०३ मिथ्यात्वे परोक्तानुमानानि

विमतं मिथ्या दृश्यत्वात्, जडत्वात्, परिच्छिन्नत्वात्, शुक्तिरूप्यवत्’

३. मिथ्यात्वे परोक्तानुमानानि

न्यायामृतम्

प्रमाणं १चात्रानुमानम्– २तथा हि (एतावत्पर्यन्तं मुद्रितासु मातृकासु ‘‘तथा हि’’ इति नास्ति । परं श्रीनिवासतीर्थीयव्याख्यानुसारेणावश्यकमिदम् ।) ‘विमतं मिथ्या दृश्यत्वात्, जडत्वात्, परिच्छिन्नत्वात्, शुक्तिरूप्यवत्’– इत्यानन्दबोधोक्तेः । ‘अयं पट एतत्तन्तुनिष्ठात्यन्ताभावप्रतियोगी, पटत्वादंशित्वात् पटान्तरवत्’– इति तत्त्वप्रदीपोक्तेः । यद्यपि विमतिरपि नियतविषयत्वायावच्छेदकान्तरसापेक्षा, तथापि सावयवत्वसाधितेन कार्यत्वेन पृथिव्याः सकर्तृकत्वसाधनमिव स्वनियामकनियतया लध्व्या विप्रतिपत्त्या पक्षतावच्छेदो न विरुद्धः ।

अद्वैतसिद्धिः

एवं विप्रतिपत्तौ प्राचां प्रयोगाः– विमतं मिथ्या दृश्यत्वात्, जडत्वात्, परिच्छिन्नत्वात्, शुक्तिरूप्यवदिति । नावयवेष्वाग्रहः । अत्र स्वनियामकनियतया विप्रतिपत्त्या लघुभूतया पक्षतावच्छेदो न विरुद्धः । समयबन्धादिना व्यवधानात् । तस्या अनुमानकालासत्त्वेऽपि उपलक्षण-तया पक्षतावच्छेदकत्वम् ।

यद्वा विप्रतिपत्तिविषयतावच्छेदकमेव पक्षतावच्छेदकम् । प्राचां प्रयोगेष्वपि विमतमिति पदं विप्रतिपत्तिविषयतावच्छेदकावच्छिन्नाभिप्रायेणेत्यदोषः ।

न्यायामृततरङ्गिणी

एवं विप्रतिपत्तिवाक्यस्य प्रयोजनाभावेनानावश्यकत्वमभिधाय परपक्षमुत्थापयति – प्रमाणं चेति ॥ ननु मिथ्यात्वेऽनुमानं प्रमाणमिति भवता कथमवगतमिति? अत आह– विमत-मित्यादि ॥ इत्यानन्दबोधोक्तेर्हेतोरवगतमित्यर्थः । एवमग्रेऽपि । ननु विप्रतिपत्तौ धर्मितेवानु-मितौ पक्षताऽपि ‘ब्रह्मप्रमान्येने’त्यादिनैवावच्छिद्यताम्, अत एवाग्रे प्रपञ्चसत्यत्वानुमानेषु तस्यैव पक्षतावच्छेदकत्वमभिहितम् । न च ‘ब्रह्मप्रमान्येने’ त्यस्य नानापदार्थघटितत्वेन गुरुत्वाद् लध्वी विमतिरेव पक्षतावच्छेदिकेति वाच्यम् । तस्या लघुत्वेऽपि तुच्छब्रह्मव्यावृत्तिवियदाद्यनुगति-रूपनियतविषयत्वायोक्तावच्छेदकसापेक्षत्वेनोक्तस्यैव पक्षतावच्छेदकत्वमुचितम्, न तु विमतेस्तद्-ग्रहाधीनग्रहाया इत्याशङ्क्य निराकरोति – यद्यपीति ॥ सत्यं विमतिरनुगतावच्छेदक-सापेक्षेति । तथाप्यनुमाने लध्व्या विमत्यैव पक्षतावच्छेद उचितः । प्रमाणोपन्यासेन लघुभूतस्यै-वादरणीयत्वात् । सावयवत्वेन गुरुणा गृहीतस्य लघुनः कार्यत्वस्य हेतुत्ववदित्यर्थः । सत्यत्वानुमानेषु तस्य तत्त्वेनोपादानं तु शिष्यान् प्रति प्रयोगवैचित्र्योपपादनायेत्यदोषः । स्वनियामकेति ॥ विप्रतिपत्त्यन्तर्गतेन ‘ब्रह्मप्रमे’ त्यादिना नियामकेनेत्यर्थः । विप्रति-पत्त्येति ॥ विमत्येत्यर्थः ।

न्यायामृतकण्टकोद्धारः

विश्वमिथ्यात्वस्याप्रामाणिकत्वशङ्कापनोदाय प्रमाणमाह– प्रमाणं चेति ॥ किं तदित्यत-स्तदाह– विमतमिति ॥ इदमनुमानं नोक्तविप्रतिपत्त्यनुसारि तथात्वे हि विमतत्वस्य पक्षतावच्छेदकत्वोक्तेरग्रे मिथ्यात्वविकल्पोक्तेश्च विरुद्धत्वप्रसङ्गात्, विशिष्योक्तौ विकल्पा-सम्भवात् । किन्तु विमतं मिथ्या न वेति विप्रतिपत्तिमनुसृत्यैवेदम् । अत एव पूर्वोत्तरपक्षानु-मानप्रतिज्ञे सङ्कलय्य विप्रतिपत्तिरूह्येति प्रागभिहितम् । न चैवमुक्तविप्रतिपत्तिप्रदर्शनानर्थक्यम्; विमतिस्वरूपलाभायैव तदुत्कीर्तनादिति ध्येयम् । अयं पट इति ॥ अत्र पटमात्रस्य पक्षत्वे पटान्तरस्यैतत्तन्तुनिष्ठात्यन्ताभावप्रतियोगित्वेनांशतः सिद्धसाधनवारणाय– अयमिति ॥ अयमित्येवोक्तौ इदंशब्दस्य पुरोवर्तिवाचकतया एतत्तन्तुग्रहणे तेषां स्वनिष्ठात्यन्ताभाव-प्रतियोगित्वेन सिद्धसाधनवारणाय– पट इति ॥ साध्य एतत्तन्तुपदम् एतत्पटोपादानपरम् । तेनैतत्पटोपादाननिष्ठात्यन्ताभावप्रतियोगित्वस्य साध्यत्वे स्वसमानाधिकरणात्यन्ताभाव-प्रतियोगित्वरूपमिथ्यात्वं सिद्धं भवति । अन्यत् सर्वं विप्रतिपत्तिस्थल एवोक्तमिति नेह तन्यते ।

ननु अत्र पक्षतावच्छेदकेन भवितव्यम् । न च विमतिरेव पक्षतावच्छेदिकेति वाच्यम्; ब्रह्मादीतरविशेष्यकत्वज्ञानात्तस्या अपि ब्रह्मादीतरविशेष्यकत्वज्ञानायावच्छेदकसापेक्षत्वादित्यत आह– यद्यपीति ॥ तथा च विमतिरेवावच्छेदिकेति भावः । ननु विमतेः पक्षताच्छेदकत्वं वदताऽपि तन्नियामकीभूत ‘‘ब्रह्मप्रमात्येने’’त्युक्तस्य विमतिविषयतावच्छेदकत्वं वक्तव्यमेव । तथा चावश्यकस्यावच्छेदकान्तरनिरपेक्षस्य तस्यैव पक्षतावच्छेदकत्वोपपत्तौ विमतेः पक्षता-वच्छेदकत्वकथनमयुक्तमित्यत आह – लध्व्येति ॥ अत्र लघुत्वं शब्दतो ज्ञातव्यम् । तत्रैव दृष्टान्तः – सावयवत्वेति ॥ सावयवत्वस्य समवायिकारणादिगर्भत्वेन गुरुत्वात् कार्यत्वस्य तदगर्भत्वेन लघुत्वादिति भावः ।

न्यायामृतप्रकाशः

एवं विप्रतिपत्तिवाक्यस्याफलत्वेनानावश्यकत्वमुपपाद्य परपक्षे प्रमाणमुत्थापयति ॥ प्रमाणं चेति ॥ प्रकृतत्वानुसन्धानार्थश्चशब्दः । तथा हीत्यत्र हीत्यनेनात्र विश्वमिथ्यात्वे यत्प्रतिज्ञातं प्रमाणं तच्चानुमानरूपमित्यर्थः । अनुमानं प्रमाणमिति कुतोऽवगतमित्यत आह विमतमित्यादि ॥ आनन्द-बोधोक्तेर्हेतोरत्रानुमानं प्रमाणमित्येतदवगम्यत इति योज्यम् । एवं तत्वप्रदीपोक्तेरित्येतदपि व्याख्येयम् । एतत्तन्तुनिष्ठेति ॥ एतत्पटस्येतरत्राभावः सिद्ध एवास्ति एतत्तंतुष्वप्यभावसाधने मिथ्यात्वमेव सिद्ध्यतीति भावः ।

ननु विमतमित्यत्र पक्षतावच्छेदिका विमतिर्नाम विरुद्धार्थप्रतिपादकं वाक्यद्वयं संशयरूपं ज्ञानं वेति वक्तव्यम् । तयोश्च कथं प्रपञ्चनिष्ठपक्षतावच्छेदकत्वम् । वाक्यस्य शब्दरूपत्वेन गगनमात्र-निष्ठतया पक्षतान्यूनवृत्तित्वात् । संशयरूपज्ञानस्य च पक्षताशून्यात्मनिष्ठत्वेनाधिकवृत्तित्वादिति चेत्सत्यम् । वाक्यद्वयस्यापि प्रपञ्चे प्रतिपाद्यप्रतिपादकभावसम्बन्धेन संशयरूपज्ञानस्य च विषय-विषयिभावसम्बन्धेन सत्त्वसम्भवेन दोषाभावात् ।

नन्वत्र न विमतिः पक्षतावच्छेदिका । तस्या ब्रह्मतुच्छविषयकत्वरूपाति प्रसङ्गपरिहाराया-वच्छेदकसापेक्षत्वेन यदवच्छेदकमुच्यते ब्रह्मप्रमान्येनेत्यादिकं तस्यैव पक्षतावच्छेदकत्वमस्तु किं तज्ज्ञानाधीनज्ञानाया विमतेः पक्षतावच्छेदकत्वोक्त्या व्यर्थत्वादित्याशङ्क्य शरीरलाघवादियमेव पक्षतावच्छेदिकेत्याह– यद्यपीत्यादिना ॥ नियतविषयत्वाय ब्रह्मतुच्छाविशेष्यका वियदादिप्रपञ्चमात्र-विशेष्यका विमतिरिति नियतविषयत्वायेत्यर्थः ॥ अवच्छेदकेति ॥ ब्रह्मप्रमान्येनेत्याद्यवच्छेदकेत्यर्थः । तथा च तस्यैव पक्षतावच्छेदकत्वमस्त्विति भावः । तथापि स्वनियामकनियतया विप्रतिपत्त्या विमत्या पक्षतावच्छेदो न विरुद्ध इत्यन्वयः ॥ स्वनियामकेति ॥ स्वस्या विमतेर् नियतविषयत्वे नियामकं यद्ब्रह्मप्रमान्येनेत्यादिकं तन्नियतया ब्रह्मतुच्छाविषयकत्वेन नियतविषययेत्यर्थः । तत्र हेतुर् लध्व्येति ॥ स्वनियामकनियतस्यापि प्रयोगो दृष्ट इत्याशयेनोक्तम् । सावयवत्वेति ॥ व्याप्यव्याप्यस्य सुतरां व्याप्यत्वात्कार्यत्वव्याप्येन सावयवत्वेनैव सकर्तृकत्वसाधनोपपत्तौ कार्यत्वरूपहेतूक्तिर्व्यर्थेत्या-शङ्कायां गौरवात्सावयत्वमप्यप्रयुज्य लाघवात्तत्साधितं कार्यत्वमेव प्रयुज्यते तद्वदित्यर्थः ।

