०८ द्वितीयमिथ्यात्वभङ्गः

न द्वितीयः । त्रैकालिकनिषेधस्य तात्त्विकत्वेऽद्वैतहानेः

८. द्वितीयमिथ्यात्वभङ्गः

न्यायामृतं

न द्वितीयः । त्रैकालिकनिषेधस्य तात्त्विकत्वेऽद्वैतहानेः । प्रातिभासिकत्वे सिद्ध-साधनात् । व्यावहारिकत्वेऽपि तस्य च बाध्यत्वेन तात्त्विकसत्त्वाविरोधित्वे-नार्थान्तरात् । औतश्रुतेरतत्त्वावेदकत्वापाताच्च । तत्प्रतियोगिनोऽप्रातिभासिकस्य प्रपञ्चस्य पारमार्थिकत्वापत्तेश्च ।

अद्वैतसिद्धिः

प्रतिपन्नोपाधौ त्रैकालिकनिषेधप्रतियोगित्वं वा मिथ्यात्वम् । ननु प्रतिपन्नोपाधौ त्रैकालिक-निषेधस्य तात्त्विकत्वे औतहानिः, प्रातिभासिकत्वे सिद्धसाधनम्, व्यावहारिकत्वेऽपि तस्य बाध्यत्वेन तात्त्विकसत्त्वाविरोधितया अर्थान्तरम्, औतश्रुतेरतत्त्वावेदकत्वं च, तत्प्रतियोगिनोऽप्रातिभासिकस्य प्रपञ्चस्य पारमार्थिकत्वं च स्यादिति चेन्न । प्रपञ्चनिषेधाधिकरणीभूतब्रह्माभिन्नत्वान्निषेधस्य तात्त्विकत्वेपि नाद्वैतहानिकरत्वम् । न च तात्विकाभावप्रतियोगिनः प्रपञ्चस्य तात्त्विकत्वापत्तिः । तात्त्विकाभावप्रतियोगिनि शुक्तिरजतादौ कल्पिते व्यभिचारात् । अतात्त्विक एव वा निषेधोऽयम् । अतात्त्विकत्वेऽपि न प्रातिभासिकः, किं तु व्यावहारिकः । न च तर्हि निषेधस्य बाध्यत्वेन तात्त्विकसत्त्वाविरोधित्वादर्थान्तरमिति वाच्यम् । स्वाप्नार्थस्य स्वाप्ननिषेधेन बाधदर्शनात् । निषेधस्य बाध्यत्वं पारमार्थिकसत्त्वाविरोधित्वे न तन्त्रम् । किं तु निषेध्यापेक्षया न्यूनसत्ताकत्वम् । प्रकृते च तुल्यसत्ताकत्वात् कथं न विरोधित्वम् ?

न च निषेधस्य निषेधे प्रतियोगिसत्त्वापत्तिरिति वाच्यम् । तत्र हि निषेधस्य निषेधे प्रतियोगि-सत्त्वमायति यत्र निषेधस्य निषेधबुद्ध्या प्रतियोगिसत्त्वं व्यवस्थाप्यते । न निषेधमात्रं निषिध्यते । यथा रजते नेदं रजतमिति ज्ञानानन्तरम् इदं नारजतमिति ज्ञानेन रजतं व्यवस्थाप्यते । यत्र तु प्रतियोगिनिषेधयोरुभयोरपि निषेधस्तत्र न प्रतियोगिसत्त्वम् । यथा ध्वंससमये प्रागभावप्रतियोगिनो-रुभयोर्निषेधः । एवं च प्रकृतेऽपि निषेधबाधकेन प्रतियोगिनः प्रपञ्चस्य तन्निषेधस्य च बाधनान्न निषेधस्य बाध्यत्वेऽपि प्रपञ्चस्य तात्त्विकत्वम् । उभयोरपि निषेधतावच्छेदकस्य दृश्यत्वादेस्तुल्य-त्वात् । न च तात्त्विकनिषेधबोधकत्वे श्रुतेरप्रामाण्यापत्तिः । ब्रह्मभिन्नं प्रपञ्चनिषेधादिकम् अतात्विकमित्यतात्विकत्वेन बोधयन्त्याः श्रुतेरप्रामाण्यासम्भवात् ।

न्यायामृततरङ्गिणी

‘सर्वस्मिन् प्रतिपन्नोपाधौ त्रैकालिकनिषेधप्रतियोगित्वमि’ति द्वितीयपक्षं दूषयति – न द्वितीय इति ॥ औतहानेरिति ॥ उपलक्षणमेतत् – तव मते रूप्यमिथ्यात्वस्य व्यावहारि-कत्वपक्षे तात्त्विकात्यन्ताभावप्रतियोगित्वस्य रूप्येऽभावात् साध्यवैकल्यं च । रूप्यमिथ्यात्वस्य तात्त्विकत्वे तद्बोधकस्य प्रत्यक्षादेस्तत्त्वावेदकत्वापत्तिरिति च बोध्यम् ।

ननु प्रपञ्चनिषेधाधिकरणीभूतब्रह्ममात्रत्वात् प्रपञ्चनिषेधस्य तात्त्विकत्वेऽपि नाद्वैतहानि-करत्वमिति चेत्, मैवम्; प्रपञ्चभ्रमार्थमधिष्ठानब्रह्मस्फुरणस्यावश्यकतया ब्रह्माभिन्नप्रपञ्च-निषेधस्यापि प्रकाशे प्रपञ्चभ्रमासम्भवात् । न च इदंत्वाधिष्ठानप्रकाशेऽपि प्रपञ्चनिषेधत्वादिना न प्रकाश इति वाच्यम्; तव मते प्रपञ्चनिषेधत्वादेरपि ब्रह्ममात्रत्वात्, अन्यथा निर्विशेषत्वहा-निप्रसङ्गादिति । सिद्धसाधनादिति ॥ अत्र साध्यवैकल्यमपि बोध्यम् । व्यावहारिकत्वेऽ-पीति ॥ घटादितुल्यतया प्रपञ्चनिषेधस्यापि बाध्यत्वम्; अन्यथा दृश्यत्वादेस्तत्रैव व्यभिचारः स्यादित्यर्थः ।

अत्र वदन्ति ‘‘अतात्त्विक एव निषेधोऽयम् । अतात्त्विकत्वेऽपि न प्रातिभासिकः, किन्तु व्यावहारिकः । न च तर्हि निषेधस्य बाध्यत्वेन तात्त्विकसत्त्वाविरोधित्वादर्थान्तरमिति वाच्यम्; स्वाप्नार्थस्य स्वाप्ननिषेधेन बाधदर्शनात् । निषेधस्य बाध्यत्वं पारमार्थिकसत्त्वा-विरोधित्वे न तन्त्रम्, किन्तु निषेध्यापेक्षया न्यूनसत्ताकत्वम्, प्रकृते च तुल्यसत्ताकत्वात् कथं न विरोधित्वम्?

न च निषेधस्य निषेधे प्रतियोगिसत्त्वापत्तिरिति वाच्यम्; तत्र हि निषेधस्य निषेधे प्रतियोगिसत्त्वमायाति यत्र निषेधस्य निषेधबुद्ध्या प्रतियोगिसत्त्वं व्यवस्थाप्यते न निषेधमात्रं निषिद्ध्यते । यथा रजते ‘नेदं रजतमि’ति ज्ञानानन्तरम् ‘इदं नारजतमि’ति ज्ञानेन रजतं व्यवस्थाप्यते । यत्र तु प्रतियोगिनिषेधयोरुभयोरपि निषेधः, तत्र न प्रतियोगिसत्त्वम् । यथा ध्वंससमये प्रागभावप्रतियोगिनोरुभयोरपि निषेधः । एवं च प्रकृतेऽपि निषेधबाधकेन प्रतियोगिनः प्रपञ्चस्य तन्निषेधस्य च बाधनान् निषेधस्य बाध्यत्वेऽपि न प्रपञ्चस्य तात्त्विक-त्वम् । उभयोरपि निषेध्यतावच्छेदकस्य दृश्यत्वादेस्तुल्यत्वात् – इति’’ ।

अत्र ब्रूमः – स्वप्नदृष्टार्थाभावस्य जाग्रत्यबाधानुभवान् न तस्य बाध्यत्वम् । न हि स्वप्ने दृष्टत्वमात्रेण बाध्यत्वम्; आत्मादेरपि बाधापत्तेः । यच्चोक्तम् – प्रकृते प्रतियोगिनिषेधयो-स्तुल्यसत्ताकत्वमिति । तदपि न । निषेधस्य बाध्यत्वे प्रतियोगितदभावयोस्तुल्यसत्ताया एवा-सिद्धेः । यच्चोक्तम्–निषेधस्य निषेधेऽपि न प्रतियोगिनः सत्त्वापत्तिरिति । तदपि न । त्रैकालिकनिषेधस्य बाध्यत्वे प्रतियोगिसत्त्वापत्तेर्दुर्वारत्वात्, यथोदाहृते रजतादौ । यत्र हि प्रतियोगिसत्त्वं विना निषेधस्य निषेधोऽनुपपन्नः, तत्र निषेधस्य निषेधे प्रतियोगिनः सत्त्वम् । तृतीयप्रकाराभावात् । प्रागभावादौ तु नैवम् इति न प्रागभावाभावे प्रतियोगिनः सत्त्वम् । तृतीयप्रकारस्य ध्वंसस्यापि सम्भवात् । तस्माद् युक्तमत्यन्ताभावस्य बाध्यत्वे प्रतियोगिनः पारमार्थिकत्वापत्तिरिति ॥

अर्थान्तरादिति ॥ व्यावहारिकप्रतियोगिमति व्यावहारिकतदत्यन्ताभावसाधने बाधोऽपि बोध्यः । तव मते जलादिसाधारणाग्न्यनौष्ण्यानुमान एव बाधः; अन्यथा त्वग्न्यनौष्ण्यानुमान-मप्यद्वैतस्यैव नामान्तरमित्युक्तत्वादिति भावः ॥

औतश्रुतेरिति ॥ न च ब्रह्मभिन्नं प्रपञ्च–तन्निषेधादिकमतात्त्विकत्वेन बोधयन्त्याः श्रुतेर्नाप्रामाण्यमिति वाच्यम् । प्रतियोगि–तदभावयोरतात्त्विकत्वबोधनस्य विरुद्धत्वात्, वस्तुतो मानस्य स्वार्थसत्तानिश्चायकत्वेन जगदभावग्राहकमानस्यापि तथात्वात् तदभावस्य बाध्य-त्वाङ्गीकारे श्रुतेरतत्त्वावेदकत्वं दुर्वारम् । तत्प्रतियोगिन इति ॥ व्यावहारिकात्यन्ता-भावप्रतियोगिन इत्यर्थः । अत्र चान्वयदृष्टान्ताभावेऽपि शुक्तिरूप्यादिरेव व्यतिरेकदृष्टान्तः । रूप्यादौ पारमार्थिकत्वात्यन्ताभाववति व्यावहारिकात्यन्ताभावप्रतियोगित्वस्य सत्त्वेन व्यतिरेक-व्याप्तौ व्यभिचारवारणाय ‘अप्रातिभासिकस्ये’ति विशेषणम् । तदर्थश्चोभयसिद्धमिथ्यात्वक-भिन्नत्वम् । मिथ्यात्वं च सद्विविक्तत्वम् । अतस्तुच्छेऽपि न व्यभिचारः । नापि पक्षे हेत्व-सिद्धिः । रूप्यादौ तु उक्ताप्रातिभासिकत्वरूपविशेषणविरहप्रयुक्तो विशिष्टव्यतिरेकोऽस्त्येव इति न व्यभिचार इत्यर्थः । न च साध्यवति ब्रह्मणि हेतोरभावादसाधारण्यमिति वाच्यम्; वास्तवा-साधारण्यस्याप्रतिबन्धकत्वात् । न च साध्यवद्व्यावृत्तत्वमात्रेणासाधारणत्वं किन्तु सर्वनिश्चित-साध्यवद्व्यावृत्तत्वेन हेतोर्ज्ञानात् । ब्रह्मणस्त्वन्मतेऽज्ञेयत्वेन साध्यवत्तयाऽनिश्चयादिति ॥

न्यायामृतकण्टकोद्धारः

न द्वितीय इति । प्रतिपन्नोपाधौ त्रैकालिकनिषेधप्रतियोगित्वं मिथ्यात्वमिति पक्षो नेत्यर्थः । त्रैकालिकनिषेधस्येति ॥ अत्र कश्चित् – त्रैकालिकनिषेधस्य ब्रह्मस्वरूपत्वात् तात्त्विकत्वेऽपि नाद्वैतहानिकरत्वम् । न च तात्त्विकाभावप्रतियोगिनः प्रपञ्चस्य तात्त्विकत्वा-पत्तिरिति वाच्यम् । तात्त्विकाभावप्रतियोगिनि शुक्तिरूप्यादौ तात्त्विकत्वादर्शनात् । न च प्रपञ्चभ्रमार्थमधिष्ठानब्रह्मस्फुरणस्यावश्यकतया ब्रह्माभिन्नप्रपञ्चनिषेधस्यापि प्रकाशे प्रपञ्चभ्रमा-सम्भवः । न च इदन्त्वादिना अधिष्ठानप्रकाशेऽपि प्रपञ्चनिषेधत्वादिना न प्रकाश इति वाच्यम् । तव मते प्रपञ्चनिषेधत्वादेरपि ब्रह्ममात्रत्वात् । अन्यथा निर्विशेषत्वभङ्गप्रसङ्गादिति वाच्यम् । मन्मते ब्रह्मस्फुरणस्य साक्षिरूपत्वेन साक्षिरूपप्रकाशस्य भ्रमविरोधित्वाभावेन सत्यपि ब्रह्मस्फुरणे प्रपञ्चभ्रमसम्भवात् । अविद्यादेरिव प्रपञ्चभ्रमस्यापि वेदान्तजन्यचरमान्तःकरण-वृत्तिमात्रनिवर्त्यत्वादित्याह । तन्न । प्रपञ्चप्रतियोगिकत्रैकालिकनिषेधस्य ब्रह्मरूपत्वे ‘‘नेह नाने’’ति ब्रह्म-निषेधयोराधाराधेयभावप्रतीतिर्न स्यात् । आधाराधेयभावस्य भेदसापेक्षत्वात् । न च ‘घटाभावे घटाभावः’ इतिवदभेदेऽप्याधाराधेयभावोपपत्तिरिति वाच्यम्; अभावस्य स्वरूप-विशेषाभ्युपगमेन तत्र तथाभावेऽपि ब्रह्मणो निर्विशेषत्वाङ्गीकारेण तदनुपपत्तेः । किञ्च निषेधस्य प्रतियोगिघटितत्वेन सोपाधिकत्वाद् ब्रह्मणो निरुपाधिकत्वाद् विरुद्धधर्माधिकरणत्वेन निषेध-ब्रह्मणोरैक्यासम्भवः । न च प्रतियोगिनो निषेधोपलक्षणतया निषेधस्य ब्रह्मस्वरूपत्वं भविष्यतीति वाच्यम् । एवं हि सार्वज्ञ–सर्वकर्तृत्वादीनामपि सोपाधिकत्वेऽप्युक्तन्यायेन ब्रह्मस्वरूपत्वापत्तौ ‘‘यः सर्वज्ञः’’ इत्यादिवाक्यानामपि सत्य–ज्ञानादिवाक्यवत् तत्त्वावेदकत्वा-पत्तेः । अखण्डार्थत्वहानेश्च ।

यच्चोक्तम् – साक्षिरूपप्रकाशस्य भ्रमाविरोधित्वेन सत्यपि ब्रह्मस्फुरणे प्रपञ्चभ्रमः स्यादिति, तदपि न । साक्षिणः स्वसमानविषयकाज्ञानभ्रमविरोधित्वाभावे ज्ञानत्वमेव न स्यात् । तद्विरोधिन एव ज्ञानत्वात् । साक्षिविषये सुखदुःखादावज्ञानभ्रमापत्तेश्च । अन्यथाऽन्धकारा-विरोधिप्रकाशान्तरस्यापि कल्पनापत्तेः । तस्मान् निषेधस्य न ब्रह्मरूपत्वम् इति तात्विकत्वेऽ-द्वैतहानिः सुस्थैव । व्यावहारिकत्व इति ॥ अस्मिन् पक्षेऽर्थान्तरत्व–श्रुतेरतत्त्वावेदकत्व–प्रतियोगिपारमार्थिकत्वरूपाणि त्रीणि दूषणानि दत्तानि ।

अत्र कश्चित् – निषेधस्य बाध्यत्वेऽपि यत् प्रतियोगिपारमार्थिकसत्त्वोपपत्त्याऽर्थान्तरत्व-मुक्तम्, तत् तदा स्यात्, यदि निषेधबाध्यत्वं प्रतियोगिपारमार्थिकसत्त्वाविरोधित्वे तन्त्रं स्यात्, नैवम् । स्वाप्नार्थस्य स्वाप्ननिषेधेन बाधदर्शनात् । किन्तु निषेध्यापेक्षया न्यूनसत्ताकत्वम् । प्रकृते च तुल्यसत्ताकत्वात् कथं न विरोधः ?

