०९ तृतीयामिथ्यात्वभङ्गः

नापि ज्ञानत्वेन ज्ञाननिवर्त्यत्वमिति तृतीयः

९. तृतीयामिथ्यात्वभङ्गः

न्यायामृतं

नापि ज्ञानत्वेन ज्ञाननिवर्त्यत्वमिति तृतीयः । अतीतघटादावव्याप्तेः । शुक्ति-ज्ञानेन रूप्यं नष्टमिति कदा(चिदनुभवाभावेन)प्यननुभवेन तत्राप्यव्याप्तेश्च । एतावन्तं कालं शुक्त्यज्ञानमासीद्, भ्रम आसीदित्यनुभवेन शुक्तिवत्सत्ये अज्ञान-भ्रमादौ शुक्तिज्ञानेन तदज्ञानं नष्टमित्यनुभवेन ज्ञानत्वेन ज्ञाननिवर्त्यत्वस्य सत्त्वेनातिव्याप्तेश्च । अपरोक्षाध्यासं प्रति ज्ञानस्यापरोक्षतया निवर्तकत्वेन ज्ञानत्वेनानिवर्तकत्वाच्च ।

ज्ञानत्वव्याप्यधर्मेण ज्ञाननिवर्त्यत्वस्य चेच्छाद्यानिवर्त्ये स्मृतित्वेन स्मृतिनिवर्त्ये संस्कारादावतिव्याप्तेः । अनुभवत्वव्याप्यधर्मेण तन्निवर्त्यत्वस्य च यथार्थस्मृति-निवर्त्यायथार्थस्मृतिविषयेऽव्याप्तेः । भ्रमोत्तरप्रमानिवर्त्यत्वस्य च तत्त्वज्ञानसंस्कार-निवर्त्याज्ञानसंस्कारे अव्याप्तेः । स्वोपादानाज्ञाननिर्वतकज्ञाननिवर्त्यत्वस्य चानाद्य-ध्यासेऽभावात् । लाघवेनाज्ञानोपादानकत्वस्यैव लक्षणत्वापाताच्च । तथा च–

विज्ञाननाश्यता मिथ्यारूप्यादौ नानुभूयते ।

किं त्वधिष्ठानवत् सत्ये तदज्ञानेऽनुभूयते ॥

अद्वैतसिद्धिः

ज्ञाननिवर्त्यत्वं वा मिथ्यात्वम् । ननु– उत्तरज्ञाननिवर्त्ये पूर्वज्ञाने अतिव्याप्तिः, मुद्गर-पातादिनिवर्त्ये च घटादावव्याप्तिः, ज्ञानत्वेन ज्ञाननिवर्त्यत्वविवक्षायामप्ययं दोषः, अधिष्ठान-साक्षात्कारत्वेन निवर्त्ये शुक्तिरजतादौ च ज्ञानत्वेन ज्ञाननिवर्त्यत्वाभावात् साध्यविकलता । ज्ञानत्वव्याप्यधर्मेण ज्ञाननिवर्त्यत्वविवक्षायां ज्ञानत्वव्याप्येन स्मृतित्वेन ज्ञाननिवर्त्ये संस्कारे अतिव्याप्तिरिति चेन्न, ज्ञानप्रयुक्तावस्थितिसामान्यविरहप्रतियोगित्वं हि ज्ञाननिवर्त्यत्वम् । अवस्थितिश्च द्वेधा स्वरूपेण कारणात्मना च, सत्कार्यवादाभ्युपगमात् । तथा च मुद्गरपातेन घटस्य स्वरूपेणावस्थितिविरहेऽपि कारणात्मनाऽवस्थितिविरहाभावाद्, ब्रह्मज्ञानप्रयुक्त एव स इति नातीतघटादावव्याप्तिः । अत एवोत्तरज्ञाननिवर्त्ये पूर्वज्ञाने न सिद्धसाधनम्; न वा वियदादौ ब्रह्मज्ञाननाश्यत्वेऽपि तद्वदेव मिथ्यात्वासिद्ध्याऽर्थान्तरम्; उत्तरज्ञानेन लीनस्य पूर्वज्ञानस्य स्वकारणात्मनावस्थानादवस्थितिसामान्यविरहानुपपत्तेः । शशविषाणादाववस्थितिसामान्यविरहेऽपि तस्य ज्ञानप्रयुक्तत्वाभावान्नातिव्याप्तिः । शुक्तिरजतादेश्चापरोक्षप्रतीत्यन्यथानुपपत्त्या प्रतिभासकाले अवस्थित्यङ्गीकारान्न बाधकज्ञानं विना तद्विरह इति न साध्यविकलता । अत एवोक्तं विवरणाचार्यैःअज्ञानस्य स्वकार्येण प्रविलीनेन वर्तमानेन वा सह ज्ञानेन निवृत्तिर्बाध’ इति । वार्तिककृद्भिश्चोक्तम्–

‘तत्त्वमस्यादिवाक्योत्थसम्यग्धीजन्ममात्रतः ।

अविद्या सह कार्येण नासीदस्ति भविष्यति’ ॥ इति ।

‘सह कार्येण नासी’दिति लीनेन कार्येण सह निवृत्त्यभिप्रायम्, ‘सह कार्येण न भविष्यती’ति तु भाविकार्यनिवृत्त्यभिप्रायमित्यन्यदेतत् । रूप्योपादानमज्ञानं स्वकार्येण वर्तमानेन लीनेन वा सहाधिष्ठानसाक्षात्कारान्निवर्तते । तत्तद्भ्रमोपादानानाम् अज्ञानानां भेदाभ्युपगमादिति न दृष्टान्ते साध्यवैकल्यम्, मुद्गरपातानन्तरं घटो नास्तीति प्रतीतिवदधिष्ठानज्ञानानन्तरं शुक्त्यज्ञानं तद्गतरूप्यं च नास्तीति प्रतीतेः सर्वसंमतत्वात् । ज्ञानत्वव्याप्यधर्मेण ज्ञाननिवर्त्यत्वमित्यपि साधु । उत्तरज्ञानस्य पूर्वज्ञाननिवर्तकत्वं च न ज्ञानत्वव्याप्यधर्मेण? किंत्विच्छादिसाधारणेनोदीच्यात्मविशेषगुणत्वेन उदीच्यत्वेन वेति न सिद्धसाधनादि । नापीच्छाद्यनिवर्त्ये स्मृतित्वेन ज्ञाननिवर्त्ये संस्कारे अतिव्याप्तिः, स्मृतित्वेन स्मृतेः संस्कारनिवर्तकत्वे मानाभावात् । स्मृतौ हि जातायां संस्कारो दृढो भवतीत्यनु-भवसिद्धं तेषां दृढत्वं च समानविषयकसंस्कारानेकत्वादित्यदोषः । वस्तुतस्तु साक्षात्कारत्वेन ज्ञाननिवर्त्यत्वं विवक्षितम्; अतो न पूर्वोक्तदोषः । नापि निश्चयत्वेन ज्ञानत्वव्याप्यधर्मेण ज्ञाननिवर्त्ये संशये अतिव्याप्तिरिति सर्वमवदातम् ।

न्यायामृततरङ्गिणी

॥ अतीतेति ॥ अतीतस्य ज्ञानेन विनैव निवृत्तत्वादित्यर्थः ॥ शुक्तिज्ञानेनेति ॥ तथाच दृष्टान्तः साध्यविकल इत्यर्थः ॥ एतावन्तमिति ॥ ज्ञानत्वेन ज्ञाननिवर्त्यत्वं भ्रमाज्ञानादिवत् सत्यत्वेऽपि प्रपञ्चस्योपपन्नम्, अतोऽर्थान्तरमिति भावः ॥ अपरोक्षेति ॥ तथाचासम्भव इत्यर्थः ॥ ज्ञानत्वव्याप्येति ॥ तथाचापरोक्षत्वेन ज्ञाननिवर्त्यत्वेऽप्युक्तमिथ्यात्वमस्त्येवेत्यर्थः ॥ इच्छाद्यनिवर्त्य इति ॥ तथाच संस्कारादेरिव प्रपञ्चस्य सत्यत्वेऽप्युपपत्तिरित्यर्थः ॥ अनुभवत्वेति ॥ स्मृतावनुभवत्वव्याप्यधर्मस्याभावादित्यर्थः ॥ भ्रमोत्तरप्रमेति ॥ अत्र प्रमात्वं यथार्थज्ञानत्वमात्रम्, नत्वनुभवत्वगर्भम् । तेन यथार्थस्मृतिनिवर्त्येऽयथार्थस्मृतिविषये नाव्याप्तिः ॥ अज्ञानसंस्कार इति ॥ सर्वपदार्थानां संस्काररूपेण विद्यमानत्वस्य परैरङ्गीकृत-त्वादज्ञानस्यापि संस्कारोऽस्ति । स चाज्ञाने निवृत्तेऽपि जीवन्मुक्त्यवस्थायां भिक्षाटनादिप्रवृत्ति-हेतुरनुवर्तमानस्तत्त्वज्ञानसंस्कारेण निवर्तते । अतस्तत्राव्याप्तिरित्यर्थः । स्वोपादानेति ॥ अज्ञानादेरनादेर्योऽध्यासः, तत्राप्युपादानासम्भवादित्यर्थः ॥ लाघवेनेति ॥ अज्ञानस्य स्वं प्रत्युपादानत्वे स्वस्याज्ञानोपादानकत्वं फलितम्, तदेव लक्षणमस्त्वित्यर्थः । संगृह्णाति– विज्ञानेति ॥ मिथ्यारूप्यादौ मिथ्यात्वेनोभयसंमते रूप्यादौ विज्ञाननाश्यता नानुभूयते । अधिष्ठानवत् सत्ये रूप्याज्ञाने विज्ञाननाश्यताऽनुभूयते । तथाच रूप्यादावव्याप्तिः, रूप्याज्ञाने चातिव्याप्तिरित्यर्थः ।

ननु ज्ञाननिवर्त्यत्वं नाम ज्ञानप्रयुक्तावस्थितिसामान्यविरहप्रतियोगित्वम्, । अवस्थितिर्द्वेधा स्वरूपेण कारणात्मना च; सत्कार्यवादाभ्युपगमात् । तथाच मुद्गरपातेन घटस्य स्वरूपेणाव-स्थितिविरहेऽपि कारणात्मनाऽवस्थितिविरहाभावाद् ब्रह्मज्ञानप्रयुक्त एव सः, इति नातीत-घटादावव्याप्तिः । अत एव न पूर्वज्ञाने सिद्धसाधनम् । उत्तरज्ञानेन लीनस्य पूर्वज्ञानस्य स्वकारणात्मनाऽवस्थानादवस्थितिसामान्यविरहानुपपत्तेः । शशविषाणादाववस्थितिसामान्य-विरहेऽपि तस्य ज्ञानप्रयुक्तत्वाभावान् नातिव्याप्तिः । शुक्तिरजतादेश्चापरोक्षप्रतीत्यन्यथानुपपत्त्या प्रतिभासकालेऽवस्थित्यङ्गीकारान् न बाधकज्ञानं विना तद्विरहः, इति न साध्यविकलता । अत एवोक्तं विवरणाचार्यैः– ‘अज्ञानस्य स्वकार्येण प्रविलीनेन वर्तमानेन वा सह ज्ञानेन निवृत्तिर्बाधः’ इति । वार्तिककृद्भिश्चोक्तम् –

‘तत्त्वमस्यादिवाक्योत्थसम्यग्धीजन्ममात्रतः ।

अविद्या सह कार्येण नासीदस्ति भविष्यति ॥’ इति ।

‘सह कार्येण नासीदि’ति लीनेन कार्येण सह निवृत्त्यभिप्रायम् । ‘सह कार्येण न भविष्यती’ति भाविकार्याभिप्रायमित्यन्यदेतत् । रूप्योपादानमज्ञानं स्वकार्येण वर्तमानेन लीनेन वा सहाधिष्ठानसाक्षात्कारान् निवर्तते । तत्तद्भ्रमोपादानानामज्ञानानां भेदाभ्युपगमात्, इति न दृष्टान्ते साध्यवैकल्यम् । ‘मुद्गरपातानन्तरं घटो नास्तीति’ प्रतीतिवद‘धिष्ठानज्ञानानन्तरं शुक्त्यज्ञानं तद्गतं रूप्यं च नास्ती’ति प्रतीतेः सर्वसम्मतत्वात् ।

ज्ञानत्वव्याप्यधर्मेण ज्ञानविवर्त्यत्वमित्यपि साधु । उत्तरज्ञानस्य पूर्वज्ञाननिवर्तकत्वं न ज्ञानत्वव्याप्यधर्मेण, किंत्विच्छादिसाधारणेनोत्तरात्मविशेषगुणत्वेन, इति न सिद्धसाधनादीति । नापीच्छाद्यनिवर्त्ये स्मृतित्वेन स्मृतिनिवर्त्ये संस्कारेऽतिव्याप्तिः । स्मृतेः संस्कारनिवर्तकत्वे मानाभावात् । स्मृतौ हि जातायां संस्कारो दृढो भवतीत्यनुभवसिद्धम् । दृढत्वं च समानविषयकसंस्कारानेकत्वमित्यदोषः ।

वस्तुतस्तु – साक्षात्कारत्वेन ज्ञाननिवर्त्यत्वं विवक्षितम्, अतो न पूर्वोक्तदोषः, नापि निश्चयत्वेन ज्ञानत्वव्याप्यधर्मेण ज्ञाननिवर्त्ये संशयेऽतिव्याप्तिः – इति ॥