न्यायकल्पलता

एवं व्युदसनीयसंशयसम्पत्तौ सिषाधयिषुणा विवर्तमतावलम्बिना वादिना विश्वमिथ्यात्वे प्रमाण-मुपन्यसनीयम् । तत्र न तावत् प्रत्यक्षम् । विप्रतिपन्नं प्रत्युपन्यासानर्हत्वात् । असत्वाच्च । प्रामाण्य-स्वतस्त्वेन तत्सत्त्वस्यैव सिद्धेः । नापि नेह नानास्ति किञ्चनेत्यागमः । वक्ष्यमाणोपपत्तिविरुद्धत्वात् । अभिमान्यधिकरणन्यायेन प्रमाणावधृतव्याप्तिकोपपत्तिप्राबल्यस्य सिद्धत्वात् । तस्मादुपन्यसिष्यमाणा-गमानुग्राहकोपपत्तिं प्रस्तावयति– प्रमाणन्त्वत्रेति । ननु मिथ्यात्वेऽनुमानं प्रमाणमिति भवता कथ-मवगतमित्यत आह– विमतमिति । इत्यानन्दबोधोक्तेर्हेतोरवगतमित्यर्थः । एवमग्रेऽपि ज्ञेयम् । सर्वं मिथ्येत्युक्ते ब्रह्मणि प्रमाणबाधः, शुक्तिरजतादौ सिद्धार्थता च स्यादिति विमतमित्युक्तम् । विमते-रनेकविधत्वेऽपि साध्यविशेषोपादानात्तद्विशेषसिद्धिः । तथा च सत्यत्वमिथ्यात्वाभ्यां वादिप्रतिवादि-विमतिविषयोऽसत्प्रातिभासिकब्रह्मान्यदित्युक्तं भवति । तर्हि तदेव वक्तव्यम् । तथा कृते गौरवं स्यादिति चेन्न । विमतेरनेकविधत्वेन धर्मिविशेषनिश्चये साध्यविशेषोपादानादिना तन्निश्चयानुसरणे गौरवसाम्यात् । तथापि विनिगमनं कुत इति चेत् । अर्थप्रतिपत्तिगौरवाच्छब्दगौरवस्य ज्यायस्त्वात् । सत्यम् । तथाप्यप्रसिद्धविशेष्यत्वाप्रसिद्धविशेषणत्वसिद्धार्थप्रमाणबाधानां प्रतिज्ञादोषाणामुद्धारोऽप्यनेन संक्षेपतः कृतः स्यादित्येवमर्थं विमतग्रहणम् । तथा हि । यदि विशेष्यं विश्वमप्रसिद्धं स्यात् तदा किमाश्रया विमतिः स्यात् । यदि विशेषणं मिथ्यात्वमप्रसिद्धं भवेत्तदा किमुल्लेखिनी विमतिर्भवेत् । यदि वा मिथ्यात्वं प्रपञ्चे सिद्धं बाधितं वा भवेत्तदाऽप्यन्यतरपक्षनिश्चयान्न विमतिः स्यात् । अस्ति चेयं, ततो नाप्रसिद्धविशेष्यत्वादीति । वक्ष्यमाणरीत्या पक्षतावच्छेदकलाघवार्थमपीत्येतदिति ज्ञेयम् ॥ अयं पट इति । अत्र पट इत्येवोक्ते पटान्तरस्य एतत्तन्तुनिष्ठात्यन्ताभावप्रतियोगित्वेन सिद्धसाधनं स्यात्तदर्थ-मयमिति । साध्येऽप्येतदिति पदं सिद्धसाधनवारणाय ।

ननु यथा विप्रतिपत्तौ धर्मिता तुच्छप्रातिभासिकब्रह्मान्यत्वेनावच्छिद्यते । तथाऽनुमाने पक्षताऽपि तेनैवावच्छिद्यताम् । अत एव प्रपञ्चसत्यत्वानुमानेषु तस्यैव पक्षतावच्छेदकत्वमभिधास्यति । न चैतस्य नानापदार्थघटितत्वेन गुरुत्वाद् लघुविमतिविषयत्वमेव पक्षतावच्छेदकमिति वाच्यम् । न तु विमति-विषयत्वस्य तद्गृहाधीनग्रहस्येत्याशङ्क्य निराकरोति– यद्यपीति । सत्यम् । विमतिविषयत्वमपि अनुगता-वच्छेदकापेक्षमिति तथापि अनुमाने लघुनो विमतिविषयत्वस्यैव पक्षतावच्छेदकत्वमुचितम् । प्रमाणोप-न्यासे लघुभूतस्यैवादरणीयत्वात्, गुरुणा सावयवत्वेन साधितस्य लघुनः कार्यत्वस्य हेतुत्ववदित्यर्थः । सत्यत्वानुमानेषु तस्य तत्वेनोपादानं तु शिष्यान् प्रति प्रयोगवैचित्र्योपपादनायेत्यदोषः । स्वनियामकेति । स्वपदं विमतिपरम् । तथा च स्वहेतुविप्रतिपत्तिधर्मितावच्छेदकेन ब्रह्मप्रमेत्यादिना नियामकेनेत्यर्थः ॥ विप्रतिपत्त्येति । विमतिविषयत्वेनेत्यर्थः ।

न्यायामृतसौगन्ध्यम्

अत्र प्रयोगाः – विमतं मिथ्या दृश्यत्वात्, जडत्वात्, परिच्छिन्नत्वात्, शुक्तिरूप्यवदिति चेत् । न । मिथ्यात्वाद्यनिरुक्तेः ।

न्यायामृतमाधुरी

दर्शितसंशयत्वघटकविशेष्यताविशेषणीभूतावच्छिन्नत्वकुक्षिनिवेशिततदन्यत्वान्ते स्वसामानाधि-करण्यं निवेश्य तद्वारणेऽपि भिन्नविषयकप्रत्यक्षादिप्रतिबन्धकतादृशानुमितिसामग्रीशरीरे परामर्शस्य पक्षतावच्छेदकशरीरविशिष्टप्रकारताविशेष्यतानां तादृशप्रत्यासत्त्या मिथो विशेष्यविशेषणभावे विनिगमनाविरहेण रूपषट्केन निवेशापत्या तादृशरूपषट्कस्यैव तादृशानुमितिसमानविषयकशाब्द-सामग्रीप्रतिबध्यतावच्छेदकतापत्त्या च तदनुमितिसमानविषयकप्रत्यक्षादिप्रतिबन्धकेच्छाघटितानुमिति-सामग्रीशरीरे परामर्शस्योक्तरूपैरिच्छायाश्च तादृशविशेष्यताकत्वावच्छिन्नावच्छेदकताकविशेष्यताकत्वेन तादृशकोटिद्वयप्रकारताकत्वावच्छिन्नावच्छेदकताकविशेष्यताकत्वेन चानुमितिमवगाहिन्यास्तेन रूपेण निवेशप्रसङ्गेन दर्शितानेकरूपोपरागेण परामर्शमवगाहमा(ना)नां तत्तद्धर्मिकाप्रामाण्यज्ञानानाम-भावकूटस्यैव परमर्शांशे विशेषणीयतापत्त्या च सिद्धिबाधयोस्तादृशानुमितिं प्रति तन्नियन्त्रितप्रतिबध्य-प्रतिबन्धकभावबाहुल्यस्य तदभावयोर्हेतुहेतुमद्भावबाहुल्यस्य च प्रसङ्गेन विप्रतिपत्तिविशेष्यतावच्छेदकी- भूतान्यत्वान्तघटितधर्मस्यैव पक्षतावच्छेदकतौचिती न तत्प्रतिपत्तिनिबन्धनप्रतिपत्तिकाया विमते-रित्याशयेन शङ्कते– यद्यपीति । विमतिरित्यस्योपस्कृतेन पक्षतावच्छेदकेत्यनेनान्वयः । नियत-विषयत्वाय स्वनिरूपितविषयताया आत्मालीकविपर्यस्तव्यावर्तनाय । अवच्छेदकसापेक्षा तादृशा-न्यत्वान्त(प्रतिसन्धाननिबन्धन)प्रतिसन्धाना । तथा चान्यत्वान्तस्यैव तदवच्छेदकतेत्याशयः । कार्यत्वस्यासिद्धिशङ्कानिरसनद्वारा सावयवत्वप्रतिपत्त्यधीनप्रतिपत्तिकत्वेऽपि यथा सकर्तृकत्वानुमापकता न सावयवत्वस्य । कार्यं हि कर्तारमन्तरेणानुपपद्यमानं न सावयवमिति अप्रयोजकतायाः कथायां निग्रहस्य च प्रसङ्गात् । तद्वत्स्वनियामकनियतया स्वप्रतीत्यौपयिकप्रतीतिकाधीनप्रतीतिकया समनन्तर दर्शयिष्यमाणदिशा लघ्व्या तया पक्षताया अवच्छेदो व्यावर्तनमपक्षीकृताद्युक्तमित्यर्थः ।

ब्रह्मानन्दस्तु । स्वनियामकनियतयेति प्रतीकमुपादाय स्वस्या विप्रतिपत्तेर्नियामकं प्रकृतानुमान-पक्षतावच्छेदकयोग्यतासम्पादकं यद् ब्रह्मज्ञानान्याबाध्यत्वादिविशिष्टविशेष्यकत्वं पूर्वोक्तं तेन नियतया विशेषितयेति व्याचक्रे । तच्चिन्त्यम् । नियामकनियतपदास्वारस्यात् । विमतेस्तदवच्छेदकतायां मिथ्यात्वावृत्तित्वविशिष्टप्रकारतायां तदभावावृत्तित्वविशिष्टप्रकारतायां तदन्यत्वान्तावृत्तित्वविशिष्टा-वच्छेदकतायां तादृशावच्छेदकत्वान्तानिरूपकत्वाभावविशिष्टविशेष्यतायां तादृशविशेष्यतानिरूपितत्वा-भावविशिष्टायां तदभावप्रकारतायां निरुक्ताभावविशिष्टायां मिथ्यात्वप्रकारतायां निरूपकताघटित-सामानाधिकरण्यसम्बन्धावच्छिन्नप्रतियोगिताकविधिप्रकारत्वाभावविशिष्टायां निषेधप्रकारतायां तादृश-निषेधप्रकारत्वाभावविशिष्टायां विधिप्रकारतायां मिथ्यात्वीयत्वाभावविशिष्टाभावादौ प्रमेयत्व-वैशिष्ट्यावगाहिप्रत्यक्षेषु दर्शितानुमितिसामग्य्राः प्रतिबन्धकत्वाकल्पनेन लाघवात् । अनुमिति-सामग्रीदशायां विशेष्यतावच्छेदकप्रकारकनिर्णयघटिताया दर्शितप्रत्यक्षसामग्य्राः (अ)समवधानेनैव वारणात् । एवम् इच्छाघटितनिरूपितप्रत्यक्षसामग्रीणां तद्घटिततत्सामग्रीसमशीलशाब्दसामग्रीणां तादृशानुमितिप्रतिबन्धकत्वाकल्पनेनापि लाघवम् ।

एवं च विमतिशरीरकृतगौरवस्यैवातीव लाघवसम्पादकतया दर्शितानेकरूपनिवेशनादिकृत-गौरवस्याकिञ्चित्करतया विमतेरेव तदवच्छेदकतौचित्यात् । अथवा तादृशकोटिद्वयप्रकारतानिरूपित-स्वसमानाधिकरणतादृशान्यत्वान्तघटितधर्मावच्छिन्नविशेष्यताप्रत्यासत्त्या ज्ञानत्वावच्छिन्नस्यैव तदवच्छेदकत्वोपगमेन सर्वसामञ्जस्ये नानापदार्थघटितगुरुतरतादृशान्यत्वान्तस्य तदुपगतेर्निर्बीजत्वादिति रहस्यमनुसन्धेयम् ।


यद्वा, पृथिवी सत्या मिथ्या वा, ..