यच्च निषेधस्य निषेधे प्रतियोगिनस्सत्त्वापत्तिरिति, तदपि न । तत्र हि निषेधनिषेधे प्रतियोगिसत्त्वमायाति, यत्र निषेधस्य निषेधबुद्ध्या प्रतियोगिसत्त्वं व्यवस्थाप्यते, न निषेधमात्रं निषिध्यते । यथा रजते ‘नेदं रजतमि’ति ज्ञानानन्तरम् ‘इदं नारजतमि’ति ज्ञानेन रजतं व्यवस्थाप्यते । यत्र तु प्रतियोगिनिषेधयोरुभयोरपि निषेधः, तत्र न प्रतियोगिसत्त्वम्; यथा ध्वंससमये प्रागभावप्रतियोगिनोरुभयोर्निषेधे । तथा च प्रकृतेऽपि निषेधबाधकेन प्रतियोगिनः प्रपञ्चस्य तन्निषेधस्य च बाधनाद् न निषेधस्य बाध्यत्वेऽपि प्रपञ्चस्य तात्त्विकत्वम्; उभयो-र्निषेध्यतावच्छेदकस्य दृश्वत्वादेस्तुल्यत्वादिति । यच्च – अतत्त्वावेदकत्वमुक्तं श्रुतेः, तन्न । ब्रह्मभिन्नप्रपञ्चनिषेधादिकमतात्विकमतात्त्विकत्वेन बोधयन्त्याः श्रुतेरप्रामाण्यासम्भवात् – इत्याह, तन्न । यदुक्तम् – निषेधस्य बाध्यत्वं प्रतियोगिपारमार्थिकसत्त्वाविरोधित्वे न तन्त्र-मिति, तन्न; लाघवेन निषेधबाध्यत्वस्यैव तत्र तन्त्रत्वात् । न च स्वाप्नार्थनिषेधेऽपि स्वाप्नार्थस्य सत्वापत्तिरिति वाच्यम् । यत्र स्वाप्नार्थो निषिध्यते तत्र निषेधस्य बाध्यत्वासंमतेः । स्वाप्नार्थानां जाग्रदर्थतुल्यसत्ताकत्वाभ्युपगमात् । न चैवं शुक्तिरूप्यादेरपि सत्त्वापत्तिरिति वाच्यम्; तत्रापि निषेधबाध्यत्वासम्मतेः । अस्तु वाऽप्रातिभासिकप्रतियोगिकनिषेधबाध्यत्वं प्रतियोगिपारमार्थिक-सत्त्वाविरोधित्वे तन्त्रम् । एवं सति न कोऽपि दोषः । स्वाप्नार्थनिषेधस्या प्रातिभासिक-प्रतियोगिकत्वाभावात् ।

यच्चोक्तम् – प्रतियोग्यपेक्षया न्यूनसत्ताकत्वं तन्त्रमिति, तदपि न । प्रपञ्चसत्यत्ववादिनं प्रति तस्यापि सत्यत्वेनार्थान्तरस्य दुर्वारत्वात् । तस्मादर्थान्तरं दुर्वारम् ।

यच्च – श्रुतेरतत्त्वावेदकत्वपरिहारायातात्त्विकमतात्त्विकत्वेन बोधयन्त्याः श्रुतेर्नाप्रामाण्य-मित्युक्तम्, तदपि मन्दम् । श्रुत्या निषेधमात्रस्यैव बोधनेनातात्त्विकत्वांशे औदासीन्यात् । अन्यथा कर्मादिस्वरूपप्रतिपादकस्य सगुणत्वप्रतिपादकस्य च वेदस्यातत्त्वावेदकत्वापत्तेः, तत्रापि तात्त्विकत्वाद्यनुल्लेखात् । यदि कर्मादिकं सत्त्वेन प्रतिपादयतीति ब्रूषे, तर्हि निषेधमपि तथेति तुल्यम् । अध्याहारेण तथा प्रतिपादकत्वं च श्रुत्यर्थमनध्याहारेण कुर्वन्तो निराकरिष्यामः । तस्मान् निषेधस्य व्यावहारिकत्वेऽतत्त्वावेदकत्वेन श्रुतेरप्रामाण्यं दुर्वारम् ।

यच्च – निषेधस्य निषेधे प्रतियोगिनः सत्त्वापत्तिपरिहारार्थमुक्तम् – प्रकृते उभयोरपि निषेधादिति, तदपि न । उभयनिषेधस्य व्याहतत्वेन कर्तुमशक्यत्वात् । न च ध्वंससमये प्रतियोगिप्रागभावनिषेधवदुपपत्तिरिति वाच्यम् । एकविरोधिविशेषसमयेऽपरविरोधिविशेषद्वय-निषेधेऽपि सामान्यत एकसमये प्रतियोग्यत्यन्ताभावनिषेधादर्शनात् । न च निषेध्यतावच्छेदकस्य दृश्यत्वस्योभयत्र सत्त्वेनोभयनिषेधोपपत्तिरिति वाच्यम् । दृश्यत्वस्य निषेध्यतानधिकरण-त्वेनाभिमतब्रह्मासतोरपि सत्त्वेन निषेध्यतानवच्छेदकत्वात् । न च ब्रह्मासतोर्दृश्यत्वमेव नेति वाच्यम् । दृश्यत्वभङ्गे तस्योपपादयिष्यमाणत्वात् । एवं च यथा ‘घटात्यन्ताभावो नास्ती’-त्यत्यन्ताभावनिषेधे घटात्यन्ताभावविरोधिसत्त्वबुद्धिः । एवं ‘प्रपञ्चात्यन्ताभावो ने’त्यत्यन्ता-भावनिषेधे प्रतियोगिसत्त्वापत्तिर्दुर्वारैव इति निषेधस्य व्यावहारिकत्वे मूलोक्तदूषणत्रयं सुस्थम् इति न काऽप्यनुपपत्तिरिति ।

न्यायामृतप्रकाशः

सिद्धसाधनादिति ॥ प्रातिभासिकत्रैकालिकनिषेधप्रतियोगित्वस्य सत्यत्वाविरोधित्वेनेष्टत्वादिति भावः ॥ बाध्यत्वेनेति ॥ ब्रह्मज्ञानबाध्यत्वेनेत्यर्थः । तात्विकसत्त्वं त्रैकालिकसत्त्वम् । तात्विक-सत्त्वाविरोधित्वोपपादनाय तस्य च बाध्यत्वेनेत्युक्तम् । त्रैकालिकसत्तानिषेधस्य बाध्यत्वे त्रैकालिक-सत्त्वमेव सिद्ध्यतीति भावः । अर्थांतरादित्युपलक्षणम् । व्यावहारिकप्रतियोगिमति व्यावहारिक-निषेधसाधने बाधोऽपि द्रष्टव्यः ॥ अतत्वेति ॥ व्यावहारिकमिथ्याभूतनिषेधप्रतिपादकत्वान्नेह नानेत्याद्यद्वैतश्रुतेरतत्वावेदकत्वं स्यादित्यर्थः । तत्प्रतियोगिनः व्यावहारिकनिषेधप्रतियोगिनः ॥ पारमार्थिकत्वापत्तेरिति ॥ प्रतियोगितदभावयोर्भिन्नसत्ताकत्वाङ्गीकारादिति भावः ।

नन्वथापि व्यावहारिकनिषेधप्रतियोगिनः प्रपञ्चस्य पारमार्थिकत्वं कुतः? प्रातिभासिकत्वेना-प्युपपत्तेः । रूप्यात्यन्ताभावस्य व्यावहारिकत्वेऽपि रूप्यस्य प्रातिभासिकत्ववदित्यत उक्तम्– अप्रातिभासिकस्येति ॥ तच्चोभयवादिसिद्धमिति भावः ।

न्यायकल्पलता

सर्वस्मिन्प्रतिपन्नोपाधौ त्रैकालिकनिषेधप्रतियोगित्वमिति द्वितीयपक्षं निराह -न द्वितीय इति । औतहानेरिति । उपलक्षणमेतत् । विवर्तवादिना रूप्यमिथ्यात्वस्य व्यावहारिकत्वाभ्युपगमे तात्विकात्यन्ताभावप्रतियोगित्वस्य रूप्येऽभावात् साध्यवैकल्यम् । रूप्यमिथ्यात्वस्य तात्विकत्वे तदावेदकस्य प्रत्यक्षादेस्तत्वावेदकतापत्तिरिति च ज्ञेयम् । न चाद्वैतहानिवत्तात्विकाभावप्रतियोगित्वेन प्रपञ्चस्य तात्विकत्वं कुतो नापाद्यमिति शङ्क्यम् । शशविषाणादौ व्यभिचारादिति । यत्तु प्रपञ्चनिषेधाधिकरणीभूतब्रह्माभिन्नत्वात्तन्निषेधस्य तात्विकत्वेऽपि नाद्वैतहानिकरत्वमिति । तदयुक्तम् । प्रपञ्चाध्यासार्थं तदधिष्ठानब्रह्मस्फुरणावश्यकतया ब्रह्माभिन्नप्रपञ्चनिषेधस्यापि प्रकाशे प्रपञ्चभ्रमासम्भवात् । न च सद्रूपत्वादिनाऽधिष्ठानब्रह्मस्फुरणेऽपि प्रपञ्चनिषेधत्वादिना न तत्प्रकाश इति देश्यम् । विवर्तनये प्रपञ्चनिषेधत्वादेरपि सद्रूपब्रह्ममात्रत्वात् । अन्यथा ब्रह्मणो निर्विशेषत्वहान्यापातादिति । सिद्धसाधना-दिति । अत्र साध्यवैकल्यमपि ज्ञातव्यम् । व्यावहारिकत्वेऽपीति । घटादितुल्यतया प्रपञ्चनिषेधस्यापि बाध्यत्वम् । अन्यथा दृश्यत्वादेस्तत्रैव व्यभिचारप्रसङ्गादित्यर्थः । यदत्राह– अतात्विक एव निषेधोऽयम् । अतात्विकत्वेऽपि न प्रातिभासिकः किन्तु व्यावहारिकः । न च तर्हि निषेधस्य बाध्यत्वेन स्वप्रतियोगिनः प्रपञ्चस्य तात्विकसत्वाविरोधित्वादर्थान्तरमिति वाच्यम् । स्वाप्नार्थस्य स्वाप्ननिषेधेन बाधदर्शनात् । निषेधस्य बाध्यत्वं पारमार्थिकसत्वाविरोधित्वे न तन्त्रं किन्तु निषेध्यापेक्षया न्यून-सत्ताकत्वं, प्रकृते च तुल्यसत्ताकत्वात्कथं न विरोधित्वम् । न च निषेधस्य निषेधे प्रतियोगिसत्वा-पत्तिरिति वाच्यम् । तत्र हि निषेधनिषेधे प्रतियोगिसत्वमायाति । यत्र निषेधस्य निषेधबुध्या प्रतियोगिसत्वं व्यवस्थाप्यते । न निषेधमात्रं निषिध्यते । यथा रजते नेदं रजतमिति ज्ञानानन्तरमिदं नारजतमिति ज्ञानेन रजतं व्यवस्थाप्यते । यत्र तु प्रतियोगिनिषेधयोरुभयोरपि निषेधस्तत्र न प्रतियोगिसत्वम् । यथा ध्वंससमये प्रागभावप्रतियोगिनोरुभयोर्निषेधः । एवं च प्रकृते निषेधबाधकेन प्रतियोगिनः प्रपञ्चस्य तन्निषेधस्य च बाधनान्न निषेधस्य बाध्यत्वेऽपि प्रपञ्चस्य तात्विकत्वम् । उभयोरपि निषेध्यतावच्छेदकस्य दृश्यत्वादेस्तुल्यत्वादिति । तदसारम् । विमतं तात्विकं बाध्यनिषेध-प्रतियोगित्वात् । बह्मवत् । न चास्य हेतोः स्वाप्नार्थे व्यभिचारः । स्वाप्नगजादीनां बाध्यत्वेऽपि स्वाप्नगजाद्यभावस्याबाध्यत्वात् । नात्र गजादिः स स्वाप्न एवेतिवन्नात्र गजाद्यभाव इति जाग्रद्बाधाननुभावात् । न हि स्वप्ने दृष्टत्वमात्रेण बाध्यत्वम् । आत्मादेरपि तदापातात् । अतः स्वप्ने प्रतीतोऽपि गजाद्यभावो न गजादिवदतात्विकः किन्त्वात्मवदबाधानुभवात्सत्य एवेति । यच्चोक्तं प्रपञ्चतन्निषेधयोः समसत्ताकत्वमिति । तदपि न । गाङ्गे जले मरीचिकाभ्रमदशायां नेदं गाङ्गजलमिति निषेधस्य बाध्यत्वे प्रतियोगितदभावयोस्तुल्यसत्ताकत्वस्यैवासम्भवात् ।

यदप्युक्तम् । निषेधस्य निषेधेऽपि न प्रतियोगिनः सत्वापत्तिरिति । तन्मदम् । त्रैकालिकनिषेधस्य बाध्यत्वे प्रतियोगिसत्वापत्तेर्दुवारत्वात् । यथोदाहृते रजतादौ, यत्र हि प्रतियोगिसत्वमन्तरेण निषेधस्य निषेधोऽनुपपन्नस्तत्र निषेधस्य निषेधे प्रतियोगिसत्वम् । तृतीयप्रकाराभावात् । प्रागभावप्रध्वंस-कालान्यकालस्य प्रतियोगिसत्वकालत्वात् । प्रागभावादौ तु नैवमिति न प्रागभावासत्वे प्रतियोगिनः सत्वम् । तृतीयप्रकारस्य ध्वंसकालस्यापि सम्भवात् । तथा च परस्परविरोधे तु न प्रकारान्तरस्थितिरिति न्यायादत्यन्ताभावस्य बाध्यत्वे तत्प्रतियोगिनः प्रपञ्चस्य पारमार्थिकत्वं युक्तमेवेति । अर्थान्तरादिति ॥ परानभिप्रेतार्थसिध्या स्वाभिमतार्थसिध्या सिद्धसाधनादित्यपि द्रष्टव्यम् । व्यावहारिकप्रतियोगिमदधिकरणे व्यावहारिकतदत्यन्ताभावसाधने बाधोऽपि बोध्यः । अत एव विवर्तनये जलादिसाधारणाग्न्यनौष्ण्यसाधन एव बाधः । अन्यथा त्वग्न्यनौष्ण्यमप्यद्वैतस्यैव नामान्तरमित्युक्तत्वादिति भावः । औतश्रुतेरिति ।

