१८ (३६) भेदोज्जीवनम्

यच्चेदमुच्यते (घटपटाद्यभेदेऽनुमानं प्रमाणमिति)

(३६)भेदोज्जीवनम्

(३६) यच्चेदमुच्यते (घटपटाद्यभेदेऽनुमानं प्रमाणमिति) । विमतं घटादि पटप्रतियोगिक(तात्विक)तादात्म्याधिकरणम् अभिधेयत्वात् प्रमेयत्वाद्वा पटवत् । पटो वा न घटाद्वस्तुतो भिद्यते द्रव्यत्वात् पृथिवीत्वाद्वा घटवदिति । अत्रेदं वक्तव्यम् । मुद्गरप्रहारादिना घटः किं नश्यत्युत नेति । न चेदनित्यत्वप्रतिपादकश्रुतिविरोधोऽपसिद्धान्तश्च । घटार्थं क्रियमाणव्यापारवैयर्थ्यं च स्यात् । (घटाद्यर्थक्रियाकरणादिदोषापत्तिश्च ।) आद्ये तदैव गगनादिरविद्याप्रपञ्चः (गगनाविद्यादिप्रपञ्चः) किं नश्यत्युत नेति । आद्ये (घटाद्यर्थ)क्रियाभावः प्रसज्येत । गगनाविद्ययोर्नाशायोगाच्च । महाप्रलयमोक्षौ च स्याताम् । द्वितीये कथं पटस्य घटादिना पारमार्थिकाभेदः । न हि नष्टे रजतेऽनुवृत्तायाः शुक्तेः पारमार्थिका भेदः । दूरस्थवनस्पत्योरभेदग्राहि च प्रत्यक्षं तत्त्वावेदकप्रमाणं स्यात् । वस्तुतस्तयोस्तादात्म्यादिति प्रतिकूलतर्का ऊह्याः । अभेदसाधकानुमानमात्रस्य प्रत्यक्षानुमानागमबाधकतर्कपराहतिसोपाधिकत्वाभाससमानयोगक्षेमत्वादीनि साधारणदूषणानीति । अद्वैतश्रुतयस्तु भगवत्पादैरेवान्यत्रान्यथा व्याख्याताः ॥ छ ॥

रमानाथाय हरये पूर्णानन्दशरीरिणे ।

निर्दोषगुणपूर्णाय सर्वयज्ञभुजे नमः ॥

(रमानाथाय रामाय सर्वयज्ञभुजे नमः ॥

निर्दोषगुणपूर्णाय पूर्णानन्दशरीरिणे ॥ १ ॥)

॥ इति श्रीमत्पदवाक्यप्रमाणपारावारपारङ्गतश्रीमद्ब्रह्मण्यतीर्थपूज्यपादशिष्येण व्यासयतिना कृतं भेदोज्जीवनं समाप्तम् ॥

(॥ इति श्रीब्रह्मण्यपूज्यपादानां शिष्येण व्यासयतिना रचितं भेदोज्जीवनं सम्पूर्णम् ॥ छ ॥)

