुद्धस्य वृत्त्यविषयत्वादेव तद्घटितव्यभिचाराकारवृत्त्यसम्भव इति वाच्यम् । शुद्धत्वस्य वृत्तिमत्त्वज्ञानं विनाऽस्वप्रकाशत्वस्य व्यापकीभूताभावप्रतियोगित्वज्ञानवत् स्वप्रकाशत्वव्यापकीभूताभावप्रतियोगित्वज्ञानस्यापि सम्भवात् । शुद्धत्वविशिष्टत्वेन शुद्धाज्ञाने शुद्धेऽस्वप्रकाशत्वनिषेधरूपस्वप्रकाशत्वस्य पर्यवसानासम्भवाच्च । यत्तु यथा तद्घटत्वरूपतद्घट-भिन्नत्वाभावस्य व्यापको यस्तद्घटभेदस् तद्रूपस्यात्यन्ताभावस्य प्रतियोगी तद्घटभेदात्यन्ताभाव इति निश्चयोत्तरं तद्घटभेदात्यन्ताभाववति तद्घटाभावज्ञानानुत्पत्त्या तद्घटत्वं पर्यवस्यतीति दृष्टान्तः । स तु सम्यगेव । तद्घटभेदात्यन्ताभाववत्त्वेन ज्ञात एव ह्यधिकरणतेति तद्घटत्वाभावज्ञानानुत्पत्तिस्स्यात् ।
किञ्च स्फुरणमात्रमेव मिथ्यात्वे तन्त्रम् । लाघवात् । अतः स्वतस्स्फुरदपि ब्रह्म मिथ्या स्यात् । न च स्वतस्स्फुरणरूपतायाः शुक्तिरूप्यादावभावात् स्फुरणविषयत्वस्य च ब्रह्मण्यसिद्धेरिति वाच्यम् । अज्ञानाविरोधिस्फुरणत्वस्य शुक्तिरूप्यादावपि वक्तुं शक्यत्वात् । तद्विरोधिस्फुरणत्वस्य ब्रह्मण्यभावात् । स्फुरणविषयत्वापेक्षया स्फुरणत्वस्यैव लघुत्वाच्च । अपि च विशिष्टभाने विशेष्यस्यापि भाने श्रुत्या विशिष्टदृश्यत्वेनैव विशेष्यस्यापि दृश्यत्वाद् व्यभिचारः । न च विषयताया व्यासज्यवृत्तित्वेन न विशेष्ये विषयत्वम् (दृश्यत्वम्) । तद्वदेव विशेषणस्याप्यविषयत्वे भागासिद्धिप्रसङ्गात् । ननु विशेष्यतापन्नस्य विषयत्वेऽपि क्षत्यभावः । तस्य मिथ्यात्वाभ्युपगमात् । अत एव उपहितविषयत्वेऽप्युपाधेय-विषयत्वमक्षतमेवेत्यपास्तम् । उपहितात्मना तस्यापि मिथ्यात्वाभ्युपगमात् । ज्ञानान्तरविषयत्वेन विशेषणे भागासिद्ध्यप्रसङ्गाच्चेति चेत् । न । विशेष्यतापन्नस्य मिथ्यात्वे विशेष्यतानापन्ने वस्तुनि मानाभावेन शून्यवादापातात् । ब्रह्मणि संदिग्धानैकान्तिकस्य दुर्निवार्यत्वाच्च ।
किञ्च वेदान्तजन्याखण्डवृत्तेरुपहितविषयत्वे तदानीमुपाध्यन्तरस्याभावेन तस्यैवोपधायकत्वात् सविषयत्वापत्तिः । न चेष्टापत्तिः । अज्ञानतत्कार्याविषयकज्ञानस्यैव हि त्वन्मते तदुभयनिवर्तकत्वम् । अन्यथा ‘अहमज्ञः’ ‘सन् घटः’ इत्यादिज्ञानानामप्युपहितविषयकत्वेन ज्ञाननिवर्तकत्वप्रसङ्गात् ।
ननु वृत्तेः शाब्दवृत्तावाभासमानाया एवोपधायकत्वाभ्युपगमः । तदुक्तं कल्पतरौ ‘शुद्धं ब्रह्म’ इति विषयीकुर्वाणा वृत्तिः स्वस्वेतरोपाधिनिवृत्तिहेतुरुदयते । स्वस्या अप्युपाधित्वाविशेषात् । एवं च नानुप-हितस्य विषयता । वृत्युपरागोऽत्र सत्तयोपयुज्यते न मुख्यतया विषयकोटिप्रवेशेनेति । अयमभिप्रायः यथाऽज्ञानोपहितस्य साक्षित्वेऽपि नाज्ञानं साक्षिकोटौ प्रविशति । जडत्वात् । किन्तु साक्ष्यकोटावेव । एवं वृत्युपहितस्य विषयत्वेऽपि न वृत्तिर्विषयकोटौ प्रविशति । किन्तु स्वयमविषयोऽपि चैतन्यस्य विषयतां संपादयतीति न काप्यनुपपत्तिरिति चेन्न । वृत्तेस्स्वविषयत्वं विनोपहितस्य विषयत्वानुपपत्त्या शुद्धस्यैव हि विषयत्वं स्यादिति व्यभिचारः । किञ्चोपहितरूपेणैव शुद्धब्रह्मणः प्रमाणविषयत्वेन दृश्यत्वं मिथ्यात्वं च स्यात् । तथा च स्फुटं शून्यवादः । प्रमाणाविषयीकृतस्यालीकत्वात् । शुद्धस्यैव साक्षित्वेना-ज्ञानोपहितस्य साक्षित्वोक्तेर्वृथाप्रलापत्वात् । अन्यथा साक्षिसिद्धिरज्ञानाधीना । अज्ञानसिद्धिश्च साक्ष्यधीनेत्यन्योन्याश्रयः स्यात् ।
यत्तु ब्रह्मान्विते स्वविषयत्वेऽनन्विते सति विद्यमानत्वे च सति स्वविषयव्यावर्तकत्वाद् वृत्तेः स्वविषयत्वं प्रत्युपाधित्वम् । यदनन्वितं विद्यमानं यद्विशिष्टस्येतरस्माद्व्यावर्तकं यद्भवति तत्तत्रोपाधिः । यथा घटकारणत्वादौ दण्डत्वादिकमिति । तन्न । वृत्तावुपाधिलक्षणाभावात् । तथाहि पङ्कजपदप्रयोगे पद्मत्वमुपाधिर् योगेन पद्मापद्मसाधारणं पङ्कजपदप्रयोगं पद्मेतरस्माद् व्यावर्तयति । न तु पद्मे तत्सम्पादयति । योगेन प्रागेव तत्र सम्पन्नत्वात् । न च स्वव्यापारं स्वाश्रयं चेतरस्माद् व्यावर्तयति । किञ्च धर्मिणि विद्यमानस्तत्समसत्ताको धर्मो भवत्युपाधिः । अन्यथा प्रातिभासिकपद्मत्वस्य कुमुदादावपि सम्भवेन तत्राप्युपाधिः स्यात् ।
एतेनाज्ञानमज्ञानोपहितं विषयीकरोति । ज्ञानं च ज्ञानोपहितं विषयीकरोति । स्वानुपाधानदशायां स्वस्यैवाभावात् । तथा च ज्ञानाज्ञानयोरुभयोरप्युपाध्यविषयत्वे सत्युपहितविषयत्वात् । समान-विषयत्वेनैव हि निवर्त्यनिवर्तकभाव इति निरस्तम् । उपाधिभेदेनोपहितस्य भिन्नत्वेन ज्ञानोपहितं ज्ञानविषयम् । अज्ञानोपहितमज्ञानविषयमिति ज्ञानाज्ञानयोस्समानविषयत्वाभावात् ।
एतेन वस्तुतस्तु शब्दाजन्यवृत्तिविषयत्वमेव दृश्यत्वम् । अन्यथा शशविषाणं तुच्छमित्यादि-शब्दजन्यवृत्तिविषये तुच्छे व्यभिचारस्स्यात् । अतः शुद्धस्य वेदान्तजन्यवृत्तिविषयत्वेऽपि न क्षतिः । तुच्छशुद्धयोः शब्दजन्यवृत्तिविषयत्वानभ्युपगमात् । यद्वा सप्रकारकवृत्तिविषयत्वमेव दृश्यत्वम् । प्रकारश्च सोपाख्यः कश्चिद्धर्मः । तेन निष्प्रकारकज्ञानविषयीभूते शुद्धे निरुपाख्यधर्मप्रकारकज्ञानविषयीभूते तुच्छे च न व्यभिचारः । अभावस्यापि सोपाख्यत्वात् । तदभावत्वप्रकारकज्ञानविषयीभूतेऽभावे न भागासिद्धिः । उपाख्या चाऽस्तीति प्रतीतिविषयत्वमिति निरस्तम् । तुच्छं न क्षणिकम् । अकारणत्वादित्याद्यनुमानेन तुच्छस्यापि वेद्यत्वात् । अनुभूतिः स्वप्रकाशा अनुभूतित्वादित्यादिस्वप्रकाशादिसाधकैर् जीवात्मानः परमात्मनः न भिद्यन्ते चेतनत्वादित्यादिजीवब्रह्माभेदसाधकैश्चानुमानैर्ब्रह्मणोऽपि वेद्यत्वात् । ‘सन् घटः’ ‘अहमज्ञः’ इत्यादिप्रत्यक्षेणापि वेद्यत्वाच्च । न चोपहितमेव प्रत्यक्षवेद्यम् । उपहितस्य भाने स्वरूपेणापि भानावश्यकत्वात् । अन्यथा विशिष्टे निश्चिते कदाचित् संशयादि स्यात् । न हि तद्विषयत्वं विना विशिष्टज्ञानेनैव संशयनिवृत्तिस्सम्भवति ।
यत्तु सत्तादात्म्यान्यतरवत्त्वं सोपाख्यवृत्तिविषयत्वमिति न तुच्छे व्यभिचार इति । तन्न । स्वरूपेणैव कालत्रयाविद्यमाने शुक्तिरूप्यादौ सत्तादात्म्यवत् तुच्छेऽपि सत्तादात्म्यसम्भवात् । यत्तु अस्तीति धीविषयत्वादिसमानाधिकरणं वृत्तिविशेष्यत्वं हेतुरिति न तुच्छे व्यभिचार इति । तन्न । शशशृृङ्गमस्तीति शब्दाभासादिजन्यप्रतीतिविषयत्वस्य तुच्छेऽपि सम्भवात् ।
ननु वृत्तिव्याप्यफलव्याप्ययोस्साधारणम् । व्यवहारप्रयोजकविषयत्वरूपं दृश्यत्वं हेतुः । तच्च न चैतन्ये । अभेदे भेदनान्तरीयकस्य सम्बन्धस्याभावादतो न व्यभिचारः । तुच्छे च व्यभिचारः परिहरणीयः । यद्वा स्वव्यवहारे स्वातिरिक्तसंविदपेक्षानियतिरूपदृश्यत्वं हेतुः । संविच्छब्देन च विषयाभिव्यक्तं वृत्त्यभिव्यक्तं वा शुद्धं वा चैतन्यमात्रमभिप्रेतम् । तथाच घटादौ नित्यातीन्द्रिये साक्षिभास्ये च सर्वोऽपि व्यवहारः स्वातिरिक्तसंवित्सापेक्ष इति नासिद्धिः ।
व्यवहारश्च स्फुरणाभिवदनादिसाधारणः । तत्र ब्रह्मणः स्फुरणरूपे व्यवहारे नित्यसिद्धे स्वातिरिक्तसंविदपेक्षा नास्तीति नियतपदेन व्यभिचारवारणम् । स्वगोचरयावद्व्यवहारे स्वातिरिक्त-संविदपेक्षायां पर्यवसानादिति चेत् । न । वृत्तिव्याप्यत्वस्योक्तरीत्या ब्रह्मादौ व्यभिचारात् । फल-व्याप्यत्वस्य मम घटादावसिद्धेश्च ।
यद्वेत्याद्यप्यशुद्धम् । घटादिव्यवहारे चैतन्यापेक्षायां ममाऽसिद्धेर् ब्रह्मघटयोः स्वं प्रति स्वस्फुरणा-भावस्य तुल्यत्वेनान्यं प्रति स्फुरणे तूभयोस्स्वातिरिक्तसंविदपेक्षायां (संविदपेक्षणात्) स्वातिरिक्त-चिदपेक्षाभावस्योभयत्र तुल्यत्वाच्च । अत एव स्वातिरिक्तचित्प्रयुक्तस्फुरणकत्वं चित्सापेक्षस्फुरण-स्वरूपकत्वमिति निरस्तम् । घटादावभावात् ।
ननु अस्वप्रकाशत्वमेव दृश्यत्वं हेतुः । स्वप्रकाशत्वं हि स्वापरोक्षत्वे सति स्वातिरिक्तानपेक्षत्वम् । यत् साक्षादपरोक्षाद्ब्र्रह्मेति श्रुतेः । तथाचान्यानधीनापरोक्षत्वं पर्यवसितम् । तन्निरूपितभेदाश्रयत्वं हेतुः । तच्च नित्यपरोक्षेऽन्याधीनापरोक्षे घटादावस्तीति नासिद्धिः । न च ब्रह्मणोऽपि ब्रह्मप्रतियोगिक-काल्पनिकभेदवत्त्वात् तत्र व्यभिचारः । अकल्पितभेदस्य क्वाप्यसिद्धत्वादिति वाच्यम् । तद्भेदस्यान्या-नधीनापरोक्षत्वरूपधर्मानिरूपितत्वात् । जीवत्वेश्वरत्वादिरूपस्यान्यस्यैव धर्मस्य तन्निरूपकत्वात् । तथा च स्वप्रकाशत्वावच्छिन्नानुयोगिताकभेदप्रतियोगित्वं हेतुरिति चेन्न । घटादेर्जडत्वेन ब्रह्मणश्चिदविषयत्वेन स्वं प्रत्यनपरोक्षताया उभयोस्तुल्यत्वात् । अन्यं प्रत्यपरोक्षताया उभयोरप्यन्याधीनत्वाच्च । स्वप्रकाशं ब्रह्म नेति स्वप्रकाशत्वावच्छिन्नानुयोगिताकभेदप्रतियोगिनि शुद्धे ब्रह्मणि व्यभिचाराच्च ।
न च तदीश्वरत्वादिधर्मोपहितप्रतियोगिकं भेदमवगाहते । न तु शुद्धब्रह्मप्रतियोगिकम् । अभाव-प्रत्यक्षे शुद्धस्य प्रतियोगित्वेनाभाननियमादिति वाच्यम् । ईश्वरत्वविशिष्ठाप्रतियोगिकत्वेऽपि शुद्ध-प्रतियोगिकत्वे बाधकाभावात् । अभावप्रत्यक्षे शुद्धस्याभाननियमे मानाभावाच्च । ‘स्वप्रकाशं ब्रह्म ने’त्यत्र प्रतियोगितावच्छेदकतया ईश्वरत्वाद्यभानाच्च । अत एव तद्भेदस्येत्यपि निरस्तम् । त्वदभिमतस्वप्रकाशत्व-स्याप्युक्तरीत्याऽनन्याधीनापरोक्षत्वासिद्धेः ।
अत एव अवेद्यत्वे सत्यपरोक्षव्यवहारयोग्यत्वाभावरूपदृश्यत्वहेतुरपि निरस्तः । किञ्चापरोक्षत्वं जातिः ? अपरोक्षज्ञानविषयत्वं वा ? तृतीयप्रकाराभावात् । उभयथाऽप्यन्यानधीनापरोक्षत्वभिन्नत्वाद् ब्रह्मणि व्यभिचारः । किञ्चापरोक्षत्वस्य ब्रह्मातिरिक्तत्वेऽविद्यमानतयाऽनन्याधीनत्वासिद्धेः । ब्रह्म-स्वरूपत्वे तु तादृशाभेदानुयोगितयाऽपरोक्षत्वावच्छिन्नानुयोगिताकभेदप्रतियोगित्वस्य घटादावसिद्धेः । अपरोक्षानुयोगिकभेदप्रतियोगित्वोक्तौ कल्पितभेदेश्वरादिनिष्ठभेदप्रतियोगित्वेन ब्रह्मणि व्यभिचारः । फलव्याप्यत्वे सत्यपरोक्षव्यवहारयोग्यत्वरूपस्वप्रकाशत्वाभावस्य मम घटादावसिद्धेः ।
॥ इति दृश्यत्वहेतुभङ्गः ॥
न्यायामृतमाधुरी
प्रतिज्ञां निराकृत्य हेतुमप्यपाकरोति । दृश्यत्वहेतूक्तिरिति । छर्दिमात्रमित्यनेनान्वेति । छर्दिशब्दश्चुरादौ च्छर्द वमन इति श्रूयमाणप्रकृतिनिष्पन्नो वमनवाची । तदुक्तयुक्तिवमनमात्रमेव न तु स्वतन्त्रविभाषितेत्युक्त्या अप्रामाण्यस्वतस्त्वमुपगच्छतां तेषां प्रक्रियावत् प्रामाण्यस्वतस्त्वमुपेत्यापि अप्रमाण्यस्वतस्त्ववादिवदेवानुमिमानानां प्रक्रियाया अप्यतीवावधा(धी)रणीयतया निराकर्तुमनौचित्यं ध्वन्यते । मिथ्या मिथ्याभूतार्थविषयकः । प्रत्ययत्वाद् विशिष्टविषयकप्रत्ययत्वात् । तेन वैभाषिक-सौत्रान्तिकमते अरूपज्ञानसन्ततिमिति माध्यमिकमते शून्यमखिलं मनोवाचामगोचरं, निर्विशेषं स्वयं भातमिति । आलयविज्ञानशून्यविज्ञानयोर्निष्प्रकारकत्वेनोपगतयोः प्रमात्वोक्तावप्यनैकान्त्यशङ्का-नवकाशः । यद्यपि बौद्धदिशोदाहरणोपनयावेव प्रदर्शनीयौ तथापि प्रत्यक्षचिन्तामणौ मीमांसकान्प्रति प्रामाण्ये परतस्त्वसाधनदशायां ‘‘तस्मादनभ्यासदशापन्नज्ञानप्रामाण्यं परतो ज्ञायते सांशयिकत्वाद-प्रामाण्यवत्’’ इति न्यायाचार्यादिति नैय्यायिकनिर्देशः प्रतिवादितापन्नमीमांसाभिप्रायकतया यथा नीतस्तद्वदयमप्यवयवत्रिकनिर्देशो मीमांसकान् प्रति बौद्धानां स्वसमीहितसाधनदशायां प्रतिवादिभूतमीमांसकमताभिप्रायकतया नेयः ।
वृत्तिव्याप्यत्वम् अन्तःकरणपरिणामविशेषरूपज्ञानविषयत्वम् । फलव्याप्यत्वं वक्ष्यमाण-फलाभिमताश्रयत्वम् । साधारणं वृत्तिव्याप्यत्वफलव्याप्यत्वयोरन्यतरवत्वम् । कदाचिच् चिद् विषयत्वं स्वस्यासमवधानदशायां चिदविषयत्वेऽपि स्वसमवधानदशायां चिद्विषयत्वम् । कथञ्चिद्विषयत्वं शास्त्रार्थं न जानामीत्यज्ञाननिष्ठविशेष्यतानिरूपितविषयितासम्बन्धावच्छिन्नचिन्निरूपितप्रकारता-श्रयत्वम् । घटं जानामीति ज्ञाननिष्ठविशेष्यतानिरूपितविषयितासम्बन्धावच्छिन्नचिन्निरूपितप्रकारता-श्रयत्वं वा । स्वव्यवहार इति । स्वातिरिक्तसंवित्प्रयोज्यस्वगोचरव्यवहारसामान्यकत्वमित्यर्थः । अद्वितीयत्वादिविशिष्टगोचरव्यवहारस्य स्वातिरिक्तसंवित्प्रयोज्यत्वेऽपि सुषुप्तौ नित्यसिद्धस्फुरण-रूपव्यवहारे तत्प्रयोज्यत्वाभावान्न चैतन्येऽनैकान्त्यमिति भावः । वृत्तिव्याप्यत्वाद् वृत्तिरूपज्ञान-विषयत्वात् । अन्यथा आत्मनो वेदान्तजन्यवृत्तिविषयत्वानङ्गीकारे ।
