यदुक्तमभेदे प्रत्यक्षं प्रमाणमिति तदसत्
(३३)भेदोज्जीवनम्
(३३) यदुक्तमभेदे प्रत्यक्षं प्रमाणमिति तदसत् । अहङ्कारस्य चिदचित्संवलनात्मकस्य त्वया भिन्नत्वाङ्गीकारेणाहंप्रत्ययस्य तदभेदेऽप्रमाणत्वात् । आद्यानुमानेऽवेद्यत्वरूपस्वप्रकाशत्वस्यास्माभिरनङ्गीकारादसिद्धिः । अबाध्यत्वं तर्ह्यात्मत्वमिति चेत्तर्ह्यस्माभिर्देहादेः स्वरूपेणाबाध्यत्वाङ्गीकाराद्व्यभिचारः । न च तदपि पक्षतुल्यमिति वाच्यम् । त्वया(अपि) देहात्माभेदस्याध्यस्तत्वाङ्गीकारेण तदभेदस्यापारमार्थिकतया परमार्थतो न भिद्यन्त इति साध्याभावात् । भेदाभावस्यैवाभेदत्वात् । ज्ञानत्वं चेदात्मत्वं (तदा) नैयायिकं
प्रत्यसिद्धेः । ज्ञानाधारत्वं चेदात्मत्वं तवैवासिद्धेः । उपाधेर्बाधव्यभिचारान्यतरोद्भावनद्वारा(व्यभिचारोद्भावनद्वारा) दूषणत्वपक्षे परमात्माननुसंहितदुःखाननुसन्धातृत्वमुपाधिश्च ।
(३३)भावप्रदीपः
एवं भेदे प्रमाणान्यभिधाय यदुक्तमभेदे प्रमाणत्रितयमस्तीति तत्र तावत्प्रत्यक्षं निराकर्तुमाह — पदुक्तमित्यादिना ॥ अहङ्कारस्येति ॥ यद्यप्यहम्प्रत्यय आत्मन एकत्वं गृह्णाति । तथाऽपि त्वन्मते तस्य नात्मविषयः किन्त्वहङ्कार एव । स च चिदचित्संवलनात्मकः । चेतनाचेतनमिश्रान्तःकरणरूप इति यावत् । अतोऽसावात्मना भिन्न एवाङ्गीकृतः । तथा चात्मभिन्नाहङ्कारविषयस्याहम्प्रत्ययस्यात्माभेदे प्रमाणत्वेनाभिधातुमशक्यत्वादित्यर्थः । उपलक्षणमेतत् । अस्तु वाऽहम्प्रत्ययस्यात्मैक्यविषयत्वं तथाऽपि न तेन जीवेश्वराभेदसिद्धिः । अयं स्तम्भ इत्येकाकारेणानुभूयामानस्यापि स्तम्भस्य पिशाचाभेदासिद्धेरित्यपिद्रष्टव्यम् । अथाभेदविषयाण्यनुमानानि क्रमेण निराचष्टे ॥ आद्यानुमान इत्यादिना । विमता आत्मानः परमात्मनः परमार्थतो न भिद्यन्ते आत्मत्वत्परमात्मवदित्यनुमान इत्यर्थः । तत्रात्मत्वं नाम स्वप्रकाशत्वमिति परेणैवोक्तम् । स्वप्रकाशत्वं च न स्वविषयप्रककाशरूपत्वम् । कर्तृत्वकर्मत्वयोरेकत्र त्वन्मतेऽनङ्गीकारात् । किन्त्ववेद्यत्वे सत्यपरोक्षव्यवहारविषयत्वमेवेत्यङ्गीकृतम् । तच्च प्रमणवेद्यत्वाङ्गीकारिणामस्माकमसिद्धमित्यर्थः । देहादेर्नित्यत्वाद्यारोपितधर्मरूपेण बाध्यत्वेऽपि शक्तिरजतादिवत्स्वरूपेण बाध्यत्वाभावाद्धेतुमति देहादौ साध्याभावाद्व्यभिचार इत्याह — तर्हीति । मायिमते देहादेः स्वरूपेणैव बाध्यत्वाङ्गीकारादस्माभिरित्युक्तम् । यद्यपि सिद्धान्ते देहादेरेत्मनि स्वरूपेण वाऽऽत्मत्वादिधर्मरूपेण वाऽऽरोपितत्वं नास्त्येव । मम देह इति ह्येव न देहोऽहमिति प्रमा । उपचारश्च कृष्णोऽहमितीत्यादिवचनात् । यैर्वस्त्रमाल्याभरणानुलेपनैः श्वभोजनं स्वात्मतयोपलालितमित्यादिपुराणवचनानि तु देहात्मनोः स्पष्टविवेकाभावपराणीत्युक्तत्वाच्च । तथाऽप्यत्र नित्यत्वादिधर्मरूपेणारोपमङ्गीकृत्य स्वरूपेणाबाध्यत्वोक्तिरिति मन्तव्यम् । न च सर्वात्मनाऽबाध्यत्वमेव हेतुत्वेन विवक्षितमिति वाच्यम् । पक्षसपक्षयोरपि धर्मरूपेण बाध्यतासद्भावादसिद्धिसाधनवैकल्ययोरारोपापत्तिरिति ॥ तदपि देहादिकम् ॥ पक्षतुल्यत्वमिति ॥ सन्दिगधसाध्यममित्यर्थः । तथा च तत्र साध्याभावनिश्चयाभावान्न व्यभिचारचोदनावकाश इति भावः । देहादौ साध्याभावमुपपादयति — त्वाऽपीति । आत्माभेदवादिनाऽपीत्यर्थः । तदभेदस्य देहात्माभेदस्य । ननु देहात्माभेदस्याध्यस्तत्वेनापारमार्थिकत्वेऽपि प्रकृतसाध्यस्य भेदाभावत्वेन तस्य सत्यत्वोपपत्त्या कथं देहादौ साध्याभाव इत्यत आह — भेदाभावस्यैवेति ॥ तथा चाभेदो भेदाभाव इति पर्यायत्वान्न देहादौ साध्यसत्त्वमिति भावः । नन्वेवं चेत्सिद्धान्ते कथं कार्यकारणादीनां भेदाभेदोभयाङ्गीकार इति चेत् । सत्यम् । यद्यप्यभेदो न भेदाभावरूपः किन्तु तद्विरोधी । विरोधश्च वध्यघातुकभावरूपः । स च विरोधः क्वचिद्विशेषबलेन प्रतिबद्धो भवति । यत्रात्यन्ताभेद एव तत्र भेदसामान्यघटको विशेषो नास्त्येव । तथा च न सिद्धान्ते काऽप्यनुपपत्तिः । तथाऽपि परमते नैवमङ्गीकर्तुं शक्यते । भेदाभेदयोः क्वचित्सामानाधिकरण्यस्य विशेषानङ्गीकारिणा निर्वोढुमशक्यत्वात् । अतस्तन्मते भेदाभावस्यैवाभेदरूपत्वेनावश्याङ्गीकार्यत्वात्तन्मतरीत्यैवेयमुक्तिरिति ॥ ननु सिद्धान्तेऽपि कथमभेदस्य भेदाभावाद्बहिर्भावः । भेदस्य तादात्म्यप्रतिषेधरूपत्वात् । अभावाभावस्य प्रतियोगिस्वरूपत्वनियमेन तादात्म्यस्य भेदाभावरूपत्वावश्यम्भावादिति चेन्न । तथा सत्यत्यन्ताभावप्रतियोगिनोर्भेदाभेदयोरुभयोरप्यप्रामाणिकत्वप्रसङ्गात् । प्रामाणिकस्यात्यन्ताभावप्रतियोगित्वा सम्भवस्योपपादितत्वात् । अतो भेदो नाम तादात्म्यप्रतिषेधरूपोऽप्यन्योन्येभाव एव । अत एव तस्य धर्मिस्वरूपत्वमङ्गीकृतम् । भावाभावस्वरूपत्वान्नान्योन्याभावता पृथगित्यादौ । अभेदस्तु भावस्वरूप एव न भेदात्यन्ताभावरूपः । अत एव तस्यापि धर्मिस्वरूपत्वमङ्गीकृतम् । अत्यन्ताभावरूपत्वे धर्मिस्वरूपत्वायोगात् । तथा च सिद्धोऽभेदभेदाभावयोर्भेद इत्यलम् ॥ ज्ञानत्वं चेदिति ॥ यद्यपि सिद्धान्तेऽपि न ज्ञानत्वमात्मनः । ज्ञातुर्ज्ञानत्वायोगात् । अत एव प्रमाणलक्षणटीकायां स्वतन्त्रज्ञानमीशज्ञानमितीशज्ञानस्य लक्षणमभिधाय तत्र ज्ञानमितीशव्युदास इत्युक्तम् । तथाऽपि सविशेषतादात्म्यसत्त्वान्नैयायिकं प्रतीत्युक्तम् । तेन ज्ञानात्मनोरत्यन्तभेदस्यैवाङ्गीकारात् ॥ तवैवासिद्धेरिति ॥ ज्ञानरूपस्यात्मनो ज्ञानाधारत्वानङ्गीकारादिति भावः ॥ परमात्माननुसंहितदुःखाननुसन्धातृत्वमिति ॥ अत्र दुःखाननुसन्धातृत्वमित्युक्तौ परस्परदुःखाननुसन्धातृत्वस्य जीवेष्वपि सत्त्वादुपाधेः साधनव्यापकता स्यात् । अतः परमात्माननुसंहितेति दुःखविशेषणम् । ततश्च परमात्माननुसंहितं यद्दुःखं तदननुसन्धातृत्वमित्यर्थः । ततश्च जीवेषु परस्परदुःखाननुसन्धातृत्वसत्त्वेऽपि न परमात्माननुसंहितात्वावच्छेदेन दुःखाननुसन्धातृत्वम् । स्वस्वदुःखानुसन्धानसत्त्वात् । अतो न साधनव्यापकतेति भावः । यदि च दुःखशब्देन दुःखमात्रं विवक्ष्यते तदोपाधि व्यतिरेकेण बाधाद्युद्भावनेऽप्रयोजकताशङ्कायामनुकूलतर्कस्फोरणार्थमिदं विशेषणमिति बोध्यम् । ननूपाधेः प्रतिपक्षोन्नायकत्वेनैव दूषणत्वं न स्वतः । प्रकृते च न प्रतिपक्षः सम्भवति । विमता आत्मानः परमात्मनः परमार्थतो भिद्यन्ते परमात्माननुसंहितदुःखानुसन्धातृत्वाद् व्यतिरेकेण परमात्मवदिति प्रतिपक्षानुमानं कार्यम् । एतच्च प्राक् जीवो ब्रह्मप्रतियोगिकधर्मिसत्तासमानसत्ताकभेदाधिकरणमित्यत्रैवोक्तम् । अतो व्यर्थमिदमुपाध्युद्भावनमित्यत उक्तमुपाधेरित्यादि । माऽस्त्वस्योपाधेः प्रतिपक्षोन्नायकत्वेन दूषणत्वम् । तथाऽपि साध्यव्यापकत्वादुपाधेः पक्षाद्व्यावृतौ पक्षे साध्याभावस्यावश्यकत्वाद्बाधः । पक्ष एव व्यभिचारो वा भविष्यतीति भावः । स एवोपाधिदोषोऽपीति प्रमाणलक्षणादौ प्रतिपक्षोन्नायकत्वेनैवोपाधेर्दूषणताया उक्तत्वाद्बाधव्यभिचारान्यतरोद्भावनद्वारा दूषणत्वपक्ष इत्युक्तम् । आधिक्याख्यनिग्रहस्थानपरिहारायान्यतरेति ।
(३३)भेदचिन्तारत्नम्
एवं भेदे प्रमाणं प्रतिष्ठाप्याभेदे प्रमाणं पराचष्टे — यदुक्तमित्यादिना ॥ चिदचित्संवलनात्मकस्येति ॥ अहमिति प्रत्ययस्याहङ्कारविशिष्टचैतन्यविषयकत्वेनाहमित्येकाकारेणानुभवेन न शुद्धैक्यसिद्धिरिति ॥ वस्तुतस्त्वहम्प्रत्ययस्य शुद्धविषयत्वेऽपि नाभेद विषयता । चैत्रेण चैत्र एवाहं मैत्रश्च भविष्यामीत्यननुभवात् । किन्तु सर्वात्मना प्रत्युक्तरूपैकाकाराक्रान्तत्वमात्रं गोचरयति । अन्यथा घटेषु घटत्वैकाकारप्रत्ययात्तेषामैक्यं स्यात् । तत्र स्थूलत्वाणुत्वादिभेदप्रत्ययोऽस्तीति चेत् । अत्रापि सुखदुःखादिभेदप्रत्ययोऽस्तीत्युक्तम् । एतेनाहमनुभवस्य विशिष्टैक्यसिद्धिरिति निरस्तम् ॥ आद्य इति ॥ विमता आत्मान इत्याद्यनुमान इत्यर्थः । हेतूकृतमात्मत्वं नाम स्वप्रकाशत्वमित्युक्तम् । तदेव वेद्यत्वं स्वप्रकाशत्वं वा । नाद्य इत्याह — अवेद्यत्वे सतीति । न द्वितीयः । तस्यासिद्धेः । शिष्यशङ्कयाऽस्त्यप्रयोजकत्वं ब्रह्मानन्दाद्यननुसन्धानमुपाधिश्चेत्युत्तरं बाध्यम् । एतेन स्वव्यवहारे स्वातिरिक्तसंविदनपेक्षत्वं स्वप्रकाशत्वमिति परास्तम् ॥ स्वरूपेणेति ॥ अन्यथा विज्ञातस्य सम्यग्विदितत्वरूपं बाध्यत्वाङ्गीकारेऽपि स्वरूपेणाबाध्यत्वाङ्गीकारादित्यर्थः । सर्वथा बाध्यत्वविवक्षायामसिद्धिश्चेत्यपि ज्ञेयम् ॥ अध्यस्तत्वाङ्गीकारेणेति ॥ अन्यथा देहात्मवादिचार्वाकनिराकरणानुपपत्तिरिति ध्येयम् ॥ इति साध्याभावादिति ॥ परमार्थत इत्युक्तविशेषणस्य बाधितत्वादित्यर्थः । ननु तर्हि चिदाचिदैक्याभावे तस्य सर्वाद्वैतवादिनं कथमित्यत आह — भेदाभावस्यैवेति ॥ भेदापारमार्थिकत्वाभावस्येत्यर्थः । नाद्वैतवादित्ववादिविरोध इति वाक्यशेषः । यद्वा परमात्मनो न भिद्यन्त इत्यत्र परमात्मप्रतियोगिकभेदाभावमात्रस्यैव विवक्षितत्वेन देहादेरपि पक्षत्वे देहात्मभेदापत्तिरित्यत आह — भेदाभावस्यैवेति ॥ नैयायिकं प्रतीति भेदवादिनां सर्वेषां प्रतिवदित्वादिति भावः । वस्तुतस्तु ज्ञेयभावाज्ज्ञानत्वं दुर्निवाहम् । सव्यभिचारश्चेत्यूह्यम् ॥ उपाधेश्चेति ॥ यत्र परमात्मभेदस्तत्रोपाधिः । शिष्टं तु प्रयोजकतास्फुरणार्थम् । ननूपाधेः सत्प्रतिपक्षोन्नायकत्वेनात्र ब्रह्माननुसंहितदुःखानुसन्धातृत्वानुमानस्य साम्यमेव प्राप्तमिति नास्य स्वपक्षनिर्णायकत्वं स्यात्तथा चास्यैवानुमानस्य पृथक् स्वपक्षनिर्णायकप्रयोगो व्यर्थ इत्यत उक्तमुपाधेर्बाधव्यभिचारोद्भावनद्वारा दूषकतापक्ष इति ॥ परोक्तात्मत्वस्य प्रयोजकत्वादस्य च व्याहतिसत्त्वेन तद्बाधकत्वेनोपपत्तिरिति भावः ।
(३३)भेदचन्द्रिका
॥ अहङ्कारस्येति ॥ चिदचित्संवलनात्मकस्येत्यात्मभिन्नत्वे हेतुः । तदभेदे आत्माभेदेऽप्रमाणत्वात् । प्रमाणत्वाभावादित्यर्थः । अथवा प्रमाणत्वादिति पदच्छेदः । तदा तदभेदेऽहङ्कारभेदे । अहङ्काराभेदे एव प्रमाणत्वान्नात्मभेद इति योजना ॥ आद्यानुमान इति ॥ विमता आत्मानः परमात्मनस्तत्त्वतो न भिद्यन्ते आत्मत्वात्परमात्मवदित्यत्रेत्यर्थः ॥ असिद्धिरिति ॥ आत्मत्वं न हि जातिः किन्तु स्वप्रकाशत्वमिति त्वयैवोक्तं तच्चावेद्यत्वे सत्यपरोक्षव्यवहारयोग्यत्वमिति त्वयैव निरुच्यते स्वग्रन्थेषु । तत्रावेद्यत्वस्यास्मन्मते आत्मत्वस्यैवाभावादसिद्धिरित्यर्थः ॥ तर्हीति । मन्मते देहादेरारोपितं धर्मतो बाधोऽपि स्वरूपेणाबाध्यत्वात् । परमात्मप्रतियोगितात्त्विकभेदाभावाद्व्यभिचार इत्यर्थः । सर्वात्मना बाध्यत्वं न हेतूकर्तुं शक्यते पक्षसपक्षयोरपि धर्मतो बाधादिति भावः । ननु देहात्माभेदस्याध्यस्तत्वेऽपि देहात्मभेदाभावः सत्यः किन्न स्यादित्यत आह — भेदाभावस्यैवेति ॥ लाघवादिति भावः ॥ उपाधेरिति ॥ साध्यव्यापकस्य पक्षावृत्तिवृत्तित्वे बाधोद्भावनं तद्वृत्तित्वे व्यभिचारोद्भावनं द्वारमित्यर्थः ॥ परमात्माननुसंहितदुःखानुसन्धातृत्वमिति ॥ अत्र परमात्माननुसंहितेति नोपाधिघटकम् । अव्यावृत्तकत्वात् । किन्तूपाधि व्यतिरेकेण बाधोन्नयनदशायामनुकूलतर्कस्फोरणार्थम् । सत्प्रतिपक्षोन्नायकत्वेन दूषकत्वे तु सत्प्रतिपक्षत्वेऽपि पक्षमात्रव्यावर्त्तकविशेषणवत्त्वादयमेवोपाधिः स्यादिति नानेन सत्प्रतिपक्षोन्नयनं कर्तुं शक्यमिति स पक्षस्त्यक्त इति वा बोध्यम् । सुप्तमूर्छितेत्यादिव्यभिचारित्वं तु प्रागेव विवेचितम् ।
(३३)भेदसञ्जीविनी