अत्रोच्यते । यदुक्तं ज्ञानप्रयुक्तावस्थितिसामान्यविरहप्रतियोगित्वं ज्ञाननिवर्त्यत्वमिति, तत्रावस्थित्या सामान्यं वा विशेष्यते? विरहो वा? आद्येऽवस्थितिसामान्यं कारणात्म-नाऽवस्थितिः, कारणमिति यावत् । ज्ञानप्रयुक्तव्यतिरेकप्रतियोगिकारणकत्वमित्यर्थः स्यात् । तत्र चोत्तरज्ञानप्रयुक्तव्यतिरेकप्रतियोगिपूर्वज्ञानजन्यसंस्कारादौ सिद्धसाधनम् । अनाद्यविद्यादौ च बाधः, कारणशब्देनाविद्योक्तौ चाविद्याकारणकत्वमेवास्तु । शेषवैयर्थ्यात् । अनाद्यविद्यादौ बाधश्च । न द्वितीयः । घटाद्यवस्थितिसामान्यविरहस्य ज्ञानप्रयुक्तत्वं न सम्भवति; विनष्टघटा-द्यवस्थितिविशेषद्वयविरहद्वयस्य ज्ञानप्रयुक्तत्वाभावात् । स्वरूपेणावस्थितिविरहस्य ज्ञान-प्रयुक्तत्वाभावात् । विशेषाभावातिरिक्तसामान्याभावस्य त्वयैवाविद्यावादे निरसिष्यमाणत्वात् । ज्ञानप्रयुक्तविरहप्रतियोग्यवस्थायामवस्थात्वस्यातिप्रसंगेन प्रतियोगितानवच्छेदकत्वाच्च । शुक्ति-रजतादेरवस्थित्यङ्गीकारे स्वरूपेण निषेधोक्त्ययोगाच्च । ‘रूप्यादेः स्वरूपेणैव निषेधः’ इति त्वदभ्युपगतपक्षे रूप्यादेरत्यन्तासत्त्वस्यापादितत्वेन रूप्याद्यभावोऽपि शशविषाणाद्यभाव इव ज्ञानाप्रयुक्त इति दृष्टान्तस्य साध्यवैकल्यमेव । पक्षे बाधश्च ॥

यच्चोक्तम् – ज्ञानत्वव्याप्येत्यादि, तदपि न । तव मते मननत्वादिना ज्ञानत्वव्याप्यधर्मेण मनननिवर्त्येऽर्थगतसंशयविशेषेऽतिव्याप्तेः । तादृशसंशयनिवर्तकत्वेनैव मननस्य सप्रयोजन-त्वोक्तेश्च । ‘उत्तरात्मविशेषगुणत्वेने’त्याद्यपि न युक्तम् । धर्माधर्मादावतिप्रसङ्गात् ॥ यच्चोक्तम् – स्मृतेः संस्कारनिवर्तकत्वं नेति, तन्न । सुखादेर्धर्मादेरिव स्मृतेरपि स्वकारणसंस्कारस्य निवर्तकत्वात् । दृढसंस्कारस्तु स्मृतिजन्योऽन्य एव ॥ यच्चोक्तम् ‘वस्तुतस्त्वि’त्यादि, तदपि न । त्वया प्रत्यक्षस्य शब्दबाध्यत्वमङ्गीकुर्वता ‘नायं सर्पः’ इत्याप्तोपदेशस्यापि सर्पादिभ्रम-बाधकताया उक्तत्वेन साक्षात्कारत्वस्य बाधकतानवच्छेदकत्वादिति ॥

न्यायामृतकण्टकोद्धारः

तृतीयपक्षं निराकरोति – नापीति ॥ अतीतेति ॥ अत्र कश्चित् – ज्ञानत्वप्रयुक्ताव-स्थितिसामान्यविरहप्रतियोगित्वं हि ज्ञाननिवर्त्यत्वम् । अवस्थितिश्च द्वेधा – स्वरूपेण, कारणात्मना च । सत्कार्यवादाभ्युपगमात् । तथा च मुद्गरपातेन घटस्य स्वरूपेणाव-स्थितिविरहेऽपि कारणात्मनाऽवस्थितिविरहाभावाद् ब्रह्मज्ञानप्रयुक्त एव स इति नातीत-घटादावव्याप्तिः – इत्याह, तन्न । एतावता कारणात्मनाऽवस्थितिविशेषविरहस्य ज्ञानत्व-प्रयोज्यत्वेऽपि कार्यात्मना अवस्थितिविशेषविरहस्य ज्ञानत्वप्रयोज्यत्वाभावेनावस्थितिसामान्य-विरहस्य ज्ञानत्वप्रयोज्यत्वाभावेन घटादावव्याप्तितादवस्थ्यात् । किं चात्र विरहशब्देन न प्रागभावात्यन्ताभावौ विवक्षितौ । प्रागभावस्यानादित्वेन प्रतियोग्युत्पादकनाश्यत्वेन चात्यान्ता-भावस्य चानादिनित्यत्वेन तयोर् ज्ञानत्वप्रयोज्यत्वाभावात् । नापि ध्वंसः । तस्यावस्थिति-सामान्यविरहत्वासम्भवात् । सम्भवे वा ज्ञानत्वप्रयोज्यावस्थितिध्वंसप्रतियोगित्वमित्युक्तं भवति । तथा च शुक्तिरूप्येऽव्याप्तिः । अज्ञानभ्रमादौ चातिव्याप्तिः । न हि शुक्तिरूप्यं तत्त्वज्ञानेन नष्टमिति कस्यचिदनुभवः । अस्ति चाज्ञानं भ्रमश्च तत्त्वज्ञानेन नष्ट इत्यनुभवः । किं च शुक्तिरूप्यस्य अवस्थित्याभावेन तद्विरहस्य ज्ञानत्वप्रयोज्यता न सम्भवति । न चापरोक्ष-प्रतीत्यन्यथाऽनुपपत्त्या शुक्तिरूप्यादेरवस्थितिसामान्यमङ्गीकरणीयमिति वाच्यम् । शशविषाणा-देरपि परोक्षप्रतीतिविषयत्वान्यथानुपपत्तेर्वक्तुं शक्यत्वेन तत्रातिव्याप्तेः । किं च ज्ञानत्वस्य भ्रमादिसाधारणत्वेन निवृत्तिप्रयोजकता न सम्भवति । अन्यथा वस्तुत्वस्यापि तत्प्रयोजकता-पत्तेः । तथा चासम्भवीदं लक्षणम् ।

ज्ञानत्वव्याप्यधर्मेणेति ॥ न च स्मृतित्वस्य संस्कारनिवर्तकतावच्छेदकत्वमसिद्धम् । स्मृत्या संस्कारदार्ढ्यस्यैव जायमानत्वादिति वाच्यम् । स्मृतेः संस्कारनाशकत्वाभावे नाश-कान्तराभावेन संस्कारनाशानापत्तेः । संस्कारदार्ढ्यस्य समानविषयकसंस्कारान्तरेणाप्युपपत्तेः । विपरीतोत्तरज्ञाननिवर्त्ये पूर्वविपरीतज्ञानेऽतिव्याप्तेश्च ।

एतेन वस्तुतस्तु साक्षात्कारत्वेन ज्ञाननिवर्त्यत्वं विवक्षितमिति निरस्तम् । साक्षात्कारत्वस्य भ्रमादिसाधारणत्वेन निवर्तकतानवच्छेदकत्वात् । ‘साक्षात्कारेण शुक्तिरूप्यं नष्टमि’त्यननुभवेन ‘अज्ञानभ्रमौ नष्टावि’त्यनुभवेनाव्याप्त्यतिव्याप्त्यापत्तेश्च । भ्रमोत्तरेति ॥ न च भ्रमपूर्व-प्रमानिवर्त्येऽव्याप्तिरिति वाच्यम् । भ्रमसमानाधिकरणविपरीतप्रमानिवर्त्यत्वस्य विवक्षितत्वात् । लाघवेनेति ॥ न च अज्ञानोपादानकत्वमेव विवक्षितमिति वाच्यम् । अज्ञान एवाव्याप्तेः । तस्याप्यज्ञानान्तरोपादानकत्वेऽनवस्था, स्वोपादानकत्वे त्वात्माश्रयः । उक्तमर्थं कारिकया सङ्गृह्णाति– तथा चेति ॥

न्यायामृतप्रकाशः

अतीतेति ॥ ज्ञानेन विना स्वत एव निवृत्तत्वादिति भावः ॥ अव्याप्तेश्चेति ॥ तथाचानुमाने साध्यवैकल्यमिति भावः । लक्षणोपपादनाय शुक्तिज्ञानेन तदज्ञानमित्यादि । इदमुपलक्षणम् । भ्रमश्च नष्ट इत्यनुभवेनेत्यपि द्रष्टव्यम् । नन्वज्ञानभ्रमयोर्मिथ्यात्वेन लक्ष्यत्वान्नातिव्याप्तिरित्यत उक्तम् ॥ एतावन्तमिति ॥ भ्रमरूपज्ञानस्वरूपस्य सत्यत्वेऽपि विषयस्य बाध्यत्वं तु परमते ब्रह्मस्वरूपत्वेन सत्यभूतसाक्षिविषयस्य दुःखादेरिवोपपन्नमिति भावः । लक्षणस्यासम्भवं चाह– अपरोक्षेति ॥ अपरोक्षाध्यास(स्य)निवर्तकतावच्छेदकं ज्ञानेन ज्ञानत्वं शङ्खः श्वेतः शङ्खत्वादित्यानुमानिकविशेष-दर्शनरूपज्ञाने सत्यपि पीतः शङ्ख इत्यपरोक्षभ्रमानिवृत्तेरतिप्रसक्तत्वात् । अतोऽपरोक्षज्ञानत्वमेव वाच्यम् । तथाच मिथ्याभूते अपरोक्षजगदध्यासे केवलज्ञानत्वावच्छिन्ननिवर्तकताकज्ञाननिवर्त्यत्वा-भावादसम्भव इति भावः ॥ ज्ञानत्वव्याप्यधर्मेणेति ॥ तथाचापरोक्षज्ञानत्वस्यापि ज्ञानत्वव्याप्य-धर्मत्वेन ब्रह्मापरोक्षज्ञाननिवर्त्ये जगदपरोक्षाध्यासे नासम्भव इति भावः ॥ स्मृतित्वेनेति ॥ स्मृतित्वस्य ज्ञानत्वव्याप्यधर्मत्वादिति भावः ।

ननु स्मृतौ संस्कारनिवर्तकतावच्छेदकं न स्मृतित्वम् । येन ज्ञानत्वव्याप्यधर्मेण ज्ञाननिवर्त्यत्व-सत्त्वादतिव्याप्तिः स्यात् । किंतूत्तरात्मविशेषगुणत्वमेव । नचेदं ज्ञानत्वव्याप्यधर्मः । अतो लक्षणाभावान्नातिव्याप्तिरिति चेन्न । संस्कारनिवर्तकतावच्छेदकं स्मृतित्वमेव वाच्यम् । नोत्तरात्म-विशेषगुणत्वम् । यद्युत्तरात्मविशेषगुणत्वं संस्कारनिवर्तकतावच्छेदकं स्यात्तर्हि घटानुभवेन संस्कारोत्पत्त्यनन्तरं घटो मे भूयादितीच्छाऽपि कदाचिद्भवति । तथापि संस्कारनिवृत्तिः स्यान्निवर्तक-तावच्छेदकस्योत्तरात्मविशेषगुणत्वस्य तत्रापि सत्त्वात् । नचेष्टापत्तिरिति वाच्यम् । कुत इत्यत उक्तम्– इच्छाद्यनिवर्त्य इति ॥ न च लक्ष्यत्वान्नातिव्याप्तिरिति वाच्यम् । तत्प्रयुक्तो मिथ्यात्व-व्यवहारः स्यादित्यत्र तात्पर्यात् ॥ अनुभवत्वव्याप्यधर्मेणेति ॥ स्मृतित्वस्यानुभवत्वव्याप्यधर्मत्वा-भावान्न संस्कारेऽतिव्याप्तिरिति भावः ॥ यथार्थस्मृतिनिवर्त्येति ॥ यथार्थस्मृतित्वेन यथार्थस्मृति-निवर्त्येत्यर्थः ॥ अव्याप्तेरिति ॥ अयथार्थस्मृतिविषयनिवर्तिकायां यथार्थस्मृतौ अनुभवत्वव्याप्य-धर्माभावादिति भावः ॥

भ्रमोत्तरप्रमेति ॥ अत्र प्रमाशब्दो न यथार्थानुभवपरः । तथात्वे अयथार्थस्मृतिविषये व्याप्त्य-निवारणात् । अतो यथार्थज्ञानमात्रपरः । अत्र यथार्थपदाभावे धारावाहिकभ्रमस्थले पूर्वभ्रमविषये भ्रमोत्तरभ्रमरूपज्ञाननिवर्त्यत्वाभावादव्याप्तिः स्यात् । अतो यथार्थपदम् । भ्रमोत्तरपदाभावे इयं शुक्तिरिति यथार्थज्ञानानन्तरं तत्रैव पुनर्दोषवशादिदं रजतमिति भ्रमरूपं ज्ञानं जायते । तथाच तद्विषये रजते पूर्वतनयथार्थज्ञाननिवर्त्यत्वाभावादव्याप्तिः स्यात् । अतो भ्रमोत्तरपदमिति द्रष्टव्यम् । तथाचायथार्थस्मृत्यनन्तरभाविन्या यथार्थस्मृतेरपि भ्रमोत्तरयथार्थज्ञान(त्वेनत)त्वात्तन्निवर्त्यत्व-मयाथार्थस्मृतिविषयेऽस्तीति नाव्याप्तिरिति भावः ॥ अज्ञानसंस्कार इति ॥ तत्त्वज्ञानेनाज्ञान-निवृत्त्यनन्तरमपि जीवन्मुक्त्यवस्थायामज्ञानसंस्कारोऽस्तीत्यङ्गीकार्यम् । अन्यथा भिक्षाटनादौ प्रवृत्तिर्न स्यात् । सचाज्ञानसंस्कारस् तत्वज्ञानसंस्कारेण निवर्तत इत्यङ्गीकृतम् । तथाच तस्य भ्रमोत्तर-भावितत्त्वज्ञानसंस्कारनिवर्त्यत्वेन प्रमानिवर्त्यत्वाभावादव्याप्तिरित्यर्थः ॥