(३६)भावप्रदीपः

एवं केनचिच्छङ्कितमनुमानचतुष्टयं निराकृत्यापरेण शङ्कितमनात्मभेदसाधकमनुमानद्वयमपि निराकर्तुमनुवदति ॥ यच्चेदमुच्यत इति ॥ अत्र घटवदित्यनन्तरमिति शब्दोऽध्याहार्यः ॥ अपसिद्धान्तश्चेति ॥ परेणापि घटादेर्मिथ्यात्वसिद्ध्यै परिच्छिन्नत्वाङ्गीकारेण व्यावहारिकविनाशाङ्गीकारादिति भावः ॥ घटाद्यर्थक्रियेति ॥ मुद्गरादिप्रहारानन्तरमपि तेन घटेन जलाहरणाद्यर्थक्रियाकरणरूपदोषश्चेत्यर्थः । आपत्तिश्चासौ दोषश्चेति दोषापत्तिरिति विपरीतसमासः ॥ तदेवेति ॥ घटनाशकाल एवेत्यर्थः । न गगनाविद्यादीत्यादिपदेन स्तम्भादिसङ्ग्रहः । जगदभेदवादे घटस्य पटेनैव गगनादिनाऽप्यभेदात्तदैव विनाशः सम्भावित इति विकल्पोपपत्तिः ॥ उत नेतीति । वक्तव्यमित्यनुवर्तते ॥ घटाद्यर्थक्रियाभाव इति ॥ तेषां गगनादीनां याऽर्थक्रियाऽवकाशदानादिरूपा तदभावः प्रसज्येतेत्यर्थः ॥ गगनाविद्ययोर्नाशायोगाच्चेति ॥ गगनस्य व्यावहारिकनित्यत्वेनाविद्याया ज्ञानैकनिवर्त्यत्वेन मुद्गरप्रहारादिना घटनाशकाले तयोर्विनाशो न युज्यत इति भावः । तयोर्व्यापकत्वेन नाशायोगादित्यप्याहुः । तादृशयोरपि गगनाविद्ययोरितरेषां चेदानीमेव नाशाङ्गीकारे किं बाधकमित्यत आह — महाप्रलयमोक्षौ स्यातामिति ॥ तदैवेत्यनुवर्तते । तथा च यदि घटनाशकाले सर्वविनाशः स्यात्तर्हीदानीमेव महाप्रलयः स्यात् । अविद्याविनाशे चेदानीमेव मोक्षोऽपि स्यादित्यर्थः ॥ द्वितीय इति ॥ घटनाशेऽपि गगनादीनामनाशश्चेदित्यर्थः ॥ कथमिति ॥ नष्टानष्टयोः पारमार्थिकाभेदायोगादिति भावः । तदेवोपपादयति — न हीति ॥ पारमार्थिकाभेद इति ॥ नष्टरजतेनेति शेषः । अत्र सर्वस्यापि व्यावहारिकप्रपञ्चस्य विप्रतिपत्तिविषयतया नष्टानष्टघटपटयोर्निदर्शयितुमशक्यत्वात्प्रातिभासिकव्यावहारिके रजतशुक्ती एव निदर्शयति । न हि व्यावहारिकयोर्घटपटयोरिव प्रातिभासिकव्यावहारिकयोः रजतशुक्त्योः पारमार्थिकाभेदोऽङ्गीकर्तुं शक्य इति ॥ जडाभेदसाधकानुमाने तर्कपराहतिं चाह ॥ दूरस्थेति ॥ यदि जडानां पारमार्थिकोऽभेदस्तर्हीति पूरणीयम् । एवं प्रत्येकमनुमानानि दूषयित्वा साधारणदूषणैरपि दूषयति — अभेदसाधकानुमानमात्रस्येति ॥ विमता आत्मान इत्याद्यनुमानषट्कस्यापीत्यर्थः । योगक्षेमत्वादीत्यादिपदेनाप्रयोजकत्वपरिग्रहः । तथा हि । आद्यानुमानस्य तावन्नाहं सर्वज्ञो न निर्दुःख इत्यादिप्रत्यक्ष पराहतिः । द्वा सुपर्णेत्यागमपराहतिः । जीवो ब्रह्मप्रतियोगिकधर्मिसमानसत्ताकभेदाधिकरणम् । ब्रह्माननुसंहितदुःखानुसन्धातृत्वादित्याद्यनुमानपराहतिः । परमात्मत्वेन सोपाधिकत्वम् । विमता आत्मानः परमात्मनोऽपरमार्थतोऽपि न भिद्यन्ते आत्मत्वात्परमात्मवदित्याभाससमानयोगक्षेमत्वम् । अस्त्वात्मत्वं तथाऽपि साध्यं माऽस्त्वित्यप्रयोजकता च । विमतानि शरीराणि देवदत्तस्यैव भोगायतनानीत्यनुमानस्य न मम यज्ञदत्तशरीरं भोगायतनमिति देवदत्तीयप्रत्यक्षपराहतिः । भिन्नाश्च भिन्नधर्माश्च पदार्था इत्याद्यागमपराहतिः । विमतानि शरीराणि न देवदत्तस्यैव भोगायतनानि देवदत्तानधिष्ठितत्वाद् व्यतिरेकेण देवदत्तशरीरवत् । न चासिद्धिः । देवतत्तो न यज्ञदत्तादिशरीराधिष्ठाताऽव्यापकत्वाद् व्यतिरेकेणेश्वरवदित्यनुमानेन तत्सिद्धेः । तथा चानुमानपराहतिः । देवदत्ताधिष्ठितत्वमुपाधिः । विमतानि कलत्राणि देवदत्तस्यैव भोगायतनानि कलत्रत्वाद्देवदत्तकलत्रवदित्यभाससाम्यम् । अनुकूलतर्काभावेन हेतोरप्रयोजकता च । भेदो मिथ्येति तृतीयानुमानेऽपि नाहं सर्वज्ञो नापि यज्ञदत्तो नापि च घट इत्यादिदेवदत्तप्रत्यक्षविरोधः ।