ब्रह्मपराणां ब्रह्मावबोधोद्देशकानाम् । वैय्यर्थं फलान्तराभावात् । सन्निहिते फले लभ्यमाने असन्निहितफलकल्पनाया अयोगेन ‘‘आत्मा वा ओ द्रष्टव्य’’ इत्यत्र श्रूयमाणदर्शनातिरेकेणा-तादृशस्वर्गस्य विश्वजिन्न्यायेन फलत्वकल्पना न सङ्गच्छत इति ध्वनयितुं ब्रह्मज्ञानार्थमित्युक्तम् । मौनं तदवबोधोद्देश्यकशब्दोच्चारयितृत्वाभावः । मौढ्यं तद्विषयकान्वयबोधराहित्यम् ।
कर्मणि षष्ठीति । जिज्ञासाशब्दः कृदकारप्रत्ययान्तो ऽः प्रत्ययादिति स्मृतेः । ज्ञानशब्दोऽपि तादृशल्युडन्तस् तद्योगे कर्तृकर्मणोरिति स्मर्यमाणषष्टी प्रकृते ब्रह्मणस्समभिव्याहृतपदार्थान्तर-निरूपितकर्तृत्वबाधात्कर्मत्वे पर्यवस्यति । तस्याश्च प्रतिपदविधानेति प्रतिषिद्धसमासत्वेऽपि कृद्योगलक्षणे प्रतिप्रसूतसमासकतया समासे ‘‘कृत्तद्धितेति’’ प्रातिपदिकत्वेऽपि ‘‘सुपो धात्विति’’ प्रातिपदिकावयवसुप्लोपे च प्रकृतशब्दोऽयं निष्पद्यते । इत्थं च स्वविषयवस्त्वभिधायकधातु-समभिव्याहृतकर्मप्रत्ययानां विषयतारूपकर्मतावचनतायाः स्थिततया तदधिगतेश्च सुपो धात्विति लक्षणमनुसन्दधतामन्तर्वर्तिविभक्त्या इतरेषां समासशक्तिमुपगच्छतां ब्रह्मकर्मकविचारज्ञानयोः शक्त्या तामनुपगच्छतां पूर्वपदलक्षणया कृतोपपादनाया अनुपपत्तिरित्यर्थः । एतेन तिङन्तव्यद्वितीयाश्च व्याख्याताः । कर्मणि द्वितीया । लः कर्मणि च तयोरेवेति च स्मृतेर् न स्यादिति । विशेष्यज्ञाननिबन्धनत्वाद्विशिष्टज्ञानस्येति भावः ।
यद्यपि दृग्विषयत्वरूपदृश्यत्वघटकदृक्कर्मकज्ञानाभावेन तादृशदृश्यत्वस्य दुर्ग्रहत्वेऽपि हेतूकृत-वृत्तिव्याप्यत्वादिरूपपारिभाषिकदृश्यत्वस्य सुग्रहतया हेत्वज्ञानासिद्धिशङ्का निरवकाशैव । तथापि पक्षीकृतविश्वान्तर्गताम्बरादितुल्यकक्ष्यापन्ने हेतुतयाऽनभिप्रेतोक्तप्रकृतिप्रत्ययसमभिव्याहारलब्ध-अवगत्यर्थकधातुसमभिव्याहृतकर्मप्रत्ययान्तप्रकृतिकभावप्रत्ययोपस्थाप्यदृश्यत्वे पारिभाषिकप्रकृत-हेतूकृतदृश्यत्वाज्ञाने पक्षतावच्छेदकसामानाधिकरण्येन हेत्वसिद्धिस् तत्र तज्ज्ञाने च विशिष्टानुयोगिक-वैशिष्ट्यबुद्धौ विशेष्यतावच्छेदकज्ञानस्य हेतुतया तादृशदृशो ज्ञानमावश्यकमित्यनैकान्त्यमित्याशयः ।
नन्वद्वैतसिद्धिकृतैव शब्दजन्यवृत्तिविषयत्वमेव दृश्यत्वम् । अन्यथा शशविषाणं तुच्छमित्यादि-शब्दजन्यवृत्तिविषये तुच्छे व्यभिचारस्य दुरुद्धरत्वात् । एवं च सति शुद्धस्य वेदान्तजन्यवृत्ति-विषयत्वेऽपि न तत्र व्यभिचारः । तुच्छशुद्धयोः शब्दाजन्यवृत्तिविषयत्वानभ्युपगमात् । यद्वा सप्रकारकवृत्तिविषयत्वमेव दृश्यत्वम् । प्रकारश्च सोपाख्यः कश्चिद्धर्मः । तेन निष्प्रकारकज्ञानविषयीभूते शुद्धे निरुपाख्यधर्मप्रकारकज्ञानविषयीभूते तुच्छे च न व्यभिचारः । अभावस्यापि सोपाख्यत्व-तदभावत्वप्रकारकज्ञानविषयीभूते अभावे न भागासिद्धिः । उपाख्याऽस्तीति प्रतीतिविषयत्वा-दीत्यन्यदिति समञ्जसीकृततया न क्षतिरित्यत आह– सर्वेति । उदाहृतवचनस्योपहितब्रह्मपरतया तस्य च प्रकृतसाध्यवत्वेनानुपहितस्य च हेतुविनिर्मुक्तत्वेन तत्र साध्यराहित्येऽपि न क्षतिरिति शङ्का तु व्यवस्थितपदोक्तव्यापकत्वस्य ‘‘प्रपञ्चस्य प्रविलयः शब्देन प्रतिपाद्यत’’ इत्युत्तरार्धोक्तजगद्वि-लयाधिष्ठानत्वस्य चोपहितानन्वयितयाऽनुपहितपरत्वस्यैवोपेततया निर्दलैव ।
प्रकृतसाध्याभावाधिकरणनिरूपितवृत्तित्वमात्रस्यानैकान्त्यरूपतायां रजतत्वेन रजतोचितार्थक्रिया-कारित्वसाधने तादृक्साध्यविनिर्मुक्तशुक्त्यादिनिरूपितप्रातिभासिकसत्तामादाय हेतोरनैकान्त्यवारणाय तादृशाधिकरणनिरूपिततत्सत्तासजातीयसत्ताकत्वमेव तदिति परिष्करणीयम् । साजात्यं च व्यवहारिकत्वप्रातिभासिकत्वपारमार्थिकत्वान्यतमवत्वेन । इत्थं च तादृशाधिकरणनिरूपित-तादृशाधिकरणवृत्तिसत्तावृत्तितादृशान्यतमधर्मवत्सत्ताकत्वं पर्यवसितमिति न क्षतिरित्याशङ्क्य निराकरोति– न चेति । असिद्धिरिति । तथा च तत्सत्तासमसत्ताकहेतुसन्देहनियन्त्रितसन्दिग्धा-नैकान्त्यं स्यादिति भावः । रजतत्वेनार्थक्रियाकारित्वसाधने साध्याभाववति विपर्यस्तरजते तत्समसत्ताकरजतत्वसत्वेनानैकान्त्यापत्तिरप्यवसेया । समनन्तरदर्शितापत्तिः सत्ताभेदस्याप्रमाणत्वादेव नावतरतीति न तद्वारकतया तन्निवेशावश्यम्भाव इति हृदयम् । व्यभिचारलक्षणघटकतया धर्मिसम-सत्ताकत्वां शनिवेशे तुल्यदिशा पक्षे साध्याभावहेत्वाभावयोर्बाधासिद्धिरूपतायां हृदो वह्निमान् धूमादित्यादावारोपितवह्निधूमयोर् हृदे सत्त्वेन तदुदाहरणत्वानुपपत्तिप्रसङ्गेन पक्षवृत्तिसत्तासजातीय-सत्ताकसाध्यस्याभावो बाधः, तत्सत्तासजातीयसत्ताकस्य हेतोरभावोऽसिद्धिरिति विवक्षणीयम् । इत्थं चात्मा स्वप्रकाश अनुभूतित्वादित्यत्रात्मनि तादृशसाध्यहेत्वोरभावेन बाधासिद्धी स्यातामित्याह– किञ्चेति । साध्याभावाधिकरणे तत्सत्तासमसत्ताकः साधनाभाव एव व्यभिचारपदार्थत्वेन त्वया स्वीकरणीयः । अन्यथा धूमवान्वह्नेरित्यादौ अयोगोलके प्रातिभासिकवह्न्यभावसत्वादव्यभिचारता स्यात् । इत्थं चात्मनि मिथ्यात्वविनिर्मुक्ते तत्सत्तासमसत्ताकस्य साधनाभावस्याभावेनाव्यभिचारिता न स्यादित्याह– एवमिति । तस्मादिति । सत्ताभेदविवक्षया प्रतिवचनस्यासमञ्जसत्वादित्यर्थः । अथ हेतूकृतवृत्तिव्याप्यत्वांशे धर्मिसत्तासमसत्ताकत्वस्य निवेशे सामञ्जस्यमुपपद्यते । पक्षीकृतविश्वस्मिन् तत्सत्तासमसत्ताकहेतुसत्वात् । आत्मनः पारमार्थिकत्वात् तद्गतवृत्तिव्याप्यत्वस्य च व्यावहारिकत्वाद् अनैकान्त्यानवकाश इत्यभिप्रेत्याशङ्कते- अथेति तर्हीति । तथा सति विषयत्वांशे निरूपकतया विशेषणतापन्नवृत्यंशनिवेशे स्वसमानाधिकरणव्याप्यतावच्छेदकीभूतधर्मान्तरघटितत्वापत्या व्याप्यत्वा-सिद्धता स्यादित्याशयः । दृष्टान्तस्येति । प्रातिभासिकशुक्तिरूप्यगतस्यापि दृश्यत्वस्य व्यावहारिकत्वा-दित्यर्थः ।
ननु शुद्धं ब्रह्म न दृश्यम्, किं तु विशिष्टमेव
न्यायामृतं
ननु शुद्धं ब्रह्म न दृश्यम्, किं तु विशिष्टमेव । दृश्यत्वश्रुतयोऽपि तद्विषयाः । अन्यथा यत्तदद्रेश्यमित्यादिश्रुतिविरोधादिति चेन्न । स्वतःसिद्धेर्निराकरिष्यमाणत्वेन शुद्धासिद्धिप्रसङ्गात् । अज्ञाते धर्मिणि कस्यचिद्धर्मस्य विधातुं निषेद्धुं वा अशक्यत्वेन शुद्धे दृश्यत्वं निषेधता शुद्धस्य ज्ञेयत्वाच्च ।
न च स्वप्रकाशत्वेन स्वतःसिद्धे शुद्धे वृत्त्या दृश्यत्वनिषेधधीः । शुद्धं स्वप्रकाशमिति शब्दजन्यविशिष्टवृत्तौ शुद्धाप्रकाशे तस्य स्वप्रकाशत्वासिद्धेः । लाघवेन स्फुरणमात्रमेव मिथ्यात्वे तन्त्रमिति स्वतः स्फुरदपि ब्रह्म मिथ्यैव तत्सत्यत्वश्रुतिस्तु जगत्सत्यत्वश्रुतिवदनुमानादिविरोधेनासद्वैलक्षण्यपरेत्यापाताच्च । शुद्धं न दृश्यत इत्यत्र शुद्धशब्दस्याभिधया लक्षणया वा शुद्धाबोधकत्वे तत्प्रयोग-वैयर्थ्याच्च । विशिष्टे मिथ्यात्वदृश्यत्वयोर्व्यतिरेकासम्भवेन शुद्धनिष्ठव्यतिरेकज्ञानाय शुद्धस्य ज्ञेयत्वाच्च । विशिष्टज्ञाने विशेष्यस्यापि भानेन विशिष्टस्य दृश्यत्वेनैव शुद्धस्यापि दृश्यत्वसिद्धेश्च ।
न च विष्णवे शिपिविष्टायेत्यादौ देवतात्ववद् विषयत्वमपि विशिष्ट एव, न तु विशेष्येऽपीति युक्तम् । देवतात्ववदेव विषयत्वस्यापि विशेषणेऽप्यभावेन भागा-सिद्धेः । घटविशिष्ट एव दृश्यत्वं न तु विशेष्ये घट इत्यापाताच्च । विशिष्टे ज्ञातेऽपि कदाचिद्विशेष्ये अज्ञानाद्यापाताच्च । दण्डी चैत्र इति ज्ञानेनैव चैत्रोऽपि ज्ञात इत्यनुभवाच्च ।
एतेनानुभवविरोधादिनैवाग्नीषोमयोर्देवतात्ववद्विषयत्वमपि व्यासज्यवृत्तीति न विशेष्ये तदिति निरस्तम् । अत एवादृश्यत्वश्रुतिस्साकल्येनादृश्यत्वपरा । अन्यथा यत्तदद्रेश्यमित्यादौ यच्छब्दाद्ययोगात् ।
एतेन चरमवृत्त्युपहितस्यैवात्मनस्तद्विषयत्वात्तस्य च मिथ्यात्वान्न व्यभिचार इति निरस्तम्, चरमवृत्तेः स्वविषयान्तर्भावे तस्याः स्वप्रकाशत्वस्याप्रमात्वस्य चापातात् । वृत्त्युपरागोऽत्र सत्तयोपयुज्यते न तु प्रतिभास्यतयेति कल्पतरुविरोधाच्च । बहिर्भावे च विषयस्य सत्यत्वेन व्यभिचारानुद्धारात् ।
न च स्वरूपेण दृश्यत्वं हेतुः । ब्रह्म तु विशिष्टरूपेणैव दृश्यमिति वाच्यम् । निर्विकल्पकाभावपक्षे घटादेरपि तत्सद्भावपक्षे नित्यातीन्द्रियस्यापि विशिष्टरूपेणैव दृश्यत्वेनासिद्धेः । न हि लिङ्गादिना निर्विकल्पकधीः । वेदान्तानां कल्पितविशिष्ट-परत्वे तत्त्वावेदकत्वायोगाच्च । ‘‘तरति शोकमात्मविद्’’– इत्यादौ मोक्षसाधनशुद्ध-रूपप्रमोक्तेश्च ।
अद्वैतसिद्धिः
न च– एवं सति शुद्धसिद्धिर्न स्यादिति वाच्यम्, स्वत एव तस्य प्रकाशत्वेन सिद्धत्वात् । न च– अज्ञाते धर्मिणि कस्याचिद् धर्मस्य विधातुं निषेद्धुं वा अशक्यत्वेन शुद्धे दृश्यत्वं निषेधता शुद्धस्य ज्ञेयत्वमवश्यं स्वीकरणीयम् । न च स्वप्रकाशत्वेन स्वतःसिद्धे शुद्धे श्रुत्या दृश्यत्वनिषेध इति वाच्यम् । शुद्धं स्वप्रकाशमिति शब्दजन्यविशिष्टवृत्तौ शुद्धाप्रकाशे तस्य स्वप्रकाशत्वासिद्धेर् इति चेत्, न । वृत्तिकाले वृत्तिरूपेण धर्मेण शुद्धत्वासम्भवात् शुद्धस्य वृत्तिविषयत्वं न सम्भवति, अतः ‘शुद्धं स्वप्रकाशम्’ इति वाक्यस्य लक्षणया अशुद्धत्वमस्वप्रकाशत्वव्यापकमित्यर्थः । तथा च अशुद्धत्व-व्यावृत्त्या शुद्धे स्वप्रकाशता पर्यवस्यति, यथा भेदनिषेधेन अभिन्नत्वम् । न च शुद्धपदेन अभिधया लक्षणया वा शुद्धाप्रकाशे तत्प्रयोगवैयर्थ्यमिति वाच्यम्; पर्यवसितार्थमादाय सार्थकत्वोपपत्तेः । एवं च ‘शुद्धं न दृश्यं न मिथ्या’ इत्यस्याप्यशुद्धत्वं दृश्यत्वमिथ्यात्वयोर्व्यापकमित्येतत्परत्वेन शुद्धे दृश्यत्वमिथ्यात्वयोर्व्यतिरेकः पर्यवस्यति । एतेन स्फुरणमात्रमेव मिथ्यात्वे तन्त्रम्, लाघवाद्; अतः ‘स्वतःस्फुरदपि ब्रह्म मिथ्यैवे’ति शून्यवादिमतमपास्तम्; स्वतः स्फुरणरूपतायाः शुक्तिरूप्यादाव-भावात् स्फुरणविषयत्वस्य ब्रह्मण्यसिद्धेः ।
ननु – विशिष्टज्ञाने विशेष्यस्यापि भाने श्रुत्या विशिष्टस्य दृश्यत्वेनैव विशेष्यस्यापि दृश्यत्वाद् व्यभिचारः, न च ‘विष्णवे शिपिविष्टाये’ त्यादौ विशिष्टस्य देवतात्ववद् विशिष्टस्य विषयत्वम्, अग्निषोमयोर्मिलितयोर्देवतात्ववद्वा मिलितस्य विषयत्वम्, अतो न विशेष्ये विषयत्वमिति वाच्यम्, तद्वदेव विशेषणस्याप्यविषयत्वे भागासिद्धिप्रसङ्गाद् इति चेन्न, विशेष्यतापन्नस्य विषयत्वेऽपि क्षत्यभावात्, तस्य मिथ्यात्वाभ्युपगमात् । अत एव उपहितविषयत्वेऽप्युपधेयविषयत्वमक्षतमेव इति अपास्तम्, उपाहितात्मना तस्यापि मिथ्यात्वाभ्युपगमात्, ज्ञानान्तरविषयत्वेन विशेषणे भागा-सिद्ध्यभावाच्च ।
ननु वेदान्तजन्याखण्डवृत्तेरुपहितविषयत्वे तदानीमुपाध्यन्तराभावेन तस्या एवोपधायकत्वात् स्वविषयत्वापत्तिः । न चेष्टापत्तिः । शाब्दबोधे शब्दानुपस्थिताभाननियमेन वृत्तेः शब्दानुपस्थिताया भानानुपपत्तेः । यथाकथंचिदुपपत्तौ वा न ततोऽज्ञानतत्कार्ययोर्निवृत्तिः स्याद् । अज्ञानतत्कार्या-विषयकज्ञानस्यैव तदुभयनिवर्तकत्वाद् । अन्यथा ‘अहमज्ञो ऽयं घट’ इत्यादिज्ञानानामप्युपहित-विषयकत्वेन अमाननिवर्तकत्वप्रसङ्ग इति चेन्न । वृत्तेः शाब्दवृत्तावनवभासमानाया एवोपधायकत्वा-भ्युपगमात् । तदुक्तं कल्पतरुकृद्भिः– ‘शुद्धं ब्रह्मेति विषयीकुर्वाणा वृत्तिः स्वस्वेतरोपाधिनिवृत्ति-हेतुरुदयते, स्वस्या अपि उपाधित्वाविशेषात् । एवं च नानुपहितस्य विषयता । वृत्त्युपरागोऽत्र सत्तयोपयुज्यते; न तु भास्यतया विषयकोटिप्रवेशेने’ति ।