स्वेति ॥ स्वशब्देनाज्ञानकार्यप्रपञ्चो ग्राह्यः । तदुपादानभूतं यदज्ञानं तन्निवर्तकं यज्ज्ञानं तन्निवर्त्यत्वमित्यर्थः । ‘‘यतो ज्ञानमज्ञानस्य तत्कार्यस्य वा निवर्तक’’मित्यङ्गीकारात् । अस्यापि लक्षणस्य स्वशब्देनाज्ञानसंस्कारस् तदुपादानभूतं यदज्ञानं तस्य जगदुपादानत्वात् । तन्निवर्तकं यत्तत्त्वज्ञानं तन्निवर्त्यत्वं नास्ति । तत्संस्कारनिवर्त्यत्वात् । अतोऽज्ञानसंस्कारेऽव्याप्तिः स्पष्टेति तामनुक्त्वा दूषणान्तरमाह– अनादीति ॥ जीव ईशो विशुद्धा चिद्भेदस् तस्यास्तयोर्द्वयोरित्यादि- वचनेनानादिषु अध्यस्तेष्वविद्यादिषु लक्षणाभावादव्याप्तिः । स्वशब्देनाविद्यादयो ग्राह्याः । तेषां चानादित्वेनोपादानाभावेन तद्धटितलक्षणस्याप्यभावादिति भावः ॥ लाघवेनेति ॥ स्वोपादानेत्यादि लक्षणापेक्षयाऽस्य लघुत्वादनादिपदार्थाव्याप्तेरुभयत्रापि तुल्यत्वादिति भावः । अस्त्विति चेन्न । अज्ञाननिराकरणेन दूष्यत्वात् । सिद्धान्ते अज्ञानशब्दवाच्यप्रकृत्याद्युपादानकत्वाङ्गीकारेण एतादृश-मिथ्यात्वसाधने सिद्धसाधनतेति बोध्यम् । तृतीयलक्षणनिराकरणमुपसंहरति– तथाचेति ॥ नानुभूयते । तथाचाव्याप्तिरिति भावः । अनुभूयते । तथाचातिव्याप्तिरिति भावः ।

न्यायकल्पलता

तृतीयं पक्षं पराकरोति– नापीति । निवृत्तिरत्यन्ताभावो वा ध्वंसो वा । नाद्यः । अत्यन्ता-भावस्यानादित्वेन ज्ञानसाध्यत्वानुपपत्तेः । द्वितीयाभावे हेतुमाह अतीतेति । अतीतस्य घटादेर्वेदान्त-महावाक्यजन्यज्ञानेन विनैव मुद्गरादिना निवृत्तत्वादित्यर्थः । शुक्तिज्ञानेनेति ॥ तथा च दृष्टान्तः साध्यविकल इत्यर्थः । एतावन्तमिति ॥ ब्रह्मज्ञानेतरनिवर्त्येऽपि लक्षणस्य सत्त्वादिव्यर्थः । तथा च भ्रमाज्ञानादिवत् प्रपञ्चस्य सत्त्वेऽपि ज्ञानत्वेन ज्ञाननिवर्त्यत्वस्योपपन्नत्वादर्थान्तरमिति भावः । अपरोक्षेति । अन्यथा श्वैत्यानुमित्या शङ्खे पीतभ्रमनिवृत्यापत्तेः । एवं चासम्भव इत्यर्थः । ज्ञानत्वव्याप्येति । तथा चापरोक्षत्वेन ज्ञाननिवर्त्येऽप्युक्तलक्षणमस्त्येवेति भावः । इच्छाद्यनिवर्त्ये इति ॥ तथा च संस्कारादेरिव प्रपञ्चस्य सत्यत्त्वेऽप्युपपत्तिरित्यर्थः । अनुभवत्वेति ॥ स्मृतावनुभवत्वव्याप्यधर्मस्याभावादित्यर्थः । भ्रमोत्तरप्रमेति ॥ अत्र प्रमात्वं यथार्थज्ञानत्वमात्रं नत्वनुभवत्वगर्भं, तेन यथार्थस्मृतिनिवर्त्येऽ-यथार्थस्मृतिविषये नाव्याप्तिः । अज्ञानसंस्कार इति । सर्वपदार्थानां वासनारूपेण सत्त्वस्य परैरङ्गी-कृतत्वादज्ञानस्यापि संस्कारोऽस्ति । स चाज्ञाने निवृत्तेऽपि जीवन्मुक्त्यवस्थायां (शुकवामदेवादीनां) भिक्षाटनादिप्रवृत्तिहेतुरनुवर्तमानस्तत्त्वज्ञानसंस्कारेण निवर्तते । अतस्तत्राव्याप्तिरित्यर्थः । स्वोपादानेति । अनादेरज्ञानादेर्योऽध्यासस्तत्रोपादानासम्भवादित्यर्थः । लाघवेनेति । अव्याप्तिवारणार्थमज्ञानस्य स्वं प्रत्युपादानत्वे स्वस्याप्यज्ञानोपादानकत्वं फलितमतस्तदेव लक्षणं स्यादित्यर्थः । कारिकया संगृह्णाति । विज्ञानेति । मिथ्यारूप्यादौ मिथ्यात्वेनोभयसम्मते रूप्यादौ । विज्ञाननाश्यता नानुभूयते । अधिष्ठान-समसत्ताके ब्रह्मज्ञानेतरनिवर्त्ये अधिष्ठानाज्ञाने विज्ञाननाश्यता निष्प्रकारकज्ञानेतरज्ञाननिवर्त्यताऽनुभूयते । तथा च रूप्यादौ अव्याप्तिः । सप्रकारकताज्ञाननिवर्त्ये तदधिष्ठानाज्ञाने चातिव्याप्तिरित्यर्थः । न च वेदान्तमहावाक्यजन्यनिष्प्रकारकज्ञाननिवर्त्यत्वमेव तदितिदेश्यम् । अप्रसिद्धविशेषणत्वापातादिति ।

अत्राभिनवाद्वैतवादिनो वदन्ति । ज्ञाननिवर्त्यत्वं नाम ज्ञानप्रयुक्तावस्थितिसामान्यविरहप्रतियोगि-त्वम् । अवस्थितिश्च द्वेधा । स्वरूपेण कारणात्मना च । सत्कार्यवादाभ्युपगमात् । तथा च मुद्गरपातेन घटस्य स्वरूपेणावस्थितिविरहेऽपि कारणात्मनावस्थितिविरहाभावाद्ब्रह्मज्ञानप्रयुक्त एव स इति नातीतघटादावव्याप्तिः । अत एव नोत्तरज्ञाननिवर्त्ये पूर्वज्ञाने सिद्धसाधनम् । न वा वियदादौ ब्रह्मज्ञाननाश्यत्वेऽपि तद्वदेव मिथ्यात्वासिध्याप्यर्थान्तरम् । उत्तरज्ञानेन लीनस्य पूर्वज्ञानस्य स्वकारणात्मनावस्थानादवस्थितिसामान्यविरहानुपपत्तेः । शशविषाणादाववस्थानादवस्थितिसामान्य-विरहेऽपि तस्य ज्ञानप्रयुक्तत्वाभावान्नातिव्याप्तिः । शुक्तिरजतादेश्चापरोक्षप्रतीत्यन्थानुपपत्त्या प्रतिभास-कालेऽवस्थित्यङ्गीकारान् न बाधकज्ञानं विना तद्विरहः, इति न साध्यविकलता । रूप्योपादानमज्ञानं स्वकार्येण वर्तमानेन लीनेन वा सहाधिष्ठानसाक्षात्कारान्निवर्तते । तद्भ्रमोपादानाज्ञानानां भेदाभ्युपगमा-दिति न दृष्टान्ते साध्यवैकल्यम् । मुद्गरपातानन्तरं घटो नास्तीति प्रतीतिवदधिष्ठानज्ञानानन्तरं शुक्त्यज्ञानं रूप्यं च नास्तीति प्रतीतेः सर्वसम्मतत्वात्् । ज्ञानत्वव्याप्यधर्मेण ज्ञाननिवर्त्यत्वमित्यपि साधु । उत्तरज्ञानस्य निवर्तकत्वं च न ज्ञानत्वव्याप्यधर्मेण किन्त्विच्छादिसाधारणेनोत्तरात्मविशेषगुणत्वेनेति न सिद्धसाधनादि । नापीच्छाद्यनिवर्त्ये स्मृतित्वेन ज्ञाननिवर्त्ये संस्कारेऽतिव्याप्तिः । स्मृतेः संस्कारनिवर्तकत्वे मानाभावात् । स्मृतौ हि जातायां संस्कारो दृढो भवति इत्यनुभवसिद्धम् । दृढत्वं समान-विषयानेकत्वमित्यदोषः ।

वस्तुतस्तु साक्षात्कारत्वेन ज्ञाननिवर्त्यत्वं विवक्षितमतो न पूर्वोक्तदोषः । नापि निश्चितत्वेन ज्ञानत्वव्याप्यधर्मेण ज्ञाननिवर्त्ये संशयेऽतिव्याप्तिरिति । एवं प्राप्ते समाधीयते । यत्तावदुक्तं ज्ञान-प्रयुक्तावस्थितिसामान्यविरहप्रतियोगित्वं ज्ञाननिवर्त्यत्वमिति । तदसत् । अवच्छेदकरूपापरिचये अवच्छेद्यप्रतियोगिताया एव परिचेतुमशक्यत्वात् । तथा हि । अवच्छेदकं तत्प्रतियोगिताया न तावदविद्यातत्कार्ययोरन्यतरत्वम् । अनादिजीवब्रह्मविभागादावभावेनावच्छेद्यन्यूनवृत्तित्वात् । अवच्छेद्या-न्यूनानतिरिक्तवृत्तिर्हि धर्मोऽवच्छेदकः । अन्यथा चैत्रीयत्वस्यापि गोवृत्तिलक्ष्यतावच्छेदकत्वापत्तेः ।

नापि तुच्छब्रह्मान्यत्वम् । वाक्याभासादिना शशविषाणादेः स्वरूपेणावस्थितौ प्रतीतायां, शशविषाणं नास्तीत्याप्तवाक्यजज्ञानेन यस्तदवस्थितिविरहस्तत्प्रतियोगिनि शशविषाणे त्वदुक्ता-वच्छेदकधर्माभावात् । न च वाक्याभासात्प्रतीतमनिर्वाच्यमेव तदिति देश्यम् । अधिष्ठानाद्यभावे-नाधस्तादेव व्युदस्तत्वात् । ‘‘अत्यन्तासत्यपि ज्ञानमर्थे शब्दं करोति ही’’ति स्ववाक्यविरोधाच्च । ज्ञानप्रयुक्तविरहप्रतियोग्यवस्थायामवस्थात्वस्यातिप्रसङ्गेन प्रतियोगितानवच्छेदकत्वात् ।

किञ्च । अवस्थित्या सामान्यं विशेष्यते विरहो वा । आद्येऽवस्थितिसामान्यं सत्वसामान्यम् । यावद्विशेषानालिङ्गितसामान्याभावात् । कारणात्मना सत्वरूपावस्थितिः कारणमिति यावत् । ज्ञानप्रयुक्तव्यतिरेकप्रतियोगिकारणत्वमित्यर्थः स्यात् । तत्र चोत्तरज्ञानप्रयुक्तव्यतिरेकप्रतियोगिपूर्वज्ञानजन्ये संस्कारादौ सिद्धसाधनम् । अनाद्यविद्यादौ च बाधः । कारणशब्देनाविद्योक्तौ चाविद्याकारणकत्वमेवास्तु शेषवैय्यर्थ्यात् । अनाद्यविद्यादौ बाधश्च । न द्वितीयः । घटाद्यवस्थितिसामान्यविरहस्य ज्ञानप्रयुक्तत्वं न सम्भवति । विनष्टघटाद्यवस्थितिविशेषद्वयविरहद्वयस्य ज्ञानप्रयुक्तत्वायोगात् (भावात्) । विशेषाभावाति-रिक्तसामान्याभावस्य त्वयैवाविद्यावादे निरशिष्यमाणत्वात् । ज्ञानप्रयुक्तविरहप्रतियोग्यवस्थायामवस्थात्व-स्यातिप्रसङ्गेन प्रतियोगितानवच्छेदकत्वाच्च । शुक्तिरजतादेरवस्थित्यङ्गीकारे स्वरूपेण निषेधोक्त्ययोगश्च । रूप्यादेः स्वरूपेणैव निषेध इति त्वत्कल्पितपक्षे रूप्यादेरत्यन्तासत्वस्यापादितत्वेन रूप्याद्यभावोऽपि शशविषाणाद्यभाव इव ज्ञानाप्रयुक्त इति दृष्टान्तस्य साध्यवैकल्यमेव । पक्षे बाधश्च ।

यदप्युक्तमवस्थितिश्च द्वेधा स्वरूपेण कारणात्मना च । सत्कार्यवादाभ्युपगमादिति । तदपि न । विवर्तवादविरोधात् । ब्रह्मोपादानकत्वे तु निर्विकारत्वविरोधः । ब्रह्मात्मना सत्त्वापाताच्च । अविद्यो-पादानकत्वे तु तस्याः सद्रूपत्वाभावेन तदुपादेयस्य प्रपञ्चस्य सद्रूपत्वानुपपत्तेः । सदधिष्ठानभ्रमरूपत्वस्य च मिथ्यात्वसिध्यधीनत्वेनान्योन्याश्रयात् । यदपि मुद्गरपातानन्तरमित्याद्युक्तं तदपि मन्दम् । घटो ध्वस्त इत्यादिप्रतीतिवच्छुक्तिरूप्यं ध्वस्तमिति लौकिकपरीक्षकप्रत्ययाभावात् ।

