१७ (३५) भेदोज्जीवनम्

भेदत्वेन प्रतीयमानत्वादित्यत्र किमिदं प्रतीयमानत्वम् ?

(३५)भेदोज्जीवनम्

(३५) भेदत्वेन प्रतीयमानत्वादित्यत्र किमिदं प्रतीयमानत्वम् ? (किमिदंप्रतीयमानत्वम् ?) । प्रमाविषयत्वमप्रमाविषयत्वं वा ? प्रतीतित्वसामान्यावच्छिन्नविषयत्वं वा ? (प्रमात्वमप्रमात्वं वा ? किं वा प्रतीतित्वसामान्यम् ?) । नाद्यः । तवासिद्धेः । न द्वितीयः । ममासिद्धेर् न तृतीयः । चन्द्रभेद(प्रत्यक्ष)प्रतीतेरपिमिथ्यात्वेनाप्रामाणिकत्वात्प्रामाणिकाप्रामाणिकयोरनुगतसामान्याभावेनासिद्धेः । भेदाभेदयोर् भेदेऽनैकान्त्यं च । तस्यापि पक्षत्वे बाधः । भेदाभेदयोर्भेदस्यापारमार्थिकत्वेऽनेनैवानुमानेनाभेदस्यापि मिथ्यात्वं स्यात् । व्यावहारिकभेदसद्भावेऽपि परमार्थतो ब्रह्माभिन्नस्य (व्यावहारिकभेदसद्भावेऽपरमार्थतो ब्रह्मणो भिन्नस्य) जीवस्य पारमार्थिकत्ववत्परमार्थतः पारमार्थिकाभेदाभिन्नो भेदः (अपि) पारमार्थिकः स्यादिति मिथ्यात्वसाधने बाधः । पारमार्थिकापारमार्थिकब्रह्मप्रपञ्चभेदे व्यभिचारः (व्यभिचारश्च) । ब्रह्मणि(णो) धर्मिसमसत्ताकभेदो नास्तीति पारमार्थिकत्वं घटादौ सोऽस्तीत्यपारमार्थिकत्वमिति चेत् (न) । तर्हि जीवब्रह्मणोः प्रपञ्चवद्धर्मिसत्तासमानसत्ताकभेदो नास्तीति तयोरपारमार्थिकत्वं प्रपञ्चः पारमार्थिकः स्यात् । (तर्हि ब्रह्मणः प्रपञ्चाद् धर्मिसमानसत्ताकोऽभेदो नास्तीति तदपारमार्थिकत्वं प्रपञ्चवत् स्यात् ।) चन्द्रभेदे प्रातिभासिकत्वमुपाधिश्च । स च न पक्षे साधयितुं शक्यः । व्यावहारिकत्वाङ्गीकारविरोधात् । अभेदो मिथ्या अभेदत्वाद् देहात्माभेदवदित्याद्याभाससाम्यं च । न च दृष्टान्तस्य साध्यवैकल्यं शङ्क्यम् । तथात्वेऽ`न्योन्यस्मिन्नन्योन्यात्मकतामन्योन्यधर्मांश्चाध्यस्ये’त्यध्यासभाष्यस्योन्मत्तप्रलापत्वप्रसङ्गात् । गौरोऽहं कृशोऽहमित्यादिज्ञानस्य तत्त्वावेदकत्वेन प्रामाण्यप्रसङ्गाच्च (तत्त्वावेदकप्रामाण्यप्रसङ्गाच्च) । चतुर्थे तु नानापदार्थानामेव सेनावनादिवदुपाधिभेदेन जगच्छब्दवाच्यतया पदार्थान्तराभावेन घटादीनां तदभेदसाधने बाधः । पृथिव्यादीनां जगदाख्यपदार्था(न्तरा)रम्भकत्वे तदारब्धे जगति पृथिवीत्वादीनां साङ्कर्यप्रसङ्गः । गुणादीनां जगदन्तर्भूतानां तदारम्भकत्वे(त्वेन) तेषां द्रव्यत्वापत्तिश्च । निरवयवानां (गुणादीनां) द्रव्यारम्भकत्वप्रसङ्गाच्च(ङ्गश्च) । घटादीनामन्त्यावयवित्वहानिश्च स्यात् । घटादिपदार्थानामेव पक्षत्वे तु स्वान्तर्भेदशब्देन स्वप्रतियोगिकभेदाभावेऽभिमते (स्वप्रतियोगिकभेदाभावसाधने) सिद्धसाधनम् । परस्परं भेदाभावमात्रसाधने तु (भेदमात्राभावसाधने तु) साध्यविकलो दृष्टान्तः । आकाशभेदसाधनं त्वस्माभिरन्यत्र कृतं द्रष्टव्यम् । (आकाशभेदसाधनं त्वस्माभिरन्यत्र कृतम् । ग्रन्थगौरवभयान्नेह तन्यते ।) तस्मान्नात्माभेदेऽनुमानं प्रमाणम् ।

(३५)भावप्रदीपः

भेदत्वादिति हेतोरसिद्धिपरिहारार्थं भेदत्वेन प्रतीयमानत्वादित्यर्थो विवक्षित इत्युक्तं तद्दूषयितुं विकल्पयति — भेदत्वेनेति ॥ प्रमात्वमप्रमात्वं वेत्यादि । किं सा प्रतीतिः प्रमारूपोत भ्रान्तिरूपा किं वा प्रतीतिसामान्यमिति भावः ॥ तवासिद्धेरिति ॥ भेदप्रतीतेस्त्वया प्रमात्वानङ्गीकारादिति भावः । ममासिद्धेर् मया तस्याः प्रमात्वाङ्गीकारादिति भावः । तृतीयपक्षेऽप्यसिद्धिमुपपादयति — न तृतीय इति ॥ यथा चन्द्रभेदस्य प्रातिभासिकत्वेनाप्रामाणिकत्वात्प्रामाणिकाप्रमाणिकयोरनुगतभेदत्वसामान्याभावादसिद्धो हेतुरित्युक्तम् । तथा चन्द्रभेदप्रतीतेरपि प्रातिभासिकत्वेनाप्रामाणिकत्वादुभयसाधारणसामान्याभावात्प्रतीयमानत्वहेतुरप्यसिद्ध इत्यर्थः । क्वचित्प्रत्यक्षप्रतीतेरिति पाठः । तदा भ्रमरूपचन्द्रभेदप्रत्यक्षप्रतीतेरित्यर्थः । किञ्चास्तां तावदन्ये भेदाभेदयोस्तु भेदः पारमार्थिको वाच्यः । तथा च तत्र हेतुरनैकान्त्यमित्याह — भेदाभेदेति ॥ तस्यापि पक्षत्वाङ्गीकारात्कथमनैकान्त्यमित्यत आह — तस्यापीति । अंशे बाध इत्यर्थः । भेदाभेदयोर्भेदस्य पारमार्थिकत्वे स्यादनैकान्त्यमंशे बाधो वा । न चैवं किन्त्वसावपारमार्थिक एवेत्यत आह — भेदाभेदयोरिति ॥ तयोर्भेदस्यापारमार्थिकत्वेऽभेदस्यैव पारमार्थिकत्वापत्त्याऽपारमार्थिकभेदाभिन्नस्य भेदस्यापि भेदरूपत्वेन भेदो मिथ्या भेदात्वादित्यनुमानेनैव मिथ्यात्वं स्यादिति भावः । एवं भेदाभेदयोर्भेदस्यापारमार्थिकत्वे तयोरभेदापत्त्या भेदाभिन्नस्याभेदस्य मिथ्यात्वं स्यादित्युक्तम् । इदानीं तेनैव न्यायेन भेदस्याप्यभेदाभिन्नताया अङ्गीकार्यत्वे पारमार्थिकाभेदाभिन्नस्य भेदस्यापि पारमार्थिकत्वस्थितौ भेदस्य मिथ्यात्वसाधने बाधश्च स्यादिति भावेनाह — व्यावहारिकेत्यादिना । ननु परमार्थतः पारमार्थिकाभेदाभिन्नस्यापि भेदस्य न पारमार्थिकत्वप्राप्तिः । तयोर्व्यावहारिकभेदस्याप्यङ्गीकारादित्यत उक्तम् ॥ व्यावहारिकभेदसद्भावेऽऽपीति । तथा च पारमार्थिकाभेदसद्भावे व्यावहारिकभेदोऽकिञ्चित्करः । अन्यथा परमार्थतो ब्रह्माभिन्नस्य जीवस्यापि व्यावहारिकभेदसद्भावमात्रेणापारमार्थिकत्वं स्यादिति भावः । भेदत्वहेतोर्दूषणान्तरं चाह — पारमार्थिकेति ॥ ब्रह्मप्रञ्चयोर्भेदस्तावत्पारमार्थिक एवेत्यङ्गीकार्यम् । ब्रह्मणः पारमार्थिकत्वात्प्रपञ्चस्य त्वन्मतेऽपारमार्थिकत्वात् । विरुद्धधर्माधिकरणयोश्च जलानलवद्भेदस्य नैयत्यात् । ततश्च तयोर्भेदे व्यभिचारश्च स्यादित्यर्थः ॥ बाधो वेति ॥ तस्यापि पूर्ववत्पक्षत्वाङ्गीकृताविति भावः । क्वचिद्बाधो वेति पाठ एव नास्ति । अत एव कैश्चनैतद्वाक्यं न व्याकृतम् । ननु ब्रह्मप्रपञ्चयोः पारमार्थिकापारमार्थिकत्वेऽपि तयोर्भेदः पारमार्थिकः कुतः । न च तयोर्भेदस्यापारमार्थिकत्वे ब्रह्मणो वा प्रपञ्चवदपारमार्थिकत्वापत्तिः । प्रपञ्चस्य वा ब्रह्मवत्पारमार्थिकत्वापत्तिरिति वाच्यम् । भेदस्यापारमार्थिकत्वेऽपि ब्रह्मप्रपञ्चयोः पारमार्थिकत्वापारमार्थिकत्वाङ्गीकारोपपत्तेः । तत्र प्रयोजकान्तरसद्भावेन भेदापारमार्थिकत्वस्याप्रयोजकत्वादिति भावेन शङ्कते — ब्रह्मण इति ॥ यद्यपि ब्रह्मणि प्रपञ्चाद्भेदोऽस्ति तथाऽपि न स धर्मिसमसत्ताकः । पारमार्थिको न भवतीति यावत् । घटादौ प्रपञ्चे तु ब्रह्मप्रतियोगिको भेदो धर्मिसमसत्ताकः । व्यावहारिक इति यावत् । अतस्तयोर्भेदस्यापारमार्थिकत्वेऽपि न पारमार्थिकत्वादिक्षतिरिति भावः । दूषयति — नेति ॥ तर्हीति । नियामकप्रमाणं विनैव पारमार्थिकत्वे धर्मिसत्ताकभेदाभावस्यापारमार्थिकत्वे च तत्सद्भावस्य प्रयोजकत्वेऽङ्गीक्रियमाण इत्यर्थः ॥ जीवब्रह्मणोरिति ॥ धर्मिसमसत्ताकभेदो यत्रास्ति तस्य पारमार्थिकत्वं यत्र स नास्ति तस्यापारमार्थिकत्वमित्यपि व्यावस्थायाः सुकरत्वाज्जीवब्रह्मणोस्तदभावादपारमार्थिकत्वं प्रपञ्चस्य तत्सद्भावात्पारमार्थिकत्वमिति वैपरीत्यमपि प्रसज्येतेत्यर्थः । एवमपि त्वया ब्रह्मणि प्रपञ्चवदेवापारमार्थिकत्वं स्यादेवेति परिहाराभिप्राय इत्याहुः ॥ चन्द्रभेद इति ॥ इत्थं हि वाक्ययोजना । अस्मिन्ननुमाने प्रातिभासिकत्वमुपाधिश्च । कथम् । दृष्टान्ते चन्द्रभेदे प्रातिभासिकत्वं वर्तते । अतः साध्यव्यापकः । स चोपाधिः पक्षे विमतभेदे साधयितुमशक्यः । तस्य व्यावहारिकत्वाङ्गीकारविरोधात् । अतः साधनाव्यापक इति ॥ कुतः साध्यवैकल्यं न शङ्क्यमित्यत आह — तथात्वे इति ॥ देहात्मभेदस्य सत्यत्वाङ्गीकारे देहात्मनोरन्योन्यात्मकताया अध्यस्तत्ववर्णनपरस्य त्वदीयभाष्यस्योन्मत्तप्रलपितवाक्यवत्स्वाभ्युपगमविरोधः स्यादित्यर्थः । दूषणान्तरमाह — गौरोऽहमिति ॥ देहात्मनोरभेदे गौरत्वादीनां देहधर्माणामेवात्मधर्मत्वेन तज्ज्ञानस्य तत्त्वविषयकतापत्त्या प्रमात्वप्रसङ्गाच्चेत्यर्थः । तत्त्वावेदकत्वेनेत्यस्य तत्त्वविषयकतेत्यर्थः । न चेष्टापत्तिरिति वाच्यम् । अन्योन्यधर्मांश्चाध्यस्येति भाष्यस्योन्मत्तवाक्यत्वप्रसङ्गादिति भावः । अत एव पूर्ववाक्येऽन्योन्यधर्मांश्चाध्यस्येत्यंशस्याप्युदाहरणम् ॥ चतुर्थे त्विति ॥ विमतो जगदाख्यः पदार्थस् तत्त्वतः स्वान्तर्भेदहीनो दृश्यत्वाद्गगनादिवदित्यनुमान इत्यर्थः । तत्र तात्त्विकस्वान्तर्भेदहीनत्वं नाम जगदन्तर्गतानां घटादिपदार्थानामान्योन्यं वा तैश्च घटादिभिर्जगतो वा पारमार्थिकभेदाभावः । तथैव पूर्वपक्षग्रन्थ उपपादितत्वात् । तत्र घटादीनां तदभेदसाधने । जगत्प्रतियोगिकभेदाभावसाधने । घटादीनां सकाशात्तस्य जगतो भेदाभावसाधन इति वा बाध इत्यर्थः । कुतो बाध इत्यत उक्तम् ॥ पदार्थान्तराभावेनेति ॥ घटादिव्यतिरिक्तजगदाख्यपदार्थान्तराभावेनेत्यर्थः । सति हि पदार्थान्तरे कस्यचित्पदार्थस्य ततो भेदो वा भेदाभावो वा साधयितुं शक्यते न तु तस्यैवाभावे । न हि शशविषणाद्धटादेर्भेदाभावः साधनार्हः । अतोऽतिरिक्तजगद्व्यक्तेरेवाभावेन ततो भेदाभावसाधने बाधो युक्त इत्यर्थः । पदार्थान्तराभावेऽपि कुत इत्यत उक्तं नानापदार्थानां हि जगच्छब्दवाच्यतयेति ॥ हिशब्द एवार्थे । तत्कथमित्यत उक्तम् उपाधिभेदेनेति ॥ काललक्षणोपाधिविशेषेणेत्यर्थः । तत्र दृष्टान्तकथनं सेनावनादिवदिति ॥ यथा करितुरगरथादीनामेवैकस्थानस्थितिलक्षणोपाधिना सेनाशब्दवाच्यत्वं यथा च नानावृक्षाणामेकस्थाननिवासेन वनशब्दवाच्यत्वं यथा वा धान्यादीनामेकस्थाने मिलितानां राशिशब्दवाच्यत्वमेवं विवक्षितैककालोपाधिग्रस्तानां घटादीनामेव जगच्छब्दवाच्यत्वमित्यर्थः । अत एवोक्तं मन्दारमञ्जर्याम् — प्रवाह इति गीयन्ते सजातीयाः प्रवाहिणः । कालेनोपाधिना ग्रस्ता नानावृक्षा वनं यथेति ॥ उपलक्षणमेतत् । घटादीनां परस्परभेदाभावसाधनेऽपि प्रत्यक्षादिविरोधाद्बाध इत्यपि द्रष्टव्यम् ।