ननु ब्रह्मभिन्नं प्रपञ्चतन्निषेधादिकम् अतात्विकं, अतात्विकत्वेन बोधयन्त्याः श्रुतेर्नाप्रामाण्यमिति चेत् । न । प्रतियोगिमति प्रतियोगितदत्यन्ताभावयोरतात्विकत्वावेदनस्य विरुद्धत्वात् । प्रमाणस्य स्वार्थसत्तानिश्चायकत्वेन प्रपञ्चात्यन्ताभावावगाहिमानस्यापि तथात्वात्तदावेद्यात्यन्ताभावस्य बाध्य-त्वाभ्युपगमेऽद्वैतश्रुतेरतत्वावेदकत्वं दुर्वारम् । तत्प्रतियोगिन इति । व्यावहारिकात्यन्ताभावप्रतियोगिन इत्यर्थः । व्यावहारिकत्वं च ब्रह्मज्ञानबाध्यत्वं तेनान्वये ब्रह्मैव दृष्टान्तः । शुक्तिरूप्ये व्यभिचार-वारणायाप्रातिभासिकत्वे सतीत्यापादकविशेषणम् । तदयं तर्कावतारः । यदि प्रपञ्चोऽप्रातिभासिकत्वे सति व्यावहारिकात्यन्ताभावप्रतियोगी स्यात्तर्हि पारमार्थिकः स्याद्ब्रह्मवदिति । केचित्तु । अन्वय-दृष्टान्ताभावेऽप्यत्र शुक्तिरूप्यमेव व्यतिरेकदृष्टान्तः । पारमार्थिकत्वाभाववति शुक्तिरूप्ये व्यावहारिका-त्यन्ताभावप्रतियोगित्वस्य सत्वेन व्यतिरेकव्याप्तौ व्यभिचारवारणायाप्रातिभासिकस्येति विशेषणम् । तदर्थश्च उभयसिद्धमिथ्यात्वकभिन्नत्वम् । मिथ्यात्वं च सद्विविक्तत्वं तेन तुच्छेऽपि न व्यभिचारः । नापि पक्षे हेत्वसिद्धिः । रूप्यादौ चाप्रातिभासिकत्वरूपविशेषण विरहप्रयुक्तो विशिष्टव्यतिरेकोऽस्त्येवेति न व्यभिचारः । न च साध्यवति ब्रह्मणि हेतोरभावादसाधारण्यमिति वाच्यम् । वस्तुतोऽसाधारण्यस्या-प्रतिबन्धकत्वात् । नापि स्वरूपसत्साध्यवद्व्यावृत्तिमात्रेणासाधारण्यम् । किन्तु सकलनिश्चित-साध्यवद्व्यावृत्तत्वेन हेतोर्ज्ञानात् । परमते ब्रह्मणस्त्वज्ञेयत्वेन साध्यवत्तया निश्चयाभावादित्याहुः ।

न्यायामृतसौगन्ध्यं

नापि प्रतिपन्नोपाधौ त्रैकालिकनिषेधप्रतियोगित्वं मिथ्यात्वम् । त्रैकालिकनिषेधस्य तात्त्विकत्वे औतहानेः । प्रातिभासिकत्वे सिद्धसाधनात् । व्यावहारिकत्वेऽपि तस्य बाध्यत्वेन तात्त्विकसत्त्वा-विरोधित्वेनार्थान्तरात् । औतश्रुतेरतत्त्वावेदकत्वापाताच्च । तत्प्रतियोगिनोऽप्रातिभासिकस्य प्रपञ्चस्य पारमार्थिकत्वं स्यात् ।

ननु प्रपञ्चनिषेधाधिकरणीभूतब्रह्माभिन्नत्वान् निषेधस्य तात्त्विकत्वेऽपि नाद्वैतहानिकरत्वम् । यद्वा अतात्त्विक एवायं निषेधः । अतात्त्विकत्वेऽपि न प्रातिभासिकः । किन्तु व्यावहारिकः । न च तर्हि निषेधस्य बाध्यत्वेन तात्त्विकसत्त्वाविरोधित्वादर्थान्तरमिति वाच्यम् । स्वाप्नार्थस्य स्वाप्ननिषेधेन बाधदर्शनात् । निषेधस्य बाध्यत्वं पारमार्थिकसत्त्वाविरोधित्वे न तन्त्रं, किन्तु निषेध्यापेक्षया न्यूनसत्ताकत्वम् । प्रकृते च तुल्यसत्ताकत्वात् कथं न विरोधित्वम् । न च निषेधस्य निषेधे प्रतियोगिनस्सत्त्वापत्तिरिति वाच्यम् । तत्र हि निषेधस्य निषेधे प्रतियोगिसत्त्वमायाति यत्र निषेधस्य निषेधबुद्ध्या प्रतियोगिसत्त्वं व्यवस्थाप्यते । निषेधमात्रं निषिध्यते । यथा रजते नेदं रजतमिति ज्ञानानन्तरम् इदं नारजतमिति ज्ञानेन रजतं व्यवस्थाप्यते । यत्र तु प्रतियोगिनिषेधयोरुभयोरपि निषेधस्तत्र न प्रतियोगिसत्त्वम् । यथा ध्वंससमये प्रागभावप्रतियोगिनोरुभयोर्निषेधे । एवं च प्रकृतेऽपि निषेधबाधकेन प्रतियोगिनः प्रपञ्चस्य तन्निषेधस्य च बाधनान्न तन्निषेधस्य बाध्यत्वेऽपि प्रपञ्चस्य तात्त्विकत्वम् । उभयोरपि निषेध्यतावच्छेदकस्य दृश्यत्वादेस्तुल्यत्वात् । न चातात्त्विक-निषेधबोधकत्वे श्रुतेरप्रामाण्यापत्तिः । ब्रह्मभिन्नं प्रपञ्चनिषेधादिकमतात्त्विकमित्यतात्विकत्वेन बोधयन्त्याः श्रुतेरप्रामाण्यासम्भवादिति चेत् । न । भ्रमकालाप्रतीतस्य सापेक्षस्य भ्रमकालप्रतीतनिरपेक्षनिर्विशेष-ब्रह्मात्मकत्वासम्भवात् ।

न चाभावस्य सापेक्षत्वं मायिकं, ब्रह्मणो निरपेक्षत्वं तात्विकमिति न विरोध इति वाच्यम् । मिथ्यात्वसिद्धेः प्राग् मायिकस्यासम्भवात् । स्वाप्नार्थबाधकस्य निषेधस्य हि ततोऽधिकसत्ताकत्वं स्यादेव । न हि वल्मीके प्रतीतस्य स्थाणुत्वस्य तत्रैव प्रतीतपुरुषत्वेन बाधः । किन्तु वल्मीकत्वप्रकारकज्ञानेन बाधः । तथा च स्वाप्नार्थस्य तन्निषेधे निवृत्तिरेव न तु बाधः । वस्तुतस्तु स्वाप्ननिषेधस्य जाग्रत्यबाध्यत्वनिश्चयेन न तस्य बाध्यत्वम् ।

न च स्वप्ने दृष्टत्वमात्रेण निषेधस्य बाध्यत्वमिति वाच्यम् । स्वप्नदृष्टात्मादेरपि बाध्यत्वापत्तेः । न च ‘अदृष्टो द्रष्टा’ इत्यादिश्रुुत्या स्वप्ने दृष्टत्वमेवात्मनो नास्तीति न बाध्यत्वापत्तिरिति वाच्यम् । ‘अदृष्टः’ इति वृत्तिभिन्नानुभवस्याविषय इति त्वयैव व्याख्यातत्वात्, अन्यथा वृत्तेरप्यविषयत्वे ‘‘यथाहि जाग्रद्वा स्वप्नगतो वा अयमहमस्मि इमानि भूतानि च इति विजानाति नैवं सुप्तः किञ्चिदपि वेदयते’’ इति भामत्युक्तं विरुध्येत ।

निषेधस्येत्याद्ययुक्तम् । निषेधस्य निषेधे प्रतियोगितुल्यसत्ताकत्वासम्भवात् । निषेधप्रतियोगिनोः समसत्ताकत्वे बाध्यबाधकतायां विनिगमनाविरहाच्च । अतो निषेधस्य निषेधे प्रपञ्चस्य पारमार्थिकसत्त्वं स्यादेव ।

‘‘तत्र हि’’ इत्याद्ययुक्तम् । प्रकृतेऽपि हि प्रतियोगिसत्त्वं विना निषेधस्य निषेधोऽनुपपन्न एव । ध्वंससमये ध्वंस एव प्रागभावप्रतियोगिनोरुभयोर्निषेधस्य निर्वाहकोऽस्त्येव । यत्र तु तृतीयप्रकारासम्भवस्तत्र निषेधप्रतियोगिनोरेकतरनिषेधेऽन्यतरस्य पारमार्थिकसत्वं स्यादेव ।

‘‘एवं चे’’त्याद्ययुक्तम् । अत्यन्ताभावप्रतियोगिनोर्वर्तमानस्य धर्मस्य निषेध्यतावच्छेदकत्वासम्भवात् । न हि घटतदभाववृत्तिधर्मस्य तन्निषेधप्रतियोगितावच्छेदकत्वम् । घटत्वाघटत्वोभयधर्मावच्छिन्नाभाव-स्यैकत्रासम्भवात् ।

ब्रह्मभिन्नमित्याद्ययुक्तम् । समानसत्ताकयोर् भावाभावयोर्युगपदेकस्मिन्नधिकरणे बोधकवाक्यवदुभयोर-भावस्य तदतात्विकस्य च बोधकवाक्यस्याप्रामाण्यं हि स्यादेव ।

यत्तु प्रातिभासिकनिष्ठं यत्स्वसमानाधिकरणात्यन्ताभावप्रतियोगित्वं, विनाशिनिष्ठं यदप्रातिभासिकस्य स्वसमानाधिकरणात्यन्ताभावस्य प्रतियोगित्वं, तयोरन्यतरवत्वं मिथ्यात्वमिति । तन्न । मिथ्यात्वसिद्धेः प्राक्सत्ताभेदस्यासिद्धेः ।

यत्तु नेह नानेत्यनेनेहेति पदेन विनाशिदृश्य(द्रव्य)विशिष्टं बोध्यते, वाक्येन तु विनाशिदृश्य(द्रव्य)विशिष्टे ब्रह्मणि विनाशिदृश्यं(द्रव्यं) नास्तीति बोध्यते । तथा च जगति स्वसमानाधिकरणात्यन्ताभावप्रतियोगित्वं मिथ्यात्वमिति । तन्न । विनाशिदृश्य(द्रव्य)विशिष्टस्य मिथ्यात्वेनोक्तनिषेधाधिकरणत्वासम्भवात् । दृश्याधिष्ठाने हि दृश्यस्य निषेधस्त्वया वाच्यः । अधिष्ठानं त्वध्यस्ताधिकसत्ताकमेव स्यात् । न च स्वप्न आरोपितरजताधिष्ठानस्य शुक्त्यादेरध्यस्ताधिकसत्ताकत्वं नास्ति । स्वप्ने प्रतीतस्य सर्वस्य प्रातिभासिकत्वा-दिति वाच्यम् । प्रातीतिकस्याज्ञानाविषयस्याधिष्ठानत्वासम्भवात् । सामान्यतो ज्ञातं विशेषतोऽज्ञातं ह्यधिष्ठानं भवति । अत एव नेदं रजतमिति स्वाप्नज्ञानस्य बाधकत्वमप्यसम्भवि । भ्रमकालेऽज्ञातस्याधिष्ठानत्वस्य ज्ञानमेव हि बाधकं दृष्टम् । किञ्च यथा ‘इदं भूतलं घटवदि’तीदन्त्वेन गृहादिविषयकज्ञानस्य ‘नेदं भूतलं घटवत्’ इत्यङ्गणादिविषयकज्ञानस्य च बाध्यबाधकभावो नास्ति । भिन्नविशेष्यकत्वात् । तथा स्वापि्नकेदं रजतं नेदं रजतमिति ज्ञानर्योर्न बाध्यबाधकभावः । प्रातीतिकेदमर्थरूपविशेष्ययोर्ज्ञानभेदेन भिन्नत्वात् ।

न्यायामृतमाधुरी

सदसत्वेत्यादिपञ्चकल्प्यां द्वितीयकल्पं पराकुरुते ॥ न द्वितीय इत्यादिना । तात्विक-सत्त्वाविरोधेन निषेधसत्त्वापेक्षया प्रतियोगिनो अधिकसत्ताया अविघातकत्वेन निषेधस्य पारमार्थिकत्वे सत्येव प्रतियोगिनोऽपारमार्थिकत्वमायाति । भावाभावयोरेकाधिकरणे पारमार्थिकत्वासम्भवात् । अत एव स्वसमानाधिकरणस्वाधिकसत्ताकात्यन्ताभावप्रतियोगित्वमेव मिथ्यात्वम् । न तु स्वाधिकसत्त्वा-घटितं, प्रातीतिकतादृशात्यन्ताभावप्रतियोगित्वेन ज्ञातेऽपि शुक्तित्वादौ मिथ्यात्वव्यवहाराभावादिति भावः ॥ एकाधिकरणे भावाभावयोरसमसत्ताकतया घटाद्यभावानां स्वप्रतियोग्यधिकरणत्वेन प्रतीयमाननिरूपितव्यावहारिकसत्ताकतायां तत्प्रतियोगिनामपि तत्सत्तासमसत्ताकत्वस्य दुरुपगमतया प्रातिभासिकपारमार्थिकसत्तयोरेकतरप्रातिभासिकसत्तायाः प्रतिषेधे पारमार्थिकसत्तैव पर्यवस्यतीति घटादिपक्षकं पारमार्थिकत्वसाध्यकं स्वाधिकरणत्वेन प्रतीयमाननिरूपितव्यावहारिकसमसत्ताकाभाव-प्रतियोगित्वविशेषितप्रातिभासिकसत्तानाश्रयत्वहेतुकमनुमानं तदौपयिकायां व्यतिरेकप्राप्तौ शुक्तिरूप्यस्य निदर्शनस्य सम्भवेन सूपपादमित्यभिप्रेत्याह– तत्प्रतियोगिन इति । अलीकप्रातिभासिकयोरनैकान्त्य-व्युदसनाय हेतुशरीरे दलद्वयोपादानम् ॥

अत्राद्वैतसिद्धिकारः । प्रपञ्चनिषेधाधिकरणभूतब्रह्माभिन्नत्वान्निषेधस्य तात्विकत्वेऽपि नाद्वैत-हानिकरत्वम् । न च तात्विकाभावप्रतियोगिनः प्रपञ्चस्य तात्विकत्वापत्तिः । तात्विकाभावप्रतियोगिनि शुक्तिरजतादौ कल्पिते व्यभिचारात् । अतात्विक एव वा निषेधोऽयम् । अतात्त्विकत्वेऽपि न प्रातिभासिकः किन्तु व्यावहारिकः । न च तर्हि निषेधस्य बाध्यत्वेन तात्विकसत्त्वाविरोधित्वा-दर्थान्तरमिति वाच्यम् । स्वाप्नार्थस्य स्वाप्ननिषेधेन बाधदर्शनात् । निषेधस्य बाध्यत्वं पारमार्थिक-सत्त्वाविरोधित्वे न तन्त्रं किन्तु निषेध्यापेक्षया न्यूनसत्ताकत्वम् । प्रकृते च तुल्यसत्ताकत्वात्कथं न विरोधित्वम् । न च निषेधस्य निषेधे प्रतियोगिसत्त्वापत्तिरिति वाच्यम् । तत्र हि निषेधस्य निषेधे प्रतियोगिसत्वमायाति । यत्र निषेधस्य निषेधबुध्या प्रतियोगिसत्त्वं व्यवस्थाप्यते न निषेधमात्रं निषिध्यते यथा रजते नेदं रजतमिति ज्ञानानन्तरमिदं नारजतमिति ज्ञानेन रजतं व्यवस्थाप्यते । यत्र तु प्रतियोगिनिषेधयोरपि निषेधस्तत्र न प्रतियोगिसत्त्वम् । यथा ध्वंससमये प्रागभावप्रतियोगिनो-रुभयोर्निषेधः । एवं च प्रकृतेऽपि निषेधबाधकेन प्रतियोगिनः प्रपञ्चस्य तन्निषेधस्य च बाधनान्न निषेधस्य बाध्यत्वेऽपि प्रपञ्चस्य तात्त्विकत्वम् । उभयोरपि निषेध्यतावच्छेदकदृश्यत्वादेस्तुल्यत्वात् । न च अतात्त्विकनिषेधबोधकत्वे श्रुतेरप्रामाण्यापत्तिः । ब्रह्मभिन्नं प्रपञ्चनिषेधादिकमतात्विक-मित्यतात्विकत्वेन बोधयन्त्याः श्रुतेरप्रामाण्यासम्भवादिति निबबन्ध ।