न्यायामृतं

यद्वा, पृथिवी सत्या मिथ्या वा, जलं सत्यं मिथ्या वेत्यननुगतधर्म्याश्रया अनुगता विप्रतिपत्तिः पक्षतावच्छेदिका । यद्यपि विमतिस्समयबन्धादिना व्यवहित-त्वान्नानुमानकालेऽस्ति, तथापि सैवोपलक्षणतया तज्ज्ञानं वा विशेषणतया पक्षता-वच्छेदकमस्तु । अत एव विमतमित्येव प्राचां प्रयोगः । न तु वियदादीत्येव पक्षनिर्देशः । अवच्छेदकाभावेऽसङ्कुचितेनादिशब्देन आत्मादेरपि ग्रहणप्रसङ्गात् । नापि प्रपञ्च इत्येव पक्षनिर्देशः । प्रपञ्चशब्देन वियदाद्यन्यतमतत्समुदायोक्तौ वियदादिमिथ्यात्वासिद्धेः । वियदादीनामेवोक्ताववच्छेदकाभावेनोक्तदोषात् । नापि वियदित्येव पक्षनिर्देशः, घटादिस्तु पक्षतुल्य इति वाच्यम् । पक्षादन्यत्र निश्चित-साध्याभाववति हेतुसन्देह इव निश्चितहेतुमति साध्यसन्देहेऽपि सन्दिग्धा-नैकान्त्यात् । प्रतिज्ञां प्रत्यविषये घटे स्वार्थानुमानानुगतस्य साधकबाधक-प्रमाणविरहरूपपक्षत्वस्य सत्त्वेऽपि एवंविधपक्षनिर्देशस्य घटादिसाधारणविप्रतिपत्त्य-नानुगुण्याच्च । विप्रतिपत्तौ तु न विमतिर्धर्मितावच्छेदिका, आत्माश्रयात् ।

न्यायामृततरङ्गिणी

यद्वेति ॥ आत्मत्वेतरपृथिवीत्वाद्यभावत्वान्तचतुर्दशधर्मावच्छिन्नविशेष्यताकचतुर्दश-विप्रतिपत्तिप्रयुक्ता विमतिः पक्षतावच्छेदिकेत्यन्वयः । ननु अननुगतविप्रतिपत्तिप्रयुक्ताया विमतेरननुगतत्वात् कथं पक्षतावच्छेदकत्वम् ? अत आह – अनुगतेति ॥ अनेक-विशेष्यतावच्छेदकावच्छिन्नापि तावत्स्वेका समूहालम्बनरूपा विमतिरनुगता वा तद्विषयत्वं वाऽनुगतं सम्भवति इति सैव पक्षतावच्छेदिकेत्यर्थः । अस्मिन् पक्षे विप्रतिपत्तौ धर्मितावच्छेदक-मेवानुमानेऽपि पक्षतावच्छेदकमस्त्विति शङ्कैव नोदेति । विप्रतिपत्त्यवच्छेदकानामननुगतत्वाद् इत्यभिप्रेत्योक्तम्– अननुगतधर्म्याश्रयेति । विप्रतिपत्तिरिति ॥ विमतिरित्यर्थः । पृथिव्यादौ पृथिवीत्वादिप्रत्येकधर्मावच्छेदेन जातायामपि विप्रतिपत्तौ विमतत्वं तावत्स्वनुगतमस्ति इति लघुभूतं तदेव पक्षतावच्छेदकमिति भावः । यद्यपि विमतिरिति ॥ पक्षतावच्छेदकधर्म-सामानाधिकरण्येन साध्यसिद्धिरूपानुमित्यनुरोधेनानुमितिकाले सत एव धर्मस्य पक्षतावच्छेद-कत्वमुचितम् । विमतेः समयबन्धसभ्यानुविधेयसंवरणादिना व्यवहितत्वात् तद्धटितं विमतिविषयत्वमपि नानुमानकालेऽस्तीत्यर्थः ।

सैवेति ॥ विमतिविषयतेत्यर्थः । विमतेरनुमानकालेऽसत्त्वेऽपि ‘पाकरक्तः श्यामः’ इतिवद् विमतं मिथ्येत्यनुमितिरप्रत्यूहैव । ननु पक्षतावच्छेदकाभावे पक्षतावच्छेदकविशिष्टे हेतुज्ञानरूपपक्षधर्मताज्ञानं न स्यादिति चेन् न । स्वरूपसत्पक्षतावद्धर्मताज्ञानस्यैव पक्षधर्मता-ज्ञानत्वात् । न च पक्षतावच्छेदकासत्त्वे पक्षताऽपि कथं वर्ततामिति वाच्यम्; ‘‘विषयजन्यं ज्ञानं प्रत्यक्षमि’ति लक्षणे विषयत्वेनाभिमते घटादौ स्वज्ञानात् पूर्वं ज्ञानविषयत्वाभावेऽपि विषय-त्वेनावच्छेद्यायाः स्वज्ञानं प्रति जनकतायाः सत्त्वमिवोपपत्तेरिति भावः ।

ननु उत्सर्गतो विशेषणत्वावगाहित्वरूपप्रमाणस्वभावबाध एवात्र दोषः प्राप्नोति, अत एव ‘रूपप्रागभावावच्छिन्नो घटो रूपवानि’त्यत्र बाध उक्तः, उपलक्षणत्वे तदसम्भवादित्यरुच्या पक्षतावच्छेदकस्य विशेषणत्वमेवाह – तज्ज्ञानं वेति ॥ विमतिविषयत्वज्ञानं वेत्यर्थः । न्यायवाक्यप्रयोज्यपरामर्शपूर्वक्षणे विमतिज्ञानम्, तदुत्तरक्षणे च परामर्शः, तदुत्तरक्षणे त्वनुमिति-रिति भावः । विमतेः पक्षतावच्छेदकत्वे उपष्टम्भकमाह– अत एवेति ॥ ‘‘प्राचामि’’त्यत्र पूज्यत्वं न विवक्षितम्; अतो ‘‘नाञ्चेः पूजायामि’’ति नलोपनिषेधाभावः । विमतेः पक्षता-वच्छेदकत्वसिद्ध्यर्थमवच्छेदकान्तराणि परिसञ्चष्टे – न तु वियदादीत्येवेत्यादिना ॥

॥ पक्षादन्यत्रेति ॥ एतच्च दार्ष्टान्तिके विशेषणम्, न तु दृष्टान्तेऽपि । निश्चित-साध्याभाववति हेतुसन्देहस्य सर्वत्रापि दोषत्वात् । यद्वा, दृष्टान्तेऽपि तद्विशेषणं व्याप्यत्वा-सिद्धीतरदोषान्तरासङ्कीर्णस्यानैकान्त्यस्य लक्ष्यत्वमभिप्रेत्य; पक्षे तु तस्य बाधसङ्करात् ॥ निश्चितहेतुमतीति ॥ तथा च वियन्मात्रस्य पक्षत्वे घटादौ सन्दिग्धानैकान्त्यं स्यादेवेत्यर्थः । ननु निश्चितहेतुमति सर्वत्र साध्यसन्देहो न दोषो ऽनुमानमात्रोच्छेदापत्तेः, किन्तु पक्षातिरिक्ते । घटादिस्तु न पक्षातिरिक्त इति न तत्र सन्दिग्धानैकान्त्यं दोषः । न च प्रतिज्ञाविषयत्वरूपं पक्षत्वं घटे नास्तीति स पक्षातिरिक्त इति वाच्यम् । प्रतिज्ञाविषयत्वं न पक्षत्वम् । स्वार्थेऽनुमाने शब्दप्रयोगरूपप्रतिज्ञाविरहेण पक्षत्वाभावापत्तेः । किन्तु साधक–बाधकप्रमाणाभाववत्त्वं पक्षत्वं स्वार्थानुमान–परार्थानुमानसाधारणम् । तच्च घटेऽप्यस्ति इति न स पक्षातिरिक्त इति न घटे सन्दिग्धानैकान्त्यं दोष इति वियदित्येव पक्षनिर्देशोऽस्त्वित्यत आह– प्रतिज्ञां प्रत्यविषय इति ॥

॥ एवं पक्षनिर्देशस्येति ॥ यद्यपि वियन्मात्रस्य पक्षत्वेऽप्युक्तविधया घटे न सन्दिग्धा-नैकान्त्यम् । तथापि घटादिसाधारण्यामेकस्यामनेकस्यां वा विप्रतिपत्तौ सत्यां घटादिबहिर्भावेन वियन्मात्रपक्षनिर्देशस्यानाकाङ्क्षिताभिधानत्वेनाप्राप्तकालत्वादित्यर्थः । ननु अनुमाने पक्षता-वच्छेदिका इव लध्वी विमतिरेव विप्रतिपत्तावपि धर्मितावच्छेदिकाऽस्तु, किं ‘ब्रह्मप्रमान्येने’त्या-द्युक्तकुसृष्टियुक्तधर्मितावच्छेदकाश्रयणेनेत्यत आह– विप्रतिपत्ताविति ॥ विमतिर् विप्रतिपन्नत्वम् । विप्रतिपत्तौ विमतेर्धर्मितावच्छेदकत्वे मिथ्या न वेत्यादिविप्रतिपन्नत्वं मिथ्या न वेत्यादि विप्रतिपत्तिः स्यात्, तथा चात्माश्रयः स्यात् । तस्माद् ‘ब्रह्मप्रमान्येने’त्याद्यनुगतं वा पृथिवीत्वादिकमननुगतं वा विप्रतिपत्तौ धर्मितावच्छेदकमुपादातव्यमित्यर्थः ।

न्यायामृतकण्टकोद्धारः

नन्वेवं गौरवेण तस्य पक्षतावच्छेदकत्वाभावे विमतिविषयतावच्छेदकत्वमपि न स्यात्; अन्यथा पक्षतावच्छेदकत्वेनापि किमपराद्धम्? इत्यरुचेराह – यद्वेति । तथा चास्मिन् पक्षे नोक्तं विमतिविषयतावच्छेदकं किन्तु पृथिवीत्वाद्यनेकान्येव विमतिविषयतावच्छेदकानि । न च तर्हि तेषामेव पक्षतावच्छेदकत्वमस्त्विति वाच्यम्; तेषामनेकत्वेनानुगतपक्षतावच्छेदकत्वायोगात् । समूहालम्बनसंशयविषयत्वरूपविमतेरेवानुगतत्वेन पक्षतावच्छेदकत्वौचित्यात् । न च एतादृश-संशयविषयत्वरूपविमतेरप्यतिप्रसक्तत्वेनावच्छेदकत्वमनुचितमिति वाच्यम्; सत्यत्वमिथ्यात्व-कोटिकसंशयविषयत्वस्यानतिप्रसक्तत्वात् । न च विशेषादर्शनवेलायां ब्रह्मण्यपि तादृशसंशय-विषयत्वसम्भवादतिप्रसक्तिरिति वाच्यम्; अत्र वादिप्रतिवादिभूतयोर्मायावादितत्त्ववादिनोस्सतोरे-तादृशसंशयविषयत्वस्य ब्रह्मण्ययोगात् । आहार्यसंशयस्य चातिप्रसक्तत्वादसम्भवात् ।

यत्तु ब्रह्मासत्प्रातिभासिकातिरिक्तसंशयविषयत्वमनतिप्रसक्तं विमतिविषयतावच्छेदकमिति, तत्तुच्छम्; तथा सति ‘ब्रह्मप्रमान्येने’त्युक्तापेक्षयाऽप्यस्यैव गुरुत्वेन तस्यैव विमतिविषयता-वच्छेदकत्वौचित्यात् । त्वदुक्तस्यैव विमतिविषयतावच्छेदकत्वे विमतेस्तावज्ज्ञानसाध्यत्वेन गौरवात्, ‘ब्रह्मप्रमान्येने’त्याद्युक्तस्यैव विमतिविषयतावच्छेदकत्व एकज्ञानसाध्यत्वेन लाघवात् तस्यैवावच्छेदकत्वौचित्यात् । ब्रह्मेतरस्य सर्वस्यापि मिथ्यात्वे विप्रतिपत्तौ सत्याम् – पृथिवी सत्या, मिथ्या वेति पृथिवीत्वाद्यवच्छेदेन तदुपदर्शनस्यानौचित्याच्चेति पूर्वपक्ष एव साधीयानिति द्रष्टव्यम् ।

