विमता आत्मानः परमात्मनोऽपरमार्थतो (अपरमार्थतोऽपि) न भिद्यन्ते
(३४)भेदोज्जीवनम्
(३४) विमता आत्मानः परमात्मनोऽपरमार्थतो (अपरमार्थतोऽपि) न भिद्यन्ते आत्मत्वात् परमात्मवदित्याभाससमानयोगक्षेमत्वं च । अनुकूलतर्काभावादप्रयोजकता च । द्वितीये देवदत्तशब्देन तच्छरीरावच्छिन्नचैतन्यविवक्षायां यज्ञदत्तादिशरीराणां देवदत्तशरीरावच्छिन्नचैतन्याधीनत्वासम्भवेन तद्भोगायतनत्वे साध्ये बाधः । अनवच्छिन्न(चैतन्य)विवक्षायां तस्याभोक्तृत्वेन बाधः । सुप्तमूर्च्छितशरीरेषु व्यभिचारः । तेषामपि पक्षसमत्वे (पक्षत्वे) बाधः । न च वाच्यं भोगायतनत्वात्यन्ताभावानधिकरणत्वं साध्यमिति । त्वया भोगायतनत्वस्य मिथ्यात्वाङ्गीकारेण तदधिकरणस्य शरीरस्य तदत्यन्ताभावाधिकरणत्वाङ्गीकारात् । तृतीये साध्यानिरुक्तिः । न चाधिष्ठानयाथात्म्यज्ञाननिवर्त्यत्वं तत् । निवृत्तिशब्देन ध्वंसविवक्षायां मिथ्यात्वासम्भवाद् अत्यन्ताभावविवक्षायां च बाधः । त्वयाऽपि व्यवहारदशायां भेदाङ्गीकारेण (भेदाङ्गीकारे) तदयोगात् । पारमार्थिकत्वाकारेण तथात्वमिति चेन्न । अबाध्यत्वरूपस्य पारमार्थिकत्वस्य त्वयोच्यमानबाध्यत्वज्ञानाधीनज्ञानत्वेनान्योन्याश्रयात् ।
(३४)भावप्रदीपः
॥ विमत इत्यादि । विमतात्मनां परमात्मप्रतियोगिकापारमार्थिकभेदस्य तेनाङ्गीकारात्तदभावसाधनमनिष्टम् । दृष्टान्ते पारमार्थिकभेदस्य तेनाङ्गीकारात् साध्यवैकल्यप्राप्तयाऽनुमानस्याभासत्वं च ज्ञातव्यम् ॥ द्वितीय इति ॥ विमतानि शरीराणि देवदत्तस्यैव भोगायतनानि शरीरत्वाद्देवदत्तशरीरवदित्यर्थः । अत्र भोगायतनत्वात्यन्ताभावानधिकरणत्वं साध्यम् । तेन सुषुप्तमूच्छ्रितमृतशरीरेषु न बाधो नापि व्यभिचार इति यत्प्राक् पूर्वपक्षिणोक्तं तदिदानीं दूषयिष्यन् प्रस्तावनाय पूर्वपक्षिणाऽऽशङ्क्य परिहृतमेव दूषणं स्वयमाह — सुप्तमूच्छ्रितेति ॥ यदर्थमिदं दूषणमभिहितं तदिदानीमाशङ्क्य निराकरोति ॥ न च वाच्यमिति ॥ मिथ्यात्वाङ्गीकारेणेति ॥ तन्मते स्वात्यन्ताभावसमानाधिकरणत्वरूपत्वान्मिथ्यात्वस्येति भावः ॥ तृतीय इति ॥ भेदो मिथ्या भेदत्वाच्चन्द्रभेदवदित्यत्रेत्यर्थः । प्राङ्निरुक्तमेव मिथ्यात्वमाशङ्क्य निराकरोति ॥ न चेति ॥ अत्यन्ताभावविवक्षायां वेति ॥ अत्र निवृत्तिशब्देन यद्यप्यत्यन्ताभावविवक्षा कर्तुं न शक्यते । तस्याजन्यत्वात् । ज्ञाननिवर्त्यत्वस्य च ज्ञानजन्यनिवृत्तिप्रतियोगित्वरूपत्वात् । तथाऽपि निवृत्तप्रतियोगितया ज्ञायमानत्वमेव निवर्त्यत्वमिह विवक्षणीयम् । उभयत्रापि बाधमुपपादयति — त्वयाऽपीति ॥ भेदमिथ्यात्ववादिनाऽपि त्वया व्यवहारदशायां ज्ञानोत्तरजीवन्मुक्तिदशायां भेदानुवृत्त्यङ्गीकारेण ज्ञानेन भेदध्वंसस्यैवाभावात् । अत्यन्ताभावस्य तु व्यवहारदशायां भेदाङ्गीकारेण सुतरामयोगात्तदयोगान्निरुक्तमिथ्यात्वायोगादित्यर्थः । केचित्तु प्रध्वंसार्थकत्वपक्षे मिथ्याभूतस्य विनाशायोगादिति भाव इति बाधोपापादनं बहिरेव कृत्वा त्वयाऽपीति वाक्यमत्यन्ताभाव एवोपपादनार्थं प्रवृत्तमित्याहुः । अत्यन्ताभावपक्षमङ्गीकृत्य बाधं परिहर्तुं शङ्कते — पारमार्थिकत्वाकारेणेति ॥ तथात्वमिति ॥ अत्यन्ताभावप्रतियोगित्वमित्यर्थः ॥ अबाध्यत्वेति ॥ पारमार्थिकत्वं नामाबाध्यत्वम् । तच्च बाध्यत्वज्ञानाधीनज्ञानम् । अभावज्ञानस्य प्रतियोगिज्ञानाधीनत्वात् । बाध्यत्वं च पारमार्थिकत्वाकारेणात्यन्ताभावप्रतियोगित्वम् । तथाचाबाध्यत्वसिद्धौ तद्रूपेणात्यन्ताभावप्रतियोगित्वरूपबाध्यत्वसिद्धिः । तत्सिद्धौ च तदभावरूपाबाध्यत्वसिद्धिरित्यन्योन्याश्रयादित्यर्थः ।
(३४)भेदचिन्तारत्नम्
॥ अपरमार्थतोऽपि न भिद्यन्त इति ॥ व्यावहारिकभेदेनापि रहिता इति यावत् ॥ परमात्मवदिति ॥ तस्य परप्रतियोगिकभेदाभावेन व्यावहारिभेदस्याभावादिति भावः ॥ अनुकूलतर्काभावादिति ॥ यदि परमात्माभेदो न स्त्तर्ह्यात्मत्वं न स्यात् । नान्यतोऽस्तिद्रष्टेत्यादिनाऽन्यस्य ज्ञातृत्वनिषेधादिति तर्कोऽस्तीति चेन्न । यदि परमात्माभेदः स्यात् । केन कं पश्येदिति तस्य ज्ञातृत्वनिषेधादिति वैपरीत्येन तर्कस्य परानुकूलत्वादिति दिक् ॥ द्वितीय इति ॥ विमतानि शरीराणीत्यनुमान इति शेषः ॥ अधिष्ठानत्वासम्भवेनेति ॥ तस्य परिच्छिन्नत्वादिति भावः । अधीनत्वासम्भवेनेति पाठे यज्ञदत्तादिशरीराणां यज्ञदत्तप्रयत्नानुगुणव्यापारविकलत्वेन तद्भोगायतनत्वादिति भावः ॥ बाध इति ॥ अपसिद्धान्तश्चेत्यपि ग्राह्यम् । ननु देवदत्तान्यविशिष्टप्रविष्टविशेष्यभिन्नविशेयकविशिष्टान्तरमिति तद्भोगायतनत्वमेव देवदत्तभोगायतनत्वमिति चेन्न । एकस्य विशेष्यस्य विरुद्धाविशिष्टद्वयनिवेशः किं स्वरूपेणोत विशेषणान्तरोपोद्बलितेन । एकस्यैव शुक्लत्वपीतत्वयोर्दर्शनात् । दण्डित्वकुण्डलित्वयोरविरुद्धत्वोपपत्तिः । न द्वितीयः । अनवस्थाद्यपत्तेरिति ॥ तदत्यन्ताभावानधिकरणत्वाङ्गीकारादिति ॥ स्वात्यन्ताभावसमानाधिकरणत्वं मिथ्यात्वमित्यङ्गीकारेणात्यन्ताभावाधिकरणत्वं साध्यमिति चेन्न । त्वन्मते सर्वस्य सर्वात्मकत्वे सर्वधर्माणां सर्वत्र सत्त्वेन प्रतियोग्यसमानाधिकरणात्यन्ताभावस्यैवाप्रसिद्धत्वात् । वस्तुतस्तु हेतोरप्रयोजकत्वं देवदत्तकर्मार्जितत्वमुपाधिश्चेति मूर्धाभिषिक्तं दूषणद्वयम् । न च विमतानि शरीराणि देवदत्तकर्मार्जितानि शरीरत्वादित्युपाधेरपि पक्षे साधयितुं शक्यत्वादिति भाव्यम् । तत्र देवदत्तभोगायतनत्वस्योपाधित्वात् । द्वयोः सन्दिग्धत्वेन शङ्कितोपाधित्वोपपत्तेः । द्वयोर्युगपत्साधने चैकेन वा भेदलाभादाधिक्येन निग्रह इति ॥ तृतीय इति ॥ भेदो मिथ्या भेदत्वादित्यनुमान इत्यर्थः ॥ साध्यानिरुक्तिरिति ॥ व्यावहारिकत्वप्रातिभासिकत्वयोः प्रत्येकं पक्षदृष्टान्ताननुगमादनुगतस्यानिर्वचनादिति भावः । ननु निरुक्तमेवेत्यतस्तदाशङ्क्य निराह — न चेति ॥ निवृत्तिशब्दस्य द्वेधासम्भावितोऽर्थो नोभयमपीत्याह — तदयोगादिति ॥ अत्यन्ताभावप्रतियोगिभेदस्य स्वात्यन्तासत्त्वप्राप्तेर्धर्माङ्गीकारे चैकस्याधिष्ठानज्ञानोत्पत्तौ भेदस्यापि न कस्यापि तत्प्रतीतिः स्यादिति भावः । नन्वत्यन्ताभावप्रतियोगित्वं न स्वरूपेण येनासत्त्वं स्यात्किन्तु धर्मान्तरेणेति शङ्कते — पारमार्थिकत्वेति ॥ अबाध्यत्वेति ॥ प्रकारान्तरेण पारमार्थिकत्वस्य दुर्वचत्वादिति भावः । अबाध्यत्वं पारमार्थिकत्वम् । तव बाध्यत्वं नाम स्वरूपेणानिषेध्यत्वे सति पारमार्थिकत्वाकारेणात्यन्ताभावप्रतियोगित्वमिति पुनः पारमार्थिकत्वप्रवेशादन्योन्याश्रयत्वमिति भावः ॥
(३४)भेदचन्द्रिका
