अस्तु वा मिथ्यात्वं यत्किञ्चित्, तथापि मिथ्यात्वमबाध्यम्? बाध्यं वा? आद्ये अद्वैतहानिः
१२. अथ सामान्यतो मिथ्यात्वभङ्गः
न्यायामृतम्
अस्तु वा मिथ्यात्वं यत्किञ्चित्, तथापि मिथ्यात्वमबाध्यम्? बाध्यं वा? आद्ये अद्वैतहानिः । न हि प्रपञ्चोपाधिकं भ्रमकालानिश्चितं तन्मिथ्यात्वं निरुपाधिक- भ्रमकालनिश्चिताधिष्ठानब्रह्ममात्रम् । तस्य मां प्रत्यपि सिद्धत्वात् । दृश्यत्वादे-र्मिथ्यात्व एव व्यभिचारश्च । मिथ्यात्वस्य चादृश्यत्वेऽनुमानवैयर्थ्यम् । तस्य साध्य-ज्ञप्त्यर्थत्वात् । अन्त्ये सिद्धसाधनम् । अद्वैतश्रुतेरतत्त्वावेदकत्वं च स्यात् ।
जगच्च सत्यं स्याद् आत्मवत् । न चात्मत्वमुपाधिः, सत्यत्वं विना तद्विरुद्धस्य मिथ्यात्वस्य मिथ्यात्वे व्याघातवदज्ञातृत्वादिरूपानात्मत्वस्यासत्यत्वं विना व्याघाता भावेनोपाधेरप्रयोजकत्वात् । न च मिथ्यात्वं न ब्रह्ममात्रं किन्तु द्वितीयाभावोपलक्षितं ब्रह्मेति वाच्यम् । उपलक्षणे द्वितीयाभाव एव बाध्याबाध्यविकल्पात् । द्वितीया-भावाधिकरणतयाऽविद्याधिष्ठानतया तत्साक्षितया च भासमानचिदन्यस्योपलक्ष्यस्या-भावेन द्वितीयाभावस्योपलक्षणत्वायोगाच्च ।
ननु रूप्यधर्मो मिथ्यात्वमपि मिथ्यैव । न च तथात्वे रूप्यस्य सत्यत्वं सत्यं स्यादिति वाच्यम् । धर्मिणो मिथ्यात्वे विरुद्धयोरपि धर्मयोर्मिथ्यात्वात् । परस्पर-विरुद्धयोरेकस्याभावेऽन्यस्य सत्त्वनियमस्तु यत्र धर्मी कल्पलता, वरङ्गिणीकाराणां मते (सन्निति) ‘सन्’ इति तत्रैव । न हि वन्ध्यासुतस्य श्यामत्वाद्यभावे गौरत्वं सत्यम् । न वा स्वप्ने ज्ञातस्य गजस्य मिथ्यात्वे तत्रैव ज्ञातस्तदभावस्सत्य इति चेन्न, प्रतिपन्नोपाधौ त्रैकालिकनिषेधप्रतियोगित्वं हि मिथ्यात्वम् । न च प्रतियोगित्वं धर्मान्तरवद्धर्मि सत्तासापेक्षमित्यनिर्वाच्यत्वभङ्गे वक्ष्यते । धर्म्यसत्त्वे धर्मासत्त्वं तु धर्मिसत्तसापेक्षधर्मविषयम् । मिथ्यात्वं तु तत्प्रतिकूलम्; अन्यथा सिद्धसाधनात् ।
अद्वैतसिद्धिः
ननु– उक्तमिथ्यात्वस्य मिथ्यात्वे प्रपञ्चसत्यत्वापातः, एकस्मिन् धर्मिणि प्रसक्तयोर् विरुद्धधर्म-योरेकमिथ्यात्वे अपरसत्यत्वनियमात्, मिथ्यात्वसत्यत्वे च तद्वदेव प्रपञ्चसत्यत्वापत्तेः । उभयथाप्य-द्वैतव्याघात इति चेन्न; मिथ्यात्वमिथ्यात्वेऽपि प्रपञ्चसत्यत्वानुपपत्तेः । तत्र हि विरुद्धयोर्धर्म-योरेकमिथ्यात्वे अपरसत्यत्वम्, यत्र मिथ्यात्वावच्छेदकमुभयवृत्ति न भवेत्; यथा परस्परविरहरूपयो रजतत्वतदभावयोः शुक्तौ, यथा वा परस्परविरहव्यापकयो रजतभिन्नत्वरजतत्वयोस् तत्रैव; तत्र निषेध्यतावच्छेदकभेदनियमात् । प्रकृते तु निषेध्यतावच्छेदकमेकमेव दृश्यत्वादि । यथा गोत्वाश्वयोरेकस्मिन् गजे निषेधे गजत्वात्यन्ताभावव्याप्यत्वं निषेध्यतावच्छेदकमुभयोस्तुल्यमिति नैकतरनिषेधे अन्यतरसत्त्वम्, तद्वत् । यथा च सत्यत्वमिथ्यात्वयोर्न परस्परविरहरूपत्वम्, न वा परस्परविरहव्यापकत्वम्, तथोपपादितमधस्तात् । परस्परविरहरूपत्वेऽपि विषमसत्ताकयोरविरोधात्, व्यावहारिकमिथ्यात्वेन व्यावहारिकसत्यत्वापहारेऽपि काल्पनिकसत्यत्वानपहारात्, तार्किकमत-सिद्धसंयोगतदभाववत् सत्यत्वमिथ्यात्वयोः समुच्चयाभ्युपगमाच्च । एकस्य साधकेन अपरस्य बाध्यत्वं विषमसत्ताकत्वे प्रयोजकम्, यथा शुक्तिरूप्यतदभावयोः । एकबाधकबाध्यत्वं च समसत्ताकत्वे प्रयोजकम्, यथा शुक्तिरूप्यशुक्तिभिन्नत्वयोः । अस्ति च प्रपञ्चतन्मिथ्यात्वयोरेकब्रह्मज्ञानबाध्यत्वम् । अतः समसत्ताकत्वान्मिथ्यात्वबाधकेन प्रपञ्चस्यापि बाधान्नाद्वैतक्षतिरिति कृतमधिकेन ।
न्यायामृततरङ्गिणी
ननु मिथ्यात्वस्याबाध्यत्वेऽपि नाद्वैतहानिः । तस्य ब्रह्मस्वरूपत्वाद् इत्यत आह– नहीति ॥ भ्रमकालानिश्चितमिति ॥ अन्यथा रूप्यभ्रमाद् रूप्यार्थिप्रवृत्तिर्न स्यादित्यर्थः ॥ अधिष्ठानेति ॥ एतच्च भ्रमकाले ब्रह्मणो निश्चयोऽस्तीत्यस्योपपादकम् ॥ तस्येति ॥ ब्रह्मस्वरूपमात्रस्य प्रपञ्चमिथ्यात्वस्येत्यर्थः ॥ दृश्यत्वादेरिति ॥ ब्रह्मस्वरूपेऽबाध्ये मिथ्यात्वे दृश्यत्वस्य सत्त्वादित्यर्थः । ननु साध्याभाववत्यपि मिथ्यात्वे दृश्यत्वस्य हेतोरभावान्न व्यभिचार इत्यत आह – मिथ्यात्वस्य चेति ॥ मिथ्यात्वानुमाने यदि मिथ्यात्वं न विषयः, तदा मिथ्यात्वानुमानवैयर्थ्यमित्यर्थः ॥ तस्येति ॥ मिथ्यात्वानुमानस्य मां प्रति मिथ्यात्वज्ञप्त्यर्थत्वेन त्वया प्रयुक्तत्वादित्यर्थः ॥ अन्त्य इति ॥ मिथ्यात्वस्य बाध्यत्व इत्यर्थः ॥ सिद्धसाधन-मिति ॥ अविद्यमानानतिरिक्तबाध्यत्वरूपमिथ्यात्वस्य प्रपञ्चे ममानिष्टत्वाभावादित्यर्थः ॥ अद्वैतश्रुतेरिति ॥ बाध्यत्वरूपमिथ्यात्वस्यातत्त्वस्यावेदकत्वादित्यर्थः ॥ जगदिति ॥ जगत् सत्यम् मिथ्याभूतमिथ्यात्वकत्वाद् आत्मवदित्यनुमानादित्यर्थः ॥
नचेति ॥ आत्मनि सत्ये साध्यव्यापकम्, पक्ष एव साधनाव्यापकमात्मत्वमुपाधिर्न स्यादित्यर्थः ॥ सत्यत्वं विनेति ॥ प्रपञ्चसत्यत्वविषयके स्थापनानुमाने मिथ्याभूतमिथ्यात्व-कत्वस्य हेतोः सत्यत्वरूपसाध्येन व्याप्तिग्राहको व्याघातरूपस्तर्कोऽस्ति । आत्मत्वस्योपाधे-र्व्यतिरेकेणानात्मत्वेन क्रियमाणे स्थापनानुमानीयसाध्यस्य सत्यत्वस्य व्यतिरेकानुमानेऽनुकूल-तर्काद्यभावेनोपाधेरप्रयोजकत्वादित्यर्थः ॥ नचेति ॥ द्वितीयाभावोपलक्षितं ब्रह्मस्वरूपं च न निरुपाधिकं न वा भ्रमकाले निश्चितम् इति न पूर्वोक्तदोष इति भावः ॥ उपलक्षण इति ॥ उपलक्षणद्वितीयाभावस्य बाध्यत्वे तद्रूपस्य मिथ्यात्वस्य बाध्यत्वात् सिद्धसाधनादि । अबाध्यत्वे त्वद्वैतहानिरिति दूषणसहिताद् विकल्पान् न वाच्यमित्यनेनान्वयः ॥
द्वितीयेति ॥ अप्रसिद्धोपलक्ष्यस्य प्रसिद्धमुपलक्षणं भवति । द्वितीयाभावरूपोपलक्षणं प्रत्युपलक्ष्यस्य ब्रह्मणो नित्यसिद्धत्वेन न तत् प्रति तस्योपलक्षणत्वमित्यर्थः । ज्ञातस्यैवोप-लक्षणत्वेन द्वितीयाभावस्याभावरूपोपलक्षणस्य ज्ञानार्थं तदधिकरणभूतशुद्धब्रह्मज्ञानमावश्यक-मित्यभिसन्धायोक्तम् – द्वितीयाभावाधिकरणतयेति ॥ तथाचोपलक्षणज्ञानार्थं प्रागेव ज्ञातं शुद्धं ब्रह्म प्रति न द्वितीयाभावस्योपलक्षणत्वमिति भावः । सर्वदा प्रतीयमानत्वेनाङ्गीकृता-विद्यायाः प्रतीतिस्तदधिकरणशुद्धब्रह्मस्फुरणं विना न सम्भवति, इति तदर्थमपि शुद्धब्रह्मज्ञान-मावश्यकमित्यभिप्रायेणोक्तम् – अविद्येत्यादि ॥ ननु काकेन गृहगतसंस्थानविशेष इव प्रकाशमानब्रह्मगतधर्मान्तरमेव द्वितीयाभावेनोपलक्ष्यतामित्यत उक्तम् – अन्यस्येत्यादि ॥ उपलक्षणकाले द्वितीयमात्राभावादिति भावः ।
जगच्च सत्यं स्यादात्मवदित्युक्तानुमाने व्यभिचारं शङ्कते – नन्विति ॥ रूप्यगत-मिथ्यात्वस्य मिथ्यात्वेन मिथ्याभूतमिथ्यात्वकत्वं हेतुः रूप्ये वर्तते, साध्यं च सत्यत्वं नास्ति, इति व्यभिचार इति भावः । सिद्धान्ती व्यभिचारपरिहारं शङ्कते – नच तथात्व इति ॥ यदि रूप्ये मिथ्यात्वं मिथ्या, तर्हि मिथ्यात्वविरुद्धं सत्यत्वं सत्यं स्यात् । यथा गवि गोत्वाभावस्य मिथ्यात्वे गोत्वं तद्विरुद्धं सत्यम् । तथाच प्रयोगः – रूप्यम् मिथ्याभूतमिथ्यात्वाधिकरणं न भवति, सत्यभूततद्विरुद्धसत्यत्वानधिकरणत्वात् । यत् सत्यभूततद्विरुद्धाधिकरणं न भवति, तन् मिथ्याभूततदधिकरणं न भवति, यथा सत्यभूतगोत्वविरुद्धगोत्वाभावानधिकरणं गौर्गोत्वाभाव-विरुद्धमिथ्याभूतगोत्वाधिकरणं न भवति । तथाच रूप्यमिथ्यात्वस्य सत्यत्वेन रूप्ये हेतो-रेवागमनान् न व्यभिचार इति भावः । पूर्वपक्षी व्यभिचारपरिहारं दूषयति – धर्मिण इति ॥ सत्यभूतसत्यत्वानधिकरणमपि रूप्यं सत्यभूतमिथ्यात्वस्याधिकरणं न भवति । किन्तु मिथ्यात्वस्यापि मिथ्याभूतस्यैवाधिकरणम् । धर्मिणो रूप्यस्य मिथ्यात्वात् । तथाच प्रयोगः– रूप्यगतत्वेनोच्यमाने सत्यत्वमिथ्यात्वे मिथ्या, मिथ्यात्वोपेतधर्मिकत्वात् । स्वप्नप्रतीतगजरूप-वदिति । तथाच जगच्च सत्यं स्यादित्युक्तानुमानस्य रूप्ये व्यभिचारस्तदवस्थ इति भावः ।