एवं स्वपक्षे प्रमाणानि व्यवस्थाप्य भेदाभावे परोक्तप्रत्यक्षादिप्रमाणानि क्रमान्निराकरोति ॥ यदुक्तमित्यादिना ॥ चिदचित्संवलनात्मकस्येति ॥ अन्तःकरणावच्छिन्नचित्त एवाहं पदार्थतयाऽन्तःकरणानां च भिन्नत्वेन तद्भेदावश्यकत्वात् । सा प्रतीतिः सर्वचिदैक्ये न प्रमाणं किन्तु अन्तःकरण(त्वरूप)जात्यैक्य एव प्रमाणं स्यादित्यर्थः । तदभेदे चिदभेदेऽप्रमाणत्वात् प्रमाणत्वाभावादित्यर्थः ॥ आद्यानुमान इति ॥ विमता आत्मान इत्यनुमाने आत्मत्वं स्वप्रकाशत्वमिति पूर्वपक्षावसरे उक्तत्वात्तन्निराकरोति ॥ अवेद्यत्वेऽति ॥ अपरोक्षव्यवहारगोचरत्वे सति अवेद्यत्वमिति परैः स्वग्रन्थे निष्कर्षस्य कृतत्वात् ततासिद्धिमाह — अस्माभिरिति ॥ स्वातिरिक्तसंविदनपेक्षत्वमप्यसिद्धं सुषुप्तिकाले (स्व)व्यवहारस्यैवाभावात् । सुषुप्त्युत्तरकालीनस्याभिलपनरूपस्य व्यवहारस्य देहादितादात्म्याध्यासमालादिज्ञानेष्टसाधनताज्ञानादिरूपस्वभिन्नज्ञानसापेक्षताया अपि नियमेन सत्त्वात् । स्वातिरिक्तसंविदधीनस्वव्यवहारस्यैवाभावादित्यपि द्रष्टव्यम् । उपलक्षणविधया दिङ्मात्रप्रदर्शनं कृतम् । अत (एव) एतादृश(स्व)प्रकाशत्वस्य हेतुत्वसम्भवात्कथमनुमानमसिद्धमिति शङ्कानवकाशः ॥ देहादेरिति ॥ स्वरूपेणेति ॥ आत्मतादात्म्यरूपेण वा परानायत्तस्वस्वात्मिकत्वरूपेण वा बाध्यत्वात्स्वरूपेणेत्युक्तम् । सर्वात्मना बाध्यत्वाभावादात्मन्यपि नास्ति, देहतादात्म्यादिरूपेण बाध्यत्वादिति भावः ॥ पक्षतुल्यत्वमिति ॥ परमात्मप्रतियोगिकपारमार्थिकभेदाभावस्य देहादावपि मयाऽङ्गीकारादिति भावः ॥ त्वयाऽपीति ॥ अपिर्नैयायिकादिसमुच्चये ॥ देहात्माभेदस्येति ॥ साध्याभावादिति ॥ भेदाभेदरूपविरुद्धधर्मयोर्मध्येऽभेदस्य पारमार्थिकतायास्त्वयैवोक्तत्वेन भेदस्य पारमार्थिकत्वं बलाद्वाऽऽगतमिति व्यभिचारो दुरुद्धर इति भावः ॥ नैयायिकं प्रतीति । तस्यापि भेदसत्यत्ववादित्वादिदानीं तत्प्रक्रियामवलम्ब्यैव विचारस्य प्रवृत्तत्वादिति भावः । तवैवेति ॥ वृत्तिज्ञानोपादाने तदाधारत्वं मनस एव न पक्षीभूतात्मनि । स्वरूपज्ञानग्रहणेइ न तदाधारत्वमात्मनि स्वस्य स्वाधारत्वायोगादित्यसिद्धिरित्यर्थः ॥ उपाधेरिति ॥ साध्यव्यापकत्वेन गृहीतोपाध्यभावात्साध्याभावस्यैव निश्चयेन बाध एव तस्यान्तर्भावादिति भावः । सत्प्रतिपक्षोत्थापकत्वे समबलत्वं स्यादिति समबलप्रमाणविरोधस्यैव सत्प्रतिपक्षत्वात् । तच्च न घटते । उक्तोपाध्यभावरूपपरमात्माननुसंहितदुःखानुसन्धातृत्वस्यानुकूलतर्कसाचिव्येन भेदनिर्णायकताया एव सत्त्वात्पक्ष इत्युक्तम् । सत्प्रतिपक्षोत्थापकत्वे पक्षेतरत्वपर्यवसाय्येतदुपाध्यभावरूपसत्प्रतिपक्षहेतावपि पक्षेतरत्वस्योपाधित्वं वक्तुं शक्यत इति तत्पक्षपरित्याग इति केचित् । विशिष्टोपाध्यभावरूपहेतौ पूर्वोक्तरीत्या व्याप्तिग्रहौपयिकत्वाद्विशिष्टस्योपाधित्वं दुःखाननुसन्धातृत्वमात्रस्यैवोपाधित्वमितरांशस्य साध्याभावानुमानेऽनुकूलतर्कोत्थापकत्वेन सार्थक्यमेवेत्यवधेयम् ।
(३३)काशीतिम्मण्णाचार्य