ननु न घटादय एव जगच्छब्दार्थः किन्तु तन्तुभिः पट इव घटादिना नापदार्थैर्जगदाख्यः पदार्थ आरभ्यते । अतो नोक्तदोष इत्यत आह — पृथिव्यादीनामिति ॥ जातिसाङ्कर्यप्रसङ्ग इति ॥ पृथिव्याद्यारब्धस्यावयविनः पृथिवीत्वादिनियमात्पृथिव्यादिसर्वपदार्थारब्धे जगति जातिसाङ्कर्यं स्यादित्यर्थः । इदमपि न्यायमतरीत्यैवोक्तम् । सिद्धान्तेऽनेकविजातीयारब्धेऽपि द्रव्ये जातिसाङ्कर्याभावात् । न हि पृथिव्यादिकमपि केवलपृथिव्यादिमात्रारब्धम् । किन्त्वेकैकमपि भूतं भूतत्रयारब्धमेव । तथा हि श्रुतिः । तासां त्रिवृतं त्रिवृतमेकैकामकरोदिति ॥ व्यवहारस्तु तत्तद्भूतभागानां वैशेष्यात् । उक्तं च सूत्रेषु । वैशेष्यात्तु तद्वादस्तद्वादः । त्र्यात्मकत्वात्तु भूयस्त्वादिति ॥ साङ्कर्यस्य जातिबाधकत्वाभावस्योपपादितत्वाच्चेति ॥ द्रव्यत्यापत्तिरिति ॥ द्रव्यस्यैव समवायिकारणत्वादिति भावः । इदमपि न्यायमतालम्बनेनैव । सिद्धान्ते गुणवदुपादानं गुणवदुपादेयतया परिणत इत्यङ्गीकारात् ॥ निरवयवानामिति ॥ इदमपि न्यायरीत्यैव । सिद्धान्ते निरवयववस्तुन एवाभावात् । यथोक्तम् । अतः सर्वपदार्थानां भागाः सन्त्येव सर्वदा । सर्वदिक्ष्वपि सम्बन्धादिति ॥ अतिप्रसङ्गश्चेति ॥ निरवयवैर्गुणक्रियाजात्यादिभिरपि द्रव्यरम्भप्रसङ्ग इत्यर्थः ॥ अन्त्यावयवित्वहानिश्चेति ॥ द्रव्यान्तरानारम्भककार्यद्रव्यस्यैवान्त्यावयवित्वादिति भावः । ननु घटादिसमुदायरूपं वा तदारब्धं वा जगत्पक्षीकृत्य नैवमनुमीयते । किन्तु घटादीनेव पक्षीकृत्य स्वान्तर्भेदहीनत्वं साध्यते । अतो नोक्तदोष इत्यत आह — घटादीति ॥ स्वान्तर्भेदशब्देनेति ॥ हीनशब्दोत्तरेणेति शेषः । अथवा स्वान्तर्भेदशब्देन स्वप्रतियोगिकभेदं गृहीत्वा तदाभावसाधन इति व्याख्येयम् ॥ भेदाभावमात्रसाधन इति ॥ स्वान्तः पदेन स्वप्रतियोगिकत्वं न विवक्ष्यते । किन्तु परस्परप्रतियोगिकत्वमेव । तथा च कथं सिद्धसाधनमिति भावः ॥ साध्यविकलो दृष्टान्त इति ॥ आकाशेंऽशानां मिथो भेदस्यैव सत्त्वादिति भावः । नन्विदमेव साध्यवैकल्यमाशङ्क्य प्रागेव निराकृतमित्यत आह — आकाशभेदसाधनं त्विति ॥ आकाशेंऽशभेदसाधनं त्वित्यर्थः । अन्यत्र मन्दारमञ्जर्याम् । नन्वथाऽपि प्रतीति बलात्संयोगतदत्यन्ताभावयोः सामानाधिकरण्यमस्त्वित्यादिना तस्मादाकाशभेदवादिनं प्रतीति साधूक्तमित्यन्तेन ग्रन्थेनाकाशभेदवादिनं प्रति प्रतीत्यसिद्धेरिति टीकावाक्यविवरणावसरे कृतमाकाशभेदसाधनं द्रष्टव्यमित्यर्थः । नैतावताऽऽकाशांशानां मिथो भेदः सिद्धान्तेऽङ्गीकृत इति भ्रमितव्यम् । यदाऽऽकाशभेदो नास्तीति सिद्धान्तस्तदान्तशब्दो विशेषवचन इत्युपाधिखण्डनटीकायां खेऽपि देशान्तरस्य स इति मूलव्याख्यानावसर उक्तत्वात् । सिद्धान्ते आकाशांशानां देशविशेषाणां यावद्द्रव्यभावित्वादत्यन्ताभेदस्याङ्गीकारद्भेदवाच्यन्तरश्ब्दप्रयोगो नोपपद्यत इत्यत आहेति यदेति वाक्यस्य मन्दारमञ्जर्यामेवावतारितत्वाच्च । किन्नामाकाशे औपाधिकभेदाङ्गीकारिणं नैयायिकं प्रति कश्चन स्वाभाविकमेवांशभेदमङ्गीकृत्य प्रत्यवतिष्ठते चेत्तं प्रति नैयायिकस्य न किमप्युत्तरमित्यभिप्रायेणैवाकाशभेदसाधनं त्वस्माभिरन्यत्र कृतमित्युक्तिरिति बोध्यम् । अत एव तत्र मन्दारमञ्जर्यामेव परेणौपाधिकभेदोऽङ्गी क्रियते । तं प्रति स्वाभाविकभेदमङ्गीकारयतीत्याहेति प्रकारान्तरेणैतदेव वाक्यमवतारितमिति ॥ केचित्त्वाकाशांशानां स्वाभाविकभेदसाधनमन्यत्र न्यायामृतादौ कृतमित्यर्थ इत्याहुः । परोक्तानुमाननिराकरणमुपसंहरति ॥ तस्मादिति ॥ उपपादितरीत्या दुष्टत्वादित्यर्थः । आत्माभेद इत्युपलक्षणम् । अनात्मभेद इत्यपि ग्राह्यम् । प्राधान्यादात्माभेदमात्रस्य सङ्कीर्तनम् । अन्यथा चतुर्थानुमानेऽनात्मभेदमात्रनिरासादात्माभेदसाधनाभावेन सामान्येनात्माभेदानुमाननिराकरणोपसंहारायोगात् । केचित्तु तत्र विमतमिति सर्वं चेतनाचेतनजातं विवक्षितमतो नात्माभेदेऽनुमानमित्युपसंहारोपपत्तिरित्याहुः । तत्र चेतनस्यापि विमतपदेन सङ्ग्रहे तत्र दृश्यत्वहेतोर्भागासिद्धेर्दुर्वारत्वात्कथं पूर्वपक्षिणस्तदभिप्रायकल्पनमिति चिन्त्यम् ।

(३५)भेदचिन्तारत्नं

यच्चोक्तं भेदत्वेन प्रतीयमानत्वेन हेतूकृतं भेदत्वमिति तद्विकल्प्य निराह — प्रतीतेरपि मिथ्यात्वेनेति ॥ परेणारोपस्थले ज्ञानार्थयोरुभयोरपि प्रातिभासिकत्वाङ्गीकारादित्यर्थः ॥ अनुगतसामान्याभावेनेति ॥ अयं भावः । भेदत्वादित्यत्र मिथ्यासत्ययोरनुगत सामान्याभावदसिद्धिशङ्कायां तदनुगमाय भेदस्याननुगमेऽपि तदुभयप्रतीत्योर्भेदप्रतीतत्वस्यानुगतत्वेन भेदत्वं नाम भेदत्वेन प्रतीयमानत्वादित्युक्तम् । तत्तु भ्रमस्थलेऽर्थमिथ्यात्वेऽपि प्रतीतेः सत्यत्वमिति मते सम्भवति न तु तत्त्वत इति ॥ तस्यापि पक्षत्वे इति ॥ भेदाभेदयोर्भेदस्तस्यापि पक्षत्वे वयाधातेन बाध इत्यर्थः । व्यावहारिकभेदेन व्याहतिपरिहार इत्यङ्गीकारे बाधकमाह — भेदेति ॥ अभेदस्यापि मिथ्यात्वं स्यादिति ॥ भेदाभेदयोः परमार्थत एकत्वापत्त्या भेदमिथ्यात्वसाधनस्यैवाभेदमिथ्यात्वसाधनत्वादिति भावः । यदि चैवमभेदस्यापारमार्थिकत्वं तदा सकलभेदस्यापि मिथ्यात्वसाधने बाधः स्यात् । यो यत्साकं तदभिन्नस्तत्सत्ताक इति व्याप्तेः । यद्वा भेदः सत्यः सत्याभेदभिन्नत्वाद् यो यत्सत्ताकभिन्नः स सत्यो तथा जीवो ब्रह्मभिन्न इत्यनुमानमत्राभिप्रेतमित्यूह्यम् ॥ व्यभिचार इति ॥ ब्रह्मप्रपञ्चयोर्भेदस्य पारमार्थिकत्वाभावे तयोः पारमार्थिकत्वव्यावहारिकत्वरूपवैलक्षण्यायोगादिति भावः ॥ बाधो नेति ॥ तस्यापि पक्षत्व इति शेषः । ब्रह्मणः पारमार्थिकत्वेऽपि प्रपञ्चप्रतियोगिकभेदस्य तथात्वाभावात् । न व्यभिचार इति शङ्कते — ब्रह्मण इति ॥ प्रपञ्चः पारमार्थिकः स्यादिति ॥ जीवब्रह्मणोः प्रपञ्चप्रतियोगिकधर्मिसत्तासमानसत्ताकभेदाभावात्प्रपञ्चवदेव मिथ्यात्वं स्यादित्यर्थः । प्रयोगश्च । ब्रह्म मिथ्या भवितुमर्हति प्रपञ्चप्रतियोगिकपारमार्थिकभेदशून्यत्वात् प्रपञ्चवदिति ॥ चन्द्रभेद इति ॥ चन्द्रभेदे विद्यमानस्य मिथ्यात्वस्य प्रातिभासिकत्वं प्रयोजकत्वं न भेदत्वमित्यर्थः । ननूक्तहेतुनैवोपाधिं पक्षे साधयामीत्यत आह — स चेति ॥ न च घटादौ साध्यव्यापकताभाव इति वाच्यम् । भेदत्वरूपसाधनावच्छिन्नसाध्यव्यापकतापत्तेः । व्यावहारिकभेदस्य पक्षत्वान्न दोषः ॥ साध्यवैकल्यं न शङ्क्यमिति ॥ परस्य सर्वाद्वैतवादित्वादिति भावः ॥ उन्मत्तेति ॥ असत्यत्वेऽन्योन्यस्मिन्नन्योन्यात्मकतामध्यस्येत्यारोपोक्त्ययोगादिति भावः । ननु भाष्ये चाध्यासोक्तिर्व्यावहारिकस्यैव पारमर्थिकैक्यं त्वनुमतमेवेति चेत् तर्हि तदारोपितैक्यमेव दृष्टान्तीकृतमिति कथं साध्यवैकल्यम् । नन्वेवमपि देहात्मनोः पारमार्थिकैक्ये व्यभिचार इति