न चैवमपि विमतेरर्थतो गुरुत्वात् शब्दतो गुर्वपि तदेव पक्षतावच्छेदकमस्त्विति वाच्यम्; तथा सति पक्षनिर्देशस्य तथैव कर्तव्यत्वापत्तेराश्रयासिद्ध्याद्यनेकदोषपरिहारस्यावश्यकत्वेन तदर्थं ‘‘विमतं’’ इति प्रयोगस्यावश्यकत्वेन विमतेरेव पक्षतावच्छेदकत्वमुक्तमिति ध्येयम् । अननुगत-धर्म्याश्रयाऽननुगतविशेष्यकाऽनुगता समूहालम्बनरूपा विप्रतिपत्तिर् विमतिः ।

यद्यपीति ॥ तथा च पक्षतावच्छेदकावच्छिन्ने साध्यतावच्छेदकावच्छिन्नसाध्यज्ञान-रूपानुमितिर्न स्यादिति भावः । यद्यपि समयबन्धाद्युत्तरमपि विमतिसम्भवः । तथापि व्याप्तिज्ञानव्यवहितत्वं द्रष्टव्यम् । तज्ज्ञानं विमतिविषयत्वेन ज्ञानम् । अत्र प्रपञ्चशब्देन वियदादिसमुदायोऽभिधीयते? वियदादिकमेव वा? आद्येऽपि समुदायः समुदायिभ्यो भिन्नोऽभिन्नो वा? नाद्य इत्याह – प्रपञ्चशब्देनेति ॥ द्वितीय–तृतीयौ निराकरोति – वियदादीनामेवेति ॥ घटादौ सन्दिग्धानैकान्त्यपरिहारार्थमाह – घटादिस्त्विति ॥ पक्षादन्यत्रेति ॥ प्रतिज्ञा-विषयादन्यत्रेत्यर्थः । एतद् दार्ष्टान्तिकविशेषणम् । न चैवं स्वार्थानुमानोच्छेदः; तत्र पक्षवचनरूपप्रतिज्ञाऽभावेन पक्षस्यैव प्रतिज्ञाविषयादन्यत्वेन सन्दिग्धानैकान्त्यादिति वाच्यम्; परार्थानुमान एव प्रतिज्ञाविषयादन्यत्र सन्दिग्धानैकान्त्यस्य दोषत्वेनोक्तत्वात् । दोषान्तरमाह– प्रतिज्ञां प्रतीति ॥ घटादिसाधारणविप्रतिपत्तौ सत्यां ‘वियदि’ति पक्षनिर्देशेऽर्थान्तरता स्यात् । अनाकाङ्क्षितार्थाभिधानं त्वर्थान्तरम् । साधारणविप्रतिपत्तौ सत्यां विशेषसाधनं ह्यनाकाङ्क्षितं भवति । न च – घटादीनामपक्षत्वेन न तत्साधारणपक्षनिर्देश इति वाच्यम्; स्वार्थपरार्थानुमान साधारणस्य साधक–बाधक–प्रमाणाभावरूपस्य पक्षत्वस्य घटादिसाधारणत्वेन तत्साधारणपक्ष-निर्देशापपत्तेः । न च प्रतिज्ञाविषयत्वमेव पक्षत्वम्; स्वार्थानुमानोच्छेदकत्वेन तस्यापक्षत्वात् । तथा चार्थान्तरतेति भावः ।

यत्तु, ननु निश्चितहेतुमति सर्वत्र साध्यसन्देहो न दोषः, अनुमानमात्रोच्छेदापत्तेः, किन्तु पक्षातिरिक्ते । घटादिस्तु न पक्षातिरिक्तः, इति न तत्र सन्दिग्धानैकान्त्यम् । न च प्रतिज्ञाविषयत्वरूपं पक्षत्वं घटे नास्ति, इति स पक्षातिरिक्त एवेति वाच्यम्; प्रतिज्ञाविषयत्वरूपं न पक्षत्वम् । स्वार्थानुमाने शब्दप्रयोगरूपप्रतिज्ञाभावेन पक्षत्वाभावापत्तेः । किन्तु साधक-बाधकप्रमाणाभावरूपमेव पक्षत्वं स्वार्थ–परार्थानुमानसाधारणम् । तच्च घटेऽस्ति, इति न स पक्षातिरिक्त इति न तत्र सन्दिग्धानैकान्त्यम्, इति वियदित्येव पक्षनिर्देशोऽस्तु इत्यरुचेराह – प्रतिज्ञां प्रत्यविषय इति ॥ तन्न । ‘घटादिस्तु पक्षतुल्यः’ इत्यनेन पूर्वपक्षिणा सन्दिग्धा-नैकान्त्ये परिहृते पुनः ‘‘पक्षादन्यत्रे’’त्यादिना सन्दिग्धानैकान्त्यदातुर्न हि ‘‘पक्षादन्यत्रे’’ति यथाश्रुतमभिप्रेतम् । तथा सति पक्षतुल्यत्वोक्त्या परोक्तसन्दिग्धानैकान्त्यपरिहारस्य निराकरणा-भावेन तदर्थप्रवृत्तस्य प्रकृतग्रन्थस्यात्यन्तासङ्गतत्वापत्तेः । तस्मात् ‘‘पक्षादन्यत्रे’’त्येतत् प्रतिज्ञा-विषयादन्यत्रेत्यवश्यं व्याकर्तव्यमेव । तथा च घटादौ सन्दिग्धानैकान्त्यं दुष्परिहरम् इति कथमत्रारुच्युद्भावनमिति न जानीमः ।

यच्च – पक्षसमस्य पक्षत्वाश्रयत्वात् पक्षत्वमेव । तथा च तत्र सन्दिग्धानैकान्त्योद्-भावनमयुक्तमित्यस्वरसोद्भावनमिति । तन्न; ‘‘पक्षादन्यत्रे’’त्यस्य प्रतिज्ञाविषयादन्यत्रेति व्याख्यातत्वात् । घटस्य च तदन्यत्वेन सन्दिग्धानैकान्तिकत्वस्य दुष्परिहरत्वात्, अन्यथा क्षितिमात्रस्य पक्षत्वेऽङ्कुरादौ सन्दिग्धानैकान्त्यं नोद्भाव्येत ।

ननु वियदित्येव पक्षनिर्देशोऽस्तु, न च सन्दिग्धानैकान्त्यम्; निश्चितसाध्याभाववति हेतुसन्देह एव सन्दिग्धानैकान्त्यात् । न च निश्चितसाध्याभाववति हेतुसन्देह इव निश्चितहेतुमति साध्यसन्देहेऽपि सन्दिग्धानैकान्त्यमेव, उभयथाऽपि साध्याभाववद्गामित्वसन्देहस्य दूषकताबीजस्य तुल्यत्वादिति वाच्यम्; तथा सति धूमानुमानेऽपि तथाविधसन्देहसम्भवेनानुमानमात्रोच्छेद-प्रसङ्गात् । न च पक्षादन्यत्र तथाविधसन्देहो दोष इति वाच्यम् । ‘‘पक्षादन्यत्रे’’ति कोऽर्थः? न तावत्सन्दिग्धसाध्यवतोऽन्यत्रेति । तथा सति घटादेरपि सन्दिग्धसाध्यकत्वेन तदन्यत्वाभावात् । नापि प्रतिज्ञाविषयादन्यत्रेति । स्वार्थानुमानोच्छेदापत्तेः । तत्र पक्षवचनरूपप्रतिज्ञाया अभावात् । नापि सिषाधयिषाविरहसहकृतसिद्ध्यभाववतोऽन्यत्रेति । घटादौ तादृशपक्षतायाः सत्त्वेन तदन्यत्वाभावात् । न च एवं पक्षनिर्देशे घटादिसाधारणविप्रतिपत्त्यनानुगुण्यमिति वाच्यम्; विप्रतिपत्तेः कथाङ्गत्वेनापि स्वीकारसम्भवादिति चेत्, अत्राहुः – व्यभिचारसंशयः प्रतिबन्धक इति तावदविवादम् । सोऽपि पक्षीयः स्वारसिकश्चेदप्रतिबन्धक इत्यप्यविवादम् । तथा च व्यभिचारसंशयस्य पक्षताघटकान्यव्यभिचारज्ञानत्वेनैव दोषत्वं वाच्यम्, न तु निश्चित-साध्याभाववति हेतुसंशयज्ञानत्वेन; गौरवात् । एवञ्च पक्षसमव्यभिचारसंशयस्य पक्षताघट-कान्यत्वेन प्रतिबन्धकत्वं स्यादेवेति । तदयुक्तम्; पक्षताघटकान्यव्यभिचारज्ञानत्वेन व्यभिचार-संशयस्य प्रतिबन्धकत्वमित्येतत् किं संशयघटितपक्षत्वमादाय वोच्यते? सिद्ध्यभावरूप-पक्षत्वमादाय वा? नाद्यः; संशयस्य विशेषणत्वोपलक्षणत्वाभ्यां संशयघटितपक्षताया निराकृत-त्वेन तद्घटितपक्षत्वमादाय व्यभिचारसंशयस्य प्रतिबन्धकत्वासम्भवात् ।

न द्वितीयः, पक्षीयव्यभिचारसंशयस्यापि पक्षताघटकान्यव्यभिचारज्ञानत्वेन प्रतिबन्धकत्वा-पत्तावनुमानमात्रोच्छेदापत्तेरिति । वस्तुतस्तु – वियदिति पक्षनिर्देशे घटादौ सन्दिग्धानैकान्त्यं दुष्परिहरमेव । यदत्रोक्तम् – निश्चितहेतुमति साध्यसन्देहस्य दोषत्वेऽनुमानमात्रोच्छेदः स्यादिति, तत्तुच्छम्; पक्षादन्यत्रेति विशेषितत्वात् । न चोक्तविकल्पावकाशः; पक्षादन्यत्रेत्यस्य प्रतिज्ञा-विषयादन्यत्रेति व्याख्यानात् । न च एवं स्वार्थानुमानोच्छेदः स्यादित्युक्तमिति वाच्यम्; प्रतिज्ञाविषयादन्यत्रेति विशेषितस्य परार्थानुमान एव दोषत्वात् । न चैतन्नियामकशून्यमिति वाच्यम्; साध्यवत्त्वप्रकारकसंशयधर्मिमात्रसाधारणपक्षतानिर्वचननिर्बन्धस्यैव नियामकत्वात् । अत एव गङ्गेशचरणैः – ‘‘सकर्तृकत्वसंशयधर्मिमात्रसाधारणमदृष्टाद्वारकमि’’त्यादिना पक्ष-तावच्छेदकमुक्तम् । क्षितिमात्रस्य पक्षत्वेऽङ्कुरादौ सन्दिग्धानैकान्तिकता चोद्भाविता ।

ननु यथा विमतिर्लघुत्वादनुमाने पक्षतावच्छेदिका, तथा विमतावपि विमतिरेव धर्मिता-वच्छेदिकाऽस्त्वित्यत आह – विप्रतिपत्तौ त्विति ॥ विमतावित्यर्थः । विमतौ हि विमत्यन्तरं धर्मितावच्छेदकम्? स्वयमेव वा? नाद्यः, अनवस्थितेः । न द्वितीय इत्याह– आत्माश्रयादिति ॥ स्वस्य स्वावच्छेदकत्वे स्वज्ञानाधीनज्ञानत्वेनात्माश्रय इति भावः । वस्तुतस्तु विमतौ विमतिरेवावच्छेदिका । न चोक्तविकल्पावकाशः; विमत्यन्तरस्यैवावच्छेदक-त्वाङ्गीकारात् । न चानवस्थेति वाच्यम्; पूर्वपर्वेषां विमतिविषयं ज्ञात्वोत्तरेषां विमतमिति प्रयोगोपपत्त्या पूर्वपर्वेषां विमतेरेवोत्तरेषां विमताववच्छेदकत्वोपपत्तेः । एवं परम्परायाश्चानादित्वेन नानवस्थादोषः । अत एव मन्त्राधिकरणे – ‘पूर्वपूर्वेषां मन्त्र इत्यभियुक्तप्रयोगं ज्ञात्वोत्तरेषां मन्त्र इति प्रयोगोपपत्तेर्नानवस्थेत्युक्तम् ।