सत्यं भिदेत्याद्यागमविरोधः । भेदः सत्यः प्रमाणद्रष्दृत्वादात्मवदित्यनुमानविरोधः । आरोपितत्वमुपाधिः । अभेदो मिथ्याऽभेदत्वाद्देहात्माभेदवदित्याभाससाम्यं चोक्तमेव । भेदाभेदभेदे वा ब्रह्मप्रपञ्चभेदे वा भेदत्वसद्भावेऽपि मिथ्यात्वादर्शनादप्रयोजकता च । चतुर्थानुमाने घटादीनामन्योन्यभेदस्याबाधितप्रत्यक्षसिद्धत्वात्सुलभैव प्रत्यक्षपराहतिः । भिन्नाश्च भिन्नधर्माश्च पदार्था निखिला अपीत्यागमविरोधः । घटो न पटादिभ्यस्तात्त्विकभेदशून्यः । घटत्वाद् व्यतिरेकेण पटवदित्याद्यनुमानविरोधः । ईश्वरत्वमुपाधिः । विमतं तात्त्विकस्वान्तर्भेदवद्दृश्यत्वादित्यपि प्रयोक्तुं शक्यत्वादाभाससाम्यमप्रयोजकता च । एवमेव पञ्चमषष्ठयोरपि प्रत्यक्षादिपराहतिः सोपाधिकत्वं चोपपादनीयम् । अथ श्रुतयश्च नेह नानेत्यादिका अभेदबोधिकेत्युक्तं निराकरोति — अद्वैतश्रुतयस्त्विति । अन्यत्र बृहदारण्यभाष्यादावन्यथा इह ब्रह्मणि किञ्चन नाना भिन्नं गुणकर्मादिकं नानात्वं वा नास्तीत्येवं भगवति भेदाभावपरतया नेह नानाऽस्ति किञ्चनेति श्रुतिर्व्याख्याता । तत्त्वमस्यादिकास्तु सादृश्यपरतया व्याख्याता इत्यर्थः । यथोक्तमनुव्याख्याने —

‘स्वातन्त्र्ये च विशिष्टत्वे स्थानमत्यैक्ययोरपि ।

सादृश्ये चैक्यवाक् सम्यक् सावकाशा यथेष्टत’ इति ॥

इति शब्दस्येत्ययं परिहार इति पूर्वप्रतिज्ञावाक्येन सम्बन्धः । समाप्तिद्योतकत्वं वा । हेत्वर्थको वाऽयमिति शब्दः । तस्माद्विष्ण्वाख्यस्य ब्रह्मणश्चेतनाचेतनात्मकविश्वभिन्नत्वं सिद्धमित्युपसंहारवाक्यशेषेणान्वयः । एवं समापितप्रकरणः श्रीमद्व्यासतीर्थमुनिराट् यदर्थमनेन प्रकरणेन विष्णोर्विश्वतो भेदं समर्थितवान् तल्लक्षणविशिष्टतया विष्णुंस्तुवन्नमति ॥ रमानाथायेति ॥ निर्दोषश्चासौ गुणपूर्णश्चेति विग्रहः । यथा गुणपूर्णत्वसिद्ध्यर्थं विश्वभेदसमर्थनमेवं निर्दोषत्वसिद्ध्यर्थमपि भवतीति भावेन निर्दोषेत्युक्तिः । एतेनादिमश्लोकेऽपि निर्दोषत्वेन चेत्युपलक्षणया ग्राह्यमिति सूचयति । यथोक्तमनुव्याख्याने —

‘……..तस्य भेदश्च सर्वतः ।

अदोषत्वसिद्ध्यर्थं यदभेदे तदन्वय ‘इति ॥

भगवन्नमनमिव भगवतीनमनमपि भगवत्प्रीतिहेतुरिति ज्ञापनायोक्तं रमानाथायेति ॥ स्वकृतग्रन्थस्य वाग्यज्ञरूपत्वात्तेन सर्वयज्ञभोक्ता भगवान्प्रीणात्विति भावेनोक्तं सर्वयज्ञभुज इति ॥ यथोक्तं न्यायामृतान्ते —

‘मत्प्रेरकेण हरिणा या पूजा स्वस्य कारिता ।

वाग्यज्ञरूपा लक्ष्मीशस्तया प्रीणातु केशव ’ इति ॥

नन्वशरीरश्चेद्विष्णुः कथं तस्य सर्वयज्ञभोक्तृत्वम् । शरीरी चेद्यज्ञदत्तवदन्तवान् स्यात् । किञ्च यज्ञभोक्तृत्वाङ्गीकारे तस्यापूर्णताप्रसङ्गः । अपूर्णस्यैव लोके भोगदर्शनादित्यत उक्तम् — पूर्णानन्दशरीरिण इति ॥ अस्त्येव भगवतः शरीरम् । तच्चान्दादिगुणात्मकमेव । अतो न भोक्तृत्वानुपपत्तिर्नापि मृत्यादिदोषानुषङ्गः । न च तर्हि भोक्तुरपूर्णतापत्तिः । पूर्णानन्दस्यापि क्रीडाभोगोपपत्तेरिति भाव इत्यशेषमतिमङ्गलम् ॥ छ ॥

निर्दोषोरुगुणार्णवाय निखिलाम्नायैकवेद्याय ते सत्याशेषजगज्जनिस्थितिलयज्ञानादिसद्धेतवे ॥ श्रीमन्मध्वहृदब्जसद्मनिवसद्धंसाय कंसद्विषे