एवं भेदे प्रमाणमुपपाद्य परोक्तमभेदप्रमाणं खण्डयति — यदुक्तमिति ॥ अहङ्कारस्येति ॥ अहम्प्रत्ययविषयस्यान्तःकरणावच्छिन्नचिद्रूपस्य शुद्धचिद्रूपत्वाभावान्न तत्प्रत्ययस्य शुद्धचिदैक्यप्रमाणत्वमिति भावः । यदप्युक्तमनुमानानि चेत्यादि तदप्यसदित्याह — आद्यानुमान
इति ॥ विमता आत्मानः परमात्मनः परमार्थतो न भिद्यन्ते आत्मत्वात् परमात्मवदित्यनुमान इत्यर्थः । अत्र हेतुभूतमात्मत्वं स्वप्रकाशत्वमित्युक्तम् । तद्दूषयति — अवेद्यत्वेति ॥ प्रकाशाविषयत्वरूपस्य स्वेतरप्रकाशाविषयत्वरूपस्य वेत्यर्थः । अस्माभिरनङ्गीकारादित्यनेन स्वात्मकप्रकाशविषयत्वरूपस्वप्रकाशत्वस्य क्रियाकर्मविरोधेन परैरनङ्गीकारादसिद्धिरिति सूचितम् । इतोऽतिरिक्तस्वप्रकाशत्वं तु दुर्वचमेवेति भावः । तर्हि न स्वप्रकाशत्वमात्मत्वम् । अपि तर्ह्यन्यदेवेत्याशङ्कते — अबाध्यत्वमिति ॥ ननु देहादेरारोपितकर्तृत्वाद्याकारेण बाध्यत्वात् कथमबाध्यत्वमित्याशङ्कापरिहाराय स्वरूपेणेत्युक्तम् । अयं भावः । सर्वथाऽबाध्यत्वस्य हेतुत्वेऽसिद्धिः । आत्मनोऽप्यारोपिताकारेण बाध्यत्वात् । अतः सत्त्वेनाबाध्यत्वं वाच्यम् । तच्च सत्त्वप्रकारकप्रमितिविषयत्वपर्यवसितं देहेन्द्रियादौ साध्यशून्येऽप्यस्तीत्यनैकान्त्यमिति ।
ननु देहादावप्यात्माभेदसाधनान्न दोष इत्याशङ्कां निराह — न चेति ॥ पक्षतुल्यं प्रकृतधर्मितुल्यं सन्दिग्धसाध्यकमिति यावत् । निश्चितसाध्याभाववति व्यभिचारस्यैव दोषत्वादिति भावः । देहादेः पक्षतुल्यत्वमसिद्धम् । तत्रात्माभेदाङ्गीकारेऽपसिद्धान्तापत्तेरित्याह — त्वयाऽपीति ॥ अध्यस्तत्वेति ॥ अन्यथा देहात्मनोरितरेतराध्याससमर्थनानुपपत्तेरिति भावः । तदभेदस्य देहपरमात्माभेदस्यापारमार्थिकतया पारमार्थिकभेदाभावरूपसाध्याभावादित्यर्थः । नन्वभेदस्यापारमार्थिकत्वेऽपि कुतस्तादृशसाध्याभाव इत्यत आह — भेदाभावस्येति ॥ न चाभेदस्ता
दात्म्यम् । तच्च स्वरूपमेव न भेदाभाव इति वाच्यम् । आत्मस्वरूपस्याप्यध्यस्तत्वेन मिथ्यात्वापातात् । न चाध्यस्तमपि देहादिस्वरूपमेव मिथ्या, नात्मस्वरूपमिति वाच्यम् । इतरेतराध्यासे वैचित्र्यकल्पनस्यायुक्तत्वात् । देहात्मनोः पारमार्थिकभेदाभावे तत एव तदुभयस्वरूपैक्यापत्तेश्च । इदमुपलक्षणम् । देहादेः पक्षतुल्यत्वेऽपि सन्दिग्धानैकान्त्यं दुर्वारमेव । अनुकूलतर्काभावे तस्यापि दोषत्वादित्यपि बोध्यम् । ।
॥ असिद्धेरिति ॥ नैयायिकेनात्मनो ज्ञानाधारत्वस्यैवोपगमात् पक्षदृष्टान्तयोः साधनस्य व्याप्तेश्चासिद्धेरित्यर्थः । यद्यपि वृत्तिज्ञाने व्यभिचारः सिद्धान्तेऽपि शक्यते वक्तुम् । तथापि नित्यज्ञानत्वस्य हेतुत्वे न तथेत्याशयः ॥ तवैवासिद्धेरिति ॥ आत्मनो ज्ञानमात्रत्वाङ्गीकारादिति भावः । न चाजडत्वमात्मत्वमिति वाच्यम् । जडत्वस्यानात्मत्वरूपतया परस्पराश्रयात् । न च पृथिव्यादिद्रव्यान्यत्वे सति गुणाद्यन्यत्वमात्मत्वमिति वाच्यम् । मां प्रति गुणाद्यन्यत्वासिद्धेः । तदनुक्तौ तार्किकमते गुणादौ व्यभिचारात् । कथञ्चित् हेतुनिर्वचनेऽप्यनुकूलतर्काभावादुपाध्यादिग्रस्तत्वं दुर्वारमित्याह — उपाधेरिति ॥ अत्र परमात्माननुसंहिताननुसन्धातृत्वमात्रं दुःखाननुसन्धातृत्वमात्रं वोपाधिः । प्रथमे दुःखेति स्वरूपकीर्तनम् । द्वितीये परमात्माननुसंहितेत्युपाधेः साध्यव्यापकत्वोपपादनमित्यवगन्तव्यम् । ननूपाधेर्बाधव्यभिचाराद्यनात्मकत्वाददूषणत्वमित्यत उक्तम् ॥ दूषणत्वपक्ष इति ॥ साक्षादनुमित्यविरोधित्वेन दूषणत्वायोगाद्बाधव्यभिचारोद्भावनद्वारेति ॥ परार्थप्रसङ्गादुद्भावनेत्युक्तम् । बाधोन्नयनद्वारा व्यभिचारोन्नयनद्वारा
वेत्यर्थः । प्रकृते चोपाध्यभावेन पक्षे साध्याभावानुमानस्योपाधिव्यभिचारेण हेतौ साध्यव्यभिचारानुमानस्य च सम्भवादिति भावः । यद्वा ननु पक्षे साध्यसन्देहेन विपक्षे च हेत्वभावेन क्वचिदुपाधेर्व्यभिचारोन्नायकत्वासम्भवात्कथं दूषणत्वमित्यत उक्तम् – बाधव्यभिचारोद्भावनद्वारेति ॥ बाधोन्नीतव्यभिचारोन्नयनद्वारेत्यर्थः । तथा चोपाधेः पक्षे साध्याभावनिश्चयसम्पादनद्वारा व्यभिचारोन्नायकत्वं सम्भवतीत्याशयः । अत्र च बाधोन्नायकत्वेनापि दूषणत्वं बोध्यम् ।
(३३)शर्कराश्रीनिवासाचार्य
एवं भेदेप्रमाणत्रितयमुपपाद्य यदुक्तभेदेप्रत्यक्षं तावदित्यादिना प्रमाणत्रयं तन्निराकुर्वन्प्रत्यक्षं तावन्निराकरोति ॥ यदुक्तमित्यादिना ॥ अहं कारस्येति ॥ अहमिति प्रत्यक्षं खल्वात्माभेदे मानमुक्तम् । तत्तदा स्याद्यदि तस्यात्मविषयकत्वं स्यात् । नच तदस्ति । तस्य त्वन्मतेछेतनाचेतनाचेतनमिश्रितान्तःकरणविषयत्वाङ्गीकारात् । तस्य चात्मनो भिन्नत्वात् । अतो नतद्विषयकाहम्प्रत्यय आत्माभेदेप्रमाणमित्यर्थः । अथात्माभेदसाधकानुमानानि निराचष्टे ॥ आद्य इत्यादिना ॥ विमता आत्मानः परमार्थतः परमात्मनो न भिद्यन्ते आत्मत्वात् परमात्मवदित्यत्र परेणैव खल्वात्मत्वं स्वप्रकाशत्वं नजातिविशेषइत्युक्तम् । तत्र स्वप्रकाशत्वं स्वविषयप्रकाशत्वरूपं कर्तृकर्मविरोधेन परेण नाङ्गीक्रियत इति प्रमाणान्तरावेद्यत्वरूपमेव तदङ्गीकार्यम् । तच्च मां प्रत्यसिद्धम् । मयाऽऽत्मनः प्रमाणान्तरवेद्यत्वाङ्गीकारादित्यर्थः । तर्ह्यन्यदेवात्मत्वमस्त्वितिचेत् तत्किमबाध्यत्वरूपमुतज्ञानत्वरूपमथज्ञानाधारत्वरूपमिति विकल्पान्हृदिनिधायाध्यन्तावद्दूषयितुं शङ्कते — अबाध्यत्वमिति ॥ इदं चात्मनस्त्वयाप्यङ्गीगृतमिति न पूर्वोक्तदोष इति भावः । दूषयति — तर्हि ति ॥ व्यभिचार इति ॥ अबाध्यत्वरूपहेतुमतिदेहादावात्मभेदाभावरूपसाध्याभावाद्व्यभिचार इत्यर्थः । व्यभिचारमाशङ्क्यनिराकरोति ॥ नचेति ॥ तद् देहादि । पक्षतुल्यं पक्षे यथाऽऽत्मभेदाभावः साध्यते तथा देहादावपि अतस्तत्र साध्याभावस्य सन्दिग्धत्वेन साध्यात्यन्ताभावनिश्चयवति हेतुवृत्त्यभावान्न व्यभिचार इत्यर्थः । ननूक्तरीत्या निश्चितव्यभिचाराभावेऽपि सन्दिग्धव्यभिचारः स्यादेव । साध्याभावसन्देहवतिहेतुनिश्चयस्यैव सन्दिग्धव्यभिचारत्वादिति चेन्न । तथात्वे सर्वेषां हेतूनां साध्याभावसन्देहवति पक्षे विद्यमानत्वेनानुमानमात्रोच्छेदापत्तेः । किन्तु निश्चितसाध्याभाववतिहेतुसन्देह एवसन्दिग्धव्यभिचारः । नचायं प्रकृतेऽस्तीति भावः । पक्षतुल्यत्वमेवासिद्धमित्याह — त्वयेति ॥ परमार्थत इति ॥ पारमार्थिकं परमात्मप्रतियोगिकभेदाभावरूपं यत्साध्यं तदभावादित्यर्थः । कुत इत्यत उक्तं रदभेदस्येति ॥ देहात्माभेदस्येत्यर्थः । तदपिकुत इत्यत उक्तम् । त्वयेति ॥ अध्यस्तत्वमारोपितत्वम् । अन्योन्यस्मिन्नन्योन्यात्मकतामध्यस्येति तदीयभाष्यादिति भावः नन्वत्रभेदाभाव एव साध्यते नाभेदो ऽतो मया देहाभेदस्याध्यस्तत्वाङ्गीकारेण तस्यापारमार्थिकत्वेऽपि देहात्मभेदाभावस्य पारमार्थिकत्वेनास्त्येव देहादौ साध्यमित्यत आह — भेदाभावस्येति ॥ तथाचाभेदस्याध्यस्तत्वाङ्गीकारे भेदाभावस्यापि तदङ्गीकृतमिति भावः । द्वितीययमाशङ्क्य निराचष्टे — ज्ञानत्वं चेदिति ॥ देहस्य चज्ञानरूपत्वाभावान्नोक्तदोष इति भावः ॥ नैयायिकं प्रतीति ॥ ज्ञानसमवायिकारणत्वमात्मत्वमिति वदता तेनात्मनो ज्ञानरूपत्वानङ्गीकारादिति भावः । तृतीयमाशङ्कते — ज्ञानाधारत्वमिति ॥ न अयारिकेनात्मनो ज्ञानाधारत्वाङ्गीकारान्नोक्तदोष इति भावः ॥ तवैवासिद्धेरिति ॥ त्वन्मते आत्मनो निर्गुणत्वेन ज्ञानाधारत्वानङ्गीकारादुक्तदोष इति भावः ॥ परमात्माननुसंहितेति ॥ परमात्माननुसंहितं परमात्माननुभूतं यद्दुःखं तदननुसन्धातृत्वं तदननुभवितृत्वमित्यर्थः । यत्रात्माभिन्नत्वं तत्र परमात्माननुसंहितदुःखाननुसन्धातृत्वं यथा परमात्मनि । यत्रात्मत्वं न तत्र परमात्माननुसंहितदुःखाननुसन्धातृत्वम् । जीवेष्वात्मत्ववत्सुपरमात्माननुसंहितदुःखानुसन्धातृत्वस्यैव सत्वेन साधना व्यापकत्वादिति भावः । ननूपाधेः साक्षाद्धेतुदोषत्वाभावेन प्रतिपक्षोद्भावकत्वेन हेतुदोषत्वं वाच्यम् । एवं चात्मानः परमात्मनः परमार्थतो भिद्यन्ते । परमात्माननुसंहितदुःखानुसन्धातृत्वाद्व्यतिरेकेण परमात्मवदित्युपाधि व्यतिरेकेण प्रतिपक्षानुमानं कार्यम् । इदं चव्यर्थम् । आत्मभेदसाधनावसर एवास्योक्तत्वादित्यत उक्तम् उपाधेर्बाधव्यभिचारोद्भावनद्वारा दूषणत्वपक्ष इति ॥ उपाधेः साधनाव्यापकत्वे साधनवतः पक्षद्वयावर्तमान उपाधिः साध्यव्यापकत्वेन साध्यमपि व्यावर्तयति । तथाच पक्षे साध्याभावनिश्चयाद्बाधः । पक्षे साध्याभावपमाया एवबाधत्वात् । तथोक्तरीत्या पक्षे साध्याभावनिश्चये तस्यैव विपक्षत्वात्तत्र हेतोः सत्वान्न व्यभिचारः । हेतोर्विपक्षवृत्तित्वस्यैव व्यभिचारत्वादिति यन्मतं तदनुसारेणेदमुपाध्युद्भावनम् । नतु तस्य स्वव्यतिरेकेण प्रतिपक्षोत्थापकत्वमिति मतानुसारेण । अतो नवैयर्थ्यमिति भावः ।