चेन्न । तस्यापि पक्षत्वात् । तथाऽप्यात्मनः स्वप्रतियोगिकैक्ये व्यभिचार इति चेन्न । भेदसामानाधिकरण्यैक्यत्वस्यैव हेतुत्वात् । न च विशेषणासिद्धिः । यत्र परेणाभेदमङ्गीकृत्य व्यावहारिकभेदोऽङ्गीक्रियते तत्स्थलीयाभेदस्यैव पक्षीकृतत्वात् । किञ्च भेदः पारमार्थिकोभेदत्वाच्चन्द्रभेदवत् । ब्रह्म मिथ्या वस्तुत्वाच्चन्द्रभेदवदित्याभाससाम्यं चेत्यूह्यम् ॥ गौरोऽहमिति ॥ अस्य देहात्माभेदप्रत्यक्षत्वादिति भावः । नन्विदं प्रत्यक्षं व्यावहारिकं देहात्माभेदं गृह्णाति । अतो भ्रान्तमिति चेन्न । किमत्र व्यावहारिकं यदैक्यं गृह्णातीत्यर्थः । उतैक्यं व्यावहारिकं गृह्णातीति ।

नाद्यः । तदभावात् । द्वितीये ऐक्यांशे प्रमा स्यात् । न चेष्टापत्तिः । अन्योन्यात्मकतामध्यस्येति विरोधात् ॥ चतुर्थेति ॥ विमतं तात्त्विकस्वान्तर्भेदहीनामित्यत्रेत्यर्थः । अत्र विमतपदेन जगदाख्यः पदार्थः पक्षीकृतः । अत्र घटाद्यतिरिक्तस्तदनुगत उच्यते । उत घटादिरेवेत्यभिप्रेत्या क्रमेण निराह । यथा विजातीयगजतुरगाद्या एकदेशत्वोपाधिना एकराजाधीनत्वोपाधिना वा एकदेशेनेत्युच्यते न गजाद्यतिरिक्तांशे नास्ति । तथा घटाद्या एकबुद्ध्युपारूढत्वाद्युपाधिना जगदुच्यते । एवञ्चातिरिक्तजगत एवाभावेनाभेदसाधने बाध इत्यर्थः । एकैकस्य घटादेरनेकत्वायोगादिति भावः । तन्त्वारब्धपटवज्जगदपि किन्न स्यादित्यत आह — पृथिव्यादीनामिति ॥ पृथिवीत्वं जलत्वं विना पृथिव्यां जलत्वं च तद्विना जले तद्द्वयमपि जगति कारणगतजातेः कार्येऽप्यावश्यकत्वादिति साङ्कर्यमिति भावः ॥ द्रव्यत्वापत्तिश्चेति ॥ समवायिकारणत्वस्यैव द्रव्यत्वपदार्थत्वादिति ज्ञेयम् ॥ द्रव्यारम्भकत्व इति ॥ निरवयवस्य महतो द्रव्यारम्भकत्वे सिद्धान्तहानिप्रसङ्गाच्चेत्यर्थः । किञ्च घटादिपदार्थानां जगदारम्भकत्वं प्रत्येकं मिलितानां वा । नाद्यः । एकस्यानारम्भकनियमात् । अनेकानुगतधीविरोधाच्च । न द्वितीयः । भूतभविष्यतां जगदुत्पत्तौ मेलनासम्भवात् । किञ्च जगत आरभ्यत्वेऽनाद्यन्तं जगदेतदिति वचनविरोधः । घटादीनां जगत्त्वेऽप्यनादित्वविरोध इति चेन्न । घटादिप्रवाहस्य जगत्त्वात् । घटाद्यभावकाले गगनादौ जगत्त्वस्य पर्याप्तत्वाच्च । द्वितीयं दूषयति — घटादिपदार्थानामिति ॥ स्वप्रतियोगिकेति स्वान्तशब्दस्य तदर्थत्वौचित्यादिति भावः । अस्तु वैको वा जगत्पदार्थः । आकाशे आकाशांशभेदसत्त्वात्साध्यवैकल्पम् । कथं तत्रंशभेद इत्यत आह — आकाशभेदसाधनं त्विति ॥ अन्यत्र मन्दारमञ्जर्याम् । तथा हि । आकाशः स्वाभाविकस्वान्तर्भेदवान् युगपदनेकमूर्तसंयोगित्वात् । न च कालादौ व्यभिचारः । पक्षतुल्यत्वात् । न च हेतुरप्रयोजकः । आकाशानां यदि भेदो न स्यात् तर्हि मूर्तानां सामानाधिकरण्यं स्यादिति बाधकरण्डसत्त्वात् । न चौपाधिकभेदाद विरोधः । उपाधीनामपि सामानाधिकरण्यविरोधात् । अन्यथा घटादीनामपि तत्सङ्गप्रतियोगित्वोपाधिनौपाधिकः स्वांशभेदः स्यात् । न स्वाभाविकः । किञ्चाहं देशान्तरादागतो देशान्तरे च गच्छामि । इह पक्षी नेह पक्षीत्यादिप्रतीतिस्तद्भेदे मानम् । न चास्यालोकादिभेदविषयत्वम् । अन्धकारेऽपि स्पार्शनादिनेह स्तम्भो नेह स्तम्भ इति प्रतीतेः । किञ्च यत्र गृध्रस्तत्रैव रात्रावपीत्यधिकरणैक्यं प्रतीयते । सौरचन्द्रावलोकयोश्चान्यत्वेनालोकविषयत्वे तदसम्भवात् । किञ्च यत्रालोकस्तत्रान्धकार इति धीर्नलोकाधिकरणत्वं सहते । न च सर्वासां प्रतीतीनामौपाधिकविषयत्वं वाच्यम् । इह पक्षी नेह पक्षीत्यादावुपाध्यदर्शनात् । न च पक्षिशरीरतदभावयोरेकाधिकरण्यम् । आत्माश्रयात् । उपलक्षके चेत्प्रदर्शिता । स्वाभाविकैकदेशाभावे घटस्योपाधेयार्वदाकाशसम्बन्धित्वम् । सर्वोऽपि घटाकाशः स्यात् । यदत्रोक्तं घटाकाशः स्यादिति कोऽर्थ इति । तत्रायमेव प्रदेशो घटाकाशो नान्यः । किन्तु महाकाशोऽयमिति यद्वैलक्षण्यं प्रतीयते तन्न स्यादिति ॥ यच्चोक्तमुपादेयवदाकाशसम्बन्धित्वेऽप्युपाधेः प्रतिबिम्बपक्षपातित्वेन स्वपरिमाणादिकं प्रतिबिम्बभूतघटाकाश एवोपरञ्जयति । न महाकाश इति ॥ तत्तु प्रक्रियाविलसितम् । घटाकाशमहाकाशयोर्बिम्बप्रतिबिम्बभावस्यैवाभावात् । पूर्वमेकमेकमेव मुखमिदानीं मुखान्तरमुत्पन्नमितिवदाकाशान्तरमुत्पन्नमित्यप्रतीतेः । किन्तु पूर्वप्रदेशोऽयं चैक एवाभूदिदानीं विच्छिन्नं भागद्वयमित्येव प्रतीतिः । तथाऽप्युपाध्यनुसरणनियमाद्भेदस्य न स्वाभाविकत्वमित चेन्न । सूक्ष्मबुद्धीनामुपाध्यभावेऽपि भेदप्रतीतेः । मूढबुद्धीनां तु समुद्रमध्यपतितस्य पाराद्यदर्शनावस्थायां जलानामन्योन्यसादृश्यात्संश्लेषविशेषाच्च जलभेदाज्ञानवदुपपत्तेः । कुतश्चायं स्वाभाविकभेदे प्रद्वेषः । सावयवत्वेऽनित्यत्वं स्यादिति चेन्न । कृतकत्वस्य विरोधिसन्निपातस्य द्रव्यत्वावच्छिन्ने साध्ये मध्यमपरिमाणस्यैव बाधितत्वात् । सांशत्वेऽपि सोपादानत्वरूपसावयवत्वानङ्गीकाराच्चेत्यलं प्रपञ्चेन । यच्चोक्तं संयोगः स्वात्यन्ताभावसमानाधिकरण इति । तन्न । विरोधात् । अग्रे वृक्षः कपिसंयोगी मूले नेत्यबाधितप्रतीतिबलादङ्गीक्रियत इति चेन्न । अग्रे मूले चेत्यधिकरणभेदस्यैव प्रतीतेः । न च वाच्यं वृक्षः संयोगी नेत्युभयत्र वृक्षस्यैव विशेष्यतया भानात्तस्यैवाधिकरणत्वम् । नाग्रमूलयोरिति ॥ तथात्वेऽग्रे मूले चेति सप्तम्यनुपपत्तेः । अग्रमूल पुरस्कारं विनाऽपि संयोगतदभावप्रतीत्यापत्तेश्च । अग्रमूलयोरप्यधिकरणत्वानुभवविरोधाच्च । अग्रे वृक्षः कपिसंयोगीत्यादौ मतुपः संयोगतदभावसम्बन्धितासामान्यविषयकत्वेनाधिकरणताऽविषयत्वाच्च । तस्मान्नेयं प्रतीतिर्वृक्षाधिकरणत्वगोचरा । किन्तु मूलाग्रयोरेवाधिकरणत्वम् । वृक्षस्तु तादृशमूलाग्रवानिति परम्परया संयोगतदभावयोर्वृक्षसम्बन्धिता गोचरतैव । अन्यथाऽग्रे कपिर्मूले नेति प्रतीत्या कपेरपि स्वात्यन्ताभावसमानाधिकरणत्वं स्यात् । स्वात्यन्ताभावसमानाधिकरणत्वं नाम तदधिकरणसमवेतत्वमेवेति चेन्न । संयोगात्यन्ताभावस्य तदभावापत्तेः । तस्मात्स्वस्वोचितसम्बन्धेन स्वात्यन्ताभावसमानाधिकरणत्वं कप्यादीनां सुवचमेव । कपिसंयोगस्यैव तथात्वेन तदुपपत्तौ कपेरपि तत्कल्पने गौरवमिति चेत् तर्हि संयोगस्य यः समवायस्तस्यैव तथात्वेनोपपत्तौ संयोगस्यातत्कल्प्यम् । किञ्चाग्रे वृक्षश्च समवायी मूले नेति प्रतीत्या समवायोऽपि स्वात्यन्ताभावसमानाधिकरणः स्यात् । अपि च वृक्षादावंशभेदेनोपपत्तावप्याकाशभेदेऽनङ्गीकारेण तदनुपपत्तेश्चेत्यलम् ।

(३५)भेदचन्द्रिका

प्रमेयत्वं प्रमाविषयत्वम् । अप्रमेयत्वमप्रमाविषयत्वम् । प्रतीतित्वं प्रतीतिविषयत्वम् । क्वचित्तु प्रतीयमानत्वं प्रमात्वं प्रतीतित्वं सामान्यं वेति पाठः । तत्र प्रतीयमानत्वघटकं प्रतीतित्वमित्यर्थः ॥ प्रत्यक्षप्रतीतेरपीति । भ्रमरूपचन्द्रभेदप्रत्यक्षरूपप्रतीतेरपि त्वन्मते प्रातिभासिकत्वेनोभयसाधारणसामान्यायोगादित्यर्थः ॥ भेदाभेदेति ॥ भेदाभेदयोर्मिथ्यात्वाभावादनैकान्त्यमित्यर्थः । ननु तस्यापि पक्षीकरणान्नानैकान्त्यमित्यत आह — तस्यापीति । भेदाभेदस्य पारमार्थिकत्वमवश्यमङ्गीकार्यम् । तत्रापि मिथ्यात्वे साध्ये बाध इत्यर्थः । कुतः पारमार्थिकत्वमङ्गीकार्यमित्यत आह — भेदाभेदयोरिति ॥ अनेन भेदाभेदसाधकेन । ननु भेदाभेदयोर्भेदो यदि प्रातिभासिकः स्यात्तदा भेदमिथ्यात्वसाधकेनाभेदस्यापि मिथ्यात्वं स्यात् । न चैवं किन्तु व्यावहारिकः । अत एव न बाधोऽपि । व्यावहारिकस्यापि मिथ्यात्वादत आह — व्यावहारिकभेदसद्भावेऽपीति ॥ जीवब्रह्मणोरिव व्यावहारिकभेदस्य पारमार्थिकभेदविरोधित्वाभावात् । पारमार्थिकाभेदाभिन्ने भेदे पारमार्थिकत्वमावश्यकमिति दुरुद्धरो विरोध इत्यर्थः । पारमार्थिकापारमार्थिकेति ब्रह्मप्रपञ्चयोर्विशेषणं तद्भेदपारमार्थिकत्वद्योतनाय । तस्यापि पक्षत्वे आह — बाधो वेति ॥ ब्रह्मप्रपञ्चयोर्भेदस्यापारमार्थिकत्वे द्वयोः पारमार्थिकत्वमपारमार्थिकत्वं वा स्यात् । न त्वेकस्य पारमार्थिकत्वमपरस्यापारमार्थिकत्वमतस्तस्य पारमार्थिकत्वे वक्तव्ये तत्र च मिथ्यात्वे साध्ये बाध इत्यर्थः ।