संसेवत्सु मनः स्वभीष्टतनवे श्रीकृष्णवृष्णे नमः ॥ १ ॥

भेदोज्जीवनभावदीपनमिदं वाग्बुद्धिशुद्ध्यै कृतं

पूर्वाचार्यवचो विचार्य सरसं सङ्गृह्य सारं ततः

बालिश्याद्बत शैशवं खलु मया प्रादर्शि

तत्क्षम्यतां वत्सानामिव मातुरौधसपयः पाने प्रसक्तं बुधैः ॥ २ ॥

क्रोडार्यपादपाथोऽजभाजा भगवता कृता ॥

भूयाद्भगवतः प्रीत्यै भेदोज्जीवनपञ्चिका ॥ ३ ॥ छ ॥

॥ इति श्रीमद्भास्करीवेङ्कटवराहाचार्यपूज्यचरणचरणाराधकेन भगवन्नम्ना विरचितो भेदोज्जीवनभावप्रदीपः समाप्तः ॥ छ ॥ छ ॥

(३६)भेदचिन्तारत्नं

विमतं घटादीति । येन भास्करादिना । जगदादीनामपि सत्यत्वं स्वाभाविकभेदाभावश्चाङ्गीक्रियते तस्येदमनुमानमिति ज्ञेयम् । अत्र तात्त्विकपदं स्वाभाविकपरम् । यद्वा मायावादिन एवेदमनुमानम् । अत्र तात्त्विकतादात्म्याधिकरणमित्यस्य तात्त्विकभेदाधिकरणं न भवतीत्यर्थः ॥ श्रुतीति ॥ श्वोभावो मर्त्यस्येत्यादिरुदाहर्तव्या ॥ घटाद्यर्थक्रियेति ॥ यदि मुद्गरप्रहारादिना घटो नश्यति तर्हि तदनन्तरमपि जलाहरणादिक्रियापत्तिरित्यर्थः ॥ तदैवेति ॥ घटनाशकाल एवेत्यर्थः ॥ घटाद्यर्थक्रियाभाव इति ॥ घटनाशे पटादीनामपि नाशेन तदर्थक्रियाऽपि न स्यादित्यर्थः ॥ नाशायोगाच्चेति ॥ नित्यत्वादिति भावः । सर्वस्यापि प्रलयो मोक्षश्च स्यादित्याह — महाप्रलयेति ॥ कथामिति ॥ घटनाशेऽप्यनष्टस्य तदभेदायोगादिति भावः । तत्र दृष्टान्तमाह — न हीति ॥ भ्रमोत्पन्नरजतस्य बाधेऽप्यबाधितायाः शुक्तेरजताभेदादर्शनादित्यर्थः । ननु मुद्गरप्रहारेऽपि न घटनाशः । श्रुतिस्तु सर्वेषां प्रलये युगपन्नाशेनापि चरितार्था । न च मुद्गरप्रहारानन्तरं घटानुपलम्भविरोधः । व्यञ्जकाभावेनोपपत्तेः । तात्कालिकवचनं त्वदर्शनमात्रविषयम् । नष्टो घट इति प्रत्यक्षं त्वव्यक्तत्वं गोचरयति । व्यक्तस्यैवार्थक्रियाकारित्वान्नार्थक्रियापत्तेश्चेत् । मैवम् । नित्यस्याकाशादेः कदाऽपि नाशाभावेन तदात्मकस्याप्यनाशेन श्रुतिव्याकोपात् । किञ्च व्यञ्जकाभावः किमत्यन्ताभावो ध्वंसो वा । आद्ये न कदाऽपि घटो पलब्धिः स्यात् । द्वितीये सर्वेषां युगपन्नाश इत्यस्य भङ्गापत्तिः । न च व्यञ्जकस्याप्यनभिव्यक्तिरेव न नाश इति वाच्यम् । अनवस्थापत्तेः । ननु तथाऽपि व्यावहारिकभेदबलेनैकस्य नाशेऽप्यन्यस्यानाशोपपत्तिरिति वाच्यम् । तस्य व्यवहारतो नाशाभावेऽपि परमार्थतस्तदवश्यम्भावात् । न चेष्टापत्तिः । घटनाशात्पूर्वमुत्तरत्र च गगने विशेषानुलम्भादित्यलमतिपरिहसनीयप्रक्रियानिरासायासलेशेन । जडानां तात्त्विकाभेदे बाधकतर्कं चाह — दूरस्थेति ॥ अद्वैतश्रुतय इति ॥ अद्वैतपरतया पराभिमता इत्यर्थः ॥ अन्यथेति ॥ ईश्वरीयस्वान्तर्भेदाभावस्वातन्त्र्यविशिष्टत्वकारकशक्तिधारकत्वान्तर्नियामकत्वसर्वव्याप्तत्वसादृश्यप्रियत्वस्थानैक्यमत्यैक्यसायुज्यादिविषयतयेत्यर्थः । एवं स्वातन्त्र्याद्यशेषभिन्नो हरिः सर्वोत्तम इत्यशेषगुणाकरत्वादन्योन्यभिन्नजीवजडात्मकात्प्रपञ्चादत्यन्तमतिमङ्गलम् ॥ छ ॥ छ ॥