यच्चोक्तं ज्ञानत्वव्याप्येत्यादि । तदप्यलेशम् । तव मते मननत्वादिना ज्ञानत्वव्याप्यधर्मेण मनननिवर्त्येेऽर्थगतसंशयविशेषेऽतिव्याप्तिः । तादृशसंशयनिवर्तकत्वेनैव मननस्य सप्रयोजनत्वोक्तेश्च । उत्तरात्मविशेषगुणत्वेनेत्याद्यपि न साधीयः । वेदान्तिब्रुवनये निवर्तकस्य ज्ञानस्येच्छादेश्चान्तःकरण-वृत्तित्वेनात्मविशेषगुणत्वासम्मतेः । धर्माधर्मादावतिप्रसङ्गश्च । यच्चोक्तम् । स्मृतेः संस्कारनिवर्तकत्वं नेति । तदपि न भोगस्य धर्मादेरिव स्मृतेरपि स्वकारणसंस्कारनिवर्तकत्वात् । दृढसंस्कारस्तु तत्स्मृति-जन्यस्तत्समानविषयकप्रमाणान्तरजन्यो वाऽन्य एव । तस्य दृढत्वं तद्विषयशङ्काशून्यत्वं प्रमाणान्तर-संवादहेतुकदार्ढ्यवदित्यवधेयम् ।

यदप्युक्तम् । वस्तुतस्तु इत्यादि । तदप्यसमञ्जसम्् । प्रत्यक्षस्य शब्दबाध्यत्वमभ्युगच्छता त्वया नायं सर्प इत्याद्याप्तोपदेशस्यापि सर्पादिभ्रमबाधकताया उक्तत्वेन साक्षात्कारत्वस्य बाधकतानवच्छेदकत्वात् । निवर्तकत्वाभिमतस्य शाब्दज्ञानस्य साक्षात्कारत्वानुपपत्तेश्च । शब्दस्य साक्षात्कारत्वस्य बाधकता-नवच्छेदकत्वात् । निवर्तकत्वाभिमतस्य शाब्दज्ञानस्य साक्षात्कारत्वानुपपत्तेश्च । शब्दस्य साक्षात्कारा-हेतुत्वात् । अपरोक्षविषयशब्दस्यापरोक्षधीजनकत्वमिति चेत् । न । अदृष्टकल्पनाप्रसङ्गात् । दशमस्त्वमसीति शब्दवत्तत्वमसीति शब्दस्यापरोक्षज्ञानहेतुत्वमस्त्विति चेत् । न । परेण प्रयुक्तस्य युष्मच्छब्दस्यास्मदर्थधीजनकत्वस्य सङ्गतिग्रहणासिद्धत्वेनापरोक्षसमानाकारपरोक्षप्रतीतिजनकतया दृष्टान्ता-सङ्गतेः । अन्यथा घटोऽयमस्तीतिप्रयुक्तस्य वाक्यस्य तथात्वापातात् । किञ्च आत्मनो ऽपरोक्षत्वं किमपरोक्षप्रतीतिविषयत्वमुतापरोक्षचिद्रूपत्वम् । नाद्यः । चैत्रो गामानयतीत्यादिवाक्यस्यापि साक्षात्कार-जनकत्वापातात् । न द्वितीयः । तादृग्रूपस्यात्मन औपनिषदत्वात् । अपि च नेह नानास्ति किञ्चनेति वाक्यजन्यं हि ज्ञानं प्रपञ्चनिवर्तकम् । न च तद्वाक्यप्रतिपाद्योऽर्थोऽपरोक्षः । इहेति पदार्थस्य ब्रह्मण औपनिषदत्वात् । जीवात्मनो वियदादिप्रपञ्चारोपाधिष्ठानत्वायोगात् । ब्रह्मणः सर्ववित्तिविषयत्वाभ्युपगमे पराप्रकाश्यत्वरूपस्वप्रकाशत्वविरोधश्च । विप्रकृष्टातीन्द्रियप्रपञ्चस्याप्रत्यक्षत्वेन योग्यानुपलब्धेरभाव-ग्राहिकाया असत्वात्तत्प्रतियोगिकाभावस्यापरोक्षत्वासम्भवात् । अथ योगिप्रत्यक्षवेद्यतया सर्वमप्यपरोक्ष-मिति ब्रूषे तर्हि अपरोक्षविशेषणवैय्यर्थ्यम् । ननु तत्त्वमसीति वाक्यमेव द्वैतभ्रमनिवृत्तिहेत्वज्ञान-निवृत्तिजनकाधिष्ठानसाक्षात्कारकारणं, नेह नानास्तिकिञ्चिनेति वाक्यं निर्विशेषचिद्रूपत्वप्रतिपादनद्वारा तत्पदार्थशोधकम् अवान्तरवाक्यं परोक्षज्ञानजनकमेवेति चेन् न । शब्दस्यापरोक्षधीजनकत्वस्य निरस्तत्वात् । यः सर्वज्ञ इत्यादिश्रुतिविरोधेन नेह नानेति श्रुतेस्तदनिषेधकत्वात् । श्रुतिविहितस्य श्रुत्या निषेधायोगात् ।

किञ्चैवं प्रपञ्चस्यानित्यत्वसिध्या सिद्धसाधनम् । न च ब्रह्मेतरसर्वानित्यत्वमेेव मिथ्यात्वमिति देश्यम् । विकल्पानुपपत्तेः । तथा हि अनित्यत्वं ध्वंसप्रतियोगित्वं न तु नित्यत्वाभावः । श्रौतज्ञाना-हेतुकत्वप्रसङ्गात् । तत्र ध्वंस आत्मस्वरूपं तदितरो वा । नाद्यस् तत्त्वज्ञानासाध्यत्वापातात् । द्वितीयोऽपि सत्यो मिथ्या वा । आद्ये सदद्वैतमतहानिः । अभावद्वैताभ्युपगमे भावद्वैतेन किमपराद्धम् । प्रमितत्वा-विशेषात् । अखण्डार्थत्त्वभङ्गापत्तिसाम्याच्च । न तृतीयः । औतश्रुतेरतत्वावेदकत्वप्रसङ्गात् । प्रपञ्चोन्मज्जनापाताच्च । तस्मात् त्वदभिमतप्रपञ्चनिवर्तकज्ञानस्य शाब्दतया साक्षात्कारत्वानुपपत्तेर्न तत्र निवर्तकतावच्छेदकसाक्षात्कारत्वमिति उक्तदोषानतिवृत्तिरिति अलं क्षोदीयस्यातिपीडया ।

न्यायामृतसौगन्ध्यं

नापि ज्ञाननिवर्त्यत्वं मिथ्यात्वम् । उत्तरज्ञाननिवर्त्ये पूर्वज्ञानेऽतिव्याप्तेः । मुद्गरपातादिनिवर्त्य-घटादावव्याप्तेश्च । न च ज्ञानत्वेन ज्ञाननिवर्त्यं तत् । अधिष्ठानसाक्षात्कारत्वेन निवर्त्ये शुक्तिरजतादौ ज्ञानत्वेन ज्ञाननिवर्त्यत्वाभावात् साध्यवैकल्यम् । ज्ञानत्वव्याप्यधर्मेण ज्ञाननिवर्त्यत्वविवक्षायां ज्ञानत्वव्याप्येन स्मृतित्वेन ज्ञाननिवर्त्ये संस्कारेऽतिव्याप्तेः ।

ननु ज्ञानप्रयुक्तावस्थितिसामान्यविरहप्रतियोगित्वं हि ज्ञाननिवर्त्यत्वम् । अवस्थितिश्च द्वेधा । स्वरूपेण कारणात्मना च । सत्कार्यवादाभ्युपगमात् । तथाच मुद्गरपातेन घटस्य स्वरूपेणावस्थितिविरहेऽपि कारणात्मनाऽवस्थितिविरहाभावाद् ब्रह्मज्ञानप्रयुक्त एव स इति नातीतघटादावव्याप्तिः । अत एवोत्तर-ज्ञाननिवर्त्ये पूर्वज्ञाने न सिद्धसाधनम् । न वा वियदादौ ब्रह्मज्ञाननाश्यत्वेऽपि तद्वदेव मिथ्यात्वा-सिद्ध्याऽर्थान्तरम् । उत्तरज्ञानेन विनष्टस्य (लीनस्य) पूर्वज्ञानस्य स्वकारणात्मनाऽवस्थानादवस्थिति-सामान्यविरहानुपपत्तेः । शशविषाणादाववस्थितिसामान्यविरहेऽपि तस्य ज्ञानप्रयुक्तत्वाभावाद् नातिव्याप्तिः । शुक्तिरजतादेश्चापरोक्षप्रतीत्यन्यथानुपपत्त्या प्रतिभासकालेऽवस्थित्यङ्गीकारान् न बाधकज्ञानं विना तद्विरह इति न साध्यविकलतेति चेन्न । घटादेरेकावस्थितिविशेषविरहस्य ज्ञानाप्रयुक्तत्वेन घटावस्थितिसामान्य-विरहस्य ज्ञानाप्रयुक्तत्वात् । विशेषाभावातिरिक्तसामान्याभावस्य त्वया निरशिष्यमाणत्वात् ।

न च अवस्थितिसामान्यं कारणात्मनाऽवस्थितिस्तद्विरहश्च ज्ञानप्रयुक्त एवेति वाच्यम् । एवं ज्ञानप्रयुक्तविरहप्रतियोगिकारणकत्वमिति हि लक्षणं स्यात् । तच्चानाद्यविद्यादावव्याप्तम् ।

यत्तु (यद्ज्ञानप्रयुक्तो) ज्ञानप्रयुक्तोऽधिष्ठानतत्त्वज्ञानव्यापको योऽवस्थितिसामान्यस्य स्वस्वीय-संस्कारान्यतरस्य अभावस् तत्प्रतियोगित्वमित्यर्थ इति । तन्न । एवं दण्डादिनिवर्त्यस्य घटाद्यवस्थाविशेषस्य ज्ञानानिवर्त्यत्वेऽपि ज्ञानप्रयुक्तावस्थाविशेषविरहमादायान्यतरत्वेन लक्षणसमन्वयेऽर्थान्तरत्वापत्तेः ।

एतेन या याऽप्रामाण्यज्ञानादिशून्यसाक्षात्कारप्रमा सा सा स्वसमानविषयका ज्ञानलक्षणा वृत्तिः । या या स्वजन्यपटुतमसंस्कारसहितोक्तप्रमा सा सोक्ताज्ञानतत्संस्कारलक्षणा वृत्तिः । सहितान्तोपादानादुक्त-सहितान्यशुक्त्यादिप्रमाया उक्तसंस्कारक्षणवृत्तित्वेऽपि न व्यभिचारः । अत एव जीवन्मुक्तनिष्ठब्रह्मप्रमाऽपि तादृशक्षणवृत्तिः । एवं, या या उक्तप्रमा सा स्वसमानविषयकाज्ञानप्रयुक्ततत्संस्कारवत्कालपूर्वभिन्ना । तथा च तादात्म्येनोक्तप्रमां प्रति स्वाधिकरणक्षणवृत्तित्वसम्बन्धेनोक्ताज्ञानतत्संस्कारान्यतरस्याभावः, उक्ताज्ञान-प्रयुक्ततत्संस्कारान्यतरस्य स्वाधिकरणकालपूर्वक्षणवृत्तित्वसम्बन्धेनाभावश्च व्यापकः । तादृशाभावप्रतियोगि-त्वस्याज्ञानतत्प्रयुक्ततत्संस्कारेषु सत्त्वाद् लक्षणसमन्वयः । तादात्म्येन तादृशप्रमां प्रति स्वसमानविषयकत्वं कालिकत्वं चेति सम्बन्धद्वयेेन अज्ञानतत्संस्कारान्यतरस्याभावः, स्वप्रयोजकाज्ञानसमानविषयकत्वं स्वाश्रय-कालपूर्वत्वं चेति सम्बन्धद्वयेनाज्ञानप्रयुक्ततत्संस्कारान्यतरस्याभावश्च व्यापक इति प्रलापोऽपि अपास्तः । ‘सन् घटः’ इति प्रमाया आपातवेदान्तजन्यप्रमायाश्च त्वन्मते ब्रह्मप्रमात्वेन स्वीकृतायाः स्वसमानविषयका-ज्ञानकालवृत्तित्वेन व्यभिचारात् । विशेष्यताख्यां विषयतामादायैव ज्ञानाज्ञानयोस्समानविषयकत्वं हि त्वया वाच्यम् । न तु समानप्रकारकत्वमादाय । अखण्डार्थकवेदान्तजन्यब्रह्मज्ञानाज्ञानयोस्तदसम्भवात् । तच्चोक्तप्रमयोरप्यस्ति ।

यत्तु घटादिस्वरूपप्रतियोगिकविरहस्य ब्रह्मज्ञानान्यप्रयुक्तत्वेऽपि घटादिसंस्कारप्रतियोगिकोक्ताव-स्थितिसामान्याभावस्योक्तब्रह्मज्ञानान्याप्रयुक्तत्वेन ब्रह्मज्ञानप्रयुक्तत्वं तस्याक्षतमिति । तन्न । तथाहि ज्ञानप्रयुक्तविरहप्रतियोगिकारणकत्वमिति सिद्धम् । तत्र चोत्तरज्ञानप्रयुक्तनाश(व्यतिरेक)प्रतियोगि-पूर्वज्ञानजन्यसंस्कारे सिद्धसाधनम् ।

