१४ (३२) भेदोज्जीवनम्

किञ्च घटः…

(३२)भेदोज्जीवनम्

(३२) किञ्च घटः घटसंसर्गानवच्छिन्नप्रतियोगिताकपटादिधर्मिकत्रैकालिकाभावप्रतियोगी द्रव्यत्वात्पटवत् । घटात्यन्ताभावो वा घटप्रतियोगिकपटादिधर्मिकत्रैकालिकाभावान्यो ऽभावत्वात्पटाभाववत् । घटसंसर्गो वा पटादिधर्मिकत्रैकालिकाभावप्रतियोगितावच्छेदकघटनिष्ठधर्मान्यः संसर्गत्वात्पटनिष्ठसंसर्गवत् । घटप्रागभावो वा घटसंसर्गानवच्छिन्नप्रतियोगिताकपटादिधर्मिकानाद्यभावान्यो ऽभावत्वात् पटप्रध्वंसवत् । घटप्रध्वंसो वा घटसंसर्गानवच्छिन्नप्रतियोगिताकपटादिधर्मिकनित्याभावान्यो ऽभावत्वात् पटप्रागभाव

वत् । घटपटयोरभेदवादिनाऽपि (पटे घटप्रतियोगिकान्योन्याभावाभावेऽपि) पटप्रतियोगिकात्यन्ताभावादेर्घटसंसर्गानवच्छिन्नप्रतियोगिकत्वादेरङ्गीकार्यत्वान्न साध्यवैकल्यादि दृष्टान्तस्य । तयोः पारमार्थिकाभेदेऽपि व्यावहारिकभेदमात्रेण पटप्रतियोगिकात्यन्ताभावादेर्घटसंसर्गानवच्छिन्नप्रतियोगिकत्वमित्यङ्गीकार्यत्वात् । अन्यथा घटार्थिनः पटे (पटार्थिनः) प्रवृत्तिप्रसङ्गः । सिद्धघटस्य पुंसः पटसामाग्र्यनुपादानप्रसङ्गश्च ॥ न च व्यावहारिकान्योन्याभावसिद्ध्याऽर्थान्तरत्वम् । त्रैकालिकत्वादिनाऽन्योन्याभावस्य विशेषितत्वात् । व्यावहारिकत्वे च तदयोगात् । अनुकूलतर्कस्यात्रैवो(न्यत्रो)क्तत्वान्नोपाध्याभाससमानयोगक्षेमत्वाप्रयोजकत्वानि (च)।

(३२)भावप्रदीपः

उक्तानुमानेऽप्रसिद्धविशेषणत्वादिदोषपरिहारक्लेशमालोच्य यथा तदप्रसक्तिः स्यात्तथाऽनुमानान्तरमाह — किञ्चेति ॥ पटो न घट इति साक्षिकमन्योन्याभावमादाय पक्षे साध्यपर्यवसानं बोध्यम् । अत्राभावप्रतियोगीत्युक्तौ प्रागभावप्रध्वंसादावादायार्थान्तरता ॥ अतस्त्रैकालिकेति ॥ यद्याप्यनित्यगतो भेदोऽनित्य एव तथाऽपि `नष्टानामपि वस्तूनां भेदो नैव विनश्यती’ति मतं नैयानिकमतं चावलम्ब्य त्रैकालिकत्वोक्तिः । घटे घटो नास्तीति प्रतीयमानं घटधर्मिकघटात्यन्ताभावमादायार्थान्तरतानिरासाय पटादिधर्मिकेति । तावत्युक्ते पटे घटो नास्तीति प्रतीयमानं घटात्यन्ताभावमादायार्थान्तरता । तन्निवृत्त्यै संसर्गानवच्छिन्नप्रतियोगिताकेति ॥ अत्यन्ताभावस्य संसर्गाभावप्रभेदत्वेन संसर्गावच्छिन्नप्रतियोगिताकतया तदनवच्छिन्नप्रतियोगिताकत्वाभावात् । इदमपि न्यायमतरीत्यैव । स्वमतेऽत्यन्ताभावस्य संसर्गाभावत्वानङ्गीकारात् । अत्यन्ताभावत्वस्य साक्षादेवाभावविभाजकत्वेन संसर्गाभावप्रभेदत्वस्य तत्त्वसङ्खयानटिकायां दूषितत्वात् । संसर्गप्रतियोगिभावस्य यथासम्भवं प्रागभावादिष्वेवान्तर्भावकथनाच्चेति मन्तव्यम् । पटे पटो नास्तीति प्रतीयमाने पटधर्मिकत्रैकालिकात्यन्ताभावे पटसंसर्गावच्छिन्नप्रतियोगिताके पटसंसर्गानवच्छिन्नप्रतियोगिताकत्वाभावेन दृष्टान्ते साध्यवैकल्यमिति शङ्कानिरासाय घटेति । तथा च पटे पटात्यन्ताभावस्य पटसंसर्गावच्छिन्नप्रतियोगिताकत्वेऽपि घटसंसर्गावच्छिन्नप्रतियोगिताकत्वाभावान्न साध्यवैकल्यमिति पदकृत्यं बोध्यम् । अस्मिन्नप्यनुमानेऽत्यन्ताभावव्यावृत्त्यर्थं संसर्गावच्छिन्नप्रतियोगिताकेति विशेषणप्रवेशाद्गौरवं मन्यमानोऽनुमानान्तराण्याह — घटात्यन्ताभाव इत्यादिना ॥ अत्रान्योन्याभावमादायैव पक्षे तदन्यत्वपर्यवसानं बोध्यम् । दृष्टान्ते पटात्यन्ताभावमादाय तदन्यत्वपर्यवसानम् । अत्राभावान्य इत्युक्ते प्रागभावप्रध्वंसावादाय तदन्यत्वसिद्ध्याऽर्थान्तरत्वम् । अतस्त्रैकालिकेति । तावत्युक्ते घटनिष्ठपटात्यन्ताभावन्यत्वसिद्ध्याऽर्थान्तरता । तद्व्यावृत्त्यर्थं घटप्रतियोगिकेति । तादृशश्चाभावोऽन्यो नास्तीत्यन्योन्याभावमादायैव तदन्यत्वेवाऽन्ये घटपटयोर्भेदसिद्धिरिति भावः । घटसंसर्गो वेति । अत्र पटे घटो नेति प्रतीतिसाक्षिकमन्योन्याभावमादायैव तत्प्रतियोगितावच्छेदको घटनिष्ठो यस्तादात्म्यरूपो धर्मस्तदन्यत्वरूपसाध्यपर्यवसानं पक्षे बोध्यम् । अत्र घटनिष्ठधर्मान्य इत्युक्ते रूपाद्यन्यत्वसिद्ध्याऽर्थान्तरता । अतोऽभावप्रतियोगितावच्छेदकेति । तावत्युक्ते प्रागभावप्रध्वंसाभावप्रतियोगितावच्छेदकोत्तरपूर्वकालीनत्वरूपघटनिष्ठधर्ममादाय तदन्यत्वेऽसिद्ध्याऽर्थान्तरता । तन्निवृत्त्यै त्रैकालिकेति । घटे घटो नास्तीति प्रतीतिसिद्धघटधर्मिकघटप्रतियोगिकात्यन्ताभावमादाय तत्प्रतियोगितावच्छेदकघटनिष्ठसंसर्गरूपधर्मान्यत्वस्य घटसंसर्गे बाधितत्वात्तद्वारणाय पटादिधर्मिकेति । तादृशश्चाभावोऽन्योन्याभावं विना नान्यो भवितुमर्हतीति घटपटयोर्भेदसिद्धिरिति भावः । दृष्टान्ते च पटे घटो नास्तीति प्रतीयमानघटात्यन्ताभावप्रतियोगितावच्छेदकघटनिष्ठसंसर्गान्यत्वमादाय साध्यपर्यवसानम् ॥ घटप्रागभावो वेति ॥ अत्र पटो न घट इति प्रतीतिसाक्षिकमनादिभूतमन्योन्याभावमादायैव तदन्यत्वरूपं साध्यं पक्षे बोध्यम् । अत्रानाद्यभावान्य इत्युक्ते घटनिष्ठपटात्यन्ताभावमादायार्थान्तरता । तद्वारणाय पटादिधर्मिकेति । तावत्युक्ते पटनिष्ठघटात्यन्ताभावमादायार्थान्तरता । तन्निरासाय घटसंसर्गानवच्छिन्नप्रतियोगिताकेति । तादृशश्चाभावो घटप्रतियोकपटधर्मिकान्योन्याभाव एव भवितुमर्हतीति घटपटयोर्भेदसिद्धिः । दृष्टान्ते च पटेपटो नास्तीति प्रतीतिसाक्षिकपटनिष्ठात्यन्ताभावमादाय तदन्यत्वरूपं साध्यं बोध्यम् ॥ घटध्वंसो वेति ॥ अत्रापि घटप्रतियोगिकपटधर्मिकमन्योन्याभावमादायैव तदन्यत्वं पक्षे पर्यवसेयम् । अत्र नित्याभावान्य इत्युक्ते घटे पटात्यन्ताभावमादायार्थान्तरता । अतः पटादिधर्मिकेति ॥ तावत्युक्ते पटे पटात्यन्ताभावमादायार्थान्तारता । अतः संसर्गानवच्छन्नप्रतियोगिताकेति ॥ तथापि पटे पटात्यन्ताभावमादायार्थान्तरता । तस्य पटसंसर्गानवच्छिन्नप्रतियोगिताकत्वादतो घटेति ॥ तादृशश्चाभावः पटो न घट इति प्रतीयमानोऽन्योन्याभाव एव भवतीति विवक्षितसिद्धिः । दृष्टान्ते पटप्रागभावे च पटे पटात्यन्ताभावमादाय तदन्यत्वरूपसाध्यपर्यवसानम् । ननु पूर्वानुमाने एतदनुमाने च घटसंसर्गानवच्छिन्नप्रतियोगिताकपटान्तरादिधर्मिकपटात्यन्ताभावमादाय तदन्यत्वं पक्षेऽस्त्वेति सिद्धसाधनम् । तन्निवृत्त्यर्थं घटप्रतियोगिकत्वेनाभावविशेषणे दृष्टान्ते साध्यवैकल्यम् । घटध्वंसतत्प्रागभावयोर्घटप्रतियोकत्वाभावादिति चेन्न । पटादिधर्मिकेत्यत्र पटादिपदेन पटादिसामान्यस्यैव विवक्षणीयत्वेन प्रतियोगिभिन्नघटादेर्ग्रहीतुमशक्यत्वात् । पटस्य घटादि पटान्तरेणापि भिन्नत्वस्याद्याप्यसिद्धत्वात् । सिद्धौ वा घटेनापि किमपराद्धम् । केचित्त्वेतच्छङ्कानिरासार्थं स्वप्रतियोगिप्रतियोगिकत्वेनाभावं विशिंषन्ति । तच्चिन्त्यम् । उक्तरीत्या पटादिपदेन पटादिसामान्यविवक्षायामुक्तशङ्काया एवानवकाशेन विशेषणदानवैयर्थ्यात् । तादृशाभावस्यान्योन्याभावमत्यन्ताभावं च विनाऽन्यस्याभावादनाद्यभावपदयोर्नित्याभावपदयोर्वा वैयर्थ्यापाताच्चेति ॥ नन्वत्र घटात्यन्ताभावादिपक्षकानुमानचतुष्टये साध्येऽन्यपदेनान्योन्याभाव एव ग्राह्यः । तथा च जडमात्रे तदनङ्गीकारिणं प्रति तस्य कुत्राप्यप्रसिद्धत्वात्कथं तत्साधने नाप्रसिद्धविशेषणता । अन्यथा परम्परां विना साक्षादेव घटः पटाद्भिन्न इत्येव प्रयोगप्रसङ्गादिति चेन्न । अत्र सर्वत्रान्यपदेन भेदमात्रस्य विवक्षितत्वात् । तस्य च व्यावहारिकभेदाङ्गीकारिणाऽप्यङ्गीकारादिति । नन्वत्र घटपक्षकाद्यानुमाने दृष्टान्तस्य साध्यवैकल्यम् । घटपटयोरभेदवादे पटाभावस्यापि घटभावरूपत्वेन पटप्रतियोगिकपटधर्मिकात्यन्ताभावस्य घटसंसर्गावच्छिन्नप्रतियोगिताकत्वावश्यम्भावात्तदनवच्छिन्नप्रतियोगिताकत्वाभावेन तादृशाभावं प्रति पटस्य प्रतियोगित्वाभावात् । एवं द्वितीयानुमानेऽपि । दृष्टान्तीकृतस्य पटधर्मिकपटाभावस्य घटपटयोरैक्यवादे घटप्रतियोगितयाऽपि सत्त्वेन घटप्रतियोगिकाभावरूपतासम्भवेन साध्यवैकल्यम् । दृष्टान्तदार्ष्टान्तिकभावस्य भेदव्याप्तत्वेन घटादिपक्षकानुमाने पटस्य वा पटाभावादेर्वा दृष्टान्तत्वानुपपत्तिश्चेत्यत आह — घटपटयोरिति ॥ अत्र प्रथमादिपदेन पटनिष्ठसंसर्गग्रहणम् । द्वितीयादिपदेन द्वितीयतृतीयानुमानयोर्घटप्रतियोगिकपटधर्मिकत्रैकालिकाभावान्यत्वे पटादिधर्मिकत्रैकालिकाभावप्रतियोगितावच्छेदकघटनिष्ठधर्मान्यत्वयोर्ग्रहणम् । साध्यवैकल्यादीत्यदिपदेन तु दृष्टान्तत्वानुपपत्तिः । नन्वभेदवादे कथमिदमङ्गीकर्तुमर्हतीत्यत आह — तयोरिति ॥ घटपटयोरित्यर्थः । अत्राप्यादिपदद्वयेन पूर्वोक्तानामेव ग्रहणम् । ततश्चायमार्थः । आद्यानुमाने तावन्न दृष्टान्ते साध्यवैकल्यम् । पटादिधर्मिकपटप्रतियोगिकात्यन्ताभावस्य घटपटयोर्व्यावहारिकभेदाङ्गीकारेण घटसंसर्गानवच्छिन्नप्रतियोगिकत्वसत्त्वे पटस्य तादृशाभावप्रतियोगितासद्भावात् । नापि द्वितीयानुमाने । घटपटयोर्व्यावहारिकभेदमात्रेण पटात्यन्ताभावस्य घटप्रतियोगिकपटधर्मिकात्यन्ताभावान्यत्वासम्भवात् । न चापि तृतीयानुमाने । पटनिष्ठसंसर्गस्य घटपटयोर्व्यावहारिकभेदाङ्गीकारादेव पटनिष्ठघटात्यन्ताभावप्रतियोगितावच्छेदकघटनिष्ठसंसर्गरूपधर्मान्यत्वसम्भवात् । अत एव घटघटात्यन्ताभावघटसंसर्गपक्षकानुमानेषु पटपटाभावपटनिष्ठसंसर्गानां दृष्टान्तत्वेनोपादानं चोपपद्यत इति ॥ विपक्षे बाधकद्वयमाह — अन्यथेति ॥ व्यावहारिकभेदमात्रेणोक्तव्यवस्थानङ्गीकार इत्यर्थः ॥ सिद्धघटस्येति ॥ बहुव्रीहिः । पटार्थिन इति शेषः । घटपटयोः पारमार्थिकाभेदस्य जागरूकत्वादिति भावः । पटसामग्य्रादीत्यादिपदेन पटपरिग्रहः । एषा च साध्यवैकल्यशङ्कातत्परिहारश्चाद्यानुमानत्रयविषय एव । न चतुर्थपञ्चमविषयः । तत्र दृष्टान्तीकृतयोः पटध्वंसतत्प्रागभावयोरनाद्यभावनित्याभावान्यत्वस्यैव सत्त्वात् । तर्हि तदनुमानत्रयान्तरमेवैष चर्चः कर्तव्य इति चेत् । सत्यम् । तथाऽपि घटपटभेदसाधनायैतदनुमानपञ्चकस्यापि प्रक्रान्तत्वेन मध्ये चर्चान्तरस्यानुचितत्वात्तदेव साधन एवायं चर्च उचित इति मन्तव्यम् । एके तु घटपक्षकानुमानविषय एवायं चर्च इत्याचक्षते । तत्रादिपदानां कृत्यं किमिति चिन्त्यम् । अन्ये तु घटात्यन्ताभावपक्षकद्वितीयानुमानविषय एवायं चर्च इत्यभिप्रेत्य दृष्टान्तस्य साध्यवैकल्यमुपपाद्यम् । एवं सिसाधयिषितान्योन्याभावेऽपि न घटसंसर्गानवच्छिन्नप्रतियोगिताकत्वम् । घटात्यन्ताभावतदन्योन्याभावयोरभेदात् । तथा च बाध इत्यभिप्रेत्य साध्यवैकल्यादीत्यादिपदेन बाधो ग्राह्यः । दृष्टान्तस्येति पक्षस्याप्युपलक्षणमित्याहुः । तत्राप्याद्यद्वितीययोरादिपदयोः कृत्यं चिन्त्यमेवेति ॥ व्यावहारिकत्वे चेति ॥ व्यावहारिकस्याविद्यकत्वेनाविद्यानिवृत्तौ मोक्षे तन्निवृत्तेरप्यावश्यकत्वेन त्रैकालिकत्वायोगादित्यर्थः । ननु जडभेदसाधकानुमानेषु सर्वत्र पक्षे तरत्वमुपाधिः । एवमेव साध्याभावस्यापि साधयितुं शक्यत्वेनाभाससमानयोगक्षेमत्वम् । हेतूनामप्रयोजकता चेत्यत आह — अनुकूलतर्कस्येति ॥ अन्यत्र न्यायामृत उक्तत्वादित्यर्थः । तत्र हि प्रथमपरिच्छेदे द्वैतप्रत्यक्षस्याद्वैतश्रुतिबाधकत्वखण्डनभङ्गे इदं रूप्यं गौरोऽहमित्यादिभ्रमाणां प्रमात्वं स्यात् । आत्मनि देहाद्भेदस्यानृतादिव्यावृत्तेश्च बोधकानां वेदान्तानामप्रामाण्यं च स्यात् । घटज्ञानेनैव तदभिन्नस्य ब्रह्मतदभेदादेः सर्वस्यापि वस्तुनो ज्ञातत्वेन सार्वज्ञं वेदान्तानां वैयर्थ्यं सद्यो मोक्षश्च स्यात् । सुखदुःखबन्धमोक्षभेदाभेददूषणभूषणजयपराजयभ्रान्तिप्रमादेरपि वस्तुतोऽभिन्नत्वेन सर्वसङ्करापत्त्या स्वक्रियास्वन्यायस्ववचनविरोधाश्च स्युरित्याद्युक्तम् । यद्यप्यत्रैव घटपटयोस्तादात्म्यस्य पारमार्थिकत्वाङ्गीकारे तु जीवब्रह्मणोरिव घटपटस्वरूपस्य पारमार्थिकत्वं स्यादित्यादिनाऽनुकूलतर्कः प्रागुक्तः । दूरस्थवनस्पत्योरभेदग्राहि च प्रत्यक्षं तत्त्वावेदकं स्यादिति वक्ष्यते च । तथाऽपि बहूनामनुकूलतर्काणां ज्ञापनार्थमन्यत्रेत्युक्तमिति ज्ञातव्यम् । केचित्त्वन्यत्र न्यायमृत उक्तत्वादुक्तप्रायत्वादिति व्याख्याय यदि घटपटयोस्तात्त्विकमैक्यं स्यात् तर्हि घटनाशे पटनाशः स्यात् । घटज्ञाने पटज्ञानं स्यादित्यादेस्तर्कस्य सत्त्वादित्याहुः ।

(३२)भेदचिन्तारत्नं

नन्वेवं तादात्म्यस्य मिथ्यात्वमस्तु । कथं तावता भेदपारमार्थिकत्वम् । न हीदानीं तादात्म्यनिराकरणमात्रेण परपक्षदूषणमुपक्रान्तम् । किन्तु भेदसत्यत्वसाधनेन स्वपक्षसमर्थनमेव । न च परस्परविरुद्ध्योरन्यतरस्त्वत एव सेत्स्यतीति वाच्यम् । भेदसिद्धावपि तत्पामार्थ्यसाधनोपायाभावादिति चेन्न । यत्र यत्सत्तावच्छिन्नस्य निषेधस्तत्र तत्सत्तावच्छिन्नस्यैव तद्विरुद्धस्यैव धर्मस्य विधिः । एवञ्च पारमार्थिकतादात्म्यनिषेधे तादृशस्यैव भेदप्राप्तिः प्रयोगश्च । तादात्म्यं स्वनिषेधप्रतियोगितावच्छेदकसत्तावत्स्वविरुद्धवन्निष्ठात्यन्ताभावप्रतियोगि मिथ्यात्वाज्जीवेश्वरभेदवत् । न च धर्मिणोऽपि तादृशसत्ताकत्वमुपाधिः । अन्यथा शशविषाणे नित्यत्वस्य मिथ्यात्वेऽनित्यत्वं स्यादिति वाच्यम् । तादात्म्यमुक्तधर्मवत्यधिकरणेऽभावप्रतियोगीति साधने उपाधेरपि पक्षे लाभात् । न चैवमुक्ते शशविषाणनित्यत्वे व्यभिचारः । मिथ्यात्वादित्यस्य सत्तावत्यधिकरणे निषेधप्रतियोगित्वादित्यर्थकत्वादिति ॥ ननु तथाऽपि तादात्म्यनिषेधमुखेन भेदोपलम्भो न साक्षात् । तथाऽपि धर्मिसत्त्वसाधनायासग्रस्तम् । न चैवं साक्षादेव घटः पटाद्भिन्न इति साधयामीति वाच्यम् । भेदाख्यपदार्थस्यैवाभावेनाप्रसिद्धविशेषणत्वात् । भेदव्यवहारस्त्वन्योन्यधर्मात्यन्ताभावेनैवोपपन्नः । न चैवं सर्वाद्वैतवादेऽन्योन्यधर्मात्यन्ताभावोऽप्ययुक्त इति वाच्यम् । धर्माणां स्वात्यन्ताभावसमानाधिकरणत्वाङ्गीकारात् । किञ्च भेदमात्रसाधने व्यावहारिकभेदे सिद्धसाधनम् । पारमार्थिकेति विशेषणे त्वप्रसिद्धिः । न चात्मभेदसाधन इव धर्मिसत्तासमानसत्ताकेति विशेषणसम्भवः । धर्मिणामपि व्यावहारिकत्वादित्यस्वरसात्प्रकारान्तरेण प्रयुङ्क्ते । घटसंसर्गानवच्छिन्नप्रतियोगिताकश्चासौ त्रैकालिकाभावश्च स च घटान्योन्याभाव इत्यभिप्रेतोऽर्थस्तत्प्रतियोगीत्यर्थः । घटप्रतियोगिकपटादिधर्मिकात्यन्ताभावेनान्यथासिद्धिवारणाय घटसंसर्गानवच्छिन्नप्रतियोगिताकेति ॥ अत्यन्ताभावस्योक्तसम्बन्धावच्छिन्नप्रतियोगिताकत्वेन तद्व्युदासः । अत्र संसर्गान्योन्याभावरूपस्थलद्वयेऽपि संसर्गतादात्म्ययोः प्रतियोगितावच्छेदकत्वेन लोकप्रसिद्ध्यनुसारादेवमुक्तिरिति ज्ञेयम् । वस्तुतस्तु तयोरारोप्यसम्बन्धमात्रं नावच्छेदकमित्युक्तं पुरस्तात् । एवञ्चात्र घटसंसर्गानारोप्यकेति तदर्थो ज्ञेयः । एवमुत्तरत्रापि । घटतादात्म्यावच्छिन्नेत्येवोक्तावप्रसिद्धसाध्यवैकल्ये स्यातामित्येवमुक्तिः । संसर्गानवच्छिन्नेत्याद्येवोक्तावपि तावेव दोषावित्यत आदौ संसर्गविशेषतया घटग्रहणम् । अप्रस्तुतचेतनभेदेनार्थान्तरतावारणाय घटादिधर्मिकेति ॥ वियदादिपदेन जडमात्रं विवक्षितमिति ज्ञेयम् । घटप्रागभावान्योन्याभावैरन्यथासिद्धिवारणाय त्रैकालिकेति ॥ अस्मिन्मते प्रागभावध्वंसयोः समवायिदेशवृत्तित्वनियमाभावेन पटादिधर्मिकेत्यनेनैव तद्व्युदासोपपत्तेः । कुतस्तदिति शङ्कानवकाशः । ननु प्रागभावध्वंसयोः संसर्गाभावत्वेन संसर्गानवच्छिन्नेत्यनेनैव व्युदासान्न तदर्थं त्रैकालिकपदमिति चेन्न । अत्रात्यन्ताभावस्यैव संसर्गाभावत्वरीत्याऽनुमानप्रवृत्तेः । यथोक्तं जयतीर्थश्रीमच्चरणैः । यच्चान्यैरत्यन्ताभावस्वरूपमुक्त्वा संसर्गप्रतियोगिकाभावोऽत्यन्ताभाव इति ॥ यद्वा संसर्गानवच्छिन्नेत्यस्य विशेषणान्तराघटितसंसर्गमात्रावच्छिन्नेत्यर्थः । एवञ्चात्रात्यन्ताभावे तन्मात्रावच्छेदकत्वेन तद्व्युदास इति ॥ व्यावहारिकान्योन्याभावमात्रव्युदासाय त्रैकालिकेति ॥ पटवदिति ॥ पटात्यन्ताभावस्य संसर्गानवच्छिन्नत्वेऽपि घटसंसर्गावच्छिन्नप्रतियोगिताकत्वाभावात्तत्प्रतियोगिनि पटे विशिष्टाभावेन साध्यमुपपादनीयम् । घटात्यन्ताभावो वेति ॥ घटप्रतियोगिकः पटादिधर्मिको यस्त्रैकालिकोऽभावस्तदन्य इत्यर्थः । स चान्योन्याभाव एवं वक्तव्य इति भावः । घटाद्यत्यन्ताभावेनार्थान्तरतावारणाय घटप्रतियोगिकेति पटादिधर्मिकेति त्रैकालिकेति पूर्ववत् ॥ पटाभाववदिति ॥ तस्योक्तरूपघटात्यन्ताभावान्यत्वेन साध्यवत्त्वं ज्ञेयम् । ननु तथाऽप्येकस्यात्यन्ताभावस्य घटादिप्रतियोगिकात्यन्ताभावान्यपरत्वेन सिद्धसाधनतेति चेन्न । घटत्वावच्छिन्नप्रतियोगिताकात्यन्ताभावस्य भेदेऽप्यवच्छेदकभेदाभावेनैकत्वात् । न च घटात्यन्ताभावस्य नीलघटात्यन्ताभावान्यत्वेन स एव दोष इति वाच्यम् । प्रतिज्ञायां घटप्रतियोगिकेत्यस्य घटत्वावच्छिन्नप्रतियोगिताकेत्यर्थकत्वात् । ननु तथाऽपि संयोगारोप्यघटात्यन्ताभावस्य सम्बन्धान्तरारोप्यकघटात्यन्ताभावत्वेनान्यथासिद्धिरेव । न चात्र स्वज्ञानकारणीभूतप्रतियोग्यारोपनिष्ठसम्बन्धान्यसम्बन्धानारोप्यकेति ॥ अभावो विशेषयितुं शक्यः । अन्योन्यभावस्यात्यन्ताभावाद्विलक्षणसम्बन्धारोप्यकत्वेन बाधात् । न चात्यन्ताभावमात्रस्यापि पक्षत्वान्नोक्तदोष इति वाच्यम् । सर्वात्यन्ताभावानामन्यत्वेनान्यथासिद्धेः । न चात्यन्ताभावोऽन्य इत्यस्यात्यन्ताभावावच्छिन्नाधिकरणताकान्यत्ववानित्यर्थो विवक्षित इति वाच्यम् । दृष्टान्तसाध्यवैकल्यापत्तेरिति ॥ मैवम् । घटात्यन्ताभावोऽन्य इत्यस्य यावत्स्वाधिकरणकमेकाभावनिरूपितं यदन्यत्वं तद्वानित्यर्थकत्वात् । स्वाधिकरणपदं स्वसमभिव्याहृतपरमिति न साध्यवैकल्यादिदोषः । नन्वत्रान्योन्याभावमात्रासिद्धिदशायामन्य इत्युक्ते साध्याप्रसिद्ध्याऽप्रसिद्धविशेषणतेति चेन्न । अन्यत्रान्यपदस्यान्योन्याभावमङ्गीकुर्वताऽप्यन्यादिव्यवहारविषयतया यद्विवक्षितं तन्मात्रार्थकत्वात् ॥ घटसंसर्गो वेति ॥ घटादिधर्मिको यस्त्रैकालिकाभावास्तत्प्रतियोगितावच्छेदकयोर्घटनिष्ठस्तदन्य इत्यर्थः । संसर्गस्तादात्म्येति धर्मद्वयं ह्यभावप्रतियोगितावच्छेदकतया विवक्षितम् । अत्र संसर्गस्य तादृशधर्मान्यत्वं तादृशतादात्म्यरूपधर्मान्यत्वेन पर्यवस्यति । तदवच्छेद्यप्रतियोगिताको योऽभावोऽन्योन्याभाव एवेति भावः । अत्र घटनिष्ठधर्मान्य इत्येवोक्ते रूपाद्यन्यत्वेनार्थान्तरम् । अतोऽवच्छेदकान्तं विशेषणम् । घटनिष्ठतादृशधर्मान्यत्वसिद्धिवारणाय घटनिष्ठेति ॥ पटनिष्ठसंसर्गवदिति ॥ तस्य पक्षभूतसंसर्गान्यत्वेन साध्यत्वं ज्ञेयम् । शेषं पूर्ववत् । घटप्रागभावो वेति ॥ घटसंसर्गानवच्छिन्नः पटधर्मिको योऽनाद्यभावः स घटाद्यन्योन्याभाव एवेति भावः । अत्र पटनिष्ठकुड्यात्यन्ताभावान्यत्वसिद्धिवारणाय घटप्रतियोगिकेत्यपि विशेषणं ग्राह्यम् । घटात्यन्ताभावान्यत्वासिद्धिवारणाय घटसंसर्गानवच्छिन्नप्रतियोगिताकेत्युक्तम् । व्यावहारिकान्योन्याभावसिद्धिवारणायादीति । इदं तु व्यावहारिकभेदस्यागन्तुकत्वाभिप्रायेणेति ज्ञेयम् । यद्वाऽनादीत्यनौपाधिकेत्यर्थः । अथवा ध्वंसान्यद्वारणायानादीति । अत्र संसर्गानवच्छिन्नेत्यनेनैव पूर्ववद्द्रष्टव्यः ॥ घटप्रध्वंसवदिति ॥ तस्योक्तरूपपक्षीकृत्य तद्धटप्रागभावान्यत्वेन साध्यत्वं ज्ञेयम् ॥ घटप्रध्वंसो वेति ॥ अत्रापि घटप्रतियोगिकेत्यपि ग्राह्यम् । वियत्पदं पूर्ववद्व्यावहारिकवारणाय वा प्रागभावव्युदासार्थं वेति ज्ञेयम् ॥ घटप्रागभाववदिति ॥ तस्योक्तरूपध्वंसान्यत्वेन साध्यवत्तवं ज्ञेयम् । नन्वेतेष्वनुमानेषु दृष्टान्तीकृतपटादौ घटसंसर्गानवच्छिन्नत्वेत्यन्ताभावप्रतियोगित्वादिना साध्यमुपपादनीयम् । तन्न युज्यते । सर्वाभेदवादिनो मम घटस्यैव पटत्वे पटात्यन्ताभावादेरपि घटसंसर्गानवच्छिन्नप्रतियोगिताकत्वात् । एवञ्च साध्यवैकल्याप्रसिद्धविशेषणत्वादीत्यत आह — घटपटयोरिति ॥ घटात्यन्ताभावपदेन कुड्यात्यन्ताभावादेर्ग्रहणम् । न तु घटपटप्रागभावादेः । प्रतियोगित्वादिरित्यादिपदेन द्वितीयाद्यनुमानाभिप्रेतघटादिप्रतियोगिकत्वादेर्ग्रहणम् । तदुपपादयति — तयोरिति ॥ त्वया घटपटादिव्यवहारसाङ्कर्याय व्यावहारिकभेदोऽङ्गीकृतः । तामेव व्यवस्थामाश्रित्य वयं साधयामः । वैयात्याद्व्यवस्थामनङ्गीकुर्वतोऽतिप्रसङ्गमाह — सिद्धपटस्येति ॥ घटपटयोरेकत्वेनोदितोत्पादनीयत्वाभावादिति भावः ॥ त्रैकालिकत्वादिनेति ॥ अत्रादिपदेनानादित्वादेर्ग्रहणम् । ननु किमिदं त्रैकालिकत्वम् । त्रिकालसम्बन्धित्वं वा त्रिकालाबाध्यत्वं वा । नाद्यः । व्यावहारिकेऽप्याकाशादिवत्तदविरोधात् । न द्वितीयः । साध्यवैकल्याप्रसिद्धविशेषणत्वापत्तेः । एवमनादित्वमपि प्रागभावाप्रतियोगित्वं वाऽविद्याप्रयोज्यत्वाभावो वा । तथा नित्यत्वमपि ध्वंसाप्रतियोगित्वं वा बाधागोचरत्वं वेति विकल्पासहमिति ॥ मैवम् । त्रैकालिकाबाध्यत्वमेव त्रैकालिकत्वम् । न चोक्तदोषः । अभावपारमार्थिकवादिनं प्रत्युपपत्तेः । न चैवमन्योन्याभावमात्रसाधने तस्य पारमार्थ्यं स्वतः सेत्स्यतीति त्रैकालिकेति विशेषणं व्यर्थमिति वाच्यम् । संसर्गाभावमात्रस्य पारमार्थिकत्वमङ्गीकृत्यान्योन्याभावमेव यो नाङ्गीकरोति । कथञ्चित्सम्भवेऽपि बाध्य एव भवेदिति मन्यते तं प्रत्युपपत्तेः । यद्वा त्रिकालसम्बन्धित्वं त्रैकालिकत्वम् । न चोक्तदोषः ।

भेदस्य सत्योपाधिजडान्यत्वं तद्विनाशनाश्यत्वं सर्वस्यापि सत्यत्वं यो भास्करोऽङ्गीकरोति तं प्रत्युपपत्तेः । अस्मिन्पक्षे मूले व्यावहारिकपदमौपाधिकपरमिति ज्ञेयम् । एवमनादित्वमपि निर्वचनीयमिति ॥ नन्वेतेष्वप्यनुमानेषु घटान्यत्वमुपाधिः । न च पक्षेतरत्वान्नोपाधित्वम् । पक्षमात्रानभ्युपगतसाध्यकानुमाने तादृशस्यैव वक्तव्यत्वात् । दूषकताबीजसद्भावे पक्षेतरत्वरूपमात्रस्याप्रयोजकत्वात् । किञ्चैते आभाससमानयोगक्षमाः । आद्यप्रयोगे संसर्गानवच्छिन्नेतिवत्तादत्म्यानवच्छिन्नेति प्रयोगे संसर्गाभावान्योन्याभावविलक्षणाभावान्तरसिद्ध्यापत्तेः । घटादिधर्मिकेति स्थाने घटधर्मिकेत्युक्ते स्वस्यैव स्वभेदापत्तेश्च । एवं द्वितीयप्रयोगेऽपीति । अपि च नेति प्रयोजकाः । हेतुसाध्ययोरनुबन्धानुपलम्भे इत्यत आह — अनुकूलेति ॥ अन्यत्रेति ॥ न्यायामृते । तथा हि । यदि जडानां परस्परभेदो न स्यात् । यदि चैक्यं पारमार्थिकं स्यात् तर्हि दूरस्थवनस्पत्यैक्यं प्रत्यक्षं न भ्रान्तिस्तद्बाध एव प्रमा स्यात् । स्वपरपक्षयोरैक्येन परदूषणे स्वक्रियाविरोधः स्यात् । दूषणसाधनयोरेकत्वेन परदूषणमेव तत्साधनं स्यात् । उपाध्यारोपकत्वेन जीवयोरौपाधिकभेदो न स्यात् । घटार्थिनः पटे प्रवृत्तिः स्यात् । परस्य नित्यदुःखमेव भूषणं स्यादित्यादि ।