प्रत्यक्षैः सकलात्मसाक्षिभिरलं निःशेषदोषोज्झितैः प्रत्यक्षागमसम्मताङ्गनिचयौर्निर्बाधतर्कैरपि ॥

साङ्गाम्नायपुराणसस्मृतिकलासूत्रेतिहासागमै

र्भिन्नोऽस्मत्प्रमितः परात्परतमः श्रीशोऽस्तु मे प्रेयसे ॥ १ ॥

मुरारिं कल्पाङ्गं बलयति रमाकल्पलतिका वरा कल्पानल्पप्रसवफलपत्रालिमहिता ॥

करालम्बास्माकं मुरहरनगारोहणविधौ

सुरामावासा जनयतु मनीषारथफलम् ॥ २ ॥

प्रारिप्सोर्जगदीश्वरस्य जगतीं नाट्यादिरङ्गायते

स्वैरं विश्वधुरं बिभर्ति युवराड्यः स्थापनेच्छोरपि ॥

नासीरः किल वीरभूषणमणिर्यः सञ्जिहीर्षोरसौ

वायुर्व्यासदिवाकरस्य तरणी भूतोस्ति मध्वात्मना ॥ ३ ॥

मूढः प्रौढाग्रगण्यो भवति हि बधिरो वाग्धराणामुदारो

मूकः स्याद्वावदूको कुकृतिरपगतिः पङ्गुराक्रान्तिगुः स्यात् ॥

व्यङ्गो भूयादनङ्गः कुमतिरपि नृपः पण्डकः पुंप्रवीणो यद्दृष्टिस्वृष्टिमात्रात्सकलमविकलं साऽवताद्भारती नः ॥ ४ ॥

जयार्यवचनाङ्गतागहनभावनानारसा

चकास्ति चतुरालयाचरितचारनानापदि ।

गुरूक्तमणिसन्ततेर्दृढसुवर्णसूत्रैरलं

विकीर्णविविधत्रयीकचनिबन्धसैरन्ध्रिका ॥ ५ ॥

वाणी यस्य सतां सुधारसकरी माधुर्यसारोपमा स्वातन्त्र्यासिकठोरतेजितमहाप्रासाग्रधारा सताम् ।

दृष्टादुष्टजनाघपुण्यफलसम्प्राकारितो व्यासराट् सोऽयं मे दिशताद्दृशङ्कविशिरः पट्टाग्रभूषामणिः ॥ ६ ॥

यज्जिह्वा सिंहपीठे विलसति वचसां राज्यसाम्राज्यलक्ष्मीर्यत्स्वान्तः श्रीर्निशान्ते विहरति स हरिः कान्तया क्लान्तिहीनः ॥

ये श्रीमध्वार्यवाणीविवरणविदुषामग्रगण्या वरेण्यास्ते तीर्थाचार्यवर्या मम किल गुरवो विठ्ठलार्यप्रसूताः ॥ ७ ॥

मुद्गलार्यतनूजेन जनार्दनपुरौकसा ।

शर्मणाऽऽनन्दतीर्थेन यथा प्रज्ञमभाषि वाक् ॥ ८ ॥

भेदचिन्तारत्नमिदं मध्वशास्त्राब्धिसम्भवम् ।

बुद्धिशाणसमुल्लीढं ध्रियतां हरिणा हृदि ॥ ९ ॥

इति श्रीपदवाक्यपारङ्गतव्यासतीर्थपूज्यचरणकृतभेदोज्जीवनविवरणं भेदचिन्तारत्नं समाप्तम् ॥ छ ॥ छ ॥