यत्तु – ‘‘नन्वनुमाने पक्षतावच्छेदिका लध्वी विमतिरेव विप्रतिपत्तावपि धर्मितावच्छेदि-काऽस्तु । किं ‘ब्रह्मप्रमान्येने’त्युक्तकुसृष्टियुक्तधर्मितावच्छेदकाश्रयणेनेत्यत आह– विप्रति-पत्ताविति ॥ समूहालम्बनसंशयविषयत्वरूपविमतेर्विप्रतिपत्तौ धर्मितावच्छेदकत्वं नेत्यर्थः । अनुगतावच्छेदकमन्तरेणैवाननुगता नियतविषया विमतिर्विप्रतिपत्तौ धर्मितावच्छेदिकोच्यते ? आहोस्विद् अनुगतावच्छेदकेनानुगता नियतविषया सा तथोच्यते ? आद्येऽसम्भवः; अनुगता-वच्छेदकमन्तरेण तस्या नियतविषयत्वासम्भवात् । द्वितीयेऽपि किमनुगतधर्मो ‘ब्रह्मप्रमान्येनेत्या-द्युक्तरूपं वा? विमतिरेव वा? नाद्यः; तदनादरात् । तदादरे वा स एव विप्रतिपत्तौ धर्मिता-वच्छेदकोऽस्तु । कृतं तद्ग्रहाधीनग्रहाया विमतेर्धर्मितावच्छेदकत्वकल्पनया । न द्वितीयः । आत्माश्रयादित्याह आत्माश्रयादितीति व्याख्यानम्, तदनादरणीयम् । विमतेरनुमानेऽपि पक्षतावच्छेदकत्वोक्तावप्युक्तदोषसाम्यात् ।

तथा हि– अनुमाने ह्यनुगतावच्छेदकमन्तरेणैवाननुगता नियतविषया विमतिः पक्षता-वच्छेदिकोच्यते? उतानुगतावच्छेदकेनानुगता नियताविषया सा तथोच्यते? आद्येऽसम्भवः; अनुगतावच्छेदकमन्तरेण तस्या नियतविषयत्वासम्भवात् । द्वितीयेऽपि किमनुगतधर्मो ‘ब्रह्मप्रमान्येने’त्याद्युक्तरूपो वा? विमतिरेव वा? नाद्यः; उक्तरीत्याऽनवस्थाद्याभावेन विमतेरेव विमत्यवच्छेदकत्वोपपत्तौ ‘ब्रह्मप्रमान्येने’त्यस्य विमत्यच्छेदकत्वकल्पनायां गौरवात् ।

न च विमतेरर्थगुरुत्वाच्छब्दतो गुर्वपि ‘ब्रह्मप्रमान्येने’त्युक्तमेवावच्छेदकमस्त्विति वाच्यम्; आश्रयासिद्ध्यादिपरिहारार्थं ‘विमतमि’ति पक्षनिर्देशवत् प्रकृतेऽपि विमतेरेवाभावे कस्येदं धर्मितावच्छेदकं स्याद् इति स्वरूपाश्रयासिद्धिपरिहारार्थं विमतेरेव तद्धर्मितावच्छेदकत्व-स्यावश्यकत्वात् । न द्वितीयः; आत्माश्रयात् । न चानुमाने लघुत्वाद् विमतेरेव पक्षता-वच्छेदकत्वम्, न तूक्तस्येति – वाच्यम्; तर्हि तत एव विमतावपि धर्मितावच्छेदकत्वमस्तु; युक्तितौल्ये क्वचिदेव पक्षतावच्छेदत्वोररीकरणम्, क्वचिन् नेत्यस्यान्याय्यत्वात् । किंच विप्रतिपत्ताविति विप्रतिपत्तिशब्दस्य विमतिपरत्वाङ्गीकारेणोक्तरीत्या सम्यग्व्याख्यानसम्भवे विप्रतिपत्तिवाक्यपरत्वकल्पनया व्याख्यानस्यासङ्गतत्वात् । न च – अत्र सर्वत्र विप्रतिपत्तिशब्देन विमतिरेव गृह्यते । विमतौ विमतेरवच्छेदकत्वशङ्कायामुक्तरीत्या विप्रतिपत्ताविति ग्रन्थेन परिहार इति वाच्यम्; अनुमानेऽपि विमतेः पक्षतावच्छेदकत्वोक्तावप्युक्तदूषणस्योद्भावयितुं सुकरत्वेनाप्य-सङ्गतत्वादिति ।

यच्च– विमतेरेवानुमाने लघुत्वेन पक्षतावच्छेदकतयाऽऽश्रयणीयत्वम्; आवश्यकत्वात् । विप्रतिपत्तावपि सैव धर्मितावच्छेदिकाऽस्तु । न तु ‘ब्रह्मप्रमान्येने’त्यादिगुरुधर्मस्तदवच्छेदक इत्यत आह– विप्रतिपत्तौ त्विति । विमतिशब्देन विप्रतिपत्तिवाक्यग्रहणे आत्माश्रयः । तज्जन्य-संशयग्रहणे त्वन्योन्याश्रय इति व्याख्यानम्, तदप्यसत् । अनुमाने पक्षतावच्छेदकत्वेनोक्ताया विमतेर्विप्रतिपत्तावपि धर्मितावच्छेदकत्वमाशङ्क्य, विमतिशब्देन विप्रतिपत्तिवाक्यं वा तज्जन्य-संशयो वेति विकल्पस्यासङ्गतत्वात् । विप्रतिपत्तिशब्दस्य विप्रतिपत्तिवाक्यपरत्वस्य प्रक्रमासङ्गतत्वाच्च ।

न्यायामृतप्रकाशः

ननु विमतेः शरीरलाघवेऽपि प्रतिपत्तिगौरवान्न पक्षतावच्छेदकत्वम् । शब्दगौरवापेक्षया प्रतिपत्तिगौरवस्य ज्यायस्त्वादतो विप्रतिपत्तिधर्मितावच्छेदकमेवानुमाने पक्षतावच्छेदकमस्त्वित्य-स्वरसादाह– यद्वेति ॥ विप्रतिपत्तिर्विमतिरेव पक्षतावच्छेदिका । न च विप्रतिपत्तिधर्मितावच्छेदक-मेवात्र पक्षतावच्छेदकमस्त्विति वाच्यम् । स्यादिदं यदि ब्रह्मप्रमान्येनेत्यादिरूपेणादौ विप्रतिपत्ति-मुक्त्वा विमतं मिथ्येति प्रयुज्येत । न चैवम् । किं तु पृथिवी सत्या मिथ्या वेत्याद्यननुगतधर्म्याश्रयां विप्रतिपत्तिमादौ प्रदर्श्य पश्चाद्विमतं मिथ्येत्यादि प्रयुज्यते । तथा च विप्रतिपत्तौ यद्धर्मितावच्छेदकं पृथिवीत्वादिकं तस्याननुगतत्वान्न पक्षतावच्छेदकत्वं युक्तम् । न च विमतेरप्यननुगतत्वान्न तस्या अपि पक्षतावच्छेदकत्वं युक्तमित्यत उक्तम् ॥ अनुगतेति ॥ अनुगतानामपि विमतीनां विश्वधर्मिक-सत्यत्वमिथ्यात्वकोटिकविमतित्वेनानुगतीकृतानां पक्षतावच्छेदकत्वसम्भवात् । न चैवं विप्रतिपत्ति-धर्मितावच्छेदकभूतानां पृथिवीत्वादीनामननुगतानामपि सत्यत्वमिथ्यात्वकोटिकप्रतिपत्तिधर्मिताव-वच्छेदकत्वेनानुगतानां पक्षतावच्छेदकत्वं युक्तमिति वाच्यम् । सत्यत्वमिथ्यात्वकोटिकविमतित्वा-पेक्षया सत्यत्वमिथ्यात्वकोटिकविप्रतिपत्तिधर्मितावच्छेदकत्वस्य चानुगमकस्य गुरुत्वात् । अतो लाघवाद्विमतिरेव पक्षतावच्छेदिकेति भावः ।

ननु विमतेः पक्षतावच्छेदकत्वे पक्षतावच्छेदकसामानाधिकरण्येन साध्यसिद्धेरुद्देश्यत्वात्पक्षता-वच्छेदकीभूतायाश्च विमतेः समयबन्धादिना व्यवहितत्वेनानुमानकालेऽभावान्नानुमानेन तत्सामानाधि-करण्येन साध्यसिद्धिरूपोद्देश्यसिद्धिरित्याशङ्क्य समाधत्ते– यद्यपीत्यादिना ॥ सैवेति ॥ विमति-रेवेत्यर्थः । श्यामत्वोपलक्षितो रक्त इतिवद्विमतं विमतिविषयत्वोपलक्षितं मिथ्येत्येवं विमतेरुप-लक्षणतया पक्षतावच्छेदकत्वं युक्तमित्यर्थः । पक्षान्तरमाह– तज्ज्ञानं वेति ॥ विमतिविषयत्वज्ञानं वेत्यर्थः । समयबन्धाद्यनन्तरं विमतिविषयत्वज्ञानं स्मृतिरूपं तदुत्तरक्षणे च परामर्शः । तदुत्तर-क्षणेऽनुमितिरित्यङ्गीकारेण विमतिविषयत्वज्ञानस्यैव विनश्यदवस्थस्यानुमानकालवृत्तित्वेन पक्षता-वच्छेदकत्वं युक्तमिति भाव इत्याहुः । गुरुचरणास्तु तज्ज्ञानं वेत्यस्यात्रास्माकं विमतिर्जाताऽ-भूदित्येवंरूपविमतिविषयत्वज्ञानमनुव्यवसायरूपमित्यर्थः । एवं रूपं च ज्ञानमस्मन्मते साक्षिरूपमिति तस्यानुमितिकाले जागरूकत्वाद्युक्तं विशेषणत्वमित्युपदिशन्ति ।

विमतेरेव पक्षतावच्छेदकत्वे वृद्धसम्मतिमाह– अत एवेति ॥ विमतेरेव पक्षतावच्छेदकत्व-सिद्ध्यर्थमवच्छेदकान्तराणि निराचष्टे– न त्वित्यादिना ॥ अवच्छेदकाभाव इति ॥ आदिपद-ग्राह्यतावच्छेदकाभाव इत्यर्थः । असङ्कुचितेनेति ॥ ब्रह्मतुच्छसङ्ग्रहाविरोधित्वादिति भावः । प्रपञ्च-शब्दस्य विश्वविस्तारवाचित्वात्प्रपञ्चो विश्वविस्तारस्तत्समुदाय इति यावत् । सः पक्षीभूतो विश्वसमुदायः समुदायिनाऽन्यस् तत्स्वरूपो वेत्याशङ्क्याद्ये दोषमाह– प्रपञ्चशब्देनेति ॥ वियदादिविश्वान्यो यस्तत्समुदाय इत्यर्थः ॥ वियदादीति ॥ समुदायस्यैव मिथ्यात्वं प्राप्तमिति भावः । समुदायस्य समुदाय्यनतिरिक्तत्वाद्वियदादिविश्वस्यैव पक्षत्वमिति द्वितीयपक्षे त्वाह– वियदादीनामेवेति ॥ अवच्छेदकेति ॥ आदिपदग्राह्यतावच्छेदकेत्यर्थः ॥ उक्तदोषादिति ॥ असङ्कुचितेनादिपदेनात्मादेरपि ग्रहणापातादित्युक्तदोषादित्यर्थः । ननु वियदित्येव पक्षनिर्देशः कर्तुं न शक्यते । तथात्वे घटादेः पक्षबहिर्भावेन तत्र दृश्यत्वसत्त्वेऽपि मिथ्यात्वाभावेन व्यभिचारापत्तेरित्यत आह– घटादिस्त्विति ॥ न हि पक्षे पक्षतुल्ये वा व्यभिचार इत्याशयः । कुतो न वाच्यमिति चेदुच्यते । घटादेः पक्षतुल्यत्वेन निश्चितव्यभिचाराभावेऽपि सन्दिग्धानैकान्त्यं स्यादेव । ननु सन्दिग्धानैकान्त्यमपि कथम् । निश्चितसाध्याभाववति हेतुसन्देहरूपस्य तल्लक्षणस्याभावात् । घटादौ साध्याभावस्य सन्दिग्धत्वाद्धेतोर्निश्चितत्वादिति चेन्न । निश्चितसाध्याभाववति हेतुसन्देह इव निश्चितहेतुमपि साध्यसन्देहेऽपि सन्दिग्धानैकान्त्यात् । व्यभिचारो हि हेतुसत्त्वसाध्याभावरूपद्व्यंशः । तयोर्मध्ये एकस्य निश्चयेऽपरस्य सन्देहे सन्दिग्धानैकान्त्यम् । घटादौ तु हेतोर्निश्चयात्साध्यस्य च सन्दिग्धत्वात्सन्दिग्धानैकान्त्यमपरिहार्यमित्याह– निश्चितेति ॥