यत्तु यदि च चरमक्षणे स्वेतरस्येव स्वस्यापि ध्वंसत्वं स्वीक्रियते । एकत्रापि तत्र रूपभेदेन ध्वंस-प्रतियोगित्वानुयोगित्वयोस्सम्भावात् । सकलदृश्यत्वेन हि तत्र प्रतियोगित्वम् । चरमतत्त्वज्ञाना-श्रयतत्क्षणव्यक्तित्वेनानुयोगित्वम् । ‘घटाभावे स नास्ती’त्यादिप्रत्ययबलेन (आश्रमस्वामिनां मते) घटाभावादिप्रतियोग्यनुयोगिकस्यात्यन्ताभावत्वस्येव ‘ज्ञानात् सर्वं दृश्यं नष्टमि’त्यादिप्रत्ययबलेन सर्वदृश्य-प्रतियोगिकस्य चरमक्षणानुयोगिकस्य ध्वंसत्वस्य सम्भवात् । तदा ‘ज्ञानप्रयुक्तावस्थिती’त्यादेर् ज्ञानाधीनो यः स्वस्वीयसंस्कारोभयस्य नाशस् तत्प्रतियोगित्वमर्थस् तन्न । ध्वंसस्य प्रतियोगिकालावृत्तित्वनियमात् । प्रतियोगिप्रागभावयोरिव प्रतियोगिध्वंसयोरभेदोक्तेर् मूकोऽहमितिवद् व्याहतत्वात् । चरमक्षणस्य ध्वंस इतिवत् ‘चरमक्षणः स्वध्वंसः’ इति व्यवहारापत्तेश्च । इष्टापत्तौ जगति व्यवस्थामात्रस्योच्छेदः स्यात् । ‘घटाभावे स नास्ति’ इत्यादि तु सम्यगेव तद्व्याघाताद्यभावात् ।

यत्तु दृश्याधिकरणक्षणव्यापकीभूतात्यन्ताभावप्रतियोगिपूर्वकत्वं, पूर्वत्वं च प्रागभावावच्छिन्नसमयः, दृश्याधिकरणे क्षणे दृश्याधिकरणक्षणपूर्वत्वाभावो दृश्योच्छेद इति । तन्न । दृश्याधिकरणक्षण-वृत्तिध्वंसप्रतियोगित्वरूपपूर्वत्वस्यात्यन्ताभावध्वंसयोर्दृश्ययोर्ध्वंसाद्यभावे हि तेनैव दृश्येन त्वदुक्तं व्याहतं स्यात् । भावे च तेनैव दृश्येनोक्तदूषणं स्यात् । प्रतियोग्युन्मज्जनापत्तेश्च । न च दृश्यमात्रस्य ध्वंसश्चर-मवृत्यात्मकः । वृत्तेरपि ध्वंसत्वेन स्वात्मकध्वंसप्रतियोगित्वमिति वाच्यम् । एकस्य हि पूर्वत्वादिघटित-जन्यजनकत्वे आत्माश्रयादिदोषेण व्याहतेः । न च चरमवृत्तित्वेन जनकत्वम् । दृश्यध्वंसत्वेन जन्यत्वमिति रूपभेदेन नोक्तदोष इति वाच्यम् । रूपभेदेऽप्येकस्यैवोत्तरपूर्वादिवृत्तित्वासम्भवात् । अन्यथा एकस्यैव घटस्य घटत्वेन कार्यत्वं, द्रव्यत्वादिना कारणत्वमिति जगति कार्यकारणभावादिव्यवस्थोच्छिद्येत ।

किञ्चैवं ब्रह्माधिकरणक्षणे ब्रह्माधिकरणक्षणपूर्वत्वाभाव इत्यपि सम्भवेन ब्रह्मणोऽप्युच्छेदापत्तिः । तस्य कालासम्बन्धित्वे तुच्छत्वम् । ‘‘सदेव सोम्येदमग्र आसीत्’’ इत्यादिवाक्याप्रामाण्यं च स्यात् । किञ्च दृश्याधिकरणक्षणे दृश्याधिकरणक्षणवृत्तिध्वंसप्रतियोगित्वाभावस् तत्क्षणस्य नित्यत्वेन तद्ध्वंसस्य तत्क्षणासम्बन्धित्वेन वा स्यात् । तदुभयमप्यसम्भवि ।

एतेन उच्छेदमात्रस्योच्छिद्यमानधर्मत्वात् षट्सु हि जायतेऽस्तीत्यादिभावविकारेषु यास्केन परिगणितेषु चरमस्य तस्य जन्मसामानाधिकरण्यमुचितम् । तथैवानुभवात् । अत एव चिरविनष्टे घटे प्रागेव घटो नष्टो नेदानीमिति प्रत्ययः । ये तु ध्वंसमनुच्छेदस्वभावमभावमिच्छन्ति तेषामुक्तप्रतीतिविरोधो विपरीतप्रत्यया-पत्तिः । ‘णश अदर्शने’ इत्यादिधात्वर्थानुगमः नाश उच्छेद इति भावार्थकघञाद्यनुुपपत्तिश्च स्यात् । भावविकाराणां च न पृथग्भावविकारा यथा गुणानां गुणाः स्वाश्रयात् पृथगसत्त्वाद् अनवस्थापत्तेश्च । एवं च दृश्याधिकरणक्षणे दृश्याधिकरणक्षणपूर्वत्वाभाव एवाधिकरणात्मा चरमदृश्यस्य ब्रह्मसाक्षात्काररूपस्य चरमो विकारो दृश्योच्छेदः । तन्तुदाहस्तदवयवतद्विकाराणामिवाविद्याविश्वचरमवृत्तीनामेक एवाभ्युपगम्यत इति मन्दप्रलपितं निरस्तम् । सान्वयोच्छेदवादिनां षट्स्वित्यादि त्वदुक्तार्थसम्भवेऽपि निरन्वयोच्छेदवादिनस्तव तदसम्भवात् ।

‘अत एवे’ति सम्यगेव । ‘प्रागेव नष्टो घटः’ इत्यादेः प्राक्कालोत्पन्ननाशप्रतियोगी घटः नेदानी-मुत्पन्ननाशप्रतियोगीत्यर्थात् । उच्छेदो भावोऽभावो वेति । उभयथाऽपि पूर्वावस्थाऽदर्शनं तुल्यमेव ।

किञ्च धातूनां ह्यनेकार्थत्वम् । न हि ओष्ठौ भिन्नौ देशान्तरे स्थितस्य घटस्यात्रादर्शनमित्यादावोष्ठौ विदीर्णौ अत्र तद्घटस्य नाश इति व्यवहारोऽस्ति । घञाद्यनुपपत्तिर्नास्त्येव (बाधानुपपत्तिर्वा अस्त्येव) घटस्य नाशः पटस्य ध्वंस इत्यादौ । धात्वर्थतुल्यत्वात् ।

एवं चेत्याद्ययुक्तम् । दृश्यस्य ब्रह्मसाक्षात्कारस्योच्छेदस्य हि किमधिकरणं दृश्यान्तरं वा ? ब्रह्म वा ? आद्ये तस्याप्युच्छेदेन भाव्यमित्यनवस्था । द्वितीये साध्यासाध्ययोस्सापेक्षनिरपेक्षयोरभेदस्यासम्भवात् । स्वप्रकाशरूपस्य तस्य सर्वदैव स्फुरणेन दृश्यस्याधिष्ठानं कदापि न स्यात् । न हि त्वत्प्रलपितषड्-विकाराणामेकस्मिन् काले स्थितिर्दृष्टा । युक्ता वा । ब्रह्मसाक्षात्काररूपदृश्यस्यातिरिक्तोच्छेदका-भावेनोच्छेदोऽपि दुर्लभः । स्वस्य स्वोच्छेदकत्वं चात्माश्रयादिना पराहतम् ।

अत एव अथवा सप्रपञ्चाविद्यायाश्चरमवृत्यात्मक एव चरमो विकारः । तस्य च न विकारापेक्षा इत्यधिष्ठानमात्रपरिशेष इति निरस्तम् । तस्य चरमविकारस्य नित्यत्वापत्तेः । तस्य ज्ञाननिवर्त्यत्वाभावेन त्वदभिमतमिथ्यात्वासिद्धेश्च । तस्य ब्रह्मात्मकत्वे च दोषस्योक्तत्वात् । किञ्च दृश्यमात्रविरोधिचरम-विकारात्मकब्रह्मणा सदैव सत्त्वेन दृश्यस्य सदैवोच्छेदस्स्यात् ।

यत्त्वेवम् परोद्भावितव्याघातानवकाशः । किञ्च सोऽयं व्याघातश्चरमक्षणे ? मुक्तौ वा ? आद्ये त्वदुक्तद्वितीयानभ्युपगमात् । द्वितीये उभयानभ्युपगमाच्च । व्याघातकाप्रसिद्धिः । द्वितीये व्याघात-स्योभयशून्यतापादकस्याद्वैतानुकूल्यं च ।

यदपि प्रतियोग्युन्मज्जनप्रसञ्जनम् । तदपि तुच्छम् । व्याप्तेरप्रसिद्ध्याऽऽपादनासम्भवात् । घटस्य ध्वंसेऽपि तत्प्रागभावानुन्मज्जनेन व्यभिचाराच्चेति । तन्न । त्वद्वाक्याभासस्य दूषितत्वेन व्याघातस्य दृढत्वात् ।

अत एव किञ्चेत्याद्युक्तो विकल्पप्रलापोऽप्यशुद्ध एव । उक्तव्याघातस्याद्वैतानुकूल्ये मूकोऽह-मित्यादिव्याघातस्यापि तदापत्तेः ।

यदपीत्यशुद्धम् । कालत्वस्य हि प्रागभावप्रतियोगिध्वंसान्यतमव्याप्यत्वेन प्रतियोग्युन्मज्जन-स्यावश्यकत्वात् । ‘घटस्य ध्वंसेऽपीत्यशुद्धम् । घटध्वंसोऽपि हि प्रागभावस्य ध्वंसः ।

यत्तु ब्रह्माधिकरणक्षणे इति तदयुक्तम् । निर्विशेषस्याधिकरणाप्रसिद्धेः । यदि च ‘स्वे महिमि्न’ इति श्रुत्या तस्य कालेत्ययुक्तम् । न हि क्षणसम्बन्धाधीनं कस्यचित् सत्त्वम् । प्रतिक्षणं पूर्वपूर्वक्षणध्वंसे जगतः क्षणिकत्वापत्तेः । आकाशेश्वरादीनामनित्यत्वानेकत्वाद्यापत्तेश्च । न्यायनयेऽपि नित्यानां महाकाल-वृत्तित्वानभ्युपगमेनासत्त्वापत्तेः । आत्माश्रयदोषेण महाकालस्यैवासत्त्वापत्तौ तत्सम्बन्धाधीनं जगतः सत्त्वमित्युक्तेः शून्यवादपर्यवसानाच्च ।

दृश्याधिकरण इत्याद्ययुक्तम् । इयमुक्तिर्यदि सामान्यतस्तदधिकरणक्षणे तदधिकरणक्षण-वृत्तिध्वंसप्रतियोगित्वाभावस्तन्नित्यत्वक्षणसम्बन्धिध्वंसप्रतियोगित्वान्यतरमात्रोपपाद्य इति नियमपरा तर्हि स्वाप्नव्याघ्रशुक्तिरजतादिषु व्यभिचारः । तेषां बाधातिरेकेण नाशाप्रसिद्धेरिति । तन्न । तस्य हि कालसम्बन्ध उक्तश्रुत्या बोधितः ।

किञ्च त्वदुक्तो निर्विशेषः प्रमाणगम्यः ? न वा ? नाद्यः (आद्ये) प्रमाणेन सत्यत्वेनैव बोधनात् । द्वितीये तस्यासिद्धिरेव । न हि प्रमाणं विनाऽर्थस्सिद्ध्यति । अन्यथा शशशृृंगादीनामपि सिद्धिः स्यात् । ‘यदिवे’ति श्रुत्या चाधेयान्तरवत् तस्याधाराधीनत्वनिरासात् ।

न हीत्ययुक्तम् । सत्त्वस्य क्षणसम्बन्धाधीनत्वं ह्यस्माभिर्नोक्तम् । किन्त्ववर्जनीयं सम्बन्धमात्रम् । आकाशेश्वरादीत्ययुक्तम् । तेषां महाकालसम्बन्धित्वात् ।

न्यायनये इत्ययुक्तम् । तैर्नित्यानामपि महाकालवृत्तित्वस्वीकारात् । अत एव दीधितिकृता नित्यानां कालासम्बन्धित्वाङ्गीकारेऽस्वरसमुद्भाव्य तेषां कालवृत्तित्वपक्षे प्रतियोग्यनधिकरणहेत्वधिकरणवृत्त्यभाव-प्रतियोगितासामान्ये यद्धर्मावच्छिन्नत्वयत्सम्बन्धावच्छिन्नत्वोभयाभावस् तद्धर्मावच्छिन्नसामानाधिकरण्यं व्याप्तिरिति (लक्षणान्तरमुक्तम्) मतान्तरमुक्तम् । अन्यथा तेषां पूर्वकालवृत्तित्वघटितकारणत्वं न स्यात् ।

आत्माश्रयेत्यशुद्धम् । ‘प्रमेयत्वं प्रमेयम्’ ‘घटाभावो घटो नास्ति’ इत्यादिवत् कालस्सदाऽस्तीति प्रतीत्या कालस्यापि कालसम्बन्धित्वसम्भवात् ।

इयमुक्तिरित्याद्यशुद्धम् (इयं शुक्तिरित्याद्यशुद्धम्) । प्रातिभासिकाधिकरणक्षणेे हि दृश्याधिकरण-क्षणवृत्तिध्वंसप्रतियोगित्वाभावस्तस्य नित्यत्वेन ध्वंसस्य क्षणासम्बन्धित्वेन वोपपाद्य इत्यस्मदुक्तौ त्वत्प्रलापानवकाशात् । किञ्च प्रातिभासिकस्य नाशाप्रतियोगित्वे ज्ञाननिवर्त्यत्वरूपमिथ्यात्वं न स्यात् ।