(३६)भेदचन्द्रिका

॥ अपसिद्धान्तश्चेति ॥ ब्रह्मज्ञानेनाविद्यकनिवृत्तेरङ्गीकारात् प्रत्यक्षविरोधश्च बोध्यः ॥ घटाद्यर्थक्रियाकरणदोषापत्तिरिति ॥ मुद्गरप्रहरोत्तरमपि घटसत्त्वे घटाद्यर्थक्रिया स्यादित्यर्थः । क्वचित्तु घटार्थं क्रियमाणव्यापारवैयर्थ्यं स्यादिति पाठः ॥ गगनाविद्ययोरिति ॥ व्यापकस्य नाशादर्शनादित्यर्थः ॥ महाप्रलय इति ॥ घटपटादिवत्प्रपञ्चान्तर्गतस्य सर्वस्य नाशे महाप्रलयस्य च मोक्षस्य च नाशः स्यादित्यर्थः । द्वितीये घटादीनां नाशेऽपि गगननाशे कथं घटपटादिना गगनादेः पारमार्थिको भेद इत्यर्थः । शुक्तेः पारमार्थिकभेदो रजते न यदिति जडानां पारमार्थिकभेदः स्यादिति तर्के आपादकं पूरणीयम् । एवं प्रातिस्विकाननुमानदोषानभिधाय साधारणानपि तानाह — अभेदसाधकानुमानमात्रस्येति ॥ आदिपदेनाप्रयोजकत्वसत्प्रतिपक्षौ । एतानि तु तत्र प्रदर्शितान्येव कानिचित्पुनरूह्यानीति भावः । एवमनुमानान्तरेऽपीति ॥ अद्वैतश्रुतय इति ॥ ता विवृताश्च व्याख्याता अस्माभिरन्यत्र बोध्यम् । तथा च युज्यते विष्ण्वाख्यस्य परब्रह्मणो विश्वभिन्नत्वमित्युपसंहारोऽपि बोध्यः ॥ छ ॥ छ ॥

व्यासहंसगतिः कुत्र मादृक् क्वापि गतिः क्व वा ।

अनयोरिहसंयोगं मन्ये नृहरिसाधितम् ॥ १ ॥

तर्ककर्कशकशावशतश्चेद्गौरियं विचलिता गुरूमागति ।

गृष्टिरित्यपि विचिन्त्य दयातः साधुभिः सपदि तत्र विधेया ॥ २ ॥

विद्वच्चकोरास्तृप्यन्तु भेदचन्द्रिकयाऽनया ।

भेदोज्जीवनटिप्पण्यानिरूढार्थविलोकनात् ॥ ३ ॥

इति श्रीकुम्भारीनारायणाचार्यसूनुवासुदेवाचार्यविरचिता भेदोज्जीवनटिप्पणी भेदचन्द्रिका समाप्ता ॥ छ ॥ छ ॥

(३६)भेदसञ्जीविनी

॥ तात्त्विकेति ॥ प्रातिभासिकतादात्म्यमादाय सिद्धसाधनतावारणाय ब्रह्मस्वरूपेण तादात्म्यं तयोर्वास्तवमित्यभिमानः ॥ वस्तुत इति ॥ तादृशभेदमुपादाय बाधवारणाया नित्यत्वेति ॥ `ततोऽन्यदार्त’मिति श्रुतीत्यर्थः ॥ अपसिद्धान्तश्चेति ॥ महाप्रलये सर्वेषां कारणावस्थापन्नरूपलयाङ्गीकारादित्यर्थः ॥ घटाद्यर्थमिति ॥ पुनर्घटोत्पत्त्यर्थमित्यर्थः । अन्यथा घटस्य सिद्धत्वात्तद्वैयर्थ्यापात इति भावः । घटार्थक्रियाकरणदोषापत्तिरिति पाठे घटस्य जलाहरणादिरूपा या क्रिया तत्करणप्रसङ्गादित्यर्थः ॥ क्रियाभाव इति ॥ आकाशाभावेन नित्यं तत्क्रियोत्पत्तेरदर्शनादित्यर्थः ॥ नाशायोगादिति ॥ निरवयवत्वेन समवायिकारणनाशरूपकारणाभावात् । नित्यत्वेन कारणशून्ययोः कारणात्मना स्थितिरूपलयायोग इत्यर्थः ॥ महाप्रलयेति ॥ सर्वप्रपञ्चस्य नाशाङ्गीकारपक्षे तन्नाशावश्यकत्वादिति भावः ॥ द्वितीये इति ॥ गगनानीनां नित्यत्व इत्यर्थः ॥ कथमिति ॥ प्रमेयत्वाभिधेयत्वादिहेतुमत्सु गगनादिषु पटप्रतियोगिकतात्त्विकतादात्म्याधिकरणत्वाभावेन व्यभिचारादुक्तहेतवः कथं तत्साधयेरन्नित्यर्थः । नाशेऽपि गगनतादात्म्यं वास्तवमङ्गीक्रियत एव पटस्येत्यत आह — न हीति ॥ तथात्वे रजतार्थिनः शुक्तौ प्रवृत्तिः स्यादेवेति भावः ॥ आभाससमानयोगक्षेमत्वादीनीति । आदिनाऽप्रयोजकत्वसत्प्रतिपक्षौ ग्राह्यौ ॥ श्रुतय इति ॥ व्याख्याता इति ॥ अस्माभिरपि ता विवृता इति शेषः ॥ समास इति ॥ सङ्क्षेपः कृत इत्यर्थः । तस्मात्स्वातन्त्र्यादिगुणविशिष्टो विष्णुरित्युपसंहारवाक्यं पूरणीयमित्यशेषमतिमङ्गलम् ॥ छ ॥