तदतिस्थवीयः । यथा घटवत्ताग्रहादिप्रतिबन्धकग्रहविषयीभूतस्य प्रतियोग्यधिष्ठानप्रतीतिनिबन्धन-प्रतीतिकस्य घटाद्यभावस्याधिष्ठानज्ञानविधया तद्वत्ताज्ञानौपयिकज्ञानविषयीभूतभावात्मक-निष्प्रतियोगिकभूतलाद्यात्मकता परीक्षकैर्नोपेयते तद्वत् तादृशप्रपञ्चनिषेधस्य तादृशब्रह्मात्मकताया अयोगात् । न चाभावस्याधिकरणात्मकतामुपगच्छतां मीमांसकानां मते भूतलत्वघटा-भावत्वादिरूपभेदनिबन्धनव्यवस्थायाः सूपपादतेव प्रकृतेऽपि तन्निबन्धनायास् तस्याः सा सङ्गच्छत इति वाच्यम् । जगदलीकताविद्वेषिणां मीमांसकानां तत्सम्भवेऽपि तदुपगन्तृमते तदसम्भवात् । प्राङ्मिथ्यात्वसिद्धेर्मायिकस्यापि दुर्निरूपत्वात् । तात्त्विकेत्यादि व्यभिचारादित्यन्तं स्वानूदित-हेतुतावच्छेदकघटकीभूताप्रातिभासिकत्वांशस्यापरिस्फूर्तिनिबन्धनम् । मिथ्यात्वघटकाभावस्य व्यावहारिकत्वकल्पे अभिहितस्य तत्प्रतियोगिन इत्यादिकापत्तेश्चेत्यन्तस्य तादृशाभावस्य तात्त्विकत्वकल्पने योजनं तदाशयाज्ञानविजृम्भितमेव । स्वाप्नेत्यादिकविरोधित्वमित्यन्तं ब्रह्मानन्द-प्रदर्शितया ‘‘तथा च स्वान्यूनसत्ताकस्वसमानाधिकरणात्यन्ताभावप्रतियोगित्वमेव मिथ्यात्वम् । न तु स्वाधिकसत्ताघटितम् । मिथ्यात्वव्यवहारानुपपत्तेः । न च स्वप्ने प्रतीयमानेन व्यावहारिकात्यन्ता-भावेनैव घटितं स्वाप्नार्थस्य मिथ्यात्वं प्रतीयते । तथा चाधिकसत्ताकात्यन्ताभावघटितमेव मिथ्यात्वं वाच्यमिति वाच्यम् । स्वपे्न व्यावहारिकस्य प्रत्यक्षज्ञानासम्भवादिन्द्रियाणामुपरतत्वादभाव-स्यानुभूयमानप्रत्यक्षत्वस्यापलापे स्वाप्नभावानामपि स्मरणादेर्वक्तुं शक्यत्वात् । तस्मात्तादृशाभावे प्रातीतिकत्वस्यावश्यं वाच्यत्वात्स्वान्यूनसत्ताघटितमेव मिथ्यात्वम् । ननु किमिदमभावस्य स्वप्रतियोगिन्यूनसत्ताकत्वम् । उच्यते । प्रातिभासिकनिष्ठं व्यावहारिकपारमार्थिकान्यतरप्रतियोगित्वं, व्यावहारिकनिष्ठं पारमार्थिकप्रतियोगिकत्वं चेत्यन्यतरवत्वम् । तथा च व्यावहारिक-पारमार्थिकान्यतरनिष्ठं यत्प्रातिभासिकाभावप्रतियोगित्वं, यच्च पारमार्थिकनिष्ठं व्यावहारिकाभाव-प्रतियोगित्वं तदन्यत्, यत्स्वसमानाधिकरणात्यन्ताभावप्रतियोगित्वं तदेव मिथ्यात्वम् । व्यावहारिकः पारमार्थिको वा अयं घटः स्वसमानाधिकरणप्रातिभासिकात्यन्ताभावप्रतियोगीति ज्ञानकाले एतद्घटे मिथ्यात्वव्यवहाराभावात् ‘पारमार्थिकमिदं पारमार्थिकान्यस्य स्वसमानाधिकरणात्यन्ताभावस्य प्रतियोगी’ति ज्ञानकाले ‘इदं मिथ्येति’ व्यवहाराभावाच्च तदन्यदित्यन्तं प्रतियोगित्वविशेषणम् । प्रातिभासिकनिष्ठं यत्स्वसमानाधिकरणात्यन्ताभावप्रतियोगित्वं, विनाशिनिष्ठं यदप्रातिभासिकस्य स्वसमानाधिकरणात्यन्ताभावस्य प्रतियोगित्वं तयोरन्यतरवत्वं मिथ्यात्वमिति तु निष्कर्षः । शुक्ति-रूप्यादेर्व्यावहारिकेऽत्यन्ताभावे मिथ्यात्वं नानुपपन्नं, तदधिकरणे व्यावहारिकस्य तदत्यन्ताभावस्य स्वीकारात् । न च अन्यूनसत्ताकात्यन्ताभावघटितमिथ्यात्वस्वीकारे द्वयोरपि स्वाप्नयोर्भावाभावयो-र्मिथ्यात्वनिश्चयापत्तिरिति वाच्यम् । स्वप्ने द्वयोरन्यूनसत्ताकाभावघटितोक्तप्रतियोगित्वनिश्चयेन तस्या इष्टत्वात् । अत एव जागरे तयोः परस्परात्मकतादृशाभावघटितमेव मिथ्यात्वं प्रतीयते । तयोर-भावान्तरस्य व्यावहारिकस्य कल्पने गौरवात् । न च स्वप्ने प्रतीयमानस्य घटादेर्व्यावहारिकोऽभावः क्लृप्त एवेति न गौरवमिति वाच्यम् । यस्य चैत्रत्वादिजातिविशेषस्य जाग्रत्काले न ज्ञानं प्रत्यक्षं किन्तु स्वप्न एव । नानाव्यक्तिषु तादृशव्यक्तीनां तादृशजात्यवच्छिन्नाभावस्य च एकाधिकरणे स्वाप्नपदार्थ एव स्वप्ने जागरे वा ज्ञानं जातम् । तदवच्छिन्नाभावस्य व्यावहारिकत्वेनाक्लृप्तत्वाद्व्यावहारिकतत्कल्पने गौरवेण तादृशजातिविशिष्टतदभावयोः परस्परात्मकाभावघटितस्यैव मिथ्यात्वस्योचितत्त्वादिति’’ दिशोपवर्णिततात्पर्यकमपि तादृगेव स्वाप्नार्थनिषेधस्य जाग्रत्यबाधानुभवेन तस्य बाध्यत्वायोगात् । बाधग्रहमन्तरेणापि बाध्यत्वोपगमस्य परीक्षकसम्प्रदायविरुद्धत्वात् । आत्मादेरपि स्वप्नदृष्टत्वावैशेष्येण तस्य बाध्यत्वायोगात् । बाधग्रहमन्तरेणापि बाध्यत्वोपगमस्य परीक्षकसम्प्रदायविरुद्धत्वात् । आत्मादेरपि स्वप्नदृष्टत्वावैशेष्येण तस्य बाध्यत्वातन्त्रत्वात् । सत्तात्रैविध्यस्याद्यापि गहननिविष्टतया तत्त्रैविध्यं तासु तरतमभावं च अनुपगच्छन्तं तत्त्ववादिनं प्रति सिषाधयिषितसाध्यशरीरे पारमार्थिकत्वव्यावहारिकत्वाभ्यां तन्निवेशस्य ईश्वरद्विषं मीमांसकं प्रति विश्वपक्षीकारेण ईश्वर-ज्ञानजन्यत्वस्य सिषाधयिषोः साध्यशरीरे ईश्वरांशनिवेशकल्पत्वात् । न्यूनसत्ताकत्वमित्यादि-निर्देशस्यापि तत्समशीलत्वात् । चैत्रत्वादिजातिविशेषस्येत्यादि ब्रह्मानन्दोद्गिरणमपि स्वप्नदशायां यं यं गजादिकं राजमन्दिरादावद्राक्षं स इदानीं नास्तीत्यादि निखिलसुप्तोत्थितानुभूतिविरुद्धं स्वप्नानुभूतनिखिलपदार्थबाधप्रतिसन्धानादतिरिच्यमानाया जाग्रद्दशाया एव अलीकत्वात् ।

अत्र ब्रह्मानन्दः– न चेत्यादि–ध्वंससमय इत्यन्तग्रन्थं, निषेधस्य–प्रपञ्चाभावस्य निषेधे प्रकृतानुमानेनात्यन्ताभावबोधने प्रतियोगिसत्त्वापत्तिः–निषेधापेक्षयाऽधिकसत्त्वस्य प्रतियोगिन्यापत्तिः । रजतादौ रजतत्वादिनिषेधस्य निषेधेन रजतत्वादेर्व्यावहारिकत्वसिद्धिदर्शनादित्यर्थः । प्रतियोगिसत्वं–प्रतियोग्यमिथ्यात्वं, व्यवस्थाप्यते–प्रमीयते । निषिध्यते–मिथ्यात्वेन निश्चीयते । स्वसमानाधिकरणस्य रजतभेदात्मकस्य रजतत्वात्यन्ताभावस्य प्रातीतिकत्वेनैव निश्चयादन्यूनसत्ताकात्यन्ताभावघटित-मिथ्यात्वाभाववत्वेन रजतत्वं निश्चीयत इति भाव इति व्याख्याय, प्रागभावप्रतियोगिनोरिति ग्रन्थं प्रागारोपितयोरभावप्रतियोगिनोरित्यर्थः । निषेध्यधीपूर्वमारोपितयोरत्यन्ताभावप्रतियोगिनोरिति यावत् । तथा च घटादेर्ध्वंसकाले कपालादौ प्राचीनतार्किकादिमते तत्र घटात्यन्ताभावस्य व्यावहारिकस्या-स्वीकारेणारोपसम्भवात् ‘‘इदं कपालं घटवन्न वेति’’ संशयरूपस्यारोपस्योत्तरं ‘अत्र घटस्तदन्त्यता-भावश्चद्वौ न स्त इति निषेधेऽपि यथा घटस्य नामिथ्यात्वं निश्चीयते किन्तु तयोर्घटतदत्यन्ताभावयोः परस्परात्मकान्यूनसत्ताकात्यन्ताभावघटितमिथ्यात्वमेव निश्चीयत इति (स्पष्टार्थ) दृष्टान्तार्थ इति व्याकुर्वन्, यथाश्रुतं तु प्रागभावेत्यसङ्गतम् । अत्यन्ताभावात्मकनिषेधस्य निषेधे प्रतियोगिसत्त्वापत्तेः पूर्वमुक्तत्वेन प्रागभावात्मकनिषेधस्य निषेधे प्रतियोगिसत्त्वदृष्टान्तेन तस्याः खण्डनस्यासङ्गतेरिति ध्येयमिति यथाश्रुतं प्रत्याचख्यौ ।

तद्व्याख्येयग्रन्थाशयाननुसन्धानविजृम्भितम् । अत्यन्ताभावस्य स्वप्रतियोगिनेव तद्धंसप्रागभावाभ्यां विरोधित्वस्योपगन्तृप्राचीनमते ध्वंसप्रागभावदशायां घटात्यन्ताभावरूपव्यक्तेर्घटसमवायिदेशेऽ-समवधानेऽपि ध्वंसे प्रागभावे च घटत्वरूपसामान्यधर्मावच्छिन्नप्रतियागिताकत्वं तत्तद्व्यक्तित्वादि-रूपप्रातिस्विकधर्मावच्छिन्नप्रतियोगिताकत्वं चोपेत्य अत्यन्ताभावावगाहिन्या घटो नास्तीति प्रतीतेः ‘घटो ध्वस्तो घटो भविष्यतीति प्रतीतेश्च प्रमात्वस्य समर्थिततया तुल्यदिशा घटसद्भावदशायां घटप्रागभावो नास्ति घटप्रागभावो ध्वस्त इति प्रतीत्योर्घटविषयकताया घटे तादृशधर्मद्वयोपगमेन स्थिततया घटाध्वंसदशायां घटप्रागभावस्य तदत्यन्ताभावमुद्राविशेषितस्य घटस्य च निषेधेऽपि न यथा घटप्रागभावोन्मज्जनं तद्वत्प्रपञ्चस्य तन्निषेधस्य च निषेधेऽपि न प्रपञ्चसत्त्वमित्यर्थे दृष्टान्तत्व-सम्भवेन यथाश्रुतार्थसामञ्जस्यस्य सूपपादतया निषेधधीपूर्वमारोपितयोरत्यन्ताभावप्रतियोगिनो-रित्युदक्षरव्याख्यानस्यायुक्तत्वात् । न चेत्यादितात्विकत्वमित्यन्तमपि आपादयितुराशयानवबोध-विलसितम् । प्रतियोगिनेव ध्वंसप्रागभावाभ्यामत्यन्ताभावस्य विरोधमनुपगच्छतां नवीनानां मते द्वितीयाभावस्य प्रथमाभावप्रतियोगिस्वरूपत्वोपगत्या तन्मतदिशा निषेधस्य निषेधे प्रतियोगिसत्त्व-स्यापादकं प्रति तस्य ताभ्यां विरोधित्वोपगन्तृप्राचीनमते ध्वंसकाले घटतदत्यन्ताभावयोः कपाला-दावभावेऽपि यथा न घटसत्त्वं तद्वत्प्रपञ्चनिषेधनिषेधेऽपि न प्रपञ्चस्य सत्त्वमिति समाहितेर-सङ्गतत्वात् । प्राचीनैर्ध्वंसदशायां घटसमवायिदेशे घटो नास्तीत्यनुभवापलापभिया घटत्वरूपसामान्य-धर्मावच्छिन्नप्रतियोगिताकत्वेन ध्वंसविषयकतामुपेत्य तस्योपपादिततया तन्मतेऽपि ध्वंसदशाया-मत्यन्ताभावस्य तद्व्यक्तित्वेनाभावसत्वेऽपि ध्वंससाधारणत्वेनोररीकृतघटत्वावच्छिन्नप्रतियोगिताका-भावत्वावच्छिन्नाभावासत्त्वेन प्रकृतेऽपि प्रपञ्चेऽपि प्रपञ्चत्वावच्छिन्नाभावत्वावच्छिन्नात्यन्ताभावस्यैवा-पादकत्वेनाभिप्रेततया तन्मतदिशापि दुःसमाधत्वात् । वनमालिमिश्रीये तु प्रकृतेऽपि प्रतियोगिसत्त्वं विना निषेधस्य निषेधोऽनुपपन्न एव । ध्वंससमये ध्वंस एव प्रागभावप्रतियोगिनोरुभयोर्निषेधस्य निर्वाहकोऽस्त्येव । यत्र तृतीयप्रकारासम्भवस्तत्र निषेधप्रतियोगिनोरेकतरनिषेधेऽन्यतरस्य परमार्थिक-सत्त्वं स्यादेवेति स्थितम् । अत्र ब्रह्मानन्दः । निषेध्यतावच्छेदकस्य उक्तमिथ्यात्वानुमानपक्षतावच्छेद-कस्य । दृश्यत्वादेः, उभयोस्तुल्यत्वान् मिथ्यात्वानुमितिविशेष्यतावच्छेदकत्वेनोभयत्र प्रतीयमान-त्वादिति तुल्यत्वादित्यन्तं व्याचख्यौ ।

