उच्यते– मिथ्यात्वं हि त्वयैव पक्षान्तरनिषेधेन पञ्चधा निरुक्तम्
७. प्रथममिथ्यात्वभङ्गः
न्यायामृतम्
उच्यते– मिथ्यात्वं हि त्वयैव पक्षान्तरनिषेधेन पञ्चधा निरुक्तम् । तत्राऽद्ये किं सत्त्वे सत्यसत्त्वरूपविशिष्टस्याभावोऽभिप्रेतः? किं वा सत्त्वात्यन्ताभावासत्त्वात्यन्ता-भावरूपधर्मद्वयम्? यद्वा सत्त्वात्यन्ताभाववत्त्वे सति असत्त्वात्यन्ताभाववत्त्वरूपं विशिष्टम्? नाद्यः । मन्मते सदेकस्वभावे जगति तस्य सिद्धत्वात् । न द्वितीयः । व्याहतेः । निर्धर्मकब्रह्मवत्सत्त्वराहित्येऽपि सद्रूपत्वेनामिथ्यात्वोपपत्त्याऽर्थान्तराच्च । पृथिवी इतरभिन्ना पृथिवीत्वादित्यत्र त्रयोदशान्योन्याभावानामिवात्रापि सत्त्वा-सत्त्वात्यन्ताभावयोः प्रत्येकं प्रसिद्धत्वेन कथञ्चिदप्रसिद्धविशेषणत्वाभावेऽपि असत्त्वात्यन्ताभावांशे सिद्धसाधनाच्च । न हि सिद्धमसिद्धेन सहोच्चरितमसिद्धं भवति । पृथिवी इतरभिन्नेत्यत्र तु जलाद्येकैकान्योन्याभावोऽपि न पृथिवीत्वोपहिते सिद्धः । दृष्टान्तस्य साध्यवैकल्याच्च । पृथिवीत्वहेतुस्तु केवलव्यतिरेकी । त्रयोदशा-न्योन्याभावरूपसाध्यस्य व्यतिरेकनिरूपणं तु भिन्नाश्रितानामपि त्रयोदशान्योन्या-भावानां समूहालम्बनैकज्ञानोपारूढत्वमात्रेण युक्तम् । अत एव न तृतीयः । व्याहतेरर्थान्तरात्, दृष्टान्ते साध्यवैकल्याच्च ॥
अद्वैतसिद्धिः
ननु किमिदं मिथ्यात्वं साध्यते? न तावत् ‘मिथ्याशब्दोऽनिर्वचनीयतावचनः’ इति पञ्चपादिका वचनात् सदसत्त्वानधिकरणत्वरूपमनिर्वाच्यत्वम् । तद्धि किम् असत्त्वविशिष्टसत्त्वाभावः? उत सत्त्वात्यन्ताभावासत्त्वात्यन्ताभावरूपं धर्मद्वयम्? आहोस्वित् सत्त्वात्यन्ताभाववत्त्वे सति असत्त्वात्यन्ताभावरूपं विशिष्टम्? नाद्यः । सत्त्वमात्राधारे जगत्यसत्त्वविशिष्टसत्त्वानभ्युपगमात् । विशिष्टाभावसाधने सिद्धसाधनात् । न द्वितीयः । सत्त्वासत्त्वयोरेकाभावे अपरसत्त्वावश्यकत्वेन व्याघातात् । निर्धर्मकब्रह्मवत्सत्त्वराहित्येऽपि सद्रूपत्वेन अमिथ्यात्वोपपत्त्या अर्थान्तराच्च । शुक्तिरूप्ये अबाध्यत्वरूपसत्त्वव्यतिरेकस्य सत्त्वेन बाध्यत्वरूपासत्त्वस्य व्यतिरेकासिद्ध्या साध्यवैकल्याच्च । अत एव न तृतीयः । पूर्ववद् व्याघातात्, अर्थान्तरात्साध्यवैकल्याच्चेति चेत्, मैवम् । सत्त्वात्यन्ताभावा-सत्त्वात्यन्ताभावरूपधर्मद्वयविवक्षायां दोषाभावात् । न च व्याहतिः ।
सा हि सत्त्वासत्त्वयोः परस्परविरहरूपतया वा? परस्परविरहव्यापकतया वा? परस्परविरह-व्याप्यतया वा? तत्र नाद्यः । तदनङ्गीकारात् । तथा ह्यत्र त्रिकालाबाध्यत्वरूपसत्त्वव्यतिरेको नासत्त्वम् । किं तु क्वचिदप्युपाधौ सत्त्वेन प्रतीयमानत्वानधिकरणत्वम् । तद्व्यतिरेकश्च साध्यत्वेन विवक्षितः । तथा च त्रिकालबाध्यविलक्षणत्वे सति क्वचिदप्युपाधौ सत्त्वेन प्रतीयमानत्वरूपं साध्यं पर्यवसितम् । एवं च सति न शुक्तिरूप्ये साध्यवैकल्यमपि । बाध्यत्वरूपसत्त्वव्यतिरेकस्य साध्याप्रवेशात् । नापि व्याघातः परस्परविरहरूपत्वाभावात् । अत एव न द्वितीयोऽपि । सत्त्वा-भाववति शुक्तिरूप्ये विवक्षितासत्त्वव्यतिरेकस्य विद्यमानत्वेन व्यभिचारात् । नापि तृतीयः । तस्य व्याघाताप्रयोजकत्वात् । गोत्वाश्वत्वयोः परस्परविरहव्याप्यत्वेऽपि तदभावयोरुष्ट्रादावेकत्र सहोप-लम्भाद् । यच्च निर्धर्मकस्य ब्रह्मणः सत्त्वराहित्येऽपि सद्रूपवत्प्रपञ्चस्य सद्रूपत्वेनामिथ्यात्वोपपत्त्या अर्थान्तरमुक्तं तन्न । एकेनैव सर्वानुगतेन सर्वत्र सत्प्रतीत्युपपत्तौ ब्रह्मवत् प्रत्येकं प्रपञ्चस्य सत्स्वभावताकल्पने मानाभावात् । अनुगतव्यवहाराभावप्रसङ्गाच्च । सत्प्रतियोगिकासत्प्रतियोगिकभेदद्वयं वा साध्यम् । तथा चोभयात्मकत्वेऽन्यतरात्मकत्वे वा तादृग्भेदासम्भवेन ताभ्यामर्थान्तरानवकाशः ।
न्यायामृततरङ्गिणी
सिद्धान्ताभिधानं प्रतिजानीते – उच्यत इति ॥ पञ्चधेति ॥ सदसत्त्वानधिकरणत्वं वा? सर्वस्मिन् प्रतिपन्नोपाधौ त्रैकालिकनिषेधप्रतियोगित्वं वा? ज्ञानत्वेन ज्ञाननिवर्त्यत्वं वा? स्वात्यन्ताभावाधिकरण एव प्रतीयमानत्वं वा? सद्रूपत्वाभावो वा? इति पञ्चप्रकारैर्मिथ्यात्वं लक्षितमित्यर्थः । तत्राद्य इति ॥ ‘सदसत्त्वानधिकरणत्वमि’त्यत्र सच्छब्दः सत्त्वपरः । तत्र सत्त्वं किमसत्त्वविशेषणं वा? सत्त्वासत्त्वे प्रत्येकमनधिकरणस्य विशेषणं वा? सच्छब्दात् परतोऽनधिकरणत्वशब्दरूपमध्यमपदलोपिसमासाश्रयणेन सत्त्वानाधिकरणत्वस्य विशेषणं वाऽभिप्रेतमिति प्रश्नवाक्यार्थः । मन्मत इति ॥ विशेष्याभावायत्तो विशिष्टाभावोऽस्तीत्यर्थः । व्याहतेरिति ॥ सत्त्वाभावसाधनेऽसत्त्वस्य प्राप्त्या पुनरसत्त्वाभावसाधने व्याहतिरित्यर्थः ।
ननु न व्याहतिः । सा हि तयोः परस्परविरहव्यापकतया वा? परस्परविरहव्याप्यतया वा? परस्परविरहरूपतया वा? नाद्यः । सत्त्वाभाववति शुक्तिरूप्ये बाध्यत्वरूपासत्त्वस्य विद्यमानत्वेऽपि क्वचिदप्युपाधौ सत्त्वेन प्रतीयमानत्वानधिकरणत्वरूपासत्त्वव्यतिरेकस्य विद्य-मानत्वेन व्यभिचारितया सत्त्वव्यतिरेकं प्रत्यसत्त्वस्य व्यापकत्वाभावात् । निर्धर्मके ब्रह्मण्यु-भयस्यापि व्यभिचाराच्च । न द्वितीयः, तस्य व्याघाताप्रयोजकत्वात् । गोत्वाश्वत्वयोः परस्परविरहव्याप्यत्वेऽपि तदभावयोरुष्ट्रादावेकत्र सहोपलम्भात् । न तृतीयः । सत्त्वासत्त्वयोः परस्परविरहरूपत्वानङ्गीकारात् । तथाहि – अत्र त्रिकालबाध्यत्वरूपसत्त्वव्यतिरेको नासत्त्वम्, किन्तु क्वचिदप्युपाधौ सत्त्वेन प्रतीयमानत्वानधिकरणत्वम् । तद्व्यतिरेकश्च साध्यत्वेन विवक्षितः । तथाच त्रिकालाबाध्यविलक्षणत्वे सति क्वचिदप्युपाधौ सत्त्वेन प्रतीयमानत्वरूपं साध्यं पर्यवसितम्; तथा च न व्याहतिरिति चेत्, मैवम्; ‘असच्चेन् न प्रतीयेते’ति वदता त्वया उक्ताप्रतीतिं प्रति प्रयोजकस्य प्रतीत्यनुपाधिकस्य सत्त्वविरोधिनोऽसत्त्वस्य वक्तव्यत्वाद् असत्त्वाभावः सत्त्वेन प्रतीयमानत्वे पर्यवसन्न इति तत्साधनस्य व्यर्थत्वात् ।
न च असद्वैलक्षण्यसिद्ध्यर्थ्यं तत्साधनमिति वाच्यम् । प्रतीयमानत्वस्यासत्साधारणत्वात् । ‘‘तद्धैक आहुरसदेवेदमग्र आसीदि’’ त्यसतः सत्त्वेन प्रतीतेः श्रुत्याऽनूदितत्वात् । न च असत इव प्रतीतेरनुवादो न प्रतीतिसत्तामापादयतीति वाच्यम् । असतः सत्त्वेन प्रतीतिमत ‘एक’ इत्यसत्प्रतीतेः सत्त्वस्यैवोक्तेः । न च – ‘‘तद्धैक आहुरि’’ति श्रुत्या ‘‘सदेव सौम्येदमग्र आसीदि’’ति श्रुत्यर्थस्याभाव एव प्रतिपाद्यते निषेधायेति वाच्यम् । ‘‘सदेव सोम्येदमि’’ति श्रुत्यर्थाभावस्यासत्त्वेनासतः सत्त्वप्रतीत्यनिवारणात् ।
अत्रेदमालोचनीयम् । सत्वासत्त्वयोः परस्परप्रागभावादिरूपतया परस्परविरहरूपत्वासम्भवे-नात्यन्ताभावरूपतयैव परस्परविरहरूपता वाच्या । तत्रापि त्रिकालसर्वदेशीयनिषेध-प्रतियोगित्वादिरूपस्य सत्त्वस्याभावरूपतयाऽसत्त्वात्यन्ताभावः सत्त्वमिति वाच्यम् । तथा सति सिद्धान्तेऽत्यन्ताभावस्यासन्मात्रप्रतियोगिकत्वस्वीकारेणा – सत्त्वस्यात्यन्तासत्त्वापत्तिः । न च तार्किकादिमतेन तयोः परस्परविरहरूपत्वाभिधानमिति वाच्यम् । स्वमते व्याहत्युक्तेर-सम्भवापत्तेः, सिद्धान्तेऽप्यसत्त्वाभाव एव सत्त्वमिति स्वीकाराच्च । यद्वक्ष्यति ‘‘मया लाघवादा-वश्यकत्वादसत्त्वाभाव एव सत्त्वमिति स्वीकारात्, ‘द्वौ नञौ प्रकृतमर्थं सातिशयं गमयतः’ इति न्यायेनैकतरनिषेधस्यान्यतरविधिरूपत्वात्, ‘माता वन्ध्ये’तिवद् व्याघातः’’ इति । ‘‘मया त्रिकाल–सर्वदेशीयनिषेधाप्रतियोगित्वप्रतियोगित्वे सत्त्वासत्त्वे इति स्वीकारादि’’ति च । ‘‘सत्त्वासत्त्वे, एकधर्मिनिष्ठात्यन्ताभावप्रतियोगिनी न, परस्परात्यन्ताभावरूपत्वाद् घटत्वा-घटत्ववदि’’ति च ।