॥ तृतीये त्विति ॥ भेदो मिथ्या भेदात्वाच्चन्द्रभेदवदित्यत्रेत्यर्थः । तत्साध्यम् ॥ निवृत्तिशब्देनेति ॥ अधिष्ठानयाथात्म्यज्ञानजन्यध्वंसप्रतियोगित्वं तज्जन्यात्यन्ताभावप्रतियोगित्वं वा न साध्यम् । त्वया ब्रह्मज्ञानोत्तरदशायां जीवन्मुक्तिदशायां भेदानुवृत्त्यङ्गीकारेण तदयोगात् । अत्यन्ताभावस्य च जन्यत्वायोगादित्यपि बोध्यम् ॥ चरमवृत्तेः पूर्ववृत्त्यनधिकविषयत्वेन तदनिवृत्यनिवर्तकत्वायोगाश्चेत्यपि बोध्यम् ॥ पारमार्थिकत्वाकारेणेति ॥ जीवन्मुक्तिदशायां पारमार्थिकत्वाकारो निवर्तते । अत एव दग्धपटायमानत्वादिति भावः ॥ अबाध्यत्वरूपस्येति ॥ बाध्यत्वनिरुक्तौ पारमार्थिकत्वप्रवेशितस्य नाबाध्यत्वगर्भत्वादन्योन्याश्रय इति भावः ।
(३४)भेदसञ्जीविनी
॥ विमता आत्मान इति ॥ अपरमार्थत इति ॥ तथा च व्यावहारिकपरमात्मभेदाभावसाधनस्याप्यापात इति भावः ॥ द्वितीय इति ॥ सर्वाणि शरीराणीत्यनुमान इत्यर्थः ॥ तदधिकरणत्वाङ्गीकारादिति ॥ तथा च तदधिकरणत्वसाधने बाध इति भावः । पूर्वपक्षभागस्थैतद्वाक्यस्यान्ये त्विति रीत्या यथाश्रुतसाध्यपरतया व्याख्यानपक्षेऽपि भोगायतनत्वादेरनुभवबाध एव द्रष्टव्यः ॥ तृतीय इति ॥ भेदो मिथ्या भेदत्वादित्यनुमान इत्यर्थः ॥ साध्यानिरुक्तिरिति ॥ असत्त्वसाधनेऽपसिद्धान्तो बाधश्च सदसद्विलक्षणत्वसाधनेऽप्रसिद्धविशेषणताऽतः साध्यानिरुक्तिरित्यर्थः ॥ बाध इति ॥ तदुपपादयति — त्वयाऽपीति । जन्यजनकभावादिव्यस्थाया भेदाधीनतयाऽऽत्मज्ञानेन तन्निवृत्तौ तज्जन्यत्वादेः साध्यघटकस्यैवायोगाद्बाधः । अत्यन्ताभावे तज्जन्यत्वस्यैवाभावात्तद्धटितसाध्यसत्त्वानिर्वाहाद्बाध इत्यर्थः ॥ पारमार्थिकत्वाकारेणेति ॥ ज्ञानजन्यपारमार्थिकत्वावच्छिन्नप्रतियोगिकध्वंसप्रतियोगित्वं तदर्थ इत्यर्थः ॥ अबाध्यत्वरूपस्येति ॥ पारमार्थिकत्वस्य बाध्यत्वाभावारूपतया बाध्यत्वशरीरेऽबाध्यत्वं निविष्टमित्यात्माश्रय इत्यपि द्रष्टव्यम् । ननु ज्ञानजन्यध्वंसप्रतियोगित्वमेव बाध्यत्वम् । न पारमार्थिकत्वस्य तच्छरीरे निवेशः । किन्तु ज्ञानेन पारमार्थिकत्वेन तस्मिन्नध्यस्तेन विशिष्टस्य जगतो नाशो भवति । अत एव दग्धपटायमानतया जगदवस्थानं जीवन्मुक्तौ । तथा च वस्तुतस्तादृशध्वंसमादाय बाध्यत्वमुपपादनीयमिति वाच्यम् । वस्तुतस् तादृशध्वंसस्य तादृशध्वंसत्वेनैव निवेश इदानीं ज्ञानविषयताविशिष्टघटस्य नाशात्तस्य बाध्यत्वव्यवहारस्येदानीमप्यापत्तिः । अधिष्ठाने यथाऽऽत्मज्ञानेति निवेशेऽधिष्ठानत्वस्यारोपविशेष्यत्वादन्यस्यानतिप्रसक्तस्य निर्वक्तुमशक्यत्वाद् भेदप्रतीतेस्तया तस्य च स्वमिथ्यात्वेऽसिद्धिः प्रागसिद्धतयाऽप्रसिद्धविशेषणत्वादिकं बोध्यम् ।