तदुदक्षरमसङ्गतं च । निषेध्यतावच्छेदकपदस्य निषेधप्रतियोगितावच्छेदकार्थतया प्रकृतानुमान-पक्षतावच्छेदकार्थकत्वायोगात् । विमतेरेव मिथ्यात्वानुमितिविशेष्यतावच्छेदकतया दृश्यत्वस्य तदभावेन तुल्यत्वादित्यस्य तथा व्याख्यानासम्भवात् । अत्यन्ताभावप्रतियोगिनो वर्तमानस्य धर्मस्य निषेध्यता-वच्छेदकत्वासम्भवात् । न हि घटतदभाववृत्तिधर्मस्य तन्निषेधप्रतियोगितावच्छेदकत्वमिति वनमालि-मिश्रीये स्थितम् । अत्र ब्रह्मानन्दः । न चेत्यादिकासम्भवादित्यन्तं ‘श्रुतेर्नेह नानेत्यादिश्रुतेः, अतात्विकं मिथ्या । अतात्विकत्त्वेन मिथ्यात्वेन । असम्भवादिति । तथा च यजेतेत्यादिश्रुतेरिव व्यावहारिकप्रामाण्यमुक्तश्रुतेरक्षतम् । तात्त्विकप्रामाण्यं तु तत्त्वमसीत्यादिश्रुतेरेवेति भाव इति व्याख्याय, ननु कथमुक्तश्रुत्या मिथ्यात्वेन प्रपञ्चतदभावयोर्बोधः । ब्रह्मणि प्रपञ्चस्याभावबोधनेऽप्य भावे प्रपञ्चसामानाधिकरण्यस्य प्रपञ्चान्यूनसत्ताकत्वस्य चाबोधनादित्याशङ्कमानः । उक्तश्रुतिपूर्वे विद्यमाने ‘यस्मिन् पञ्चपञ्चजना आकाशश्च प्रतिष्ठितः, इत्यादिवाक्ये पञ्चपञ्चजनशब्दस्य ब्राह्मणक्ष-त्रियादिपञ्चकपरतयोपनिषद्भाष्ये व्याख्यातत्वात्तस्यापि दृश्यमात्रोपलक्षणत्वात् शारीरकोक्त-प्राणादिपञ्चकरूपार्थस्यापि दृश्यमात्रोपलक्षणत्वाच्च । इहेत्यस्य प्रपञ्चविशिष्टब्रह्मणीत्यर्थकत्वात् । किञ्चनेत्यस्य च, अतोऽन्यदार्तमिति श्रुत्यादिमानेन विनाशितया प्रमितं दृश्यमात्रमित्यर्थकत्वात् । विनाशिदृश्यविशिष्टे ब्रह्मणि विनाशिदृश्यं नास्तीति बोधस्य श्रुत्या सम्भवाद्विनाशिदृश्यवति विनाशिदृश्याभावस्य च श्रुतिप्रमितत्वेनैवा प्रातिभासिकत्वानुमिति सम्भवाद्विनाशिदृश्यत्वावच्छेदेना-प्रातिभासिकस्वसमानाधिकरणात्यन्ताभावप्रतियोगित्वनिश्चयस्यानुमितिद्वारोक्तश्रुतितात्पर्यविषयत्वसम्भवान् न च विनाशिदृश्यवति विनाशिदृश्यं नास्तीति बोधस्य घटविशिष्टे घटो नास्तीति बोधस्येवाहार्यत्वान्न शाब्दत्वं प्रत्यक्षस्यैवाहार्यत्वादिति वाच्यम् । नानेति पदस्य नाञ्प्रत्ययान्तनञ्पदसिद्धस्य भेदार्थ-कत्वाद् ब्रह्मार्थकेहपदयोगेन ब्रह्मभेदबोधकत्वाद् उक्तानुपपत्तेर्विनाशिदृश्यत्वस्य तादृशबोधे अभाव-प्रतियोगितावच्छेदकतया भानासम्भवेऽपि प्रतियोग्यंशे विशेषणत्वमात्रस्वीकारेण विनाशिदृश्या-नामात्मभिन्नत्वमात्ररूपेणाभावबोधस्याहार्यत्वासम्भवात् । तादृशबोधे हि विनाशिदृश्याभावो न विषयः किन्त्वात्मभिन्नत्वेनैव । किञ्चत्यन्त ‘‘अबाधितेऽप्यर्थे ज्ञानं शब्दः करोति ही’’ति खण्डनकारोक्तेः शाब्दबोधस्याहार्यत्वं स्वीक्रियते । न च तथाप्युक्ताभावे प्रतियोग्यवच्छेदकदेश-कालावच्छिन्नत्वस्यावच्छिन्नवृत्तिकान्यत्वस्य वाऽसिध्या मिथ्यात्वबोधनमसिद्धमिति वाच्यम् । निषेधस्य प्रसक्तिपूर्वकत्वेन निषेधवाक्यस्वाभाव्येन प्रतियोगिप्रसक्त्य वच्छेदकदेशाद्यवच्छेदेनैवोक्त-वाक्येनोक्ताभावस्य बोधनीयत्वात्तत्तदवच्छेदकविशिष्टस्य दृश्यवद्ब्रह्मण एवाधिकरणत्वेन, इहेति सर्वनामपदेनोक्तिसम्भवेन तात्पर्यवशात् तत्तदभावानां स्वस्वप्रतियोग्यवच्छेदकावच्छिन्नतया इहेति सप्तम्याऽनवच्छिन्नविशेषणतासम्बन्धावच्छिन्नाधेयतया चोक्तश्रुत्या बोधनसम्भवादिति समादधौ । तद्वनमालिमिश्रः प्रत्यषेधीत् । विनाशिदृश्यविशिष्टस्य मिथ्यात्वेनोक्तनिषेधाधिकरणत्वासम्भवात् । दृश्याधिष्ठाने हि दृश्यस्य निषेधस्त्वया वाच्यः । अधिष्ठानं त्वध्यस्ताधिकसत्ताकमेव स्यात् । न च स्वप्ने आरोपितरजताधिष्ठानस्य शुक्त्यादेरध्यस्ताधिकसत्ताकत्वं नास्ति । स्वप्ने प्रतीतस्य सर्वस्य प्रातिभासिकत्वादिति वाच्यम् । प्रातीतिकस्याज्ञानाविषयस्याधिष्ठानत्वासम्भवात् । सामान्यतो ज्ञातं विशेषतोऽज्ञातं ह्यधिष्ठानं भवति । अत एव नेदं रजतमिति स्वाप्नज्ञानस्य बाधकत्वमप्यसम्भवि । भ्रमकाले अज्ञातस्याधिष्ठानतत्वस्य ज्ञानमेव हि बाधकं दृष्टम् । किञ्च यथा इदं भूतलं घटवदितीदन्त्वे गृहादिविषयकज्ञानस्य नेदं भूतलं घटवदिति अङ्गणादिविषयकज्ञानस्य च बाध्यबाधकभावो नास्ति । भिन्नविषय(विशेष्यक)कत्वात् । तथा स्वापि्नकेदं रजतं नेदं रजतमिति ज्ञानयोर्न बाध्यबाधकभावः । प्रातीतिकेदमर्थरूपविशेष्ययोर्ज्ञानभेदेन भिन्नत्वादिति । वस्तुतस्तु । प्रत्यक्षान्यतद्वत्ताज्ञानत्वावच्छिन्नं प्रति अनाहार्याप्रामाण्यज्ञानानास्कन्दिततदभाववत्तानिश्चयत्वा-वच्छिन्नस्य प्रतिबन्धकतायाः स्थिततया प्रकृते यस्मिन्पञ्चपञ्चेति श्रुत्युत्पादितब्रह्मधर्मिकदृश्यमात्र-निश्चयस्य नेहनानेति श्रुत्या जनिष्यमाणतद्धर्मिकतदभाववत्तान्वयबोधप्रतिबन्धकतया तत्स्थलीयान्वय-बोधेन तस्मिन् तदभावबोधस्यावगाढुमशक्यतया सविशेषणे हीति न्यायेन ‘‘शिखी नास्ती’’त्यादाविव किञ्चन पदोपात्तस्वगतगुणक्रियादौ नानापदोपात्तब्रह्मभिन्नत्वरूपविशेषणनिषेधतात्पर्यकताया एव भगवत्पादाभिहितदिशोपेतव्यत्वात् । न च ह्रदो वन्ह्यभाववानिति बाधग्रहकालीनस्येच्छाधीनवह्न्य-भाववान्हृदो वह्निमानित्याहार्यप्रत्यक्षस्य तादृशबाधग्रहाप्रतिबध्यतेव दृश्यमात्रविशेषितब्रह्मधर्मिकतद-भाववत्तान्वयबुद्धेरप्याहार्यरूपाया न तादृशबाधग्रहप्रतिबध्यतेति वाच्यम् । परोक्षज्ञानमनाहार्य-रूपमेवेति नैय्यायिकैः सिद्धान्तितत्वात् । स्वसमयपरिपालनाय वैय्यात्येन तदुपगमस्य मेरोः सर्षप-त्वोपगमकल्पत्वात् । न च दृश्यविशेषितब्रह्मणि भासमानाभावप्रतियोगितावच्छेदकतया ब्रह्म-भिन्नत्वस्यैव भानमुपेयते न दृश्यत्वांशस्य । तस्य प्रतियोग्यंशे विशेषणतामात्रस्वीकारादन्वय-बुद्धेराहार्यत्वायोगेऽपि न क्षतिरिति वाच्यम् । प्रतियोगिविशेषिताभावबुद्धिर्विशिष्टवैशिष्ट्यबोधमर्यादां नातिशेत इति दीधितिकारीयसिद्धान्तविरोधात् । विशेषणतावच्छेदकावच्छिन्नप्रतियोगिताकवैशिष्ट्याव-गाहित्वं हि विशिष्टवैशिष्ट्यावगाहित्वमिति गदाधरप्रभृतिभिः समर्थितं विशिष्टवैशिष्ट्यबोधविचारे । न खलु नीलघटो नास्तीत्याकारिका, नीलत्वांशं प्रतियोग्यंशे विशेषणतामात्रेण, प्रतियोगितावच्छेदकतया च घटत्वांशमवगाहमाना प्रतीति रुत्पद्यते । एतेन ब्रह्मानन्दीयं व्याप्यव्यापकभावापन्नधर्मद्वयं यत्र विशेष्यतायां विशेषणतायां वा अवच्छेदकं तत्र व्याप्यधर्म एव (भेदे) अभावे प्रतियोगिता-वच्छेदकतयाऽनुयोगितावच्छेदकतया वा भासते ।

व्यापकधर्मस्तु प्रतियोग्यंशे विशेषणमात्रतया भासते न तूक्तावच्छेदकप्रविष्टतया । द्रव्यं घटो नास्तीति प्रतीतेर्द्रव्यव्युत्पत्तेर्व्यापकविशिष्टव्याप्यस्य गौरवेणानवच्छेदकत्वात् प्रमेयघटो नास्तीत्यादौ प्रमेयत्वादेरवच्छेदकत्वासम्भवात् । अत एवात्र प्रमेयत्वोपलक्षितघटत्वादेरवच्छेदकत्वमुक्तं पक्षधर-मिश्रादिभिः । तत्र घटत्वमेवावच्छेदकं प्रमेयत्वं तु प्रतियोगिनि विशेषणमित्यर्थ इत्युद्गिरणमपास्तम् । कूटाघटिते तत्तसाध्याभाववद्वृत्तित्वातिरिक्तेन समानाधिकरणधर्मेणा नवच्छिन्नप्रतियोगिताको वेति दीधितिप्रतीकव्याख्यावसरे साध्याभाववृत्ति(त्व)त्वानिरूपितसमानाधिकरणधर्मनिरूपितावच्छेद्यत्व-शून्यत्वस्यावच्छिनान्तेन विवक्षणान्न दोष इति प्रक्रम्य अथ गुरुधर्मस्याभावप्रतियोगितानवच्छेदकत्वे साध्याभावपदस्य साध्यतावच्छेदकावच्छिन्नव्यापकतावच्छेदकरूपावच्छिन्नाभावपरतया धूमवान्वह्ने-रित्यादावतिव्याप्तिः । धूमत्वाद्यवच्छिन्नव्यापकतावच्छेदकरूपावच्छिन्नाभाववद्वृत्तित्वस्य धूमत्वा-वच्छिन्नाभाववद्वृत्तित्वापेक्षया गुरुत्वेनाभावप्रतियोगितावच्छेदकत्वविरहेण तदवच्छिन्नाभाव प्रसिद्धेर् धूमत्वाद्यवच्छिन्नाभाववद्वृत्तित्वावच्छिन्नप्रतियोगितायाश्च धूमत्वावच्छिन्नव्यापकतावच्छेदकावच्छिन्ना-भाववद्वृत्तित्वरूपविशिष्टपदार्था न वच्छिन्नतया तन्निरूपकाभावस्य निरुक्तविशेषणानाक्रान्तत्वात् । व्यधिकरणधर्मावच्छिन्नप्रतियोगिताकस्यैव साध्याभाववद्वृत्तित्वाभावस्य लक्षणघटत्वात् । यदि च साध्यतावच्छेदकावच्छिन्नव्यापकतावच्छेदेकरूपावच्छिन्न प्रतियोगिताकस्याभावस्य तेन रूपेण निवेशः। अपि तु तत्तदभाववत्वेन एतदेव सूचयितंु त(त्त)त्पदमुपात्तम् । एवं च त(त्त)द्व्यक्तित्वेन धूमाभाव-घटित तदभाववद्वृत्तित्वावच्छिन्नाभावस्य लक्षणघटकतया न धूमादि साध्यकेऽतिव्याप्तिरित्युच्यते । तथापि घटभिन्नं प्रमेयत्वादित्यादावतिव्याप्तिः । तत्र तव्द्यक्तित्वेन रूपेण घटभेदाभावघटिततद्व्यक्ति-मद्वृतित्वत्वापेक्षया लघोस्तत्समनियतस्य किञ्चिद्विशेषणानवच्छिन्नघटत्वघटितस्य घटवृत्तित्वत्वस्यैवा-भावप्रतियोगितावच्छेदकतया तद्व्यक्तिमद्वृत्तित्वावच्छिन्नाभावाप्रसिद्धेः । घटवृत्तित्त्वत्वावच्छिन्न-प्रतियोगितायाः साध्याभाववद्वृत्तित्वरूपविशिष्टपदार्थानवच्छिन्नतया तन्निरूपकाभावस्य लक्षण-घटकत्वासम्भवाद्व्यधिकरणधर्मावच्छिन्नसाध्याभाववद्वृत्तित्वाभावस्यैव तथात्वात् । यदि चाभावधर्मो विशेषणविधया न निवेश्यते अपि तु अभावप्रभृतिरेव । अभावे च साध्यतावच्छेदकावच्छिन्न-व्यापकावच्छेदकरूपावच्छिन्नप्रतियोगिताकत्वमुपलक्षणविधया निवेश्यते । एतल्लाभायैव तत्पादो-पादानमपि । न तु तत्तद्व्यक्तित्वेनाभावनिवेशलाभार्थम् । उपलक्षणीभूतप्रतियोगिताविशेषणेनैवा-भावान्तरव्यावृत्तिसम्भवे तत्तद्व्यक्तित्वस्य प्रतियोगितावच्छेदकतया निवेशे प्रयोजनविरहात् ।

एवं च घटवृत्तित्वत्वावच्छिन्नाभावोऽप्युक्तस्थले लक्षणघटकः घटभेदाभावस्य घटत्वस्य तत्प्रति-योगितावच्छेदकघटकत्वात् । प्रतियोगिताविशेष्योपलक्षिताभाववद्वत्तित्वत्वपर्याप्तनिरूपकताकान्यत्व-पर्यन्तानिवेशात् । धूमादिसाध्यकस्थले निर्धूमवृत्तित्वत्वावच्छिन्नाभावस्य प्रतियोगितावच्छेदकशरीरे अभावविशेषणस्याधिकस्य निवेशेऽपि न क्षतिः । न चाभावप्रतियोगिकोटौ उपलक्षणतया भानस्यानुभवविरुद्धत्वात् । विशिष्टनिरूपितत्वाभावरूपस्य निरूपितत्वसम्बन्धावच्छिन्नविशिष्टा-भावरूपस्य वा विशिष्टनिरूपितत्वस्य विशिष्टनिरूपितत्वरूपप्रतियोगिकोटौ प्रतियोगिताविशेषस्य कथमुपलक्षणतया (विधया) निवेश इति वाच्यम् । प्रतियोगितासंसर्गज्ञान एव तादृशभानस्य तथात्वात् । जात्यवच्छिन्नप्रतियोगिताकोऽभाव इत्याकारस्य स्वरूपतो घटत्वावच्छिन्नप्रतियोगिताका-भावभानस्य सर्वसम्मतत्वादिति गदाधरीयसिद्धान्ताननुसन्धाननिबन्धनत्वात् । लघुधर्मसमनियतगुरु-धर्मस्यानवच्छेदकत्वमते गुरुविषयताविचारेगदाधरोक्तदिशा संसर्गघटकविषयतयोः प्रकारतात्व-विशेष्यतात्वोपगमेनैकविशेषितापरधर्मस्य स्वावच्छिन्नप्रतियोगिताकत्वरूपवैशिष्ट्यांशेभ्रमत्वस्यागत्या स्वीकार्यत्वात् । खण्डनकारीयकारिकाऽपि अलीकविषयकमपि ज्ञानं शशशृङ्गमस्तीत्यादिशब्द उत्पादयतीत्येवंपरा नान्वयबुद्धेराहार्यत्वसाधिकेत्यलं निर्दलपक्षप्रतीकाराभियोगेन ।


किञ्च निषेधप्रतियोगित्वं किं स्वरूपेण?