ननु रूप्यमिथ्यात्वे मिथ्यात्वसाधकस्य मिथ्यात्वोपेतधर्मित्वस्य हेतोः रूप्यमिथ्यात्वे मिथ्यात्वाभावसाधकेन सामान्यव्याप्तिमूलकेनानुमानेन सत्प्रतिपक्षितस्य न रूप्यमिथ्यात्वे मिथ्यात्वरूपसाध्यज्ञानजनकत्वम्, अतो रूप्ये मिथ्याभूतमिथ्यात्वकत्वस्य हेतोरज्ञानाद् नोक्तानु-मानस्य रूप्ये व्यभिचारः, इत्यतः सिद्धान्त्युक्तसामान्यव्याप्तावुपाधिमाह– परस्परेत्यादिना ॥ धर्मी सन्निति ॥ तथाच तत्रामिथ्यात्वमुपाधिः । अतस्तस्य हीनबलत्वात् तेन नास्य सत्प्रतिपक्षितत्वम् । अतो रूप्ये हेतुज्ञानसम्भवाद् व्यभिचारस्तदवस्थ इति भावः । उक्तसामान्य-व्याप्तौ व्यभिचारमप्याह – नहीति ॥ नहि– सत्यभूतस्य गौरत्वविरुद्धश्यामत्वस्यानधिकरणे वन्ध्यासुते तद्विरुद्धं गौरत्वं मिथ्याभूतं नास्ति, किन्तु सत्यभूतं गौरत्वमस्तीति युज्यते । किन्तु गौरत्वं तद्विरुद्धं श्यामत्वं चेत्युभयमपि वन्ध्यासुते मिथ्यैव; धर्मिण एव मिथ्यात्वात् । तथाचोक्तव्याप्तौ व्यभिचार इति भावः ।
ननु उक्तसामान्यव्याप्तौ विरुद्धत्वं न सहानवस्थितत्वादिसाधारणम्, किन्तु परस्परविरह-रूपत्वम् । नच गौरत्वश्यामत्वे परस्परविरहरूपे । अतो नोक्तो व्यभिचार इत्यत आह– नवा स्वप्न इति ॥ स्वप्ने स्वप्नावस्थायाम् । क्वचिदधिकरण इति शेषः ॥ तत्रैवेति ॥ तदधिरकण इत्यर्थः । स्वप्नावस्थायां दृष्टे क्वचिदधिकरणे सत्यभूतगजाभावविरहरूपस्य गजस्यानधिकरणत्वं वर्तते, गजविरहरूपस्य गजाभावस्य मिथ्याभूतस्य नाधिकरणत्वम्, किन्तु सत्यभूतस्यैव गजाभावस्याधिकरणत्वमिति नास्ति । किन्तु गजो गजाभावश्चेत्युभयमपि मिथ्यैव इति परस्पर-विरहरूपविरुद्धत्वगर्भाया अप्युक्तव्याप्तेर्व्यभिचार इति भावः ।
रूप्यस्य धर्मिणो मिथ्यात्वात् तत्र सत्यत्वमिथ्यात्वे परस्परविरहरूपे अपि मिथ्यैवेत्युक्तं दूषयति– प्रतिपन्नेति ॥ धर्मिसत्त्वानपेक्षधर्मस्य सत्यत्वं धर्मिमिथ्यात्वेऽपि युक्तम् । तथाच त्वदुक्तहेतोरप्रयोजकत्वादस्मदुक्तहेतोर्न रूप्ये व्यभिचार इति भावः । ननु प्रतियोगित्वमपि धर्मो विना धर्मिणं नावतिष्ठते, वन्ध्यासुतादावपि नात्यन्ताभावप्रतियोगित्वम्, किन्त्वत्यन्ताभावे एव वन्ध्यासुतप्रतियोगिकत्वमित्यत आह– अनिर्वाच्यत्वभङ्ग इति ॥ अत्यन्ताभावस्य वन्ध्यासुत-प्रतियोगिकत्वे वन्ध्यासुतस्यापि तत्प्रतियोगित्वमवर्जनीयमेवेत्यादि वक्ष्यत इत्यर्थः । परोक्ते मिथ्यात्वोपतधर्मिकत्वे हेतौ धर्म्यसत्त्वप्रयुक्तसत्त्वाभाववत्त्वमुपाधिमाह– धर्म्यसत्त्व इत्यादिना ॥ असत्त्वे सद्विलक्षणत्वे । असत्त्वं सद्विलक्षणत्वम् ॥
धर्मिसत्त्वेति ॥ धर्म्यसत्त्वप्रयुक्तसत्त्वाभाववत्त्वमित्यर्थः । अयं च साधनावच्छिन्न-साध्यव्यापको बोध्यः । तेन ब्रह्मण्यारोपितमिथ्यात्वादौ न साध्याव्याप्तिः । नञ्द्वयान्तर्भावाच्च वन्ध्यासुतश्यामत्वादौ च न साध्याव्याप्तिशङ्केति ध्येयम् । उक्तोपाधेः पक्षाद् व्यावृत्तिमाह– मिथ्यात्वमिति ॥ मिथ्यात्वं तु धर्मिसत्त्वस्य विरहरूपम् । अतो धर्मिसत्यत्वं नापेक्षते, प्रत्युत धर्मिसत्यत्वं प्रतिक्षिपति इति त्वत्प्रतिकूलमित्यर्थः ॥ अन्यथेति ॥ सत्त्वविरहरूपातिरिक्तं ब्रह्मभिन्नत्वादिकं पारिभाषिकं मिथ्यात्वं सत्यत्वपक्षेऽप्यविरुद्धमित्यर्थः ।
अत्र वदन्ति – मिथ्यात्वमिथ्यात्वेऽपि प्रपञ्चसत्यत्वानुपपत्तिः । तत्र हि परस्परविरुद्ध-योरेकमिथ्यात्वेऽपरसत्यत्वम्, यत्र मिथ्यात्वावच्छेदकमुभयवृत्ति न भवेत्; यथा परस्परविरह-रूपयोः रजत–तदत्यन्ताभावयोः शुक्तौ । यथा वा परस्परविरहव्यापकयोः रजतभिन्नत्व–रजतत्वयोस्तत्रैव । तत्र निषेध्यतावच्छेदकभेदनियमात् । प्रकृते तु निषेध्यतावच्छेदकमेकमेव दृश्यत्वादि । यथा गोत्वाश्वत्वयोरेकस्मिन् गजे निषेधे गजत्वात्यन्ताभावव्याप्यत्वं निषेध्यता-वच्छेदकमुभयोस्तुल्यम्, इति नैकतरनिषेधेऽन्यतरसत्त्वम्, तद्वत् । यथाच सत्यत्व-मिथ्यात्वयोर्न परस्परविरहरूपत्वम्, न वा परस्परविरहव्यापकत्वम्, तथोपपादितमधस्तात् । पररस्परविरह-रूपत्वेऽपि विषमसत्ताकयोरविरोधात्, व्यावहारिकमिथ्यात्वेन व्यावहारिकसत्यत्वापहारेऽपि काल्पनिकसत्यत्वानपहारात् । तार्किकमतसिद्धसंयोग–तदभाववत् सत्यत्व–मिथ्यात्वयोः समुच्चयाभ्युपगमाच्च । एकसाधकेनापरस्य बाध्यत्वं विषमसत्ताकत्वे प्रयोजकम्; यथा शुक्तिरूप्य–तदभावयोः । अस्ति च प्रपञ्च–तन्मिथ्यात्वयोरेकब्रह्मज्ञानबाध्यत्वम्; अतस्समसत्ताकत्वान् मिथ्यात्वबाधकेन प्रपञ्चस्यापि बाधाद् नाद्वैतहानिः– इति ।
अत्रोच्यते; न तावत् परस्परविरहरूपयोरेकनिषेध्यतावच्छेदकावच्छिन्नत्वं सम्भवति । क्वाप्यदर्शनात् । गोत्वाश्वत्वादौ तु न परस्परविरहरूपत्वम्; अतो नोक्तदोषः । यथाच सत्यत्व–मिथ्यात्वयोः परस्परविरहरूपत्वम्, तथोपपादितमधस्तात् । उपपादयिष्यते च । यदपि च विषमसत्ताकयोरविरोध इत्युक्तम्, तदपि न । विषमसत्ताके सत्यत्व–मिथ्यात्वे किं रूप्येऽङ्गी-क्रियेते? किं वा जगति? नाद्यः । त्वया ‘रूप्यमिथ्यात्वं तात्त्विकमि’त्यग्र उक्तत्वेन तद्विरोधात् । रूप्ये मिथ्यात्वस्य व्यावहारिकत्वे बाध्यत्वापत्त्या रूप्ये सत्यत्वस्य तात्त्विकत्वा-पत्तेः । नान्त्यः; विषमसत्ताकयोस्तयोः प्रपञ्चे त्वयाऽनङ्गीकारात् । अत्रैव ‘सत्यत्वप्रमिथ्यात्वे प्रपञ्चे समसत्ताके’ इत्युक्तत्वाच्च । तथा सति अप्रातिभासिकत्वेनाङ्गीकृतस्य प्रपञ्चस्य व्यावहारिकमिथ्यात्वयुक्तस्य तात्त्विकत्वापत्तेर्दुवारत्वाच्च । सत्यत्वमिथ्यात्वयोस्समुच्चय-स्त्वत्यन्तायुक्तः । त्वयाऽपि सत्यत्व–मिथ्यात्वयोः परस्परसमुच्चये विरोधाद् बिभ्यता सदसद्वैलक्षण्यस्य रूप्येऽङ्गीकाराच्च ।
यच्चोक्तम् – एकबाधकेनापरबाध्यत्वमित्यादि, तदपि न । परस्परविरहरूपयोरेकबाधक-बाध्यत्वस्यासिद्धेः । शुक्तिरूप्य–शुक्तिभिन्नत्वयोः परस्परविरह रूपत्वाभावात् । यच्चोक्तम् – प्रपञ्चगतसत्यत्वमिथ्यात्वयोः समसत्ताकत्वमिति, तदपि न । निरसिष्यमाणत्वात् । विरुद्धयो-र्द्वयोरेकाधिकरणे समसत्ताया असिद्धेः । अन्यथा वह्नावपि व्यावहारिकानौष्ण्य–तदभावौ स्याताम्, इति कालात्ययापदिष्टमात्रोच्छेदः स्यात् । त्वयैव व्यावहारिकौष्ण्याभावविषयत्वेन बाधव्यवस्थोक्तेश्च इति पूर्वापरविरोधपरिहारं भवानेव पृष्टो व्याचष्टाम् । तस्मात् साधूक्तम् – जगच्च सत्यं स्यादात्मवदिति ॥
न्यायामृतकण्टकोद्धारः
विशेषतो मिथ्यात्वं खण्डयित्वा सामान्यतोऽपि खण्डयति – अस्तु वेति ॥ ननु मिथ्या-त्वस्य ब्रह्मस्वरूपत्वान् नाद्वैतहानिकरत्वमित्यत आह– न हीति ॥ विरुद्धधर्माधिकरण-योरैक्यासम्भवादिति भावः । ननु निरुपाधिकं भ्रमकालनिश्चितं निरुक्तातिरिक्तमेव मिथ्यात्वं ब्रह्मस्वरूपं साध्यते अतो न दोष इत्यत आह– तस्येति ॥ एतादृशमिथ्यात्वरूपं ब्रह्मैव प्रपञ्चे साध्यते चेत्, तस्य ब्रह्मरूपमिथ्यात्वस्य प्रपञ्चे मयाऽप्यङ्गीकारात् सिद्धसाधनं स्यादित्यर्थः । ब्रह्मणो व्यापकत्वेनान्तर्यामित्वेन सर्वत्राङ्गीकारादिति भावः । जगच्चेति ॥ तथा च जगत्, सत्यम्, मिथ्याभूतमिथ्यात्वकत्वात्, आत्मवदित्यनुमानं फलितमित्यर्थः ।