अयमभिप्रायः – यथा अज्ञानोपहितस्य साक्षित्वेऽपि नाज्ञानं साक्षिकोटौ प्रविशति, जडत्वात् । किं तु साक्ष्यकोटावेव । एवं वृत्त्युपहितस्य विषयत्वेऽपि न वृत्तिविषयकोटौ प्रविशति; स्वस्याः स्वविषयत्वानुपपत्तेः । किं तु स्वयमविषयोऽपि चैतन्यस्य विषयतां सम्पादयतीति न काप्यनु-पपत्तिः । एतेन ज्ञानाज्ञानयोरेकविषयत्वं व्याख्यातम्; अज्ञानमपि हि स्वोपधानदशायामेव ब्रह्म विषयीकरोति; स्वानुपधानदशायां स्वस्यैवाभावात् । तथा च ज्ञानाज्ञानयोरुभयोरप्युपाध्यविषयकत्वे सत्युपहितविषयकत्वात् समानविषयत्वमस्त्येव । एतेन उपाधिविषयज्ञानानामज्ञानानिवर्तकत्वं व्याख्यातम्; अज्ञानस्योपाध्यविषयत्वेन समानविषयत्वाभावात्, समानविषयत्वेनैव तयोर्निवर्त्य-निवर्तकभावात् ।
वस्तुतस्तु शब्दाजन्यवृत्तिविषयत्वमेव दृश्यत्वम्; अन्यथा शशविषाणं तुच्छमित्यादि-शब्दजन्यवृत्तिविषये तुच्छे व्यभिचारस्य दुरुद्धरत्वात् । एवं च सति शुद्धस्य वेदान्तजन्यवृत्ति-विषयत्वेऽपि न तत्र व्यभिचारः, तुच्छशुद्धयोः शब्दाजन्यवृत्तिविषयत्वानभ्युपगमात् ।
यद्वा– स्वप्रकारकवृत्तिविषयत्वमेव दृश्यत्वम्, प्रकारश्च सोपाख्यः कश्चिद्धर्मः, तेन निष्प्रकारक-ज्ञानविषयीभूते शुद्धे निरुपाख्यधर्मप्रकारकज्ञानविषयीभूते तुच्छे च न व्यभिचारः । अभावत्वस्यापि सोपाख्यत्वादभावत्वप्रकारकज्ञानविषयीभूते अभावे न भागासिद्धिः । उपाख्या च अस्तीति धीविषयत्वादीत्यन्यत् । एतेन वृत्तिव्याप्यफलव्याप्ययोः साधारणं व्यवहारप्रयोजकविषयत्वरूपं दृश्यत्वमपि हेतुः, ब्रह्मणि तुच्छे च व्यभिचारपरिहारोपायस्योक्तत्वात् ।
यद्वा दृश्यत्वं चिद्विषयत्वम्, तच्च यथा कथंचिच् चित्सम्बन्धित्वरूपं हेतुः, तच्च न चैतन्ये अभेदे भेदनान्तरीयकस्य सम्बन्धस्याभावाद्, अतो न व्यभिचारः । तुच्छे च व्यभिचारः परिहरणीयः । यद्वा– स्वव्यवहारे स्वातिरिक्तसंविदपेक्षानियतिरूपं दृश्यत्वं हेतुः, संविच्छब्देन विषयाभिव्यक्तं वा वृत्त्यभिव्यक्तं वा शुद्धं वा चैतन्यमात्रमभिप्रेतं, तथा च घटादौ नित्यातीन्द्रिये साक्षिभास्ये च सर्वोऽपि व्यवहारः स्वातिरिक्तसंवित्सापेक्ष इति नासिद्धिः । व्यवहारश्च स्फुरणाभि-वदनादिसाधारणः । तत्र ब्रह्मणः स्फुरणरूपे व्यवहारे नित्यसिद्धे स्वातिरिक्तसंविदपेक्षा नास्तीति नियतिपदेन व्यभिचारवारणम् । स्वगोचरयावद्व्यवहारे स्वातिरिक्तसंविदपेक्षायां पर्यवसानात् ।
न्यायामृततरङ्गिणी
व्यभिचाराभावं शङ्कते – नन्विति ॥ साध्याभाववति शुद्धे हेतोरप्यभावः, हेतुमति च विशिष्टे साध्यमप्यस्ति । अतो न व्यभिचार इत्यर्थः । उक्तं च संक्षेपशारीरके–
‘‘बहु निगद्य किमत्र वदाम्यहं श्रुणुत संग्रहमद्वय आत्मनि ।
सकलवाङ्मनसातिगता चितिः सकलवाङ्मनसव्यवहारभाक् ॥’’ इति ॥
स्वत इति ॥ शुद्धे वृत्तिव्याप्यत्वरूपहेत्वभावे शुद्धासिद्धिप्रसङ्गादित्यर्थः ॥ अज्ञात इति ॥ अन्यथा ‘शुद्धं न दृश्यमि’ति ज्ञानाविषयत्वाविशेषाच्छुद्धेतरस्मिन्नपि दृश्यत्वाभावसिद्धिः स्यादित्यर्थः ॥ दृश्यत्वनिषेधायेति ॥ (दृश्यत्वं च निषेधतेति) वृत्तिव्याप्यत्वनिषेधायेत्यर्थः ।
ननु अभावबुद्धावधिकरणोपस्थितिरपेक्षिता, न त्वभावग्राहकप्रमाणजन्याधिकरणोप-स्थितिः ? प्रमाणजन्या तदुपस्थितिर्वा ? आद्ये वायौ रूपात्यन्ताभावश्चाक्षुषो न स्यात् । द्वितीये गौरवम् । अधिकरणोपस्थितिश्च स्वतः स्फुरणरूपाऽस्ति इति सुबोधः । शुद्धे वृत्ति-व्याप्यत्वरूपहेतोर्व्यतिरेक इति शङ्कते – नचेति ॥ दृश्यत्वेति ॥ वृत्तिव्याप्यत्वरूपेत्यर्थः ॥ शुद्धं स्वप्रकाशमिति ॥ विधि–निषेधयोरविषयस्य विधिनिषेधाभाजनत्वात्, अन्यथाऽति-प्रसङ्गादित्यर्थः ॥ लाघवेनेति ॥ ब्रह्मण्यमिथ्यात्वसिद्ध्यर्थं वृत्तिव्याप्यत्वरूपं दृश्यत्वं ब्रह्मण्य-नभिप्रेतं मिथ्यात्वे प्रयोजकमभिहितं परेण । नचैतावताऽपि परेष्टसिद्धिः । लाघवेन स्फुरणमेव मिथ्यात्वे तन्त्रम्, नतूक्तं दृश्यत्वम् । एवं चादृश्यमपि ब्रह्म स्वतःस्फुरदपि स्फुरणरूप-मिथ्यात्वप्रयोजकवत्त्वान् मिथ्यैव, नतु परतः स्फुरद्रूप्यादिमात्रमित्यपि स्यादित्यर्थः ।
ननु न लघुनोऽपि स्फुरणस्य मिथ्यात्वप्रयोजकत्वम्, किं तर्हि? गुरुणोऽप्युक्तदृश्यत्वस्यैव । अन्यथा ब्रह्मणोऽपि मिथ्यात्वापत्तौ तत्सत्यतापराणां ‘सत्यं ज्ञानम्’ ‘तत्सत्यमि’त्यादि-श्रुतीनामुपरोधः स्यात्, अत उक्तम् – तत्सत्यत्वश्रुतिस्त्विति ॥ तत्प्रयोगवैयर्थ्याच्चेति ॥ वाक्यस्थानां पदानां संभूयैकार्थप्रतिपादकत्वरूपमेकवाक्यत्वं न स्यादित्यर्थः ॥ व्यतिरेकेति ॥ व्यतिरेकसहचारज्ञानस्यापि व्याप्तिग्रहहेतुत्वादित्यर्थः ।
अत्र वदन्ति – ‘वृत्तिकाले वृत्तिरूपेण धर्मेण शुद्धत्वासम्भवात् शुद्धस्य वृत्तिविषयत्वं न सम्भवति, अतः ‘शुद्धं स्वप्रकाशमि’ति वाक्यस्य लक्षणयाऽशुद्धत्वमस्वप्रकाशत्वव्यापक-मित्यर्थः । तथाचाशुद्धत्वव्यावृत्त्या शुद्धे स्वप्रकाशता पर्यवस्यति । यथा भेदनिषेधादभिन्नत्वम् । नच– शुद्धपदेनाभिधया लक्षणया वा शुद्धाप्रकाशे तत्प्रयोगवैयर्थ्यमिति वाच्यम् । पर्यवसितार्थ-मादाय सार्थकत्वोपपत्तेः । एवं च ‘शुद्धं न दृश्यं न मिथ्ये’त्यस्याप्यशुद्धत्वं दृश्यत्व–मिथ्यात्वयोर्व्यापकमित्येतत्परत्वेन शुद्धे दृश्यत्वमिथ्यात्वयोर्व्यतिरेकः पर्यवस्यती’’ति ।
अत्र ब्रूमः । न तावदस्वप्रकाशत्वाशुद्धत्वयोर्व्याप्य–व्यापकभावग्रहमात्रेण शुद्धे स्वप्रकाशता पर्यवस्यति । किन्तु शुद्धेऽस्वप्रकाशत्वव्यापकस्याशुद्धत्वस्य व्यावृत्तौ ज्ञातायामेव । तथाच व्यापकव्यतिरेकग्रहार्थमावश्यकं शुद्धज्ञानम् । किं चास्वप्रकाशत्वाशुद्धत्वयोर्व्याप्यव्यापकभाव-ग्रहोऽपि तदुभयव्यतिरेकयोः शुद्धत्वस्वप्रकाशत्वयोः शुद्धे सहचारग्रहे सत्येव, इति घट्टकुटी-प्रभातवृत्तान्तः ।
ननु न मिथ्यात्वदृश्यत्वव्यतिरेकयोः सहचारग्रहापेक्षा । सा हि निश्चितसाध्याभाववति साधनग्रहेण व्यभिचारज्ञाने सति स्यात् । नचात्र साध्याभावनिश्चयः शुद्धे सम्भवति । न वा तत्र हेतुग्रहः सम्भवति । शुद्धस्याज्ञेयत्वादित्यत आह– विशिष्टज्ञान इति ॥ मा भूत् केवलस्य शुद्धस्य ज्ञानम्, तथापि शुद्धे व्यभिचार एव । अशुद्धस्य विशिष्टस्य ज्ञेयत्वेनैव तदनुगतस्य शुद्धस्य विशेष्यस्य ज्ञेयत्वादित्यर्थः ॥ नच विष्णव इति ॥ तथाच विशेष्ये शुद्धे हेत्वगमनान् न व्यभिचार इत्यर्थः ॥ देवतात्ववदेवेति ॥ विशेषणस्य मिथ्यात्वासिद्धिश्चेत्यपि द्रष्टव्यम् ॥ घटत्वादीति ॥ तथाच विशेष्यस्य घटस्य न मिथ्यात्वं स्यादित्यर्थः । दृश्यत्वं वृत्तिव्याप्यत्व-रूपम् ॥ विशिष्ट इति ॥ तथाच विशेष्यांशे यदज्ञानविरोधि, तदेव विशिष्टज्ञान-मावश्यकमित्यर्थः ॥
ननु विशिष्टज्ञानान्तरमव्यवधानेन विशेष्यज्ञानमुत्पद्यते, तत एव विशेष्यविषयका-ज्ञानादि-निवृत्तिः, नतु विशिष्टज्ञानादित्यत आह– दण्डीति ॥ तथाचाव्यवहितविशेष्यज्ञानकल्प-मप्रामाणिकमिति भावः । एतेनेत्यस्य विवरणम् – अनुभवविरोधादिनैवेति ॥ विशिष्टज्ञानेनैव विशेष्यमपि ज्ञातमित्यनुभवेन ज्ञातत्वरूपविषयत्वस्य विशेष्येऽपि सत्त्वादित्यर्थः ॥ अत एवेति ॥ विशिष्टस्य दृश्यत्वे विशेष्यस्य दृश्यत्वादेवेत्यर्थः ॥ साकल्येनेति ॥ प्रतीतार्था-सम्भवादित्यर्थः । श्रुतेरान्तरानुपपत्तिं चाह– अन्यथेति ॥ यत्पदादिना शुद्धस्य ब्रह्मणोऽ-प्रतिपादने शुद्धे ब्रह्मण्यदृश्यत्वं न सिद्ध्येदित्यर्थः ॥
एतेनेति ॥ उपहितस्य दृश्यत्वे शुद्धस्य तदुपधेयस्यापि दृश्यत्वमवर्जनीयमेव । तस्य च मिथ्यात्वाभावाद् व्यभिचार एवेत्यर्थः । चरमवृत्तेर्ब्रह्मेतराविषयकत्वे सति ब्रह्मविषयिकायाः परिशेषेणापि शुद्धविषयकत्वं वाच्यमित्याह – चरमवृत्तेरिति ॥ यद्वा – अस्त्वेतद् यथा तथा वा । विशिष्टविषयकवृत्तौ विशेष्यस्य शुद्धात्मनो विषयत्वात् तत्र व्यभिचार इति । अविशिष्ट-विषयचरमवृत्तिविषयत्वात् शुद्धत्मनि स्पष्टो व्यभिचारः । ननु चरमवृत्तिरपि विशिष्टविषयैव, इति कस्यचित् समाधानमाशङ्क्य निराकरोति – एतेनेति ॥ चरमवृत्तेर्विशिष्यविषयत्वेन वक्ष्यमाणेनेत्यर्थः । तदेवाह – चरमवृत्तेरिति ॥ स्वं चरमवृत्तिः ॥ स्वप्रकाशत्वस्येति ॥ स्वस्मिन् स्वस्य विषयत्वाङ्गीकारादित्यर्थः ॥ अप्रमात्वस्य चेति ॥ मिथ्याभूतचरमवृत्ति-विषयत्वादित्यर्थः । उपलक्षणमेतत् – शाब्दबोधे शब्दानुपस्थिताभाननियमेन वृत्तेः शब्दानुप-स्थितायास्तत्र भानानुपपत्तेः । न वा ततोऽज्ञान–तत्कार्यनिवृत्तिः स्यात् । अज्ञानतत्कार्या-विषयकवृत्तेरेव तदुभयनिवर्तकत्वात् । अन्यथा अहमज्ञोऽयं घट इत्यादिज्ञानानामप्युपहित-विषयत्वेनाज्ञाननिवर्तकत्वप्रसङ्गः ॥ बहिर्भावे चेति ॥ चरमवृत्तेः स्वविषयबहिर्भावे चरमवृत्ति-विषयस्य निष्प्रपञ्चस्य सत्यत्वाद् व्यभिचार इत्यर्थः ।
ननु न चरमवृत्तिः स्वविषयान्तर्गता । नापि तद्विषयस्य सत्यत्वम् । वृत्तेः शाब्दवृत्ता-वनवभासमानाया एवोपधायकत्वाभ्युपगमात् । तदुक्तं कल्पतरौ – ‘शुद्धं ब्रह्मेति विषयीकुर्वाणा वृत्तिः स्वस्वेतरोपाधिनिवृत्तिहेतुरुदयतेः; स्वस्या अप्युपाधित्वाविशेषात् । एवं च नानुपहितस्य विषयता; वृत्त्युपरागोऽत्र सत्तयोपयुज्यते, नतु भास्यतया विषयकोटौ प्रवेशेने’ति । अयमभिप्रायः – यथाऽज्ञानोपहितस्य साक्षित्वेऽपि नाज्ञानं साक्षिकाटौ प्रविशति जडत्वात् किन्तु साक्ष्य-कोटावेव । एवं वृत्त्युपहितस्य विषयत्वेऽपि न वृत्तिर्विषयकोटौ प्रविशति । स्वविषयत्वानु-पपत्तेः । किन्तु स्वयमविषयोऽपि चैतन्यस्य विषयतां संपादयतीति न काप्यनुपपत्तिर् इति ।
अत्र ब्रूमः । यदि वृत्तिः स्वसन्निधिमात्रेण चैतन्यस्य स्वोपहिततां संपाद्य स्वयमुपाध्य-विषयाऽपि सत्युपहितमिथ्याभूतार्थविषया भवति, तर्ह्यज्ञानमपि स्वसन्निधिमात्रेण चैतन्यस्य स्वोपहिततां संपाद्याज्ञानाविषयकं सदज्ञेयविषयकं स्यात्, इति मिथ्याभूतार्थविषयकमेवाज्ञानं स्यात् । नतु शुद्धचिद्विषयकम् । उक्तविधया मिथ्याभूतार्ताश्रितं च स्यात्, नतु शुद्धचिदाश्रितम् । इष्टं चाज्ञानस्य शुद्धचिदाश्रयविषयत्वं परेषाम् । यदाहुः–
‘आश्रयत्वविषयत्वभागिनी निर्विशेषचितिरेव केवला ।
पूर्वसिद्धतमसो हि पश्चिमो नाश्रयो भवति नापि गोचरः ॥’ इति ।
तथाचापसिद्धान्तः ।
ननु अज्ञानमपि स्वापधानदशायमेव ब्रह्म विषयीकरोति । स्वानुपधानदशायां स्वस्यैवा-भावात् । तथाच ज्ञानाज्ञानयोरुभयोरप्युपाध्यविषयत्वे सत्युपहितविषयत्वात् समानविषयत्वमपि । अत एवोपाधिविषयज्ञानानि नाज्ञाननिवर्तकानि; अज्ञानस्योपाध्यविषयत्वेन समानविषयत्वा-भावात् । समानविषयत्वेनैव तयोर्निवर्त्यनिवर्तकभावात् । मैवम् । शुद्धचिदाश्रयविषय-मज्ञानमिति सिद्धान्तभङ्गप्रसङ्गात् । अन्योन्याश्रयाच्च । तथाहि – लब्ध उपहिते विषयेऽज्ञान-स्वरूपसिद्धिः, अज्ञानस्वरूपे च सिद्धे तदुपहितरूपविषयसिद्धिरिति । एवमुपहिताश्रयत्वेऽप्य-न्योन्याश्रयः । किंच वृत्तेरप्यन्योन्याश्रयादेव नोपहितविषयत्वम् । तथाहि – अनुपहितस्य शुद्धस्य वृत्त्यविषयत्वेन चैतन्यस्य चरमवृत्तिविषयत्वाय तटस्थयाऽप्युत्पन्नया वृत्त्योपहितत्वम्, उपहिते सति चैतन्ये तद्विषयकवृत्त्युत्पत्तिः, वृत्त्युत्पत्तौ च चैतन्यस्य वृत्त्यधीनविषयत्व-मित्यन्योन्याश्रयः । तस्मात् शुद्धस्यैव चैतन्यस्य चरमवृत्तिविषयता । तस्य चामिथ्यात्वाद् व्यभिचार एवेति साधूक्तम् – ‘व्यभिचारानुद्धारादि’ति ॥
नच स्वरूपेणेति ॥ विशिष्टाविषयकवृत्तिव्यात्वमेवेत्यर्थः ॥ ब्रह्म त्विति ॥ विशिष्ट-विषयवृत्तिव्याप्यमेवेत्यर्थः ॥ निर्विकल्पकेति ॥ निर्विकल्पकाभावपक्षे विशिष्टाविषयवृत्तेर-भावाद् घटादौ सर्वत्र हेत्वसिद्धिः । निर्विकल्पकसद्भावपक्षे नित्यातीन्द्रियस्य विशिष्टमात्र-विषयकानुमित्यादिविषयत्वात् तत्र भागासिद्धिः ॥ नहीति ॥ लिङ्गादिविशेषदर्शनस्य विशिष्टज्ञानसामग्रीत्वात् ततो नानुमितिरूपा निर्विकल्पकधीरित्यर्थः ।