(३४)काशीतिम्मण्णाचार्य
॥ विमता आत्मान इति ॥ यद्यप्यत्र व्यावहारिकभेदस्य परं प्रत्यसिद्ध्या साध्याप्रसिद्धिः । तथापि व्यवहारगोचरभेदशून्यत्वस्य साध्यत्वान्न दोषः । परमते पारमार्थिकस्यैव व्यवहारगोचरत्वात् । यद्वा ब्रह्मज्ञानेतराबाध्यभेदशून्यत्वं साध्यम् । न च प्रत्यक्षविरुद्धत्वान्नैवमनुमानसम्भव इति वाच्यम् । परमार्थतो न भिद्यन्त इत्यस्य प्रमाणत्रयविरुद्धत्वात् । तच्च व्युत्पादितम् ॥ अनुकूलतर्काभावादिति ॥ न चैक्ये लाघवमेवानुकूलतर्क इति वाच्यम् ॥ लाघवस्य प्रमाणबाधितत्वात् । अन्यथा परमलाघवात् शून्यवादमेवाङ्गीकुर्याः । ब्रह्मातिरिक्तवियदाद्यशेषप्रामाणिकप्रपञ्चस्यात्यन्तानुपपन्नाविद्याकल्पितत्वकल्पन एव गौरवाच्च ।
॥ तद्भोगायतनत्व इति ॥ देवदत्तशरीरावच्छिन्नचैतन्यभोगावच्छेदकत्वे साध्ये बाध इत्यर्थः । अन्यथा यज्ञदत्तशरीरसुखादौ देवदत्तस्य ममेदमित्याद्यनुसन्धानापत्तेरिति भावः ॥ बाध इति ॥ साध्याप्रसिद्ध्या पक्षे साध्यसत्त्वानिर्वाह इत्यर्थः । अथ देवदत्तप्रतियोगिकपारमार्थिकभेदाभाववद्भोगावच्छेदकत्वस्य साध्यघटकत्वान्नायं बाधः । यज्ञदत्तादेस्तादृशभेदाभाववत्त्वसम्भवात् । अथवा देवदत्तभिन्नभोगानवच्छेदकत्वे सति भोगावच्छेदकत्वमात्रं साध्यमस्तु । भोक्तुर्देवदत्तत्वमर्थात् सेत्स्यतीति चेदेवमपि देवदत्तयज्ञदत्तादीनां पारमार्थिकभेदग्राहकोक्तविधप्रत्यक्षादिप्रमाणबाधो दुर्वारः । न च तेषामप्रामाण्यम् । प्रामाण्ये बाधकाभावात् । बलवद्विरोधिप्रमाणानुपलम्भादिति । एवमत्र देवदत्तकर्मनिर्मितत्वमुपाधिरित्यादिकं च द्रष्टव्यम् । अत्र प्रागुक्तदोषे परोक्तसमाधानं दूषयितुमाह — सुषुप्तमूच्छ्रितेति ॥ विवृतमेतदधस्तात् ॥ त्वयेत्यादि ॥ तथा च पुनर्बाध एवेति भावः ।