अत्र कश्चित् – मिथ्यात्वमिथ्यात्वेऽपि प्रपञ्चसत्यत्वानुपपत्तिः । न च परस्परविरुद्धयोरेक-मिथ्यात्वेऽपरसत्यत्वनियम इति वाच्यम् । यत्र मिथ्यात्वावच्छेदकस्य विरुद्धधर्मवृत्तिता नास्ति तद्विषयत्वादस्य नियमस्य, परस्परविरहरूपधर्मविषयत्वाद्वा; यथा परस्परविरहरूपयो रजतत्व-तदभावयोः शुक्तौ । यथा वा परस्परविरहव्यापकयो रजतभिन्नत्वरजतत्वयोस्तत्रैव तत्र निषेध्यतावच्छेदकभेदनियमात् । यथा च न सत्यत्वमिथ्यात्वयोः परस्परविरहरूपत्वम्, न वा परस्परविरहव्यापकत्वं तथोपपादितमधस्तात् । यत्र तु निषेध्यतावच्छेदकमुभयवृत्ति, तत्रोभयोरपि विरुद्धयोर्धर्मयोर्निषेधः; यथा गजे गोत्वाश्वत्वयोरुभयोर्निषेधः । निषेध्यतावच्छेदकस्य गजत्वात्यन्ताभावव्याप्यत्वस्योभयत्र विद्यमानत्वात् । प्रकृते च निषेध्यतावच्छेदकं दृश्यत्वं सत्यत्व–मिथ्यात्वयोरुभयोरप्यस्ति इत्युभयनिषेधोपपत्तिः । अस्तु वा परस्परविरहरूपत्वम् । तथापि विषमसत्ताकयोर् विरोध एव नास्ति । व्यावहारिकमिथ्यात्वेन व्यावहारिकसत्यत्वाप-हारेऽपि काल्पनिकसत्यत्वानपहारात् । तार्किकमतसिद्धसंयोग–तदत्यन्ताभाववत् सत्यत्व-मिथ्यात्वयोः समुच्चयाभ्युपगमाच्च । एकसाधकेनापरस्य बाध्यत्वं विषमसत्ताकत्वे प्रयोजकम् । यथा शुक्तिरूप्यतदभावयोः । एकबाधकबाध्यत्वं हि समसत्ताकत्वे प्रयोजकम्; यथा शुक्तिरूप्य–शुक्तिभिन्नत्वयोः । अस्ति च प्रपञ्चतन्मिथ्यात्वयोरेकब्रह्मज्ञानबाध्यत्वम् । अतः समसत्ताकत्वान् मिथ्यात्वबाधकेन प्रपञ्चस्यापि बाधनान् नाद्वैतहानिः – इत्याह ।
तन्न । प्रकृतेऽपि तुच्छब्रह्मणोरपि दृश्यत्वस्य विद्यमानत्वेन निषेध्यतानवच्छेदकत्वात् । किञ्च परस्परात्यन्ताभावरूपयोरेकमिथ्यात्वेऽपरसत्यत्वनियमः । गोत्वाश्वयोश्च न परस्परात्यन्ता-भावरूपत्वम् । तयोर्जातित्वेन भावरूपत्वात् । न च सत्यत्व–मिथ्यात्वयोरपि परस्परात्यन्ता-भावरूपत्वमसिद्धमिति वाच्यम् । प्रतिपन्नोपाधौ त्रैकालिकनिषेधप्रतियोगित्वरूपमिथ्यात्वा-भावस्यैव सत्यत्वात् । न च तुच्छस्यापि सत्यत्वापातः; तत्र मिथ्यात्वव्यतिरेकासिद्धेः । तथा चोक्तनियमान्नाप्रयोजकत्वमिति ॥
यच्चोक्तम् – परस्परविरहरूपत्वेऽपि विषमसत्ताकयोर्न विरोध इति, तन्न । सिद्धे प्रपञ्च-मिथ्यात्वे विषमसत्ताकयोरविरोध इति कल्पना, तस्यां च सत्यां मिथ्यात्वसिद्धिः, इतीतरे-तराश्रयप्रसङ्गात् । यदपि – संयोग-तदत्यन्ताभावयोरिव समुच्चयोऽभ्युपगम्यत इति, तदपि न । संयोग-तदत्यन्ताभावयोरवच्छेदकभेदेन भिन्नाश्रितत्वस्यैवानुभवेन समुच्चयासम्प्रतिपत्तेः, तद्वत् प्रकृतेऽवच्छदकभेदाभावाच्च । न च अत्रापि स्वरूपेण सत्यत्वं पारमार्थिकत्वेन निषेधः, इति समुच्चयोपपत्तिरिति वाच्यम् । उक्तरीत्या सत्यत्वमिथ्यात्वयोर्निर्धर्मके ब्रह्मण्यपि सम्भवेन ब्रह्मापि सत्यं मिथ्या च इत्यङ्गीकारः स्यात् । यदपि च – एकबाधकबाध्यत्वं समसत्ताकत्वे प्रयोजक-मिति, तदपि न । प्रपञ्चवत् तन्मिथ्यात्वस्यापि ब्रह्मज्ञानबाध्यताङ्गीकारे ‘मिथ्यात्वस्य तात्त्विक-त्वाद् ब्रह्मस्वरूपत्वेन नाद्वैतहानिः’ इति स्वोक्तिविरोधापत्तेरिति दिक् ।
जगत् सत्यम्, मिथ्याभूतमिथ्यात्वकत्वादित्यत्रोपाधिमाशङ्क्य निषेधति – न चेति ॥ उपाधेः स्वातन्त्र्येण दूषकत्वाभावात्, जगत्, असत्यम्, अनात्मत्वादिति सत्प्रतिपक्षोन्नायकतया दूषकत्वं वक्तव्यम् । तच्च न सम्भवति । प्रतिपक्षानुमानस्याप्रयोजकतापराहतत्वात् । न च अप्रयोजकत्वं पूर्वानुमानेऽप्यविशिष्टमिति वाच्यम् । तत्र विपक्षे व्याघातरूपबाधकवत् प्रकृते बाधकाभावात् । न च प्रपञ्चस्य मिथ्यात्वेन यः सत्यः, स अनात्मा नेति व्याप्त्या हेतूच्छित्तिरेव बाधिकेति वाच्यम् । अस्य मिथ्यात्वसिद्धु्यत्तरकालीनत्वेनान्योन्याश्रयात् । तस्मान् नाय-मुपाधिरित्याह– सत्यत्वं विनेति ॥ ‘न ही’त्युक्तपरिहारमाशङ्क्य निषेधति – न चेति ॥ तथा च न विरुद्धधर्माधिकरणत्वमिति भावः । द्वितीयाभावस्तदोपलक्षणं स्यात्, यदि तदुपलक्ष्यं पूर्वाज्ञातं किञ्चित् स्यात् । तदेव नास्तीत्याह– द्वितीयाभावाधिकरणतयेति ॥ जगत्, सत्यम्, मिथ्याभूतमिथ्यात्वादित्यत्र व्यभिचारं शङ्कते – नन्विति ॥ तथा च रूप्ये व्यभिचार इति भावः । उक्तानुमाने व्यभिचारपरिहारमाशङ्क्य निषेधति – न च तथात्व इति ॥ धर्मिणो मिथ्यात्व इति ॥ तथा च धर्मिमिथ्यात्वम्, मिथ्या, धर्मिमिथ्यात्वादित्यनुमानं फलितम् । उक्तव्याप्तेश्च सत्यभूतधर्मिविषयकत्वादिति भावः । ननु तर्हि सामान्यनियमस्य का गतिरितित्यत आह– परस्परेति ॥ तस्यापि सत्यभूतधर्मिविषयकत्वादिति भावः । धर्म्यसत्त्वेऽप्यस्य नियम-स्याङ्गीकारेण बाधकमाह – न हि वन्ध्येति ॥ ननु परस्परविरुद्धयोरित्यनेन परस्परविरह-रूपत्वस्य विवक्षितत्वान् नोक्तबाधकावसरः, इत्यतो बाधकान्तरमाह– न वा स्वप्न इति ॥ हेतोरेवानागमनान् न व्यभिचार इत्याह – प्रतिपन्नोपाधाविति ॥ तच्च सत्यमेव, इति न व्यभिचार इति शेषः । रूप्यमिथ्यात्वम्, मिथ्या, धर्मिमिथ्यात्वादित्यत्राप्रयोजकत्वमाह– न च प्रतियोगित्वमिति ॥ तथा च धर्मिमिथ्यात्वेऽपि धर्मस्य सत्यत्वोपपत्तेरिति भावः । नन्वेवं धर्म्यसत्त्वे धर्मासत्त्वमिति व्याप्तेः का गतिरित्यत आह – धर्म्यसत्त्व इति ॥ अन्यथेति ॥ यदि धर्मिसत्वानुगुणं मिथ्यात्वं साध्यत इत्यर्थः ।
न्यायामृतप्रकाशः
ननु मिथ्यात्वस्याबाध्यत्वेऽपि ब्रह्मस्वरूपत्वाङ्गीकारान्नाद्वैतहानिरित्यत आह– नहीति ॥ प्रपञ्चेति ॥ कालादिप्रपञ्चघटितत्वादिति भावः ॥ भ्रमकालेति ॥ रूप्यमिथ्यात्वस्य भ्रमकाले निश्चये रूप्यभ्रमाद्रूप्यार्थिनः प्रवृत्तिर्न स्यादिति भावः । ब्रह्मणो भ्रमकाले निश्चितत्वोपपादनायाधिष्ठाने-त्युक्तम् ॥ तस्य मां प्रत्यपि सिद्धत्वादिति ॥ मिथ्यात्वस्य ब्रह्मस्वरूपत्वे प्रपञ्चो मिथ्येत्यस्य प्रपञ्चो ब्रह्मस्वरूपवानित्यर्थः स्यात् । इदं च मां प्रत्यपि सिद्धम् । ब्रह्मणो व्याप्तत्वेन प्रपञ्चेऽपि सत्त्वेन सिद्धसाधनतेति भावः ॥ व्यभिचारश्चेति ॥ दृश्यत्वसत्त्वेऽपि मिथ्यात्वाभावादिति भावः । हेतोरेवाऽभावान्न व्यभिचार इत्याशङ्क्य निराकरोति – मिथ्यात्वस्येति ॥ कुतोऽनुमानवैयर्थ्यमित्यत आह– तस्येति ॥ सिद्धसाधनमिति ॥ जगन्निष्ठमिथ्यात्वस्य बाध्यताया अस्माभिरङ्गीकारादिति भावः ॥ अतत्वेति ॥ बाध्यभूतमिथ्यात्वावेदकत्वादिति भावः ॥ जगच्चेति ॥ जगत्सत्यं मिथ्याभूत-मिथ्यात्वकत्वादात्मवदित्यनुमानमुक्तं भवति ॥ उपाधिरिति ॥ आत्मनि साध्यव्यापकत्वात्पक्षे जगत्यभावेन साधनाव्यापकत्वाच्चेति भावः ॥ सत्यत्वं विनेत्यादि ॥
अयमभिप्रायः । आत्मत्वमुपाधिमुक्त्वा तद्व्यतिरेकेण जगत्सत्यं न अनात्मत्वाद्व्यतिरेकेणाऽऽत्म-वदिति सत्प्रतिपक्षोन्नयनं कार्यम् । तन्न सम्भवति । अनात्मत्वमस्तु सत्यत्वमेवास्त्वित्यप्रयोजकत्वेन सत्यत्वे आत्मत्वोपाधेरप्रयोजकत्वात् । न चैवं भवदीये स्थापनानुमानेऽपि अस्तु मिथ्याभूत-मिथ्यात्वकत्वं सत्यत्वं माऽस्त्वित्यप्रयोजकत्वमेवेति साम्यमिति वाच्यम् । मिथ्याभूतमिथ्यात्वकत्वे सत्यत्वस्यैव प्राप्त्या पुनः सत्यत्वं माऽस्त्वित्युक्तेः स्वक्रियाविरुद्धत्वेन व्याघाताख्यानुकूलतर्कस्य हेतुसाध्यव्याप्तिग्राहकस्य सत्त्वान्नाप्रयोजकता शङ्क्या । शङ्काया व्याघातावधित्वात् । ‘‘व्याघाता-वधिराशङ्के’’त्युदयनोक्तेः । ननु (तर्हि)मदीये सत्प्रतिपक्षानुमानेऽपि व्याघातरूपानुकूलतर्कस्य हेतु-साध्यव्याप्तिग्राहकस्य सत्त्वान्नाप्रयोजकतेति चेन्न । अनात्मत्वमस्तु सत्यत्वमेवास्त्वित्यत्रानात्मत्व-सत्यत्वयोर्व्याघाताभावात् । नन्वस्ति व्याघातः । असत्यत्वमनात्मत्वं सत्यत्वमेव चात्मत्वमिति चेन्न । अनात्मत्वस्याज्ञातृत्वादिरूपत्वात्सत्यत्वस्य चाबाध्यत्वादिरूपत्वेन विरोधाभावादिति ।