ननु स्वाभिन्नेतरविशेषणप्रयुक्तविशिष्टाविषयकवृत्तिव्याप्यत्वमुक्तहेत्वर्थः । तथाच निर्विकल्पकाभावपक्षेऽपि घटादौ नासिद्धिः । ‘घटोऽयमि’ति वृत्तिमादाय निरुक्तहेतोस्तत्र सत्त्वात् । इदन्तादेरपि स्वाभिन्नत्वात् । नित्यातीन्द्रियस्यापि तत्तत्पदजन्यतत्तदर्थमात्रगोचर-स्मृतिविषयत्वेन तत्रापि नासिद्धिः । ऐन्द्रिके घटादावतीन्द्रिये धर्मादौ च घटत्वादेर्धर्मत्वादेश्च विशेषणस्य घटादिधर्म्याद्यभिन्नत्वात्, धर्मधर्मिणोरभेदात् स्वाभिन्नेतरद् यद्विशेषणं पटत्वादि, तत्प्रयुक्तं यद्विशिष्टं पटादि, तदविषयकं यद् विशिष्टं ज्ञानं ‘घटोऽयमि’ति प्रत्यक्षम्, धर्मपदजन्या धर्म इति स्मृतिः, तद्विषयत्वाद् घटादेर्धर्मादेश्च न तत्र हेत्वसिद्धिः । ब्रह्मणस्तु स्वाभिन्नं यदानन्दादि, तदितरद् घटादि, तत्प्रयुक्तं विशिष्ट घटादिविशिष्टभूतलादि, तद्विषयक एव ज्ञाने भानम्; सर्वस्यापि ब्रह्मविषयकप्रत्ययस्यान्यनिबन्धनविशिष्टविषयकत्वात् । एवं च ब्रह्मणि हेत्वभावादेव न व्यभिचार इति – चेत्, मैवम् । ब्रह्ममात्रविषयकवेदान्तजन्यनिरुक्तवृत्तिमादाय व्यभिचारतादवस्थ्यात् ।
ननु वेदान्तजन्या वृत्तिरपि विशिष्टविषयैव, इति न व्यभिचार इति – चेत्, मैवम् । तद्विशिष्टमकल्पितम्? कल्पितं वा? नाद्यः । ब्रह्मणोऽखण्डार्थत्वहानिप्रसङ्गात् । न द्वितीय इत्याह – वेदान्तानामिति ॥ कल्पितविशिष्टपरत्वादित्यर्थः ॥ तरतीति ॥ शोकरूपाज्ञानस्य तरणरूपनिवृत्तिं प्रति साधनत्वेनोक्ताया आत्मविदो न तावदात्मविषयकभ्रमत्वं युक्तम् । भ्रमस्याज्ञानानिवर्तकत्वात् । किन्तु सा प्रमैव । प्रमात्वं च तस्याः कल्पितविशिष्टाविषयत्वेनैव । तस्माद् वेदान्तानां कल्पितविशेषविनिर्मुक्तशुद्धब्रह्मज्ञानजकत्वमेव, इति तत्र व्यभिचार इति भावः । मोक्षसाधनेति प्रमाविशेषणम् ॥
न्यायामृतकण्टकोद्धारः
ननु शुद्धे वा व्यभिचारः? विशिष्टे वा? नाद्यः । तत्र हेत्वभावात् । न हि द्वितीयः । तस्य पक्षनिक्षिप्तत्वात्, इति शङ्कते – नन्विति ॥ शुद्ध एव व्यभिचारः । न च तत्र दृश्यत्वं नेति वाच्यम् । तस्य दृश्यत्वाभावे तदसिद्धयादिप्रसङ्गादित्याह– स्वतस्सिद्धेरिति ॥ स्वतस्सिद्धिरिति कोऽर्थः? स्वेनैव सिद्धिरिति वा? अन्येनासिद्धिरिति वा? नाद्यः । कर्मत्व-करणत्वविरोधात् । करणव्यापारविषयत्वं कर्मत्वम् । न च करणस्यैव तद् युज्यते । न द्वितीयः । अन्यासिद्धिमात्रेण सिद्धत्वे तुच्छस्यापि सिद्धिप्रसङ्गादिति निराकरिष्यमाणत्वा-दित्यर्थः ॥ वृत्त्या दृश्यत्वनिषेधधीरिति ॥ इत्थंभूतलक्षणे तृतीया । वृत्तिरूपा दृश्यत्वनिषेधधीरित्यर्थः । शुद्धं स्वप्रकाशमिति ॥
अत्र कश्चित् – वृत्तिकाले वृत्तिरूपेण धर्मेण शुद्धत्वासम्भवात् शुद्धस्य वृत्तिविषयत्वं न सम्भवतीत्यतः ‘शुद्धं स्वप्रकाशमि’ति वाक्यस्य लक्षणयाशुद्धत्वमस्वप्रकाशत्वव्यापकमित्यर्थः । तथा चाशुद्धत्वव्यावृत्त्या शुद्धे स्वप्रकाशता पर्यवस्यति यथा भेदनिषेधेनाभिन्नत्वम् । तथा च ब्रह्मणि न ज्ञेयत्वम् इति तन्न । ज्ञेयत्वाभावेऽपि स्वप्रकाशता पर्यवस्यतीत्यस्याबोधविजृम्भित-त्वात् । यथा व्यापकनिवृत्त्या व्याप्यनिवृत्तिपर्यवसानं नामानुमानमेव । तथा च तादृशानुमिति विषयत्वं दुर्वारम् । अन्यथा स्वप्रकाशत्वासिद्धेः । तदविषयत्वेऽपि तत्र तत्सिद्धौ तुच्छेऽपि तत्सिद्धिप्रसङ्गात् । एतेन – भेदनिषेधेनाभिन्नत्वमपि व्याख्यातम् । तथा च ज्ञानविषयत्वाभावे स्वप्रकाशत्वासिद्धिः सुस्थैवेति । लाघवेनेति ॥ ननु स्फुरणमात्रस्य मिथ्यात्वप्रयोजकत्वे शुक्तिरूप्यादेः स्फुरणरूपत्वाभावात् तत्र मिथ्यात्वं न स्यात् । न च स्फुरणविषयत्वं विवक्षि-तम् । शुक्तिरूप्यादेः स्फुरणविषयत्वेन मिथ्यात्वोपपत्तिरिति वाच्यम् । स्फुरणविषयत्वस्य ब्रह्मण्यभावेन तन्मिथ्यात्वापादनासम्भवादिति चेत्, न । यथाकथञ्चित् स्फुरणविषयत्वस्य विवक्षितत्वात् । तथा च ब्रह्मणः स्फुरणरूपत्वेऽपि कल्पितभेदेन ज्ञातृ–ज्ञेयभावादिवत् स्फुरण-विषयत्वस्याज्ञातृत्वाद्यवच्छेदेनोपपत्तेः । अथवा स्फुरणाभेदेनाभिव्यक्तत्वं मिथ्यात्वप्रयोजकत्वेन विवक्षितम् । अस्ति चैतद् घटादाविव ब्रह्मण्यपि; ‘घटः स्फुरती’तिवत् ‘चैतन्यं स्फुरती’ति प्रतीतेः । एवं च मिथ्यात्वापादनं युक्तमेवेत्याशयः । ननु तर्हि ब्रह्मसत्यत्वप्रापकश्रुतेः का गतिरित्यत आह – तत्सत्यत्वश्रुतिरिति ॥
॥ शुद्धं न दृश्यत इति ॥ न च पर्यवसितार्थमादाय सार्थकत्वमिति वाच्यम् । पर्यवसानस्य ज्ञानातिरिक्तस्य वक्तुमशक्यत्वात् । विशिष्ट इति ॥ न च शुद्धं न दृश्यम्, न मिथ्येत्यस्याप्यशुद्धत्वं दृश्यत्वमिथ्यात्वयोर्व्यापकमित्येतत्परत्वेन शुद्धे दृश्यत्वमिथ्यात्वयोर्व्यतिरेकः पर्यवस्यतीति वाच्यम् । यतो व्यापकनिवृत्त्या व्याप्यनिवृत्तिपर्यवसानस्यानुमानत्वेन वृत्ति-विषयत्वापरिहारात् । अन्यथा व्यतिरेकासिद्धेः ॥ विशिष्टज्ञान इति ॥ न च– विशेष्य-तापन्नस्य विषयत्वेऽपि क्षत्यभावः । न च व्यभिचारः, तस्य मिथ्यात्वाभ्युपगमादिति वाच्यम् । विशेष्यताविशिष्टस्य मिथ्यात्वेऽपि तदधिकरणस्यामिथ्यात्वेन तत्र व्यभिचारानुद्धारात् । न च तत्र ज्ञानविषयत्वमेव नेति वाच्यम् । विशिष्टान्तर्गतत्वेन तत्र तस्यावश्यकत्वात् ॥ शिपि-विष्टायेति ॥ शिपिविष्टत्वरूपविशेषणविशिष्टायेत्यर्थः ॥ भागासिद्धेरिति ॥ न च ज्ञानान्तर-विषयत्वेन विशेषणे भागासिद्ध्यभाव इति वाच्यम् । ज्ञानान्तरे विशेषण–विशेष्यान्यतर-त्वस्यावश्यकत्वेन केवले भागासिद्ध्यपरिहारात् । एतेनेत्यस्यैव विवरणम् – अनुभव-विरोधादिनेति ॥ ननु ‘‘यत्तदद्रेश्यमि’’ति श्रुतेः का गतिरित्यत आह – अत एवेति ॥
॥ अन्यथेति ॥ सर्वथा दृश्यत्वाभावपरत्व इत्यर्थः । स्वविषयान्तर्भाव इति ॥ उपधायकचरमवृत्तेः स्वविषयकत्वे स्वप्रकाशत्वं स्यात् । स्वविषयकत्वस्यैव स्वप्रकाशत्वादिति भावः । अप्रमात्वस्येति ॥ वृत्तेर्मिथ्यात्वेन स्वविषयत्वे मिथ्याभूतार्थविषयकत्वेनाप्रमात्वं स्यादित्यर्थः । किञ्च शुद्धस्य वृत्तिविषयत्वार्थं चरमवृत्तेः स्वविषयत्वेन प्रतिभास्यतयोपयोगश्चेत्, तर्हि कल्पतरुवचनविरोध इत्याशयेन तदुक्तिमेव दर्शयति – वृत्त्युपरागोऽत्रेति ॥ अत्र शुद्धस्य वृत्तिविषयत्वे स्वरूपसन्नेवोपयुज्यत इत्यर्थः । बहिर्भाव इति ॥ ननु वृत्तेः शाब्दवृत्तावनव-भासमानाया एवोपधायकत्वम् । एवञ्च चरमवृत्त्युपहितस्य ज्ञानविषयत्वान् न व्यभिचारः । न च चरमवृत्तेरविषयत्वे कथं तदुपहितविषयत्वमिति वाच्यम् । भावानवबोधात् । अज्ञानोपहित-चैतन्यस्य साक्षित्वेऽपि यथाऽज्ञानं साक्षिकोटौ न प्रविशति; जडत्वात्, किन्तु साक्ष्यकोटावेव, एवं वृत्त्युपहितस्य विषयत्वेऽपि न वृत्तिर्विषयकोटौ प्रविशति; स्वविषयत्वानुपपत्तेः । किन्तु स्वयमविषयोऽपि चैतन्यस्य विषयतां सम्पादयति इति न काऽप्यनुपपत्तिरिति चेत्, न । चरमवृत्तेरुपाध्यविषयत्वेऽप्युपहितविषयत्वोक्तिर्व्याहता । उपहितविषयत्वे उपाधेरपि विषयत्वा-परिहारात् । नच चरमवृत्तेरुपलक्षणत्वादविषयत्वमिति वाच्यम् । उपलक्षितभान उपलक्षणस्यापि भाननियमेनाभास्यत्वायोगात् । चरमवृत्तेरुपलक्षणत्वे तटस्थाया एव वृत्तेर्व्यावर्तकत्वेन शुद्धस्यैव विषयत्वपर्यवसानेन व्यभिचारस्य दुरुद्धरत्वात् । न च शुद्धस्य विषयत्वे वृत्तिर्निमित्तमित्यभिप्राय इति वाच्यम् । तथा सति विषयत्वमन्यनिमित्तं विशेष्यभागमात्रेऽस्तीति भवतैव मिथ्यात्वा-नधिकरण उपाधिं प्रति विशेष्ये व्यभिचारस्योपपादितत्वात् सुस्थो व्यभिचारः । दृष्टान्तश्चायुक्तः, अननुकूलश्च । तत्राप्यज्ञानं चैतन्यनिष्ठसाक्षित्वे निमित्तम् । एवं च साक्षित्वमौपाधिकं चैतन्यमात्रनिष्ठमित्युक्तं स्यादिति यत्किञ्चिदेतत् ।
अन्ये तु – यदि वृत्तिः स्वसन्निधिमात्रेण चैतन्यस्योपहिततां सम्पाद्य स्वयमुपाध्य-विषयाऽपि सत्युपहितमिथ्याभूतार्थविषया भवति, तर्हि अज्ञानमपि स्वसन्निधिमात्रेण चैतन्यस्य स्वोपहिततां सम्पाद्याज्ञानाविषयकं सदज्ञेयविषयकं स्यात्, इति मिथ्याभूतार्थविषयकमेवाज्ञानं स्यात्, नतु शुद्धचिद्विषयकम् । तथा चापसिद्धान्त इति परोक्तदूषणपरिहारमाहुः । तदयुक्तम् । अस्मदुक्तरीत्या व्यभिचारेणैव परोक्तदूषणपरिहारसम्भवेन प्रतिबन्द्युत्तरस्यानन्यगतिकत्वात् । एतेन शब्दाजन्यवृत्तिविषयत्वं सप्रकारकज्ञानविषयत्वं वा दृश्यत्वमिति निरस्तम् । आत्मनोऽपि – ‘‘अनुभूतिः, स्वप्रकाश,’’ इत्याद्यनुमानजन्यवृत्तिविषयत्वस्य ‘सत्यं ज्ञानमि’त्यादिशब्दजन्य-सप्रकारकज्ञानविषयत्वस्य च सत्त्वेन व्यभिचारानुद्धारात् । न च तत्र शुद्धस्य न विषयत्वमिति वाच्यम् । तत्र शुद्धाविषयत्वे तस्य स्वप्रकाशत्वाद्यसिद्धिप्रसङ्गात् । न च पूर्वोक्तपर्यवसानेन तत्सिद्धिरिति वाच्यम् । पर्यवसानस्याप्यनुमितिरूपस्योक्तत्वादित्यलं प्रसङ्गेन ।
एतेनैव – स्वाभिन्नेतरविशेषणप्रयुक्तविशिष्टाविषयकवृत्तिव्याप्यत्वं दृश्यत्वम् । स्वाभिन्नेतरद् यद्विशेषणं पटत्वादि, तद्विशिष्टं यत् पटादि, तदविषयकं यद् ‘घटोऽयमि’ति प्रत्यक्षम्, धर्मपद-जन्या धर्म इति स्मृतिः, तद्विषयत्वाद् घटादौ न हेत्वसिद्धिर् इत्यपि कस्यचित् प्रलपनं निरस्तम् । ब्रह्म तु विशिष्टरूपेणैव दृश्यमित्यत्र दूषणमाह – वेदान्तानामिति ॥ वेदान्तानां स्वरूपमात्रविषयकधीजनकत्वाभावे विशिष्टपरत्वे च विशिष्टस्य वाच्यत्वसम्भवेन लक्षणा-स्वीकारवैयर्थ्यं स्यादित्यपि बोध्यम् । तरतीति ॥ मिथ्याज्ञानस्य मोक्षसाधनत्वाभावात् । अन्यथा ‘घटस्सन्नि’त्यादिज्ञानानामपि मोक्षहेतुत्वापत्तौ श्रवणादिविधिवैयर्थ्यापत्तेरिति भावः ।
न्यायामृतप्रकाशः
ब्रह्मणि व्यभिचाराभावं शङ्कते – नन्विति ॥ ननु शुद्धब्रह्मणोऽदृश्यत्वे दृश्यते त्वग्रया बुद्ध्येत्यादिश्रुतिविरोध इत्यत आह – दृश्यत्वेति ॥ तद्विषया विशिष्टविषयाः । नच विशिष्ट एव व्यभिचारः । तत्र मिथ्यात्वस्यापि सत्त्वादिति भावः । अन्यथा शुद्धस्य दृश्यत्वाङ्गीकारे । ओश्यम् अदृश्यम् ॥ स्वत इति ॥ यदि शुद्धं ब्रह्म दृश्यं न स्यात्तर्हि तत्सिद्धिरेव न स्यात् । नच स्वप्रकाशत्वात्स्वत एव तत्सिद्धिरिति वाच्यम् । स्वत इति कोर्थः स्वेनेति वा प्रमाणेन विनेति वा । नाद्यः । कर्तृकर्मविरोधात् । न द्वितीयः । शशविषाणादीनामप्येवं सिद्धिप्रसङ्गादित्येवं स्वतः सिद्धेर्निरसिष्यमाणात्वादित्यर्थः । विधातुमिति दृष्टान्तार्थम् । ‘‘सिद्धं धर्मिणमुद्दिश्य साध्यधर्मो विधीयते’’ इत्युक्तेरिति भावः ॥ ज्ञेयत्वाच्चेति ॥ अभावज्ञानेऽधिकरणज्ञानस्य कारणत्वादित्यर्थः ।
नन्वज्ञाते धर्मिणीत्येतदयुक्तं स्वप्रकाशतया स्वतस्सिद्धत्वेन तज्ज्ञानसम्भवात् । तत्रच वृत्ति-विषयत्वरूपदृश्यत्वनिषेधोपपत्तेरित्याशङ्क्य निषेधति – नचेति ॥ वृत्त्या दृश्यत्वेति ॥ वृत्ति-विषयत्वरूपदृश्यत्वेत्यर्थः । तथापि ब्रह्मणि वृत्तिव्याप्यत्वनिषेधो न सम्भवति । शुद्धं स्वप्रकाशमिति शब्दजन्यवृत्तौ ब्रह्म प्रकाशते नवा । नेति पक्षे तस्य स्वप्रकाशत्वासिद्धेरित्याह – शुद्धमिति ॥ आद्ये वृत्तिविषयत्वस्यैव प्राप्त्या व्यभिचारस्तदवस्थ इति द्रष्टव्यम् ॥ विशिष्टवृत्ताविति ॥ स्वप्रकाशत्व-विशिष्टशुद्धविषयकवृत्तावित्यर्थः ।
किंच मिथ्यात्वे वृत्तिव्याप्यत्वापेक्षया स्फुरणमात्रस्य लघुत्वात्तस्यैव प्रयोजकत्वमस्तु । तथाच जगद्वद्ब्रह्मणोऽपि स्फुरणान्मिथ्यात्वं स्यादित्याह– लाघवेनेति ॥ इयांस्तुविशेषः । जगत्प्रमाणेन स्फुरति ब्रह्मतु स्वतः स्फुरतीति ।
ननु ब्रह्मणो मिथ्यात्वे तत्सत्यमित्यादिश्रुतिविरोध इति चेत्तर्हि जगतो मिथ्यात्वेऽपि विश्वं सत्यमित्यादि श्रुतिविरोधसाम्यात् । ननु जगत्सत्यताश्रुतिर् विमतं मिथ्या दृश्यत्वादित्यनुमान-विरोधादसद्वैलक्षण्यपरेति चेत्तर्हि ब्रह्मसत्यताश्रुतिरपि ब्रह्म मिथ्या स्फुरणादित्यनुमानविरोधाद-सद्वैलक्षण्यपरैव स्यादित्याह – तत्सत्यत्वेति ॥ अभिधया शक्त्या ॥ तत्प्रयोगेति ॥ शुद्धपद-प्रयोगेत्यर्थः ॥ वैयर्थ्यादिति ॥ अर्थबोधकत्वरूपप्रयोजनाभावादिति भावः । शुद्धबोधकत्वे चदृश्यत्व प्राप्त्या व्यभिचार इति हृदयम् ॥ शुद्धेति ॥ दृश्यत्वहेतोरन्वयव्यतिरेकित्वाद्धेतुसाध्यव्यतिरेक-ग्रहाधिकरणत्वेन शुद्धस्य ज्ञेयत्वादित्यर्थः ।