ननु – घटादिसत्त्वं न शशशृृङ्गादिगतासत्त्वस्यात्यन्ताभावरूपम्, येन तस्य तुच्छत्वं स्यात् । किन्तु घटादौ भ्रान्तिप्रतिपन्नासत्त्वस्येति चेत्, न; सत्त्वस्य यदसत्त्वं प्रत्यत्यन्ताभावरूपत्वम्, तत्प्रत्यसत्त्वस्यात्यन्ताभावरूपत्वानुपपत्तेः । निःस्वरूपत्वात् । घटादिगतसत्त्वस्य शशशृृङ्गादि-गतासत्त्वस्य च विरहयोरेकत्रोक्तौ बाधकाभावाच्च । तयोः परस्परविरहरूपत्वाभावस्य त्वयै-वोक्तेः । अत्र ब्रूमः– समानसत्ताकयोः परस्परविरहयोर् व्याप्यत्वे सति व्यापकत्वं परस्पर-विरहरूपत्वम् । तादृशयोरभावौ नैकत्र सम्भवतः घटादौ सत्त्वे सत्यपि शशशृृङ्गादिगता-सत्त्वस्यात्यन्ताभावो नेति व्यभिचारवारणाय समानसत्ताकेति विरहविशेषणम् । अभेदेऽपि व्याप्यव्यापकभावोऽस्त्येव । एवञ्च न शशशृृङ्गादिगतासत्त्वस्यासत्त्वापत्तिरिति ॥
निर्धर्मकेति ॥ उभयाभावसाधनेऽपि ब्रह्मवत् सद्रूपत्वानुपमर्दादित्यर्थः । ननु – ‘‘एकेनैव सर्वानुगतेन सर्वत्र सत्प्रतीत्युपपत्तौ ब्रह्मवत् प्रत्येकं प्रपञ्चस्य सत्स्वभावताकल्पने मानाभावात्, अनुगतव्यवहाराभावप्रसङ्गाच्च, सत्प्रतियोगिकासत्प्रतियोगिकभेदद्वयं वा साध्यम् । तथा चोभयात्मकत्वे, अन्यतरात्मकत्वे वा तादृग्भेदाभावेन ताभ्यामर्थान्तरानवकाश इति चेत्, मैवम् । रजतं विनाऽपि शुक्तौ रजतप्रतीतिव्यवहारादिदर्शनात् सत्पदार्थं विनाऽपि सत्प्रतीत्यादे-रुपपत्तावतिलाघवम् इति ब्रह्मापि सद्रूपं न सिद्धे्यत् । प्रमितत्वाद् ब्रह्म सद्रूपमिति तु जगत्यपि तुल्यम् । एतेन अनेकसत्कल्पनरूपबाधकतर्कसहकृतसत्त्वाभावानुमानमेव सद्रूपत्वाभावेऽपि पर्यवस्यति इति न सद्रूपत्वेनार्थान्तरमिति निरस्तम् । तर्कस्य प्रमितसद्रूपत्वानपवादकत्वात् । अन्यथा सत्त्वाभावानुमानस्य लाघवेन प्रातीतिकसत्त्वाभावेऽपि पर्यवसानेन जगत् शून्यमेव स्यादिति साधूक्तम्– ‘‘अर्थान्तराच्चे’’ति । सदसदुभयान्योन्याभावस्य साध्यतायां तु व्याहति-साध्यवैकल्यादिर्दोषोऽस्त्येव । त्रयोदशेति ॥ अभावमनन्तर्भाव्य त्रयोदशत्वं बोध्यम् । कथञ्चिदिति ॥ अनुमितिविषयस्योभयाभावरूपस्य साध्यस्यैकस्मिन्नधिकरणे प्रसिद्ध्यभावेऽपि प्रत्येकाधिकरण उभयाभावप्रसिद्धिरस्तीत्यर्थः । असत्त्वात्यन्ताभावांश इति ॥ यथा पक्षतावच्छेदकनानात्वे क्वचिदधिकरणे पक्षतावच्छेदकावच्छेदेन साध्यसिद्धेर्जातत्वात् तत्पक्षांशे सिद्धसाधनम्, तथा साध्यतावच्छेदकनानात्वेऽपि सिद्धसाध्यांशे सिद्धसाधनमेव; साध्यता-वच्छेदकावच्छिन्नस्य पक्षतावच्छेदकावच्छेदेन सिद्धिरूपस्य सिद्धसाधनबीजस्योभयत्रापि तुल्यत्वादित्यर्थः ।
ननु – साध्यतावच्छेदकनानात्वेऽप्युभयाभावगोचरसमूहालम्बनरूपैकानुमित्युद्देशेन नांशतः सिद्धसाधनम् । असत्त्वात्यन्ताभावांशेऽप्युद्देश्यायाः समूहालम्बनरूपायाः सिद्धेरजातत्वात् । अनुमितिद्वयोद्देशे च सिद्धसाधनमेव नांशतः सिद्धसाधनम् । न चैवम् पक्षतावच्छेदक-नानात्वेऽप्युक्तविधया नांशतः सिद्धसाधनमिति वाच्यम्; इष्टापत्तेरिति चेत्, सत्यम्; समूहा-लम्बनानुमित्युद्देश्यत्व एव तस्या असत्त्वाभावांशे पक्षतावच्छेदकावच्छेदेन सिद्धं यत् साध्यता-वच्छेदकावच्छिन्नसाध्यम्, तद्विषयकसिद्धिरूपत्वेन सिद्धसाधनत्वाभिधानमित्यदोषः ।
ननु अपेक्षाबुद्धिविषयत्वादेर्व्यासज्यवृत्तिधर्मस्य साध्यतावच्छेदकतायां नांशतस्सिद्धसाधनम्, अत एवानुपदमेव वक्ष्यति ‘साध्यतावच्छेदकैक्याद् नांशे सिद्धसाधनमितीति’ चेत्, सत्यम् । तत्र व्याहत्यादिरेव दोषो बोध्यः । ननु साध्यकोटिनिविष्टस्यासत्त्वात्यन्ताभावस्य पक्षे सिद्धौ यदि सिद्धसाधनम्, तदा ‘पृथिवी इतरभिन्ने’त्यत्र त्रयोदशान्योन्याभावानामपि ‘घटो न जलादिरि’ति पृथिवीत्ववति प्रतीत्या घटादौ सिद्धेः सुतरां सिद्धसाधनं स्यादित्यत आह– पृथिवीति ॥ पृथिवीत्वोपहित इति ॥ घटादिभिन्नपृथिवीत्वोपहित इत्यर्थः । यथाश्रुते त्रयोदशान्योन्या-भावानां पृथिवीत्वसामानाधिकरण्यस्यापि घटादौ सिद्ध्या उक्तदोषतादवस्थ्यात् । दृष्टान्त-स्येति ॥ असत्त्वाभावस्य साध्यतावच्छेदकावच्छिन्नस्य शुक्तिरूप्यादावभावादित्यर्थः । ननु बाध्यत्वरूपासत्त्वव्यतिरेकस्य तत्राभावेऽपि क्वचिदप्युपाधौ सत्त्वेन प्रतीयमानत्वानधिकरणत्व-रूपासत्त्वव्यतिरेको रूप्यादावप्यस्त्येव । तस्य तत्त्वेन प्रतीयमानत्वात् । मैवम् । सत्त्वेन प्रतीयमानत्वरूपस्यासत्त्वव्यतिरेकस्य साधनं व्यर्थमित्युक्तत्वेन बाध्यत्वरूपासत्त्वव्यतिरेकस्यैव साधयितुमुचितत्वेन साध्यवैकल्यापरिहारात् । ननु अभावद्वयस्य साध्यतायां रूप्ये सत्त्वाभावस्य सत्त्वेऽपि असत्त्वाभावाभावेन यदि साध्यवैकल्यम्, तर्हि ‘पृथिवी, इतरभिन्ने’त्यत्र जले तेजः-प्रभृतिद्वादशभेदानां सत्त्वेऽपि जलभेदस्याभावेन साध्यवैकल्यम् । एवं तेजःप्रभृतिष्वपि स्वस्वेतरप्रतियोगिकद्वादशभेदसत्त्वेऽपि स्वस्वभेदाभावात् साध्यवैकल्यमेव स्यादित्याशङ्क्याह– पृथिवीत्वहेतुस्तु केवलव्यतिरेकीति ॥ तथा च न तत्र दृष्टान्तापेक्षा इति न तत्प्रयुक्त-साध्यवैकल्यादिदोषावकाश इति भावः । ननु पृथिवीत्वहेतौ दृष्टान्तानपेक्षणे साध्यप्रसिद्ध्य-भावेन साध्यव्यतिरेकनिरूपणं न स्यादित्यत आह– त्रयोदशेति ॥ साध्यतावच्छेदका-वच्छिन्नानां त्रयोदशान्योन्याभावानां स्वस्वाधिकरणे विद्यमानानां ज्ञाने सति साध्यव्यतिरेक-निरूपणं स्यादित्यर्थः ।
ननु एवमेकैकान्योन्याभावाधिकरणस्यापि साध्यतावच्छेदकावच्छिन्नसाध्याधिकरणतया तद्व्यावृत्तस्य हेतोरसाधारण्यं स्यादित्याशङ्कापरिहारायोक्तम् – समूहालम्बनैकज्ञानोपारूढत्व-मात्रेणेति । एकैकान्योन्याभावस्य न साध्यतावच्छेदकावच्छिन्नत्वम्; साध्यतावच्छेदकस्य समूहालम्बनैकज्ञानोपारूढत्वस्य व्यासज्यवृत्तेर्धर्मस्य प्रत्येकाभावेष्वपर्याप्तेः । तथाच प्रत्येका-भावाधिकरणस्य न सपक्षत्वम्, साध्यतावच्छेदकावच्छिन्नसाध्यरहितत्वात् । तदुक्तं ‘‘तावद-भावयोगी ह्यत्र सपक्षो भवति, न तु तदेकदेशकतिपयाभाववान्, साध्यतायास्तावति पर्याप्तेरि’’ति । सत्त्वात्यन्ताभावादेस्तु प्रत्येकं साध्यतावच्छेदकावच्छिन्नत्वेऽपि नासाधारण्यम्; दृष्टान्तस्य सत्त्वादिति भावः ।
ननु ‘अत एवे’त्यतिदिष्टा व्याहतिरनुपपन्ना; एकत्र विरुद्धोभयप्रतियोगिकात्यन्ताभावसाधने हि सा स्यात् । न चात्रोभयात्यन्ताभावौ साध्यावित्यत आह– व्याहतेरिति । उभयत्यन्ता-भावयोस्सामानाधिकरण्योक्तौ व्याहतिवद् उभयात्यन्ताभावयोः सामानाधिकरण्येन सम्बन्धेन विशेषण–विशेष्यभावोक्तावपि व्याहतिरित्यर्थः ।
न्यायामृतकण्टकोद्धारः
सिद्धान्तयति – उच्यत इति । मन्मत इति । असत्त्वरूपविशेष्याभावापन्नस्य विशिष्टा-भावस्य सिद्धत्वेन सिद्धसाधनमिति भावः । व्याहतेरिति । यदत्रोक्तम् – सत्त्वासत्त्वयोः परस्परप्रागभावादिरूपतया परस्परविरहरूपत्वासम्भवेनात्यन्ताभावरूपतयैव परस्परविरहरूपता वाच्या । तत्र च त्रिकालसर्वदेशीयनिषेधप्रतियोगित्वादिरूपस्यासत्त्वस्य भावरूपतयाऽसत्त्वा-त्यन्ताभावः सत्त्वमिति वाच्यम् । तथा सति सिद्धान्तेऽत्यन्ताभावस्यासन्मात्रप्रतियोगिकत्व-स्वीकारेणासत्त्वस्यात्यन्तासत्त्वापत्तिः । न च तार्किकादिमतेन तयोः परस्परविरहरूप-त्वाभिधानमिति वाच्यम्; स्वमते व्याहत्युक्तेरसङ्गतत्वापत्तेः । सिद्धान्तेऽप्यसत्त्वाभाव एव सत्त्व-मिति स्वीकाराच्च । यद्वक्ष्यति यथा लाघवादावश्यवकत्वासत्त्वाभाव एव सत्त्वमित्यादीति तत्तुच्छम् ।