न्यायामृतं

किञ्च निषेधप्रतियोगित्वं किं स्वरूपेण? किं वा असद्विलक्षणस्वरूपानुपमर्देन पारमार्थिकत्वाकारेण? नाद्यः । श्रुत्यादिसिद्धोत्पत्त्यादिकस्यार्थक्रियासमर्थस्याविद्यो-पादानकस्य तत्त्वज्ञाननाश्यस्य च वियदादे रूप्यादेश्च धीकाले विद्यमानेनास-द्विलक्षणस्वरूपेण त्रैकालिकनिषेधायोगात् । त्रैकालिकनिषेधं प्रति स्वरूपेणापणस्थ- रूप्यं पारमार्थिकत्वाकारेण प्रातिभासिकरूप्यं वा प्रतियोगीति त्वन्मतहानेश्च ।

अद्वैतसिद्धिः

ननु तन्निषेधप्रतियोगित्वं किं स्वरूपेण, उतासद्विलक्षणस्वरूपानुपमर्देन पारमार्थिकत्वाकारेण वा । नाद्यः, श्रुत्यादिसिद्धोत्पत्तिकस्यार्थक्रियासमर्थस्याविद्योपादानकस्य तत्त्वज्ञाननाश्यस्य च वियदादे रूप्यादेश्च धीकालविद्यमानेन असद्विलक्षणस्वरूपेण त्रैकालिकनिषेधायोगात् । नापि द्वितीयः, अबाध्यत्वरूपपारमार्थिकत्वस्य बाध्यत्वरूपमिथ्यात्वनिरूप्यत्वेन अन्योन्याश्रयात् । पारमार्थिकत्व-स्यापि स्वरूपेण निषेधे प्रथमपक्षोक्तदोषापत्तिः । अतस्तस्यापि पारमार्थिकत्वाकारेण निषेधे अनवस्था स्याद् इति चेन्मैवम् । स्वरूपेणैव त्रैकालिकनिषेधप्रतियोगित्वस्य प्रपञ्चे शुक्तिरूप्ये चाङ्गीकारात् । तथा हि– शुक्तौ रजतभ्रमानन्तरम् अधिष्ठानतत्त्वसाक्षात्कारे रूप्यं नास्ति नासीन्न भविष्यतीति स्वरूपेणेव, ‘नेह नाने’ति श्रुत्या च प्रपञ्चस्य स्वरूपेणैव निषेधप्रतीतेः । न च तत्र लौकिकपरमार्थरजतमेव स्वरूपेण निषेधप्रतियोगीति वाच्यम् । भ्रमबाधयोर्वैयधिकरण्यापत्तेः, अप्रसक्तप्रतिषेधापत्तेश्च । न च तर्ह्युत्पत्याद्यसम्भवः । न ह्यनिषिद्धस्वरूपत्वमुत्पत्त्यादिमत्त्वे तन्त्रम् । परैरनिषेध्यरूपत्वेनाङ्गीकृतस्य वियदादेरुत्पत्त्याद्यनङ्गीकारात् । किंतु वस्तुस्वभावादिकमन्यदेव किंचित् प्रयोजकं वक्तव्यम् । तस्य मयापि कल्पितस्य स्वीकारात् ।

न च त्रैकालिकनिषेधं प्रति स्वरूपेणापणस्थं रूप्यं पारमार्थिकत्वाकारेण प्रातिभासिकं वा प्रतियोगीति मतहानिः स्यादिति वाच्यम् । अस्याचार्यवचसः पारमार्थिकलौकिकरजततादात्म्येन प्रतीतं प्रातिभासिकमेव रजतं प्रतियोगीत्यर्थः । तच्च स्वरूपेण पारमार्थिकत्वेन वेत्यनास्थायां वाशब्दः । एतावदुक्तिश्च पुरोवर्तितादात्म्येनैव रजतं प्रतीयत इति मतनिरासार्थं, लौकिकपरमार्थ-रजततादात्म्येनापि प्रतीयत इति प्रतिपादयितुं च । तदुक्तं तत्त्वप्रदीपिकायाम्‘तस्माल्लौकिक-परमार्थरजतमेव नेदं रजतमिति निषेधप्रतियोगीति पूर्वाचार्याणां वाचोयुक्तिरपि पुरोवर्तिनि रजतार्थिनः प्रवृत्तिदर्शनाद् लौकिकपरमार्थरजतत्वेनापरोक्षतया प्रतीतस्य कालत्रयेऽपि लौकिकपरमार्थरजतमिदं न भवतीति निषेधप्रतियोगितामङ्गीकृत्य नेतव्ये’ति ।

अयमाशयः– एकविभक्त्यन्तपदोपस्थापिते धर्मिणि, प्रतियोगिनि च नञोऽन्योन्याभावबोधकत्व-नियमस्य व्युत्पत्तिबलसिद्धत्वाद् ‘घटः पटो न भवती’ति वाक्यवद् ‘इदं रजतं न भवती’ति वाक्यस्य अन्योन्याभावबोधकत्वे स्थिते अभिलापजन्यप्रतीतितुल्यत्वादभिलप्यमानप्रतीतेः ‘नेदं रजत’मिति वाक्याभिलप्यप्रतीतेरन्योन्याभावविषयत्वमेव । तथा च इदंशब्दनिर्दिष्टे पुरोवर्ति-प्रातीतिकरजते रजतशब्दनिर्दिष्टव्यावहारिकरजतान्योन्याभावप्रतीतेरार्थिकं मिथ्यात्वम् । ‘नात्र रजत’ मिति वाक्याभिलाप्या तु प्रतीतिरत्यन्ताभावविषया । भिन्नविभक्त्यन्तपदोपस्थापितयोरेव धर्मि-प्रतियोगिनोर्नञः संसर्गाभावबोधकत्वनियमात् । सा च पुरोवर्तिप्रतीतरजतस्यैव व्यावहारिक-मत्यन्ताभावं विषयीकरोतीति कण्ठोक्तमेव मिथ्यात्वम् । अतो नापसिद्धान्तो नान्यथाख्यात्यापत्तिर्न वा ग्रन्थविरोध इत्यनवद्यम् ।

न्यायामृततरङ्गिणी

किञ्चेति ॥ वायौ रूपात्यन्ताभाववत् स्वरूपेणैव ब्रह्मणि प्रपञ्चस्य, पुरोवर्तिनि च रजतस्यात्यन्ताभावो वा, घटे वाच्यत्वस्य सत्त्वेऽपि समवेतत्वेन वाच्यत्वात्यन्ताभाववत् पारमार्थिकत्वेन व्यधिकरणेन धर्मेण तत्र तस्यात्यन्ताभावो वा प्रपञ्चस्य रजतस्य वा मिथ्यात्व-मिति विकल्पार्थः । ननु प्रपञ्चस्य रजतादेश्च स्वरूपानुपमर्देन निषेध इत्यनुपपन्नम् । मिथ्या-वस्तुनः स्वरूपस्यैवाभावात्, अत उक्तम् असद्विलक्षणेति ॥ असतो निरूपाख्यस्य परं स्वरूपं नास्ति । प्रपञ्चो रूप्यं चासद्विलक्षणे, अतस्तस्य किञ्चित् स्वरूपमस्त्येवेति भावः ॥ श्रुत्यादिसिद्धोत्पत्त्यादिकस्येति ॥ आद्यं विशेषणद्वयं वियदादेः, तृतीय-चतुर्थे वियदादेः रूप्यादेश्च । ‘‘असद्विलक्षणस्वरूपेणे’’तीत्थंभूतलक्षणे तृतीया । श्रुत्यादिसिद्धोत्पत्तिकस्य धीकाले विद्यमानस्यासद्विलक्षणस्वरूपस्य त्रैकालिकनिषेधो न भवति । उत्पत्त्याद्यसम्भवा-पातादित्यर्थः ॥ त्रैकालिकेति ॥ तथा चापसिद्धान्त इत्यर्थः ॥

अत्र वदन्ति – ‘‘स्वरूपेणैव त्रैकालिकनिषेधप्रतियोगित्वं प्रपञ्चे चाङ्गीकुर्मः । तथा हि – शुक्तौ रजतभ्रमानन्तरमधिष्ठानतत्त्वसाक्षात्कारेण ‘रूप्यं नास्ति नासीद् न भविष्यती’ति स्वरूपेणेव ‘‘नेह नाने’’ति श्रुत्या प्रपञ्चस्य स्वरूपेणैव निषेधः प्रतीयते । न च तत्र लौकिकपरमार्थरजतमेव स्वरूपेण निषेधप्रतियोगीति वाच्यम् । भ्रमबाधयोर्वैयधिकरण्यापत्तेः । अप्रसक्तप्रतिषेधापत्तेश्च । न च तर्ह्युत्पत्त्याद्यसम्भवः । न ह्यनिषिद्धस्वरूपत्वमुत्पत्त्यादिमत्त्वे तन्त्रम्; परैरनिषिद्धस्वरूपत्वेनाङ्गीकृतस्यापि वियदादेरुत्पाद्यनङ्गीकारात् । किन्तु वस्तु-स्वभावादिकमन्यदेव किञ्चित् प्रयोजकं वक्तव्यम् । तस्य मयाऽपि कल्पितस्य स्वीकारात् । न च ‘त्रैकालिकनिषेधं प्रति स्वरूपेणापणस्थं रूप्यं पारमार्थिकत्वाकारेण प्रातिभासिकं वा प्रतियोगी’ति मतहानिः स्यादिति वाच्यम्; अस्य वचसो लौकिकपारमार्थिकरजततादात्म्येन प्रतीतं प्रातिभासिकमेव रजतं प्रतियोगीत्यर्थः । तच्च स्वरूपेण पारमार्थिकत्वेन वेत्यनास्थायां वाशब्दः ॥

एतावदुक्तिश्च पुरोवर्तितादात्म्येनैव रजतं प्रतीयत इति मतनिरासार्थम् । लौकिकपारमार्थिक-रजततादात्म्येनापि प्रतीयत इति प्रतिपादयितुं च । तदुक्तं तत्त्वप्रदीपिकायाम् – ‘‘तस्माद् लौकिकपरमार्थरजतमेव ‘नेदं रजतमि’ति निषेधप्रतियोगी’’ति पूर्वाचार्याणां वाचोयुक्तिरपि पुरोवर्तिनि रजतार्थिनः प्रवृत्तिदर्शनाद् लौकिकपरमार्थरजतत्वेनापरोक्षतया प्रतीतस्य कालत्रयेऽपि ‘लौकिकपरमार्थरजतमिदं न भवती’ति निषेधप्रतियोगितामङ्गीकृत्य नेतव्ये’’ति ॥

अयमभिप्रायः – एकविभक्त्यन्तपदोपस्थापिते धर्मिणि प्रतियोगिनि च नञोऽन्योन्याभाव-बोधकत्वनियमस्य व्युत्पत्तिबलसिद्धत्वाद् ‘घटः पटो न भवति’ इति वाक्यवद् ‘इदं रजतं न भवती’ति वाक्यस्यान्योन्याभावबोधकत्वे स्थिते अभिलापजन्यप्रतीतितुल्यत्वादभिलप्यमानप्रतीतेः ‘नेदं रजतमि’ति वाक्याभिलप्यप्रतीतेरन्योन्याभावविषयत्वमेव । तथा चेदंशब्दनिर्दिष्टे पुरोवर्ति-प्रातीतिकरजते रजतशब्दनिर्दिष्टव्यावहारिकरजतान्योन्याभावप्रतीतेरार्थिकं मिथ्यात्वम् । ‘नात्र रजतमि’ति वाक्याभिलप्यमाना प्रतीतिरत्यन्ताभावविषया; भिन्नविभक्त्यन्तपदोपस्थापितयोरेव धर्मि-प्रतियोगिनोर्नञः संसर्गाभावबोधकत्वनियमात् । सा च पुरोवर्तिप्रतीतस्यैव व्यावहारिक-मत्यन्ताभावं विषयीकरोति, इति कण्ठोक्तमेव मिथ्यात्वम्; अतो नापसिद्धान्तः, नान्यथा-ख्यात्यापत्तिः, न वा ग्रन्थविरोध इति ॥

अत्रोच्यते – प्रातिभासिकरजतस्य लौकिकपरमार्थरजततादात्म्येन त्वन्मते प्रतीतिर्न युक्ता; प्रातिभासिकरूप्यस्य लौकिकपारमार्थिकरजताज्ञानाकार्यत्वात् । प्रातिभासिकस्य स्वोपादाना-ज्ञाननिवर्तकज्ञानविषयेणैव तादात्म्यप्रतीतेश्च । न हि पुरोवर्तितत्त्वाज्ञानेऽपि लौकिकपरमार्थ-रजततत्वज्ञानमात्रात् प्रातिभासिकरजतनिवृत्तिरस्ति । ‘शुक्लः पटः’ इति तु शुक्ल-पटयोरेका-ज्ञानकार्यत्वाद् एकत्राध्यासाच्च । नचैवं घट–पटयोरपि तादात्म्यप्रतीत्यापत्तिः । तादृशप्रतीतौ सत्यामेव तस्य निमित्तत्वं कल्प्यते, ‘आरोपे सति निमित्तानुसरणम्, नतु निमित्तमस्तीत्या-रोपः’ इति न्यायात् । लौकिकपरमार्थरजतसन्निकर्षादिरूपसामग्रीविरहाच्च । अत एव त्वयाऽ-न्यथाख्यातिः प्रत्याख्याता । तस्माद् लौकिकपरमार्थरजतमेवेदंपदास्पदे स्वरूपेण निषिद्ध्यत इत्येव त्वत्प्राचामाचार्याणां वाचामर्थः । तत्र भ्रमबाधवैयधिकरण्यादिदोषस्तु दण्डापूपन्यायेन ममानुकूल एव । तस्माद् दुष्परिहरोऽपसिद्धान्तादिदोष इति ॥

न्यायामृतकण्टकोद्धारः

नाद्यः श्रुत्यादिसिद्धोत्पत्त्यादिकस्येति ॥ अत्र प्राचीनं विशेषणद्वयं ‘वियदादे-रि’त्यस्यैव । उत्तरद्वयं परमतानुसारेण वियदादेः शुक्तिरूप्यादेश्चेत्युभयोरपि । अत्र स्वरूपेण त्रैकालिकनिषेधे श्रुत्यादिसिद्धोत्पत्त्यादिकत्वमर्थक्रियाकारित्वमविद्योपादानकत्वं तत्त्वज्ञाननाश्यत्वं च न स्यात् । स्वरूपेण निषिद्धस्य शशशृृङ्गादेस्तददर्शनादित्यभिप्रेतम् ।

न्यायामृतप्रकाशः

वियदादेरसद्विलक्षणस्वरूपोपपादनाय श्रुत्यादीति विशेषणद्वयम् । असद्विलक्षणस्वरूपाभावे उत्पत्तिरयुक्ता स्यात् । न चेष्टापत्तिः । तस्याः श्रुत्यादिसिद्धत्वात् । अर्थाक्रियापि निःस्वरूपत्वे न स्यादिति भावः । वियदादे रूप्यादेश्चोभयोरप्यसद्विलक्षणस्वरूपोपपादनायाविद्येत्यादि । निस्स्वरूपत्वे सोपादानत्वादेरयोगादिति भावः ॥ धीकाल इति ॥ सदिति प्रतीयमानस्यापि न निस्स्वरूपत्वं युक्तमिति वक्तुमिदमुक्तमिति द्रष्टव्यम् । तथा चैतादृशमिथ्यात्वसाधने वियदादौ बाधः । शुक्ति-रूप्यादौ त्वद्रीत्या साध्यवैकल्यं चेत्युक्तं भवति ॥ आपणस्थेति ॥ आभासस्य प्रसक्त्या अनाभासस्य निषेधाङ्गीकारादिति भावः । तथा च स्वरूपेण निषेधप्रतियोगित्वं शुक्तिरूप्ये नास्तीति लक्षणस्या-सम्भव इति हृदयम् ॥

न्यायकल्पलता

किञ्चेति । वायौ रूपात्यन्ताभाववत्स्वरूपेणैव ब्रह्मणि प्रपञ्चस्य पुरोवर्तिनि च रजतस्यात्यन्ताभावो वा । घटे वाच्यत्वस्य सत्वेऽपि समवेतत्वेन वाच्यत्वात्यन्ताभाववत्पारमार्थिकत्वेन व्यधिकरणेन धर्मेण तत्र तस्यात्यन्ताभावो वा प्रपञ्चस्य रजतस्य वा मिथ्यात्वमिति विकल्पार्थः ।