ननु ब्रह्मप्रपञ्चभेदस्यापारमार्थिकत्वेऽपि तयोः पारमार्थिकत्वापारमार्थिकत्वव्यवस्था प्रकारान्तरेण भविष्यतीत्याशयेन शङ्कते — ब्रह्मण इति ॥ धर्मिसत्तासमानसत्ताकभेदतदभावापारमार्थिकत्वपारमार्थिकत्वव्यवस्थापकावित्यत्र नियामकाभावात् । विपरीतो नियम्यनियामकभावः किन्न स्यादित्यत आह — तर्हीति ॥ तथा च न साधनव्यापकतेति भावः । अन्योन्यधर्मांश्चेत्यस्योपन्यासस्तु व्यवहितेनाधस्थेनान्वयप्रदर्शनार्थः । क्वचिदन्योन्यात्मकमध्यस्थेत्येव पाठः ॥ गौरोऽहमिति ॥ देहात्माभेदस्य मिथ्यात्वाभावे गौरोऽहमित्यादिज्ञानस्याप्रमात्वप्रसङ्गाद्विषयाभावादिति भावः ॥ चतुर्थ इति ॥ विमतं तात्त्विकस्वान्तर्भेदहीनं मतत्वत इत्यत्रेत्यर्थः । जगदत्र पक्षः । तच्च पटादिवन्न घटपटारब्धद्रव्यान्तरं किन्तु सेनावनादिन्यायेन केनचिदुपाधिविशेषणं प्रमेयत्वादिना क्रोडीकृतम् । घटपटाद्येव तत्र तात्त्विकस्वान्तर्भेदहीनत्वे साध्ये बाधः । ब्रह्मप्रपञ्चयोस्तात्त्विकभेदस्य साधितत्वाद् घटादिरूपजगति तत्प्रयोगिकाभेदसाधने इष्टापत्तेरग्रे वदिष्यति । ननु पृथिव्याधारजगदाख्यः पदार्थः किन्न स्यादित्यत आह — पृथिव्यादीनामिति ॥ प्रथिव्याद्यारब्धस्यावयविनः प्रथिवीत्वादिनियमाज्जगति पृथिवीत्वादेः साङ्कर्यं स्यादित्यर्थः ॥ द्रव्यत्वापत्तिश्चेति ॥ समवायिकारणं द्रव्यमिति तल्लक्षणादिति भावः ॥ घटादीनामिति ॥ द्रव्यारम्भकत्वेति । द्रव्यानारम्भकं कार्यद्रव्यमन्त्यावयवीति तल्लक्षणत्वादिति भावः ॥ आकाशभेदसाधनमिति ॥ आकाशांशनां स्वाभाविकभेदसाधनमन्यत्र न्यायामृतादौ कृतमित्यर्थः ।

तथा च पराभिप्रेतसाध्यस्यापि तत्र वैकल्यमित्यर्थः ।

(३५)भेदसञ्जीविनी

॥ किमिदं प्रतीयमानत्वमिति ॥ प्रतीयमानत्वघटकप्रतीतित्वमित्यर्थः । क्वचित्प्रतीतत्वमित्येव पाठः ॥ तवेति ॥ त्वन्मते (भेदप्रतीतेः) भ्रमत्वादिति भावः ॥ ममेति ॥ तत्प्रतीतेः प्रमात्वस्यैव मयाऽङ्गीकृतत्वादिति भावः ॥ त्वत्पक्ष इति ॥ प्रतीतेरिति ॥ त्वत्पक्षे भ्रमस्याविद्यावृत्तिरूपतया विषयत्वान्मिथ्यात्वेन तत्र प्रतीतित्वस्यैवाभावेन प्रतीतिविषय[त्वस्य]चन्द्रभेदेऽसत्त्वाद्दृष्टान्ते साधनवैकल्यमित्यर्थः । प्रामाणिकाप्रामाणिकयोरेकजातिस्त्वन्यत्र निराकृतेति भावः ॥ भेदाभेदभेद इति ॥ भेदाभेदयोर्भेदस्तत्रेत्यर्थः ॥ बाध इति ॥ तस्य पारमार्थिकत्वावश्यम्भावादिति भावः । कुत इत्यतस्तदुपपादयति — भेदाभेदयोरिति ॥ अनेनैवेति ॥ भेदमिथ्यात्वसाधक[बाधक]स्यैवाभेदमिथ्यात्वसाधकत्वावश्यम्भावादिति भावः । परमार्थतस्तयोरभेदेऽपि व्यावहारिकसर्वव्यवस्थासम्भव इत्यत आह — व्यावहारिकभेदसद्भाव

इति ॥ परमार्थत इति ॥ अपरमार्थतो ब्रह्मणो भिन्नस्येति च्छेदः । तथा च पारमार्थिकब्रह्मणाऽपरमार्थतो भेदवतो जीवस्य पारमार्थिकाभेदवत् । पारमार्थिकभेदेन सहापारमार्थिकभेदवतो जीवस्य भेदस्य भेदेन सह पारमार्थिकाभेदस्य सत्त्वेन पारमार्थिकत्वप्राप्त्या मिथ्यात्वसाधने बाध एवेति भावः ॥ परमार्थतोऽभेदादिति ॥ परमार्थतोऽभेदादित्यर्थः । न च स्वरूपतः परमार्थस्य पारमार्थिकप्रतियोगिकपारमार्थिकभेदाभावस्तस्य पारमार्थिकत्वापादकः । जीवब्रह्मणोर्दृष्टत्वात् । न चेह तथा भेदस्यापारमार्थिकत्वादिति वाच्यम् । व्याप्यतावच्छेदककोटौ पारमार्थिकत्वनिवेशे गौरवात् साध्यस्यापि हेतुज्ञानकाले एवसाध्यत्वप्राप्त्या तेन साधनाभावप्रसङ्गाच्च । अतः यत्प्रतियोगिकपारमार्थिकभेदाभावो यत्र तत्र परमार्थतस्तदात्मकत्वमित्येव व्याप्तिः । असत्यपि सत्प्रतियोगिकभेदः पारमार्थिक एवातो न कुत्रापि व्यभिचार इत्याशयेनोक्तापादनात् । केषुचित् पुस्तकेषु व्यावहारिकभेदसद्भावेऽपि परमार्थतो ब्रह्मणो भिन्नस्य जीवस्य पारमार्थिकत्ववत्परमार्थतः पारमार्थिकाभेदाभिन्ने भेदे पारमार्थिकत्वं स्यादिति मिथ्यात्वसाधने बाध इति पाठस्तत्र न कोऽपि क्लेशः ॥ पारमार्थिकापारमार्थिकेति ॥ इदं च भेदस्य मिथ्यात्वे ब्रह्मणोऽपारमार्थत्वं (प्रपञ्चस्य परमार्थत्वं) स्यादित्यनिष्टसूचनाय ॥ व्यभिचारश्चेति ॥ पक्षबहिर्भाव इत्यादिः ॥ बाधो वेति ॥ पक्षान्तर्भाव इत्यादिः । प्रपञ्चप्रतियोगिकब्रह्मधर्मिकभेदस्य मिथ्यात्वान्न तत्र व्यभिचारबाधौ । न च तर्हि ब्रह्मणोऽपारमार्थिकजगता सहाभेदापत्तिः । इष्टापत्तेः । न च तर्हि ब्रह्मणोऽपारमार्थिकत्वापत्तिः । आपादकाभावात् । अपारमार्थप्रतियोगिकाभेद एवापादक इति चेत् (न) । स्वसमानसत्ताकतादृशाभेदस्यैवापारमार्थिकत्वं प्रति व्याप्यत्वाभ्युपगमात् । ब्रह्मणि तदभावेनापादनायोगात् । नापि ब्रह्मप्रतियोगिकप्रपञ्चनिष्ठभेदे बाधव्यभिचारौ तस्य मिथ्यात्वाभ्युपगमात् । न च तर्हि ब्रह्मणोऽपि मिथ्यात्वं स्यात् परमार्थनिष्ठाभेदप्रतियोगित्वादिति चेन्न । अपारमार्थिकनिष्ठप्रतियोगिसमानसत्ताकाभेदे प्रतियोगित्वस्यैवापारमार्थिकत्वव्याप्यत्वेन जगन्निष्ठब्रह्माभेदस्य ब्रह्मसमानसत्ताकत्वाभावेनापादनासम्भवात् । अन्यथाऽऽरोपितरजतानुयोगिकाभेदवच्छुक्तेरप्यपारमार्थिकत्वं स्यादित्यभिसन्धिपूर्विकामाशङ्कामुद्घाट्य दूषयति — ब्रह्मण इति ॥ धर्मिसमानसत्ताकोऽभेद इति ॥ अभेद इति छेदः । अपारमार्थिकप्रतियोगिकाभेद इत्यर्थः । तस्य व्याप्तिग्रहाय सहचारं दर्शयति — घटादाविति ॥ सोऽस्तीत्यपारमार्थिकप्रतियोगिकधर्मिसमानसत्ताकभेद इत्यर्थः । एतेन प्रपञ्चे ब्रह्मभेदस्य मिथ्यात्वमाश्रित्य कृता शङ्काऽपि तुल्यन्यायेनोपपादितप्राया भवतीति न न्यूनता । तत्पक्षस्य शङ्कायामेवानभिप्रेतत्वे पूर्वं सामान्योक्त्या ब्रह्मप्रतियोगिकप्रपञ्चभेदे प्रपञ्चप्रतियोगिकब्रह्मभेदे च व्यभिचारबाधयोरुक्तत्वेनैकत्र तद्दोषमुद्धृत्यान्यत्र तदकरणे शङ्काया असामाञ्जस्यप्रसङ्गात् । न च भेदद्वये व्यभिचारादिशङ्काया अभिप्रेतत्वे ब्रह्मप्रपञ्चभेद इत्येकवचनासङ्गतिरिति वाच्यम् । प्रपञ्चैकस्याभावेन ब्रह्मघटभेदघटब्रह्मभेदपटभेदादिसङ्ग्रहाय जात्यैकवचनत्वात् । अपारमार्थिकत्वावच्छिन्नप्रतियोगिताकस्वसमानसत्ताकभेदशून्यत्वं यत्र तत्रापारर्थिकत्वमिति व्याप्तेर्घटादिप्रपञ्चान्तर्भावेन तवापि सिद्धत्वात् । अपारमार्थिक[त्व]प्रपञ्चप्रतियोगि[ता]कस्वसमानसत्ताकभेदे शून्यत्वे ब्रह्मणोऽपारमार्थिकत्वं दुर्वारं स्यात् । अतस्तस्य सत्यत्वेऽभ्युपगन्तव्ये बाधकव्यभिचारौ दुर्वारावेवेत्याशयेन समाधत्ते ॥ तर्हीति । स्वसमानसत्ताकभेद इति ॥ अत्र स्वसमानसत्ताकभेद इति छेदः । अन्ये तु बाधो वेति ब्रह्मप्रपञ्चभेदस्यापारमार्थिकत्वे[कं चेत्] द्वयोः पारमार्थिकत्वमपारमार्थिकत्वं वा