सिद्धान्तेऽत्यन्ताभावस्यासन्मात्रप्रतियोगिकत्वस्वीकारेण सत्त्वस्यासत्त्वात्यन्ताभावरूपत्वेऽ-सत्त्वस्यात्यन्तासत्त्वं स्यादित्यापादयतः कोऽभिप्रायः? क्वचिदत्यन्ताभावप्रतियोगिनः सर्वत्रा-त्यन्तासत्त्वं स्यादिति वा? उत यत्रात्यन्ताभावस्तत्रैव वा? नान्त्यः; इष्टापत्तेः । यत्र ह्यसत्त्वा-त्यन्ताभावस् तदधिकरणसंसृष्टासत्त्वस्यात्यन्तासत्त्वाङ्गीकारात् । नाद्यः । आपादकाभावात् । न हि क्वचिदत्यन्ताभावप्रतियोगित्वे सर्वत्रात्यन्तासत्त्वं सम्भवति । तथा सति अश्वनिष्ठनिषेध-प्रतियोगिनो गोत्वस्य गव्यप्यत्यन्तासत्त्वापत्तेः । न चैवम् अत्यन्ताभावस्यासन्मात्र-प्रतियोगिकत्वमिति सिद्धान्तो व्याकुप्यत इति वाच्यम्; न हि क्वचिदत्यन्ताभावप्रतियोगिनः सर्वत्रासत्त्वमिति सिद्धान्तेऽभ्युपगमः । येन विरोधः । किन्तु सत्संसृष्टासत्त्वस्यैव । अत एव शुक्तिसंसृष्टरजतत्वस्यात्यन्तासत्त्वेऽपि न तत्प्रधानीभूतरजतत्वस्यात्यन्तासत्त्वम्; तथाऽप्रतीतेः । यद्वा स्यादेतदसत्त्वस्यात्यन्तासत्त्वापादनं यद्यसत्त्वस्य तत्प्रतियोगित्वमभ्युपगच्छामः । न चैवम्, किन्त्वसत्त्वसंसर्गस्यैव । तथा च तत्संसर्गस्यात्यन्तासत्त्वेऽप्यसत्त्वस्य नात्यन्तासत्त्वापत्तिः । न चैवम् असत्त्वसंसर्गस्यात्यन्ताभावप्रतियोगित्वे असत्त्वस्यापि प्रतियोगिकोटौ निविष्टत्वेना-त्यन्तासत्त्वं स्यादिति वाच्यम् । दण्डविशिष्टदेवदत्ताभावे दण्डस्य प्रतियोगितावच्छेदकत्वेना-प्रतियोगित्ववदसत्त्वस्य प्रतियोगितावच्छेदकत्वान् न प्रतियोगित्वमिति नात्यन्तासत्त्वापत्तिरिति । न चैवं व्याहत्युद्भावनं न स्यात् । असत्त्वाभावस्यासत्त्वसंसर्गप्रतियोगिकत्वेन सत्त्वासत्त्वयोः परस्परविरहरूपत्वाभावादिति वाच्यम्; परस्परसंसर्गाभावव्याप्यतया ‘सत्त्वसंसर्गाभावेऽसत्त्व-संसर्गापत्तिरसत्वसंसर्गाभावे सत्त्वसंसर्गापत्तिरि’ति व्याहत्युद्भावनस्य सम्भवात् । अत एव सिद्धान्ते ‘घटो नास्ती’त्यत्र घटस्य प्रामाणिकत्वेनात्यन्ताभावप्रतियोगित्वासम्भवेऽपि घटसंसर्गस्य प्रतियोगित्वमास्थितम् । एवमेव मूलकोशोऽपि व्याख्यातव्य इति ।
कथञ्चिदप्रसिद्धेति ॥ अभावद्वयस्यैकस्मिन्नधिकरणे प्रसिद्ध्यभावेऽपि भिन्नाश्रये प्रसिद्धत्वादित्याशयेन कथञ्चिदित्युक्तमिति भावः । असत्त्वात्यन्ताभावांश इति ॥ ननु पक्षतावच्छेदकावच्छेदेनोद्देश्यसिद्धौ हि सिद्धसाधनता । एवं च प्रकृत उभयाभावगोचरसमूहा-लम्बनानुमितेरुद्देश्यत्वेन नांशतः सिद्धसाधनम् । उद्देश्यायाः समूहालम्बनानुमितेरजातत्वात् । अनुमितिद्वयोद्देश्यत्वे च सिद्धसाधनमेव, नांशतः सिद्धासाधनम् । तथा चांशतः सिद्धसाधनो-द्भावनमयुक्तम् इति, मैवम्; साध्यतावच्छेदकनानात्वेन साध्यतावच्छेदकावच्छिन्नस्यैकस्य साध्यस्य पक्षतावच्छेदकावच्छेदेन सिद्धौ सिद्धसाधनं स्यादेव । न च समूहालम्बनानुमिते-रुद्देश्यत्वाद् उद्देश्यासिद्धौ कथं सिद्धसाधनमिति वाच्यम्; प्रत्येकानुमितेरुद्देश्यत्वेन समूहा-लम्बनानुमितेरुद्देश्यत्वाभावात् । न च तथात्वे संपूर्णसिद्धसाधनस्यैव सम्भवेन कथमंशतः सिद्धसाधनाभिधानमिति वाच्यम्; साध्यद्वय एकसाध्यस्य सिद्धत्वाभिप्रायेण तथाऽभिधानात् ।
अन्ये तु – समूहालम्बनानुमितेरुद्देश्यत्व एव तस्या असत्त्वात्यन्ताभावांशे पक्षतावच्छेदका-वच्छेदेन सिद्धं यत् साध्यतावच्छेदकावच्छिन्नं साध्यं तद्विषयसिद्धिरूपत्वेन सिद्धसाधन-त्वाभिधानमित्यदोष इत्याहुः । तन्न; समूहालम्बनानुमितेरसत्त्वात्यन्ताभावांशे पक्षतावच्छेदका-वच्छेदेन सिद्धं यत् साध्यतावच्छेदकावच्छिन्नं साध्यं तद्विषयसिद्धिरूपत्वेऽप्युद्देश्यायाः समूहालम्बनरूपसाध्यसिद्धेरजातत्वेनांशतः सिद्धसाधनाभिधानासम्भवात् । अन्यथा पक्षता-वच्छेदकनानात्वे समूहालम्बनरूपानुमितावुद्देश्यायामप्यंशतः सिद्धसाधनापत्तेः । तत्रापि समूहालम्बनरूपानुमितेः पक्षतावच्छेदकावच्छेदेन सिद्धं यत् साध्यतावच्छेदकावच्छिन्नं साध्यं तद्विषयसिद्धिरूपत्वात् । तस्माद् यत्किञ्चिदेतत् ।
ननु इतरभेदानुमानेऽप्यंशतः सिद्धसाधनं स्यात्, अत आह– पृथिवीतरेति ॥ ननु इतरभेदानुमानेऽपि दृष्टान्ते साध्यवैकल्यं स्यादित्यत आह– पृथिवीत्वहेतुरिति ॥ साध्यता-वच्छेदकावच्छिन्नस्य त्रयोदशान्योन्याभावरूपस्य साध्यस्याप्रसिद्धत्वेन व्यतिरेकनिरूपणाभावात् कथं व्यतिरेकित्वम्? अत आह– त्रयोदशेति ॥
न्यायामृतप्रकाशः
पक्षान्तरनिषेधेनेति ॥ यद्यपीत्यादिग्रन्थसन्दर्भेणेत्यर्थः ॥ पञ्चधेति ॥ तथापीत्यादिग्रन्थेन सदसत्त्वानधिकरणत्वं सर्वस्मिन्प्रतिपन्नोपाधौ त्रैकालिकनिषेधप्रतियोगित्वं वा ज्ञानत्वेन ज्ञाननिवर्त्यत्वं वा स्वात्यन्ताभावाधिकरण एव प्रतीयमानत्वं वा सद्रूपत्वाभावो वेति पञ्च प्रकारेण निरुक्तमित्यर्थः । सदसत्वेत्यत्र सच्च तदसच्चेति कर्मधारयाभिप्रायेणाह– सत्त्वे सतीति ॥ सच्चासच्च सदसती तयोर्भावः सदसत्त्वं द्वन्द्वान्ते श्रूयमाणस्त्वप्रत्ययोऽनधिकरणपदं च प्रत्येकं सम्बध्यते । तथा च सत्त्वा-नधिकरणत्वमसत्त्वानधिकरणत्वं चेति धर्मद्वयं साध्यमित्याशयेनाह– किं वेति ॥ तस्येति ॥ सत्त्वे सत्यसत्त्वरूपविशिष्टाभावस्येत्यर्थः ॥ व्याहतेरिति ॥ परस्परविरुद्धयोरन्यतरनिषेधस्यान्यतर- विधिनान्तरीयकत्वात्सत्वात्यन्ताभावे साध्येऽसत्त्वस्यैव प्राप्त्या पुनस्तदत्यन्ताभावे साध्ये व्याहतिः । एवमसत्त्वात्यन्ताभावे साध्ये सत्त्वस्यैव प्राप्त्या पुनस्तदत्यन्ताभावसाधने व्याहतिरित्यर्थः । ननु कथं व्याहतिः सत्त्वासत्त्वयोः परस्परप्रागभावादिरूपतया परस्परविरहरूपत्वासम्भवेनात्यन्ताभावरूपतयैव परस्परविरहरूपता वाच्या । तथा च सत्त्वात्यन्ताभावः कथमसत्त्वम् । सिद्धान्ते अत्यन्ताभावस्या-प्रामाणिकप्रतियोगिकत्वस्वीकारेण सत्त्वस्य प्रामाणिकत्वात् । तथा असत्त्वस्यापि तुच्छे प्रामाणिकत्वेन तदत्यन्ताभावासम्भवेनासत्त्वात्यन्ताभाव एव सत्त्वमित्यस्याप्ययोगात् । न च तार्किकादिमते प्रामाणिकस्याप्यत्यन्ताभावप्रतियोगित्वस्वीकारात्तन्मतेन तयोः परस्परविरहरूपत्वाभिधानमिति वाच्यम् । सिद्धान्तेऽप्यसत्त्वाभाव एव सत्त्वं सत्त्वाभाव एवासत्त्वमिति स्वीकारात् । यद्वक्ष्यति । ‘‘मया लाघवादावश्यकत्वादसत्त्वाभाव एव सत्त्वं तदभाव एवासत्त्वमिति स्वीकारा’’दिति । तथा च प्रामाणिकस्यात्यन्ताभावासम्भवेन असति किञ्चिदारोपितं सत्त्वमस्ति तदत्यन्ताभाव एवासत्त्वम् । सति चारोपितं किञ्चिदसत्त्वमस्ति तदत्यन्ताभाव एव सत्त्वमिति वाच्यम् । आरोपितयोश्चा-सत्त्वेनात्यन्ताभावप्रतियोगित्वसम्भवात् । एवं चारोपितसत्त्वाद्यभावस्यैवासत्त्वादित्वे आरोपितसत्त्वा-सत्त्वयोरेव व्याहतिप्राप्त्या वास्तवसत्त्वासत्त्वयोः कथं व्याघातः । तस्मादेतत्कथमिति चेदत्र वदन्ति ।
सत्त्वासत्त्वयोः परस्परविरहरूपत्वोक्तेः परस्परविरहव्यापकत्वे तात्पर्यम् । तथा च यत्रारोपित-सत्त्वात्यन्ताभावस् तत्रासत्त्वम् । यत्रारोपितासत्त्वात्यन्ताभावस्तत्र सत्त्वमिति व्याप्तेः । न च घटे वास्तवसत्त्वसद्भावेनारोपितसत्त्वात्यन्ताभावस्य सत्त्वेऽप्यसत्त्वाभावात्, एवं तुच्छे वास्तवासत्त्वसत्त्वे-नारोपितासत्त्वात्यन्ताभावसद्भावेऽपि सत्त्वाभावाद्व्यभिचारः । तथा च कथं परस्परविरह-व्यापकत्वमपीति वाच्यम् । अत्यन्ताभावस्य प्रतियोग्यारोपपूर्वकत्वाद्यथा प्रतियोगिना सह विरोधस् तथा प्रतियोग्यारोपे यत्प्रधानं तेनापि विरोधस्याङ्गीकार्यत्वात् । एवं चात्रात्यन्ताभावे प्रतियोगिभूतं यदारोपितं सत्त्वं तत्र यत्प्रधानं वास्तवं सत्त्वं तेन सममत्यन्ताभावस्य विरोधात् । घटे च प्रधान-भूतवास्तवसत्त्वसद्भावेन तत्रारोपितसत्त्वात्यन्ताभावस्य वक्तुमशक्यत्वात् । एवं तुच्छे असत्वारोप-प्रधानभूतवास्तवासत्वसद्भावेनारोपितासत्त्वात्यन्ताभावस्य वक्तुमशक्यत्वात् । एवं च न व्यभिचारः । तथाच परस्परविरहव्यापकत्वेन विरोधो युक्त इति ।