यद्वा इत्थं व्याख्येयम् । आत्मत्वं नोपाधिः कुत इत्यत उक्तं – अप्रयोजकत्वादिति । साध्या-भावाविनाभाव्यभावत्वाभावेन सत्यत्वे आत्मत्वस्याप्रयोजकत्वादित्यर्थः । ‘‘साध्याभावाविनाभावी स उपाधिर्यदत्यय’’ इति वचनात् । तथाचोपाधेः साध्याभावाविनाभाव्यभावत्वेन यत्रात्मत्वाभावस् तत्र सत्यत्वाभाव इति व्याप्तिस्तावदवश्यं ग्राह्या । सा न युक्ता । अनात्मत्वेऽपि सत्यत्वोपपत्तेरित्य-प्रयोजकत्वात् ।
ननु तर्हि भवदनुमानेऽपि मिथ्याभूतमिथ्यात्वकत्वेऽपि सत्यत्वं माऽस्त्वित्यप्रयोजकता स्यादिति चेन्न । सत्यत्वं विना मिथ्याभूतमिथ्यात्वकत्वेऽङ्गीक्रियमाणे व्याघातेनाप्रयोजकतायाः शङ्कानर्हत्वात् । ननु तर्हि यत्रात्मत्वाभावस् तत्र सत्यत्वाभाव इत्युपाध्यभावसाध्याभावयोर्व्याप्तावपि नाप्रयोजकता । असत्यत्वरूपानात्मत्वमङ्गीकृत्य सत्यत्वाभावानङ्गीकारे व्याघातसम्यादिति चेन्न । अज्ञातृत्व-रूपानात्मत्वस्य असत्यत्वं सत्यत्वाभावं विना स्थित्यङ्गीकारे व्याघाताभावादिति योजनाद्वयेऽपि प्रमेयं त्वेकमेव । इयांस्तु विशेषः । उपाधिमुक्त्वा क्रियमाणे सत्प्रतिपक्षोन्नयने अप्रयोजकतापरत्वेन प्राचीनव्याख्यानम् । उपाधेरप्रयोजकत्वादिति मूलग्रन्थस्वारस्यानुसारेण साध्याभावाविना भाव्य-भावत्वस्योपाधिलक्षणत्वेनोपाध्यभावसाध्याभावयोरवश्यं व्याप्तिर्ग्राह्या । तत्राप्रयोजकतापरत्वेन द्वितीयव्याख्यानमिति ।
ननु मिथ्यात्वमबाध्यमित्यङ्गीक्रियते । नचाद्वैतहानिः । ब्रह्मस्वरूपत्वाङ्गीकारात् । नच सोपाधिकनिरुपाधिकयोरैक्यायोगः । निरुपाधिकब्रह्ममात्रत्वाभावेऽपि द्वितीयाभावोपलक्षितब्रह्म-स्वरूपत्वाङ्गीकारात् । द्वितीयाभावोपलक्षितं च ब्रह्मस्वरूपं न निरुपाधिकं नवा भ्रमकाले निश्चितम् । द्वितीयरूपप्रपञ्चभ्रमकाले तदभावोपलक्षितब्रह्मस्वरूपस्यानिश्चितत्वात् । अतो नोक्तदोष इत्याशङ्क्य निषेधति – नचेति ॥ उपलक्षण इति ॥ उपलक्षणे द्वितीयाभावरूपमिथ्यात्व एव बाध्याबाध्य-विकल्पस्येदानीमस्माभिः क्रियमाणत्वेन मिथ्यात्वं मिथ्यात्वोपलक्षितब्रह्मस्वरूपमित्युक्तं स्यात् । तथाचात्माश्रय इति सांप्रदायिकोऽर्थः ।
केचित्तु उपलक्षणस्य द्वितीयाभावस्य बाध्यत्वे द्वितीयस्य प्रपञ्चस्याबाध्यत्वेन सत्यत्वं स्यात् । अबाध्यत्वे अद्वैतहानेरित्येवं मिथ्यात्वं यदुपलक्षितब्रह्मस्वरूपमित्युच्यते तस्मिन्नुपलक्षणे द्वितीयाभाव एव बाध्याबाध्यविकल्पप्रसारादित्यर्थ इत्याहुः ।
द्वितीयाभावस्योपलक्षणत्वमेवायुक्तम् । उपलक्ष्यस्याभावादित्याह– द्वितीयेत्यादि ॥ अप्रसिद्ध-स्योपलक्ष्यस्य प्रसिद्धमुपलक्षणं भवति । ब्रह्म तु द्वितीयाभावरूपोपलक्षणज्ञाना(त्पूर्वमेव) त्प्रागेव ज्ञातमिति न तस्योपलक्ष्यत्वं युक्तम् । कथं तत्पूर्वं ज्ञातमस्तीत्यत उक्तम् – द्वितीयाभावेति ॥ अभावज्ञाने अधिकरणज्ञानस्य कारणत्वाद्द्वितीयाभावरूपोपलक्षणस्य ज्ञानार्थं तदधिकरणभूतशुद्धब्रह्म-ज्ञानमावश्यकमित्यर्थः । तथाचोपलक्षणज्ञाना(त्पूर्वमेव)त्प्रागेव ज्ञातं शुद्धं ब्रह्म प्रति न द्वितीया-भावस्योपलक्षणत्वं युक्तमिति भावः । किञ्चाहमज्ञ इति प्रतीयमानत्वेनाङ्गीकृताया अविद्यायाः प्रतीतिस्तदधिष्ठानभूतशुद्धब्रह्मस्पुरणं विना न सम्भवतीत्यविद्यारोपार्थमधिष्ठानभूतशुद्धब्रह्मज्ञान-मावश्यकमित्यभिप्रायेणोक्तम् अविद्याधिष्ठानतयेति । प्रकारान्तरेणापि भासमानत्वमुपपादयति– तत्साक्षितयेति ॥ अविद्याविषयकसाक्षिरूपज्ञानतयेत्यर्थः । तच्च ब्रह्मस्वरूपं स्वप्रकाशमिति सदा भासत इत्यर्थः । ननु काकेन गृहगतोत्तृणत्वादिसंस्थानविशेष इव प्रकाशमानब्रह्मगतं धर्मान्तरमेव द्वितीयाभावेनोपलक्ष्यतामित्यत उक्तम् – अन्यस्येति ॥ निर्धर्मकत्वादिति भावः ।
जगत्सत्यं मिथ्याभूतमिथ्यात्वकत्वादात्मवदित्युक्तानुमाने रूप्ये व्यभिचार इत्याशयेन तत्र हेतुसत्त्वं साधयति – नन्वित्यादिना ॥ रूप्यधर्म इति हेतुगर्भं विशेषणम् । धर्मिण एवाभावादिति भावः । तथाच रूप्यगतं मिथ्यात्वं मिथ्या अविद्यमानधर्मिकत्वादित्यनुमानमुक्तं भवति । एवं च रूप्ये मिथ्याभूतमिथ्यात्वकत्वे सत्यपि सत्यत्वाभावाद्व्यभिचार इति हृदयम् । सिद्धान्ती उक्तानुमानस्य प्रतितर्कपराहतिमाशङ्कते – नचेति ॥ तथात्व इति ॥ रूप्यगतमिथ्यात्वं यदि मिथ्या स्यात्तदा परस्परविरुद्धयोरेकस्याभावेऽन्यतरस्य सत्त्वनियमात् तत्सत्यत्वं सत्यं स्यादिति प्रतितर्कपराहत-त्वादुक्तानुमानमसत् । तथाच रूप्ये हेतोरेवाभावान्न व्यभिचार इति हृदयम् ।
ननु यदि धर्मिण एव मिथ्यात्वेन तत्रत्ययोर्विरुद्धयोस्सत्यत्वमिथ्यात्वरूपधर्मयोर्द्वयोरपिमिथ्यात्व- मुच्यते तर्हि परस्परविरुद्धयोरित्युक्तनियमभङ्ग इत्यत आह– परस्परेति ॥ ननु यत्र धर्मी असन् तत्राप्ययं नियमः किं न स्यादित्यत आह– नहीति ॥ तयोरपि सहानवस्थान-रूपविरोध-सद्भावादिति भावः ।
ननु वन्ध्यासुते श्यामत्वाभावे गौरत्वं न सत्यं तयोः परस्परविरहव्याप्यत्वेन परस्परविरह-रूपत्वाभावात् । तथाच परस्परविरहरूपविरोधिनोरेकस्याभावेऽन्यस्य सत्त्वमिति विवक्षितनियमस्य व्यभिचारस्याभावात् । प्रकृतेच रूप्यगतमिथ्यात्वसत्यत्वयोः परस्परविरहरूपत्वसद्भावेन तन्मध्ये मिथ्यात्वस्य मिथ्यात्वे सत्यत्वं सत्यं स्यादेवेत्यतोऽस्यापि नियमस्य व्यभिचारमाह– नवेति ॥ तत्रैवेति ॥ स्वप्न एवेत्यर्थः । तदभावो गजाभावः । तथाच स्वाप्नगजतदभावयोः परस्पर-विरह-रूपविरोधवतोरेकस्याभावेऽपरस्य सत्त्वाभावाद्व्यभिचार इति भावः । तथाच रूप्यगते मिथ्यात्वसत्यत्वे मिथ्या अविद्यमानधर्मिकत्वात् स्वाप्नगजतदभाववदित्यनुमानेनोभयोरपि मिथ्यात्वावगमेन मिथ्याभूत-मिथ्यात्वकत्वस्य जगत्सत्यत्वसाधकस्य रूप्ये व्यभिचारः सुस्थ इति हृदयम् ।
न्यायकल्पलता
अथ मिथ्यात्वं सामान्यतो निराकर्तुमुपक्रमते । अस्तु वेति ॥ तत्राभ्यर्हितत्वेन प्रथमं विकल्पित-मबाध्यत्वं दूषयति । आद्य इति । ननु मिथ्यात्वस्याबाध्यत्वेऽपि नाद्वैतहानिस् तस्य ब्रह्मस्वरूप-त्वादित्यत आह । न हीति । भ्रमकालानिश्चितमिति । अन्यथा पुरोवर्तिनि रजतभ्रमाद्रजतार्थिनः प्रवृत्तिर्न स्यादित्यर्थः । अधिष्ठानेति । एतच्च भ्रमकाले ब्रह्मणो निश्चयोऽस्तीत्यस्योपपादनम् । तस्येति । ब्रह्मस्वरूपमात्रस्य प्रपञ्चमिथ्यात्वस्येत्यर्थः ॥ दृश्यत्वादेरिति ॥ ब्रह्मस्वरूपे अबाध्ये मिथ्यात्वे दृश्यत्वस्य ज्ञातृत्वरूपजडत्वस्य च ब्रह्मावृत्तितया परिच्छिन्नत्वस्य च सत्वादित्यर्थः । ननु साध्या-भाववत्यपि मिथ्यात्वे दृश्यत्वस्य हेतोरभावान्न व्यभिचार इत्यत आह । मिथ्यात्वस्य चेति । यदि मिथ्यात्वं नानुमितिविषयस्तर्हि तदनुमानवैय्यर्थ्यमित्यर्थः । तस्येति । मिथ्यात्वानुमानस्य प्रतिवादिनं प्रति मिथ्यात्वसाध्यज्ञप्त्यर्थत्वेन त्वया प्रयुक्तत्वादित्यर्थः । उपलक्षणमेतत् । मिथ्यात्वस्याज्ञातृत्वादि-रूपजडत्वाभावे ज्ञातृत्वाद्यपत्तिः । परिच्छिन्नत्वाभावे ब्रह्मवृत्तित्वभङ्गः । अन्त्य इति । मिथ्यात्वस्य बाध्यत्वपक्ष इत्यर्थः । सिद्धसाधनमिति । बाध्यत्वरूपमिथ्यात्वस्य प्रपञ्चे ममानिष्टत्वाभावादित्यर्थः । अद्वैतश्रुतेरिति । बाध्यत्वरूपमिथ्यात्वस्यातत्त्वावेदकत्वादित्यर्थः । जगच्चेति । जगत्सत्यं बाध्य-मिथ्यात्वकत्वादात्मवदित्यनुमानादित्यर्थः ।