ननु प्रपञ्चस्य रूप्यादेश्च स्वरूपानुपमर्देन निषेध इत्यनुपपन्नम् । मिथ्यापदार्थस्य स्वरूपस्यैवा-भावादत उक्तमसद्विलक्षणेति । असतो निरुपाख्यस्य परं स्वरूपं नास्ति । प्रपञ्चस्य व्यावहारिकस्य रूप्यादेश्च प्रातिभासिकस्य चाज्ञानोपादानकत्वेनासद्वैलक्षण्यात्तस्य किंचित्स्वरूपमस्त्येवेति भावः -श्रुत्यादिसिद्धोत्पत्यादिकस्येति । आद्यं विशेषणद्वयं वियदादेः सर्वसम्मत्या । परमतेन तु तृतीय तुर्ये विशेषणे वियदादे रूप्यादेश्चेति बोध्यम् । असद्विलक्षणस्वरूपेणेतीत्थंभूतलक्षणे तृतीया । अत्रैते प्रयोगाः । विमतं स्वरूपेण प्रतिपन्नोपाधौ त्रैकालिकनिषेधप्रतियोगि न प्रमितस्वरूपत्वात्सत्स्वरूपत्वा-द्वाऽऽत्मवत् । वियदादिस्वरूपं वा उक्तनिषेधप्रतियोगि न, सत्वेन प्रमितत्वात् सम्मतवदिति । न चासिद्धो हेतुः । परेणापि धीकाले सत्वाङ्गीकारात् । अन्यथाऽसच्चेन्न प्रतीयेतेति स्वोक्तिव्याघाता-पातादिति भावः । विमतं वा सस्वरूपम् अनिषिद्धस्वरूपं वा, तथात्वेन श्रुतिप्रमितत्वादात्मवत् । विमतं वा न निःस्वरूपं श्रुतिसिद्धोत्पत्तिकत्वात् तत्सिद्धस्थितिकत्वात् प्रमितसंहृतिमत्वाद् अर्थक्रियाकारित्वाद्वा सोपादानत्वान्नाशप्रतियोगित्वाद्वा व्यतिरेकेण नृशृृङ्गवत् । अर्थक्रियाकारित्वेन हेतुना ब्रह्म दृष्टान्तीकृत्य निःस्वरूपत्वाभावो वा साध्यः । जीवा वा स्वतो मुक्तभिन्नस्वरूपाः साध्यमुक्तिमत्वेन प्रमितत्वा-न्निगडमुक्तवत्, मुमुक्षुत्वाद् वा । तथा च श्रुत्यादिप्रमितोत्पत्त्यादिकस्य सत्वेनापरोक्षतया धीकाले विद्यमानस्यासद्विलक्षणस्वरूपस्य त्रैकालिकनिषेधो न सम्भवति । उत्पत्याद्यसम्भवापातात् । यतो वा इमानि भूतानि जायन्त इति श्रुत्यादिविरोधाच्चेत्यर्थः । अनेन विपक्षे हेतूच्छित्तिरेव बाधिकेत्युक्तं भवति । त्रैकालिकेति । तथा चापसिद्धान्तश्चेत्यर्थः ।

अत्राहुर्नवीनाद्वैतवादिनः । प्रपञ्चे रूप्ये च स्वरूपेणैव त्रैकालिकनिषेधप्रतियोगित्वं स्वीकुर्मः । तथा हि । शुक्तौ रजतभ्रमानन्तरमधिष्ठानतत्वसाक्षात्कारेण रूप्यं नास्ति नासीन्न भविष्यतीति स्वरूपेणेव ‘नेह नानास्ति किञ्चनेति श्रुत्या च प्रपञ्चस्य स्वरूपेणैव निषेधप्रतीतेः । न च तत्र लौकिक-परमार्थरजतमेव निषेधप्रतियोगीति वाच्यम् । भ्रमबाधयोर्वैय्यधिकरण्यापत्तेः । अप्रसक्तप्रतिषेधापत्तेश्च । न च तर्हि उत्पत्याद्यसम्भवः । न ह्यनिषिद्धस्वरूपत्वमुत्पत्यादिमत्वे तन्त्रम् । परैरनिषेध्यस्वरूपत्वेनाङ्गी-कृतस्य वियदादेरुत्पत्याद्यनङ्गीकारात् । किन्तु वस्तुस्वभावादिकमन्यदेव किंचित्प्रयोजकं वक्तव्यम् । तस्य मयापि कल्पितस्य स्वीकारात् । न च त्रैकालिकनिषेधं प्रति स्वरूपेणापणस्थं रूप्यं पारमार्थिकत्वा-कारेण प्रातिभासिकं वा प्रतियोगीति मतहानिः स्यादिति वाच्यम् । अस्य च लौकिकपारमार्थिकरजत-तादात्म्येन प्रतीतं प्रातिभासिकमेव रजतं प्रतियोगीत्यर्थः । तच्च स्वरूपेण पारमार्थिकत्वेन चेत्यनास्थायां वाशब्दः । एतावदुक्तिश्च पुरोवर्तितादात्म्येनैव रजतं प्रतीयत इति मतनिरासार्थं लौकिकपारमार्थिकरजत-तादात्म्येनापि प्रतीयत इति प्रतिपादयितुं च । तदुक्तं तत्वप्रदीपिकायाम् । ‘‘तस्माल्लौकिकपरमार्थ-रजतमेव नेदं रजतमिति निषेधप्रतियोगीति पूर्वाचार्याणां वाचोयुक्तिरपि पुरोवर्तिनि रजतार्थिनः प्रवृत्तिदर्शनाल्लौकिकपरमार्थरजतत्वेनापरोक्षतया प्रतीतस्य कालत्रयेऽपि लौकिकपरमार्थरजतमिदं न भवतीति निषेधप्रतियोगितामङ्गीकृत्य नेतव्ये’’ति ।

अयमभिप्रायः । एकविभक्यन्तपदोपस्थापिते धर्मिणि प्रतियोगिनि च नञोऽन्योन्याभावबोधकत्व-नियमस्य व्युत्पत्तिबलसिद्धत्वाद्घटः पटो न भवतीति वाक्यवदिदं रजतं न भवतीति वाक्यस्यान्योन्या-भावबोधकत्वे स्थितेऽभिलापजन्यप्रतीतितुल्यत्वादभिलप्यमानप्रतीतेर्नेदं रजतमिति वाक्याभिलप्य-प्रतीतेरन्योन्याभावविषयत्वेमव । तथा चेदंशब्दनिर्दिष्टे पुरोवर्तिप्रातीतिकरजते रजतशब्दनिर्दिष्ट-व्यावहारिकरजतान्योन्याभावप्रतीतेरार्थिकं मिथ्यात्वम् । नात्र रजतमिति वाक्याभिलप्या च प्रतीति-रत्यन्ताभावविषया । भिन्नविभक्त्यन्तपदोपस्थापितयोरेव धर्मिप्रतियोगिनोर्नञः संसर्गाभावबोधकत्व-नियमात् । सा च पुरोवर्तिप्रतीतरजतस्यैव व्यावहारिकतदत्यन्ताभावं विषयीकरोतीति कण्ठोक्तमेव मिथ्यात्वम् । अतो नापसिद्धान्तो नान्यथाख्यात्यापत्तिर्न वा ग्रन्थविरोध इति ।

अत्राभिधीयते । विवर्तमते शुक्त्यधिष्ठानचिदाश्रिताविद्योपादानकस्य प्रातिभासिकरजतस्य लौकिक-परमार्थरजततादात्म्येन प्रतीतिरनुपपन्ना । प्रातिभासिकस्य रूप्यस्य लौकिकपारमार्थिकरजताधिष्ठान- चैतन्याश्रिताविद्यानुपादानकत्वात् । प्रातिभासिकस्य स्वोपादानाज्ञानाश्रयचिदध्यस्तेन सन्निकृष्टे-नेदंकारास्पदेनैवाभेदप्रतीतेश्च । स्वोपादानाज्ञाननिवर्तकाधिष्ठानतत्वापरोक्षज्ञानविषयेण पुरोवर्तिनैव तादात्म्यभानाच्च । न हि पुरोवर्तिशुक्तितत्त्वाज्ञानेऽपि लौकिकपरमार्थरजततत्वज्ञानमात्रात्प्रातिभासिक-रजतनिवृत्तिरस्ति । एवं च परमते भिन्नभिन्नाज्ञानकार्यत्वाल्लौकिकप्रातिभासिकरजतयोर्न सामानाधि-करण्यभानम् । शुक्लः पट इति तु शुक्लपटयोरेकाज्ञानकार्यत्वादेकत्राध्यासाच्च । न चैवं घटपटयोरपि तादात्म्यप्रतीत्यापत्तिः । तादृशप्रतीतौ सत्यामेव तस्य परैर्निमित्तत्वं कल्प्यते । आरोपे सति निमित्तानु-सरणं न तु निमित्तमस्तीत्यारोप इति न्यायात् । लौकिकपरमार्थरजतसन्निकर्षादिरूपतत्साक्षात्कार-सामग्रीविरहाच्च । अत एव विवर्तवादिना नैय्यायिकाभिमतान्यथाख्यातिः प्रत्याख्याता । तस्माल्लौकिक-परमार्थरजतमेवेदंपदास्पदे स्वरूपेण निषिध्यत इत्येव त्वत्प्राचामाचार्याणां वाचामर्थः । तत्र भ्रमबाध-वैय्यधिकरण्यादिदोषस्तु दण्डापूप न्यायेनास्मदनुकूल एव ।

यच्चोक्तं न ह्यनिषिद्धस्वरूपत्वमुत्पत्त्यादिमत्वे तन्त्रं, अतिप्रसङ्गादिति । तन्न । सोपादानस्वरूपत्वं प्रमितकारणकस्वरूपत्वं वा प्रमितपराधीनस्वरूपत्वं वा तत्र तन्त्रमित्यभ्युपगमात् । वस्तु सस्वभावं निःस्वरूपं चेति व्याहतम् ॥ तस्माद्दुष्परिहारोऽपसिद्धान्तादिदोष इति ।

न्यायामृतसौगन्ध्यं

किञ्चैतन्निषेधप्रतियोगित्वं किं स्वरूपेण ? उतासद्विलक्षणस्वरूपानुपमर्देन पारमार्थिकत्वाकारेण ? नाद्यः । श्रुत्यादिसिद्धोत्पत्तिकस्यार्थक्रियासमर्थस्याविद्योपादानकस्य तत्वज्ञाननाश्यस्य च वियदादे रूप्यादेश्च अविद्यादेश्च धीकाले विद्यमानेनासद्विलक्षणस्वरूपेण त्रैकालिकनिषेधायोगात् । नापि द्वितीयः । अबाध्यत्वरूपपारमार्थिकत्वस्य बाध्यत्वरूपमिथ्यात्वनिरूप्यत्वेनान्योन्याश्रयात् । पारमार्थिकत्वस्यापि स्वरूपेण निषेधे प्रथमपक्षोक्तदोषापत्तिः । अतस्तस्यापि पारमार्थिकत्वाकारेण निषेधेऽनवस्था स्यात् ।

यत्तु पारमार्थिकत्वं प्रकृते न बाध्यत्वाभावः किन्तु ज्ञाननिवर्त्यमात्रविेशेष्यकधीः । तथा च विशेष्यतासम्बन्धेन तदवच्छिन्नस्य प्रतियोगित्वस्य निवेशेऽन्योन्याश्रयानवकाशः (पारमार्थिकत्वस्य तद्घटितमिथ्यात्वाघटितत्वात्) इति । तन्न । सेत्वादिदर्शननिवर्त्यदुरितादौ तादृशधियोऽभावेऽपि पारमार्थिकत्ववज् जगत्यपि तदभावे पारमार्थिकत्वोपपत्तौ अर्थान्तरत्वात् ।

किञ्चान्यत्र व्यधिकरणधर्मावच्छिन्नस्य प्रतियोगिनः सर्वथाऽसत्वेनासत्ख्यात्यापत्तिर् इष्टापत्तावप-सिद्धान्तापत्तिश्च । प्रपञ्चमात्रस्यैव प्रतियोगित्वात् । तत्र च पारमार्थिकत्वरूपव्यधिकरणधर्मोऽवच्छेदक इति चेत् । तद्वैशिष्ठ्यज्ञानस्यान्यथाख्यातिरूपत्वात् तदङ्गीकारापत्याऽप्यपसिद्धान्तापत्तिरिति ।

ननु स्वरूपेण त्रैकालिकनिषेधप्रतियोगित्वं प्रपञ्चे शुक्तिरूप्ये चाङ्गीक्रियते । तथा हि । शुक्तौ रजतभ्रमानन्तरम् अधिष्ठानतत्वसाक्षात्कारे रूप्यं नास्ति, नासीत्, न भविष्यतीति स्वरूपेणेव नेह नानेत्यादिश्रुत्या च प्रपञ्चस्य स्वरूपेणैव निषेधः प्रतीयते । न च तत्र लौकिकपारमार्थिकरजतमेव स्वरूपेण निषेधप्रतियोगीति वाच्यम् । भ्रमबाधयोर्वैय्यधिकरण्यापत्तेः । अप्रसक्तनिषेधापत्तेश्च । न च तर्ह्युत्पत्याद्य-सम्भवः । न ह्यनिषिद्धस्वरूपत्वमुत्पत्यादिमत्वेे तन्त्रम् । परैरनिषेध्यस्वरूपत्वेनांगीकृतस्य वियदादे-रुत्पत्याद्यनंगीकारात् । किन्तु वस्तुस्वभावादिकमन्यदेव किञ्चित्प्रयोजकं वाच्यम् । तस्य त्वयाऽपि कल्पितस्य स्वीकारात् ।

यत्तु नन्वेवं रूप्यमुत्पन्नं नष्टं चेति धीप्रसंगस् त्रैकालिकनिषेधप्रतीतिश्च न स्यादिति चेत्् । न । उत्पादविनाशप्रतीतिरियं भ्रान्तिसमय आपाद्यते ? बाधसमये वा ? नाद्यः । पूर्वोत्पन्नाविनष्टशुक्त्यभिन्नतया ग्रहस्यैव प्रतिबन्धकत्वात् । विरोधिज्ञानानुदये रूप्यस्याविनाशाच्च । नापरः । अत्यन्ताभावग्रहस्यैव प्रतियोगिग्रह इव एतदुत्पादविनाशग्रहेऽपि प्रतिबन्धकत्वात् । न हि कुत्रापि कदाऽप्यत्यन्ताभावाधिकरणत्वेन प्रतीते उत्पादे विनाशप्रतीतिरस्ति । इति । अत्रेदं प्रतिभाति । घट उत्पन्नो घटो नष्ट इति सर्वजनप्रतीतेरप्यपलापापत्तेः । तथा हि, इयं प्रतीतिर्भ्रान्तिसमय आपाद्यते ? बाधसमये वा ? नाद्यः । अनुत्पन्नाविनष्टसद्रूपब्रह्माभिन्नतया ग्रहस्यैव प्रतिबन्धकत्वात् । विरोधिब्रह्मज्ञानानुदयपर्यन्तं घटावस्थिति-प्रसंगाच्च । नापरः । अत्यन्ताभावग्रहस्यैव प्रतिबन्धकत्वात् ।

यत्तु ननु आरोप्यधर्मोत्पादादिकमधिष्ठाने प्रत्येतुमुचितमिति चेन्न । यद्रूपविशिष्टस्यारोप्यता तद्रूपविशिष्टस्यैवाधिष्ठाने धीर् उत्पादादिकं तु मिथ्यात्वादिकमिवावृतत्वान् न तथा । अन्यथा त्वदभ्युप-गतमसत्वमपि रूप्यादिनिष्ठं तथा स्यादिति । तन्न । ब्रह्मभिन्नस्य कल्पितत्वेनावृतत्वासम्भवात् । तद्रूपत्वेन मिथ्यात्वस्यावृतत्वेऽप्युत्पत्यादेस् तदसम्भवादिति दिक् ।

न च त्रैकालिकनिषेधं प्रति स्वरूपेणापणस्थरूप्यं वा पारमार्थिकत्वाकारेण प्रातिभासिकं वा प्रतियोगीति मतहानिः स्यादिति वाच्यम् । अस्याचार्यवचसः पारमार्थिकलौकिकरजततादात्म्येन प्रतीतं प्रातिभासिकमेव रजतं प्रतियोगीत्यर्थः । तच्च स्वरूपेण पारमार्थिकत्वेन वेत्यनास्थायां वाशब्दः । एतावदुक्तिश्च पुरोवर्तियत्तादात्म्येनैव रजतं प्रतीयत इति मतनिरासार्थम् । लौैकिकपरमार्थरजततादात्म्येनापि प्रतीयत इति प्रतिपादयितुं च । तदुक्तं तत्त्वप्रदीपिकायां– ‘तस्माल्लौकिकपरमार्थरजतमेव नेदं रजतमिति निषेेधप्रतियोगीति पूर्वाचार्याणां वाचोयुक्तिरपि पुरोवर्तिरजतार्थिनः प्रवृत्तिदर्शनाल्लौकिकपरमार्थरजतत्वेना-परोक्षतया प्रतीतस्य कालत्रयेऽपि लौकिकपरमार्थरजतमिदं न भवतीति निषेधप्रतियोगितामंगीकृत्य नेतव्ये’ति ।