नन्वथापि प्रधानभूतं वास्तवं सत्त्वं घटेऽस्ति तत्रारोपितसत्त्वात्यन्ताभावोऽप्यस्ति । तुच्छे प्रधानभूतवास्तवासत्त्वमस्ति आरोपितासत्त्वात्यन्ताभावोप्यस्तीति कथं प्रतियोग्यारोपे प्रधानेनापि विरोध इति चेदुच्यते । यत्र प्रधानं वास्तवं सत्त्वं तत्रारोपितसत्त्वात्यन्ताभावो नास्तीत्यस्य प्रतियोग्यधिकरणसंसर्गारोपपूर्वकप्रतीतिविषयाभावो नास्तीत्यर्थकरणात् । यत्र घटे प्रधानभूतं वास्तवसत्त्वमस्ति तत्र सत्त्वमारोप्य न निषिध्यते । एवं यत्र तुच्छे प्रधानभूतं वास्तवासत्त्वमस्ति तत्र असत्त्वमारोप्य न निषिध्यते इति कृत्वा असत्त्वारोपपूर्वकप्रतीतिविषयाभावरूपारोपितासत्त्वात्यन्ता-भावो नास्तीति युक्तः परस्परविरहव्यापकत्वेन विरोध इति । एवमेव दोषात्यन्ताभावरूपभगवल्लक्षणं न सम्भवति । दोषाणां प्रामाणिकत्वेन तदत्यन्ताभावायोगादिति शङ्किते आरोपितदोषात्यन्ताभावस्य लक्षणत्वं वाच्यम् । ननु तर्हि जीवेऽतिव्याप्तिरिति चेन्न । तत्राप्यत्यन्ताभावस्य प्रतियोग्यारोपप्रधानेन विरोधात् । दोषाणामारोपे प्रधानभूतानां वास्तवदोषाणां जीवे सत्त्वेन तत्र दोषानारोप्य निषेधः कर्तुं न शक्यते । तथा च प्रतियोग्यधिकरणसंसर्गारोपपूर्वकप्रतीतिविषयाभावाख्यारोपितदोषात्यन्ताभावो जीवे नास्ति । अस्ति च भगवति । भगवति आरोपिता दोषा न सन्तीति निषेधस्य कर्तुं शक्यत्वात् । अत्यन्ताभावस्य प्रतियोग्यारोपप्रधानेन विरोधात् । दोषारोपप्रधानभूतवास्तवदोषाणां च भगवत्यभावेन निषेधसम्भवेन दोषाभावादिति द्रष्टव्यम् । सत्त्वात्यताभावोपपादनाय निर्धर्मकेत्युक्तम् । सत्त्वा-राहित्यस्य सद्रूपत्वानुपमर्दकत्वादिति भावः । किञ्च सत्त्वात्यन्ताभावासत्त्वात्यन्ताभावरूपधर्म-द्वयस्यैकस्मिन्नधिकरणे कुत्राप्यप्रसिद्ध्याऽप्रसिद्धविशेषणत्वम् ।
ननु पृथिवी इतरभिन्नेत्यत्र जलादित्रयोदशान्योन्याभावानामैकाधिकरण्येनाप्रसिद्धावपि तेजः-प्रभृतिषु प्रत्येकं प्रसिद्ध्याऽप्रसिद्धिपरिहारवदत्रापि सत्त्वात्यन्ताभावासत्त्वात्यन्ताभावयोरैकाधिकरण्येना प्रसिद्धावपि सति असत्त्वात्यन्ताभावस्यासति च सत्त्वात्यन्ताभावस्य च प्रत्येकं प्रसिद्ध्याऽ-प्रसिद्धविशेषणत्वाभावादिति चेत्सत्यम् । अप्रसिद्धविशेषणत्वाभावेऽपि असत्त्वात्यन्ताभावरूपांशस्य सिद्धत्वेन सिद्धसाधनता स्यादित्याह ॥ पृथिवीत्यादिना ॥ अभावमनन्तर्भाव्य त्रयोदशत्वं बोध्यम् ॥ प्रत्येकमिति ॥ सति असति चेत्यर्थः । ऐकाधिकरण्यावच्छेदेन साध्यसिद्धेरुद्देश्यत्वेनात्र ऐकाधि-करण्यावच्छेदेन साध्यप्रसिद्धेरभावादप्रसिद्धविशेषणता स्यादेवेत्याशयेन कथञ्चिदित्युक्तम् ।
ननु केवलस्यासत्त्वात्यताभावस्य सिद्धत्वेऽपि असिद्धेन सत्त्वात्यन्ताभावेन सहोच्यमानत्वाद-सिद्धत्वमेवेति नांशे सिद्धसाधनतेत्यत आह– न हीति ॥ तथात्वे पर्वतो वह्निमान्पाषाणवांश्चेत्यत्रापि सिद्धसाधनता नोद्भाव्येतेति भावः । नन्वेवं पृथिवी इतरभिन्नेत्यत्रापि जलादित्रयोदशान्योन्याभावानां साध्यत्वाज् जलाद्येकैकान्योन्याभावानामपि घटो न जलादिरिति प्रतीत्या घटात्वावच्छेदेन सिद्धत्वादंशे सिद्धसाधनतापत्तिरित्यनुमानं दुष्टं स्यादित्यत आह– पृथिवीति ॥ जलाद्येकैकान्योन्याभावस्य घटे घटत्वावच्छेदेन सिद्धावपि पक्षतावच्छेदकीभूतपृथिवीत्वावच्छेदेन घटे न सिद्धिरतो नांशे सिद्ध-साधनतेत्यर्थः । पक्षतावच्छेदकसामानाधिकरण्येनैव साध्यसिद्धेरुद्देश्यत्वात् तस्याश्चाजातत्वादिति भावः । पृथिवीत्वोपहिते घटे इति शेषः । प्रकृते च पक्षतावच्छेदकसामानाधिकरण्येनैवासद्वैलक्षण्यस्य सिद्धत्वात् सिद्धसाधनतेति द्रष्टव्यम् ॥ दृष्टान्तस्येति ॥ धर्मद्वयस्य साध्यत्वान्मन्मते शुक्तिरूप्ये सत्त्वात्यन्ताभावस्य सत्त्वेऽप्यसत्त्वस्यैव सत्त्वेन तदत्यन्ताभावस्य तत्राभावात्साध्यवैकल्यमित्यर्थः । नन्वेवं तर्हि पृथिवी इतरभिन्नेत्यत्रापि त्रयोदशभेदानां साध्यत्वाज्जलादौ तेजःप्रभृतिद्वादशभेदानां सत्त्वेऽपि जलभेदस्याभावात्साध्यवैकल्यम् । एवं तेजःप्रभृतिष्वपि स्वस्वेतरप्रतियोगिकद्वादश-भेदसत्त्वेऽपि स्वस्वभेदाभावात्साध्यवैकल्यमेव स्यादित्यत आह– पृथिवीत्वेति ॥ यत्रेतरत्वं तत्र पृथिवीत्वाभाव इति व्यतिरेके जलादिर्दृष्टान्त इति भावः । ननु पृथिवीत्वहेतौ व्यतिरेकिणि अन्वयदृष्टान्ताभावे त्रयोदशान्योन्याभावानां साध्यभूतानां प्रसिद्ध्यभावेन साध्यव्यतिरेकनिरूपणं न स्यादित्यत आह– त्रयोदशेति ॥ जलादित्रयोदशान्योन्याभावानां तेजःप्रभृतिषु प्रत्येकं प्रत्येकं ज्ञानानन्तरं ‘‘एते त्रयोदशान्योन्याभावाः’’ इति समूहालम्बनरूपैकज्ञानोपरूढानां प्रसिद्धिसम्भवेन व्यतिरेकनिरूपणं सम्भवतीति भावः ।
पूर्वं धर्मद्वयसाधनपक्षे व्याहत्यर्थान्तरांशेसिद्धसाधनसाध्यवैकल्याख्यदोषचतुष्टयस्योक्तत्वेनात्रात एवेत्यतिदेशे दोषचतुष्टयस्याप्यतिदेशः प्रतीयतेऽतो ऽत एवेत्युक्तं विशदयति– व्याहतेरित्यादिना ॥ धर्मद्वयसाधन इव विशिष्टसाधनेऽपि परस्परविरुद्धयोर्विशेषणविशेष्यभावायोगाद्व्याहतिरेव । निर्धर्मक-ब्रह्मवत् । सत्त्वात्यन्ताभाववत्त्वे सत्यपि सद्रूपत्वेनाप्युपपत्त्याऽर्थांतराच्छुक्तिरूप्ये विशेष्यांशाभावेन विशिष्टाभावात्साध्यवैकल्यं चेत्यर्थः ।
न्यायकल्पलता
एवमुपन्यस्तं पूर्वपक्षं प्रतिक्षेप्तुं सिद्धान्ती सिद्धान्ताभिधानं प्रतिजानीते । उच्यते इति ॥ पञ्चधेति ॥ अनिर्वचनीयत्वं मिथ्यात्वं, तदनिर्वचनीयत्वं सदसत्वानधिकरणत्वं वा बाध्यत्वं वा । बाध्यत्वमपि द्विविधं, प्रतिपन्नोपाधौ त्रैकालिकनिषेधप्रतियोगित्वं, ज्ञानत्वेन ज्ञाननिवर्त्यत्वं वा । पुनर्मिथ्यात्वं द्विविधम् । स्वसमानाधिकरणात्यन्ताभावप्रतियोगित्वं वा सद्विविक्तत्वं वेति साक्षात्परम्परया वाऽत्यन्ता-सत्वादिकल्पान्तरनिषेधेन पञ्चत्वापन्नप्रकारैर्मिथ्यात्वं लक्षितमित्यर्थः । सच्चासच्च सदसती । तयोर्भावः सदसत्वं तदनधिकरणत्वं सदसत्वानधिकरणत्वमित्यत्र द्वन्द्वान्ते श्रूयमाणो भावप्रत्ययः प्रत्येकमभि-सम्बध्यते । तत्र सत्वं किम् असत्वविशेषणम् उत सत्वासत्वे प्रत्येकमनधिकरणत्वविशेषणम् आहोस्वित्पूर्व-वद्द्वन्द्वात् परतः श्रूयमाणस्यानधिकरणत्वशब्दरूपस्य प्रत्येकमभिसम्बन्धाश्रयणेन सत्वानधिकरणत्वम-सत्वानधिकरणत्वस्य विशेषणमभिप्रेतमिति प्रश्नवाक्यार्थः । यद्यप्यत्र सत्वविशिष्टासत्वाभावरूपं सदसत्वानधिकरणत्वं परानभिधित्सितं तथापि शब्दात्तथा प्रतीतेर्न्याय्यत्वेन त्रेधा विकल्पितमिति बोध्यम् । अतस्तेनैव क्रमेण प्रत्याख्याति– नाद्य इति । मन्मतेऽपीति । सत्यत्वपक्षेऽपि विशेष्या-भावायत्तस्य विशिष्टाभावस्य सत्वादित्यर्थः । व्याहतेरिति । सत्वाभावसिद्ध्यैवासत्वप्राप्तौ पुनरसत्वा-भावसाधने व्याहतिः, एवमसत्वविरहसिद्ध्यैव सत्वलाभे पुनस्तदभावसाधने व्याहतिरित्येकत्रोभय-विरहितत्वस्य व्याहतत्वादित्यर्थः ।
अत्र कश्चिदाह । सत्वासत्वयोर्व्याहतिर्गोत्वाश्वत्ववत्परस्परविरहव्याप्यतया वा नित्यत्वकृतकत्व-वत्परस्परविरहव्यापकतया वा माता वन्ध्येतिवत्परस्परविरहरूपतया वा । नाद्यः । तस्य व्याघाता-प्रयोजकत्वात् । गोत्वाश्वत्वयोः परस्परविरहव्याप्यत्वेऽपि तदभावयोरुष्ट्रादावेकत्र सहोपलम्भेन सत्वा-सत्वयोस्तथात्वेऽपि तद्विरहयोरेकत्र समावेशोपपत्तेः । न द्वितीयः । सत्वाभाववति शुक्तिरूप्ये वक्ष्यमाणासत्वव्यतिरेकस्य विद्यमानत्वेन व्यभिचारात् । न तृतीयः । तदनङ्गीकारात् । यथा ह्यत्र त्रिकालाबाध्यत्वरूपसत्वव्यतिरेको नासत्वं किंतु क्वचिदप्युपाधौ सत्वेन प्रतीयमानत्वानधिकरणत्वं तद्व्यतिरेकश्च साध्यत्वेन विवक्षितः । तथा च त्रिकालाबाध्यविलक्षणत्वे सति क्वचिदप्युपाधौ सत्वेन प्रतीयमानत्वरूपं साध्यं पर्यवसितम् । तथा च न व्याहतिः । सत्वासत्वयोः परस्परविरहरूपत्वा-भावादिति ।