ननु व्यतिरेकग्रहोऽपि विशिष्ट एवास्तामित्यत उक्तम् – विशिष्ट इति ॥ ननु विशिष्टस्य ज्ञानविषयत्वे विशेष्यभूतशुद्धस्यापि तत्सिद्धमित्ययुक्तम् । विष्णवे शिपिविष्टायेत्यादौ यथा देवतात्वं न विशेष्यभूतविष्णुमात्रे नवा शिपिविष्टे किंनाम शिपिविष्टत्वविशिष्ट एव एवंवृत्तिविषयत्वमपि विशिष्ट एव । नतु विशेष्येऽपि विशिष्टस्य विशेष्यातिरिक्तत्वादित्याशङ्क्य निषेधति – नचेति ॥ विषयत्व-मपि ज्ञानविषयत्वमपि ॥ देवतात्ववदेवेति ॥ तस्य शिपिविष्टमात्रेऽभावादिति भावः । विषयत्वस्य ज्ञानविषयत्वस्य ॥ भागेति ॥ कर्तृत्वादिरूपविशेषणभागस्यापि जगदन्तःपातित्वादिति भावः ॥ नतु विशेष्ये घट इति ॥ ततश्च तस्य मिथ्यात्वं न स्यादिति भावः । विशिष्ट एव दृश्यत्वं नतु विशेष्य इत्यङ्गीकारे बाधकान्तरमाह – विशिष्ट इति ॥
ननु विशिष्टज्ञानानन्तरं व्यवधानेन विशेष्यज्ञानं जायते तज्ज्ञानादेव विशेष्यविषयकाज्ञानस्य निवृत्तिर्नतु विशिष्टज्ञानाद् अतो विशिष्टे ज्ञातेऽपि विशेष्येऽज्ञानादिकमुपपद्यत इत्यत आह – दण्डी चैत्र इति ज्ञानेनैवेति ॥ तथाच व्यवहितविशेष्यज्ञानकल्पनमप्रामाणिकमिति भावः ॥ अग्नीषोमयो-रिति ॥ यथा देवतात्वपर्याप्त्यधिकरणत्वमग्नीषोमयोरेव नैकस्य । एवं दृग्विषयत्वपर्याप्त्यधिकरणत्वं कर्तृत्वादिविशेषणब्रह्मणोरेव नैकैकस्येति केवले ब्रह्मणि न व्यभिचार इति भावः । एतेनेत्युक्तं विशदयति– अनुभवेति ॥ दण्डी चैत्र इति ज्ञाने केवले विशेष्येऽपि ज्ञानविषयत्वानुभवेन तद्विरोधादित्यर्थः ॥ आदिपदेन घटत्वघटयोरेव वृत्तिविषयत्वपर्याप्त्यधिकरणत्वप्राप्त्या केवले घटे तदभावापातेन भागासिद्ध्यापत्तेरित्यवधेयम् ।
ननु ब्रह्मणो दृश्यत्वेऽदृश्यत्वश्रुतिविरोध इत्यत आह – अत एवेति ॥ ब्रह्मणो दृश्यत्वस्य युक्त्योपपादितत्वादेवेत्यर्थः । सर्वथा दृश्यत्वपरत्वे बाधकमाह – अन्यथेति ॥ यदित्यनेन ब्रह्मोद्दिश्य तत्रादृश्यत्वादिकं विधीयते । तथाच यदित्यादिपदेनैव ब्रह्मणो ज्ञातत्वात्तस्य पुनरदृश्यत्वाभिधाने स्वक्रियाविरोध इति भावः ॥ तथाचोक्तम् । ‘‘यत इत्यादिकैर्वद’’न्नित्यादि ॥
एतेनेति ॥ चरमवृत्त्युपहितस्यात्मन एव चरमवृत्तिविषयत्वरूपदृश्यत्वाङ्गीकारे उपधेयस्य शुद्धस्यापि वृत्तिविषयत्वस्य प्राप्तत्वेन व्यभिचारादिति पूर्वोक्तरीत्या निरस्तमित्यर्थः । किंच चरमवृत्त्युपहितस्यात्मनश् चरमवृत्तिविषयत्वं वदन्प्रष्टव्यः । वेदान्तजन्यत चरमवृत्तौ ब्रह्मविशेषणीभूता चरमवृत्तिः प्रतीयते नवेति । आद्ये आह– चरमवृत्तेरिति ॥ स्वेति ॥ स्वशब्देन चरमवृत्तिर्ग्राह्या । तद्विषयश्चरमवृत्त्युपहितं ब्रह्म तदन्तर्भावे ब्रह्मवत्तद्विशेषणीभूतायाःस्वस्यावृत्तेरपि स्वविषयत्व इत्यर्थः ॥ स्वप्रकाशत्वस्येति ॥ स्वकर्मकप्रकाशत्वं च कर्तृकर्मविरोधात्त्वया नाङ्गीकृतमिति भावः ॥ अप्रमात्वस्यचेति ॥ चरमवृत्त्युपहितस्य ब्रह्मणो भिथ्यात्वात्तद्विषयिण्याश्चरमवृत्तेरप्रमात्वं स्या-दित्यर्थः । वृत्त्युपरागः ब्रह्मणो वृत्तिसम्बन्धः । अत्र चरमवृत्तौ । सत्तया स्वरूपसत्तयैव । तद्व्यावर्त्यं दर्शयति – नत्विति ॥ प्रतिभास्यतया स्वस्याम् अपि चरमवृत्तेश्चरमवृत्तिविषयतयेत्यर्थः । तथात्वे चरमवृत्तेः स्वप्रकाशत्वाप्रमात्वयोरापातादेवेति भावः । द्वितीये त्वाह– वहिर्भावेचेति ॥ वेदान्तजन्यचरमवृत्तेर्ब्रह्ममात्रविषयकत्वेन स्वविषयकत्वानङ्गीकार इत्यर्थः । विषयस्येति ॥ ब्रह्मण इत्यर्थः । तथाच चरमवृत्तेर्ब्रह्ममात्रविषयकत्वेन तस्मिन्वृत्तिविषयत्वसत्त्वेऽपि मिथ्यात्वाभावाद्व्यभिचार इत्यर्थः ॥
स्वरूपेणेति ॥ विशेषणाविशिष्टकेवलस्वरूपेणैव वृत्तिविषयत्वमित्यर्थः ॥ विशिष्टरूपेणैवेति ॥ विशेषणावच्छिन्नस्वरूपेणेत्यर्थः । तथाच हेतोरेवाभावान्न शुद्धे ब्रह्मणि व्यभिचार इति भावः । ननु न घटादेरपि विशिष्टरूपेणैव दृश्वत्वम् । निर्विकल्पकज्ञानविषयस्य घटादेः स्वरूपेणैव दृश्यत्वादतो नासिद्धिरित्यत उक्तम् – निर्विकल्पकेति ॥ ननु नित्यातीन्द्रियस्यापि निर्विकल्पविषयत्वसम्भवेन स्वरूपेण दृश्यत्वोपपत्तेर्न विशिष्टरूपेणैव दृश्यत्वमित्यतो नासिद्धिरिति चेन्न । नित्यातीन्द्रियस्य ज्ञानं न तावत्प्रत्यक्षेण भवितुमर्हं किन्तु लिङ्गागमाभ्यामेवेति वाच्यम् । अस्तु तर्हि लिङ्गागमाभ्यामेव धर्माद्यतीन्द्रियविषयकनिर्विकल्पकज्ञानोदयः । तथाच नासिद्धिरित्यत आह– नहीति ॥ लिङ्ग-जन्यानुमितिरूपज्ञानस्य न निष्प्रकारकनिर्विकल्पकज्ञानरूपत्वम् । अनुमितेर्व्यापकतावच्छेदक-प्रकारकत्वनियमात् । तथा शब्देनापि जायमानं ज्ञानं न निर्विकल्पकम् । तस्य शक्यतावच्छेदक-प्रकारकत्वनियमात् । किंच ब्रह्मणो न स्वरूपेण वृत्तिविषयत्वं किन्तु विशिष्टरूपेणैवेति यद्युच्यते तर्हि वेदान्तानां कल्पितविशिष्टपरत्वेनातत्वावेदकत्वं स्यादित्याह– वेदान्तानामिति ॥ तरति शोक-मिति ॥ तदुपादानाज्ञानं चेति द्रष्टव्यम् । यतो ज्ञानमज्ञानस्य तत्कार्यस्य वा निवर्तकमित्यङ्गीकारात् । तथाच शोकाज्ञानतरणरूपनिवृत्तिं प्रति साधनत्वेनोक्ताया आत्मसंविदो न भ्रमत्वं युक्तम् । भ्रमस्याज्ञानानिवर्तकत्वात् । किन्तु प्रमात्वमेव । प्रमात्वं च तस्याः कल्पितविशिष्टाविषयकत्वेनैव वाच्यम् । एवं च वेदान्तानां कल्पितविशेषविनिर्मुक्तशुद्धब्रह्मज्ञानजनकत्वमेवेति तत्र व्यभिचार इत्यर्थः । मोक्षसाधनेति प्रमाविशेषणम् ॥
न्यायकल्पलता
व्यभिचारमुद्दिधीर्षुः शङ्कते । नन्विति । साध्याभाववति शुद्धे हेतोरप्यभावः हेतुमति च विशिष्टे साध्यमप्यस्ति अतो न व्यभिचार इत्यर्थः । ओश्यमदृश्यम् इत्यर्थः । उपहितं दृष्टम् अनुपहितं च ब्रह्मादृश्यमित्याशयः । उपहितानुपहितत्वं चोक्तं ब्रह्मणः सङ्क्षेपशारीरके ।
बहुनिगद्य किमत्र वदाम्यहं श्रुणुत सङ्ग्रहमद्वयमात्मनि ।
सकलवाङ्मनसातिगता चितिः सकलवाङ्मनसव्यवहारभागिति ।
स्वत इति । शुद्धे वृत्तिव्याप्यत्वरूपदृश्यत्वाभावे शुद्धासिद्धिप्रसङ्गाद् इत्यर्थः । न च स्वतः सिद्धन्तदिति देश्यम् । विकल्पानुपपत्तेः । तथाहि । स्वत इति कोऽर्थः । किं स्वेनैवेति उत प्रमाणेन विना इति । नाद्यः । सिद्धरूपस्य ब्रह्मणः स्वस्मिन् स्वस्य कर्तृकर्मभावरूपकारकतायाः परैरन-भ्युपगमात् । अन्यथा स्वविषयत्वापातात् । न च सिद्ध इत्यस्य ज्ञात इति नार्थः । किं तु व्यवहार-योग्य इति देश्यम् । कर्मत्वार्थकक्तप्रत्ययविरोधात् । यथाह पाणिनिः । तयोरेव कृत्यक्तखलर्था इति । जानातेः सकर्मकत्वेन कर्मण्येव क्तप्रत्ययानुशासनात् । कतृत्वार्थकत्वस्य च प्रकृतेऽनुपयोगात् । ज्ञातत्वमन्तरेण व्यवहारयोग्यत्वाभावात् । अवच्छेदकापरिचये योग्यताया अप्यपरिेचेयत्वात् । ब्रह्मणो निर्धमकत्वात् । मुक्तौ योग्यताया अप्यभावेनात्मनस्तदा स्वतः सिद्ध्यभावापाताच्च । न द्वितीयः । प्रमाणाविषयत्वे तत्सिद्धिर्न स्यादित्यस्य प्रमाणेन विना सिध्यतीत्यस्यानुत्तरत्वात् । सिद्ध्युपायान्तर-स्यानुपन्यस्तत्वात् । अन्यथा नृशृृङ्गादेरपि सिद्ध्यापातादित्यादिनोत्तरत्र पराभिप्रेतस्वप्रकाशत्वभङ्गे स्वतःसिद्धेर्निरशिष्यमाणत्वादिति भावः । निर्बाधप्रमाणगृहीतव्याप्तिकेनाप्यनुमानेन शुद्धस्य दृश्यत्व-मुपपादयति । अज्ञात इति । शुद्धे दृश्यत्वं निषेधति । अयमत्र प्रयोगः शुद्धमदृश्यमिति शाब्दीप्रतीतिर् अभावाधिकरणविषया साधिकरणत्वेनाभावावगाहिप्रतीतित्वात् । अघटं भूतलम् इति प्रतीतिवद् इति । अन्यथा शुद्धं न दृश्यमिति ज्ञानाविषयत्वाविशेषाच्छुद्धेतरस्मिन्नपि दृश्यत्वाभावसिद्धिः स्यादिति भावः । दृश्यत्वनिषेधापत्तिरिति क्वचित्् पाठः । वृत्तिव्याप्यत्वरूपदृश्यत्वनिषेधायेत्यर्थः । न च भावप्रतीतावधिकरणोपस्थितिर् अपेक्षिता । नत्वभावग्राहकप्रमाणजन्याधिकरणोपस्थितिः प्रमाण-जन्या तदुपस्थितिर्वा । आद्ये वायौ रूपात्यन्ताभावश्चाक्षुषो न स्यात् । द्वितीये गौरवम् । अधिकरणोपस्थितिश्च स्वतः स्फुरणरूपाऽस्तीति सुबोधः । शुद्धे ब्रह्मणि व्यावृत्तिव्याप्यत्वरूप-दृश्यत्वव्यतिरेको वृत्येत्याशङ्क्य निराकरोति । नचेति । इति युक्तं नेत्यर्थः ।
कुतो न युक्तमत आह । शुद्धमिति । विधिनिषेधबुध्यगोचरस्य विधिनिषेधाभाजनत्वात् । तद्बुद्धिगोचरत्वे तु सुस्थो व्यभिचारः । अन्यथाऽतिप्रसङ्गादित्यर्थः । लाघवेनेति । ब्रह्मणो मिथ्यात्वं मा प्रसाङ्क्षीदिति वृत्तिव्याप्यत्वरूपं दृश्यत्वं ब्रह्मणो नाङ्गीकृतम् मिथ्यात्वे प्रयोजकमभिहितं परेण । तथापि तद्दुर्वचं गौरवात् । लाघवेन स्फुरणमेव मिथ्यात्वे तन्त्रम्् नतूक्तरूपं दृश्यत्वम् । प्रपञ्चस्यापि स्फुरद्ब्र्रह्माभिन्नत्वेन मिथ्यात्वलाभात् । न च स्फुरणरूपतायाः शुक्तिरूप्यादावभावात् स्फुरण-विषयत्वस्य च ब्रह्मण्यसिद्धेः कथं तन्मिथ्यात्वमिति वाच्यम् । घटः स्फुरतीतिवत् शुक्तिरूप्यं स्फुरतीति प्रत्ययास्फुरत्वेनैव तन्मिथ्यात्वसिद्ध्यविरोधात् । एवं चादृश्यमपि ब्रह्म स्वतः स्फुरदपि स्फुरणरूपमिथ्यात्वप्रयोजकवत्वान्मिथ्यैव न तु परतः स्फुरद्रूप्यादिमात्रमिति शून्यवादिमताविशेषः स्यादित्यर्थः ।
ननु लघुनोऽपि स्फुरणस्यान्यथा ब्रह्मणोऽपि मिथ्यात्वापत्तौ तत्सत्यत्वपराणां ‘‘सत्यं ज्ञानं’’ ‘‘तत्सत्यं स आत्मे’’त्यादिश्रुतीनामप्रामाण्यं स्यादित्यत उक्तं तत्सापराधीनप्रकाशत्वात् । तथाहि । ‘ममेदमनुकूलम्’ इत्यादिज्ञानस्य अहमर्थविशिष्टानुकूलादिवस्तुप्रकाशत्वेनावच्छेदकात्मप्रकाशोऽङ्गी-कार्यः । दण्ड्यादिलक्षणावच्छिन्नप्रकाशस्य दण्डादिलक्षणावच्छेदकप्रकाशसाहित्यनियमदर्शनात् । तत्रात्मनो मनोजन्यस्वसमवेतज्ञानवेद्यत्वे स्वसमवेतक्रियायाः स्वस्मिन्विषये वृत्तिरापद्येत । सा च नोपपद्यते । चैत्रसमवेताया गतेस्तद्विषयकत्वादर्शनात् । नन्वस्त्वात्मनो मानसवेदनीयत्वाभाव-स्तथाप्यात्मप्रकाशस्यापराधीनता कुतः स्वप्रकाशज्ञानाश्रयतयाऽप्यात्मनः प्रकाशापत्तिरिति चेत् । न । आत्मा न संविदधीनप्रकाशः संविदकर्मत्वे सति अपरोक्षत्वात्संवेदनवद् इत्यनुमानविरोधात् । न च नैय्यायिकादीन् प्रति विशेषणासिद्धिः । संवित्कर्मत्वे वृत्तिविरोधस्योक्तत्वात् । घटादौ धर्माधर्मादौ व्यभिचारपरिहारार्थं हेतुगतं विशेषणद्वयम् । न च निदर्शनस्य साध्यवैकल्यम् । संविदः संविदन्तराधीनप्रकाशत्वेन अवस्थानात् ।
अत्रोच्यते । किमात्मनो निरुपाधिकं रूपमपराधीनप्रकाशमुत सोपाधिकमपि । नाद्यः । अनुपहितस्यैवापराधीनप्रकाशत्वे ममेदमित्यादिना अनुकूलप्रतिकूलसम्बन्धिनोऽन्तःकरणसंवलित-चैतन्यरूपस्याहमर्थस्य स्वयं प्रकाशत्वसाधनस्यासङ्गतत्वात् । न द्वितीयः । निरूपाधिकरूपवत् सोपाधिकरूपस्याप्यपराधीनप्रकाशत्वाङ्गीकारे आत्मनि ज्ञानमात्रं निषिद्धं स्यात् । तथा चापसिद्धान्तः स्यात् । ‘‘सर्वप्रत्ययवेद्ये च ब्रह्मरूपे व्यवस्थिते । प्रपञ्चस्य प्रविलयः शब्देन प्रतिपाद्यते’’ इति मण्डनमिश्रादिभिस्तस्य वेद्यताभिधानात् । किञ्चात्मा न पराधीनप्रकाश इत्येवंरूपवृत्तिविषयो न वा । आद्ये दृश्यत्वस्य हेतोरनैकान्त्यापातः । मूकोऽहमितिवत्स्वक्रियाविरोधश्च । यथा मूकोऽहमिति वचनक्रियया मूकपदोक्तवक्तृत्वनिषेधो विरुध्यते । तथा अपराधीनप्रकाशो नेति आत्मसम्बन्धित्वेन पराधीनप्रकाशत्वनिषेधकात्मविषयज्ञानक्रियया नेति पदोक्तस्तन्निषेधो विरुध्यते इति ।