नैजस्वातन्त्र्यादिगुणैः सिद्धभेदस्वरूपवान् ।

चिदचिद्भ्यः स मे व्यासः प्रीतोऽस्तु जगदीश्वरः ॥ १ ॥

दुर्वादिभुजगः परिदर्शनेन नष्टाभिधाममृतवाग्बलतोऽभिरक्षन् ।

यो व्यासराजयतिराट् तदनुव्रतेयं वाणी ममेह विदुषां वितनोतु मोदम् ॥२॥

श्रीमद्व्याघ्रपुरीवासिवासुदेवार्यसूनुना ।

शिष्येण तेषां रचिता भेदोज्जीवनटिप्पणी ॥ ३ ॥

अनया ग्रन्थकृत्या यत्प्राप्तं पुण्यं समस्तशः ।

अस्मद्गुरुहृदब्जस्थप्राणेशायार्पयाम्यहम् ॥ ४ ॥

॥ इति श्रीव्याघ्रपुर्युपनामक श्रीनाथविरचिता भेदोज्जीवनटिप्पणी

भेदसञ्जीवनी सम्पूर्णा ॥

(३६)काशीतिम्मण्णाचार्य

दुरन्तदुर्मतध्वान्तध्वंसकृन्मध्वभास्करः ।

बलित्थेत्यादिवेदोक्तगुणः प्रीतोऽस्तु मे सदा ॥

॥ इति श्रीमद्व्यासराजतीर्थश्रीपादकृतभेदोज्जीवनव्याख्यानं श्रीमहामहोपाध्यायकाशीतिरुमलाचार्यकृतं समाप्तम् ॥

(३६)शर्कराश्रीनिवासाचार्य

अनात्मभेदसाधकानुमानानां परेणानुक्तत्वादिदानीतान्यशङ्कते — यच्चेदमित्यादिना ॥ अत्र पटाभेदसाधनमुपलक्षम् । एवमेव घटस्यानात्मप्रपञ्चमात्राभेदः साधनीयः । यथा रजतनाशेऽप्यनुवृत्ताया न शुक्ते रजताभेद एवं घटनाशेऽप्यनुवृत्तपटादिप्रपञ्चस्यनघटाभेद इत्याशयेनाह — अत्रेदमित्यादिना शुक्तेः पारमार्थिकाभेद इत्यन्तेन ॥ आनित्यत्वप्रतिपादकश्रुतीति ॥ यमप्येति भुवनमित्यादिश्रुतिविरोध