नन्वात्मनि सत्ये साध्यव्यापकपक्षे प्रपञ्च एव साधनाव्यापकमात्मत्वमुपाधिः स्यादित्याशङ्क्य निराकरोति । नचेति । कुतो न वाच्यमित्यत आह । सत्यत्वं विनेति । प्रपञ्चसत्यत्वविषयके स्थापनानुमाने मिथ्याभूतमिथ्यात्वकत्वस्य हेतोः सत्यत्वरूपसाध्येन व्याप्तिग्राहको व्याघातमूलस्तर्कोऽस्ति । आत्मत्वस्योपाधेर्व्यतिरेकेणानात्मत्वेन क्रियमाणे स्थापनानुमानीयसाध्यस्य सत्यत्वस्य व्यतिरेकानु-मानेऽनुकूलतर्काद्यभावेनोपाधेरप्रयोजकत्वादित्यर्थः । अयमभिसन्धिः । सत्यत्वमिथ्यात्वयोरुक्तवक्षमाण-रीत्या परस्परविरहरूपतया विपक्षे व्याघातलक्षणप्रतिकूलतर्कसद्भावेन यदि विमतं सत्यं न स्यात्तर्हि बाध्यमिथ्यात्वकं न स्याच्छुक्तिरूप्यवदित्यनुकूलतर्केण च स्थापनानुमाने हेतोः साध्यव्याप्यतानिश्चये साध्यव्याप्यहेत्वव्यापकत्वेनोपाधेः साध्यव्यापकत्वम् । तदुक्तम्–
अनुकूलेन तर्केण सनाथे सति साधने ।
साध्यव्यापकताभङ्गात् पक्षे नोपाधिसम्भव इति ।
ननु विमतमसत्यमनात्मत्वाच्छुक्तिरजतवदित्युपाध्युन्नीतानुमानेऽपि यदीदमसत्यं न स्यात्तदानात्म न स्यादात्मवदित्यनुकूलतर्कसद्भावात्तदुन्नायकेऽप्युपाधौ साध्यव्यापकताग्रहः प्रतिपक्षानुमाने विपक्षबाधकस्यैव तर्कस्य तन्निश्चायकत्त्वादिति चेत् । न । सत्यत्वमिथ्यात्वयोः परस्परविरहरूपत्वेन स्थापनानुमाने विपक्षबाधकव्याघातरूपतर्कवत्प्रतिपक्षानुमाने विपक्षबाधकव्याघातमूलकतर्काभावात् । तथा हि । परस्परविरहव्याप्यत्वस्य व्याघाताप्रयोजकत्वात् सत्यत्वानात्मत्वयोस्तदभावाच्च । त्वन्मते सत्येऽप्यात्मन्य-ज्ञातृत्वादिरूपानात्मत्वविरहासत्वात् । अज्ञातृत्वादिरूपानात्मत्ववति तस्मिन् सत्यत्वविरहाभावात् । एवं च तयोर्विरोधः किं परस्परविरहरूपतया आहोस्वित् परस्परविरहव्यापकतया । नाद्यः । अबाध्यत्व-रूपसत्यत्वस्याज्ञातृत्वादिरूपानात्मत्वविरहतानुपपत्तेः । न द्वितीयः । त्वन्मते सत्यत्वविरहवत्यन्तःकरणे अज्ञातृत्वरूपानात्मत्वाभावात् । अनात्मविरहवति तस्मिन्नेव सत्यत्वाभावात् । तथा च विपक्षे व्याघातरूपबाधकस्य तर्कस्याभावेनोपाधेः साध्यव्यापकत्वेनाप्रयोजकता । तदुक्तम् ।
यस्यानुकूलस्तर्कोस्ति स एव स्यात् प्रयोजकः ।
तदभावेऽन्यथासिद्धिस्तस्याः स हि निवारक इति ।
किञ्च प्रतिपक्षानुमाने स्वरूपेण त्रैकालिनिषेधप्रतियोगित्वमत्यन्तासत्त्वं वोपाधिः । तदभावस्य परेणापि प्रपञ्चेऽङ्गीकृतत्वात् । अथ चिद्रूपत्वमात्मत्वं तद्विरहोऽचिद्रूपत्वम् एवं च सत्यत्वानात्मत्वयोः परस्पर-विरहरूपत्वाभावेऽपि परस्परविरहव्यापकतया प्रतिपक्षानुमाने विपक्षे व्याघातलक्षणप्रतिकूलस्य व्याप्ति-ग्रहानुकूलस्य तर्कस्य सद्भावादुपाधेः साध्यव्यापकता सेत्स्यतीति चेत् । न । तन्मते ब्रध्नीद्धेचैतन्ये सत्यत्वविरहे सत्यपि अचिद्रूपत्वाभावात् । अचिद्रूपत्वविरहवति तस्मिन्नेव सत्यत्वासम्भवात् । जडत्व-हेतुभङ्गे वक्ष्यमाणरीत्याऽऽत्मनश्चिद्रूपत्वायोगाच्च । ननु यद्यपि सत्यमबाध्यं बाध्यं मिथ्येति पक्षाश्रयेण सत्यत्वमिथ्यात्वयोः परस्परविरहरूपता तथाप्यनिर्वचनीयत्वं मिथ्यात्वमिति पक्षे न तयोस्तथात्वम् । नापि परस्परविरहव्यापकत्वम् । अनिर्वचनीयत्वविरहवति तुच्छे सत्यत्वाभावात्् । सत्यत्वविरहवति तस्मिन्नेवानिर्वचनीयत्वासम्भवात् । परस्परविरहव्याप्यत्वे सत्यपि तस्य व्याघाताप्रयोजकत्वात् । परस्परविरहव्याप्ययोरपि गोत्वाश्वत्वयोर्विरहस्य गजादौ सहोपलम्भात् । तथा चानिर्वचनीयत्व-रूपमिथ्यात्वस्य बाध्यत्वे न तेन प्रपञ्चस्य सत्यत्वसिद्धिरुभयविरहस्यापि सम्भवादिति चेत् । मैवम् । सदसत्त्वानधिकरणत्वरूपस्य ज्ञाननिवर्त्यत्वलक्षणस्य चानिर्वचनीयत्वरूपमिथ्यात्वस्य शुक्तिरजतादाव-सम्भवेन बाध्यत्व एव पर्यवसेयत्वात् । तस्मात्साधूक्तं बाध्यमिथ्यात्वकत्वे जगत्सत्यं स्यादिति ।
नन्वबाध्यं मिथ्यात्वमित्याद्यपक्षेऽपि नाद्वैतहानिः । द्वितीयाभावोपलक्षितब्रह्मस्वरूपत्वाङ्गीकारात् । न च तन्निरुपाधिकं न वा भ्रमकाले निश्चितं न वा त्वां प्रति सिद्धमित्याशङ्क्य निराचष्टे । न चेति । कुतो न वाच्यमित्यत आह । उपलक्षण इति । ब्रह्मोपलक्षणत्वेनोक्तो द्वितीयाभाव एव विवेक्तव्यः किं बाध्य उताबाध्य इति । नाद्यः । बाध्यद्वितीयाभावोपलक्षितब्रह्मात्मकस्य मिथ्यात्वस्यापि बाध्यत्वेन व्याहतिः । तदावेदकश्रुत्यप्रामाण्यसिद्धसाधनप्रपञ्चसत्यत्वप्रसङ्गात् । द्वितीये तु सदद्वैतमतक्षतिः । अद्वैतश्रुतेर-खण्डार्थत्वहानिः, ब्रह्मणः सविशेषत्वप्रसङ्गश्चेति दूषणसहिताद्विकल्पान्न वाच्यमित्यनेनान्वयो बोध्यः । किञ्च द्वितीयाभावस्योपलक्षणत्वं किं पताकवच्चैत्रग्रहमित्यत्र पताकाया इवायावद्द्रव्यभावित्वेन । उत चित्रगुमानयेत्यत्र गवामिव कार्यानन्वयित्वेन । न प्रथमः । अनित्यत्वापातात् । न द्वितीयः । मुक्तौ ब्रह्मणो जीवाभेदासिद्धिप्रसङ्गादिति । द्वितीयेति । अप्रसिद्धस्योपलक्ष्यस्य प्रसिद्धमुपलक्षणं दृष्टम् । द्वितीयाभावरूपोपलक्षणेन यदुपलक्ष्यं ब्रह्म तस्य त्वन्मते नित्यसिद्धत्वेन तस्य तत् प्रति नोपलक्षणत्व-मित्यर्थः । ज्ञातस्यैवोपलक्षणत्वेनाभावरूपो लक्षणस्य द्वितीयाभावस्य ज्ञानार्थं तदधिकरणभूतशुद्ध-ब्रह्मज्ञानमावश्यकमित्यभिसन्धायोक्तं द्वितीयाभावाधिकरणतयेति । तथा चोपलक्षणस्य ज्ञानात्प्रागेव ज्ञातं शुद्धं ब्रह्म प्रति न द्वितीयाभावस्योपलक्षणत्वमिति भावः । सुषुप्तावप्यनुभूयमानत्वेनाङ्गीकृताविद्यायाः प्रतीतिस्तदधिकरणशुद्धब्रह्मस्फुरणमन्तरेण न सम्भवतीति तदर्थमपि शुद्धब्रह्मज्ञानमावश्यकमित्यभि-प्रेत्योक्तम् अविद्येत्यादि । अनाद्यविद्याया अनारोपितत्वे ब्रह्मसत्तासमसत्ताकत्वेनानिर्मोक्षप्रसङ्गाद् आरोपितत्वं वक्तव्यम् । आरोपश्चाधिष्ठानद्रष्ट्रसापेक्ष इति तदधिष्ठानतया स्वप्रकाशसाक्षिरूपतया च ब्रह्मस्फुरणमुररीकरणीयं, तदन्यस्य तदधिष्ठानत्वतद्द्रष्ट्रत्वयोरयोगादिति भावः । ननु काकेन ग्रहगतसंस्थानविशेष इव प्रकाशमानब्रह्मवृत्तिधर्मान्तरमेव द्वितीयाभावेेन उपलक्ष्यतामित्यत उक्तम् । चिदन्यस्येति । ब्रह्मणो निर्विशेषत्वाद् भासमानाभासमानविभागानुपपत्तेरुपलक्षणकाले च द्वितीय-मात्राभावाच्चेति भावः । विमतं सत्यं बाध्यमिथ्यात्वकत्वात्् आत्मवदिति प्रपञ्चसत्यत्त्वानुमाने व्यभिचारं शङ्कते । नन्विति । एवञ्च रजतवृत्तिमिथ्यात्वस्य मिथ्यात्वेन बाध्यमिथ्यात्वकत्वं हेतुः शुक्तिरूप्ये वर्तते । साध्यं च सत्यत्वमबाध्यत्वलक्षणं नास्तीति व्यभिचार इति भावः ।
ननु यदि रूप्यगतं मिथ्यात्वं मिथ्या तर्हि मिथ्यात्वविरुद्धं सत्यं प्रसज्येत । यथा गवि गोत्वविरहस्य मिथ्यात्वे तद्विरुद्धं गोत्वं सत्यम् । तदयं प्रयोगः । रूप्यं बाध्यमिथ्यात्वाधिकरणं न भवति । सत्यभूत-तद्विरुद्धसत्यत्वानधिकरणत्वात् । यत्सत्यभूतयद्विरुद्धानधिकरणं तन्मिथ्याभूततदधिकरणं न भवति । यथा सत्यभूतगोत्वविरुद्धगोत्वाभावानधिकरणं गौर्गोत्वाभावविरुद्धमिथ्याभूतगोत्वाधिकरणं न भवति । तथा च रूप्यमिथ्यात्वस्य सत्यत्वे तु रूप्ये हेतोरेवागमनान्न व्यभिचार इति सिद्धान्तिनां व्यभिचारे परिहृते पूर्वपक्षी तन्निषेधति । न चेति । कुतो न वाच्यमित्यत आह । धर्मिण इति । शुक्तिरूप्यस्य सत्यभूत-सत्यत्वानधिकरणत्वेऽपि सत्यभूतमिथ्यात्वाधिकरणत्वं नास्ति किन्तु मिथ्याभूतमिथ्यात्वाधिकरणत्वमेव । धर्मिणो रूप्यस्य मिथ्यात्वात् । तथा चैवं प्रयोगः । रूप्यगतत्वेनोच्यमाने सत्यत्वमिथ्यात्वे मिथ्या मिथ्यात्वोपेतधर्मिकत्वात् । वन्ध्यासुतश्यामत्वगौरत्वरूपधर्मद्वयवत्, स्वप्नप्रतीतगजतदभाववद्वा । तथा च प्रपञ्चसत्यत्वसाधनाय प्रयुक्तस्य बाध्यमिथ्यात्वकत्वहेतोः शुक्तिरूप्ये व्यभिचारस्तदवस्थ इति भावः ।