तदसारम् । ब्रह्मण्यङ्गीकृतं यत्कालत्रयाबाध्यत्वरूपं सत्वं तद्विपरीतस्यैवासत्वरूपत्वात् । त्वदभिमतासद्वैलक्षण्यस्य जगति शुक्तिरूप्यादौ च शून्यवादेऽपि सत्वाच्च । न च शून्यवादिभिः सदधिष्ठानकभ्रमानङ्गीकारेण क्वचिदप्युपाधौ सत्वेन प्रतीत्यनर्हत्वरूपासद्वैलक्षण्यस्य क्वचिदप्युपाधौ सत्वेन प्रतीत्यर्हत्वरूपस्य शुक्तिरूप्ये प्रपञ्चे चानङ्गीकारादिति देश्यम् । विवर्तवादिभिर्ब्रह्माधिष्ठानकजगद्भ्रम-वच्छून्यवादिभिरपि शून्याधिष्ठानकस्य जगदारोपस्याङ्गीकारात् ।
शून्यं तत्त्वमविज्ञेयं मनोवाचामगोचरम् ।
विश्वाकारं तुल्यवृत्त्या यस्य तत् पदमक्षयम् ॥ इति तदुक्तेः ।
निर्विशेषब्रह्मणः शून्याद्विशेषाभावात् । अन्यथा निर्विशेषत्वव्याघातात् । ब्रह्मवत्स्वरूपसत्वाभावे प्रपञ्चस्यासद्वैलक्ष्यण्यायोगाच्च । क्लृप्तेनैवोपपत्तावक्लृप्तकल्पनानुपपत्तेश्च । अवच्छेदकाभावे सत्वेन प्रतीत्यर्हत्वस्यैव परिचेतुमशक्यत्वात् । शुक्तिरूप्यादिवत्प्रकृते दोषाभावेन स्वरूपसत्वमेवावच्छेदक-माश्रित्य पर्यवस्यति । ईश्वरेण सृष्टत्वाद् दृष्टत्वाच्च न दोषस्तत्र हेतुरिति । अपि च असचेन्न प्रतीयेतेति वदता त्वयोक्ताप्रतीतिं प्रति प्रयोजकमप्रत्ययघटितमेवासत्वमवश्यं वाच्यम् । अप्रतीत्युपाधिकासत्वभावे ब्रह्मण्यपि सत्वेन प्रतीतिरेव सत्वं स्यात् । किञ्चैवमसत्वाभावः सत्वेन प्रतीयमानत्वे पर्यवसन्न इति तत्साधनवैय्यर्थ्यम् । न चासद्वैलक्षण्यसिद्ध्यर्थं तत्साधनमति देश्यम् । प्रतीयमानत्वस्यासत्साधारण्यात् । ‘तद्धैक आहुरसदेवेदमग्र’ आसीदित्यसतः सत्वोक्त्याऽक्षेप्य तत्सत्वप्रतीतेः श्रुत्यानूदितत्वाच्च । न चासत इव प्रतीतेरनुवादो न प्रतीतिसत्तां सम्पादयतीति साम्प्रतम् । असतः सत्वेन प्रतीति मत ‘एक’ इत्यसत्प्रतीतेः सत्वस्यैवोक्तेः ।
ननु तद्धैक आहुरसदिति श्रुतिर्नञा सदेवेदमग्रआसीदित्यस्यार्थस्याभावमेव प्रतिपादयति न त्वसतः सत्वं, विरोधात् । न चासतः श्रुत्यर्थाभावस्य सत्वप्रतीतिरेवमप्यवर्जनीयेति देश्यम् । अङ्गुल्यग्रे करिशतनिषेधवत् स्वयं निषेधाय निषेध्यसत्वप्रतीतेरनपेक्षितत्वात् । अन्यथेश्वरस्य शशविषाणाभावप्रतीतिर्न सिध्येदिति ।
मैवम् । यतोऽत्रैव प्रकरणे सदेव सौम्येदमग्र आसीदिति स्वमतमभिधाय तद्धैक आहुरसदेवेदमग्र आसीत्तस्मादसतः सज्जायत इति शून्यवादिप्राप्तं शून्यस्यैव प्रलयेऽवस्थानं जगत्कारणत्वं चानूद्य कुतस्तु खलु सौम्यैवं स्यात् कथमसतः सज्जायेतेति निराक्रियते । एक आहुरिति वचनादिति । किं चा सच्छब्दसमस्ततया निर्दिष्टनञः क्रियासङ्गतत्वेन प्रसज्यप्रतिषेधार्थतानुपपत्तिः । तथात्वेऽप्यसतः सत्प्रपञ्चजनिकर्तृत्वरूपप्रपञ्चोत्पत्तिनिषेधानुपपत्तिश्च । तस्मात्कालत्रयाबाध्यत्वं सत्वं तद्बाध्यत्वमसत्व-मिति तयोर्मूकत्ववक्तृत्ववत्परम्परविरहरूपत्वेन तदभावयोरेकत्र साधने कथं न व्याहतिर् इति ।
ननु सत्वासत्वयोः परस्परप्रागभावादिरूपतया परस्परविरहरूपत्वस्य दुर्वचत्वेन परस्परात्यन्ता-भावरूपतयैव परस्परविरहरूपता वक्तव्या । तत्रापि त्रिकालसर्वदेशीयनिषेधप्रतियोगित्वादिरूपस्यासत्वस्य भावरूपत्वेनासत्वात्यन्ताभावः सत्वमिति वाच्यम् । तथा सति सिद्धान्ते अत्यन्ताभावस्याप्रामणिक-प्रतियोगिकत्वस्वीकारेणासत्वस्यात्यन्तासत्वापत्तिः । न च तार्किकादिमतेन तयोः परस्परविरह-रूपत्वाभिधानमिति वाच्यम् । स्वमते व्याहतेरसम्भवदुक्तिकत्वापत्तेः । सिद्धान्तेऽप्यसत्वात्यन्ताभावः सत्वमिति स्वीकाराच्च । यद्वक्ष्यति ‘‘मया लाघवादावश्यकत्वादसत्वाभाव एव सत्वमिति स्वीकारात्, द्वौ नञौ प्रकृतमर्थं सातिशयं गमयत इति न्यायेनैकतरनिषेधस्यान्यतरविधिरूपत्वान्माता वन्ध्येतिवद्व्याघात इति । मया त्रिकालसर्वदेशीयनिषेधाप्रतियोगित्वतत्प्रतियोगित्वे सत्वासत्वे इति स्वीकारादिति च । सत्वासत्वे एकधर्मिनिष्ठात्यन्ताभावप्रतियोगिनी न परस्परात्यन्ताभावरूपत्वात् । घटत्वाघटत्वविदिति च ।
ननु घटादिसत्वं न शशशृृङ्गाद्यसत्वस्यात्यन्ताभावरूपं येन तस्य तुच्छत्वं स्यात् । किन्तु घटादौ भ्रान्तिप्रतिपन्नासत्वस्येति चेत् । न । सत्वस्य यदसत्वात्यन्ताभावरूपत्वं तस्यासत्वस्य तत्सत्वा-त्यन्ताभावरूपत्वानुपपत्तेः । निस्स्वरूपत्वात् । घटादिसत्वस्य शशशृृङ्गाद्यसत्वस्य च विरहयोरेकत्रोक्तौ बाधकाभावाच्च । तयोः परस्परविरहरूपत्वाभावस्य भवतैवोक्तत्वादिति ।
अत्र वदन्ति । परस्परात्यन्ताभावरूपत्वमेव परस्परविरहरूपत्वम् । न चैवमुक्तदोषः । तथा हि । ‘‘नृशृृङ्गे प्रमितावदत्यन्ताभावप्रतियोगिता । आरोप्यबुद्धिपूर्वं सा घटादौ हि निषिध्यते’’ । अत्यन्ता-भावप्रतियोगित्वमसत्वं तदत्यन्ताभावः सत्वम् । न चैवं शशविषाणाद्यसत्वस्यात्यन्तासत्वापत्तिरिति वाच्यम् । घटादिकमत्यन्ताभावप्रतियोगि ज्ञेयत्वाच्छशविषाणवदित्यनुमानाभासजभ्रान्तिप्रतिपन्नस्यासत्व-स्याघटादावत्यन्ताभावलक्षणसत्वसिद्धेः प्रत्यक्षादिनोपपादयिष्यमाणत्वात् । आरोप्यस्यासत्वस्य मिथ्यात्वेऽपि प्रधानस्य शशविषाणासत्वस्य सत्यत्वात् । न चैवं सति प्रमितसत्वासत्वयोः परस्पर-विरहरूपत्वासिद्धिरिति वाच्यम् । प्रधानतया संसर्गादिनिरूपकत्वेन तदुपपत्तेः । विवर्तनये ब्रह्मगतस्य कालत्रयाबाध्यत्वलक्षणस्य सत्वस्याभावः प्रपञ्चे वाच्यः । अप्रसक्तस्य तस्याभावो नावेदयितुं शक्य इति प्रसक्तिरवश्यं वाच्या । प्रसक्तं च तदाविद्यकमेवेति तस्यैव निषेधो न तु ब्रह्मगतसत्वस्येति स्यात् । अथ प्रधानतया निरूपकत्वेनाभावप्रतियोगितेति तर्हि प्रकृतेऽपि समः समाधिः । एवमसत्वाभावेऽपि द्रष्टव्यम् । यथाऽङ्गुल्यग्रे करिशताभावः, यथा गिरिशिखरागे्र एतद्घटाभाव इत्यादावारोप्यात्यन्तासत्संसर्ग निरूपकतया करिशतादेः प्रतियोगित्ववत्सत्वासत्वयोर्विरहप्रतियोगितया परस्परविरहरूपत्वं समाधेय-मिति । केचित्तु समानसत्ताकयोः परस्परविरहयोर्व्याप्यत्वे सति व्यापकत्वं परस्परविरहरूपत्वम् । तादृशयोरभावौ नैकत्र सम्भवतः । घटादौ सत्वे सत्यपि शशशृृङ्गादिगतासत्वस्यात्यन्ताभावो नेति व्यभिचारवारणाय समानसत्ताकेति विरहविशेषणम् । अभेदेपि व्याप्यव्यापकभावोऽस्त्येव । एवं च न शशशृृङ्गादिगतासत्वस्यात्यन्तासत्त्वापत्तिरित्याहुः ।
निर्धमकेति । मिलिताभावद्वयसाधनेऽपि ब्रह्मवत्सद्रूपत्वानपायादित्यर्थः । अत्र कश्चिदाह । एकेनैव सर्वानुगतेन सद्रूपेण सर्वत्र सत्प्रतीत्युपपत्तौ ब्रह्मवत्प्रत्येकं प्रपञ्चस्य सत्स्वभावताकल्पने मानाभावा-दनुगतव्यवहाराभावप्रसङ्गाच् च । सत्प्रतियोगिकासत्प्रतियोगिकभेदद्वयं वा साध्यम् । तथा चो-भयात्मकत्वेऽन्यतरात्मकत्वे वा तादृग्भेदासम्भवेन ताभ्यामर्थान्तरतानवकाश इति । तदयुक्तम् । सद्रूपस्य ब्रह्मणः सर्वानुगतत्वं सर्वसमवेतत्वं वा सर्वप्रपञ्चारोपाधिष्ठानत्वं वा । नाद्यः । तस्यासमेवेतत्वात् । अयुतसिद्धत्वमस्तीति चेत् । न । प्रपञ्चेऽपि साम्यात् । सर्वं ब्रह्मणीतिवत् सर्वत्र ब्रह्मेत्यपि समानम् । एकत्वेन विशेषेऽपि देशकालयोरपि एकव्यक्तिकत्वात्समः । आकाशवत्सर्वगतश्च नित्यः, यावद्ब्रह्म विष्ठितमिति श्रुत्या देशकालयोरपि ब्रह्माधारत्वोक्तेः । ब्रह्म कुत्रचित् कदाचिद्देशं कालं वा विना तिष्ठतीत्यस्य व्याहतत्वाच्च । न द्वितीयः । अन्योन्याश्रयात् । प्रपञ्चसत्प्रतीतेर्भ्रमत्वे सिद्धे यो भ्रमः स साधिष्ठान इति नियमेन परिशेषाद् ब्रह्मणो जगदधिष्ठानत्वसिद्धिस्तत्सिद्धौ प्रपञ्चसत्प्रतीतेर्भ्रमत्वसिद्धि-रिति । किं च प्रपञ्चे प्रतीयमानसत्ताया अन्यगतत्वकल्पने विवर्तमतहानिरन्यथाख्यातिस्वीकारश्च प्रसज्येयातामिति गौतमीयचरणानुचरणप्रसङ्गः । अपि च रजतं विनापि शुक्तौ रजतप्रतीतिव्यवहारादि-दर्शनात्सत्स्वभावपदार्थमन्तरेणापि