नन्वस्य सन्दिग्धानैकान्त्यलक्षणत्वे अनुमानमात्रोच्छेदः । सर्वानुमाने साध्यसन्देहस्याङ्गत्वादित्यत उक्तम्– पक्षादन्यत्रेति ॥ पक्षादन्यत्र निश्चितहेतुमति साध्यसन्देहेऽपीत्यन्वयः । पक्ष एव साध्य-सन्देहस्याङ्गत्वम् । तदन्यत्र तु साध्यसिद्धिरेवाङ्गम् । तथा च घटादेः पक्षादन्यत्वात्तत्रच हेतोर्निश्चितत्वात्साध्यस्य च सन्दिग्धत्वात् सन्दिग्धानैकान्त्यमेव । न च सन्दिग्ध साध्यवत्त्वेन घटादेरपि पक्षत्वमेव न पक्षादन्यत्वमिति वाच्यम् । सन्दिग्धसाध्यवत्त्वं पक्षत्वमिह नाभिप्रतम् । यत्र सिद्धिस्थलेसिषाधयिषायामनुमानप्रवृत्तिस्तत्रत्येपक्षेऽव्याप्त्यापत्तेः । किं नाम प्रतिज्ञाविषयत्वम् । तच्च घटादौ नास्तीति पक्षादन्यत्वमेवेत्याशयः । ननु तथापि न सन्दिग्धानैकान्त्यम् । घटादेः पक्षा-दन्यत्वाभावात् । न च प्रतिज्ञाविषयत्वरूपलक्षणानाक्रान्तत्वात्पक्षादन्यत्वं घटादेरिति वाच्यम् । अस्य पक्षलक्षणत्वे स्वार्थानुमितिपक्षेऽव्याप्तेः । तत्रावयवप्रयोगाभावेन पक्षवचनरूपप्रतिज्ञाया एवाभावात् । अतः स्वार्थानुमानपक्षसाधारण्याय साधकबाधकप्रमाणाभाव एव पक्षत्वमिति वाच्यम् । तथा च घटे मिथ्यात्वसाधकस्य प्रमाणस्यैतदनुमानव्यतिरिक्तस्याभावान्मिथ्यात्वबाधकप्रमाणाभावाच्चास्ति पक्षत्व-मिति पक्षादन्यत्वघटितसन्दिग्धानैकान्त्यलक्षणाभावान्न घटे व्यभिचारोऽस्तीति वियदित्येव पक्ष-निर्देशोऽस्त्वित्याशङ्क्य निराकरोति प्रतिज्ञामिति ॥ प्रतिज्ञाविषयत्वम् पक्षत्वम् । न च साध्येऽति-व्याप्तिः । प्रतिज्ञाविशेष्यत्वमित्यर्थकरणात् ॥ सत्त्वेऽपीति ॥ तथा च न पक्षादन्यत्वमस्तीति न सन्दिग्धानैकान्त्यमिति वियदित्येवास्तु पक्षनिर्देश इत्याशयः ॥

एवं पक्षनिर्देशस्येति ॥ वियदित्येव पक्षनिर्देशस्येत्यर्थः ॥ घटादिसाधारणेति ॥ ब्रह्म-प्रमान्येनेत्यादिरूपेत्यर्थः । तथा च वियन्मात्रस्य पक्षत्वेऽपि उक्तविधया न घटे सन्दिग्धानैकान्त्यम् । तथापि घटादिसाधारणविप्रतिपत्त्यनुसारेणैव पक्षनिर्देशे कर्तव्ये तद्बहिर्भावेन वियन्मात्रस्यैव पक्षतया निर्देशस्याकौशलव्यञ्जकत्वादिति भावः । ननु विप्रतिपत्तिधर्मितावच्छेदकस्यैवानुमाने पक्षता-वच्छेदकताया उक्तरीत्या सम्भवेऽपि अनुमाने या पक्षतावच्छेदिका लध्वी विमतिः सैव विप्रतिपत्तौ धर्मितावच्छेदिकाऽस्तु । अतः किमुक्तकुसृष्टियुक्तब्रह्मप्रमान्येनेत्यादिधर्मितावच्छेदकाश्रयणेनेत्यत आह– विप्रतिपत्तौ त्विति ॥ अनुगतावच्छेदकमन्तरेण विमतेर्नियतविषयत्वासम्भवादनुगतावच्छेदके- नानुगता नियतविषया विमतिरेव विप्रतिपत्तौ धर्मितावच्छेदिकेति वक्तव्यम् । तत्रानुगमको धर्मः किं प्रमान्येनेत्याद्युक्तरूपो वा विमतिरेव वा । नाद्यः । उक्तकुसृष्टियुक्तत्वेन तदनादरणात् । आदरे वा स एव विप्रतिपत्तौ धर्मितावच्छेदकोऽस्तु किं कृतं तद्ग्रहाधीनग्रहया विमत्या धर्मितावच्छेदकत्वेन कल्पितया । न द्वितीयः । विमत्याऽनुगतीकृता विमतिर्धर्मितावच्छेदिकेत्युक्तौ स्वेनानुगतीकृतस्य स्वस्यैव धर्मितावच्छेदकत्वप्राप्त्या आत्माश्रयस्य स्पष्टत्वादिति भावेनाह– आत्माश्रयादिति ॥

न्यायकल्पलता

एवं विप्रतिपत्तिधर्मितावच्छेदकमेवानुमाने पक्षतावच्छेदकमस्त्वित्याशङ्क्य स्वनियामकनियतं विमतिविषयत्वमेव लाघवात् पक्षतावच्छेदकमित्युक्तम् । इदानीमनेक विशेष्यतावच्छेदकावच्छिन्नानेक-विशेष्यकानेकविप्रतिपत्तिजन्यसमूहालम्बनरूपैकविमतिविषयत्वमेव पक्षतावच्छेदकमित्यनुशयेनाह ॥ यद्वेति । आत्मेतरपृथिव्याद्यभावान्तचतुर्दशपदार्थवृत्तिपृथिवीत्वाद्यभावत्वान्तचतुर्दश धर्मावच्छिन्न-विशेष्यताकचतुर्दशविप्रतिपत्तिवाक्यप्रयुक्ता विमतिः पक्षतावच्छेदिकेत्यन्वयः ।

नन्वनेकविशेष्यकानेकविप्रतिपत्तिप्रयुक्ताया विमतेरननुगतत्वात् कथं पक्षतावच्छेदकत्वमत उक्तं -अनुगतेति । अनेकविशेष्यतावच्छेदकावच्छिन्नापि तावद्गोचरा समूहालम्बनरूपैका विमतिरनुगता सम्भवतीति तद्विषयत्वमेव पक्षतावच्छेदकमिति भावः । विप्रतिपत्तौ धर्मितावच्छेदकस्यैवानुमाने पक्षता-वच्छेदकत्वसम्भवाशङ्कैवास्मिन् पक्षे नोदेति विप्रतिपत्त्यवच्छेदकानामननुगतत्वादित्याशयेनोक्तम् अननुगत-धर्माश्रयेति । पृथिवीत्वाद्यननुगत धर्मप्रकारिकेत्यर्थः । अननुगतधर्म्याश्रयेति पाठेऽननुगतधर्मा-वच्छिन्नानेकधर्मिविशेष्यकेत्यर्थः । पृथिव्यादिष्वभावान्तेषु पृथिवीत्वादिप्रत्येकधर्मावच्छेदेनोत्पन्नायामपि विमतौ तावत् स्वानुगतस्य विमतत्वस्य सत्वात् तदेव लघुभूतं पक्षतावच्छेदकमिति भावः ।

ननु पक्षतावच्छेदकसामानाधिकरण्येन साध्यसिद्धिरूपानुमित्यनुरोधेन अनुमितिकाले सत एव धर्मस्य पक्षतावच्छेदकत्वमौचितीमावहति न तु विमतेस्तदवच्छेदकत्वम् । तस्याः समयबन्धसभ्यानुविधेय-संवरणादिना व्यवहितत्वेन तद्घटितविमतिविषयत्वस्यानुमानकालेऽसत्वादित्याशङ्क्य समाधत्ते । यद्यपीत्यादिना । सैवेति । विमतेरनुमितिकालेऽसत्वेऽपि श्यामः पाकरक्त इतिवद्विमतं मिथ्येत्यनुमितेर-प्रत्यूहत्वादिति भावः । नन्वनुमानकाले पक्षतावच्छेदकाभावे पक्षतावच्छेदकविशिष्टे लिङ्गज्ञानरूप-पक्षधर्मताज्ञानाभावेनानुमितिरेव न स्यादिति चेन्न । स्वरूपसत्पक्षतावद्धर्मतावगाहि लिङ्गज्ञानस्यैव पक्षधर्मताज्ञानत्वेन तदुपपत्तेः । न चावच्छेदकासत्वे तदवच्छेद्या पक्षता कथं वर्ततामित्यतिदेश्यम् । विषयजन्यं ज्ञानं जन्यप्रत्यक्षमिति पराभिमतलक्षणे विषयत्वेनाभिमते घटादौ स्वज्ञानात्पूर्वं विषयत्वस्या-भावेऽपि विषयत्वेनावच्छेद्यायाः स्वज्ञानं प्रति जनकतायाः सत्वमिवोपपन्नत्वादिति भावः । ननूत्सर्गतो विशेषणसत्वावगाहित्वरूपप्रमाणस्वभावबाध एवात्र दोषः प्राप्नोति । अत एव रूपप्रागभावावच्छिन्नो घटो रूपवान् पृथिवीत्वादित्यादौ बाध उक्तः । उपलक्षणत्वे तदसम्भवादित्यनुशयेनोक्तम् -तज्ज्ञानं वेति । विमतिज्ञानमेव विशेषणतया पक्षतावच्छेदकमस्त्वित्यर्थः । न्यायवाक्यप्रयोज्यपरामर्शपूर्वक्षणे विमतत्वेन ज्ञानं तदुत्तरक्षणे चरमः परामर्शस्तदनन्तरन्त्वनुमितिरिति भावः ।