द्वितीयेऽपि प्रष्टव्यम् । यत्र मिथ्यात्वाभावस्तत्र दृश्यत्वाभाव इति व्यतिरेकोऽस्ति न वा । नेति पक्षे दृश्यत्वस्य हेतोः केवलान्वयित्वापत्या ब्रह्मणोऽपि मिथ्यात्वप्रसङ्गः । व्यतिरेकसहचारसत्वेऽपि तद्ग्रहो नास्तीति चेत् तर्हि साध्याभाववति साधनाभावनियमानिश्चये तत्र साधनसन्देहात्सन्दिग्धा-नैकान्तिकता । आद्येऽप्यात्मन्येव स दर्शयितव्यः । अत्यन्तासति सद्विविक्तत्वरूपमिथ्यात्वस्य पराधीनप्रकाशत्वरूपदृश्यत्वस्य च सद्भावेन तत्र व्यतिरेकासम्भवात् । न चात्मनि स शक्यो दर्शयितुम् । आत्मा न पराधीनप्रकाश इति पराधीनप्रकाशत्वरूपदृश्यत्वरूपसाधनाभावविषयकज्ञानं प्रत्यात्मनो विषयत्वाभावेन तन्निष्ठतया व्यतिरेकस्य ज्ञातुमशक्यत्वात् । नन्वात्मा न पराधीनप्रकाश इत्येवंरूपवृत्तिविषयो भवत्येव । तर्हि तस्य दृश्यत्वं स्यादिति चेत् । किं निरूपाधिकस्य किं वा सोपाधिकस्य नाद्यः । अपराधीनप्रकाशत्वविशिष्टस्यैव तत्र स्फुरणेन निरुपाधिकस्य तत्रास्फुरणात् । न द्वितीयः । सोपाधिकस्य दृश्यत्वाङ्गीकारात् । तथा च निरुपाधिकरूपमेवापराधीनप्रकाशं पराधीन-प्रकाशमपि । एवञ्च निरुपाधिकस्यापराधीनप्रकाशत्वेऽपि दृश्यत्वाभावावच्छिन्नस्य दृश्यत्वासिद्धौ व्यतिरेक इति ।
अत्रेदं वक्तव्यम् । किं सोपाधिके व्यतिरेकः प्रदृश्यते । किं वा निरुपाधिके । आद्ये सोपाधिकं सत्यं मिथ्या वा । नाद्यः । व्यतिरेकावच्छिन्नस्यादृश्यत्वे तन्निष्ठतया व्यतिरेकस्य ज्ञातुमशक्यत्वात् । दृश्यत्वावश्यम्भावे तस्य सत्यतया व्यभिचारात् । न द्वितीयः । तत्र मिथ्यात्वरूपसाध्यव्यतिरेकाभावेन व्यतिरेकव्याप्तेः प्रदर्शयितुमशक्यतया दृश्यत्वस्य साधनव्यतिरेकप्रदर्शनस्य वैय्यर्थ्यात् । सोपाधिकस्य मिथ्यात्वे तस्यापि पक्षीकर्तव्यतया दृश्यत्वस्य तत्रावृत्तौ भागासिद्धिप्रसङ्गाच् च । तृतीये तु सुस्थस्तत्र व्यभिचार इति मनसि निधायाह । विशिष्ट इत्यादिना । व्यतिरेकव्याप्तिज्ञानस्याप्यनुमानाङ्ग-भूतान्वयव्याप्तिनिश्चयहेतुत्वादित्यर्थः । अन्यथा सन्दिग्धानैकान्त्यं स्यादिति भावः । शुद्धस्यात्मनः सत्यत्वेन तत्र साध्यव्यतिरेकस्यादृश्यत्वेन साधनव्यतिरेकस्य च स्वरूपतः सद्भावेऽपि शुद्धस्या-दृश्यतया तन्निष्ठत्वेन व्यतिरेकनिश्चयो न सम्भवतीति । तत्र निश्चयं वदता तस्य दृश्यत्वम् अवश्यं वक्तव्यमिति निश्चितानैकान्तिकत्वमित्युभयतः पाशारज्जुम•यावादिनः ।
अत्र केनचित् प्रलपितम् । स्वयं प्रकाशत्वेन प्रकाशमाने आत्मनि यतो वाचो निवर्तन्ते इति वाक्याददृश्यत्वाकारा बुद्धिरुत्पद्यते । तस्यां चाभिव्यक्तो दृगात्मा स्वाध्यस्तं दृश्यत्वाभाववैशिष्ट्यं साधयति । एवं चात्मस्वरूपेऽदृश्येऽपि दृश्यत्वाभाववैशिष्ट्यं दृश्यं भविष्यति । न च वाच्यं दृश्यत्वाभाववैशिष्ट्यस्य मिथ्यात्वे दृश्यत्वं वास्तवं स्यादिति । स्वप्ने भावतद्विपर्ययोरध्यस्त-तादर्शनादिति ।
तत्तुच्छम् । तथाहि । अदृश्यत्वाकाराबुद्धिः किमात्मावच्छिन्नमदृश्यत्वं बोधयति । उता-नवच्छिन्नम् । आद्येऽवच्छेदकमात्मनोऽपि ज्ञानं स्यात् । द्वितीये कथं दृश्यत्वाभाववैशिष्ट्य-स्यात्मीयतासिद्धिः । वाक्यादुत्पन्नायाश्च वृत्तेरध्यस्तादृश्यत्वविषयत्वे न कथं वाक्याप्रामाण्यापातः । किञ्चैवमारोपितो दृश्यत्वव्यतिरेक आत्मनीव प्रपञ्चेऽप्यस्तीत्यसिद्धिः । प्रपञ्चे दृश्यत्वमारोपितमस्तीति नासिद्धिरिति चेत् । तर्हि आत्मन्यपि अध्यस्तं तदस्तीति व्यभिचारः । अपि च दृश्यत्वा-भावस्याध्यस्तत्वे तदभावरूपेण दृश्यत्वेन बाधागोचरेण भवितव्यम् । बाधविषयस्य चाध्यस्तत्वे बाधस्याप्रामाण्यप्रसाङ्गात् तत्सत्यतासिद्धिः । अत एव स्वप्नदृष्टान्तोऽप्यसम्प्रतिपन्नः । तत्र प्रतीतस्य गतस्य मिथ्यात्वेऽपि न तदभावस्य मिथ्यात्वं किन्तु सत्यत्वमेवात्मवदबाधादित्यलं दुर्बलहिंसया ।
अत्राहुरभिनवाद्वैतवादिनः । वृत्तिकाले वृत्तिरूपेण धर्मेण शुद्धत्वासम्भवात् शुद्धस्य वृत्तिविषयत्वं न सम्भवति अतः शुद्धं स्वप्रकाशमिति वाक्यस्य लक्षणयाऽशुद्धत्वमस्त्वप्रकाशत्वव्यापकमित्यर्थः । तथा चाशुद्धत्वव्यावृत्या शुद्धे स्वप्रकाशता पर्यवस्यति । यथा भेदनिषेधेनाभिन्नत्वम् । न च शुद्धपदेनाभिधया लक्षणया वा शुद्धाप्रकाशे तत्प्रयोगवैय्यर्थ्यमिति वाच्यम् । पर्यवसितार्थमादाय सार्थकत्वोपत्तेः । एवं शुद्धं न दृश्यं न मिथ्येत्यस्याप्यशुद्धत्वदृश्यत्वमिथ्यात्वयोर्व्यापकमित्येतत् परत्वेन शुद्धे दृश्यत्वमिथ्यात्वयोर्व्यतिरेकः पर्यवस्यतीति । तत्रेदं वक्तव्यम् । न तावत् स्वप्रकाशत्वादृश्यत्वयोर्व्याप्यव्यापकभावग्रहमात्रेण शुद्धे स्वप्रकाशता पर्यवस्यति । किन्तु शुद्धेऽ-स्वप्रकाशत्वव्यापकस्याशुद्धत्वस्य व्यावृत्तौ ज्ञातायामेव । तथा च व्यापकव्यतिरेकग्रहार्थमावश्यकं शुद्धज्ञानम् । किञ्च अस्वप्रकाशत्वाशुद्धत्वयोर्व्याप्यव्यापकभावग्रहोऽपि तदुभयव्यतिरेकयोः शुद्धत्व-स्वप्रकाशत्वयोः शुद्धे सहचारग्रहे सत्येवेति तदिदं घट्टकुट्टीप्रभातवृत्तान्तमनुसरतीति ।
ननु मिथ्यात्वदृश्यत्वव्यतिरेकयोः सहचारग्रहापेक्षा । सा हि निश्चितसाध्याभाववति साधनग्रहेण व्यभिचारज्ञाने सति स्यात् । न चात्र साध्याभावनिश्चयः शुद्धे सम्भवति । न वा तत्र साधनग्रहः सम्भवति । शुद्धस्याज्ञेयत्वादिति चेत् । न । यत्र मिथ्यात्वाभावस्तत्र दृश्यत्वाभाव इति व्यतिरेकोऽस्ति न वेति विकल्प्य दूषणगणग्रस्तत्वेनाधस्तादेव व्युदस्तत्वात् । विशिष्टज्ञान इति । मास्म भूत्केवलस्य शुद्धस्य ज्ञानं तथापि शुद्धे व्यभिचारो दुरुद्धर एव । अशुद्धस्य विशिष्टस्य ज्ञेयत्वनैव तदनुस्यूतस्य शुद्धस्य विशेष्यस्य ज्ञेयत्वादित्यर्थः । न च विष्णवे इति । एवञ्च विशेष्ये शुद्धे हेत्वगमनान्न व्यभिचार इत्यर्थः ।
देवतात्ववदेवेति । विशेषणविशेष्यभावापन्ने विशिष्टे देवतात्ववदित्यर्थः । विशेषणस्य मिथ्यात्वासिद्धिश्चेत्यपि ज्ञेयम् । घटत्वादीति । तथाच विशेष्यस्य घटस्य मिथ्यात्वं न स्यादित्यर्थः । दृश्यत्वं वृत्तिव्याप्यत्वरूपम् । विशिष्ट इति । तथा च विशेष्यांशेऽपि यदज्ञानविरोधि तदेव विशिष्टज्ञानमावश्यकम् । यद्विशिष्टं यावद्वस्तुभावि तद्विशेष्यात्यन्ताभिन्नम् । यथा घटात्वादि-विशिष्टम् । भेदप्रतिनिधिना विशेषेणैव तत्र विशिष्टादिव्यवहारः । यथा वा विज्ञानमानन्दं ब्रह्मेति । विशेषश्च समर्थयिष्यते । अयावद्वस्तुभाविविशिष्टस्य दण्ड्यादेर्विशेष्यभिन्नत्वेप्यभेदस्यापि सत्वा-द्विशिष्टज्ञानमेव विशेष्याज्ञानविरोधि । उपहितविषयत्वेऽप्युपाधेयविषयत्वस्याक्षतत्वात् । विशेष्यमात्रस्य कदाप्यस्फुरणाच्चेति भावः ।
ननु विशिष्टज्ञानानन्तरम् अव्यवधानेन विशेष्यमात्रावगाहिज्ञानमुत्पद्यते । तत एव विशेष्य-विषयकाज्ञानादिति वृत्तिर्न तु विशिष्टज्ञानादित्यत आह । दण्डीति । तथा च सप्रकारकज्ञानस्यैवा-ज्ञानसंशयविपर्ययनिवर्तकत्वाद् व्यावर्तकप्रकारानवगाहिविशेष्यज्ञानस्य तदनिवर्तकत्वाद्विशिष्टज्ञानोत्तरा-व्यवहितविशेष्यमात्रकल्पनमप्रामाणिकमिति भावः । एतेनेत्यस्यैव विवरणम् अनुभवविरोधादि-नैवेति । विशिष्टज्ञानेनैव विशेष्यमपि ज्ञातमित्यनुभवेन ज्ञातत्वरूपविषयत्वस्य विशेष्येऽपि सत्वादिति च । अग्निषोमयोर्मिलितयोर्देवतात्ववन्मिलितस्य विषयत्वे विशेष्येऽपि विषयत्वमवर्जनीयमेव । अन्यथा तद्वदेव विशेषणस्यापि अविषयत्वे भागासिद्धिप्रसङ्गाद् इत्यर्थः । एतेन विशेष्यतापन्नस्य विषयत्वेऽपि न क्षतिः । उपहितात्मना तस्यापि मिथ्यात्वाभ्युपगमादिति नवीनोक्तं निरस्तम् । ब्रह्मणोऽनुपहितस्वरूपेण सत्यत्ववद्घटादेरप्यनुपहितचित्स्वरूपेण सत्यत्वापातात् । तत्सत्यं स आत्मेत्यादिश्रुतिस्तु विशेष्यतापन्नस्यैव ब्रह्मणः सत्यतां विषयीकरोति न तु विशेष्यतानापन्नस्य । विशेष्यतापन्नस्य मिथ्यात्वेतु प्रपञ्चारोपाधिष्ठानतया ब्रह्मणः सत्यता न सिद्धेदिति जितं शून्यवादिना । प्रपञ्चसत्यत्वेऽपि श्रुत्यादेरभिधास्यमानत्वात् । दृश्यत्वानुमाने व्यतिरेकव्याप्तेर्दुर्ग्रहत्वाच्च ।
एतेनैवात्मन्येव व्यतिरेकः सुग्रहः । तस्य तु स्वप्रकाशत्वेऽपि व्यतिरेकावच्छिन्नस्य स्यादेव दृश्यता । तस्य निरुपाधिकरूपमपराधीनप्रकाशं सोपाधिकं तु पराधीनप्रकाशमिति जरन्मायावाद्य-नन्दबोधोक्तमपि व्युदस्तम् । विशिष्टस्य मिथ्यात्वाद्विशिष्टे साध्यव्यतिरेको नास्ति । एवञ्च तत्र साधनव्यतिरेको वा तद्ग्रहो वा त्याज्यः । साधनव्यतिरेकोहि सोपाधिकस्य दृश्यत्वव्यतिरेका-वच्छिन्नत्वमपेक्षते । सोपाधिकावच्छिन्नतया साधनव्यतिरेकज्ञानं तु सोपाधिकस्य दृश्यत्वमपेक्षते । न च दृश्यत्वव्यतिरेकावच्छिन्नत्वदृश्यत्वयोरेकत्रावस्थानं युक्तम् । विरोधात् ।
ननु भावाभावयोः सामानाधिकरण्ये हि विप्रतिषेधः स्यात् । नत्वेतदस्ति । स्वरूपमात्रे दृश्यत्वाभावः स्वरूपमात्राद्भिन्ने दृश्यत्वव्यतिरेकावच्छिन्ने दृश्यत्वमित्यधिकरणभेदाङ्गीकारादिति चेत् । मैवम् । एकत्र व्यतिरेकोऽपरत्र दृश्यत्वमित्युक्तौ यत्र व्यतिरेकमात्रं तत्र व्यतिरेकस्वरूपमात्रसिद्धावपि दृश्यत्वव्यतिरेकाश्रयस्य दृश्यत्वव्यतिरेकावच्छिन्नतया दृश्यतासिद्ध्यर्थं दृश्यत्वव्यतिरेकदृश्यत्वयोः सामानाधिकरण्यस्यावश्यकत्वात् । अन्यथा एकत्र व्यतिरेकज्ञानासम्भवः । नहि तस्याज्ञाने तदवच्छिन्नतया किञ्चिज्ज्ञातुं शक्यम् । यत्र तु दृश्यत्वमात्रं तत्र तद्व्यतिरेकस्यैवासम्भव इति दूरे तदवधारणमिति ।
ननु यत्तदद्रेश्यमित्यादिश्रुतिभिः सर्वथा दृश्यत्वं निषिध्यत इति चेत् । न । दृश्यते त्वग्य्रया बुध्या, तमेवैकं जानथ आत्मनमित्यादिश्रुतिविरोधात् । किञ्च ब्रह्मसम्बन्धित्वेनैव तन्निषेद्धव्यम् । न च ब्रह्मणोऽज्ञाने तत्र दृश्यत्वं निषेद्धुं शक्यम् । अज्ञाते धर्मिणि धर्मनिषेधायोगात् । एवञ्च सर्वथा दृश्यत्वनिषेधे व्याघातादेवाबाधितार्थान्तरपरत्वं तासामित्याह । अत एवेति । प्रागुदाहृतश्रुत्यादि-विरोधात् । आपाततः प्रतीयमानार्थासम्भवात् । विशिष्टस्य दृश्यत्वे विशेष्यस्य दृश्यत्वादेवेत्यर्थः । साकल्येनेति । तदपृथक्सिद्धरूपगुणादिमत्वेनेत्यर्थः । श्रुतेरान्तरानुपपत्तिं चाह । अन्यथेति । ओश्यम् अदृश्यम् । दृशेरुपधाया आर्ष एगागमः । यत्पदादिना शुद्धस्य ब्रह्मणोऽप्रतिपादने शुद्धे ब्रह्मण्य-दृश्यत्वं न सिद्धेदित्यर्थः । किञ्च वेदान्तमहावाक्यजन्याखण्डवृत्तौ शुद्धस्यैवात्मनो विषयत्वम् । उपधायकान्तराभावात् । तथाचानुपहित एवात्मनि व्यभिचारः । ननु चरमवत्तेरपि स्वापोहित-विषयकत्वान्न व्यभिचार इत्यनैकान्तिकतादोषपरिहाराभिनिविष्टचेतसो विस्मृतसिद्धान्तस्य समाधान-माशङ्क्य निराकरोति । एतेनेति । उपहितस्य दृश्यत्वे शुद्धस्य तदुपधेयस्यापि दृश्यत्वमवर्जनीयमेव । तस्य च मिथ्यात्वाभावाद्व्यभिचार एवेत्यर्थः । अस्त्वेतद्यथा तथा यद्विशिष्टविषयकवृत्तौ विशेष्यस्य शुद्धात्मनो विषयत्वात् तत्र व्यभिचार इति । चरमवृत्तेब्रह्मेतराविषयकत्वे सति ब्रह्मविषयिकायाः परिशेषेणापि शुद्धविषयकत्वमवश्यं वाच्यमित्यपि बोद्धव्यम्् । एतेन चरमवृत्तेः स्वोपहितविषयकत्वे वक्ष्यमाणेन दोषेणेति चार्थः । एतदेवाह । चरमवृत्तेरिति । स्वस्याश्चरमवृत्तेर्यो विषयस्तदन्तर्भावे तदन्तःप्रवेश इत्यर्थः ।
स्वप्रकाशत्वस्येति । वेदान्तजन्याखण्डवृत्तेरुपहितविषयत्वे तदानीमुपाध्यन्तराभावेन तस्या एवोपधायकत्वात्स्वविषयत्वापत्तेरित्यर्थः । न चेष्टापत्तिः । शाब्दबोधे शब्दानुपस्थिताभाननियमेन वृत्तेः शब्दानुपस्थिताया भानानुपपत्तेः । यथा कथञ्चिदुपपत्तौ वा न ततोऽज्ञानतत्कार्ययोर्निवृत्तिः स्यात् । अज्ञानतत्कार्याविषयकज्ञानस्यैव तदुभयनिवर्तकत्वात् । अन्यथाऽहमज्ञो ऽयं घट इत्यादि-ज्ञानानामप्युपहितविषयत्वेनाज्ञाननिवर्तकत्वप्रसङ्गः ।
अप्रमात्वस्येति । मिथ्याभूतचरमवृत्तिविषयत्वं स्यादित्यर्थः । वृत्युपराग इति । अत्र वृत्ते-रुपहितविषयत्वे । सत्तया अज्ञाततया । प्रतिभास्यतया ज्ञायमानतया । स्वरूपसच्चरमवृत्तिरात्मोप-धायिकेत्यर्थः । बहिर्भावे चेति । चरमवृत्तेः स्वविषयबहिर्भावे स्वाविषयकत्वे चरमवृत्तिविषयस्य निष्प्रपञ्चस्यानुपहितस्यैवात्मनः सत्यत्वाद्व्यभिचारो दुरुद्धर इत्यर्थः ।