सत्प्रतीत्यादेरुपपत्तावति लाघवमिति ब्रह्मापि सद्रूपं न सिद्धेत् । प्रमितत्वाद्ब्रह्म सद्रूपमिति तु प्रपञ्चेऽपि समम् । एतेनानेकसत्कल्पनारूपबाधकतर्कसहकृतं सत्वाभावानु-मानमेव प्रपञ्चस्य सद्रूपत्वाभावे पर्यवसस्यतीति न सद्रूपत्वेनार्थान्तरमिति निरस्तम् । तर्कस्य प्रमित-सद्रूपत्वानपवादकत्वात् । अन्यथा लाघवतर्कानुगृहीतस्य सत्वाभावानुमानस्य प्रातीतिकसत्वाभावेऽपि पर्यवसानेन जगच्छून्यमेव स्यादिति क्षोदीयस्यलमतिपीडयेति साधूक्तमर्थान्तराच्चेति । सदसदुभयान्योन्या-भावद्वयस्यैकत्र साध्यतायां तु व्याहतिसाध्यवैकल्यादिदोषोऽस्त्येव । त्रयोदशेति । अभावमनन्तर्भाव्य त्रयोदशत्वं बोध्यम् । कथञ्चिदिति । अयमभिसन्धिः । अनुमितिविषयस्य मिलितोभयाभावद्वयरूपस्य साध्यस्यैकस्मिन्नधिकरणे प्रसिद्ध्यभावेऽपि प्रत्येकाधिकरणे विशकलिताभावद्वयप्रसिद्ध्याऽप्रसिद्ध-विशेषणत्वाभावे तत्र व्यतिरेकसहचारो दुर्ग्रहः प्रसज्येत । तुच्छब्रह्मरूपद्वये साध्याभावस्यासत्वात् । किं च एकेनैव लिङ्गेनैकदा साध्यमानमपि ह्यभावद्वयं प्रत्येकनिरूपितव्याप्तिद्वयेनैव साधनीयम् । न तु मिलितनिरूपितैकव्याप्त्या मिलिताप्रसिद्धौ तदज्ञानात् । तथा च प्रत्येकमेव साध्यता विश्रान्तेत्येका-भावसाध्यवतस्तुच्छस्य ब्रह्मणश्च सपक्षत्वेन ततो व्यावृत्तस्य दृश्यत्वहेतोरसाधारण्यम् ।
ननु प्रत्येकव्याप्त्या प्रत्येकाभावसाधनेऽपि नासाधारण्यम् । अनुमितिविषयसाध्यवद्व्यावृत्या हि तद्भवति । अन्यथा दूष्यानुमित्यविरोधित्वेनासाधारण्यस्य प्रतिपक्षोन्नायकत्वं न स्यात् । न च प्रकृतेऽनुमितिविषयमिलिताभावरूपसाध्यवानन्योऽस्ति । येन तद्व्यावृत्याऽसाधारण्यं स्यादिति चेत् । न । प्रत्येकाभाववद्व्यावृत्तेरपि स्वसाधितप्रत्येकाभावद्वारेणाभावमेलनविघटकतया दूष्यानुमितिविरुद्धत्वात् । किंचास्मिन्पक्षेऽभावमेलनं पक्षधर्मताबललभ्यम् । न च तद्बललभ्यसाध्यवद्व्यावृत्याऽसाधारण्यं युक्तम् । तथात्वेऽनुमानफलस्य निष्पन्नतयाऽसाधारण्यस्याकिञ्चित्करत्वापातात् । अथ साध्यतावच्छेदका-वच्छिन्नसाध्यवद्व्यावृत्यैवासाधारण्यम् । प्रकृते च साध्यतावच्छेदकमभावगतं व्यासज्यवृत्ति द्वित्वम् । तच्च न प्रत्येकपरिसमाप्तं, ततः प्रत्येकाभाववद्व्यावृत्तावपि नासाधारण्यमिति चेत् । न । एव-मसाधारण्यपरिहारेऽपि द्वित्वपर्याप्त्यधिकरणरूपसाध्यतावच्छेदकावच्छिन्नसाध्याप्रसिद्धेरप्रसिद्धविशेषणत्व- तादवस्थ्यात् । तुच्छे ब्रह्मणि च यथायोग्यं प्रत्येकं साध्यव्यतिरेकयोः सत्वेऽपि उक्तसाध्यतावच्छेदका-वच्छिन्नाभावरूप साध्यव्यतिरेकाभावेन व्यतिरेकव्याप्तिग्रहानुपपत्तेश्च । ननु घटस्य सत्वेऽपि पटाभावेन घटपटौ न स्त इति वद्ब्रह्मण्यसत्वाभावसत्वेऽपि सत्वाभावाभावेन व्यासज्यवृत्तिप्रतियोगिताकोभया-भावोऽस्तीति चेत् । न । प्रपञ्चस्य सत्वाश्रयत्वेऽपि असत्वानाश्रयत्वमात्रेणोभयाभावोपपत्याऽर्थन्तरात् । लाघवेन प्रतियोगिसत्वमात्रस्यैवाभावविरोधित्वेन व्यासज्यवृत्तिप्रतियोगिकाभावस्यानङ्गीकाराच्च । सत्यपि घटे घटपटौ न स्त इति धीस्तु घटे पटसाहित्याभावविषयत्वेनैवोपपन्नेति ततो अप्रसिद्धविशेषणत्वं दुरुद्धरं तथापि वैभवेनोक्तमसत्वात्यन्ताभावांशे सिद्धसाधनादिति । अस्यार्थः । यथा पक्षतावच्छेदक-नानात्वे क्वचिदधिकरणे पक्षतावच्छेदकावच्छेदेन साध्यसिद्धेर्जातत्वात्तत्पक्षांशे सिद्धसाधनं तथा साध्यतावच्छेदकनानात्वेऽपि सिद्धसाध्यांशे सिद्धसाधनमेव । साध्यतावच्छेदकावच्छिन्नस्य पक्षता-वच्छेदकावच्छेदेन सिद्धिरूपस्य सिद्धसाधनबीजस्योभयत्रापि तुल्यत्वादिति । ननु यत्रानित्ये वाङ्मनसे इत्यादौ पक्षतावच्छेदकनानात्वं तत्रैवांशे सिद्धसाधनमिह तु तदवच्छेदकं विमतत्वमेकमिति चेत् । न । उद्देश्यप्रतीतिसिध्यसिध्योरेव सिद्धसाधनतदभावौ प्रति तन्त्रतयाऽस्य परिभाषामात्रत्वात् । न च तर्ह्युद्देश्याया विमतत्वावच्छेदेनासत्वानाश्रयबुद्धेरंशेऽप्यभावान्नांशे सिद्धसाधनमिति देश्यम् । निश्चितसाध्यकत्वेन सन्देहसिषाधयिषयोरभावेन तद्घटितपक्षताया एवायोगात् । नन्वसत्वाभाववत्व-प्रकारकसन्देहसिषाधयिषयोरभावेऽप्यपेक्षाबुद्धिविषयत्वादिव्यासज्यवृत्तिधर्मावच्छेदेन साध्यगोचरसन्देह-सिषाधयिषयोः सत्वेन नांशतः सिद्धसाधनम् । अत एवानुपदमेव वक्ष्यति साध्यतावच्छेदकैक्यान्नांशे सिद्धसाधनमिति चेत् । न । विशेषाकारेणासत्वात्यन्ताभावनिश्चये सति सामान्याकारेण तत्सन्देहस्य तद्विशेषेतरविशेषविषयत्वनियमात् । अन्यथैतत्पर्वतीयत्वेन पर्वते वह्नौ निश्चितेऽपि पर्वतीयत्वेन तत्सन्देहापत्त्या तत्र वह्न्यर्थिनो निष्कम्पप्रवृत्तिर्न स्यात् ।
ननु यथा पक्षतावच्छेदकनानात्वे एकत्वे वा सर्वपक्षव्यक्तिष्वेकैव समूहालम्बनरूपा साध्यसिद्धि-रुद्देश्या भवति तदोभयत्रापि क्वचित्पक्षांशे साध्यसिद्धौ जातायां नांशतः सिद्धसाधनं, तदंशेऽप्युद्देश्य-भूतायाः समूहालम्बनरूपसाध्यप्रतीतेरजातत्वात् । यदा तु समूहालम्बनत्वाद्युदासीनाया काचित्साध्य-सिद्धिरुद्देश्या भवति तदा भवत्युभयत्रापि तदवर्जनीयमेव । पक्षतावच्छेदकैक्येऽपि तदंशे साध्यसिद्धेर्जातत्वेन तदुद्देश्यतावच्छेदस्तथा साध्यतावच्छेदकनानात्वेऽप्युभयाभावगोचरसमूहालम्बन-तयैकानुमितिरुद्देश्या भवति तदा नांशतः सिद्धसाधनम् । असत्वात्यन्ताभावांशेऽप्युद्देश्यायाः समूहालम्बनरूपायाः सिद्धेरजातत्वात् । अनुमितिद्वयोद्देशे च सिद्धसाधनमेव नांशतः सिद्धसाधनमिति चेत् । सत्यम् । समूहालम्बनरूपानुमित्युद्देश्यत्व एव तस्या असत्वात्यन्ताभावांशे पक्षतावच्छेदकावच्छेदेन सिद्धं यत्साध्यतावच्छेदकावच्छिन्नं साध्यं तद्विषयसिद्धिरूपत्वेनांशे सिद्धसाधनत्वोक्तिरित्यदोषः । एतदेवाह– न हि सिद्धमसिमिद्धेनेति । पर्वतः शिलात्मकोऽग्निमांश्चेत्यादाविवांशे सिद्धसाधनता दुर्वारेत्यर्थः । ननु यदि साध्यकोटिनिविष्टस्य तदेकदेशस्यासत्वात्यन्ताभावस्य पक्षे सिद्धसाधनं तदा पृथिवीतरभिन्नेत्यत्र घटो न जलादिरिति प्रतीत्या त्रयोदशान्योन्याभावानामपि घटादौ सिद्धत्वेन सुतरां सिद्धसाधनं स्यादित्यत आह पृथिवीति । पृथिवीत्वोपाहित इति । घटादिभिन्नपृथिवीत्वोपहिते सर्वपृथिवीत्वोपहिते वेत्यर्थः । अन्यथा पृथिवीत्वसमानाधिकरणतया घटादौ जलादित्रयोदशान्योन्या-भावानां सिद्धत्वेन सिद्धसाधनतादवस्थ्यात् । दृष्टान्तस्येति । शुक्तिरूप्यादौ साध्यतावच्छेदकावच्छिन्न-स्यासत्वस्यात्यन्ताभावस्याभावादित्यर्थः । यत्तु कालत्रयाबाध्यत्वरूपसत्वव्यतिरेको नासत्वं किन्तु क्वचिदप्युपाधौ सत्वेनाप्रतीयमानत्वम् असत्वं तद्व्यतिरेकश्च साध्यत्वेन विवक्षित इति न शुक्तिरूप्यादौ दृष्टान्ते साध्यवैकल्यं, बाध्यत्वरूपासत्वव्यतिरेकस्य साध्याप्रवेशादिति । तन्न । सत्वेन प्रतीयमानत्वरूपासत्वव्यतिरेकस्य सिद्धत्वेन तत्साधनं व्यर्थमित्युक्तत्वेन बाध्यत्वरूपासत्वव्यतिरेकस्यैव साधयितुमुचितत्वेन साध्यवैकल्यस्य दुरुद्धरत्वात् । नन्वभावद्वयस्य साध्यतायां शुक्तिरूप्येऽ-सत्वात्यन्ताभावस्य सत्वेऽप्यसत्वात्यन्ताभावाभावेन यदि साध्यवैकल्यं, तर्हि पृथिवीतरभिन्नेत्यत्र जले तेजः प्रभृतिद्वादशभेदानां सत्वेऽपि जलभेदस्याभावेन साध्यवैकल्यं, एवं तेजःप्रभृतिष्वपि स्वस्वेतर-प्रतियोगिकद्वादशभेदसत्वेऽपि स्वस्वभेदाभावात्साध्यवैकल्यमेव स्यादित्याशङ्क्याह । पृथिवीत्वहेतुस्तु केवलव्यतिरेकीति । तथा च तत्र साध्यप्रसिध्यर्थं दृष्टान्तानपेक्षतया तत्प्रयुक्तसाध्यवैकल्य-रूपदोषानवकाशेऽपि दृश्यत्वानुमानस्यान्वयव्यतिरेकितया साध्यवैकल्यं दुर्वारमिति तुशब्दं प्रयुञ्जानस्य भावः । नन्वेवं सति जलादित्रयोदशान्योन्याभावरूपसाध्यस्याप्रसिद्धत्वेन