ननु रूप्यमिथ्यात्वे मिथ्यात्वसाधकस्य मिथ्यात्वोपेतधर्मिकत्वस्य हेतोर्न रूप्यमिथ्यात्वे मिथ्यात्व-रूपसाध्यानुमितिजनकत्वम् । रूप्यमिथ्यात्वे मिथ्यात्वाभावसाधकेन सामान्यव्याप्तिमूलकेन सत्यभूत-मिथ्यात्वविरुद्धसत्यत्वानधिकरणत्वानुमानेन प्रतिरुद्धत्वात् । तथा च बाध्यमिथ्यात्वकत्वस्य मदुक्तहेतोः शुक्तिरूप्ये निश्चेतुमशक्यत्वान्न व्यभिचार इत्यतः सिद्धान्त्युक्तसामान्यव्याप्तावुपाधिं वक्ति । परस्परे-त्यादिना । धर्मी सन्निति । यत्राधिकरणं सत्यमस्ति तत्रैव परस्परविरुद्धयोर् धर्मयोर्मध्ये अन्यतर-विरहेऽन्यतरसत्वमिति नियमः । प्रकृते तु धर्मिणो मिथ्यात्वान्न तथात्वम् । एवञ्च तत्रामिथ्यात्व-मुपाधिरतस्तस्य हीनत्वान्न तेनास्य प्रतिरुद्धत्वं यतो अतो रूप्ये हेतुनिश्चयसम्भवाद्व्यभिचारः सुस्थ इति भावः । सिद्धान्त्युक्तसामान्यव्याप्तौ व्यभिचारमपि दर्शयति । न हीति । न हि सत्यभूतस्य गौरत्व-विरुद्धश्यामत्वस्यानधिकरणे वन्ध्यासुते तद्विरुद्धं गौरत्वं मिथ्याभूतं नास्ति किन्तु सत्यभूतं गौरत्व-मस्तीत्युपपद्यते । किन्नाम गौरत्वं तद्विरुद्धश्यामत्वं चेत्युभयमपि वन्ध्यासुते मिथ्यैव । धर्मिण एव मिथ्यात्वात् । तथा चोक्तव्याप्तौ व्यभिचार इति भावः ।
ननूक्तसामान्यव्याप्तौ विरुद्धत्वं न सहानवस्थितादिसाधारणं किन्तु परस्परविरहरूपत्वम् । न च गौरत्वश्यामत्वे परस्परविरहरूपे अतो नोक्तव्यभिचार इत्यनुशयेनाह । न वा स्वप्न इति । स्वप्ने स्वप्नावस्थायाम् । क्वचिदधिकरण इति शेषः । तत्रैवेति । तदधिकरण एवेत्यर्थः । अयं भावः । स्वप्ना-वस्थायां दृष्टे कस्मिंश्चिदधिकरणे सत्यभूूतगजाभावविरहरूपस्य गजस्यानधिकरणत्वं वर्तते । गजविरह-रूपस्य मिथ्याभूतस्य गजाभावस्य नाधिकरणत्वं किन्तु सत्यभूतस्यैव गजाभावस्याधिकरणत्वमिति नास्ति । किं नाम गजो गजाभावश्चेत्युभयमपि मिथ्यैवेति परस्परविरहरूपविरुद्धत्वगर्भाया अप्युक्त-व्याप्तेर्व्यभिचाराद्भङ्ग इति ।
यदुक्तं पूर्वपक्षिणा रूप्यरूपधर्मिणे मिथ्यात्वात्तत्र सत्यत्वमिथ्यात्वे परस्परविरहरूपे अपि मिथ्यैवेति तद्दूषयति । न प्रतिपन्नेत्यादिना । धर्मिसत्त्वानपेक्षस्य धर्मस्य सत्यत्वं धर्मिमिथ्यात्वेऽपि युक्तम् । न तु तदपेक्षस्य रूप्यादेः । एवञ्च रूप्यमिथ्यात्वं मिथ्या मिथ्यात्वोपेताधिकरणकत्वा-द्वन्ध्यासुतश्यामत्ववदिति त्वदीयानुमाने धर्मिसत्तापेक्षधर्मत्वमुपाधिरतो भवदुक्तहेतोरप्रयोजकत्वादस्मदुक्त-हेतोर्न रूप्ये व्यभिचार इति भावः । उक्तस्योपाधेः पक्षवृत्तित्वेन साधनव्यापकतां निरस्यति । न चेति ।
ननु प्रतियोगित्वमपि धर्मान्तरेण धर्मिणं नावतिष्ठते । वन्ध्यासुतादावपि नात्यन्ताभावप्रतियोगित्वं किं नामात्यन्ताभाव एव वन्ध्यासुतप्रतियोगिकत्वमित्यत उक्तमनिर्वाच्यत्वभङ्ग इति । अत्यन्ताभावस्य वन्ध्यासुतप्रतियोगिकत्वे वन्ध्यासुतस्यापि तत्प्रतियोगित्वमवर्जनीयमेवेत्यादि वक्ष्यत इत्यर्थः । साध्यव्यापकतामप्युपाधेराह । धर्म्यसत्व इति । यद्यपि रूप्यधर्मो मिथ्यात्वमपि मिथ्यैव, धर्मिणो मिथ्यात्वादिति प्रकृतत्वेन धर्मिमिथ्यात्वे धर्ममिथ्यात्वं त्विति वक्तव्यम् । न तु धर्म्यसत्वे धर्मासत्व-मिति । तथापि मिथ्यात्वस्याप्यत एव पर्यवसानं वन्ध्यासुतश्यामत्वादौ सदसद्विलक्षणत्वरूप-मिथ्यात्वस्याभावेन धर्मिसत्तासापेक्षधर्मत्वस्योपाधेः साध्यव्याप्तिं च दर्शयितुमुक्तम् । धर्म्यसत्व इति । सति सप्तमीयं न तु निमित्तसप्तमी । तुशब्दो विशेषार्थः । तथा च वन्ध्यासुतरूपादेर्धर्म्यसत्वे सत्यपि योऽभावः स धर्मिसत्तासापेक्षसत्वप्रयुक्तः । न तु हेतुभूतधर्म्यसत्वमात्रप्रयुक्तः । धर्म्यसत्वमात्रस्या-सत्वाप्रयोजकत्वात् प्रागभावदशायामसत एव घटादेः प्रतियोगित्वदर्शनेन प्रतियोगित्वस्य रूपादिवद्ध-र्मिसत्वसापेक्षत्वाभावात् । स्थलान्तरे सत्वस्येदानीमनुपयोगात् । असति त्वस्य सद्वैलक्षण्यस्यासद्विषय-व्यवहारौ प्रति विषयत्वस्य त्वयोग्यमात्रे प्रतियोगित्वाभावस्य । एवञ्च यत्र धर्म्यसत्वे धर्मासत्वं तत्र धर्मिसत्तासापेक्षधर्मत्वं यथा वन्ध्यासुतश्यामत्व इति वन्ध्यासुतरूपस्य हि रूपसजातीयत्वेन धर्मि-सत्तासापेक्षत्वादेव वन्ध्यासुतधर्मिणो ऽसत्वात्तदभावः । न तु धर्म्यसत्वमात्रप्रयुक्त इति सुस्थः प्रतिबन्धः । मिथ्यात्वं तु धर्मिसत्तासापेक्षं नेति साधनाव्यापकतामाह । मिथ्यात्वन्त्विति । विपक्षे दण्डं दर्शयति । अन्यथेति । स्वाधिकरणे प्रतियोगिसत्वासहिष्णुसत्ताकस्यैव प्रतिषेधस्य तत्प्रतिषेधत्वं स्वदेशकालयोस्तत्स्वरूप सहिष्णोस्तत्प्रतिषेधत्वस्यपारिभाषिकत्वेनास्माकमप्रतिपक्षत्वादिति भावः ।
केचित्तु परोक्ते मिथ्यात्वोपेतधर्मिकत्वे हेतौ धर्म्यसत्वप्रयुक्तसत्वाभाववत्वमुपाधिमाह । धर्म्यसत्व इत्यादिना । असत्वे सद्विलक्षणत्वे । असत्वं सद्विलक्षणत्वम् । धर्मिसत्त्वेति ॥ धर्म्यसत्व-प्रयुक्तसत्वाभाववत्वमित्यर्थः । अयं च साधनावच्छिन्नसाध्यव्यापको बोध्यः । तेन ब्रह्मण्यारोपित-मिथ्यात्वादौ न साध्याव्याप्तिः । नञ्द्वयान्तर्भावाच्च । वन्ध्यासुतश्यामत्वादौ च न साध्याव्याप्तिशङ्केति ध्येयम् । उक्तोपाधेः पक्षाद्व्यावृत्तिमाह । मिथ्यात्वमिति । मिथ्यात्वं तु धर्मिसत्यत्वस्य विरहरूपमतो धर्मिसत्यत्त्वं नापेक्षते प्रत्युत धर्मिसत्यत्वं प्रतिक्षिपतीति त्वत्प्रतिकूलमित्यर्थः । अन्यथेति । धर्मि-सत्यत्वविरहरूपातिरिक्तं ब्रह्मभिन्नत्वादिकं पारिभाषिकं मिथ्यात्वं सत्यत्वपक्षेऽप्यविरुद्धमित्यर्थ इत्याहुः ।
इदमत्रालोचनीयम् । पूर्वपक्षिणापि धर्म्यसत्वस्य हेतोर्धर्मसत्वाभावे प्रयोजकत्वस्याङ्गीकृतत्वेन पूर्वपक्षसिद्धान्तयोरैकरूप्यं स्यात् । वन्ध्यासुतविरहवत्तदीयश्यामत्वादिविरहस्याप्यन्यविरहाप्रयुक्तत्वात् । प्रमितं खल्वाश्रयविरहप्रयुक्तविरहप्रयुक्तविरहप्रतियोगि । अथ यदि वन्ध्यासुतश्यामत्वादिकं सत्स्यात्तर्हि आश्रयसत्तापेक्षसत्ताकं स्यादित्यापादितधर्मिसत्त्वविरहप्रतियोगित्वं विवक्षितं तर्हि यथान्यासमेवास्तु । यदि रूप्यमिथ्यात्वं धर्म्यविरोधिमिथ्यात्वधर्मकं स्यात् तर्हि धर्मिसत्तापेक्षसत्ताकधर्मः स्यात् । यो धर्मः यदाश्रयाविरोधी स तदाश्रयसत्तापेक्षसत्ताको यथा रूपादीति सामान्यव्याप्तावविरोधात् । अयं च पक्षधर्मावच्छिन्नसाध्यव्यापको बोध्यः । पक्षधर्मपदेन साधनसमानाधिकरणस्य धर्मस्य विवक्षितत्वात् । तथा च बाध्यमिथ्यात्वकत्वस्य सत्यत्वाव्यभिचाराज्जगत्सत्यत्वोपपत्तिरिति ।
अत्राहुर्विवर्तवादिनः । मिथ्यात्वामिथ्यात्वेऽपि प्रपञ्चसत्यत्वानुपपत्तिः । तत्र हि विरुद्धयो-र्धर्मयोरेकमिथ्यात्वे अपरसत्यत्वम् । यत्र मिथ्यात्वावच्छेदकमुभयवृत्ति न भवेत् । यथा परस्परविरह-रूपयो रजततदभावयोः शुक्तौ । यथा वा परस्परविरहव्यापकयो रजतभिन्नत्त्वरजतत्वयोस्तत्रैव तत्र निषेध्यतावच्छेदकभेदनियमात् । प्रकृतेतु निषेध्यतावच्छेदकमेकमेव दृश्यत्वमिति । अत्र ब्रूमः । यदुक्तं प्रपञ्चमिथ्यात्वस्य बाध्यत्वेऽपि न प्रपञ्चसत्यत्वमुपपन्नम् । प्रपञ्चतन्मिथ्यात्वयोरेकनिषेध्यतावच्छेदका-वच्छिन्नत्वात् । अस्ति च तदुभयत्र निषेध्यतावच्छेदकं दृश्यत्वमेकमिति । तन्न । परस्परविरह-रूपयोरेकनिषेध्यतावच्छेदकस्याप्रसिद्धेः । यथा रजततदत्यन्ताभावयोः शुक्तौ । यथा वा रजतभिन्नत्व-रजतत्वयोस्तत्रैव । तत्र निषेध्यतावच्छेदकभेदनियमात् ।
यच्चोक्तम् । गोत्वाश्वत्वयोरेकस्मिन् गजे निषेधे गजत्वात्यन्ताभावव्याप्यत्वं निषेध्यतावच्छेदक-मुभयोस्तुल्यमिति नैकतरनिषेधे अन्यतरसत्वं तद्वत् प्रकृते स्यादिति । तदसारम् । तयोः परस्परविरह-रूपत्वाभावात् । दृश्यत्वस्यानिषेध्ये ब्रह्मण्यपि सत्त्वेन निषेध्यतावच्छेदकत्वायोगाच्च । गोत्वाद्यसाधारण-धर्मेण निषेधसम्भवे साधारणस्य निषेध्यतावच्छेदकत्वकल्पने अतिप्रसङ्गाच्च । अन्यथा धूमवह्न्योरेकत्र हृदे निषेधे हृदत्वात्यन्ताभावव्याप्यत्वस्य निषेध्यतावच्छेदकत्वापातः । धूमवत्वस्य वह्निसमानाधि-करणतप्तायःपिण्डीयात्यन्ताभावप्रतियोगितानवच्छेदकतया तदवच्छिन्नधूमसमानाधिकरणस्य वह्नेर् धूमव्याप्यताप्रसङ्गश्च । तथा चानुमानव्यवहारोच्छेदः ।