इत्यर्थः ।

॥ अपसिद्धान्त इति ॥ मुद्गरप्रहारादिना घटनाशस्यपूर्वाचार्यैरङ्गीकारात्त्वयेदानीं तदनङ्गीकारे सिद्धान्तविरोध इत्यर्थः ॥ घटाद्यर्थक्रियेति ॥ यदि मुद्गरप्रहारादिना घटो न नश्यति तर्हि तदनन्तरं जलाहरणाद्यर्थक्रियाकारित्वप्रसङ्ग इत्यर्थः ॥ तदैव यदा घटो नश्यति तदैवेत्यर्थः । अर्थक्रियाभाव इति ॥ घटनाशकाल एवाविद्यानाशे घटान्तराद्युत्पत्तिर्न स्यात् । एवं च जलाहरणादिक्रियालोपः स्यादित्यर्थः ॥ नाशायोगाच्चेति ॥ ऐक्यापरोक्षज्ञानेन महाप्रलय एव तन्नाशाभ्युपगमेनेदानीं तन्नाशायोगान् नाशे चेदानीमेव महाप्रलयमोक्षौ स्यातामित्यर्थः । तदेवोपपादयति — नहीति ॥ यथा हि नेदं रजतमिति बाधकज्ञानेन रजते नष्टेऽपि शुक्तेर्नाशभावान्न तयोः पारमार्थिकाभेद एवं घटनाशेऽप्यनष्टस्याविद्यागगनादिप्रपञ्चस्य न घटाभेद इत्यर्थः । अनात्मा भेदसाधकानुमानस्य तर्कपराहतिमाह — दूरस्थवनस्पत्योरिति ॥ यदि जडेपरस्परं पारमार्थिकाभेदोऽङ्गीक्रियते तर्हि दूरे विद्यमानयोर्द्वयोश् चूतपनसवृक्षयोरेक एवायं वृक्ष इति योभ्रमोजायते तस्यापि प्रामाण्यं स्तात् । तयोर्वास्तवाभेदेन तदवगाहिनस्तस्य तत्वावेदकत्वादित्यर्थः । एवमात्मानात्मभेदसाधकानुमानानां प्रत्येकं दूषणमभिधायेदानीमभेदमात्रसाधकानुमानसाधारणं तदाह — अभेदसाधकेति ॥ प्रत्यक्षेत्यादि ॥ विमता आत्मानः परमात्मनः परमार्थतो न भिद्यन्त इत्याद्यात्माभेदसाधकानुमानस्य नाहं सर्वज्ञो न निर्दुःख इत्यादिप्रत्यक्षविरोधः । द्वासुपर्णेत्याद्यागमविरोधः । जीवः ब्रह्मप्रतियोगिकधर्मिसत्तासमानसत्ताकभेदाधिकरणं ब्रह्माननुसंहितदुःखानुसन्धातृत्वात् । व्यतिरेकेण ब्रह्मवदित्यद्यनुमानविरोधः । अनुकूलतर्काभावात्पक्षेतरत्वस्योपाधित्वम् । विमता आत्मानः परमात्मनः परमार्थतोऽपि न भिद्यन्ते आत्मत्वात् परमात्मवदित्यपिसाधयितुं शक्यत्वेनाभाससमानयोगक्षेमत्वम् । विमतं घटादि पटप्रतियोगिकतादात्म्याधिकरणम् अभिधेयत्वादित्याद्यनात्माभेदसाधकानुमानस्य घटः पटो नेत्यादिप्रत्यक्षविरोधः । घटः पटप्रतियोगिकतादात्म्याधिकरणं न भवति प्रतियोगिसामानाधिकरण्यावच्छेदकानवच्छिन्नपटनिष्ठात्यन्ताभावप्रतियोगिधर्माधिकरणत्वाद् व्यतिरेकेण पटवदित्याद्यनुमानविराधः । मिथश्च जडभेदोऽयमित्यागमविरोधः । अनुकूलतर्काभावेन पक्षेतरत्वस्योपाधित्वम् । विमतं घटादि व्यवहारोऽपि पटप्रतियोकितादात्म्यानधिकरणं न भवति अभिधेयत्वात् पटवदिति साधयितुं शक्यत्वेनाभावससमानयोगक्षेमत्वमिति विवेकः । इदानीमभेदसाधकश्रुतीर्निराकरोति ॥ अद्वैतश्रुतय इति ॥ नेहनानेत्याद्या इत्यर्थः ॥ अन्यत्रेति ॥ काठकोपनिषद्भाष्यादौ भगवतो गुणकर्मादिभेदनिषेधकत्वेन व्याख्याता इत्यर्थः ॥ एवं समापितप्रकारणोभगवान् व्यासतीर्थमुनिर्मङ्गलमध्यानिमङ्गलां तानि शास्त्राण्यायुष्मत्पुरुषकाणिभवन्तीमिस्मरणादं तेऽपि तदाचरति ॥ रमानाथायेति ॥ हरये नम इति सम्बन्धः । भेदनिरूपणस्य प्रयोजनसूचनायरमानाथायेति विशेषणम् । अरमापदं चेतनाचेतनात्मकसर्वजगदुपलक्षणम् । तथाच चेतनाचेतनात्मकजगन्नाथायेत्यर्थः । अनेन भेदसमर्थनसय्द्यपद्योक्तजगदीश्वरत्वसमर्थनार्थत्वं सूचिमिति ध्येयम् । भेदकधर्मकथनाय सर्वयज्ञभुज इति । तर्ह्यपूर्णत्वं स्यादित्यत उक्तं गुणपूर्णायेति । स्वस्यानन्दादिगुणपूर्णत्वेऽपि भक्तानुग्रहाय भुङ्क्ते नतु तृप्त्यर्थमिति भावः । यत्र गुणास्तत्र दोषा इति नियमाद्दोषवानपिकिमित्यतो निर्दोषेति । निर्दोषश्चासौ गुणपूर्णश्चेति विग्रहः । यद्वा एतदपिभेदकधर्मकथनम् । ननु हरेः शरीरमस्ति नवा । आद्ये मरणादिप्रसङ्गः । द्वितीये तस्य भोक्तृत्वायोग इत्यत उक्तम् — पूर्णानन्दशरीरिण इति ॥ अस्त्येवशरीरं तच्च सुखात्मकं नतु विनाशाविनाभाविप्राकृतम् । अतो नोक्तदोष इत्यशेषमतिमङ्गलम् ॥ ६ ॥

पद्मापद्माजवन्द्यायपद्मपत्रनिभेक्षण ॥

पद्मना भायरामायनमः सत्पद्ममालिने ॥

(शर्कराश्रीनिवासेन बालबोधाय निर्मिता ॥

भेदोज्जीवनव्याख्येयं भूयात्प्रीत्यै रमापतेः ॥

भेदोज्जीवनव्याख्यानलब्धं पुण्यमनुत्तमम् ॥

प्राप्यास्मद्गुरवः प्रीताः क्रियासुः करुणां मयि) ॥

॥ इति श्रीव्यासतीर्थविरचितभेदोज्जीवनस्य व्याख्या

शर्कराश्रीनिवासविरचिता सम्पूर्णा ॥

॥श्रीमध्वेशार्पणमस्तु ॥