प्रतियोगिनिरूपणाधीननिरूपण-व्यतिरेको दुर्ग्रहः स्यादित्यत आह । त्रयोदशेति । स्वे स्वेऽधिकरणे विद्यमानानां साध्यतावच्छेदका-वच्छिन्नानां जलादित्रयोदशान्योन्याभावानां स्वस्वाधिकरणावच्छेदेन ज्ञाने सति साध्यव्यतिरेकः सुग्रह एवेत्यर्थः । नन्वेवमेकैकान्योन्याभावाधिकरणस्यापि साध्यतावच्छेदकावच्छिन्नसाध्याधिकरणतया तद्व्यावृत्तस्य हेतोरसाधारण्यं स्यादित्याशङ्कानिरासायोक्तम् । समूहालम्बनरूपैकज्ञानोपारूढत्व-मात्रेणेति । असाधारण्यं हि निश्चितसाध्यतावच्छेदकावच्छिन्नवद्व्यावृत्त्या भवति । प्रकृते च नैकैकान्योन्याभावस्य साध्यतावच्छेदकावच्छिन्नत्वम् । साध्यतावच्छेदकस्य व्यासज्यवृत्तेः समूहालम्बन-रूपैकज्ञानोपरूढत्वस्य धर्मस्य प्रत्येकान्योन्याभावेष्वपर्याप्तेः । अन्यथैकत्रापि द्वाविति बुध्यापत्तिः । एवं च प्रत्येकभेदाधिकरणस्य न सपक्षत्वम् । साध्यतावच्छेदकावच्छिन्नसाध्यरहितत्वात् । तदुक्तं मणौ । ‘‘तावदभावयोगी ह्यत्र सपक्षो भवति । न तु तदेकदेशकतिपयाभाववान्, साध्यतायास्तावति पर्याप्ते’’रिति । न चैवं साध्यतावच्छेदकेन रूपेण तत्र साध्यप्रसिद्धिरपि कथमिति देश्यम् । भिन्नभिन्नाधिकरणस्थानामप्यन्योन्याभावानां त्रयोदशत्वादिना ज्ञानसम्भवात् । भिन्नदेशस्थयोर्घटयोर्द्वौ घटाविति धीवदिति । यत्तु सत्वासत्वात्यन्ताभावयोः प्रत्येकं साध्यतावच्छेदकावच्छिन्नत्वेऽपि नासाधारण्यम् । दृष्टान्तीकृते रूप्ये दृश्यत्वहेतोः सत्वादिति । तन्मन्दम् । एवमपि बाध्यत्व-रूपासत्वव्यतिरेकस्य साध्यतावच्छेदकावच्छिन्नस्य ब्रह्मणि निश्चितत्वेन सपक्षात्ततो व्यावृत्तत्वादसाधारण्यं दुरुद्धरं प्रसज्येत । तस्मादसत्वात्यन्ताभावस्य दृष्टान्तीकृते रूप्येऽसत्वात्साध्यवैकल्यं दुष्परिहरमेवेत्युक्तमेव साधीयः । द्वितीयकल्पदूषणातिदेशेन तृतीयं निराचष्टे । अत एवेति । एतेभ्य इत्यत इत्युक्त-हेतून्विशदयति– व्याहतेरिति ।
नन्वत एवेत्यतिदिष्टा व्याहतिः कथमुपपन्ना । एकत्र विरुद्धोभयप्रतियोगिकात्यन्ताभावद्वयसाधने हि सा स्यात् । न चात्रोभयात्यन्ताभावौ साध्याविति । इत्थम् । उभयात्यन्ताभावयोरेकत्र पक्षे सामानाधि-करण्योक्तौ व्याहतिवदुभयात्यन्ताभावयोः सामानाधिकरण्येन सम्बन्धेन विशेषणविशेष्यभावोक्तावपि व्याहतिसाम्यादिति भावः । अर्थान्तरादिति । विशेष्याभाववन्निर्धर्मकब्रह्मवत्सत्वराहित्येन विशेषणा-भावसम्भवेऽपि सद्रूपत्वेनामिथ्यात्वोपपत्तेरित्यर्थः । विशेष्याभावायत्तो विशिष्टाभाव इत्येवं साध्यवैकल्यं द्रष्टव्यम् ।
न्यायामृतसौगन्ध्यं
ननु सदसद्भिन्नत्वं मिथ्यात्वमिति चेन्न । तद्धि सत्त्वविशिष्टासत्त्वाभावः ? उत सत्वात्यन्ता-भावासत्वात्यन्ताभावरूपं धर्मद्वयम् ? आहोस्वित् सत्वात्यन्ताभाववत्वे सति असत्त्वात्यन्ताभावरूपं विशिष्टं वा ? नाद्यः । सत्त्वमात्राधारे जगत्यसत्त्वविशिष्टसत्त्वानभ्युपगमात् । विशिष्टाभावसाधने सिद्धसाधनात् । न द्वितीयः । सत्त्वासत्त्वयोरेकाभावेऽपरसत्त्वावश्यकत्वेन व्याघातात् । निर्धर्मकब्रह्मवत् सत्त्वराहित्येऽपि सद्रूपत्वेनामिथ्यात्वोपपत्त्याऽर्थान्तराच्च । शुक्तिरूप्येऽबाध्यत्वरूपसत्त्वव्यतिरेकस्य सत्वेऽपि बाध्यत्व-रूपासत्त्वव्यतिरेकासिद्ध्या साध्यवैकल्याच्च । अत एव न तृतीयः । पूर्ववद् व्याघातात् । अर्थान्तरात् साध्यवैकल्याच्च ।
ननु सत्त्वात्यन्ताभावासत्त्वात्यन्ताभावरूपधर्मद्वयविवक्षायां दोषाभावः । न च व्याहतिः । सा हि सत्त्वासत्त्वयोः परस्परविरहरूपतया वा ? परस्परविरहव्यापकतया वा ? परस्परविरहव्याप्यतया वा ? नाद्यः । तदनङ्गीकारात् । तथा ह्यत्र त्रिकालाबाध्यत्वरूपसत्त्वव्यतिरेको नासत्वम् । किन्तु ? क्वचिदुपाधौ सत्त्वेन प्रतीयमानत्वानधिकरणत्वम् । तद्व्यतिरेकश्च साध्यत्वेन विवक्षितः । तथा च त्रिकाला-बाध्यविलक्षणत्वे सति सत्त्वेन प्रतीयमानत्वरूपं साध्यं पर्यवसितम् । एवं च सति शुक्तिरूप्ये न साध्यवैकल्यमपि । बाध्यत्वरूपासत्त्वव्यतिरेकस्य साध्येऽप्रवेशात् । नापि व्याघातः । परस्परविरहरूपत्वा-भावात् । अत एव न द्वितीयोऽपि । सत्त्वाभाववति शुक्तिरूप्ये विवक्षितासत्त्वव्यतिरेकस्य विद्यमानत्वेन व्यभिचारात् । नापि तृतीयः । तस्य व्याघाताप्रयोजकत्वात् । गोत्वाश्वत्वयोः परस्परविरहव्याप्यत्वेऽपि तदभावयोरेकत्रोष्ट्रादौ सहोपलम्भाद् यच्च निर्धर्मकस्य ब्रह्मणः सत्त्वराहित्येऽपि सद्रूपत्ववत् प्रपञ्चस्य सद्रूपत्वेनामिथ्यात्वोपपत्याऽर्थान्तरमुक्तम्, तन्न । एकेनैव सर्वानुगतेन सत्त्वेन सर्वत्र सत्प्रतिपत्त्युपपत्तौ ब्रह्मवत् प्रत्येकं प्रपञ्चस्य सत्स्वभावताकल्पने मानाभावात् । अनुगतव्यवहाराभावप्रसङ्गाच्च । सत्प्रतियोगिका-सत्प्रतियोगिकभेदद्वयं वा साध्यम् । तथा चोभयात्मकत्वेऽन्यतरात्मकत्वे वा तादृग्भेदासम्भवेन ताभ्यामर्थान्तरतानवकाश इति चेत् । न । असतः प्रतीत्यङ्गीकारे क्वचिदुपाधौ सत्त्वेनापि प्रतीतेस्सम्भवात् ।
यत्तु सत्त्वेन प्रतीयमानत्वं सत्तादात्म्यम् । आध्यासिकसम्बन्धेन तत्त्वान्यतरवत्त्वम्, अपरोक्षत्वं वा । अस्ति च सत्तादात्म्यं सत्तादात्म्यभिन्ने, तत्त्वं च स्वस्मिन् । नित्यातीन्द्रियमपीश्वरापरोक्षमेवेति । तन्न । भ्रमविषयापरोक्ष्यसत्त्वेऽपि परोक्षभ्रमविषये सत्तादात्म्यस्यापरोक्ष्यस्य चाभावात् । ईश्वरस्य तु सत्त्वेन तत्प्रतीतौ भ्रान्तत्वापत्तेः । तस्मात् सत्त्वासत्त्वयोः परस्परविरहरूपत्वमेव, इति सुस्था व्याहतिः ।
किञ्च सद्रूपप्रतियोगिकत्वविशिष्टतादात्म्यस्य सद्रूपेऽभावेन तस्यासत्त्वापत्तिः । इष्टापत्तौ तत्सत्त्व-बोधक‘सत्य’मित्यादिश्रुतीनामप्रामाण्यापत्तेः ।
एकेनैवेत्याद्ययुक्तम् । घटादितादात्म्यापन्नस्य सतः पटादावभावात् । विशिष्टस्य त्वन्मतेऽतिरिक्त-त्वात् । दृश्यत्वेन मिथ्यात्वाच्च । रजतं विनापि शुक्तौ रजतप्रतीतिव्यवहारादिदर्शनात् सत्पदार्थं विनाऽपि सत्प्रतीत्यादेरुपपत्तावतिलाघवमिति ब्रह्मापि सद्रूपं न सिध्येत् । प्रमितत्वाद् ब्रह्म सद्रूपमिति तु जगत्यपि तुल्यम् । घटो रूपी पटो रूपी देवदत्तो रूपी घट इष्टः पट इष्ट इत्याद्यननुगतेन रूपेच्छादिनाऽननुगत-व्यवहारदर्शनात् । न हि रूपेच्छादिकम् अनुगतमेकं नानात्वात् ।
एतेन अनेकसत्त्वकल्पनारूपबाधकतर्कसहकृतसत्त्वाभावानुमानमेव सद्रूपत्वाभावे पर्यवस्यतीति न सद्रूपत्वाभावेनार्थान्तरमिति निरस्तम् । तर्कस्य प्रमितसद्रूपत्वानपवादकत्वात् । अन्यथा सत्त्वाभावानुमानस्य लाघवेन प्रातीतिकसत्त्वाभावेऽपि पर्यवसानेन जगच्छून्यमेव स्यात् । सदसदुभयान्योन्याभावस्य साध्यतायां तु व्याहतिः । अर्थान्तरादिदोषोऽस्त्येव ।
किञ्च निर्धर्मकत्वाद् सत्त्वादिधर्माणां तदुपहित एव ब्रह्मणि सम्बन्धः । न तु शुद्धे । धर्मधर्मिणो-स्तादात्म्यात् । तत्त्वज्ञानेन धर्मनाशे धर्मिणोऽपि नाशः स्यादिति सत्त्वादिधर्मघटितमिथ्यात्वलक्षणं शुद्ध-ब्रह्मण्यतिव्याप्तमिति भावः । ब्रह्मणस्सत्त्वासत्त्वरूपधर्मद्वयशून्यत्वेन तत्रातिव्याप्तिः ।
न्यायामृतमाधुरी
उच्यत इत्यादि । अनुमानमणिदीधितावनुमितिग्रन्थे व्याप्तिविशिष्टपक्षधर्मज्ञानेति चिन्तामणि-प्रतीकस्योपाध्यायदिशा व्याख्यावसरे कर्मधारयोत्तरभावप्रत्ययस्य पदार्थतावच्छेदकद्वयसामानाधि-करण्यवचनत्वादित्यभिहिततया प्रकृतेऽपि कर्मधारयोत्तरभावप्रत्ययस्य तथात्वात् समासघटकपदार्थता-वच्छेदकीभूतसत्त्वासत्वसामानाधिकरण्यलाभेन अधिकरणत्वांशस्य मन्दप्रयोजनतया तदविवक्षणेन सामानाधिकरण्यप्रत्यासत्या सत्त्वविशिष्टस्यासत्त्वस्याभावः पर्यवस्यतीति अभिप्रेत्य आद्यकल्पस्य, द्वन्द्वोत्तरतादृशप्रत्ययं नञर्थे प्रतियोगितया प्रातिस्विकधर्मावच्छिन्नयोरन्वयं च द्वितीयस्य, एकपदोपात्तयोरप्यभावयोर्व्युत्पत्तिवैचित्र्येण विशेष्यविशेषणभावं (अभिप्रेत्य) तृतीयस्यावतार इत्यव-सेयम् । सदसत्वानधिकरणत्वमित्यत्र सच्छब्दः सत्त्वपरः । तत्र सत्वं किमसत्त्वविशेषणं वा । सत्वासत्वे प्रत्येकमनधिकरणत्वस्य विशेषणं वा । सच्छब्दात् परतोऽनधिकरणत्वशब्दरूपमध्यम-पदलोपिसमासाश्रयणेन सत्वानधिकरणत्त्वमसत्वानधिकरणत्वस्य विशेषणं वा अभिप्रेतमिति प्रश्नवाक्यार्थ इत्यपि निबन्धान्तरे स्थितम् ।