स्यात् । न त्वेकस्यैव पारमार्थिकत्वमपरस्य[स्या]पारमार्थिकत्वमित्यवश्यं भेदस्यापारमार्थिकत्वे वक्तव्ये तत्र मिथ्यात्वसाधने बाध इत्यर्थः । ननु ब्रह्मप्रपञ्चभेदस्यापारमार्थिकत्वेऽपि तयोः पारमार्थिकत्वापारमार्थिकत्वव्यवस्था प्रकारान्तरेण भविष्यतीत्याशयेन शङ्कते — ब्रह्मण इति ॥ धर्मिसत्तासमानसत्ताकभेदतदभावापारमार्थिकत्वपारमार्थिकत्वव्यवस्थापकावित्यत्र विपरीत एव नियम्यनियामकभावः किं न स्यादित्याह तर्हीत्याहुः । तन्मते उभयत्रापि भेद इत्येव छेदः । प्रपञ्चवदिति दृष्टान्तस्तु अपारमार्थिकत्वाशय एव । तदुक्तिरपि स्वरूपतो मिथ्यात्वापादनाय । अन्यथोपहितरूपेण मिथ्यात्वाङ्गीकारादिष्टापत्तिः स्यादित्यवधेयम् । क्वचित्पुस्तके वाक्यद्वयेऽपि धर्मिसमानसत्ताकभेद इति पाठो दृश्यते । ततचैष (तत्रैष) एवार्थ इति ध्येयम् ॥ प्रातिभासिकत्वमिति ॥ ब्रह्मज्ञानेतरबाध्यत्वादिरूपमित्यर्थः ॥ न चेति ॥ तत्प्रातिभासिकत्वम् । अन्योन्यस्मिन्निति युष्मदस्मत्प्रत्ययगोचरयोरित्यनेन प्रकृतयोरात्मानात्मनोरन्योन्यस्मिन् आत्मन्यनात्मनोऽनात्मन्यात्मनोऽध्यस्य सर्वोऽपि व्यवहार इति भाष्यार्थः ॥ गौरोऽहमिति ॥ गौरवर्णशरीरस्याहं पदार्थात्मनि भासमानाभेदस्याध्यस्तत्वादित्यर्थः । नन्वन्यतरचन्द्रस्यारोपितत्वादारोपितानारोपिताभेदस्य सत्य(साध्य)त्वात्साध्यविकलो दृष्टान्त इति सर्वगतत्वाधिकरणतत्त्वप्रकाशिकायामुक्तम् । न च चन्द्रान्तरारोपस्य पूर्वपक्षदूषितस्य सिद्धान्ते व्यवस्थापनपूर्वं साध्यवैकल्यस्य दृढीकृतत्वात् (तत्)परित्यागेन दूषणान्तरस्यैव कथनाच्च तद्विरोध इति चेन्न । यतश्चन्द्रान्तरारोप एव युक्तिसिद्धो भवति । तथा हि । चन्द्रान्तरारोपेऽङ्गुलिचलनादिनैकचन्द्रचलनस्यापरचन्द्रचलनाभावस्य च प्रत्ययानुपपत्तिः । क्रियामात्रस्य चन्द्र एवारोपस्वीकारात् । एवं वक्रत्वादेरप्युभयत्रापि तुल्यतया प्रत्ययप्रसङ्गश्च । अतो भीषणत्वादिविशिष्टसर्पस्य रज्जाविव वक्रत्वचलनादिविशिष्टचन्द्रस्यैवारोपो वाच्यः । न च पूर्वपक्षोक्तरीत्याऽधिष्ठानानुपपत्तिः । पुरोवृत्तिचन्द्रस्यैवाधिष्ठानत्वसम्भवात् । न च पुरोवृत्तिचन्द्रभिन्नतया प्रतीयमानस्य कथं (तत्)तादात्म्येन भानमिति वाच्यम् । तत्तादात्म्यभानं विनैव चन्द्रस्य भ्रमगोचरतासम्भवात् । न च भ्रमविषयस्य नियमेनाधिष्ठानतादात्म्येनैव भानमिति नियमः । परमते स्फटिकादौ लौहित्यरूपप्रतिबिम्बाध्यासस्थले प्रतिबिम्बस्य, सर्वपक्षेऽत्रैव भ्रमे भासमानक्रियादेः, स्थिरेष्वेव पर्वतादिषु चलनभ्रमस्थले चलनादेः, केशोण्ड्रकादिभ्रमस्थले च दीर्धतया भासमानरश्म्यादीनां च तादात्म्येन भासमानवस्त्वन्तरानिरूपणात् । पर्वतादिवृत्तिरूपादीनामारोप्यमाणादतिरिक्तत्वेनैव भानात् । केशोण्ड्रकादिस्थले तेषां दीपसम्बन्धित्वेनैव भानेन तदतिरिक्तत्वस्यैव दर्शनात् । अन्तरालभागे तत्तादात्म्यापन्नतया भासमानस्यैन्द्रियकस्यानुपलम्भात् । स्फटिकरूपे लौहिताभेदाध्यास इत्युक्तावपि मुखाध्यासस्थलेऽगतिरेव दर्पणान्तर्गततयैव भानात् । न च मायावादिना बौद्धेन वा निरधिष्ठानभ्रमः स्वीकर्तुं शक्योऽपसिद्धान्तप्रसङ्गात् । न च भ्रमविषयीभूततादात्म्येन भासमानत्वस्यैव तदधिष्ठानरूपत्वाच्चन्द्रादीनां चातथात्वात्कथमधिष्ठानत्वमिति वाच्यम् । उक्तभ्रमेऽधिष्ठाननिरूपणान्यथाऽनुपपत्त्या शुक्तिरजतादिभ्रमे रजतादौ भासमानसत्त्वस्याधिष्ठानभूतसत्पदार्थनिरूपणान्यथाऽनुपपत्त्या च तद्भ्रम[तदुप]जनककरणसन्निकर्षाश्रयत्वस्यैवाधिष्ठानत्वपदार्थत्वाभ्युपगमात् शुक्तिकासन्निकृष्टचक्षुषा दोषवशाद्रजताकारज्ञानमिवोक्तदोषसहितचक्षुषा सह चन्द्रदीपादीनां सन्निकर्षवशादेव चन्द्रदीपादिषु प्रतीयमानवक्रत्वादिमच्चन्द्रान्तरभेददीर्घाकाररश्म्याद्याकारकज्ञानोत्पत्य[ज्ञानासत्त्वा]ङ्गीकारात् । तत्र भासमानारोपितचन्द्रस्यासत्त्वेन सत्यचन्द्रे भासमानतद्भेदस्य सत्यत्वात् । न चैक एवायं चन्द्र इति भेदबाधानुभवविरोधः । अनयोरन्यतर एक एव चूतोऽपरः पनस इति चूतपनसयोः स्वरूपस्वत्वावगाहित्वपूर्वकं तयोस्तादात्म्यमात्रस्य बाधावगाह्यनुभववदनयोरभेद एव न तु भेद इत्यनुभवाभावात् । प्रत्युत भासमानयोरनयोर्मध्ये एतत्प्रदेशस्थ एक एव चन्द्रोऽस्ति न त्वपर इति भेदावशेषपूर्वकं चन्द्रस्यैव बाधानुभवात् । न चारोपप्रयोजकस्मरणानुपपत्तिरूपपूर्वपक्षोक्तदोषः । तस्य प्रधानज्ञानमुद्रया अपेक्षितत्वेन परिदृश्यमानचन्द्रस्याधिष्ठानस्यापि प्रधानत्वे बाधकाभावेन तज्ज्ञानमात्रेणारोपोपपत्तेः । तज्ज्ञानं चानुभवरूपं यथाकथञ्चित्स्मरणरूपं वा । त्वन्मते भेदभ्रमहेतुभेदज्ञानवदित्युभयथाऽपि न दोषः । चन्द्रान्तरारोपोऽपि बौद्धसम्मतः । यत्स्वरूपत एव कल्पितं तन्मिथ्या यथाऽङ्गुल्यवष्टम्भनिमित्तोऽपरश्चन्द्रमा इति विष्णुत्तत्त्वनिर्णयटीकायां तन्मतोपन्यासात् । इत्थं च चन्द्रान्तरस्यारोपितत्वेन तद्भेदस्य सत्यत्वेन टीकोक्तं दृष्टान्ते साध्यवैकल्यं सुदृढमेव । एतद्ग्रन्थे तद्व्यवस्थापनाभावस्तु भेदत्वहेतोरसिद्धेरप्युक्तत्वेन तादृशासिद्धेर्भेदारोपपक्षाश्रयतात्पर्येणाप्युपपादयितुं शक्यत्वेनैकस्मिन्नेव पक्षे निर्भरस्याप्रदर्शितत्वात्तद्व्यवस्थापनानावश्यकतेति सहृदयैराकलनीयम् ॥ चतुर्थे त्विति ॥ विमतं तत्त्वत इत्यनुमान इत्यर्थः ॥ उपाधिभेदेनेति ॥ पृथिव्यादिसमुदायत्वेनेत्यर्थः ॥ पदार्थान्तराभावेनेति ॥ न चापेक्षाबुद्ध्या समुदायाख्यं नानासमुदायं शङ्क्यम् । एकं विशिष्टमुत्पद्यते । तत्र न वक्ष्यमाणदूषणानां प्रसक्तिः । तत्रांशवृत्तिधर्माणामनङ्गीकारात् । अन्यथा दण्डसम्बन्धाद्दण्डविशिष्टपुरुषोत्पत्तौ दण्डत्वपुरुषत्वजात्योः साङ्कर्यापत्तिरिति वाच्यम् । वर्तमानकालमात्रवृत्तिसमुदायस्य तथा वक्तुं शक्यत्वेऽप्यतीतानागतानां ज्ञानानां मेलनस्य कदाऽप्ययोगेन प्रकृते तादृशसमुदायोत्पत्तेर्वक्तुमशक्यत्वादित्यभिप्रायात् । घटादितुल्यतया पृथिव्याद्यारब्धत्वाङ्गीकारे वक्ष्यमाणदूषणानामपि सङ्गतेः ॥ बाध इति ॥ भेदस्य प्रत्यक्षतः सत्यत्वेनैव निश्चितत्वादिति भावः ॥ पृथिवीत्वादीनामिति ॥ दारुपाषाणादिनिर्मितगृहादावप्येष(प्येवं) दोषः स्यादिति चेन्न । तस्य सर्वप्रत्यक्षादिसिद्धत्वेन यथाकथञ्चिद्दोषपरिहारसम्भवेऽपि प्रकृतस्याप्रामाणिकत्वादेवैते दोषा अभ्युच्चयत्वेनोक्ता इत्यभिप्रायात् ॥ गुणादीनामिति ॥ द्रव्यत्वापत्तिश्चेति ॥ समवायिकारणत्वस्य द्रव्यलक्षणत्वादित्यर्थः ॥ निरवयवानामिति ॥ न च निरवयवपरमाणूनां द्रव्यारम्भकत्वदर्शनात्कथमेतदिति वाच्यम् । गगनस्यैकस्य द्रव्यान्तरारम्भकत्वे लोके गगनव्यवहारभागिपदार्थस्यैवाभावप्रसङ्गः । घटारम्भकपरमाणूनामिव तस्य पृथगप्रतीतेः । अंशत आरम्भकत्वं तु निरवयवस्यानुपपन्नमिति तात्पर्येण निरवयवत्वविशेषणोपादानात् ॥ आकशभेदसाधनमिति ॥ आकाशांशानां स्वाभाविकभेदसाधनमित्यर्थः । अन्यत्र न्यायामृतादौ । तथा च पराभिमतस्वान्तर्भेदशून्य(रूप)त्वसाध्यस्यापि तत्र वैकल्यमित्याशयः ।

(३५)काशीतिम्मण्णाचार्य

परोक्तहेतुमपि दूषयति — भेदत्वेनेति ॥ इदंप्रतीयमानत्वमित्येकपदम् । इदं वक्ष्यमाणविशेषसामान्याकारबोधौपयिकं प्रतीयमानत्वपदं यत्परं तत्प्रतीतिविशेषणं किमित्यर्थः । तेन न वक्ष्यमाणविकल्पानुपपत्त्यवकाशः ॥ तवासिद्धेरिति ॥ भेदमात्रस्य मिथ्यात्वेन तत्प्रतीतेः प्रमात्वायोगात् पक्षदृष्टान्तयोर्हेत्वसिद्धेरित्यर्थः ॥ ममासिद्धेरिति ॥ घटपटादिभेदास्यारोपितानारोपितचन्द्रभेदस्य च सत्यत्वादिति भावः । न च चन्द्रान्तरस्यारोपितत्वे गौरवम् । चन्द्रसमीपदेशे चन्द्रान्तरारोपं विना तत्प्रतीत्यनुपपत्तेः । मिथ्यैव चन्द्रान्तरं प्रत्यभादित्यनुस्मृतेश्च । एतेन दृष्टान्ते साध्यवैकल्पं च सूचितम् ।

॥ चन्द्रभेदप्रत्यक्षप्रतीतेरिति ॥ तन्मते चन्द्रभेदप्रत्यक्षस्य भ्रमत्वेन प्रातिभासिकत्वाद् व्यावहारिकप्रातिभासिकयोरनुगतसामान्याभावेन हेत्वसिद्धेरित्यर्थः । अन्यथा बाष्पारोपितधूमादिमति वह्न्याद्यभावादनुमानोच्छेदप्रसङ्ग इति भावः । अभ्युपेत्यापि दोषमाह — भेदाभेदेति ॥ भेदाभेदयोर्यो भेदस्तत्रेत्यर्थः ॥ तस्यापि पक्षत्व इति ॥ तत्साधारणविमतेः पक्षतावच्छेदकत्वात् पक्षे व्यभिचारस्य चादोषत्वादिति भावः । ननु भेदाभेदभेदस्यापि मिथ्यात्वाङ्गीकारान् न बाध इत्यत आह — भेदाभेदयोरिति ॥ मिथ्यात्वं स्यादिति ॥ अभेदस्यापि भेदत्वेन पक्षत्वात् हेतुमत्त्वाच्चेति भावः । अत्रैव दोषान्तरमाह — व्यावहारिकेति ॥ पारमार्थिकः स्यादिति ॥ अभेदस्य पारामर्थिकत्वे तदभिन्नभेदस्य मिथ्यात्वायोगादिति भावः । भेदाभेदयोर् व्यावहारिकभेदसत्त्वात् कथमभेद इत्यत उक्तम् — परमार्थतोऽभिन्न इति ॥ व्यावहारिकभेदश्च न पारमार्थिकाभेदविरोधीत्याशयः । अत्र दृष्टान्तो व्यावहारिकेत्यादिः । स्थलान्तरे व्यभिचारमाह — पारमार्थिकेति ॥ पारमार्थिकं ब्रह्म अपारमार्थिकश्च प्रपञ्च इत्यनयोर्भेदस्य पारमार्थिकत्वात् तत्रापि व्यभिचार इत्यर्थः ॥ तस्यापीति ॥ ब्रह्मप्रपञ्चभेदस्यापीत्यर्थः । तस्यापारमार्थिकत्वे च ब्रह्मवत् प्रपञ्चस्य पारमार्थिकत्वापत्त्या तदन्तर्गतभेदे पुनर्बाध एवेत्यर्थः ।

स्यादेवं यदि ब्रह्मप्रतियोगिकपारमार्थिकभेदशून्यत्वं ब्रह्मधर्मापादकं स्यात् । न चैवम् । अपि तु ब्रह्मप्रतियोगिकधर्मिसत्तासमसत्ताकभेदशून्यत्वमेवातो नोक्तदोष इत्याशङ्कते — ब्रह्मणीति ॥ भेदो ब्रह्मभेदः ॥ प्रपञ्चवत् स्यादिति ॥ तुल्यन्यायेन प्रपञ्चप्रतियोगिकधर्मिसत्तासमानसत्ताकभेदशून्यत्वस्य प्रपञ्चधर्मापादकत्वप्राप्तेरिति भावः । चन्द्रभेद इति साध्यव्यापकत्वप्रदर्शनार्थम् । यद्यपि मिथ्यात्ववति घटदौ न प्रातिभासिकत्वम् । तथापि भेदत्वावच्छिन्नसाध्यव्यापकत्वादुपाधित्वमिति ॥ नन्वस्य साधनव्यापकत्वान् नोपाधित्वम् । भेदत्वेन पक्षेऽप्युपाध्यनुमानादित्याशङ्कां वारयति — न चेति ॥ तथा चापसिद्धान्त इति भावः । शङ्करभाष्यविरोधमेव विवृणोति ॥ गौरोऽहमिति ॥ देहात्माभेदस्य मिथ्यात्वानङ्गीकारे तद्विषयस्य गौरोऽहमित्यादिज्ञानस्याबाधितविषयत्वेन प्रमात्वापत्त्या तद्भ्रमत्ववर्णनपरभाष्यविरोध इति भावः । प्रामाण्यप्रसङ्गाच्चेति पाठे तु दूषणान्तराभिधानमेतदिति ज्ञातव्यम् । यत्तु जीवेशाभेदस्यापि मिथ्यात्वमिष्टमेवेति नोक्ताभाससाम्यापत्तिः । न चैवं भेदस्य सत्यत्वा