अत्र केनचित् प्रलपितम् । चरमवृत्तिर्न स्वविषयान्तर्भूता । नापि तद्विषयस्य सत्यत्वम् । वृत्तेः शाब्दवृत्तावनवभासमानाया एवोपधायकत्वाभ्युपगमात् । तदुक्तं कल्पतरौ । शुद्धं ब्रह्मेति विषयी-कुर्वाणा वृत्तिः स्वस्वेतरोपाधिनिवृत्तिरुदयते । स्वस्या अप्युपाधित्वाविशेषात् । एवञ्च नानुपहितस्य विषयता । वृत्युपरागोत्र सत्तया उपयुज्यते । न भास्यतया विषयकोटौ प्रवेशेनेति । अयमभिप्रायः । यथाऽज्ञानोपहितस्य साक्षित्वेऽपि नाज्ञानं साक्षिकोटौ प्रविशति । जडत्वात् । किन्तु साक्ष्यकोटावेव । एवं वृत्युपहितस्य विषयत्वेऽपि निवृत्तिविषयकोटौ प्रविशति । स्वविषयत्वानुपपत्तेः । किन्तु स्वयमविषयोऽपि चैतन्यस्य विषयतां सम्पादयतीति न काप्यनुपपत्तिरिति । तदसारम् ।
यदि वृत्तिः स्वसन्निधिमात्रेण चैतन्यस्योपहिततां सम्पाद्य स्वयमुपाध्यविषयाऽपि सती उपहित-मिथ्याभूतार्थविषया भवति । तर्हि अज्ञानमपि स्वसन्निधिमात्रेण चैतन्यस्य स्वोपहिततां सम्पाद्या-ज्ञानविषयकं सद् अज्ञेयविषयकं स्यादिति मिथ्याभूतार्थविषयकमेवाज्ञानं स्यात् । न तु शुद्ध-चिद्विषयकम् । उक्तविधया मिथ्याभूताथ•श्रितं च स्यात् । न तु शुद्धचिदाश्रितम् । इष्टं चाज्ञानस्य शुद्धचिदाश्रयविषयत्वं च परेषाम् । यदाहुः ।
आश्रयत्वविषयत्वभागिनी निर्विभागचितिरेव केवला ।
पूर्वसिद्धतमसो हि पश्चिमो नाश्रयो भवति नापि गोचरः । इति ।
तथा चापसिद्धान्तः । यदुक्तं स्वसन्निधिमात्रेण साक्षिसम्पादकत्वमिति । तन्न । अज्ञान-सन्निधानस्य स्वतः शुद्धेऽसम्भवेन साक्षित्वसम्पादनायोगः । नापि साक्षिणि तत्सन्निधानम् । तस्यैवाभावात् । नन्वज्ञानमपि स्वोपधानदशायामेव ब्रह्म विषयीकरोति । स्वानुपाधानदशायां स्वस्यैवाभावात् । तथा च ज्ञानाज्ञानयोरुभयोरप्युपाध्यविषयत्वे सत्युपहितविषयत्वात् समान-विषयत्वमस्त्येव । अत एवोपाधिविषयज्ञानानां नाज्ञाननिवर्तकत्वम् । अज्ञानस्योपाध्यविषयत्वेन समानविषयत्वाभावात् । समानविषयत्वेनैव तयोर्निवर्त्यनिवर्तकभावात् । एवं ज्ञानाज्ञानयोरेकविषयत्वं व्याख्यातमिति । मैवम् । शुद्धचिदाश्रयविषयमज्ञानमिति सिद्धान्तभङ्गप्रसङ्गात् । अन्योन्याश्रयत्वाच्च । तथाहि सिद्धे उपहिते विषये अज्ञानस्वरूपासिद्धिः । अज्ञानस्वरूपे च सिद्धे तदुपहितरूप-विषयसिद्धिरिति । एवमुपहिताश्रयत्वेऽप्यन्योन्याश्रयो बोध्यः । किञ्च चरमवृत्तेरपि अन्योन्याश्रयादेव नोपहितविषयत्वम् । तथाहि अनुपहितस्य शुद्धस्य वृत्यविषयत्वेन चैतन्यस्य वृत्तिविषयत्वार्थं तटस्थयाऽप्युत्पन्नया वृत्योपहितत्वम् । उपहिते सति चैतन्ये च तद्विषयकवृत्युत्पत्तिः । निर्विषयवृत्ते-रनुत्पादात् । एवञ्च चैतन्यस्य विषयत्वे लब्धे तद्विषयकवृत्युत्पत्तिः । वृत्युत्पत्तौ चैतन्यस्य वृत्युपाधानविषयत्वमित्यन्योन्याश्रयः ।
अपि च । वेदान्तजन्याखण्डचरमवृत्तेरुपहितमिथ्याभूतार्थविषयकत्वाभावादप्रामाण्यप्रसङ्गो दुरुद्धरः । अज्ञानवत्स्वविषयानन्तर्भूतत्वेन स्वविषयत्वमेव परिहृतम् । चरमवृत्तेर्निषेध्यत्वेन स्वविषयत्वाभावे तु तन्निवृत्तिर्न स्यात् । तथा च ब्रह्मवदबाध्यत्वापातः । यद्यप्यवच्छेद्यस्य ब्रह्मणः सत्यत्वं परेणाङ्गीकृतमेव । मिथ्यात्वे तया तन्निवृत्तावात्महानिर्मोक्ष इति शून्यवादिचरणानुचर-प्रसङ्गस्तथाऽपि व्यभिचारपरिजिहीर्षासम्भ्रान्तस्य विस्मृतसिद्धान्तस्येदं वचनमिति बोध्यम् । तस्माच्छुद्धस्यैव चैतन्यस्य चरमवृत्तिविषयत्वे अङ्गीकरणीये तस्य च मिथ्यात्वाद्व्यभिचार एवेति साधूक्तं व्यभिचारानुद्धाराद् इति । न च स्वरूपेणेति । विशिष्टाविषयकवृत्तिव्याप्यत्वमित्यर्थः । ब्रह्मत्विति । विशिष्टविषयकवृत्तिव्याप्यत्वमेवेत्यर्थः । निर्विकल्पकेति । निर्विकल्पकाभावपक्षे घटादेः सर्वस्यापि यत्किञ्चिद्विशेषणावच्छेदेन प्रतीतावनवस्थाप्रसङ्गः । घटाद्यवच्छेदकं घटत्वादिकं प्रति तदवच्छेद्यस्य घटादेरेवावच्छेदकतयाऽवच्छेदकान्तरानपेक्षणात् । विशिष्टज्ञाने हि विशेषणविशेष्ये परस्परावच्छ्न्निे प्रतीयेते इति पदार्थतत्वविदः । निर्विकल्पकसद्भावपक्षे नित्यातीन्द्रियस्य विशिष्ट-मात्रविषयकानुमित्यादिविषयत्वात्तत्र भागासिद्धिरित्यर्थः । नहीति । व्याप्तिप्रकारकपक्षधर्मतावगाहि-लिङ्गज्ञानस्य पदार्थतावच्छेदप्रकारकपदार्थोपस्थितेश्च विशिष्टज्ञानसामग्रीत्वान्न ततोऽनुमितिरूपा वा शाब्दी वा निर्विकल्पकधीः किन्तु विशिष्टधीरेवोत्पद्यत इत्यर्थः ।
अत्र कश्चिदाह । स्वाभिन्नेतरविशेषणप्रयुक्तविशिष्टविषयकवृत्तिव्याप्यत्वमुक्तहेत्वर्थो विवक्षितः । एवञ्च निर्विकल्पकाभावपक्षेऽपि घटादौ नासिद्धिः । घटोऽयमिति वृत्तिमादाय निरुक्तहेतोस्तत्र सत्वात् । इदन्तादेरपि स्वाभिन्नत्वात् । ऐन्द्रियके घटादौ घटत्वादेर्विशेषणस्य घटादिधर्म्यभिन्नत्वात् । धर्मधर्मिणोरभेदात् । स्वाभिन्नेतरद्यद्विशेषणं घटत्वादि तत्प्रयुक्तं यद्विशिष्टं पटादि तदविषयकं यद्विशिष्टज्ञानं घटोऽयमिति प्रत्यक्षं तद्विषयत्वादेर्घटादेर्न तत्र हेत्वसिद्धिः । एवं नित्यातीन्द्रियस्यापि धर्मादेस् तत्पदजन्यतत्तदर्थमात्रगोचरोपस्थितिविषयत्वेन तत्रापि नासिद्धिः । अतीन्द्रिये धर्मादौ धर्मत्वादेर्विशेषणस्य धर्मादिधर्म्यभिन्नत्वात् । स्वाभिन्नेतरद्यद्विशेषणं पटत्वादि तत्प्रयुक्तं यद्विशिष्टं पटादि तदविषयकं यद्विशिष्टज्ञानं धर्म इत्यादि तत्तदर्थोपस्थितिस्तद्विषयत्वाद् धर्मादेर्न तत्र हेत्व-सिद्धिः । ब्रह्मणस्तु स्वाभिन्नं यदानन्दादि तदितरद् यद्यद् घटादिविशेषणं तत्प्रयुक्तं यद्विशिष्टं भूतलादि तत्तद्विषयक एव ज्ञाने भानम् । सर्वस्यापि ब्रह्मविषयकप्रत्ययस्यान्यनिबन्धनविशिष्टविषय-कत्वात् । एवं ब्रह्मणि हेत्वाभावादेव न व्यभिचार इति । तदसारम् । ब्रह्ममात्रविषयकवेदान्तजन्य-निरुक्तचरमवृत्तिमादाय व्यभिचारतादवस्थ्यात् ।
ननु वेदान्तमहावाक्यजन्यवृत्तिरपि विशिष्टविषयैवेति न व्यभिचार इति चेत् । न विकल्पानु-पपत्तेः । तथाहि । तद्विशिष्टमकल्पितं कल्पितं वा । नाद्यः । ब्रह्मणोऽखण्डार्थत्वहानिप्रसङ्गात् । द्वितीयाभावे हेतुमाह । वेदान्तानामिति । कल्पितविशिष्टपरत्वादित्यर्थः । दोषान्तरमाह । तरतीति । शोकरूपाज्ञानस्य तरणरूपनिवृत्तिं प्रति साधनत्वेनोक्तस्य आत्मवेदनस्य न तावदात्मविषयकभ्रमत्वं युक्तम् । भ्रमस्याधिष्टानावरणाज्ञानानिवर्तकत्वात् । किन्तु सा प्रमैव प्रमात्वं च तस्याः कल्पविशिष्टा-विषयत्वेनैव । तस्माद्वेदान्तानां कल्पितविशेषविनिर्मुक्तशुद्धब्रह्मज्ञानजनकत्वमेव वक्तव्यमिति तत्र व्यभिचार इत्यर्थः । मोक्षसाधनेति प्रमाविशेषणम् । यदि श्रौतं ब्रह्मज्ञानम् उपहितविषयं स्यात्तर्हि मोक्षसाधनं न स्यादतोऽनुपहितब्रह्मविषयं तदिति भावः ।
न्यायामृतमाधुरी
अनैकान्त्यव्युदसनमाशङ्कते– नन्विति । एवं च यत्साध्यविनिर्मुक्तं तद्धेतुविनिर्मुक्तं, यद्धेतु-विशेषितं तत्साध्यविशेषितमिति नानैकान्त्यमित्यर्थः । स्वत इति ॥ मेयसिद्धेर्मानाधीनतया प्रमाणजन्यवृत्यविषयत्वे शुद्धस्यासिद्धिप्रसङ्गादित्यर्थः । अज्ञात इत्यादि । विधिनिषेधप्रतीत्यो-रधिकरणप्रतीतिनिबन्धनत्वादिति भावः । नन्वभावप्रतीतिं प्रति धर्मिगोचरोपस्थितित्वावच्छिन्नस्यैव हेतुत्वमुपेयते । न प्रमाणजन्यतदुपस्थितत्वावच्छिन्नस्य प्रमाणजन्यत्वांशस्य तज्जनकतावच्छेदककोटि-प्रवेशे प्रयोजनाभावात् । तथा च स्वतःस्फुरणरूपाधिकरणोपस्थितिबलादेव वृत्तिव्याप्यत्वनिषेधधीः सङ्गच्छत इत्याशङ्कते– न चेति । वृत्या दृश्यत्वनिषेधधीर् वृत्यभिन्नदृग्विषयत्वनिषेधधीः । लाघवे-नेत्यादि वृत्तिव्याप्यत्वापेक्षया लघुमूर्तिकतया स्फुरणमेव तत्स्थानेऽभिषिञ्च्यताम् । तथा सति ब्रह्मापि मिथ्यैव प्रासांक्षीदित्यर्थः । व्यतिरेकज्ञानायेति । व्याप्तिग्रहप्रतिषेधकव्यभिचारशङ्कानिवर्तनायावश्या-श्रयणीया च ।
अत्राद्वैतसिद्धिकारः । वृत्तिकाले वृत्तिरूपेण धर्मेण शुद्धत्वासम्भवात् शुद्धस्य वृत्तिविषयत्वं न सम्भवति । अतः शुद्धं स्वप्रकाशमिति वाक्यस्य अशुद्धत्वमस्वप्रकाशत्वव्यापकमित्यर्थः । तथाचा-शुद्धत्वव्यावृत्या शुद्धे स्वप्रकाशता पर्यवस्यति । यथा भेदनिषेधेनाभिन्नत्वम् । न च शुद्धपदेनाभिधया लक्षणया वा शुद्धाप्रकाशे तत्प्रयोगवैय्यर्थ्यमिति वाच्यम् । पर्यवसितार्थमादाय सार्थकत्वोपपत्तेः । एवं च शुद्धं न दृश्यं न मिथ्येत्यस्याप्यशुद्धत्वं दृश्यत्वमिथ्यात्वयोर्व्यापकमित्येतत्परत्वेन शुद्धे दृश्यत्व-मिथ्यात्वयोर् व्यतिरेकः पर्यवस्यतीत्यार्थीथपत् ।
अत्र ब्रह्मानन्दः । वृत्तिकाल इति । शुद्धस्य वृत्तिविषयत्वस्वीकार इत्यादिः । अत इति । शुद्धस्य वृत्तिविषयत्वे स्वप्रकाशत्वविरोधाच्चेति शेषः । अशुद्धत्वमुपहितत्वम् । न तु शुद्धभिन्नत्वम् । शुद्धस्य वृत्तिविषयत्वापत्तेः । तथा चोक्तव्यापकताधीसत्वे च । अशुद्धत्वव्यावृत्या शुद्धे स्वप्रकाशता पर्यवस्यतीति । उपहितत्वशून्यब्रह्मनिष्ठाभावप्रतियोगितारूपेण स्वप्रकाशत्वं न ज्ञायत इत्यर्थः । अस्वप्रकाशत्वज्ञानमनुपहितत्वविशिष्टविशेष्यकं नेति यावत् । तथा च स्वप्रकाशत्वाभावव्यापकाभाव-प्रतियोगित्वरूपायाः स्वप्रकाशत्वव्यतिरेकव्याप्तेर्यदोपहितत्वाभावरूपे शुद्धत्वे ज्ञानमुद्बुद्धसंस्कारो वा तदोक्तशुद्धत्वविशिष्टे स्वप्रकाशत्वस्याभावो न ज्ञायते । वह्न्यभावव्यापकाभावप्रतियोगित्वस्य धूमे निश्चये उद्बुद्धसंस्कारे वा सति धूमवति वह्न्यभावज्ञानाभाववति तादृशव्याप्तिज्ञानाभावप्रयोजकत्वमेव स्वप्रकाशत्वविशिष्टशुद्धसाधकत्वमिति भावः । एतेन शुद्धत्वस्य हेतोर्ब्रह्मण्यज्ञाते कथं तत्र स्वप्रकाशत्वरूपासिद्धिरिति परास्तम् । शुद्धब्रह्मज्ञानं विनापि शुद्धत्वे तादृशव्याप्तिधीसम्भवात् । किञ्चोपहितत्वमस्वप्रकाशत्वव्यापकमित्याकारकनिश्चये उद्बुद्धसंस्कारे वा सत्यपि उपहितत्वाभावविशिष्टे स्वप्रकाशत्वाभावो न ज्ञायते । वह्निर्धूमव्यापक इत्याकारकनिश्चये उद्बुद्धसंस्कारे वा सति वह्न्यभाव-विशिष्टे धूमज्ञानाभाववत उपहितत्वाभावरूपस्य शुद्धत्वस्याज्ञातत्वेऽपि न क्षतिः । न चोप-हितत्वस्यास्वप्रकाशत्वव्यापकत्वज्ञानं शुद्धत्वस्वप्रकाशत्वयोः सहचारज्ञानमपेक्षते । अन्यथोपहितत्वा-भाववद्वृत्यस्वप्रकाशत्वमिति व्यभिचारज्ञानानुच्छेदेनोक्तव्यापकताज्ञानासम्भवादुक्तसहचारस्य च शुद्ध-घटितत्वेन तद्धीः शुद्धविषयिकेति वाच्यम् । शुद्धस्य वृत्यविषयत्वादेव तद्घटितव्यभिचाराकार-वृत्यसम्भवात् । उपहिते शुद्धत्वभ्रमकाले तादृशव्यभिचारज्ञानादुक्तव्यापकत्वज्ञानासम्भवेऽपि तच्छून्य-काले तत्सम्भवात् । उपहितरूपाधिकरणमादायोक्तसहचारभ्रमसम्भवाच्च ।
न चोपहितत्वाभावविशिष्टे स्वप्रकाशत्वाज्ञानं मास्तु । स्वप्रकाशत्वं शुद्धस्वरूपवृत्ति न वेति ज्ञानं तु स्यादेवेति वाच्यम् । शुद्धस्यवृत्त्यविषयत्वादेव तद्वृत्तित्वाभावप्रकारकभ्रमरूप वृत्तिसामग्य्रा अकल्पनाच्च । न च तादृशसामग्य्राकल्पनादेव शुद्धस्वप्रकाशत्वयोर्वैशिष्ट्यधीवारणे उक्तव्यापकता-ज्ञानस्योक्तधीप्रतिबन्धकस्य जनकं शुद्धं स्वप्रकाशमिति वाक्यमित्युक्तिव्यर्थेति वाच्यम् । तादृशोक्तेरय मभिप्रायः । उक्तवैशिष्ट्यधियः कारणकूटाकल्पनादेव नोत्पत्तिर्वाचस्पत्तिमते । शुद्धस्य वृत्यविषयत्वान् मतान्तरे तत्कल्पनेऽपि शुद्धत्वविशिष्टे तादृशधिय उक्तप्रतिबन्धकज्ञानान्नोत्पत्तिरिति । तस्मा-त्च्छुद्धत्वसत्यत्वादिविशिष्टस्य तदुपलक्षितव्यक्तिमात्रस्य वा न स्वप्रकाशत्ववैशिष्ट्यधीसम्भव इति । तद्ग्रन्थमार्तीथपत् ।
तन्न तत्र तावत् पर्यवस्यतीत्यन्तस्येत्यर्थ इत्यन्तार्थापनमसमञ्जसम् । अशुद्धत्वव्यावृत्येत्यस्योप-हितत्वशून्यब्रह्मनिष्ठाभावप्रतियोगितारूपेणेत्यर्थकतायां पर्यवस्यतीत्यस्य न ज्ञायत इत्यर्थकतायां च स्वप्रकाशत्वधर्मिकस्योपहितत्वशून्यब्रह्मनिष्ठाभावप्रतियोगित्वप्रकारकज्ञानकर्मत्वाभावप्रकारकान्वयबोधस्य स्वीकरणीयतापत्या प्रकारतावच्छेदकघटकतयोपहितत्वशून्यब्रह्मभानस्य दुरपह्नत्वात् । स्वप्रकाशता-पदस्यास्वप्रकाशत्वज्ञानतात्पर्यकतां पदान्तरस्यानुपहितत्वविशिष्टविशेष्यकत्वाभावपरतां चोपेत्य याव-दित्यन्तं फलितोत्कीर्तनमपि तादृगेव । ज्ञानविशेषणतापन्नाभावप्रतियोगितावच्छेदकघटकतया तद्भानस्य तादृशत्वात् ।