यच्च अथवा ज्ञानप्रयुक्तो ज्ञानाधीनो योऽवस्थितिसामान्यस्य स्वात्मकसामान्यस्याभावः, तत्प्रति-योगित्वं ज्ञाननिवर्त्यत्वम् । स्वात्मकं च स्वसमानसत्ताकम् । तच्च स्वस्वीयसंस्काररूपस्वीय-परिणामादिरूपमेव । ज्ञानेन हि अज्ञानतत्परिणामादिदृश्यसामान्यस्यात्यन्ताभावः स्वोत्पत्तिद्वितीय-क्षणावच्छिन्ने साध्यते । साध्यता चात्र क्षेमसाधारणी । सत्वाभावः । स्वान्यसर्वदृश्यविरोधी क्षणिक इति । तन्न । अत्यन्ताभावस्य हि स्वप्रतियोग्यादिना दैशिक एव विरोधः । न तु कालिकः । तस्य (त्रैकालिकस्य) साध्यत्वं, क्षणिकत्वं तु त्वत्कपोलकल्पितमेव । किञ्च क्षणिकत्वं स्वोत्पत्तिद्वितीयादिक्षणवृत्तिध्वंस-प्रतियोगित्वम् । तथा च ध्वंसानामेवाधारापत्त्या त्वदभिमतदृश्यमात्रोच्छेदोऽसिद्धः ।

ननु ज्ञानत्वव्याप्यधर्मेणेति असाधु । स्मृतेस्संस्कारनिवर्तकत्वे मानाभावात् । स्मृतौ हि जातायां संस्कारो दृढो भवतीत्यनुभवसिद्धम् । दृढत्वं च समानविषयकसंस्कारानेकत्वमित्यदोषः । वस्तुतस्तु साक्षात्कारत्वेन ज्ञाननिवर्त्यत्वं विवक्षितम् । अतो न पूर्वोक्तदोषः । नापि निश्चयत्वेन ज्ञानत्वव्याप्यधर्मेण ज्ञाननिवर्त्यसंशयेऽतिव्याप्तिरिति चेत् । न । विलक्षणस्मृत्या विलक्षण एव संस्कारोऽनुमीयते । वैलक्षण्यं जातौ । तथा च स्मृत्या पूर्वसंस्कारो नश्यत्येव ।

यत्तु समानविषयकत्वसामानाधिकरण्योभयसम्बन्धेन संस्कारविशिष्टसंस्कारत्वेन तत्समनियतजाति-विशेषेण वा विलक्षणस्मृतिहेतुत्वेऽपि स्मृतेः संस्कारं प्रति नाशकता न कल्प्यते गौरवादिति । तन्न । स्मृतीनां धारापत्तेः । न चोद्बोधकासत्त्वादुच्छेदः । एवं हि अन्वयव्यतिरेकाभ्याम् उद्बोधकैरेव स्मृतिसम्भवे संस्कारानु-भवयोस्स्मृतिकारणत्वविलोपापत्तेः । संस्कारस्य सविषयकत्वोपपादकत्वेन तार्किकैः स्मृतिनाश्यत्वाभ्युप-गमात् । तथाहि अथ भावनाया अदृष्टवन् निर्विषयकत्वमेव युक्तम् । तत्तद्विशेष्यकतत्तत्प्रकारकस्मृतिं प्रति तत्तद्विशेष्यकतत्तत्प्रकारकनिश्चयस्य स्वजन्यभावनासम्बन्धेन हेतुत्वान् नातिप्रसङ्गः ।

यत्तु एवं सति घटांश उपेक्षात्मकाद् भूतलं घटवत् पटवच्च इति निश्चयाद् घटांशेऽपि स्मृतिप्रसङ्गः । स्वजन्यभावनायाश्च पटांशे स्मृत्यनुरोधेन स्वीकारात् । न चोेपेक्षान्यत्वस्य स्मृतिहेतुतावच्छेदकत्वनिवेशान्नायं दोषः । सर्वांशोपेक्षाजन्यानन्तभावनाभयेनोपेक्षान्यत्वेन भावनां प्रत्येव हेतुत्वादिति । तत्तुच्छम् । आंशिकोपेक्षाभेदानां स्मृतिहेतुतावच्छेदके प्रवेशेनैव सामञ्जस्यादिति ।

अत्र नव्याः समानाकारकफलस्य भावनानाशकत्वाद् भावनायास्सविषयकत्वसिद्धिः । न च स्मृतिक्षणोत्पन्नसंस्कारस्य क्षणिकत्ववारणाय फलं स्वस्य वाच्यम् । तथा च तत्तद्व्यक्तित्वेनैव नाशकत्वं युक्तमिति तद्भावनाजन्यचरमफलस्यैव तद्भावनानाशकत्वमस्त्विति वाच्यम् । जनकतया तत्तद्विशेष्यक-तत्तत्प्रकारकस्मृतेः प्रतियोगितया तादृशभावनानाशहेतुत्वस्यानुगतत्वात् । न च तत्पुरुषीयभावनासामान्यनाशं प्रति भावनासामान्यनाशं प्रत्येव वा तत्पुरुषीयचरमस्मृतिव्यक्तेस्तत्त्वेन चरमस्मृतिमात्रस्य वैजात्येन हेतुत्वमिति वाच्यम् । एवं सत्यजनितोपान्त्यात्मकस्मृतिकानां भावनानां सत्त्वोपगमे ताभ्यः स्मृत्युत्पत्तिप्रसङ्गात् । न चोद्धोधकाभावाद् न तथा । सदृशसम्बन्ध्याद्यात्मकयद्यद्व्यक्तिज्ञानादेव यद्यत्पुरुषीयस्य सति संस्कारे यद्यदर्थस्मृतिस्तत्तत्पुरुषीयतत्तदर्थस्मृतौ तत्तद्व्यक्तौ ज्ञानत्वेनैवोद्बोधकत्वेन तस्य तत्र सत्त्वात् । अन्यथोद्बोधकस्यैव विशिष्य स्मृतिहेतुत्वेनानतिप्रसङ्गेऽनुभवस्यापि तद्धेतुत्वं न स्यात् । प्रतिपुरुषं जगति चैक एव नित्यः संस्कारस्स्यात् । नैव वा स्यादतिप्रसङ्गस्योद्बोधकेनैव वारणादित्याहुः ।

ननु स्मरणोत्तरमपि स्मरणोदयेन पूर्वसंस्कारसत्त्वेऽपि न क्षतिरिति चेत् । न । अनुभवानन्तरं यत्रोपेक्षात्मकं स्मरणम्, तदनन्तरं स्मरणवारणाय तन्नाशकत्वावश्यकत्वादित्यन्य इति । वस्तुतस्त्वित्य-युक्तम् । परोक्षप्रमानिवर्त्यपरोक्षभ्रमविषयेऽव्याप्तेः । प्रवृत्तिप्रागभावेऽतिव्याप्तेश्च । उपादानप्रत्यक्षस्य साक्षात्कारत्वेन प्रवृत्तिरूपं तन्नाशं प्रति प्रयोजकत्वात् ।

न च प्रागभावो नाङ्गीक्रियते । तन्नाशत्वेनात्यन्ताभावत्वेन वा प्रयोज्यत्वं निवेश्यत इति वाच्यम् । प्रतियोगिजनकनाश्यप्रागभावस्थानीयावस्थाविशेषस्यावश्यकत्वात् । उक्तरूपेण प्रयोज्यत्वस्यापि सम्भवाच्च ।

किञ्च स्पार्शनादिरूपे शुक्तिसाक्षात्कारे सत्यपि चाक्षुषादिरूपस्य रजतादिभ्रमस्योत्पत्त्या तदिन्द्रियप्रयोज्यरजतादिभ्रमहेत्वज्ञाने तदिन्द्रियप्रयोज्यशुक्त्यादिधीत्वेन शुक्त्याद्यधीनत्वेन निवर्तकत्व-मावश्यकम् । तथा च साक्षात्कारत्वेन न तत् । न च तथा सति वह्न्यादेः स्पार्शनाद्युत्तरं तत्र तदन्यत्व-चाक्षुषाद्यापत्तिः । तत्सामग्य्रां सत्यामिष्टत्वात् । न च ‘यद्विशेषयोः’ इति न्यायेन साक्षात्कारत्वेनापि निवर्तकत्वमावश्यकम् । विशेषकार्यकारणाभावेनैव निर्वाहे सामान्यकार्यकारणभावस्याकल्पनात् । व्याप्यधर्मे व्यापकधर्मस्यान्यथासिद्धत्वाच्च ।

किञ्च सेतुदर्शनादिना सत्यस्यैव दुरितस्य निवृत्तिवद् ज्ञानेन सत्यस्यैव निवृत्तिः स्यात् । न च ‘सेतुं दृष्ट्वा समुद्रस्य ब्रह्महत्यां व्यपोहति’ इत्यादिस्मृत्या सेतुचाक्षुषत्वेनैव तत्र निवर्तकत्वम् । न तु ज्ञानत्वेनेति वाच्यम् । दृशेः साक्षात्कारमात्रवाचकत्वात् । अन्यथा ‘दृष्ट्वैव तं मुच्यते’ इत्यादावपि तथात्वापत्तेः ।

न्यायामृतमाधुरी

अतीतेत्यादि । तस्य ज्ञानाघटितया मुद्गरपातादिघटितसामग्य्रा निवृत्ततया तत्र सामानाधिकरण्येन बाधादित्यर्थः । अव्याप्तेश्चेति । साध्यवैकल्यादित्यर्थः । ज्ञानत्वेन ज्ञाननिवर्त्यत्वस्य ज्ञानत्वा-वच्छिन्नजनकतानिरूपितजन्यताशालिध्वंसप्रतियोगित्वस्य । अतिव्याप्तेश्चेति । अर्थान्तरत्वादित्यर्थः । अनिवर्तकत्वाच्चेति । अवच्छेदकावच्छेदेन बाधादित्यर्थः । ज्ञानत्वव्याप्येत्यादि । तथा च ज्ञानत्वव्याप्यस्मृतित्वावच्छिन्नजनकतानिरूपितजन्यताशालिध्वंसप्रतियोगिनः संस्कारस्येव जगत-स्तथात्वं सत्वेऽप्युपपत्स्यत इत्यर्थान्तरत्वादित्यर्थः ।

अत्र गदाधरः– ‘‘समानाकारस्यैव फलस्य नाशकत्वात्समूहालम्बनादितो नैकैकगोचरक्रमिक-स्मरणानुपपत्तिः’’ इति दीधितिग्रन्थं– ‘‘ननु स्वजन्यस्मरणस्य संस्कारनाशकत्वे स्मृतिसाधारणेन ज्ञानत्वेन स्मृतिहेतुत्वेऽपि घटपटादिरूपनानाविषयावगाहिनाऽनुभवेन जनितस्य तावद्विषयकसंस्कारस्य घटाद्येकैकगोचरस्मरणेनापि विनाशात्तदुत्तरं पटादिस्मरणानुपपत्तिस्तद्विषयकसंस्काराभावात् । स्मृतिजन्यघटादिगोचरसंस्कारस्य च भिन्नविषयतया पटादिस्मारकत्वायोगादित्याशङ्कां निरस्यति समानेति’’ इत्यवतार्य समानाकारस्य अन्यूनाकारस्य, अतः प्रत्येकगोचरनानासंस्कारजनितसमूहा-लम्बनस्मरणेन स्वजनकसकलसंस्कारनाशनिर्वाह इति व्याकृत्य, अथात्र नाशकता यदि स्वजन्यस्वान्यूनविषयकस्मृतित्वेन तदा स्वपदस्य तत्तत्संस्कारव्यक्तिपरताया अवश्यकत्वात्तत्त-व्द्यक्तिभेदेन कारणताबाहुल्यम् । तदुपगमेन तद्व्यक्तित्वेनैव नाशकताया युक्तत्वात् । यदि च प्रतियोगितासम्बन्धेन संस्कारनाशं प्रति जनकत्वानतिरिक्तविषयकत्वोभयसम्बन्धेन स्मृतित्वेन हेतुताजनकतानिवेशात् स्वजन्यसंस्कारस्य स्मृत्या विनाशः । जनकत्वस्थाने तद्घटकपूर्ववृत्तित्वमेव वा निवेश्यम् । न च व्यधिकरणस्मृतेरपि नाशकतापत्तिः । व्यधिकरणस्मृतिं प्रत्यपि संस्कार-स्वरूपयोग्यतया सामानाधिकरण्यनिवेशस्योभयमते आवश्यकत्वान्नियमान्यथासिद्धत्वप्रवेशवैफल्यात् ।