वस्तुतस्तु । वैभवात् पक्षान्तरमस्तु । गन्धप्रागभावस्योपलक्षणत्वे बाधो नास्ति । तदुपलक्षिते गन्धस्य सत्त्वात् । तत्रोपलक्षितस्येदं तावज् जटोपलक्षितस्य तापसत्ववच्छात्रोपलक्षितस्योपाध्यायत्ववत् श्यामत्वोपलक्षितस्य रक्तत्ववद् अबाधात् । विशेषणत्वाभिप्राये तु बाध इति ज्ञेयम् । विमतत्वस्य पक्षतावच्छेदकत्वे उपष्ठम्भकमाह -अत एवेति । प्राचामित्यत्राञ्चतेर्गत्यर्थत्वाद् अनिदितामिति नलोपः । गत्यर्थानामवगत्यर्थत्वात् । प्रकर्षेण अञ्चन्ति जानन्ति ते प्राञ्चस् तेषां प्रकृष्टज्ञानवतां तां त्रिकाणा-मित्यर्थः । पूज्यार्थविवक्षायां तु प्राञ्चामिति भाव्यम् । नाञ्चेः पूजायामिति नलोपनिषेधादिति ज्ञेयम् । विमतित्वस्य पक्षतावच्छेदकत्वमवधारयितुमवच्छेदकान्तराणि परिसञ्चष्टे । न तु वियदादीत्येवेत्यादि । अवच्छेदकाभाव इति । अवच्छेदकानुक्तावित्यर्थः । वियदादीत्यादिशब्दः किमसङ्कुचद्वृत्तिः, उत सङ्कुचद्वृत्तिः । नाद्यः । ब्रह्मशुक्तिरूप्ययोरपि पक्षान्तःप्रविष्टतया बाधसिद्धसाधनत्वयोरापातात् । तुच्छ-स्यापि पक्षतया बाधापत्तेश्च । न द्वितीयः । विवक्षितव्यक्तिविशेषाणामनन्तत्वेन तत्तन्नाम्ना जन्म-सहस्त्रेणापि निर्देष्टुमशक्यत्वात् । तस्मादियानेवादिशब्दार्थ इति किञ्चित्सङ्कोचनीयतानियामकं तदवच्छेदकं वाच्यं, तच्च विमतिविषयत्वातिरिक्तं नास्तीत्युच्यमानवक्ष्यमाणशेषतयाऽवगन्तव्यम् । प्रपञ्चशब्देनेति ॥ प्रपञ्चशब्दो हि वियदादिसमुदायार्थः । तत्र स समुदायः समुदायिभ्योऽन्य उत स एवेति विकल्पं हृदि निधायाद्यं पराचष्टे -वियदादीति । द्वितीयं निराह । अवच्छेदकाभावेनेति । ननु प्रत्येकं विप्रतिपत्तिः, वियन्मिथ्या न वा, पृथिवी मिथ्या न वेति । एवं वियदादेः प्रत्येकं पक्षत्वेऽपि न घटादौ सन्दिग्धा-नैकान्तिकता । पक्षसमत्वाद्घटादेरित्याशङ्क्य निराकरोति– नापि वियदिति । पक्षादन्यत्रेति । एतच्च दार्ष्टान्तिके विशेषणं न तु दृष्टान्तेऽपि । निश्चितसाध्याभाववति हेतुसन्देहस्य सर्वत्रापि दोषत्वात् । यद्वा दृष्टान्तेऽपि तद्विशेषणं व्याप्यत्वासिद्धीतरदोषान्तरसङ्कीर्णस्यानैकान्त्यस्य लक्ष्यत्वमभिप्रेत्य । पक्षे तु तस्य बाधसङ्करात् । निश्चितहेतुमतीति । एवं च वियन्मात्रस्य पक्षत्वे घटादौ सन्दिग्धानैकान्त्यं तदवस्थमेवेत्यर्थः । न च निश्चितसाध्याभाववति साधनसन्देह एव दोषः । न तु सन्दिग्धसाध्ये साधननिश्चयोऽपीति देश्यम् । हेतौ साध्याभाववद्गामित्वसन्देहस्य दूषकताबीजस्योभयत्रापि साम्यात् ।

ननु निश्चितहेतुमति सर्वत्र साध्यसन्देहो न दोषः । अनुमानमात्रोच्छेदापत्तेः । किन्नाम पक्षातिरिक्ते । घटादिस्तु न पक्षातिरिक्त इति न तत्र सन्दिग्धानैकान्त्यं दोषः । अत एव तत्र पक्षसमव्यवहारः । घटाद्यनुपादानं तु वियन्मात्रोपादानेऽपीष्टसिद्धेः । न च प्रतिज्ञाविषयत्वरूपपक्षत्वं घटे नास्तीति स तदतिरिक्त एवेति शङ्क्यम् । यतः प्रतिज्ञाविषयत्वं न पक्षत्वम् । स्वार्थानुमाने शब्दप्रयोगरूप-प्रतिज्ञाविरहेण पक्षत्वानापत्तेः । किन्तु साधकबाधकप्रमाणाभाववत्वं पक्षत्वं स्वार्थपरार्थानुमान-साधारणम् । तच्च घटेऽप्यस्तीति स न पक्षान्य इति न तत्र सन्दिग्धानैकान्त्यं दोषः । नन्वेवं सन्दिग्धो-पाध्याहितः पक्ष एव व्यभिचारसंशयोऽपि न दोषः स्यात् । न च तत्रानुकूलतर्काभावाद्व्याप्त्यनिश्चयः । अत्र तु हेतूच्छित्तिरेव विपक्षबाधकत्वात्तन्निश्चय इति वैषम्यमिति साम्प्रतम् । पक्षे व्यभिचारसंशयस्य दूषकत्वे तर्कस्यापि पक्षीयव्यभिचारसन्देहेन प्रशिथिलमूलत्वापातादिति चेन् न । स्वारसिकस्य विप्रतिपत्त्यादिजन्यस्य वा पक्षताप्रयोजकस्य संशयस्यानुमित्यनुकूलत्वेनादोषत्वेऽपि उपाध्याद्याहितस्य तस्यातथात्वेनादोषत्वादिति वियदित्येव पक्षनिर्देशोऽस्त्वित्यत आह– प्रतिज्ञां प्रत्यविषय इतीति । एवं पक्षनिर्देशस्येति । सत्यम् । यद्यपि वियन्मात्रस्य पक्षत्वेऽपि उक्तविधया न घटे सन्दिग्धानैकान्त्यं तथापि वियन्मिथ्या न वेति प्रत्येकविप्रतिपत्तिप्रयुक्तायां तावत्स्वेकस्यां समूहालम्बनरूपायां घटादिसाधारण्यां विमतौ सत्यां घटादिबहिर्भावेन वियन्मात्रपक्षनिर्देशस्यानाकाङ्क्षिताभिधानत्वेनाप्राप्तकालत्वादित्यर्थः । अन्यथा विवक्षितव्यक्तिविशेषाणामानन्त्येन तत्तन्नाम्ना जन्मसहस्त्रेणापि निर्देष्टुम् अशक्यत्वप्रसङ्गः ॥ विप्रतिपत्तीति । विमतीत्यर्थः ।

यद्वा प्रत्येकं विप्रतिपत्तावसत्यां सर्वसाधारण्यं च विप्रतिपत्तौ सत्यां घटादिबहिर्भावेन वियन्मात्र-पक्षीकरणस्य तदानुगुण्याभावात् । तथा चैकस्यामनेकस्यां वा विप्रतिपत्तौ सत्यां वियन्मात्रपक्षीकरण-मयुक्तमिति । इयांस्तु विशेषः । अनुगतधर्मावच्छिन्नैकविशेष्यकविप्रतिपत्तिप्रयुक्ततादृग्विमतिविषयत्वं पूर्वत्र पक्षतावच्छेदकमुत्तरत्र तु पक्षेऽननुगतधर्मावच्छिन्नानेकविशेष्यकविप्रतिपत्तिप्रयुक्तसमूहालम्बनरूप-तादृग्विमतिविषयत्वं पक्षतावच्छेदकमावश्यकम् । अन्यथा पुरुषायुषेणाप्यपर्यवसानापातात् । अत एवेश्वरानुमाने अदृष्टद्वारकस्वोपादानगोचरजन्यकृतिजन्यभिन्नत्वे सति समवेतत्वं पक्षतावच्छेदकमाश्रितम् । क्षितिमात्रपक्षीकरणे तु परमाणुरूपायां तस्यां बाधः । द्व्यणुकरूपायां त्वाश्रयासिद्धिः प्रसज्येत । गिरिदरीविवरवर्तिनोऽङ्कुराः सकतृका इतिवद्वियन्मिथ्येति पक्षनिर्देशोऽस्त्विति चेत् । मैवम् । विवक्षितेश्वरा सिद्ध्या तादृक्प्रयोगस्य दुर्वचत्वात् । न हि पराङ्गं दग्धमिति स्वाङ्गदाहो निवर्तत इति दिक् ।

एतेन पक्षत्वं साध्यसन्देहवत्वम् । साध्यगोचरसाधकमानाभावत्वं वा । तच्च घटादिसाधारणम् । अतस्तत्र सन्दिग्धानैकान्त्यं न दोषः । पक्षसमत्वोक्तिस्तु प्रतिज्ञाविषयत्वाभावमात्रेणेति परास्तम् । श्रुत्याऽऽत्मनिश्चयवतोऽनुमित्सया तदनुमानाभावापातात् । विपक्षस्यापि पक्षत्वप्रसङ्गाच्च । नन्वनुमाने पक्षतावच्छेदकमिव लघुविमतत्वमेव तत्प्रयोजकं विप्रतिपत्तावपि धर्मितावच्छेदकमस्तु । किं ब्रह्मान्ये-नेत्याद्युक्तानेकोपाधिघटितधर्मितावच्छेदकस्वीकारेणेत्यत आह– विप्रतिपत्तौ चेति । विमतिर्विप्रतिपन्न-त्वम् । विमतत्वस्यानुमाने पक्षतावच्छेदकत्ववत्स्वप्रयोजकविप्रतिपत्तिधर्मितावच्छेदकत्वे मिथ्या न वेत्यादि, विप्रतिपन्नं मिथ्या न वेति विमतिः स्यात् । तथा च स्वप्रयोजककोटौ स्वप्रवेशेन स्वापेक्षणा-दात्माश्रयः स्यात् । तस्माद्ब्रह्मप्रमान्येनेत्याद्यनुगतं वाऽननुगतं वा पृथिवीत्वादिकं विप्रतिपत्तौ धर्मितावच्छेदकमुपादेयमित्यर्थः ।

न्यायामृतमाधुरी

यद्वेति । अननुगतधर्म्याश्रया । आत्मत्वेतरपृथिवीत्वाद्यभावत्वान्तचतुर्दशधर्मावच्छिन्न-विशेष्यताका । अनुगता आत्मान्यसर्वस्मिन् विशेष्यतया वर्तमाना समूहालम्बनरूपैका । एतेन विप्रतिपत्तिविशेष्यतावच्छेदकानां नानात्वेन निखिलानुगतिविरहेण तन्निरूपितविशेष्यतावच्छेदकमेव पक्षतामप्यवच्छिनत्तु इति शङ्कांकुरस्यैवानुत्पादो ध्वन्यते । यद्यपि पृथिवीत्वाद्यभावत्वान्तानां चतुर्दशत्वरूपव्यासज्यवृत्तिसङ्ख्याविशेषितानां तदुपलक्षितानां वा क्वाप्येकव्यक्तौ भानाभावेन कस्या-मपि विशेष्यतायां निखिलतत्तदवच्छिन्नत्वाभावेनैकत्र द्वयमिति रीत्याऽन्वयायोगेन तादृशसङ्ख्योप-लक्षिततत्तदाद्यन्तधर्मैः प्रत्येकमवच्छिन्नाः स्वावच्छेदकधर्मावच्छिन्ननिरूपितविरोधघटितधर्मावच्छिन्न-सांसर्गिकविषयतानिरूपिता यावत्यो विशेष्यतास्तत्तन्निरूपकत्वविशिष्टज्ञानत्वावच्छिन्नस्य विशेष्यता-प्रत्यासत्या तादृशविशेष्यतावृत्ति तत्तद्व्यक्तितावच्छिन्नप्रतियोगिताकचतुर्दशभेदकूटावच्छिन्न प्रतियोगिताकभेदवत्त्वरूपतत्तदन्यतमत्वावच्छिन्नविशेष्यताप्रत्यासत्या ज्ञानत्वावच्छिन्नस्य पक्षता-वच्छेदकमङ्गीकरणीयम् ।