अथ देवदत्तभोगायतनत्वस्य पारमार्थिकत्वेनाभावेऽपि व्यावहारिकत्वेन तत्सत्त्वाभ्युपगमात्तेन रूपेण तदभावानधिकरणत्वस्य साध्यत्वान्न बाधावकाशः । न च परं प्रति व्यावहारिकत्वाप्रसिद्धिः । सप्रकारकज्ञानाबाध्यत्वेन भोगायतनत्वस्य योऽभावस्तदनधिकरणत्वस्यैवसाध्यत्वात् । सप्रकारकज्ञानाबाध्यत्वस्य च परमते पारमार्थिक एव प्रसिद्धेरेति चेन्न । सप्रकारकज्ञानाबाध्यत्वेन भोगायतनत्वाभावस्यैवाप्रसिद्धेः । व्यधिकरणधर्मावच्छिन्नाभावानङ्गीकारिभिः सामान्यरूपेण विशेषाभावानभ्युपगमात् । न च सप्रकारकज्ञानाबाध्यत्वविशिष्टभोगायतनत्वत्वेन भोगायतनत्वाभावस्य विवक्षितत्वान्न दोष इति वाच्यम् । तस्य केवलभोगायतनत्वत्वापेक्षया गुरुत्वेनाभावप्रतियोगितानवच्छेदकत्वात् । एतेन भोगायतनत्वस्य मिथ्यात्वे तदत्यन्ताभाववत्तदधिकरणत्वस्यापि मिथ्यात्वेन तदनधिकरणत्वमप्यव्याहतमेवेति नोक्तबाधावकाश इत्यपास्तम् । व्यावहारिकत्वादिना तदधिकरणत्वाभावस्याप्रसिद्धेः । तदधिकरणत्वाभावमात्रस्य साध्यत्वे तु प्रातिभासिकत्वादिना तदभावमादायार्थान्तरतादवस्थ्यादिति दिक् ।
॥ तृतीय इति ॥ भेदो मिथ्या भेदत्वाच् चन्द्रभेदवद् इत्यनुमाने निर्दुष्टमिथ्यात्वनिर्वचनासम्भव इत्यर्थः । सम्भवन्निर्वचनस्य दुष्टत्वादिति भावः । तदेवाह — न चेति ॥ बाध्यत्वरूपं मिथ्यात्वमिति शेषः ॥ मिथ्यात्वासम्भवादिति ॥ सत्यत्वप्रतिक्षेपासम्भवादित्यर्थः । प्रध्वंसप्रतियोगित्वस्य मन्मते सत्यत्वव्याप्यत्वादिति भावः । अत्र दृष्टान्ते साध्यवैकल्यमपि बोध्यम् । न चाधिष्ठानयाथात्म्यज्ञानजन्यध्वंसप्रतियोगिज्ञानविषयत्वविवक्षणान् न दोष इति वाच्यम् । तद्धि भ्रमविषयत्वपर्यवसितम् । तथा च मया सतोऽपि भ्रमविषयत्वाङ्गीकारेणार्थान्तरतादवस्थ्यात् ॥ तदयोगादिति ॥ अत्यन्ताभावप्रतियोगित्वासम्भवादित्यर्थः । अन्यथाऽत्यन्तासत्त्वापत्तिरिति भावः । केचित्तु अधिष्ठानयाथात्म्यज्ञानजन्यात्यन्ताभावप्रतियोगित्वं मिथ्यात्वमित्यङ्गीकारे जीवन्मुक्तिकालीनव्यवहारदशायां त्वया भेदानुवृत्त्यङ्गीकारेणासम्भवप्रसङ्गादिति व्याचक्षते ॥ व्यवहारसतोऽपि भेदस्य पारमार्थिकत्वेनात्यन्ताभावप्रतियोगित्वोपगमान्न दोष इत्याशङ्कते — पारमार्थिकत्वेति ॥ तथात्वमत्यन्ताभावप्रतियोगित्वं मिथ्यात्वमिति शेषः ॥ अबाध्यत्वेति ॥ पारमार्थिकत्वेनात्यन्ताभावप्रतियोगित्वरूपबाध्यत्वज्ञानस्य पारमार्थिकत्वज्ञानाधीनत्वात्तस्य चैतादृशबाध्यत्वाभावरूपस्य बाध्यत्वज्ञानाधीनत्वेनान्योन्याश्रयादित्यर्थः । उपलक्षणमेतत् । दृष्टान्ते साध्यवैकल्यं च । पारमार्थिकत्वेन चन्द्रभेदाभावाप्रसिद्धेः । असतः सद्रूपेण प्रतियोगित्वानुपगमात् । न चात्यन्ताभावप्रतियोगित्वमात्रं मिथ्यात्वम् । तच्च सद्रूपेण असद्रूपेण वा मतद्वयसिद्धमेवेति वाच्यम् । भेदस्य सत्त्वेऽप्यसत्त्वेनात्यन्ताभावप्रतियोगित्वसम्भवादर्थान्तरप्रसङ्गात् ।
(३४)शर्कराश्रीनिवासाचार्य
विमता इत्यादि ॥ आत्मनां परमात्मनः सकाशादपारमार्थिकभेदस्य तेनाङ्गीकारत्तदभावसाधनस्यानिष्टवत्वं परमात्मनि परमात्मप्रतियोगिकापारमार्थिकभेदस्य तेनानङ्गीकारान्नसाध्यवैकल्यं दृष्टान्तस्येति ध्येयम् ॥ द्वितीय इति ॥ विमतानि शरीराणि देवदत्तस्यैव भोगायतनानि शरीरत्वद्देवदत्तशरीरवदित्यर्थः । अत्र किं देवदत्तशब्देन देवदत्तशरीरावच्छिन्नचैतन्यं विवक्षितमुततदनवच्छिन्नचैतन्यमिति विकल्पौहृदिकृत्वाद्यमनूद्यदूषयति — देवदत्तशब्देनेति ॥ तद्भोगायतनत्व इति ॥ देवदत्तशरीरावच्छिन्नचेतन्यभोगसाधनत्वेसाध्ये तस्य विमतेषु यज्ञदत्तादिशरीरेष्वभावाद्बाध इत्यर्थः । यज्ञदत्तादिशरीरेषु देवदत्तशरीरावच्छिन्नचैतन्यभोगसाधनत्वेसाध्ये तस्य विमतेषु यज्ञदत्तादिशरीरेष्वभावाद्बाध इत्यर्थः । यज्ञादत्तादिशरीरेषु देवदत्तशरीरावच्छिन्नचैतन्यस्य भोगसाधनत्वं कुतो नास्तीत्यत उक्तं – यज्ञदत्तादिशरीराणामिति ॥ तदधीनमेव हि तद्भोगसाधनं स्वरूपमात्राभेदेऽप्यवच्छिन्नस्य भिन्नत्वेन देवदत्तशरीरावच्छिन्नचैतन्याधीनत्वस्य प्रत्यक्षबाधितत्वेन त्वयाप्यनङ्गीकारादिति भावः । किं शरीरावच्छिन्ने आत्मन्यहंकारगतमवेव भोक्तृत्वादिकमारोपितम् । तत्रानवच्छिन्नस्यात्मनोऽहंकारसान्निध्यस्यैवाभावान्न तत्र भोक्तृत्वाद्यारोप इति त्वयाऽङ्गीकारेणानवच्छिन्नचैतन्यभोगसाधनात्वस्य साधने बाध इति भावः ॥ तेषामपीति ॥ अतो न तत्र साध्याभावनिश्चय इति न व्यभिचार इति भावः ॥ बाध इति ॥ तत्र भोगसाधनत्वरूपसाध्यस्यैवाभावादंशे बाध इत्यर्थः । तनुचैतद्दोषपरिहाराय भोगायतनत्वशब्देभोगायतनत्वात्यन्ताभावानधिकरणत्वं प्रागेवविवक्षितमित्यत आह — नचेति ॥ त्वयेति ॥ त्वयाहिसर्वेषु शरीरेषु विद्यमानं भोक्तृत्वं मिथ्येत्यङ्गीक्रियते । मिथ्यात्वं चस्वात्यन्ताभावसमानाधिकरणत्वम् । एवं च शरीरेषु भोगायतनत्वं तदत्यन्ताभावश्चाङ्गीकार्यः । तथाच भोगायतनत्वात्यन्ताभावानधिकरणत्वरूपसाध्यस्याभावाद्बाध इति भावः ॥ तदधिकरणस्येति ॥ भोगायतनत्वाधिकरणस्येत्यर्थः । तदत्यन्ताभावः भोगायतनत्वात्यन्ताभावः ॥ तृतीय इति ॥ भेदो मिथ्या भेदत्वाच् चन्द्रभेदवदित्यत्र मिथ्यात्वरूपसाध्यनिर्वचनं दुर्घटमित्यर्थः ॥ अधिष्ठानेति ॥ व्याख्यातमेतदधस्तात् । तत्किं मिथ्यात्वं निवर्त्यत्वं निवर्त्यत्वं निवृत्तिप्रतियोगित्वम् । तत्र निवृत्तिर्नामध्वंसोवात्यन्ताभावोवा । आद्यमनूद्यदूषयति — निवृत्तिशब्देनेति ॥ मिथ्याभूतस्य विनाशायोगादिति भावः । द्वितीयमनूद्य दूषयति — अत्यन्ताभावेति ॥ बाधमेवोपपादयति — त्वयेति ॥ अद्वैतवादिनाऽपि जीवेशभेदस्य व्यावहारिकसत्यत्वमङ्गीकुर्वता व्यवहारदशायां भेदोऽस्तीति अङ्गीक्रियते । अन्यथा तस्य व्यावहारिकत्वायोगात् । व्यवहारकालेविद्यमानस्य चैत्रकालिकनिषेधरूपात्यन्ताभावप्रतियोगित्वमनुपपन्नमिति भावः । तदयोगाद् अत्यन्ताभावप्रतियोगित्वादयोगात् । न वयं स्वरूपेणात्यन्ताभावप्रतियोगित्वं ब्रूमो येन व्यवहारकाले सतो भेदस्य तन्न स्यात् । अपितु पारमार्थिकत्वाकारेणैव । व्यावहारिकत्वेन रूपेण सतोऽपि पारमार्थिकत्वरूपेण अत्यन्ताभावप्रतियोगित्वं सम्भवत्येव । यथा श्यामत्वेन रूपेण सतोऽपि घटस्य रक्तत्वरूपेणात्यन्ताभावप्रतियोगित्वमित्याशयेन शङ्कते — पारमार्थिकत्वाकारेणेति ॥ पारमार्थिकत्वरूपेण धर्मेणेत्यर्थः । तथात्वमत्यन्ताभावप्रप्रतियोगित्वमित्याशयेन शङ्कते — पारमार्थिकत्वाकारेणेति ॥ पारमार्थिकत्वरूपेण धर्मेणेत्यर्थः । तथात्वमत्यन्ताभावप्रतियोगित्वम् ॥ अबाध्यत्वरूपस्येति ॥ पारमार्थिकत्वकारेणात्यन्ताभावप्रतियोगित्वं हि मिथ्यात्वम् । पारमार्थिकत्वं चाबाध्यत्वमेव । तच्च बाध्यत्वाभावः । बाध्यत्वं च मिथ्यात्वमेव । तथाच रिक्तमिथ्यात्वज्ञानेऽबाध्यत्वरूपपारमार्थिकत्वज्ञानस्य काणत्वं पारमार्थिकत्वज्ञाने मिथ्यात्वरूपबाध्यत्वज्ञानस्य कारणत्वमित्यन्योन्याश्रय इत्यर्थः ॥ त्वयोच्यमानेति ॥ त्वयेदानीं निरुच्यमाने इत्यर्थः ।