पत्तिः । श्रुत्या दृश्यत्वावच्छेदेनैव मिथ्यात्वावधारणादिति तत् तुच्छम् । भेदाभेदोभयमिथ्यात्वस्य व्याहतत्वेन श्रुत्यापि प्रतिपादयितुमशक्यत्वात् । उपपन्नस्यैव श्रुत्यर्थत्वात् । अन्यथाऽभिमान्यधिकरणविरोधादिति ।

चतुर्थानुमाने विमतं जगत् तत्त्वतः स्वान्तर्भेदहीनं मेयत्वाद् गगनवद् इत्यत्र गगनादिवज् जगतः स्वतन्त्रपदार्थत्वे तदवयवरूपतदेकदेशप्रसिद्ध्या तदभेदरूपसाध्यसिद्धिः स्यात् । न चैवम् । नानावस्तूनामेव सेनावनादिपदार्थत्ववत् समूहत्वविशेषोपाधिना जगत्पदार्थत्वात् । तदवच्छिन्ने च साध्यस्य विशेषणाप्रसिद्ध्या बाध इत्याह — चतुर्थे त्विति ॥ नन्वस्तु तर्हि गगनादिवज् जगत् पदार्थान्तरमेव । न चैतावता पृथिव्यादीनां कथमभेदसिद्धिरिति वाच्यम् । पृथिव्यादीनां जगदुपादानत्वेन तदेकदेशत्वादित्याशङ्क्याऽह — पृथिव्यादीनामिति ॥ जातिसाङ्कर्यप्रसङ्ग इति ॥ पृथिव्याद्यारब्धस्य पृथिव्यादित्वनिमादिति भावः ॥ जगदन्तर्भूतानामिति जगदारम्भकत्वे हेतुः ॥ द्रव्यत्वापत्तिरिति ॥ उपादानत्वरूपारम्भकत्वस्य द्रव्यधर्मत्वादिति भावः । निरवयवानां विभुद्रव्याणां जगदाख्यद्रव्यारम्भकत्वे ततोऽपकृष्टपरिमाणत्वप्राप्त्या विभुत्वव्याघात इति द्रष्टव्यम् ॥ अन्त्यावयवित्वहानिश्चेति ॥ अन्त्याववित्वस्य द्रव्यानारम्भकद्रव्यत्वरूपत्वादिति भावः । इदमुपलक्षणम् । पृथिव्यारब्धस्य जगतोऽपि जगदन्तर्गतत्वेन जगदारम्भकत्वावश्यम्भावेन जगदन्तरस्वीकारापत्त्याऽनवस्था च बोध्या । ननु विशिष्टघटादिः स्वान्तर्भेदहीन इति साधनान्नोक्तदोष इत्याशङ्क्य साध्यविकल्पेन दूषयति — घटादिपदार्थानामिति ॥ साध्यविकल इति ॥ मया गगने घटादिप्रतियोगिकपारमार्थिकभेदाभ्युपगमादिति भावः । स्वैकदेशभेदाभावसाधनेऽप्याह — आकाशेति ॥ आकाशैकदेशानामाकाशेन मिथश्च तात्त्विकभेदसाधनमन्यत्र न्यायामृतादौ कृतमतो दृष्टान्ते साध्यवैकल्यमिति भावः ।

एवं विमतौ परमार्थतः परस्पराभिन्नौ प्रमेयत्वात् परस्परवद् इत्याद्यशेषाभिलषितभेदसाधकानुमानेषु प्रत्यक्षादिप्रमाणबाधः । सर्वत्र साक्षिणः पारमेश्वरस्य च भेदप्रत्यक्षस्य प्रमाणसिद्धत्वात् । विमतौ न परमार्थतः परस्पराभिन्नौ परस्परविरुद्धधर्मवत्त्वाद् व्यतिरेकेण परस्परवद् इत्यनुमानात्, द्वा सुपर्णेत्याद्यागमाच्च । परस्परविरुद्धधर्मानधिकरणत्वमन्ततः पक्षेतरत्वमप्युपाधिः । विमतौ व्यवहारतो परस्पराभिन्नौ मेयत्वात् परस्परवद् इत्याभाससाम्यम् । अनुकूलतर्काभावादेवाप्रयोजकत्वं चेत्येवमाद्यन्तदोषदुष्टत्वान् नाद्वैतमुपादेयम् ।

यदत्र केनचित्प्रलपितम् । सोऽयं भेदः किं धार्मिस्वरूपस्तद्धर्मो वा । नाद्यः । भिन्नमिति प्रतीतौ प्रकारत्वानुपपत्तेः । घटभेदप्रतीत्योरविशेषप्रसङ्गाच्च । विषयवैलक्षण्याभावात् । ग्राहकसामग्रीवैचित्र्यानुप

पत्तेश्च । घटप्रतीतौ भेदसन्देहानुपपत्तेश्च । अज्ञातांशाभावात् । भेदस्य सप्रतियोगित्वानुपपत्तेश्च । धर्मिणो घटादेर्निष्प्रतियोगिकत्वात् । रूपादेरपि धर्मिस्वरूपत्वापत्तेश्च । भेदवदभेदस्यापि धर्मिस्वरूपत्वेन भेदाभेदयोरभेदापत्तेश्च । तत्प्रतीत्योरविशेषप्रसङ्गाच्च । तत्पदयोः पर्यायत्वापत्तेश्च । एतेन कारणत्वादीनां धर्मिस्वरूपत्वमप्यपास्तं वेदितव्यम् । द्वितीये भावोऽभावो वा ? नाद्यः । जात्यादिरूपत्वे सप्रतियोगिकत्वाद्यनुपपत्तेः । पृथक्त्वादिरूपत्वे च गुणादौ भेदप्रत्ययानुपपत्तेः । अन्योन्याभावेनैवोपपत्तौ पृथक्त्वरूपगुणान्तरानङ्गीकाराच्च । नान्त्यः । भेदस्यान्योन्याभावरूपत्वे कपिसंयोगवति वृक्षे तद्भेदसत्त्वप्रसङ्गात् । मूले वृक्षो न कपिसंयोगीति प्रतीतेः । अत्यन्ताभावरूपत्वे च नास्ति न भवतीति प्रतीत्योरविशेष प्रसङ्गात् । स्वस्मिन्नपि स्वात्यन्ताभावसत्त्वेन स्वभेदबुद्ध्यापत्तेश्च । तद्भेदस्य तद्धर्मात्यन्ताभावरूपत्वे च प्रथमदोषानिस्तारात् ।

किञ्च प्रतियोगिप्रमाणयोरभावान्न भेदसिद्धिः । तथाहि । न तावद् घटभेदस्य घटः प्रतियोगी । घटवति घटभेदानुपपत्तेः । लघवादभावत्वावच्छेदेनैव प्रतियोगिविरोधावधारणात् । किञ्च भेदस्याभेदाभावत्वेनाभेदस्यैव तत्प्रतियोगित्वं स्यात् । न चाभेदो घटादिस्वरूप एवेति वक्तुं शक्यम् । घटवति घटभेदानुपपत्तेः । न चाभेदस्यापि भेदप्रतियोगित्वं सम्भवति । तज्ज्ञानस्य भेदज्ञानाधीनत्वाद् भेदज्ञानस्य च प्रतियोगिज्ञानाधीनत्वेनान्योन्याश्रयात् । अत एव न तत्र प्रत्यक्षं प्रमाणम् । अन्योन्याश्रयात् । एवं घटे पटभेदाभेदयोः संशयनिश्चयदशायां पटे घटभेदनिश्चयादर्शनाद् घटभेदनिश्चये पटभेदनिश्चयस्य हेतुत्वं वाच्यम् । `यत्संशयव्यतिरेकनिश्चयौ यत्र प्रतिबन्धकौ तन्निश्चयस्तद्धेतु’रिति नियमात् । एवं पटभेदनिश्चये घटभेदनिश्चयस्य हेतुत्वमित्यन्योन्याश्रयः । किञ्च प्रतियोगित्वग्राहकसन्निकर्षाभावान्न प्रतियोगित्वविशेषितभेदप्रत्यक्षसम्भवः । ज्ञानमेव सन्निकर्ष इति चेत् हन्त तर्हि तज्ज्ञानं प्रतियोगित्वविषयं भेदज्ञानापेक्षमित्यन्योन्याश्रयः । नाप्यनुमानम् । देवदत्तो यज्ञदत्तभेदवान् तद्दुःखानुसन्धातृत्वादित्यादेरौपाधिकभेदेनाप्युपपत्तेः । अत एव नागमः । पारमार्थिकभेदासाधकत्वात् । तस्मात् सर्वाऽपि भेदप्रतीतिरनिर्वचनीयाविद्याविलास एवेति युक्तम् । तदुक्त`मसम्भावनीयावभासचतुरा हि से’ति ।

तदेतत् सर्वमपि विशेषाङ्गीकारपराहतम् । तथाहि — भेदस्तावद् धर्मिस्वरूपस्तद्धर्मश्च भवति । अभेदेऽपि धर्मधर्मिभावो विशेषप्रभावात् । अत एव भिन्नमिति प्रतीतौ प्रकारत्वमपि । घटभेद्रप्रतीत्योर्वैलक्षण्यमपि विशेषादेव । न च विशेषस्य तटस्थस्य प्रतीतिवैचित्र्यनियामकत्वे विषयवैयर्थ्याद् विज्ञानवादप्रसङ्गः । विषयविधया तथात्वे चानुभवविरोध इति वाच्यम् । घटत्वभेदत्वरूपप्रकारवैचित्र्यादेव प्रतीतिवैचित्र्यम् । प्रकारयोस्तु विशेषकृतं वैचित्र्यमित्यत्र दोषाभावात् । अत एव ग्राहकसामग्रीवैचित्र्यमप्युपपद्यते । ग्राह्यवैचित्र्यस्योपपादितत्वात् । एतेन घटप्रतीतौ भेदसन्देहानुपपत्तिरित्यपि निरस्तम् । घटत्वेन तत्प्रतीतावपि भेदत्वेन तदप्रतीतेः । घटत्वभेदत्वयोरभेदेऽपि विशेषसद्भावादेव तदुपपत्तेः । भेदस्य सप्रतियोगिकत्वमपि विशेषबलादेव । न चैवं घटो न सप्रतियोगिक इति व्यवहारानुपपत्तिः, सप्रतियोगिकभेदाभिन्नत्वादिति वाच्यम् । तदभिन्नत्वेऽपि तद्विशेषस्यैव तद्व्यवहारविषयत्वात् । अभेदे भेदकार्यनिर्वाहको विशेषः । रूपादेर्धर्मिस्वरूपत्वं त्विष्यत एव । न चैवं रूपप्रतीतौ रसादिप्रतीतिप्रसङ्गः । रसत्वादिना तदप्रतीतेर्विशेषत एवोपपत्तेः । भेदाभेदयोरभेदश्चेष्ट एव । परापेक्षया भेदस्य स्वापेक्षयाऽभेदत्वे बाधकाभावात् । न चैवं घटे स्वापेक्षयेव परापेक्षयाऽपि अभेदव्यवहार प्रसङ्गः । स्वरूपे विशेषभावादिति वाच्यम् । विशेषाभावे स्वापेक्षयेत्यस्यैवानुपपत्तेः । तद्भावे तु तत एव स्वाभेदो न पराभेदः । अत एव न भेदाभेदप्रतीत्योरविशेषः । न वा तत्पदयोः पर्यायत्वम् । प्रतिपाद्यवैचित्र्यस्योक्तत्वात् । एतेन कारणत्वादिकमपि व्याख्यातम् ।

यच्चोक्तं भावोऽभावो वेति, तत्र ब्रूमो यो भेदो यत्र प्रतीयते स तत्स्वरूप इति । न चैवं घटात्यन्ताभावे प्रतीयमानघटभेदस्य घटात्यन्ताभावरूपतया तस्य च घटेऽपि सत्त्वाद् घटभेदप्रतीतिप्रसङ्ग इति वाच्यम् । घटे घटभेदत्वेन तदसत्त्वात् । न च स्वरूपप्रतियोगिप्रतियोगितावच्छेदकाविशेषे भेदत्वात्यन्ताभावत्वयोरप्यविशेष इति वाच्यम् । घटनिषेधोऽत्यन्ताभावो घटतादात्म्यनिषेधोऽन्योन्याभाव इति विशेषात् । घटो न भवतीति साक्षाद्धटस्य प्रतियोगित्वं भासत इति चेद् घटोऽपि प्रतियोग्येव । तादात्म्यं भेदप्रतियोगितावच्छेदकमित्यप्याहुः ।