अयमभिप्रायः । एकविभक्त्यन्तपदोपस्थापिते धर्मिणि प्रतियोगिनि च नञोऽन्योन्याभावबोधकत्व-नियमस्य व्युत्पत्तिसिद्धत्वात् । घटः पटो न भवतीतिवद् इदं रजतं न भवतीति वाक्यस्यान्योन्याभावबोधकत्वे स्थितेऽभिलापजन्यप्रतीतितुल्यत्वादभिलप्यमानप्रतीतेर्नेदं रजतमिति वाक्याभिलप्यमानप्रतीतेरन्योन्या-भावविषयकत्वमेव । तथा चेदंशब्दनिर्दिष्टे पुरोवर्तिप्रातीतिकरजते रजतशब्दनिर्दिष्टव्यावहारिकरजता-न्योन्याभावप्रतीतेरार्थिकं मिथ्यात्वम् । नात्र रजतमिति वाक्याभिलप्या प्रतीतिरत्यन्ताभावविषया । भिन्नविभक्त्यन्तपदोपस्थापितयोरेव धर्मिप्रतियोगिनोर्नञः संसर्गाभावबोधकत्वनियमात् । सा च पुरोवर्तिप्रतीतरजतस्यैव व्यावहारिकमत्यन्ताभावं विषयीकरोति इति कण्ठोक्तमेव मिथ्यात्वम् । अतो नापसिद्धान्तः । नाप्यन्यथाख्यात्यापत्तिर् न वा ग्रन्थविरोध इति चेन्न । स्वरूपेणैव निषेधे श्रुत्याद्युक्तोत्पत्याद्यसम्भवात् ।

न हीत्याद्यशुद्धम् । न ह्यनिषिद्धत्वम् उत्पत्यादिव्याप्यमिति वदामः । ब्रह्मणि व्यभिचारात् । किन्तु उत्पत्तिमत्वमनिषिद्धत्वव्याप्यमिति तुच्छे व्यतिरेकसहचारदर्शनात् ।

किन्त्वित्ययुक्तम् । एतदतिरिक्तस्य वस्तुस्वभावस्यानिरूपणात् ।

अस्येत्याद्ययुक्तम् । विषमसत्ताकयोस्तादात्म्येन भान एकस्यापराज्ञानकार्यत्वनियमात् । स्वोपादानाज्ञाननिवर्तकज्ञानविषय एव तादात्म्यारोपाच्च । अतो न लौकिकव्यावहारिकरजते प्रातिभासिकरजतस्य तादात्म्यारोपः । अन्यथा पुरोवर्तितत्त्वाज्ञाने व्यावहारिकरजतत्त्वज्ञाने च प्रातिभासिकरजतस्य निवृत्तिः स्यात् । अतस्तदधिष्ठानस्यैव पुरोवर्तिनस्तादात्म्यारोपाद् व्यावहारिकरजतादेः प्रातीतिकतादात्म्यारोपोक्तिर्युक्तैव । किञ्च व्यावहारिकस्योपनायकाभावात्कथं प्रातिभासिके तादात्म्यारोपः । तत्प्रतीत्यंगीकारे अन्यथाख्यात्यापत्तिरेव ।

यत्तु प्रातीतिके तदुत्पत्तिकालोत्तरम् उत्पन्नेन दूरत्वादिदोषेणासन्निहितस्यानधिष्ठानस्यापि व्यावहारिकस्य तादात्म्यारोपो दृष्टः । व्यावहारिकरजतस्येन्द्रियासन्निकृष्टत्वेेेऽपि तदंशे स्मृतिरूपभ्रमसम्भव इति । तन्न । एकत्र तादात्म्येनारोपितस्य प्रातिभासिकस्यान्यत्र तादात्म्येनारोपासम्भवात् । किन्त्वन्यदेव प्रातिभासिकं तत्र तादात्म्यतयाऽरोपितम् (तादात्म्यारोपितम्) ।

अयमभिप्राय इत्याद्यशुद्धम्् । प्रत्यक्षानुभवे शब्दस्वभाववर्णनस्यानुपयोगात् ।

किञ्च स्वरूपेणैव निषेधे अत्यन्तासत्त्वापत्तिः । प्रतिपन्नोपाधौ त्रैकालिकनिषेधप्रतियोगित्वं ह्यन्यत्रासत्वेन सम्प्रतिपन्नस्य घटादेः सर्वत्र त्रैकालिकनिषेधप्रतियोगित्वपर्यन्तमिति त्वन्मतम् । अन्यथा तेषामन्यत्र सत्वापातात् । न हि तेषामन्यत्र सत्ता सम्भवतीति त्वदुक्तेश्च । तथा च कथमसद्वैलक्षण्यं ? न हि शशशृृंगादेरितोेऽन्यदसत्त्वमस्ति । न च निरुपाख्यत्वमेव तदसत्वम् । निरुपाख्यपदेनैव ख्यायमानत्वात् । नाप्यप्रतीयमानत्वमसत्वम् । असतोेऽप्रतीतावसद्वैलक्षण्यज्ञानस्यासत्प्रतीतिनिरासस्यासत्पदप्रयोगस्य चा-योगात् । न चापरोक्षतयाऽप्रतीयमानत्वं तत् । नित्यातीन्द्रियेष्वतिव्याप्तेः ।

न्यायामृतमाधुरी

किञ्चेत्यादि । स्वरूपेण स्वस्य निषेध्यस्याम्बरादेः रूपेण समानाधिकरणधर्मेण । प्रतियोगि-त्वान्वय्यवच्छिन्नत्वं तृतीयार्थः । पारमार्थिकत्वाकारेण व्यधिकरणपारमार्थिकत्वावच्छिन्नम् । श्रुत्या-दीति । षष्ट्यन्तचतुष्टयी वियदादेः, उत्तरतदन्तद्वयी रूप्यादेरित्यस्य विशेषणम् । कालत्रयेऽपि अनवस्थितस्योत्पत्याद्यसम्भवज्ञापनाय एतदुपादानम् ॥ त्रैकालिकेत्यादि । तथा चैतद्वचनस्य शुक्तिवृत्तित्रैकालिकनिषेधं प्रति स्वरूपेणापणस्थरूप्यस्य प्रतियोगित्वं, प्रतीतिकस्य तु पारमार्थिकत्वेन तदित्येवंपरतया सम्प्रति प्रातीतिकस्य स्वरूपेण तदित्युपगमे अपसिद्धान्तः स्यादित्यर्थः ।

अत्र औतसिद्धिकारः । स्वरूपेणैव त्रैकालिकनिषेधप्रतियोगित्वस्य प्रपञ्चे शुक्तिरूप्ये चाङ्गीकारात् । तथा हि । शुक्तौ रजतभ्रमानन्तरमधिष्ठानतत्वसाक्षात्कारे रूप्यं नास्ति नासीन्न भविष्यतीति स्वरूपेणेव नेह नानेति श्रुत्या च प्रपञ्चस्य स्वरूपेणैव निषेधप्रतीतेः । न च तत्र लौकिकपरमार्थरजतमेव स्वरूपेण निषेधप्रतियोगीति वाच्यम् । भ्रमबाधयोर्वैय्यधिकरण्यापत्तेः । अप्रसक्तप्रतिषेधापत्तेश्च । न च तर्ह्युत्पत्याद्यसम्भवः । न ह्यनिषिद्धस्वरूपवत्वमुत्पत्यादिमत्वे तन्त्रम् । परैरनिषेध्यस्वरूपत्वेनाङ्गीकृतवियदादेरुत्पत्याद्यनङ्गीकारात् । किन्तु वस्तुस्वभावादिकमन्यदेव किञ्चित्प्रयोजकं वक्तव्यम् । तस्य मयाऽपि कल्पितस्य स्वीकारात् ।

न च त्रैकालिकनिषेधं प्रति स्वरूपेणापणस्थरूप्यं पारमार्थिकत्वाकारेण प्रातिभासिकं वा प्रतियोगीति मतहानिः स्यादिति वाच्यम् । अस्याचार्यवचसः पारमार्थिकलौकिकरजततादात्म्येन प्रतीतप्रातिभासिकमेव रजतं प्रतियोगीत्यर्थः । तच्च स्वरूपेण पारमार्थिकत्वेन वेत्यनास्थायां वाशब्दः । एतावदुक्तिश्च पुरोवृत्तितादात्म्येनैव रजतं प्रतीयत इति मतनिरासार्थम् । लौकिकपरमार्थरजत-तादात्म्येनापि प्रतीयत इति प्रतिपादयितुं च । तदुक्तं तत्त्वप्रदीपिकायाम् । ‘‘तस्माल्लौकिकपरमार्थ-रजतमेव नेदं रजतमिति निषेधप्रतियोगीति पूर्वाचार्याणां वाचोयुक्तिरपि पुरोवर्तिनि रजतार्थिनः प्रवृत्तिदर्शनाल्लौकिकपरमार्थरजतत्वेनापरोक्षतया प्रतीतस्य कालत्रयेऽपि लौकिकपरमार्थरजतमिदं न भवतीति निषेधप्रतियोगितामङ्गीकृत्य नेतव्या’’ इति । अयमभिप्रायः । एकविभक्त्यन्तपदोपस्थापिते धर्मिणि प्रतियोगिनि च नञोऽन्योन्याभावबोधकत्वनियमस्य व्युत्पत्तिबलसिद्धत्वाद्घटः पटो न भवतीति वाक्यवदिदं रजतं न भवतीति वाक्यस्याऽन्योन्याभावबोधकत्वे स्थितेऽभिलापजन्यप्रतीति-तुल्यत्वादभिलप्यमानप्रतीतेर्नेदं रजतमिति वाक्याभिलप्यप्रतीतेरन्योन्याभावविषयकत्वमेव । तथा चेदंशब्दनिर्दिष्टे पुरोवृत्तिप्रातीतिकरजते रजतशब्दनिर्दिष्टव्यावहारिकरजतान्योन्याभावप्रतीतेरार्थिकं मिथ्यात्वम् । नात्र रजतमिति वाक्याभिलप्यातु प्रतीतिरत्यन्ताभावविषया । भिन्नविभक्त्यन्तपदोप-स्थापितयोरेव धर्मिप्रतियोगिनोर्नञः संसर्गाभावबोधकत्वनियमात् । सा च पुरोवृत्तिप्रतीतरजतस्यैव व्यावहारिकमत्यन्ताभावं विषयीकरोतीति कण्ठोक्तमेव मिथ्यात्वम् । अतो नापसिद्धान्तो नान्यथा-ख्यात्यापत्तिर्न वा ग्रन्थविरोध इत्यनवद्यमिति ।

तन्न साधीयः । स्वरूपेणैव निषेधे श्रुत्याद्युक्तोत्पत्याद्यसम्भवात् । नह्यसति धर्मिणि धर्मोत्पादो युज्यते । अतीतादिविषयकसाम्प्रतिकज्ञानेनासति धर्मिणि ज्ञाततोत्पादायोगेन हि ज्ञातता पराक्रियते तदनभ्युपगन्तृभिः । अनिषिद्धस्वरूपत्वस्योत्पत्यादिव्यापकतया व्यापकाभावेन व्याप्यस्योत्पत्यादेर-भावमापादयन्तं प्रति अनिषिद्धस्वरूपत्वे वियदादावुत्पत्यादिव्यभिचरितत्वोक्तेस्तत्तात्पर्यानवधान-विजृम्भितत्वात् । वह्निर्धूमव्यभिचरित इत्येतावता तदभावो न धूमाभावस्यापादकः ।

यदभ्यधाद् ब्रह्मानन्दः किन्तु वस्तुस्वभावादिकमित्यादिग्रन्थे अन्यदेवेत्येवकारेणोत्पत्यादि-व्यापकत्वमनिषिद्धस्वरूपत्वे नास्तीति ज्ञापितमिति । तदात्मीयव्याख्यानाकौशलनियन्त्रितमेव । पूर्वग्रन्थेनानिषिद्धस्वरूपत्वस्योत्पत्यादितन्त्रतायां निरस्तायां खलु ‘‘जीव ईशो विशुद्धा चिद्विभागश्च तयोर्द्वयोः । अविद्यातच्चितोर्योगः षडस्माकमनादयः’’ इति अविद्यादिषट्कभिन्नदृश्यत्वस्यान्यदिति पदोपात्तस्य सम्भवत्यामुत्पत्यादितन्त्रतायां तदितरस्य तन्निरासावसर इति । अविद्यादिषट्कभिन्नत्वस्य व्यासज्यवृत्तिधर्मावच्छिन्नप्रतियोगिताकभेदरूपस्य प्रत्येकसाधारण्येन ब्रह्मानन्ददिशा प्रयोजकपदोपात्त-समव्यापकत्वस्योत्पत्यादिनिरूपितस्यासम्भवेनोक्तक्षतेः स्वमतेऽपि दुर्वारत्वात् । अविद्यात्वादिरूपा ये षड्धर्माः प्रत्येकं तत्तदवच्छिन्नप्रतियोगिताकभेदकूटविवक्षायां तादृशभेदानां सामानाधिकरण्यसम्बन्धेन मिथो विशेषणविशेष्यभावे विनिगमनाविरहेण कार्यकारणभावद्वादशकापत्तेः । सिद्धान्ते लक्ष्म्या-दीनामपि पराधीनविशेषलाभरूपोत्पत्तेः समर्थिततया ईशान्यत्वस्यैव लाघवेन तत्र तन्त्रताया अनपवादत्वादित्यलम् । ब्रह्मनन्देनाविद्यादिषट्कभिन्नत्वरूपस्यानिषिद्धस्वरूपत्वातिरिक्तवस्तुस्वभावस्य निरूपणेऽपि ‘‘किन्त्वित्ययुक्तम् । एतदतिरिक्तवस्तुस्वभावस्यानिरूपणादिति’’ निबध्नानो वनमालिमिश्रोऽपि दर्शितार्थमभिप्रैति । आपणस्थरजततादात्म्येन भ्रमे भानस्यान्यथारव्यात्युपगन्त्रॄणां मते सम्भवेऽपि अनिर्वचनीयख्यातिमते अधिष्ठानचैतन्यावरकाज्ञानोपादानकस्य प्रातीतिकस्य स्वोपादानाज्ञाननिवर्तकज्ञानविषयेणैव तादात्म्यस्य भानमित्युपगमेन प्रातीतिकस्य व्यावहारिक-रजताज्ञानकार्यतया पुरोवृत्तितत्वज्ञानेनैव व्यावहारिकरजततत्वज्ञानेन प्रातिभासिकरूप्यानिवर्तनेन स्वोपादाना ज्ञाननिवर्तकज्ञानविषयीभूतव्यावहारिकरजततादात्म्येन भानासम्भवाद् व्यावहारिक-रजतसन्निकर्षाज्ञानादिघटितसामग्रीविरहेणान्यथाख्यातिं प्रत्याख्यातुः पुनस्तत्तादात्म्येन भानोपगमस्या-सङ्गतत्वात् ।

यदत्र ब्रह्मानन्दीयं प्रातीतिकतदुत्पत्तिकालोत्तरमुत्पन्नेन दूरत्वादिदोषेणासन्निहितस्यानधिष्ठान-स्यापि व्यावहारिकस्य तादात्म्यारोपदर्शनाद् व्यावहारिकरजतस्येन्द्रियासन्निकृष्टत्वेऽपि तदंशे स्मृतिरूपभ्रमस्य सम्भवादिति । तदप्यन्यथाख्यात्यापत्त्यादिनैव परास्तम् । सदृशं च सजातीयं नास्मत्पक्षे किमेव हि’’ इति सदसतोः साजात्यसमर्थनेनैव प्रातीतिके व्यावहारिकतादात्म्यारोप-मन्तरेण रजतार्थिनः पुरोवर्तिनि प्रवृत्तिरुपपादितैवेति । घटो द्रव्यमित्यन्वयधीरभेदविषयिणी तादृशी प्रत्यक्षप्रतीतिस्तु घटत्वसमवायविषयिणीति न तयोर्नियततुल्यत्वम् । अनियततुल्यत्वनिरूपणस्य तु न प्रकृतानुपयोगात्प्रत्यक्षज्ञाने शब्दस्वारस्येनार्थकथनस्यायुक्तत्वाच्चेत्यलम् ।