तथा चेत्यादिना न क्षतिरित्यन्ताशयाविष्करणं तु आकरापरिशीलननिबन्धनमेव । तद्वत्ताग्रहं प्रति तदभाववत्ताग्रहस्य तदभावव्याप्यवत्ताग्रहस्य तद्व्यापकाभाववत्ताग्रहस्य तदभावावच्छेदक-धर्मदर्शनस्य च प्रतिबन्धकत्वेन दर्शितान्यतमानात्मकस्य तत्रापि शेषज्ञानानां मिथ्यात्वनिरुक्तिभङ्गे दर्शितदिशा ज्ञानद्वयविशिष्टज्ञानोभयसाधारणज्ञानविशिष्टज्ञानत्वेन प्रतिबन्धकतां समर्थयमानै-र्गदाधरादिभिर्हेत्वाभासग्रन्थे सिद्धान्तितया निर्धूमत्वव्याप्यं निर्वह्नित्वमिति ग्रहेऽपि निर्वह्निश्चायमिति ग्रहासमवधानदशायां तथा धूमव्यापको वह्निरिति ग्रहेऽपि प्रकृतधर्मिणि निर्वह्नित्वग्रहासमवधानदशायां धूमवत्ताग्रहोत्पादस्योपगततया धूमे वह्निनिरूपितव्यतिरेकव्याप्तिग्रहेऽपि प्रकृतधर्मिणि धूमवत्ताग्रहाभावे वह्न्यभावग्रहस्येष्टतया वह्न्यभावस्याज्ञानवदिति निदर्शनीकरणस्य वह्निर्धूमव्यापक इति ग्रहेऽपि प्रकृतधर्मिणि वह्न्यभावग्रहाभावे धूमवत्ताज्ञानस्येष्टतया धूमज्ञानाभाववदिति निदर्शनीकारणस्य चाकारविरुद्धतया पुरोवर्तिनि वह्निनिरूपितव्यतिरेकव्याप्त्यवच्छिन्नधूमस्य धूमव्यापकवह्न्यभावस्य च ग्रहदशायां तादृशदृष्टान्तयोः सङ्गमने चास्वप्रकाशत्वव्यापकाभावप्रतियोगित्वरूपस्वप्रकाशत्व-निरूपितव्यतिरेकव्याप्त्यवच्छिन्नोपहितत्वाभावरूपशुद्धत्वस्यास्वप्रकाशत्वव्यापकोपहितत्वाभावस्य चानुपहिते धर्मिणि ग्रहदशायामेव विरोधित्वस्य प्रकृतेऽपि सङ्गमनीयतया सिद्धान्तिमनोरथद्रुमस्या-नैकान्त्यापादनरूपस्य फलितत्वात् । शुद्धस्येत्यादिकासम्भवादित्यन्ता नचेत्याद्याशङ्कासमाहितिरपि न साधीयसी । व्याप्तिग्रहप्रतिबन्धकव्यभिचारज्ञानोच्छेदकव्यतिरेकसहचारज्ञानावश्यम्भावेनानैकान्त्यस्या-पादकं प्रति वृत्यविषयत्वादिति समाहितेः कथकसम्प्रदायानधिगतिनिबन्धकत्वात् ।
एतेन अकल्पनादित्यन्तमपि परास्तम् । वाचस्पत्युक्तिरपि ‘‘चित्रिणी प्रत्यब्दमष्टौ सुतान् प्रसूते’’ इत्युद्दिश्यैव । उक्तव्यापकताज्ञानमात्रस्योक्तधीप्रतिबन्धकतायाः प्रत्याख्यातत्वादेव मतान्तर-मपि निर्दलमेवेत्यलमवश्यप्रत्याख्येयप्रक्रियाभियोगेन । हेतुशरीरघटकवृत्तिपदेनाविद्यावृत्तिविवक्षायां प्राग्जगदलीकतासिद्धेर्भ्रमरूपाविद्यावृत्तिविषयतासम्भवेनान्तःकरणवृत्तिविवक्षायां च साक्षिवेद्यान्तःकरण-धर्मसुखादौ शुक्तिरूप्यादौ च भागासिद्धिदृष्टान्तासिध्योः प्रसङ्गेनापि वृत्तिव्याप्यत्वस्य हेतुता निरसनीया । शुक्तिरूप्यादिकं मिथ्येत्याकारकमनोवृत्तिविषयत्वमादाय शुक्तिरूप्यसुखादौ साधनस्य सत्वान्न क्षतिरिति शङ्का तु शुद्धं ब्रह्म वृत्तिव्याप्यं नेत्याकारकवृत्तिविषयत्वस्य शुद्धेऽपि सम्भवेना-नैकान्त्यापत्या सुदूरं निरस्तैव ।
भङ्ग्यन्तरेणापि शुद्धे वृत्तिविषयतामुपपाद्यानैकान्त्यतावदस्थ्यमभिधत्ते विशिष्ट इति । दृश्यत्वेन वृत्तिविषयत्वेन । विशिष्टस्य विशेष्याभिन्नत्वादिति भावः । विशिष्टस्य विशेष्यविशेषण-सम्बन्धेभ्योऽतिरिक्ततामतमाश्रित्य शङ्कते– न चेति । भागासिद्धेः । विशेषणस्य विशिष्टभिन्नता-मताश्रयणादिति भावः । घट इत्यादि । तथा च भागासिद्धिरिति भावः । अज्ञानेत्यादि । विशिष्ट-ज्ञानस्य विशेष्यगोचराज्ञाननिवर्तकतावच्छेदकीभूतविशेष्यावगाहित्वघटितधर्मानाक्रान्तत्वादिति भावः । विशिष्टज्ञानेतरकालीनविशेष्यावगाहिज्ञानान्तरेणैव तद्गोचराज्ञानं न निवर्तिष्यत इति शङ्का तादृशा-ज्ञानान्तरानन्ततत्प्रागभावतत्प्रध्वंसादिकल्पनाप्रसङ्गेनाप्रामाणिकत्वादेव निरसनीयेत्याशयेनाह दण्डीति । विषयताया द्वित्वादिवद्व्यासज्यवृत्तितया तस्याश्च स्वरूपसम्बन्धेन विशेष्यसाधारण्येऽपि पर्याप्ति-सम्बन्धस्य प्रकृतहेतुताघटकसंसर्गत्वोपगमेन विशेषणविशेष्योभयपर्याप्ततया केवलविशेष्यपर्याप्तता-विरहेण न क्षतिरित्याशङ्कातुल्यदिशा विशेषणेऽपि तत्पर्याप्तिविरहेण भागसिध्यादिप्रसङ्गेन समाधेयेत्त्याशयेनाह– एतेनेति । विशेष्ये पर्याप्तमिति पूरणीयम् ।
अत्राद्वैतसिद्धिकारः । विशेष्यतापन्नस्य विषयत्वेऽपि क्षत्यभावात् । तस्य मिथ्यात्वाभ्युपगमात् । अत एवोपहितविषयत्वेऽप्युपधेयस्य विषयत्वमक्षतमेवेत्यपास्तम् । उपहितात्मना तस्यापि मिथ्या-त्वाभ्युपगमात् । ज्ञानान्तरविषयत्वेन विशेषणे भागासिध्यभावाच्चेति प्रातिष्टिपत् । अत्र ब्रह्मानन्द उपहितात्मनेति । न च विशिष्टज्ञाने शुद्धस्याभाने तदुत्तरं तत्र संशयादिकं स्यादिति वाच्यम् । विशिष्टविषयकनिश्चयस्यापि केवलसंशयप्रतिबन्धकत्वस्वीकारादिति तु तत्तात्पर्र्यं पर्याप्तितदुभयमाकर-विरुद्धम् । अनभ्यासदशापन्नेत्यादाविव विशेष्यतापन्नेत्यस्यापि विशेष्यताविशेषितेत्यर्थकताया धनवान् सुखीत्यादौ धनित्वस्येव सर्वज्ञत्वादिविशेषितं जगत्कर्त्रितिशाब्दधीरूपवृत्तिविशेष्यतावच्छेदक-तया विशेष्यताया भावाभावसाधारण्येनाभावधीप्रतियोगिविशेषणतापन्ने प्रतियोगितावच्छेदकता-मवगाहते न तदनापन्न इत्यादाविव वस्तुतस्तदाश्रयार्थकतायामुक्तक्षतेर्दुर्वारत्वात् । विशिष्ट-विषयकनिश्चयस्य विशेष्यगोचरसंशयादिनिवर्तकतावच्छेदकीभूतविशेष्यावगाहित्वघटितधर्मानाक्रान्त-त्वेऽपि तत्प्रतिबन्धकतायां घटादिनिश्चयस्यापि पटादिसंशयप्रतिबन्धकतायाः स्वीकरणीयतापत्या वैय्यात्यमात्रनिबन्धनोक्तेः प्रेक्षावदनादरणीयत्वात् । अत एव अनुपहितस्यापि दृश्यतायाः समर्थित-त्वादेव । साकल्येन स्वीयनिखिलगुणक्रियाद्युपरागेण । अदृश्यत्वपरा । तदुपरक्तदर्शनविषयत्वा-भावतात्पर्यिका । अन्यथा ज्ञानसामान्यनिरूपितविषयत्वानङ्गीकारे । यच्छब्दाद्ययोगाद् बुद्धिस्थ-परामर्शकानां यत्तदादिसर्वनाम्नामनुपहितान्वयबोधोद्देश्यकोच्चारणायोगात् ।
एतेन उपहितस्य वृत्तिविषयतायामुपधेयस्यापि तस्या दुर्निवारतासमर्थनेन । तद्विषयत्वाच् चरमवृत्तिविषयत्वात् । स्वविषयान्तर्भावे स्वनिरूपितविषयतापन्नांशे विशेषणतया भानोपगमे । स्वप्रकाशत्वस्य स्वविषयकप्रकाशतादात्म्यस्य । अप्रमात्वस्य मिथ्याभूतस्वविषयकत्वात् । प्रतिभास्य-तया प्रतिभासविषयतया । बहिर्भावे चरमवृत्तेरित्यनुषज्यते । स्वनिरूपितविषयताविनिर्मुक्तत्वे । सत्यत्वेनेत्यादि । तथा चानैकान्त्यतादवस्थ्यमिति भावः ।
अत्राद्वैतसिद्धिकारः । ननु वेदान्तजन्याखण्डवृत्तेरुपहितविषयत्वे तदानीम् उपाध्यान्तराभावेन तस्या एवोपधायकत्वात् स्वविषयकत्वापत्तिः । न चेष्टापत्तिः । शाब्दबोधे शब्दानुपस्थिताभाननियमेन वृत्तेः शब्दानुपस्थिताया भानानुपपत्तेः । यथा कथञ्चिद् उपपत्तौ वा न ततो ज्ञानतत्कार्ययोर्निवृत्तिः स्यात् । अज्ञानतत्कार्यविषयकज्ञानस्यैव तदुभयनिवर्तकत्वात् । अन्यथाऽहमज्ञ अयं घट इत्यादि-ज्ञानानामप्युपहितविषयकत्वेनाज्ञाननिवर्तकत्वप्रसङ्ग इति चेन्नेत्याशङ्क्य शाब्दवृत्तावभासमानाया एवोपधायकत्वाभ्युपगमात् । तदुक्तं कल्पतरुकृद्भिः । शुद्धं ब्रह्मेति विषयीकुर्वाणा वृत्तिः स्वस्वेतरोपाधिनिवृत्तिरुदयते । स्वस्याप्युपाधित्वाविशेषात् । एवं च नानुपहितस्य विषयतावृत्युप-रागोऽत्र सत्तयोपयुज्यते । न भास्यतया विषयकोटिप्रवेशेनेति । अयमभिप्रायः । यथा अज्ञानोप-हितस्य साक्षित्वेऽपि नाज्ञानं साक्षिकोटौ प्रविशति । जडत्वात् । किन्तु साक्ष्यकोटावेव । एवं वृत्युपहितस्य विषयत्वेऽपि न वृत्तिर्विषयकोटौ प्रविशति । स्वस्याः स्वविषयत्वानुपपत्तेः । स्वयम-विषयमपि चैतन्यस्य विषयतां सम्पादयतीति न काप्यनुपपत्तिः । एतेन ज्ञानाज्ञानयोरेकविषयत्वं व्याख्यातम् । अज्ञानमपि हि स्वोपधानदशायामेव ब्रह्म विषयीकरोति । स्वानुपधानदशायां स्वस्यैवाभावात् । तथा च ज्ञानाज्ञानयोरप्युपाध्यविषयत्वे सत्युपहितविषयत्वात् समानविषयत्व-मस्त्येव । एतेनोपाधिविषयज्ञानानामज्ञानानिवर्तकत्वं व्याख्यातम् । अज्ञानस्योपाध्यविषयत्वेन समानविषयत्वेनैव तयोर्निवर्त्यनिवर्तकभावादिति समाहितत्वात् ।
ब्रह्मानन्दस्तु– स्वविषयत्वानुपपत्तेरिति प्रतीकमत्यन्ताभेदे सम्बन्धाभावादिति भाव इति, चैतन्यस्य विषयतां सम्पादयतीति च प्रतीकं विषयचैतन्यमविषयाद्व्यावर्तयति । तथा च ब्रह्मान्विते स्वविषयत्वेनान्वितत्वे सति विद्यमानत्वे सति स्वविषयव्यावर्तकत्वाद् वृत्तेः स्वविषयत्वं प्रत्युपाधित्वं, यदनन्वितं विद्यमानं यद्विशिष्टस्येतरस्माद् व्यावर्तकं यद्भवति तत् तत्रोपाधिर्यथा घटकारणत्वादौ दण्डत्वादिकम् । नीलघटो ज्ञात इत्यादिव्यवहारे तु नीलत्वादिकं विशेषणमेव नोपाधिरिति भाव इति विवृतवान् । उभावप्याकरापरिशीलिनौ । रक्तो दण्ड इति प्रतीतेर्द्रव्यत्वोपहितविषयकत्वापत्तिवारणाय तद्वृत्तिप्रकारतानिरूपितविशेष्यताशालित्वमेव तदुपहितविषयकत्वमिति गदाधरप्रभृतिभिः सिद्धान्ति-ततया चरमवृत्तेस्तद्विषयत्वानङ्गीकारे तदुपहितस्य तद्विषयत्वोपगतेर्वैय्यात्यमात्रनियन्त्रितत्वात् । न हि कल्पतरुकारोऽपि दर्शितनिखिलतान्त्रिकोपगतविवक्षामन्तरेणोक्तापत्तिनिरसनस्यानीशानः स्वसमय-परिपालनाभिनिवेशजल्पनमात्रेणान्तर्वाणिसमज्जानुमतनिबन्धकारः स्यात् । अयमभिप्राय इत्यादिना तदीयाशयोत्कीर्तनमपि समञ्जसेतरमेव । उभयसम्प्रतिपन्नं हि निदर्शनीकरणीयम् । न हि साक्षि-पदार्थतावच्छेदककोटावज्ञानप्रवेशमिच्छन्ति प्रतिवादितापन्नास्तत्ववादिनः । तथा सति साक्ष्यज्ञान-सिध्योरितरेतराश्रयणापत्तेः । ज्ञानं गुण इति वाक्यजन्यान्वयधीज्ञानसामान्यान्तर्गत्वे स्वस्मिन् अपि गुणतादात्म्यमवगाहमाना दृष्टचरीति अत्यन्ताभेदे सम्बन्धाभावादिति भावोपवर्णनमलौकिकमेव ।
नीलघटो ज्ञात इति विशिष्टानुयोगिकवैशिष्ट्यावगाहिनी धीर्यथा विशिष्टानुयोगिकवैशिष्ट्यबोधे विशेष्यतावच्छेदकधर्मिपारतन्त्र्येण विशेषणं स्वावच्छेदकतासम्बन्धेन विशेष्यतावच्छेदकं वा विशेषणे तत्पारतन्त्र्येण स्वावच्छिन्नत्वसम्बन्धेन भासत इति गदाधरोक्तदिशा विशेषणीभूतज्ञातत्वनीलत्वयो-र्वैशिष्ट्यमवगाहते तद्वद् दण्डो घटकारणमिति धीरप्युक्तदिशा दण्डत्वकारणत्वयोर्वैशिष्ट्यमवच्छेद्या-वच्छेदकभावमवगाहत एवेति अनन्वितत्वघटितदर्शितोपाधित्वमसम्भवदुक्तिकमेव । एकत्वाद्युपहितं स्वविषय इति बोधेनापि वृत्यंशे दर्शितदिशा स्वविषयत्वान्वितत्वमवगाढमिति विषयतावच्छेदकत्वं विषयतानिरूपितविषयतारूपमेवेति वृत्तेरप्युपाधित्वं दुःसम्पादमेव । शेषांशा या कृतिरन्यत्रैव विवृतेति नेह प्रपञ्चनीया ।
स्वरूपेणेत्यादि । किञ्चिदवृत्तिप्रकारत्वानिरूपकवृत्तिविषयत्वमित्यर्थः । ब्रह्मेत्यादि । सप्रकारकवृत्तिविषयीभूतमित्यर्थः । निर्विकल्पिकेत्यादि । तत्त्ववादिनः प्रतिवादितायां तैर्निर्विकल्प-कस्यानुपगततया तन्मतदिशा पक्षतावच्छेदकावच्छेदेन, नैय्यायिकस्य प्रतिवादितायां च तत्सामानाधि-करण्येन नित्यातीन्द्रिये नित्यमतीन्द्रिये इन्द्रियजन्यज्ञानविषयत्वयोग्यताविनिर्मुक्ते हेत्वसिद्धिरतीन्द्रियार्थ-धर्मादिवृत्तिसाध्यतावच्छेदकावच्छिन्ननिरूपितव्याप्त्यवच्छिन्नप्रकारताशालिपरामर्शादिघटितसामग्य्रधीन- तद्गोचरानुमितेस्तस्थलीयसाध्यतावच्छेदकप्रकारतानिरूपकतया निष्प्रकारकत्वाभावादिति भावः ।
ब्रह्मानन्दस्तु– घटादेः केवलरूपस्य ज्ञानाविषयत्वेऽलीकत्वापातादित्यापपाद । तदतीव मन्दम् । स्वतःसिद्धेर्निरसिष्यमाणत्वेन तुल्यदिशा ब्रह्मणोऽपि तथात्वापत्तेरनर्गलत्वात् । कल्पितविशिष्टपरत्वे । अलीकोपहितप्रत्यायकत्वे तत्त्वावेदकत्वायोगात् । अनलीकार्थप्रमापकत्वायोगात् । तरतीत्यादि करण-साधनप्रत्ययान्तशोकपदोपात्ताज्ञानकर्मकतरणरूपतन्निवृत्तिहेतुत्वरूपसमभिव्याहृतपदार्थान्तरान्वयानु-पपत्तिप्रसङ्गेनात्मकर्मकवेदनक्रियाया उपहितात्मकर्मकभ्रमरूपत्वयोगेनानुपहिततद्गोचरप्रमापरत्व-स्यैवैष्टव्यतया वेदान्तोत्पादिततादृशाधिगतिविषयतामादायानैकान्त्यस्य दुर्वारतेत्याशयः ।