एतेन संयोगेन संयोग्यत्यन्ताभावस्य संयोगरूपसंयोगितादात्म्यावच्छिन्नप्रतियोगिताकतया तद्भेदत्वापत्तिरिति निरस्तम् । संयोगस्य संयोग्यत्यन्ताभावाप्रतियोगित्वात् । तदवच्छेदकत्वेऽपि संयोगत्वेनैव । न तु तादात्म्यत्वेनेति विशेषात् । वस्तुतोऽन्योन्यात्यन्ताभावयोः सदसत्प्रतियोगिकत्वाभ्यामस्ति महान् विशेषः । एतेन नास्ति, न भवतीति प्रतीत्योरविशेषप्रसङ्गोऽपि निरस्तः । यदपि मूले वृक्षः कपिसंयोगी नेति प्रतीतेर्मूलावच्छिन्नवृक्षे कपिसंयोगिभेदः सिद्ध्येदिति तदिष्टमेव विशिष्टभेदवादिनाम् । न चैवं प्रत्यभिज्ञाविरोधः । शाखामूलाद्यवच्छिन्नयोरभेदस्यापि सत्त्वात् । न च भेदाभेदयोर्विरोधः । विशेषबलादविरोधोपपत्तेः । न चैवं विशेष एवास्तु, किं भेदेनेति वाच्यम् । भेदस्य प्रमितत्वात् ।

यत्त्वभावत्वावच्छेदेन प्रतियोगिविरोधावधारणाद् घटवति घटभेदानुपपत्तिरिति । तदसत् । घटवति घटप्रागभावादेरनुपपत्तेः । प्रागभावादेः प्रतियोगिदेशवृत्तित्वस्य प्रमितत्वात् । प्रतियोगिकालावृत्तित्वरूपो विरोधस्तत्रावधार्यत इति चेत् तर्हि भेदस्य प्रतियोगिदेशकालवृत्तित्वस्य प्रमितत्वात् प्रतियोगिवस्त्ववृत्तित्वरूपो विरोधोऽत्रावधार्यताम् । प्रतियोगिनैकदैकत्रानवस्थानरूपविरोधः प्रागभावाद्यनुगत इति चेत् स्वाभावेनैकदैकत्रानवस्थानरूपविरोधो भेदाद्यनुगत इत्यस्तु । वस्तुतः प्रतियोगितावच्छेदकसम्बन्धेन प्रतियोगिविरोधः सर्वाभावसाधारणः । भेदस्यापि तादात्म्येन प्रतियोगिविरुद्धत्वात् ।

यदपि भेदस्याभेदाभावत्वान्न घटादेस्तत्प्रतियोगित्वमिति, तदपि न । प्रागभावादेरिव भेदस्य स्वाभावाभावत्वेऽपि घटादिप्रतियोगिकत्वाविरोधात् । अभेदस्य घटादिस्वरूपत्वेऽपि न दोषः । अभेदत्वेनाभेदस्य प्रतियोगिन्येव सत्त्वात् । घटत्वघटाभेदत्वयोर्विशेषसद्भावादेव घटत्वेन घटवति घटाभेदत्वेन तदसत्त्वसम्भवात् । यदपि भेदाभेदयोः परस्परज्ञानाधीन ज्ञानत्वादन्योन्याश्रय इति । तत्तुच्छम् । घटाभेदज्ञानहेतोर्घटभेदाज्ञानस्याघटत्वेन घटज्ञानमात्राधीनत्वात् । अत एव भेदप्रत्यक्षमप्युपपद्यते । यदपि घटपटभेदयोरन्योन्यज्ञानाधीनज्ञानत्वादन्योन्याश्रय इति । तदपि न साधु । घटपटभेदयोरन्योन्यसंशयस्य ग्राह्यसंशयवदन्योन्यज्ञानाप्रतिबन्धकत्वेनान्योन्यज्ञानाधीनज्ञानत्वासिद्धेः । अन्यथा ग्राह्यसंशयस्यापि प्रतिबन्धकत्वप्रसङ्गेन वस्तुमात्रस्यैव स्वज्ञानाधीनज्ञानत्वापत्या ज्ञानमात्रापलापापत्तेः । विपक्षे बाधकाभावेन यत्संशयेत्यादिनियमस्याप्रयोजकत्वाच्च । यदपि प्रतियोगित्वांशे सन्निकर्षाभावात् प्रतियोगिविशेषितभेदप्रत्यक्षानुपपत्तिरिति । तदतिमन्दम् । निर्विकल्पकोपस्थितेरेव सन्निकर्षत्वसम्भवात् । तस्याश्च भेदज्ञानानपेक्षत्वेनान्योन्याश्रयानवकाशरत् । प्रतियोगित्वस्य प्रतियोगिस्वरूपत्वेन तदुपस्थितेस्तत्सन्निकर्षत्वसम्भवाच्च ।

एवमनुमाने धर्मिसत्तासमानसत्ताकत्वेन भेदविशेषणादुद्देश्यसिद्धिः । न चाप्रयोजकत्वम् । विपक्षे चैत्रादेर्मैत्रादिदुःखानुसन्धानापत्तेर्बाधकत्वात् । चैत्रमैत्रयोरैक्याच्चैत्रचैतन्यस्य मैत्रीयदुःखाद्यनुसन्धानमिष्टमेवेति वाच्यम् । मैत्रशरीरोत्पन्नदुःखादेश्चैत्रशरीरेऽनुसन्धानस्यानिष्टत्वात् । न च तत्तच्छरीरगतान्तःकरणभेदादनुसन्धानाभाव इति वाच्यम् । योगिन्यनुपपत्तेरुक्तत्वात् । अत एवाऽगमोऽपि स्वाभाविकभेदमेव ग्राहयति । अत्त्यनश्नन् इत्युक्ताशनानशनयोः स्वाभाविकभेदेन विनाऽनुपपत्तेः । मुक्तौ भेदश्रुतीनामुदाहृतत्वाच्च । न च भेदस्य वस्तुस्वरूपत्वाङ्गीकारात् स्वरूपस्य च स्वाभाविकत्वे विवादाभावादर्थान्तरमिति वाच्यम् । यतो न भेदो वस्तुस्वरूपमात्रम् । धर्मधर्मिभावाद्यनुपपत्तेः । किन्तु तद्विशेष इत्युक्तम् । तथा च धर्मत्वपरप्रतियोगिकत्वादिविशेषितवस्तुस्वरूपविशेषस्य साध्यत्वान्न दोषः ।

अथ वस्तुस्वरूप एव विशेषसद्भावे किं मानमिति चेदिदं तावत् –स्वरूपस्य वस्त्वभिन्नत्वेऽपि वस्तुनः स्वरूपमिति सम्बन्धानुभवादेव स्वरूपस्य वस्तुतो विशेषसिद्धिः । एवं `यथोदकं दुर्गे वृष्टं पर्वतेषु विधावति । एवं धर्मान् पृथक् पश्यंस्तानेवानुविधावति’, `एकधैवानुद्रष्टव्यं’, `नेह नानास्ति’ इत्यादिश्रुतिभिर् ब्रह्मणस्तद्धर्माणां चाभेदः सिद्धः । दृश्यते च `सत्यं ज्ञानमनन्तं ब्रह्म’, `आनन्दं ब्रह्मणो विद्वान्’ इत्यादौ विशेष्यविशेषणभावादिना व्यवहारः । तदुभयविरोधादर्थादाक्षिप्यते विशेषः । एवं घटतद्धर्माणामपि पृथगनुपलम्भेनैकत्वे सिद्धे धर्मधर्मिभावादेर्विशेष एव शरणमिति ॥

यत्त्वनिर्वाच्याविद्यासामर्थ्यादेव सर्वलौकिकवैदिकव्यवहारोपपत्तौ किं विशेषेणेति । तत्तुच्छम् । अविद्याया विषयनिरपेक्षत्वे विज्ञानवादप्रसङ्गात् । तत्सापेक्षत्वे च तत्स्वभावभूतयोरभेदधर्मत्वयोर्विरोधध्रौव्यात् । अभेद एव स्वाभाविको धर्मत्वं तु मिथ्यैवेति चेत् तर्हि तत्प्रतिपादकश्रुतीनाम् अतत्त्वावेदकत्वादप्रामाण्यप्रसङ्गः । परमार्थतो निर्विशेषचैतन्यस्वरूपमात्रे सर्वश्रुतीनां तात्पर्यान्नायं दोष इति चेन्न । दृष्टादृष्टत्यागकल्पनाप्रसङ्गात् । प्रतीतविशेषपरित्यागेनाप्रतीतनिर्विशेषस्वीकारात् । शब्दतो निर्विशेषानुभवस्यादृष्टत्वाच्च । न च सोऽयमित्यादौ तत्तेदन्ताविशिष्टयोरभेदान्वयबाधेन स्वरूपमात्रबोधो दृष्ट एवेति वाच्यम् । तत्राप्यतीतसम्बन्धरूपतत्तोपलक्षितस्य तत्कालसम्बन्धध्वंसरूपतत्ताविशिष्टस्य वा वर्तमानकालसम्बन्धरूपेदन्त्वविशिष्टेनाभेदान्वयात् ।

किञ्चाद्वैतवादे तावदविद्यैव नोपपद्यते । विकल्पदोषात् । सत्यत्वे द्वैतप्रसङ्गात् । मिथ्यात्वे कल्पकाभावः । स्वकल्पितत्वे आत्माश्रयात् । अविद्यान्तरकल्पितत्वे चानवस्था । तथा च कुतो धर्मत्वादेर्मिथ्यात्वपरिकल्पनावकाशः । नन्वेवमनुपपन्नत्वं मिथ्यात्वे साधकमेव । उपपन्नत्वे हि सत्यत्वं स्यादिति चेत् तर्हि लाघवादात्मैवाविद्येति कल्प्यताम् । आत्मनोऽविद्यात्वमविद्यानिवृत्तावात्मनिवृत्त्यापत्त्याऽनुपपन्नमिति चेदत एव मिथ्येत्यस्य सुवचत्वात् । आत्मनोऽविद्यात्वमप्रामाणिकमिति चेत्तद्धर्मस्याविद्यात्वे किं प्रमाणमुपलब्धमायुष्मता प्रतीतप्रमाणानां निरस्तत्वादिति दिक् ।

नन्वेवं विशेषोऽपि नोपपद्यते । विकल्पदोषात् । तथाहि । धर्मधर्मिणोर्विशेषो यदि धर्मधर्मिभ्यां भिन्नस्तर्हि भेद एवास्तु किमन्तर्गडुना विशेषेण । यद्यभिन्नस्तर्हि धर्मधर्मिणावेव स्तो न विशेषः । तथा च धर्मधर्मिभावोऽपि न स्यादिति चेन्मैवम् । अभिन्नत्वेऽपि विशेषस्य तन्मात्रत्वाभावेन दोषाभावात् । विशेषस्य विशेषित्वे विशेषानवस्था स्यादिति चेद् वस्त्वन्तरत्वाभावेनादोषत्वादिति । स्यादेतत् । भेदविशेषयोर्नित्यत्वे नानित्यघटादिस्वरूपत्वम् । अनित्यत्वे चोत्तरकालं निर्विशेषाभेदापत्तिरिति चेन्मैवम् । अनित्यगतस्यानित्यत्वेऽप्युत्तरकालं वस्तुन एवाभावेन निर्विशेषाभिन्नवस्त्ववशेषप्रसङ्गाभावात् । नित्यगतस्य नित्यत्वेन सर्वाभेदप्रसङ्गस्यात्यन्तमयुक्तत्वाच्च । तस्माज्जडजीवेश्वराणां मिथः स्वाभाविक एव पञ्चविधो भेदः । तथा हि श्रुतिः ——

`जीवेश्वरभिदा चैव जडेश्वरभिदा तथा ।

जीवभेदो मिथश्चैव जडजीवभिदा तथा ।

मिथश्च जडभेदोऽयं प्रपञ्चो भेदपञ्चकः ॥

सोऽयं सत्यो ह्यनादिश्च सादिश्चेन्नाशमाप्नुयात् ।

न च नाशं प्रयात्येष न चासौ भ्रान्तिकल्पितः ॥

कल्पितश्चेन्निवर्तेत न चासौ विनिवर्तते ।

द्वैतं न विद्यत इति तस्मादज्ञानिनां मतम्’ ॥ इत्यादिः ॥

अत्र जीवेश्वरभेदत्वं नाम न जीवेश्वरोभयप्रतियोगिकभेदत्वम् । परस्परभेदस्योभयप्रतियोगिकत्वाभावेनासङ्ग्रहात् । अत एव नोभयानुयोगिकभेदत्वम् । एकस्योभयानुयोगिकत्वाभावात् । नापि जीवेश्वरान्यतरप्रतियोगिकभेदत्वमन्यतरानुयोगिकभेदत्वं वा । जडेश्वरभेदादेः पृथगुपादानवैयर्थ्यात् । नापि जीवेश्वरान्यतरप्रतियोग्यनुयोगिकभेदत्वम् । मिथो जीवभेदस्य पृथगुपादानानुपपत्तेः । किन्तु जीवेश्वरद्वित्वसमानाधिकरणप्रतियोगितानुयोगिताकभेदत्वम् । जीवेश्वरगतप्रतियोगित्वानुयोगित्वयोर्जीवेश्वरद्वित्वसमानाधिकरणत्वाज्जीवेश्वरभेदसङ्ग्रहः । जडेश्वरगतप्रतियोगित्वानुयोगित्वयोरतथात्वान्न तत्सङ्ग्रहः । न चैवं मिथोजीवभेदसङ्ग्रहापत्तिः । तत्प्रतियोगित्वानुयोगित्वयोः प्रत्येकं जीवेश्वरद्वित्वसमानाधिकरणत्वादिति वाच्यम् । स्वानुयोगिवृत्तिजीववेश्वरद्वित्वसमानाधिकरणप्रतियोगिताकभेदत्वस्य विवक्षितत्वात् । मिथो जीवभेदस्य च स्वानुयोगिवृत्ति यज्जीवेश्वरद्वित्वं तत्समानाधिकरणप्रतियोगिताकत्वाभावेनासङ्ग्रहात् । एतेन जडेश्वरभेदत्वं जडजीवभेदत्वं च व्याख्यातं वेदितव्यम् । मिथो जीवभेदत्वादिकं च जीवप्रतियोगिकजीवानुयोगिकभेदत्वादिरूपम् । जीवत्वं चात्र भगवत्प्रतिबिम्बत्वमेवेति सङ्क्षेपः ।