वस्तुतः सामानाधिकरण्यसहितमनतिरिक्तविषयकत्वमेव सम्बन्धः न तु जनकत्वस्य पूर्वकालीन-त्वस्य चानिवेशः । ज्ञानादीनां क्षणिकतावारणाय प्रतियोगितासम्बन्धेन तादृशं प्रति पूर्वत्वसम्बन्धेन नाशस्य सामान्यकारणताया आवश्यकत्वात् तत एव स्वजनकस्मरणेन संस्कारस्य स्वोत्पत्तिद्वितीयक्षणे नाशापत्यनवकाशात्तदानीं च स्मृतेर्विनाशेन ततस्तदुत्तरक्षणेऽपि नाशापत्यसम्भवात् । अनतिरिक्त-विषयकत्वं च स्वावृत्तिविषयिताशून्यत्वं न तु स्वाविषयाविषयकत्वं, प्रमेयत्वादिना सकलप्रमेय-विषयकस्मरणस्याविषयाप्रसिद्धेः संस्कारनाशकतानुपपत्तेः । भावत्वादिना सकलभावविषयकस्मरणाद्घट इत्यादिज्ञानजन्यसंस्कारनाशापत्तेश्चेत्युच्यते । तथापि सम्बन्धमध्ये तत्तत्स्मरणव्यक्तिरूपस्य पदार्थमनन्तर्भाव्यानतिरिक्तविषयकत्वस्यावृत्तिविषयताया अप्रसिध्या दुर्निर्वचत्वेन तत्तद्व्यक्ति-विश्रामस्यावश्यकत्वात् । स्वनिष्ठभेदप्रतियागितावच्छेदकविषयताशून्यत्वरूपानतिरिक्तवृत्तित्वेऽपि भेदे तत्तत्स्मृतिव्यक्तिनिष्ठत्वमावश्यकम् । अन्यथाऽवच्छेदकत्वान्तस्य विषयतायामव्यावर्तकतापत्तिरिति चेत्सत्यम् । तत्प्रकारकतद्विशेष्यकसंस्कारनाशं प्रति तत्प्रकारकतद्विशेष्यकस्मृतित्वेन कारणता कार्यस्य सम्बन्धः, प्रतियोगिता कारणस्य पूर्ववृत्तित्वसहितं तदसहितं वा सामानाधिकरण्यं तद्विषयकान्यनाशं प्रति तद्विषयकसंस्कारभेदेऽपि प्रतियोगिप्रत्यासन्नो हेतुः । अतो घटत्वप्रकारकघटविशेष्यक-समूहालम्बनात्मकस्मृत्या यथा समूहालम्बनात्मकस्तत्प्रकारकस्तद्विशेष्यकसंस्कारो नाश्यते तथा समूहालम्बनात्मकसंस्कारोऽपि नाश्यतां, अन्यविषयकस्मृतिविरहस्यैतद्विषयकस्मृतिघटितसामग्रीविरहा-प्रयोजकत्वादिति दूषणस्य नावकाशः । समूहालम्बनानात्मकतद्विषयकसंस्कारनाशप्रयोजकसामाग्य्रा अन्यविषयकसंस्कारभेदरूपकारणकूटघटितत्वात् । समूहालम्बनात्मकसंस्कारनाशप्रयोजकसामग्य्रा अन्यविषयकस्मृतिघटितत्वात्समूहालम्बनसंस्कारे च तादृश्या अपि कस्या अपि सामग्य्रा उक्त-स्थलेऽसत्त्वात् । न चैवमपि गोत्वाभाववान् गोत्वाभाव इत्यादिज्ञानजन्यसंस्कारस्य गोत्वाभाव इत्याकारकस्मरणाद्विनाशापत्तिः । तादृशसंस्कारनाशे तादृशस्मृतिसहकारिणां यावत्तदविषयकसंस्कार-भेदस्य च तदसहकारित्वात् । गोत्वाभावादिनिष्ठतत्सम्बन्धस्यापि तत्स्वरूपतया तादृशस्मृतिनाश्य-संस्कारविषयत्वेन तद्विषयकसंस्कारभेदस्यापि तादृशस्मृत्यसहकारित्वादिति वाच्यम् । तत्प्रकारकान्य-संस्कारनाशे तत्प्रकारकभेदत्वेन हेतुताया उपगम्यतया गोत्वाभाव इत्यादिस्मृतिनाश्यसंस्कारसाधारणस्य गोत्वाभावादिप्रकारकसंस्कारभेदस्य तादृशस्मृतिसहकारितया गोत्वाभाववान् गोत्वाभाव इत्यादिधीजन्यसंस्कारे तादृशभेदासत्वेनापत्त्यभावात् । द्रव्यत्वादिना घटादिविषयकसंस्कारस्य तेन रूपेण घटादिमात्रविषयकस्मृतितो विनाशवारणाय तत्तद्विशेष्यकसंस्कारनाशे तत्तद्विशेष्यक-संस्कारभेदस्य हेतुत्वमपि वाच्यम् । एवं समानप्रकारकसमानविशेष्यकनानासंसर्गावगाहिसंस्कारस्यैक-मात्रतत्संसर्गकस्मृतितो विनाशवारणाय तत्तत्संसर्गकसंस्कारनाशे तत्संसर्गकसंस्कारभेदस्यापि हेतुता बोध्या । संस्कारनाशं प्रति तादात्म्यसम्बन्धेन संस्कारहेतुत्वेनाप्येकहेतुता कल्पनीया । अतः संस्कारनाशकसामग्य्रा नादृष्टादिसाधारण्यम् । केचित्तु समूहालम्बनजन्यघटपटादिसंस्कारा भिन्नभिन्ना एव । संस्कारयौगपद्ये क्षतिविरहात् । तथा च स्ववृत्तिविषयतावत्वस्यापि स्मृतिनिष्ठनाशजनक-तावच्छेदकप्रत्यासत्तिघटकत्वोपगमाद् घटादिस्मृत्या न पटादिसंस्कारविनाशनम् । तस्य तत्स्मृति-वृत्तिघटादिविषयितावत्वाभावादित्युत्तरकाले पटादिस्मरणनिर्वाहः ।

एवं घटवद्भूतलमित्यादिविशिष्टज्ञानाद् घट इत्यादिस्मृतिनिष्ठप्रत्येकपदार्थविषयिताशून्या एव विशिष्टगोचरसंस्कारा उपगम्यन्ते । तेन च तादृशस्मृतितो विनश्यन्ति । तत्र तादृशस्मृतिनिष्ठ-विषयितावत्वविरहात् । अत उत्तरकालं विशिष्टस्मृतिनिर्वाहः । घट इत्यादिस्मृतेरपि घटादिविषयक-संस्कारत्वावच्छिन्नविशिष्टसंस्कारफलतया तद्व्यावर्तनाय फलस्य समानाकारताकथनसङ्गतिरित्याहु-रित्यादिना संस्कारस्मरणयोर्निवर्त्यनिवर्तकभावं व्यचीचरदित्यलं प्रपञ्चेन ।

यथार्थस्मृतिनिवर्त्येति । परदिशैवेदम् । स्वमते तस्यालीकत्वेन निवृत्यनुपगतेः । भ्रमोत्तर-प्रमेति । प्रमात्वमत्रानुभवत्वाघटितं सामानाधिकरण्यप्रत्यासत्या तत्तद्विशेष्यकत्वावच्छिन्नतत्प्रकारकत्व- विशेषितज्ञानत्वरूपमेव । तेन नोत्पत्यनन्तरोक्ताव्याप्तिप्रसङ्गः । अज्ञानसंस्कार इति । पररीत्येदम् । उक्तार्थं विनेयान् ग्राहयितुं सङ्गृह्णाति– विज्ञानेति । तथा च दृष्टान्ते साध्यवैकल्यं पक्षे अर्थान्तरत्वं चेत्याशयः ।

अत्राद्वैतसिद्धिकारः । ज्ञानप्रयुक्तावस्थितिसामान्यविरहप्रतियोगित्वं हि ज्ञाननिवर्त्यत्वम् । अवस्थितिश्च द्वेधा । स्वरूपेण कारणात्मना च । सत्कार्यवादाभ्युपगमात् । तथा च मुद्गरपातेन घटस्य स्वरूपेणावस्थितिविरहेऽपि कारणात्मना अवस्थितिविरहाभावाद्ब्रह्मज्ञानप्रयुक्त एव स इति नातीतघटादावव्याप्तिः । अत एव नोत्तरज्ञाननिवर्त्ये पूर्वज्ञानेऽपि सिद्धसाधनम् । न वा वियदादौ ब्रह्मज्ञाननाश्यत्वेऽपि तद्वदेव मिथ्यात्वासिध्या अर्थान्तरता । उत्तरज्ञानेन लीनस्य पूर्वज्ञानस्य स्वकारणात्मनावस्थानादवस्थितिसामान्यविरहानुपपत्तेः । शशविषाणादाववस्थितिसामान्यविरहेऽपि तस्य ज्ञानप्रयुक्तत्वाभावान्नातिव्याप्तिः । शुक्तिरजतादेश्चापरोक्षप्रतीत्यन्यथानुपपत्या प्रतिभासकालेऽव-स्थित्यङ्गीकारान्न बाधकज्ञानं विना तद्विरह इति न साध्यविकलता । अत एवोक्तं विवरणाचार्यैः ‘‘अज्ञानस्य स्वकार्येण प्रविलीनेन वर्तमानेन वा सह ज्ञानेन निवृत्तिर्बाध’’ इति । वार्तिक-कृद्भिश्चोक्तम् । ‘‘तत्त्वमस्यादिवाक्योत्थसम्यक्धीजन्ममात्रतः । अविद्या सह कार्येण नासीदस्ति भविष्यति’’ इति । सहकार्येण नासीदिति लीनेन कार्येण सह निवृत्त्यभिप्रायम् । सहकार्येण न भविष्यतीति तु भाविकार्यनिवृत्यभिप्रायमित्यन्यदेतत् । रूप्योपादानमज्ञानं स्वकार्येण वर्तमानेन लीनेन वा सहाधिष्ठानसाक्षात्कारान्निवर्तते । तत्तद्भ्रमोपादानानामज्ञानानां भेदाभ्युपगमादिति न दृष्टान्ते साध्यवैकल्यम् । मुद्गरपातानन्तरं घटो नास्तीति प्रतीतिवदधिष्ठानज्ञानानन्तरं शुक्त्यज्ञानं तद्गतरूप्यं च नास्तीति प्रतीतेः सर्वसम्मतत्वात् । ज्ञानत्वव्याप्यधर्मेण ज्ञाननिवर्त्यत्वमित्यपि साधु । उत्तरज्ञानस्य पूर्वज्ञाननिवर्तकत्वं च न ज्ञानत्वव्याप्यधर्मेण किन्त्विच्छादिसाधारणेनोदीच्यात्मविशेषगुणत्वेनोदीच्यत्वेन वेति न सिद्धासाधनादि । नापीच्छाद्यनिवर्त्ये स्मृतित्वेन ज्ञाननिवर्त्ये संस्कारेऽतिव्याप्तिः । स्मृतित्वेन स्मृतेः संस्कारनिवर्तकत्वे मानाभावात् स्मृतौ हि जातायां संस्कारो दृढो भवतीत्यनुभवसिद्धम् । तेषां दृढत्वं च समानविषयकसंस्कारानेकत्वमित्यदोषः । वस्तुतस्तु साक्षात्कारत्वेन ज्ञाननिवर्त्यत्वं विवक्षितम् अतो न पूर्वोक्तदोषः । नापि निश्चयत्वेन ज्ञानत्वव्याप्यधर्मेण ज्ञाननिवर्त्ये संशयेऽतिव्याप्तिरिति सर्वमवदातमिति बभाषे ।

ज्ञानप्रयुक्तेत्यादि ज्ञानप्रयुक्तोऽधिष्ठानतत्त्वज्ञानव्यापको योऽवस्थितिसामान्यस्य स्वस्वीयसंस्कारा-न्यतरस्याभावस्तत्प्रतियोगित्वमित्यर्थः । या या अप्रामाण्यज्ञानादिशून्यसाक्षात्कारप्रमा सा स्वसमान-विषयकाज्ञानक्षणावृत्तिर्या या स्वजन्यपटुतमसंस्कारसहितोक्तप्रमा सोक्ताज्ञानतत्संस्कारक्षणावृत्तिः । सहितान्तोपादानादुक्तसहितान्यशुक्त्यादिप्रमाया उक्तसंस्कारक्षणवृत्तित्वेऽपि न व्यभिचारः । अत एव जीवन्मुक्तनिष्ठब्रह्मप्रमाऽपि तादृशक्षणवृत्तिः । या योक्तप्रमा सा स्वसमानविषयकाज्ञानप्रयुक्त-तत्संस्कारवत्कालपूर्वभिन्ना । तथा च तादात्म्येनोक्तप्रमां प्रति स्वाधिकरणक्षणवृत्तित्वसम्बन्धेनोक्ता-ज्ञानतत्संस्कारान्यतरस्याभावः । उक्ताज्ञानप्रयुक्ततत्संस्कारान्यतरस्य स्वाधिकरणकालपूर्वक्षणवृत्तित्व-सम्बन्धेनाभावश्च व्यापकः । तादृशाभावप्रतियोगित्वस्याज्ञानतत्प्रयुक्ततत्संस्कारेषु सत्त्वाल्लक्षण-समन्वयः । तादात्म्येन तादृशप्रमां प्रति स्वसमानविषयकत्वं कालिकत्वं चेति सम्बन्धद्वयेनाज्ञान-तत्संस्कारान्यतरस्याभावः स्वप्रयोजनकाज्ञानसमानविषयकत्वं स्वाश्रयकालपूर्वत्वं चेति सम्बन्धद्वयेना-ज्ञानप्रयुक्ततत्संस्कारान्यतरस्याभावश्च व्यापक इति तु निष्कर्षः । तथा च घटादिस्वरूपप्रतियोगिक-विरहस्य ब्रह्मज्ञानान्यप्रयुक्तत्वेऽपि घटादिसंस्कारप्रतियोगिकस्योक्तावस्थितिसामान्याभावस्य ब्रह्म-ज्ञानान्याप्रयुक्तत्वेन ब्रह्मज्ञानप्रयुक्तत्वं तस्याक्षतमिति भावः । यदि च चरमक्षणे स्वेतरस्येव स्वस्यापि ध्वंसवत्वं स्वीक्रियते । एकत्र तत्र रूपभेदेन ध्वंसत्वं प्रति प्रतियोगित्वानुयोगित्वयोः सम्भवात् । सकलदृश्यत्वेन हि तत्र प्रतियोगित्वं चरमतत्वज्ञानाश्रयतत्क्षणव्यक्तित्वेनानुयोगित्वं घटाभावे स नास्तीत्यादि प्रत्ययबलेनाश्रमस्वामिनां मते घटाभावादिप्रतियोग्यनुयोगिकस्यात्यन्ताभावत्वस्येव ज्ञानात्सर्वं दृश्यं नष्टमित्यादिप्रत्ययबलेन सर्वदृश्यप्रतियोगिकस्य चरमक्षणानुयोगिकस्य ध्वंसस्य सम्भवात् । तदा ज्ञानप्रयुक्तावस्थितीत्यादेर्ज्ञानाधीनो यः स्वस्वीयसंस्कारोभयस्य नाशस्तत्प्रति-योगित्वमर्थः ।