किञ्च गवि गजाश्वान्यतरनिषेधे गजत्वात्यन्ताभावव्याप्यत्वं निषेध्यतावच्छेदकं दुर्वचम् । निषेध्यस्य गजत्वसमानाधिकरणत्वात् । तदसमानाधिकरणसमानाधिकरणनिषेधे तस्य तत्प्रतियोगितानवच्छेदकत्वात् । अन्यथा तेजसि पृथिवीजलान्यतरत्वनिषेधे पृथिवीत्वात्यन्ताभावव्याप्यत्वस्य निषेध्यतावच्छेदकत्वप्रसङ्गः । न च सत्यत्वमिथ्यात्वयोर्न परस्परविरहरूपत्वमिति देश्यम् । अबाध्यत्वरूपसत्यत्वात्यन्ताभावानात्मकस्य मिथ्यात्वस्य त्वया मां प्रति साधयितुमनुचितत्वात् । यथा सत्यत्वमिथ्यात्वयोः परस्परविरहरूपत्वं तथोपपादितमधस्तात् । उपपादयिष्यते च ।
यदपि परस्परविरहरूपत्वेऽपि विषमसत्ताकयोरविरोधात् । व्यावहारिकमिथ्यात्वेन व्यावहारिक-सत्यत्वापहारेऽपि काल्पनिकसत्यत्वानपहारात्तार्किकमतसिद्धसंयोगतदत्यन्ताभाववत्सत्यत्वमिथ्यात्वयोः समुच्चयाभ्युपगमाच्चेत्युक्तम् । तदप्यशोभनम्् । तथा हि । प्रातीतिकव्यावहारिकत्वेन विषमसत्ताके सत्यत्वमिथ्यात्वे किं शुक्तिरूप्येऽङ्गीक्रियेते किं वा जगति । नाद्यः । त्वया रूप्यमिथ्यात्वं तात्विकमित्यग्रे वक्ष्यमाणत्वेन तद्विरोधात् । रूप्ये मिथ्यात्वस्य व्यावहारिकत्वे बाध्यत्वापत्या रूप्ये सत्यत्वस्य तात्विकत्वापत्तेश्च । नान्त्यः । जगति मिथ्यात्वस्य व्यावहारिकत्वे तस्य प्रातिभासिकत्व-तात्विकत्वयोरन्यतरत्वापातात् । सत्ताभेदस्याद्याप्यसिद्ध्याऽन्योन्याश्रयात् । यच्चोक्तं प्रपञ्चगतसत्यत्व-मिथ्यात्वयोः समसत्ताकत्वमिति । तदयुक्तम् । निरशिष्यमाणत्वात् । विरुद्धयोरेकत्राधिकरणे समसत्ताया असिद्धेः । अव्यावहारिकौष्ण्याभावविषयत्वेन बाधव्यवस्थोक्तेश्चेति पूर्वापरस्ववचनविरोधपरिहारं भवानेव पृष्टो व्याचष्टे । तस्मात्साधूक्तं जगच्च सत्यं स्यादात्मवदिति ।
न्यायामृतसौगन्ध्यम्
अपि च मिथ्यात्वस्य मिथ्यात्वे प्रपञ्चसत्यत्वापातः । एकस्मिन् धर्मिणि प्रसक्तयोर्विरुद्धधर्म-योरेकमिथ्यात्वेऽपरसत्यत्वनियमात् । मिथ्यात्वसत्यत्वे च तद्वदेव प्रपञ्चसत्यत्वापत्तेः । उभयथाऽप्य-द्वैतव्याघातः । ननु मिथ्यात्वस्य मिथ्यात्वेऽपि प्रपञ्चस्य न सत्यत्वापत्तिः । तत्र हि विरुद्धयोर्धर्मयोरेक-मिथ्यात्वेऽपरसत्यत्वम् । यत्र मिथ्यात्वावच्छेदकमुभयवृत्ति न भवेत् । यथा परस्परविरहरूपयोः रजतत्वतदभावयोः शुक्तौ यथा वा परस्परविरहव्यापकयोः रजतभिन्नत्वरजतत्वयोस्तत्रैव । तत्र निषेध्यतावच्छेदकभेदनियमात् । प्रकृते तु निषेध्यतावच्छेदकमेकमेव दृश्यत्वादि । यथा गोत्वाश्वत्व-योरेकस्मिन् गजे निषेधे गजत्वात्यन्ताभावव्याप्यत्वं निषेध्यतावच्छेदकमुभयोस्तुल्यमिति । नैकतर-निषेधेऽन्यतरसत्त्वं तद्वत् । प्रकृते च सत्यत्वमिथ्यात्वयोर्न परस्परविरहरूपत्वादिकमिति चेत् । न । द्वितीयमिथ्यात्वलक्षणप्रस्तावे मिथ्यात्वाभावस्सत्यत्वमिति त्वयाऽप्यङ्गीकृतत्वात् ।
ननु परस्परविरहरूपत्वेऽपि विषमसत्ताकयोरविरोधाद् व्यावहारिकमिथ्यात्वेन व्यावहारिक-सत्यत्वापहारेपि काल्पनिकसत्यत्वानपहारात् तार्किकमतसिद्धसंयोगतदभाववत् सत्यत्वमिथ्यात्वयोः समुच्चयाभ्युपगमाच्च । एकसाधकेनापरस्य बाध्यत्वं विषमसत्ताकत्वे प्रयोजकं यथा शुक्तिरूप्यतद-भावयोः । एकबाधकबाध्यत्वं च समसत्ताकत्वे प्रयोजकं यथा शुक्तिरूप्यशुक्तिभिन्नयोः । अस्ति च प्रपञ्चतन्मिथ्यात्वयोरेकज्ञानबाध्यत्वम् । अतस्समसत्ताकत्वाद् मिथ्यात्वबाधकेन प्रपञ्चस्यापि बाधाद् नाद्वैतहानिरिति चेन्न । व्यावहारिकमिथ्यात्वेन व्यावहारिकसत्यत्वापहारेऽपि जगतो ब्रह्मवत्पारमार्थिक-त्वोपपत्तेः । अन्यथा व्यावहारिकसत्यत्वापहारे प्रातिभासिकसत्यत्वापत्याऽर्थक्रियाकारित्वानुपपत्तेः । तार्किकेत्याद्यशुद्धं तद्वत् प्रकृतेऽवच्छेदकभेदाभावात् । अस्ति चेत्याद्ययुक्तम् । परस्परविरहरूपयोस्सम-सत्ताकयोरेकबाधकबाध्यत्वासम्भवात् ।
यत्तु यथा गोत्वतदभावादिस्थले सामान्यतो दृष्टोऽपि विरोधः संयोगतदभावादिस्थले एकावच्छेदेनैव स्वीक्रियते तार्किकैस्तथा सत्यत्वमिथ्यात्वयोः परस्परविरहादिरूपयोरविरोधोऽस्माभिः स्वीक्रियते । प्रमाणस्य तेषामिवास्माकमपि सत्त्वादिति । तन्न । अव्याप्यवृत्त्यभावप्रतियोगिनोरवच्छेदक-भेदेनैकत्राविरोधेऽपि व्याप्यवृत्त्योस्तदभावात् ।
न च मिथ्यात्वस्य सत्यत्वमिथ्यात्वाभ्यां दूषणं नित्यसमा जातिः । स्वव्याघातादेरभावात् । किञ्च ‘‘धर्मस्य तदतद्रूपविकल्पानुपपत्तितः धर्मिणस्तद्विशिष्टत्वभङ्गो नित्यसमो भवेदि’’ति हि तल्लक्षणम् । न चात्र मिथ्यात्वस्य मिथ्यात्वे धर्मिणो मिथ्यात्ववैशिष्ट्यभङ्ग उक्तः, किन्त्वद्वैतहानिः । प्रत्युत भेदः, किं भिन्ने ? उताभिन्ने ? इत्यादि त्वदुक्तिरेव भिन्नादिरूपविशिष्टमात्रनिरासकत्वेन स्वव्याघाताज्जातिः ।
यत्तु विकल्पितकोट्योरेकस्याद्वैतहानिप्रयोजकत्वेऽप्यन्यस्याः प्रपञ्चसत्यत्वतात्त्विक-त्वापत्तिद्वारा प्रपञ्चे धर्मिणि मिथ्यात्ववैशिष्ट्यभङ्गप्रयोजकत्वमस्त्येव । अन्यथा मिथ्यात्वकोटिमात्रस्यास्माभिराश्रयणे सत्यत्वकोटिप्रयुक्तस्याद्वैतहानिदोषस्यानवकाशात् ।
किञ्च मिथ्यात्वस्यापि मिथ्यात्वधर्मित्वेन तस्य सत्यत्वे मिथ्यात्ववैशिष्ट्यभङ्गेन सत्यत्वकोटेरपि धर्मिणि तद्वैशिष्ट्यभङ्गप्रयोजकत्वमावश्यकम् । न च स्वव्याघातकत्वाद्यभावाद् नेयं जातिरिति वाच्यम् । त्वदीयसर्वदेशीयात्यन्ताभावप्रतियोगित्वरूपासत्त्वस्यासत्त्वे तद्विरुद्धस्य ‘असदेवेदमग्र आसीत्’ इति वाक्याद् असति प्रतिपन्नतया त्वदभ्युपगतस्यासति तात्विकत्वापत्तिः । सत्त्वे तस्य सतोऽसति सम्बन्धानुपपत्तिः । उक्तं हि बौद्धधिक्कारे सदसतोस्सम्बन्धानुपपत्तेरिति । तथा तुच्छस्य विशेषाभावा-दिति । न च प्रागभाव ध्वंसप्रतियोगित्वादेरिव सतोऽपि तस्यासम्बन्ध इति वाच्यम् । प्रागभावादि-प्रतियोगिन उक्तासत्त्वाभावात् । असच्छशविषाणमिति प्रतीतेः सत्त्वाश्रयासद्विषयकत्वे ‘वस्तुशून्यो विकल्पः’ इति पातञ्जलसूत्रविरोधात्स्वलक्षणस्य विकल्पागोचरत्वादिति बौद्धधिक्कारीयवाक्यविरोधश्च । सत्सम्बन्धश्च बौद्धधिक्कारादौ स्पष्ट इति । तन्न । प्रपञ्चे अतात्त्विकसत्त्वस्य तात्त्विकसत्वाविरोधेन तदा-पत्तिद्वारा मिथ्यात्ववैशिष्ट्यभङ्गाप्रयोजकत्वात् । अतात्त्विकमिथ्यात्वस्य प्रपञ्चे स्वीकारे क्षतेरभावात् ।
‘किञ्चेत्याद्यशुद्धम् । मिथ्यात्वस्य तात्त्विकत्वे मिथ्यात्वधर्मिताया व्याहतत्वात् । मिथ्यात्वस्य तात्त्विकत्वपक्षे प्रपञ्चतन्मिथ्यात्वादिनिष्ठमिथ्यात्वस्यैकस्याभावाच्च । अतात्त्विकमिथ्यात्वान्तरस्य तु तात्त्विकमिथ्यात्वधर्मिकत्वे बाधकाभावाच्च ।
त्वदीयेत्याद्यशुद्धम् । तात्त्विकस्यैवाभ्युपगमात् । सम्बन्धे बाधकाभावात् । बौद्धधिक्कारोक्तस्य सर्वस्य मया त्वया चानभ्युपगमात् । प्रागभावेत्याद्यशुद्धम् । आश्रयं विना प्रतियोगित्वस्योभयत्रावस्थान-साम्येनान्यसत्त्वस्याकिञ्चित्करत्वात् ।
वस्तुशून्येत्याद्यशुद्धम् । यत्र तादृशप्रतियोगित्वादिकं भासते चैतन्यं पुरुषस्य स्वरूपमित्यादौ । तत्रैव तेषां विकल्प इति व्यवहारात् । विकल्पस्य ज्ञानभिन्नत्वे स्मृतिव्यवहाराद्यनापत्तेः ।