नन्वेवमीश्वरस्य परब्रह्मत्वानुपपत्तिः । तस्य त्रिविधपरिच्छेदराहित्यरूपत्वात् । देशकालपरिच्छेदातिरिक्तवस्तुपरिच्छेदस्य तद्भेदरूपत्वादिति चेन्मैवम् अप्रामाणिकं भाषिष्टाः । `अथ कस्मादुच्यते ब्रह्मेति बृहन्तो ह्यस्मिन् गुणा’ इत्यादिनिगमनिरुक्तनिरवधिकनिःशेषनिर्दोषकल्याणगुणपूर्णत्वस्यैव परब्रह्मत्वरूपत्वात् । तस्माज् जडजीवेश्वराणां परस्परभेदप्रपञ्चस्य पारमार्थिकत्वात् परमेश्वरपरमप्रसादसिद्धये सकलजगज्जन्मादिकारणत्वाद्यनन्तकल्याणगुणाकरतया सर्वोत्तमत्वेन सर्वदैव समुपास्यः श्रीनारायण एवेति सिद्धम् ।

(३५)शर्कराश्रीनिवासाचार्य

एवं साध्यं निराकृत्य हेतुमपि निराकरोति ॥ भेदत्वेनेत्यानिना ॥ चन्द्रभेदस्य मिथ्यात्वेनाप्रामाणिकत्वात्प्रामाणिकाप्र आमाणिकानुगतसामान्याभावेन भेदत्वसामान्यं नहेतुरित्यतोभेदत्वेन प्रतीयमानत्वं हेतुरित्युक्तम् ॥ तत्र प्रतीयमानत्वं प्रतीतिगोचरत्वम् । तच्च प्रतीतिस्वरूपं कीदृशमित्यर्थः ॥ प्रतीतित्वसामान्यमिति ॥ प्रमाऽप्रमानुगतं प्रतीतित्वसामान्यमित्यर्थः ॥ तवेति ॥ त्वयाभेदप्रतीतेः प्रमात्वानङ्गीकारादिति भावः ॥ प्रतीतेरपीति ॥ यथा चन्द्रभेदस्य मिथ्यात्वेनाप्रामाणिकत्वात्प्रामाणिकाप्रामाणिकानुगतभेदत्वसामान्याभावस् तथाभेदप्रतीतेरपि मिथ्यात्वेनाप्रामाणिकत्वात्प्रामाणिकाप्रामाणिकानुगतप्रतीतत्वरूपसामान्याभावेन स्वरूपासिद्धो हेतुरित्यर्थः ॥ भेदाभेदेति ॥ भेदश्चाभेदश्च भेदाभेदौ तयोर्भेदेव्यभिचार इत्यर्थः । तत्र भेदत्वं वर्ततेमिथ्यात्वं नास्तीति भावः ॥ बाध इति ॥ मिथ्यात्वरूपसाध्याभावादिति भावः । ननु भेदो मिथ्यैवातो न बाध इत्यत आह — भेदाभेदयोरिति ॥ अपारमार्थिकत्वे मिथ्यात्वे । अनेन भेदो मिथ्येत्यादिना ॥ अभेदस्यापि मिथ्यात्वं स्यादिति ॥ यदि भेदाभेदसयोर्भेदस्य मिथ्यात्वं तर्हि मिथ्यात्वस्यासत्वपर्यायत्वेन भेदाभेदयोर्भेद एव नास्तीति स्यात् । भेदाभावेचतयोरभेद एव स्यात् । एवं चानेनानुमानेन भेदस्य मिथ्यात्वे साधिते तदभिन्नाभेदस्यापि तत्स्यात् । अत एव तद्दोषपरिहाराय भेदाभेदस्य सत्त्वेङ्गीकार्ये बाधो दुष्परिहर इति भावः । प्रकारान्तरेण बाधमुपपादयति — व्यावहारिकेति ॥ अभेदस्य खलु परेण पारमार्थिकत्वमङ्गीक्रियते । यद्युक्तरीत्या भेदाभेदयोरभेदः स्यात् तर्हि पारमार्थिकाभेदाभिन्नो भेदोऽपि पारमार्थिकः स्यादिति पुनस्तस्य मिथ्यात्वसाधने बाधः स्यात् । ननु भेदाभेदयोः पारमार्थिकाभेदेऽपि व्यावहारिकभेदस्याप्यङ्गीकारादभेस्यपारमार्थिकत्वेपि न भेदस्य पारमार्थिकत्वमित्यत उक्तम् — व्यावहारिकेत्यादि ॥ जीवेशयोर्व्यावहारिकभेदसद्भावेऽपि तस्याप्रयोजकत्वेन परमार्थतः पारमार्थिक ब्रह्माभिन्नत्वेन जीवस्य यथा पारमार्थिकत्वमङ्गीक्रियते तथेहापीत्यर्थः । स्थलान्तरेव्यभिचारमाह — पारमार्थिका अपारमार्थिकेति ॥ पारमार्थिकं ब्रह्म । अपारमार्थिकः प्रपञ्चः । अनयोर्भेदत्वेन प्रतीयमानत्वं वर्तते । मिथ्यात्वं नास्तीति व्युभिचार इत्यर्थः । तस्यापि मिथ्यात्वान्न व्यभिचार इत्यतोब्रह्म प्रपञ्चयोः पारमार्थिक अपारमार्थिकत्वविशेषणं तस्यापि मिथ्यात्वान्न व्यभिचार इत्यतोब्रह्मणो पारमार्थिकत्वं प्रपञ्चस्यपारमार्थिकत्वं स्यात् । अत एव तद्दोषपरिहाराय तयोर्भेदस्य सत्त्वे वाच्ये स्यादेव व्यभिचार इति भावः । ननु ब्रह्मप्रपञ्चयोर्भेदस्य मिथ्यात्वेऽपि नोक्तदोषः । तथाहिपारमार्थिकत्वे धर्मिसमसत्ताकभेदरहितत्वं प्रयोजकम् । आरमार्थिकत्वे तुधर्मिसमत्ताकभेदवत्त्वम् । एवं च ब्रह्मणि धर्मिसत्तासमानसवशकः पारमार्थिको भेदो नास्तीति तस्य पारमार्थिकत्वम् । प्रपञ्चे धर्मिसमसत्ताकव्यावहारिको भेदोऽस्तीति तस्यापारमार्थिकत्वम् । अतो नब्रह्मणोपारमार्थिकत्वं प्रपञ्चस्य पारमार्थिकं स्यादित्यापादनं युक्तमित्या शङ्कते — ब्रह्मणो धर्मीति ॥ एवमपि त्वया ब्रह्मणि प्रपञ्चप्रतियोगिकधर्मिसमसत्ताकभेदानङ्गीकारादेवप्रपञ्चाभिन्ने ब्रह्मणि प्रपञ्चवदेवापारमार्थिकत्वं स्यादेवेति परिहरति ॥ नेति ॥ चन्द्रभेद इत्युपाधेः साध्यव्यापकत्वोपपादनायोक्तम् । तथाच यत्र मिथ्यात्वं तत्र प्रातिभासिकत्वं यथा चन्द्रभेदे । अतः साध्यव्यापकत्वम् । यत्र भेदत्वं तत्र प्रातिभासिकत्वमिति ननियमः । हेतुमत्यपिविमतभेदेप्रातिभासिकत्वाभावेन साधनाव्यापकत्वमिति भावः । ननु विमतो भेदः प्रातिभासिकोभेदत्वाच्चन्द्रभेदववदिति पक्षे पिप्रातिभासिकत्वं साध्यते । अतः साधनव्यापकत्वान्नायमुपाधिरित्यत आह — स चेति ॥ व्यावहारिकत्वेति ॥ त्वयाविमतभेदस्य व्यावहारिकत्वाङ्गीकारेणेदानीं प्रातिभासिकत्वसाधने स्ववाक्यविरोध इत्यर्थः ॥ साध्यवैकल्यमिति ॥ देहात्माभेदस्यासत्वत्वादिति भावः । कुत इत्यात आह — तथात्व इति ॥ यदि देहात्मभेदस्य मिथ्यात्वं न स्यात् तर्हि तस्य मिथ्यात्वप्रतिपादकभाष्यस्याविद्यमानप्रतिपादकोन्मत्तवाक्यतुल्यत्वं स्यादित्यर्थः । अन्योन्यस्मिन्नन्योन्यात्मकतामध्यस्येति शाङ्करभाष्यस्यात्मनि देहतादात्म्यं देहे चात्मतादात्म्यमारोप्येत्यर्थः । अत्राध्यस्येत्यनेन मिथ्यात्वं प्रतिपाद्यत इति ध्येयम् । दूषणान्तरमाह — गौरोहमिति ॥ यदि देहात्माभेदस्य सत्यत्वं तर्ह्यात्मन एवदेहत्वेन देहधर्माणाङ्गौरत्वादीनामात्मनि सत्यत्वेन तदवगाहिज्ञानं तत्वावेदकं स्यात् । नचेष्टापत्तिः । अन्योन्यधर्माश्चध्यस्येत्युत्तरभाष्ये आत्मनि देहधर्माणां मिथ्यात्वप्रतिपादनविरोधादिति भावः ॥ चतुर्थ इति ॥ विमतं जगत्तत्त्वतः स्वान्तर्भेदशून्यं दृश्यत्वाद्भगगनवदित्यत्रेत्यर्थः ॥ नानेत्यादि ॥ उक्तानुमानेन हि जगदाख्यपदार्थस्य स्वैकदेशैः पटादिदभिर्भेदाभावस्साध्यते । तत्तदा स्याद् यदि घटादीनां जगदाख्यपदार्थैकदेशत्वं स्यात् । न चैतदस्ति । घटादिनानापदार्थानामेव कालाद्युपाधिविशेषेण जगच्छब्दवाच्यतया कालघटादिव्यतिरेकेण जगदाख्यपदार्थान्तरस्याभावात् । अत्र दृष्टान्तस्सेनावनादिवदिति । यथा गजतुरगादीनामेवैकस्थाननिवासेन सेनाशब्दवाच्यत्वं यथा वा नानावृक्षाणमेकस्थाननिवासेन वनशब्दवाच्यत्वं तथेहापीत्यर्थः । ननु नानापदार्थानामेव जगच्छब्दवाच्यत्वं किन्तु तं तु

भिन्न पट इवनानापदार्थैर्जगदाख्यपदार्थ आरभ्यते । अतो घटादीनान्तदेकदेशत्वसम्भवान्नोक्तदोष इत्यत आह — पृथिव्यादीनामिति ॥ साङ्कर्यप्रसङ्ग इति ॥ परस्परपरिहारेण विद्यमानयोरेकत्र समावेशः साङ्कर्यम् । पृथिवीत्वपरिहारेण जलत्वं जले जलत्वपरिहारेण पृथिवीत्वं पृथिव्याम् उभयोस्तदारब्धे जगति समावेशः । एवमन्यत्रापि । अतो जातिमात्रस्य साङ्कर्यप्रसङ्ग इत्यर्थः ॥ द्रव्यत्वापत्तिश्चेति ॥ समवायिकारणस्य द्रव्यत्वादिति भावः । निरवयवानां गुणकर्मादीनाम् । सावयवपदार्थस्यैव द्रव्यारम्भकत्वादिति भावः । ननु निरवयवानामपि परमाणूनां द्व्यणुकाख्यद्रव्यारम्भकत्वं दृष्टमिति कथमिदमनिष्टमिति चेन्न । द्रव्यारम्भकशब्देन महद्द्रव्यारम्भकत्वस्याभिप्रेतत्वात् ॥ अन्त्यावयवित्वहानिश्चेति ॥ कार्यद्रव्यत्वे साति द्रव्यान्तरानारम्भकत्वं ह्यन्त्यावयवित्वम् । यदि घटादीनामपि जगदाख्यद्रव्यारम्भकत्वन्तर्ह्यत्यावयवित्वहानिः स्यादित्यर्थः । ननु न घटादिपदार्थैरारब्धं जगदाख्यं पदार्थं पक्षीकृत्य तस्य स्वान्तर्भेदहीनत्वं साध्यते । येनोक्तदोषः । किन्तु घटादिकमेव पक्षीकृत्य तस्य स्वान्तर्भेदहीनत्वं साध्यते । अतो नोक्तदोष इत्यत आह — घटादीति ॥ स्वान्तर्भेदशब्देन हीनशब्दसाहितेनेति शेषः । अतः स्वानतर्भेदशब्दमात्रस्य भेदाभावासाधकत्वात्कथमिदमिति चोद्यानवकाशः ॥ सिद्धसाधनमिति ॥ घटादीनां स्वाप्रतियोगिकभेदाभावस्यास्माभिरप्यङ्गीकारादिति भावः । साध्यविकल इति ॥ घट मठाकाशादीनामन्योन्यभेदस्यैव सद्भावादिति भावः । तत्रोक्तबाधकपरिहारायाह — आकाशभेदेति ॥ अन्यत्र मन्दारमञ्जर्याम् । आत्माभेदसाधकानुमाननिराकरणमुपसंहरति — तस्मादिति ।