अथवा ज्ञानप्रयुक्तावस्थितीत्यादेरयमर्थः । अज्ञानप्रयुक्ततत्संस्कारान्यतरस्य पूर्वोक्तसम्बन्धद्वयेन योऽत्यन्ताभावा(वोऽज्ञाना)धीनस्तत्प्रतियोगित्वं ज्ञाननिवर्त्यत्वमिति । पूर्वमते नाशस्येवै-तन्मतेऽत्यन्ताभावस्य ज्ञानसमानकालीनस्यापि ज्ञानाधीनत्वं, तत्त्वज्ञानादज्ञानप्रयुक्तमुच्छिद्यते । सर्वदृश्यमुच्छिद्यत इति प्रत्ययात् ।

अथवा ज्ञानप्रयुक्तो ज्ञानाधीनो योऽवस्थितिसामान्यस्य स्वात्मकसामान्यस्याभावस्तत्प्रतियोगित्वं, स्वात्मकं च स्वसमसत्ताकं ग्राह्यम् । तच्च स्वस्वीयसंस्काररूपस्वीयपरिणामादिरूपमेव । ज्ञानेन हि अज्ञानतत्परिणामादिदृश्यसामान्यस्यात्यन्ताभावः स्वोत्पत्तिद्वितीयक्षणावच्छिन्नः साध्यते । साध्यता च तत्र क्षेपसाधारणी । स चाभावः स्वान्यसर्वविरोधी क्षणिक इति व्याख्या, तदेतद्व्याख्याचतुष्टयं दर्शितमित्यन्तेन ब्रह्मानन्दस्तद्ग्रन्थं चतुर्धा व्याचकार, तत्राद्या व्याख्या तावन्न साधीयसी । वादिप्रतिवाद्युभयदिशा साध्यवत्वेन सम्प्रतिपद्यमानं हि निदर्शनम् । प्रकृते शुक्तिरूप्येऽद्वैतिदिशा कथञ्चित्साध्यवत्तासङ्गमनेऽपि जगत्सत्यमाचक्षाणस्यालीकख्यातिवादिनोऽन्याथाख्यातिवादिनश्च प्रतिवादिनो मते तस्याज्ञानतत्प्रयुक्ततत्संस्कारान्यतमरूपतानुपगत्या तद्दिशा तत्र साध्यस्य दुःसङ्गमत्वात् । महानसे काञ्चनमयवह्नित्वावच्छिन्नभ्रान्तिमतः पर्वते धूमेन तदवच्छिन्नसाधनदशायां वह्नौ काञ्चनमयत्वाभावस्याधिगन्ता साध्ये साध्यतावच्छेदकाभावरूपसाध्याप्रसिध्युद्भावनेन तं न गृह्णीयात् । वनमालिमिश्रीये तु दण्डादिनिवर्त्यस्य घटाद्यवस्थाविशेषस्य ज्ञानानिवर्त्यत्वेऽपि ज्ञानप्रयुक्तावस्थाविशेषविरहमादायान्यतरत्वेन लक्षणसमन्वयेऽर्थान्तरत्वापत्तेः । सन् घट इति प्रमाया आपातवेदान्तजन्यप्रमायां च त्वन्मते ब्रह्मप्रमात्वेन स्वीकृतायाः स्वसमानविषयकाज्ञानकालवृत्तित्वेन व्यभिचारात् । विशेष्यताख्यविषयतामादायैव ज्ञानाज्ञानयोः समानविषयत्वं हि त्वया वाच्यं न तु समानप्रकारकत्वमादाय । अखण्डार्थकवेदान्तजन्यब्रह्मज्ञानाज्ञानयोस्तदसम्भवात् । तच्चोक्तप्रमयो-रप्यस्तीति स्थितम् । ज्ञानप्रयुक्तव्यतिरेकप्रतियोगिकारणकत्वमर्थः स्यात् । तत्र चोत्तरज्ञान-प्रयुक्तव्यतिरेकप्रतियोगिपूर्वज्ञानजन्ये संस्कारादौ सिद्धसाधनम् । अनाद्यविद्यादौ च बाध इति तु तरङ्गिण्याम् । द्वितीयव्याख्याऽपि तादृश्येव । न हि सन्तं प्रपञ्चमभिदधानावलीकख्यातेरन्यथा-ख्यातेश्चोपगन्तारौ प्रतिवादिनौ शुक्तिप्रमयाऽध्यस्तस्य ध्वंसमङ्गीकुर्वाते । येन तद्दिशा साध्यसङ्गमनमिह निदर्शने स्यात् । एतेन तृतीयतुरीये अपि व्याख्ये दर्शिताशेषक्षतितादवस्थ्येन प्रत्याख्यातप्राये । शिष्टांशदूषणानि निबन्धान्तरे प्रपञ्चितानीतीहोपरम्यते ।

ज्ञानत्वव्याप्येत्याद्यपि न साधीयस् तादृशमननत्वस्य संशयविशेषनिवर्तकतावच्छेदकताया-स्तदाकरनिरूढत्वात् । उदीच्यात्मविशेषगुणत्वेनोदीच्यत्वेन वेति तु न्यायनयानाकलननिबन्धनम् । धर्माधर्मादेर्नाशकतावारणाय शब्दसङ्ग्रहाय च योग्यविभुविशेषगुणत्वस्यैव निवर्तकतावच्छेदकतायास्तत्र समर्थनात् । स्मृतेः संस्कारनिवर्तकत्वे मानाभावादिति तु वैय्यात्यमात्रविलसितम् । धर्माधर्मादेः फलनाशतेव संस्कारस्यापि फलनाश्यतायाः प्राक् सप्रपञ्चं दीधितिकाराद्युक्तदिशा समर्थितत्वात् । दृढत्वं च समानविषयकसंस्कारानेकत्वमित्यदोष इति त्वनाकरमेव । जायते च पुनः पुनः स्मरणाद् दृढतरः संस्कार इति दीधितिकारादिभिः पूर्वसंस्कारनाशस्य विलक्षणसंस्कारोत्पादस्य चोपगत्या समानविषयकसंस्कारयौगपद्यस्य निष्प्रमाणत्वात् । तथा च समानविषयकत्वसामानाधिकरण्योभय-सम्बन्धेन संस्कारविशिष्टसंस्कारत्वेन तत्समनियतजातिविशेषेण वा विलक्षणस्मृतिहेतुत्वे स्वीकृतेऽपि स्मृतेः संस्कारनाशकता न कल्प्यते गौरवादिति भाव इति ब्रह्मानन्दीयं तदाशयोपवर्णनमुदाहृताकारा-नवमर्शनियन्त्रितम् । स्वसमयपरिपालनाभिनिवेशवशमनादरणीयमेव । संस्कारस्य फलीभूत-स्मृत्यनाश्यत्वे ‘‘न च स्मृतिधारापत्तिरित्याशङ्क्योद्बोधकविच्छेदादिति’’ ब्रह्मनन्दीया समाहितिर-न्योन्याश्रयस्य नव्यनैय्यायिकमतस्य चानुसन्धाननिबन्धना । संस्कारस्य फलानाश्यत्वे सिद्धे स्मृतिधारानुत्पादो ह्यननुगतोद्बोधकासमवधाननिबन्धः सिध्यति सिद्धे तदनुत्पादनस्य तन्निबन्धनत्वे तत्सिद्धिरित्यन्योन्याश्रयात् । नव्यनैय्यायिकमतं तु प्राक् दर्शितमेव । वस्तुतस्त्वित्यप्यपेशलम् । साक्षात्कारत्वस्य निवर्तकत्वावच्छेदकत्वोपगतिर्नायं भुजङ्ग इत्याद्याप्तवाक्याधीनान्वयबुद्धेरपि रज्जुखण्डधर्मिकचाक्षुषभुजङ्गभ्रमबाधकतामुपगच्छतां चिरन्तनानां सिद्धान्तविस्मृतिनिबन्धनत्वात् ।

अत्र ब्रह्मानन्दः । न च तथापि प्रवृत्तिप्रागभावेऽतिव्याप्तिः । उपादानप्रत्यक्षस्य साक्षात्कारत्वेन प्रवृत्तिरूपतन्नाशं प्रति प्रयोजकत्वादिति वाच्यमित्याशङ्क्य प्रागभावस्यानङ्गीकारात्, नाशत्वे-नात्यन्ताभावत्वेन प्रयोज्यतानिवेशाद्वेति समादधे च । स स्थूलदृश्वा । उपादानप्रत्यक्षस्य प्रवृत्तिं प्रतीष्टसाधनताज्ञानविधया स्मृत्यनुमित्यन्वयधीसाधारणसमीहितसाधनताज्ञानत्वेनैव हेतुतया साक्षात्कारत्वस्य तत्तज्जनकतानवच्छेदकतया तच्छङ्कानवकाशात् । प्रागभावस्यानङ्गीकरादित्युक्ते-श्चतुर्थकल्पीयस्य प्रागभावसत्वेनोपादानत्वाविरोधाच्चेति ग्रन्थस्याननुसन्धाननिबन्धनत्वात् । न हि स्वरीत्या उपादानत्वानुपपत्तिनिरासतात्पर्यकस्य तादृशग्रन्थस्य मतान्तराभिप्रायकता युज्यते । वनमालिमिश्रस्तु प्रतियोगिजनकनाश्यप्रागभावस्थानीयावस्थाविशेषस्यावश्यकत्वाद् उक्तरूपेण प्रयोज्यत्वस्यापि सम्भवाच्चेत्याह ।

ननु स्पार्शनादिरूपे शुक्त्यादिसाक्षात्कारे सत्यपि चाक्षुषादिरूपस्य रजतादिभ्रमस्योत्पत्या तदिन्द्रियप्रयोज्यरजतादिभ्रमहेत्वज्ञाने तदिन्द्रियप्रयोज्यशुक्त्यादिधीत्वेन निवर्तकत्वमावश्यम् । तथा च साक्षाकारत्वेन न तदिति चेदित्याशङ्कमानो व्याकुर्वाणस्तथासति वह्न्यादेः स्पार्शनाद्युत्तरं तत्र तदन्यत्वचाक्षुषाद्यापत्तेः । तस्या इष्टत्वे अनुभवविरोधात् । क्वचिद्भिन्नेन्द्रियजन्यज्ञानस्यानिवर्तकत्वं तु तत्राप्रामाण्यज्ञानात्समानेन्द्रियत्वान्तर्भावेन निवर्तकत्वस्वीकारेऽपि यद्विशेषयोरिति न्यायेन साक्षात्कार-त्वेनापि निवर्तकत्वस्वीकाराच्चेति समाहितवान् । तदाकरविरुद्धम् । न च भ्रमसंशयोत्तरप्रत्यक्षं प्रति विशेषदर्शनस्य हेतुतामते तत्रातिव्याप्तिरिति दीधित्यवतरणिकायां प्रत्यक्षे समानेन्द्रियजन्यदोषविशेषा-जन्योपनीत भानभिन्नविपरीतनिश्चयस्य प्रतिबन्धकत्वम् । चक्षुषा वंशे उरगभ्रमेऽपि त्वचा तत्र तदभावग्रहात् । समानेन्द्रियजन्यत्वानिवेशनमिति गदाधरेण समर्थितत्वात् । यद्विशेषयोरित्यादि त्वसङ्गतमेव । व्याप्यधर्मावच्छिन्नयोरेव हेतुत्वे हेतुमद्भावोपगत्या निर्वाहे व्यापकधर्मावच्छिन्नयो-रन्यथासिद्धिप्रसङ्गेन कार्यकारणत्वयोरधिकदेशवृत्तित्वकल्पनाप्रसङ्गेन च बाधसमवधानेन च परीक्षकै-स्तदनादरणात् । न हि गन्धवत्वपृथिवीत्वावच्छिन्नयोः कार्यकारणभावोऽस्तीत्येतावता गुणत्व-द्रव्यत्वावच्छिन्नयोरपि तमुपगच्छन्ति । तादृङ्न्यायसंचारस्थलं तु सति प्रयोजने असति बाधके तांत्रिकोपगतम् । प्रकृते तु चाक्षुषो रागभ्रमदशायां त्वचा तदभावग्रहोत्पाद एव साक्षात्कारत्वेनापि निवर्तकत्वस्वीकारे बाधक इत्यलं निर्दलपक्षप्रतीकाराभियोगेन ।

न च सेतुदर्शननाश्यपापेऽतिव्याप्तिरित्याशङ्क्य ‘‘सेतुं दृष्ट्वा समुद्रस्य ब्रह्महत्यां व्यपोहति’’ इत्यादिस्मृत्या सेतुचाक्षुषत्वेनैव तत्र निवर्तकत्वबोधनादिति भाव इत्याशयोपवर्णनम् आत्मीय-व्याख्यानकौशलीप्रदर्शकमेव । गङ्गाया दर्शनं पुंसामशेषाघविनाशकम्’’ इति स्मृतेर्दर्शनत्वावच्छिन्नस्यैव तन्निवर्तकतां प्रतिपन्नो गङ्गामद्राक्षीदेव न तु कदाप्यद्राक्षीत्तत्स्पार्शनस्याकिञ्चित्करत्वाद् इति जानीमः । ‘‘रामेण या कृता रेखा धनुषा क्षीरसागरे । मुक्तिस्तद्दर्शनादेव न जाने स्नानजं फलम्’’ इत्याद्यनुरोधेन सेतुं दृष्ट्वा इत्यादौ दृशेः साक्षात्कारमात्रार्थकतायाः स्थितत्वादित्यलं प्रपञ्चेन ।