इत्थं चैतदपेक्षया तत्तद्धर्मान्यतमत्वावच्छिन्नस्यावच्छेदकतायां लाघवानपायेन तच्छङ्काङ्कुरमुत्पद्यत एव । तथापि ज्ञानत्वावच्छिन्नस्योक्तधर्मभेदकूटाघटितस्यावच्छेदकताकल्पस्यैव लघीयस्त्वात् । तादृशविशेष्यतायाश्च प्रत्यासत्तितया अविशेषणत्वात् । तज्ज्ञानानवश्यंभावेनानुपस्थिताया अपि अनुमित्या अवगाहनसम्भवात् । अथानुमितिपरामर्शयोर्गन्धप्रागभावकालीनो घटो गन्धवान् रूपादित्यादौ बाधासिध्याद्यनुरोधेन पक्षतावच्छेदकविशिष्टानुयोगिकवैशिष्ट्यावगाहित्वनियतेरवश्योपेत-व्यतया तादृशानुमितिपरामर्शयोश्च स्वाव्यवहितपूर्वक्षणावच्छेदेन विशेष्यतावच्छेदकता(वत्ता)निर्णयस्य तन्त्रतया प्रकृते च तृतीयक्षणवृत्तिध्वंसप्रतियोगिन्या विशेष्यता(न)वच्छेदकीभूतविमतेरनुमिति-पूर्वक्षणेऽभावेन कथं तादृशानुमितिरुदीयात् । कथं च परामर्शो ऽन्यथा तत्रोभयोर्हेत्वाभासता दुर्निरूपा स्यादिति चेन्न । तादृशनियत्युपगमे हेत्वाभासग्रन्थे विशेषगुणाभाववान् घटो गुणसामान्या-भाववानित्यादौ घटे गुणसामान्यवत्वविशेषगुणवत्वयोर्बाधाश्रयासिद्धित्वोपगतिः कथं गदाधरप्रभृतीनां सङ्गच्छते । गन्धप्रागभावकालावच्छिन्नोद्देश्यताकगन्धानुमितेरुद्देश्यतायामेव तत्र बाधासिध्योः सुनिरूपत्वात् । इत्थं च प्रकृते प्रयत्नगौरवानुरोधेन तादृशानुमितेरुद्देश्यतया न क्षतिरित्याशयेन समाधत्ते– तथापीति । तज्ज्ञानं वेति । तज्ज्ञानं विमतिनिरूपितविषयत्वं वेत्यर्थः । जानाते-र्भातिसमानार्थत्वात् । भातेश्च ज्ञाने घटो भातीत्यादौ विषयतापरत्वात् । भानमिति प्रत्यक्ष-मणिदीधितिप्रतीकमुपादाय विषयत्वमिति व्याकर्तृभिर्व्याख्यातत्वात् । या सामग्री विषयमविषयी-कुर्वन्ती ज्ञानमपि न गृह्णाति सा सामग्री सामग्रीपदेन विवक्षणीयेति पक्षधरमिश्रविवक्षायां सामग्य्रां ज्ञानभानप्रयोजकेति विशेषणदानावसरे भानपदस्य विषयत्वार्थकत्वस्यैव गदाधरप्रभृतिभिराश्रितत्वात् । इत्थं च विमतेरपायेऽपि अनपायिन्यास्तन्निरूपितविषयताया एव तदवच्छेदकतासम्भवात् । विषयतान्तरव्यावर्तनायैव विषयतायां तन्निरूपितत्वांशनिवेशनम् । तच्च स्वरूपसम्बन्धविशेषरूपं, न निरूपितत्वसम्बन्धेन विमतिविशिष्टत्वरूपं, येनोक्ततादवस्थ्यं स्यात् । विमतिज्ञप्तिरूपयथाश्रुतार्थत्वे तस्याः स्वीयविमतिवृत्तिविशेष्यतानिरूपितविषयतासम्बन्धावच्छिन्नप्रकारताप्रत्यासत्या तदवच्छेदकत्वा-पत्या अनुव्यवसायरूपायाः स्मृतिरूपाया वाऽनुव्यवसायस्मारकसामग्रीसमवधाननैय्यत्याभावेनानुमिति-परामर्शपूर्वक्षणे तदभावनिबन्धनोक्ततादवस्थ्यापातात् ॥ अत एवेति । ग्रन्थस्य विमत्यवच्छेदकता-कल्पमात्रोपष्टम्भकतापत्त्या तज्ज्ञानं वेत्यतः पूर्वं न्यासापाताच्च । पक्षादन्यत्रेति । इदं च तन्त्रावृत्य-न्यतराश्रयणेन समभिव्याहृतमत्वर्थीयान्तद्वये सामानाधिकरण्येनान्वेति । धूमेन हृदे वह्निसाधने बाधग्रहदशायां बाधस्यैव हेतुर्दुष्ट इति व्यवहारप्रयोजकता न धूमधर्मिकनिर्वह्नित्वविशेषितहृदवृत्तित्व-तदभावकोटिसन्देहस्य बाधसङ्कीर्णस्य तन्मुखनिरीक्षकस्य व्यभिचारप्रतिरोधमुखनिरीक्षकस्योपाधेरिव । अतस्तादृशसन्देहस्य पक्षे साध्यसन्देहाहितस्य निश्चितपक्षधर्मताकहेतुधर्मिकसाध्याभाववद्वृतित्व-सन्देहस्य च सन्दिग्धानैकान्त्यरूपतया तद्व्यवच्छेदायोक्तद्वयविशेषणतया तदुपादानम् ।

अथ प्रतिज्ञाजन्यबोधीयविशेष्यतायाः पक्षतारूपतायामेव तदवच्छेदकीभूतगगनत्वावच्छिन्न-प्रतियोगिताकभेदस्य घटादिसाधारण्येनोक्तदिशा तादृशानैकान्त्यवकाशस् त्सैव तु न सम्भवति । अनवतीर्णन्यायकस्वार्थानुमाने तस्या दुरुपपादत्वात् । किन्तु न्यायावतारानवतारसाधारणी स्वनिरूपितविशेष्यतासंसर्गावच्छिन्नसिद्धिबाधत्वावच्छिन्नप्रतियोगिताकाभाववत्वरूपैव । इत्थं च तादृशपक्षताया घटादिसाधारण्येनोक्तभङ्ग्या तच्छङ्कानवकाश इति चेदेवं सति प्रारुक्तनविप्रतिपत्ति-वाक्यमनुरुन्धानेन तद्धर्मितापन्नसामान्यस्यैव तादृशपक्षताशालिनः पक्षीकरणौचित्या वियन्मात्रपक्षी-कारस्य तदानुगुण्यविरहादित्यभिप्रेत्याह ॥ प्रतिज्ञामिति । यद्यपि तदवतारानवतारसाधारणी घटादिव्यावृत्ता प्रकृतानुमितिनिरूपितविशेष्यतारूपा तादृशानुमितिनिरूपितोद्देश्यतारूपा वा पक्षता सुवचेत्युक्तदिशा तच्छङ्का सूपपादैव तथापि वह्निव्याप्यो धूमः पर्वत इति परामर्शाधीना या पर्वते वह्निरित्यनुमितिस्तद्विशेष्यतायाः पर्वते अभावेन, केवलव्यतिरेकिसाध्यकस्थले च साध्यविशेष्यकानु-मितेरेवोपगमेन तदसङ्ग्रहप्रसङ्गेन तादृशविशेष्यतायास्ताद्रूप्यासम्भवात् । न च साध्यविशेष्यकानुमिति-रेवाप्रामाणिकीति न क्षतिरिति वाच्यम् । पक्षविशेष्यकसाध्यप्रकारकसिद्धिदशायां साध्यविशेष्यकपक्ष-प्रकारकानुमितेः, पक्षप्रकारकसाध्यविशेष्यकसिद्धिदशायां च पक्षविशेष्यकसाध्यप्रकारकानुमिते-श्चानुरोधेन द्विविधानुमितौ द्विविधसिध्योर्विशिष्य विशिष्यैव प्रतिबध्यप्रतिबन्धकाभावस्य पक्ष-विशेष्यकसाध्यप्रकारकानुमितिर्जायतां साध्यविशेष्यकपक्षप्रकारकानुमितिर्जायतामितीच्छयोः, पृथक् पृथगेवोत्तेजकतायाश्च पक्षताग्रन्थे दीधितिकारीयोपगतिविषयत्वात् । अप्रसिद्धसाध्यकस्थले विशेषण-ज्ञानादिविरहेण साध्यविशेषणकानुमितेरनुपपत्या साध्यविशेष्यकानुमितिरुपेयत इति गदाधरप्रभृतिभिः समर्थितत्वात् । शेषमाकरतोऽवसेयमित्यलं प्रपञ्चेन ।

अत्राद्वैतसिद्धिकारः । (विप्रतिपत्तिविचारे प्रस्तुतोऽयं ग्रन्थः) प्रत्येकं वा विप्रतिपत्तिः–वियन्मिथ्या न वा, पृथिवी मिथ्या न वेति । एवं वियदादेः प्रत्येकं पक्षत्वेऽपि न घटादौ सन्दिग्धा-नैकान्तिकता । पक्षसमत्वाद् घटादेः । तथा हि पक्षे साध्याभावसन्देहस्यानुगुणत्वात्पक्षभिन्नत्व एव तस्य दूषणत्वं वाच्यम् । अत एवोक्तं ‘‘साध्याभावनिश्चयवति हेतुसन्देह एव सन्दिग्धा-नैकान्तिकते’’ति । पक्षत्वं तु साध्यसन्देहवत्वं, साध्यगोचरसाधकमानाभाववत्वं वा । एतच्च, घटादिसाधारणमतस्तत्रापि सन्दिग्धानैकान्तिकत्वं न दोषः । पक्षसमत्वोक्तिस्तु प्रतिज्ञाविषयत्वाभाव-मात्रेण । न च तर्हि प्रतिज्ञाविषयत्वमेव पक्षत्वम् । स्वार्थानुमाने तदभावात् । इत्याह । तत्, नव्यनैय्यायिकमताननुसन्धाननिबन्धनम् । अनुमानमणिदीधितौ सव्यभिचारग्रन्थे यत्तु साध्याभाव-वत्वांशे निश्चयरूपं शेषांशे संशयसाधारणं साध्याभाववद्वृत्तित्वज्ञानं प्रतिबन्धकम् । अन्यथा पक्ष एव साध्याभावसन्देहेन सन्दिग्धानकैन्तिकत्वापत्तेः । यथाऽऽहुर् न हि पक्षे पक्षसमे वा व्यभिचार इति । तच्च व्याप्तिनिश्चये हेतौ व्यभिचारसंशयायोगात् । तदनिश्चयदशायां त्वनुकूलतर्कास्फूर्तौ सन्दिग्धा-नैकान्तिकत्वस्येष्टत्वात् हेतुसाध्याभावसामानाधिकरण्यावगाहिन एव ज्ञानस्य प्रतिबन्धकत्वात् । अत एव पक्षः साध्यातिरिक्तपक्षधर्मातिरिक्तधर्मवान्प्रमेयत्वादित्यादयोऽनुकूलतर्कविरहिणो बाधप्रतिरोधयोर-नवतारेऽपि पक्ष एव सन्दिग्धानैकान्तिकतया अप्रयोजका अङ्गीक्रियन्ते । एवं वह्निर्दाहानुकूलेत्यादयः शक्तिसाधका अपीति अनुकूलतर्कानवतारेण पक्षेऽपि साध्याभावसन्देहेन सन्दिग्धानैकान्तिकत्वस्य समर्थिततया प्रकृतेऽप्यनुकूलतर्कराहित्यस्य ग्रन्थकृतैवाभिधास्यमानतया तद्दोषतादवस्थ्यात् । ब्रह्मा-नन्दस्तु उक्तदिशा दर्शितक्षतितादवस्थ्यमाशङ्कमानः दुर्निरूपामपि अनुकूलतर्कवत्तां सुनिरूपां मन्यमानस्तद्वत्तयैव समादधौ ।