अत्राद्वैतसिद्धिकारः । न तावन्मिथ्याशब्दोऽनिर्वचनीयनवचन इति पञ्चपादिकावचनात्सदसत्वा-नधिकरणत्वरूपमनिर्वाच्यत्वम् । तद्धि किमसत्वविशिष्टसत्वाभाव उत सत्वात्यन्ताभावासत्वात्यन्ता-भावरूपधर्मद्वयमित्यादि व्याजहार । ब्रह्मानन्दोऽप्यसत्वसमानाधिकरणस्यासत्वस्यात्यन्ताभाव इति दिशा तद्ग्रन्थमार्तीथपत् । तदसङ्गतम् । समासघटकपूर्वपदार्थतावच्छेदकसामानाधिकरण्यस्य तादृशोत्तरपदार्थतावच्छेदके प्रत्यापनस्यैव व्याप्तिवैशिष्ट्यपक्षधर्मतोभयसामानाधिकरण्यावगाहि-ज्ञान-जन्यत्वमर्थ इत्यादिदीधितिकारादिनिर्देशानुरोधेन कर्तव्यतया तादृशपूर्वपदार्थतावच्छेदके तादृशोत्तर-पदार्थतावच्छेदकसामानाधिकरण्यबोधनस्य व्युत्पत्तिविरुद्धत्वात् । तस्येति । विशेष्याभावनिबन्धन-स्येत्यादेः ॥ सिद्धत्वादिति । सिद्धान्ते अलीकस्यैवात्यन्ताभावप्रतियोगितास्वीकारेणोक्तविशिष्ट-प्रतियोगिकाभावस्य प्रसिद्धत्वादिति भावः ॥ व्याहतेरिति । सत्त्वाभावसाधने असत्त्वप्राप्त्या पुनरसत्त्वाभावसाधने व्याहतिरित्यर्थः ।
अत्राद्वैतसिद्धिकारः । सत्त्वासत्त्वानधिकरणत्वमनयैव दिशा दुर्निरूपमित्याशङ्क्य सत्त्वा-सत्त्वात्यन्ताभावरूपधर्मद्वयविवक्षायां दोषाभावात् । न च व्याहतिः । सा हि सत्त्वासत्त्वयोः परस्परविरहरूपतया वा । परस्परविरहव्यापकतया वा । परस्परविरहव्याप्यतया वा । नाद्यः । तदनङ्गीकारात् । तथा ह्यत्र त्रिकालाबाध्यत्वरूपसत्त्वव्यतिरेको नासत्त्वम् । किन्तु क्वचिदप्युपाधौ सत्त्वेन प्रतीयमानत्वानधिकरणत्वम् । तद्व्यतिरेकश्च साध्यत्वेन विवक्षितः । तथा च त्रिकाला-बाध्यविलक्षणत्वे सति क्वचिदप्युपाधौ सत्त्वेन प्रतीयमानत्वरूपं साध्यं पर्यवसितम् । एवं च सति न शुक्तिरूप्ये साध्यवैकल्यमपि । बाध्यत्वरूपसत्त्वव्यतिरेकस्य साध्याप्रवेशात् । नापि व्याघातः । परस्परविरहरूपत्वाभावात् । अत एव न द्वितीयोऽपि । सत्त्वाभाववति शुक्तिरूप्ये विवक्षिता-सत्त्वव्यतिरेकस्य विद्यमानत्वेनाव्यभिचारात् । नापि तृतीयः । तस्य व्याघाताप्रयोजकत्वात् । गोत्वाश्वत्वयोः परस्परविरहव्याप्यत्वेऽपि तदभावयोरुष्ट्रादावेकत्र सहोपलम्भादिति समादधौ । तदसङ्गतम् ।
असद्वैलक्षण्यनिर्वाहाय सिषाधयिषितस्यासत्त्वाभावस्य प्रतियोगिभूतमसच्चेन्न प्रतीयेतेत्यभिदधानैर-द्वैतवादिभिरप्रतीतिप्रयोजकतयाऽङ्गीकृतमसत्त्वं कथं क्वचिदप्युपाधौ सत्वेनाप्रतीयमानत्वरूपं स्यात् । तस्य आत्माश्रयप्रसङ्गेनाप्रतीत्यप्रयोजकत्वात् । असतोऽपि ‘‘तद्धैक आहुरसदेवे’’ति श्रुत्यनूदितसत्व-प्रकारकप्रतीतिविषयताकत्वेन शशशृृङ्गमस्तीति वाक्याभासस्य यावद्बाधं गोशृृङ्गमस्तीति वाक्यतुल्य-कक्ष्यापन्नतया तज्जन्यतादृशप्रतीतिविषयतया च असत्साधारण्येन तदव्यावृत्तत्वात् । निर्धर्मिकेति । व्यासज्यवृत्तिधर्मावच्छिन्नस्य साधनमपि ब्रह्मवत्सद्रूपतां न मृथ्नातीत्यर्थः । यदत्रानयैव दिशाऽर्थान्तरमाशङ्क्याद्वैतसिद्धिकृतोक्तम् । एकेनैव सर्वानुगतेन सर्वत्र सत्प्रतीत्युपपत्तौ ब्रह्मवत्प्रत्येकं प्रपञ्चस्य सत्स्वभावताकल्पने मानाभावात् । अनुगतव्यवहाराभावप्रसङ्गाच्च । सत्प्रतियोगिका-सत्प्रतियोगिकभेदद्वयं साध्यम् । तथा चोभयात्मकत्वेऽन्यतरात्मकत्वे वा तादृशभेदासम्भवेन ताभ्या-मर्थान्तरानवकाश इति । तन्न साधीयः । प्रमाणमहिम्नैव ब्रह्मणीव जगत्यपि सद्रूपताया अवधृत-त्वात् । तदनादरे तु ब्रह्मणोऽपि ताद्रूप्यावधारकविरहेण तदभावप्रसङ्गात् । जगद्गोचरप्रतीति-व्यवहारयोरिवारजते रजतप्रतीतिव्यवहारयोरिव च ब्रह्मगोचरयोरपि तयोस्तस्याताद्रूप्येऽप्युपपत्तेः । ब्रह्मणोऽपि सत्स्वभावतानुपपत्तिप्रसङ्गात् । नीलो घट इत्यादिप्रतीतौ हि नीलस्यैन्द्रियकतया तादात्म्यभानं सङ्गच्छते । रूपादिविनिर्मुक्तस्य सद्रूपब्रह्मणस्त्वतीन्द्रियतया कथं तत्तादात्म्यभानम् । सन् घट इत्यादिप्रतीतौ सङ्गच्छताम् । दोषादिति समाहितिस्तु प्रकृतप्रतीतेर्भ्रमत्वनिर्णीत्युत्तर-कालीनैव । प्रपञ्चितं चैतद्वनमालिमिश्रेणेतीहोपरम्यते । जलादीति । तद्गुणसंविज्ञाननिर्देशः । त्रयोदशेति । भावात्मकपृथिव्यामभावभेदस्य सिद्धतया तस्य सिषाधयिषितताविरहेण तत्प्रतियोग्य-नन्तर्भावेनेयमुक्तिः । जलत्वादित्रयोदशविभाजकोपाधिभिः प्रत्येकमनवच्छिन्नप्रतियोगिताकभेदकूटस्यैव साध्यता बहुवचननिर्देशेन ध्वन्यते । तथा सति साध्यतावच्छेदकीभूतव्यासज्यवृत्तिधर्मावच्छिन्नस्य क्वचिदनुपलम्भेऽपि विशेष्ये विशेषणं तत्र च विशेषणान्तरमितिरीत्या तादृशधर्माश्रयीभूताभावाव-गाहनस्य जलादौ सम्भवेन तत्राप्रसिद्धविशेषणता नेत्याशयः ।
कथञ्चिदिति । प्रकृतानुमितिविधेयतावच्छेदकीभूतद्वित्वविशिष्टयोः सत्वासत्वाभावयोर्वैशिष्ट्याव-गाहनस्य क्वचिदनुदितत्वेऽपि विशेष्ये विशेषणमित्युक्तदिशा तस्यालीकानलीकयोरुदितत्वादिति भावः । सिद्धसाधनत्वादिति । प्रातिस्विकधर्मावच्छिन्नस्यानलीके निश्चिततया तदंशे सिषाधयिषानु-दयेन सिषाधयिषितविधेयान्तरतुल्यकक्ष्यापन्नतयैतन्निवेशनस्यानतिप्रयोजनत्वादित्यर्थः । ननु यथाश्रुते पर्वतः प्रमेयवानित्यादिसिद्धिदशायां वह्निमानित्याद्यनुमित्यनुत्पादवारणाय प्रकृतसाध्यतावच्छेदका-वच्छिन्नविधेयताकत्वघटितधर्मावच्छिन्नाया एव तस्यास् तद्विरोधित्वोपगमावश्यंभावेन प्रकृते तादृश्याश्च तस्या अभावेन तदनवकाशात् । एकैकेत्यादि । अपिना तत्कूटं समुच्चीयते । पृथिवीत्वोपहिते पृथिवीत्वावच्छेदेन । इत्थं च तत्र तादृगन्योन्याभावानां प्रातिस्विकधर्मपुरस्कारेण पृथिवीत्व-सामानाधिकरण्येन सिद्धावपि प्रकृते पृथिवीत्वावच्छेदेनानुमितेरुद्देश्यतया तदवच्छेदेनातीन्द्रिय-परमाण्वादावसिद्धतया सिषाधयिषितत्त्वेन तुल्यकक्ष्यापन्नतया निवेशनं सङ्गच्छत इत्याशयः । दृष्टान्तस्येति । असत्ख्यात्युपगन्तृत्ववादिमते तत्रासत्वाभावाभावेन तद्घटितोभयस्याभावादित्यर्थः ।
ननु व्यासज्यवृत्तिधर्मावच्छिन्नसाध्यकस्थले तद्घटकैकव्यक्तिविनिर्मुक्तस्य तादृशव्यक्त्यन्तर-समवधानेऽपि निदर्शनत्वायोगेन व्याप्तेर्दुर्ग्रहतायां पृथिवीपक्षीकारेणेतरभेदकूटसाधनदशायामपि तादृश-व्यक्त्यन्तरसमवहितस्यापि तादृशैकव्यक्तिविनिर्मुक्तजलादेर्निदर्शनत्वायोगेन तत्रापि व्याप्तेर्दुर्ग्रहत्वापत्ति-रित्याशङ्कायां तादृशस्थले केवलव्यतिरेकितोपगमेन अन्वयव्याप्तेर्दुर्ग्रहत्वेऽपि व्यतिरेकसहचारग्रहेण व्यतिरेकव्याप्तेः सुग्रहतया अन्वयनिदर्शनप्रदर्शनानवश्यंभावेन क्षत्यभावादित्याह– पृथिवीत्वेति । उक्तसाध्यकपृथिवीत्वहेतौ तत्साध्यनिरूपितव्यतिरेकव्याप्तिग्रहौपयिकसाध्योपस्थितिर्जलादौ उक्तदिशा सूपपादेति न तदनुरोधेनाप्यन्वयनिदर्शनप्रदर्शनस्यावश्योपेतव्यतेत्याह– त्रयोदशेति । यद्यपि पृथिवी-पक्षीकारेण पृथिवीत्वेनेतरभेदसाधनदशायां घटादेरेव दृष्टान्तस्य सौलभ्येनान्वयव्यतिरेकितैवास्य पृथिवीत्वसामानाधिकरण्येन घटादौ साध्यसिध्या पक्षतावच्छेदकसामानाधिकरण्येनानुमितेरुद्देष्टुम-शक्यतयोद्देष्टव्यायाश्च तदवच्छेदकावच्छेदेनानुमितेस्तादृशसिध्यप्रतिबध्यतया क्षतिविरहात् । तथाप्ये-तद्व्यक्तिपक्षीकारेणैतद्व्यक्तित्वेनेतरभेदसाधने केवलव्यतिरेकितायां तात्पर्यमिति सामञ्जस्यात् ।