यत्तु भेदभिन्ने वेत्ययुक्तम् । वैतण्डिकतामाश्रित्य वदतो मम स्थापनाया अभावेन मां प्रति जातेर्व्याघातकत्वं नास्ति । सर्वदृश्यानां खण्डनयुक्तिभिर्बाधस्य ममेष्टत्वादिति । तन्न । ब्रह्ममीमांसाधि-करणेषु सिद्धान्त्यभिमतार्थस्य खण्डनयुक्तिभिर्बाधसम्भवेन तन्मीमांसाया उच्छेदापत्तेः । एवं ब्रह्मणोऽपि तद्युक्तिभिर्बाधापत्तिश्च । न च ब्रह्मणोऽसंसृष्टत्वेन तर्काविषयत्वेन सर्वसाक्षित्वेन च बाधासम्भव इति वाच्यम् । असंसृष्टत्वहेतोर्भावाभावाभ्यां व्याघातात् । किञ्च त्वदभिमतं ब्रह्म प्रमाणवेद्यं वा? न वा? आद्ये प्रमाणविषयत्ववत् खण्डनयुक्तीनामपि तत्र प्रसङ्गसम्भवात् । द्वितीये ह्यसिद्धिः (ब्रह्मासिद्धिः) स्यात् ।
इति सामान्यतो मिथ्यात्वमिथ्यात्वस्य भञ्जनम् ।
श्रीन्यायामृतसौगन्ध्ये श्रावितं वनमालिना ॥
न्यायामृतमाधुरी
प्रपञ्चोपाधिकम् । प्रपञ्चाश्रितम् । दर्शितमिथ्यात्वीयकल्पपञ्चकशरीरे प्रपञ्चस्य सदसत्वादेरिवा-प्रवेशेन घटकत्वाभावेन प्रपञ्चघटितत्वार्थकत्वायोगात् । भ्रमकालानिश्चितम् । व्यधिकरणप्रकारक-प्रवृत्त्यनुरोधात् । निरुपाधिकम् अनाश्रितम् । अधिष्ठानपदं समनन्तरविशेषणवैशिष्ट्योपपादकम् । भेदकोपपादनाय ब्रह्ममिथ्यात्वे परस्परव्यावर्तकविशेषणद्वय्या विशेषिते ॥ वैय्यर्थमिति ॥ अनुमानस्य साध्यविधेयकानुमित्येकफलकत्वादिति भावः । सिद्धसाधनमिति ॥ शुक्तौ रूप्यादेरिव प्रपञ्चेऽपि मिथ्यात्वविपर्यासोपगमेनालीकमिथ्यात्वस्य तत्र सम्प्रतिपत्तेरिति भावः ॥ जगदित्यादि ॥ जगत्यात्मदृष्टान्तेन स्वाधिष्ठानकविपर्यासविषयीभूतमिथ्यात्वकत्वेन सत्यत्वसाधनादित्यर्थः । न चेति । आत्मनि प्रकृतसाध्यव्यापकत्वात्पक्षे प्रकृतसाधनाव्यापकत्वाच्चात्मत्वस्योपाधितेत्याशङ्कितुराशयः । सत्यत्वं विनेति । व्याघातवत् ॥ प्रकृतहेतुसाध्ययोर्व्याप्तिग्राहकानुकूलतर्कवत् । व्याघाताभावेन प्रकृतसाध्योपाध्योर्व्याप्तिग्राहकानुकूलतर्काभावेन । अप्रयोजकत्वात् प्रकृतसाध्याव्यापकत्वात् । यद्यपि व्याघातवदित्यन्तमनर्थकम् । व्याघाताभावेनेत्यादिना साध्योपाध्योर्व्याप्तिग्राहकतर्काभावेनैव साध्य-व्यापकत्वाभावेनोपाधित्वाभावस्याध्यवसितत्वात् । तथापि तद्वदेव प्रकृतहेतुसाध्ययोरपि ग्राहकानुकूल-तर्काभावेन सहचारदर्शनमात्रस्य सांशयिकतयोपाधितासन्देहः स्यादिति शङ्काव्युदासकतया सार्थक्यात् । निश्चितोपाधेरिव सन्दिग्धोपाधेरपि वारणीयत्वात् । निरूढं चैतदुपाधिचिन्तामणाविति नेह प्रपञ्चनीयम् ।
मिथ्यात्वस्य भ्रमकालनिर्णीतद्वितीयाभावोपलक्षितब्रह्मस्वरूपत्वोपगमेन निरुपाधिकभ्रमकाल-निर्णीतब्रह्मात्मकतानुपगत्योक्तक्षत्यनवकाश इत्यभिप्रेत्याशङ्कते– न चेति । उक्तक्षतितावदस्थ्यमाह– उपलक्षण इति । उपलक्षणत्वेनोपगतानां शाखास्थूलतारकादीनाम् उपलक्ष्यचन्द्रारुन्धत्याद्यधिगतिफलकत्वं दृष्टम् । प्रकृते चोपलक्षणत्वेनोपगतद्वितीयाभावस्योपलक्ष्याभिमतब्रह्मस्वरूपाधिगतिफलकतोपेयते तदीयविशेषाधिगतिफलकता वेति कल्पद्वयमभिप्रेत्योपलक्षणाभिमतद्वितीयाभावप्रतीत्यौपयिक-तत्पूर्वकालीनप्रतीतिविषयस्य सर्वदा भासमानत्वेनाङ्गीकृताविद्याप्रतीत्यौपयिकतदधिष्ठानाभिमत-सार्वकालिकस्फुरणविषयीभूतस्य च ब्रह्मण उपलक्षणत्वायोगेनाद्यकल्पं, तस्य निर्विशेषत्वोपगमेन द्वितीयं च प्रत्याख्याति– द्वितीयाभावेत्यादि ।
जगत्पक्षीकारेणालीकभूतमिथ्यात्वेन सत्यत्वसाधनेऽनैकान्त्यमाशङ्कते नन्विति । रूप्यमलीक-भूतमिथ्यात्वविशेषितं न मिथ्यात्वविरुद्धाविपर्यस्तसत्यत्वानधिकरणत्वात् । यद्यद्विरुद्धाविपर्यस्त-धर्मानाश्रयस्तत्तदनाश्रयो यथा घटो घटत्वविरुद्धाविपर्यस्तघटभिन्नत्वानाश्रयो अलीकघटत्वानाश्रय इति सनिदर्शनकानुमानेन रूप्यमिथ्यात्वस्य सद्रूपवत्तासिद्ध्या अनैकान्त्यानवकाश इत्याशङ्कते– न चेति । विपर्यस्तरूप्यवृत्तितया भासमाने सत्यत्वमिथ्यात्वे अलीके मिथ्याभूतधर्मिकत्वात् । वन्ध्यासुत-श्यामत्वगौरत्ववत् । स्वाप्नप्रतीतगजतदभावोभयवच्चेत्यनुमानेन रूप्यमिथ्यात्वस्य मिथ्यात्वसिध्याऽ-नैकान्त्यं दुर्वारमेव । वन्ध्यासुतस्य गौरत्वविरुद्धश्यामत्वानाश्रयत्वेऽपि सद्रूपगौरत्वाभावेन, राजम-न्दिरस्य स्वाप्नगजविरुद्धाविपर्यस्ततदभावानाश्रयत्वेऽपि तादृशगजानाश्रयत्वेन सामान्यव्याप्तेर्भङ्गे-नानुमानस्य प्रमाणतया तदवष्ठम्भेनानैकान्त्यस्य दुःसमाधेयत्वादित्याह– धर्मिण इत्यादि । धर्मभूत-रूप्यस्यैव मिथ्यात्वेन तत्र भासमाने सत्यत्वमिथ्यात्वेऽपि अलीके इत्यनैकान्त्याशङ्कायां समाधत्ते प्रतिपन्नेति । मित्रातनयत्वेन श्यामत्वे साध्ये शाकाद्याहारपरिणतिजत्वस्येव साधनावच्छिन्न-साध्यव्यापकं पक्षे साधनाव्यापकं धर्म्यसत्वप्रयुक्तसत्वाभावमुपाधिमभिप्रेत्याह । धर्म्यसत्व इत्यादि । अन्यथेति । विपर्यस्तमिथ्यात्वस्य तत्त्ववादिनयेऽप्युररीकृतत्वादिति भावः ।
अत्राद्वैतसिद्धिकारः । उक्तमिथ्यात्वस्य मिथ्यात्वेऽपि प्रपञ्चसत्यत्वानुपपत्तेः । तत्र हि एकस्मिन् धर्मिणि प्रसक्तयोर्विरुद्धयोर्धर्मयोरेकमिथ्यात्वेऽपरसत्यत्वम् । यत्र मिथ्यात्वावच्छेदकमुभयवृत्ति न भवेत् । यथा परस्परविरहरूपयो रजतत्वतदभावयोः शुक्तौ । यथा वा परस्परव्यापकयो रजत-भिन्नत्वरजतत्वयोस्तत्रैव । तत्र निषेध्यतावच्छेदभेदनियमात् । प्रकृते तु निषेध्यतावच्छेदकमेकमेव दृश्यत्वादि यथागोत्वाश्वत्वयोरेकस्मिन् गजे निषेधे गजत्वात्यन्ताभावव्याप्यत्वं निषेध्यतावच्छेदक-मुभयोस्तुल्यमिति नैकतरनिषेधेऽन्यतरसत्त्वं तद्वत् । यथा च सत्यत्वमिथ्यात्वयोर्न परस्परविरहरूपत्वं न वा परस्परविरहव्यापकत्वं तथोक्तमधस्तात् । परस्परविरहरूपत्वेऽपि विषमसत्ताकयोरविरोधात् । व्यावहारिकमिथ्यात्वेन व्यावहारिकसत्त्वापहारे काल्पनिकसत्वानपहारात्तार्किकमते संयोगतदभाव-वत्सत्यत्वमिथ्यात्वयोः समुच्चयाभ्युपगमाच्च । एकसाधकेनापरस्य बाध्यत्वं विषमसत्ताकत्वे प्रयोजकम् । यथाशुक्तिरूप्यतदभावयोः । एकबाधकबाध्यत्वं च समसत्ताकत्वे प्रयोजकं यथा शुक्तिरूप्य-शुक्तिभिन्नत्वयोः । अस्ति च प्रपञ्चतन्मिथ्यात्वयोरेकब्रह्मज्ञानबाध्यत्वमतः समसत्ताकत्वान्मिथ्यात्व-बाधकेन प्रपञ्चस्यापि बाधान्नाद्वैतहानिरिति जगाद ।
तदतिस्थवीयः । भेदाभावस्य भेदप्रतियोगितावच्छेदकरूपताया आकरनिरूढतया रजतभिन्नत्व-रजतत्वयोरपि परस्परविरहव्यापकत्वोक्तेरयुक्तत्वात् । तन्मतानादरे च द्वितीयाभावस्य प्रथमाभाव-प्रतियोगिस्वरूपतामतस्याप्यनादरणीयतापत्या पूर्वविन्यासासाङ्गत्यप्रसङ्गात् । परस्परविरुद्धयोरित्यत्र सहानवस्थानलक्षणविरोधस्याभिप्रेततायामेव गोत्वाश्वत्वयोरपि विरुद्धतापत्या तदेकतराभावस्यापर-सत्यत्वातिप्रसञ्जकताया गजाधिकरणकात्यन्ताभावप्रतियोगितावच्छेदकीभूतगजत्वात्यन्ताभावव्याप्यत्वस्य गोत्वाश्वत्वोभयसाधारण्येन तादृशापत्त्यनवकाश इति समाहितिर्विधेया । तादृशविरोधस्य ग्रन्थकृदाभि-प्रेतताया एवानुपगतेः । परस्परविरहरूपत्वात्मकविरोधस्य विवक्षायां रजतत्वतदभावयोः सङ्ग्रहेऽपि रजतभिन्नत्वरजतत्वयोरसङ्ग्रहप्रसङ्गेन परस्परविरहव्यापकत्वतद्विवक्षायामभेदे व्याप्यव्यापकभावाभावेन सङ्ग्राह्यमात्रसङ्ग्रहप्रसङ्गेन परस्परप्रतियोग्यनुयोगितावच्छेदकधर्माधर्मतापन्नयोस्तदेकतरधर्मावच्छिन्नाभावे परधर्मावच्छिन्नसत्त्वमिति नियमशरीरेऽपगमे सङ्ग्राह्यानां रजतत्वतदभावरजतभिन्नत्वरजतत्वसत्यत्व-मिथ्यात्वस्वाप्नगजतदभावादीनां सङ्ग्रहसम्भवेन वारणीयानां वन्ध्यासुतश्यामत्वगोत्वाश्वत्वादीनां वारणेन क्षत्यनवकाशात् । घटतदभावसत्यत्वमिथ्यात्वोभयसाधारणस्य दृश्यत्वस्य निषेधप्रतियोगितावच्छेदक-तायाः प्रागेव निरस्तत्वात् । सत्यत्वमिथ्यात्वयोः परस्परविरहरूपतायाः सत्ताभेदसिद्धेर्मिथ्यात्व-सिध्युत्तरकालीनतायाश्च समर्थिततया न्यायनयवद्विरोधभञ्जकावच्छेदकभेदानुपगमेन व्यवस्थाया दुष्करतया एकबाधकबाध्यत्वोक्तेश्च टीकायामेव तत्र तत्र प्रत्याख्याततयाऽलं तन्निराक्रियाभियोगेन ।