ननु वनस्पत्यैक्यप्रत्यक्षं व्यावहारिक्यं गृह्णाति । तच्च नास्तीति भ्रान्तरिति चेत् । तस्यैक्यमात्रग्राहकत्वेन व्यावहारिकत्वोल्लेखस्यानानुभाविकत्वात् । अनुल्लेखिप्रत्यक्षस्यापारमार्थिकार्थस्वाभाव्याद्गृह्यमाणमैक्यमारोपितमेवेति चेत् तर्हि एको वनस्पतिरिति वाक्यजन्यं ज्ञानं प्रमा स्यात् । वाक्यस्य पारमार्थिकविषयत्वोपपत्तेः । तदप्यारोपिताविषयमिति चेत् तर्हि जीवब्रह्मैक्यमपि तथा स्यात् । किञ्चारोपितस्य बाधकोन्नेयत्वेन निर्बाधस्य वायुवनस्पत्यैक्यस्य नारोपितत्वम् । द्वौ वृक्षावित्युत्तरप्रत्यक्षस्य भ्रान्तित्वेन विषयाभावरूपप्रमात्वेन रूपबाधत्वायोगात् । तच्च व्यावहारिकभेदस्वक्रियाविरोधादिपरिहारः सम्भवतीति तन्नापरमार्थतस्तदापत्तिरिति ।

(३२)भेदचन्द्रिका

॥ किञ्च घट इति ॥ घटसंसर्गेणानवच्छिन्ना प्रतियोगिता यस्य पटादिधर्मिकत्रैकालिकाभावस्य तस्य प्रतियोगीत्यर्थः । पटे पटात्यन्ताभावमादाय साध्यं बोध्यम् । पक्षे तु घटात्यन्ताभावस्य घटसंसर्गावच्छिन्नप्रतियोगिताकत्वेन तमादाय साध्यपर्यवसानमित्यन्योन्याभावसिद्धिः । तस्य तादात्म्यावच्छिन्नप्रतियोगिताकत्वेन घटसंसर्गानवच्छिन्नप्रतियोगिताकत्वादिति भावः । त्रैकालिकत्वविशेषणं त्वन्योन्याभावस्य त्रैकालिकत्वरूपोद्देश्यसिद्ध्यर्थं साऽपि व्यावहारिकमन्योन्याभावमादाय सिद्धसाधनतानिवृत्त्यर्थमित्यग्रे स्फुटम् । न तु प्रागभावध्वंसाभावमादाय सिद्धसाधनतानिवृत्त्यर्थम् । तयोर्घटसंसर्गावच्छिन्नप्रतियोगिताकत्वेन सिद्धसाधनतानवकाशात् । एवं पटादिधर्मिकेति ॥ यद्यपि पटधर्मिकस्य घटान्योन्याभावस्य न सिद्धान्ते त्रैकालिकत्वं पटाद्यात्मकत्वात्तस्य तथाऽपि न्यायरीत्येदम् । अतद्गुणसंविज्ञानबहुव्रीहिणा नित्यधर्मिकान्योन्याभावाभिप्रायको वेति बोध्यम् ॥ घटात्यन्ताभावो वेति ॥ घटप्रतियोगिकपटधर्मिको यस्त्रैकालिकाभावस्तदन्य इत्यर्थः । पटात्यन्ताभावमादाय सिद्धसाधनतावारणाय घटप्रतियोगिकेति ॥ दृष्टान्ते घटात्यन्ताभावमादाय साध्यं बोध्यम् ॥ पटसंसर्गो वेति ॥ पटधर्मिको यस्त्रैकालिकाभावस्तत्प्रतियोगितावच्छेदको घटनिष्ठधर्मस्तदन्य इत्यर्थः । पटादिसंसर्गान्यत्वमादाय सिद्धसाधनतावारणाय घटनिष्ठेति ॥ धर्मपदार्थं तादात्म्यसंसर्गयोर्विशेषणम् । तेन घटतदवच्छिन्नप्रतियोगिताकस्त्रैकालिकपटधर्मिकोऽभावः सिध्यन् अन्योन्याभाव एव सिध्यति । संसर्गान्यत्वस्य पक्षे बाधादिति भावः । घटसंसर्गान्यत्वमादाय दृष्टान्ते साध्यमिति भावः ॥ घटप्रागभावो वेति ॥ घटसंसर्गेणानवच्छिन्ना प्रतियोगिता यस्य तादृशो यः पटधर्मिकोऽनादिरभावस्तदन्य इत्यर्थः । घटात्यन्ताभावान्यत्वमादाय सिद्धसाधनतावारणाय संसर्गानवच्छिन्नप्रतियोगिताकेति ॥ दृष्टान्तीकृते पटध्वंसे पटादिधर्मिकपटात्यन्ताभावान्यत्वमादाय साध्यसत्त्वात्तदर्थं घटेति ॥ धटात्यन्ताभावो यद्यपि संसर्गानवच्छिन्नप्रतियोगिताकस्तथाऽपि न घटसंसर्गानवच्छिन्नप्रतियोगिताक इति पटघटभेदसिद्ध्यर्थं पटादिधर्मिकेति ॥ पटधर्मिकपटीयरूपादिध्वंसान्यत्वमादाय सिद्धसाधनतावारणायानादीति । घटसंसर्गानवच्छिन्नप्रतियोगिताकभिन्नपटादिधर्मिकपटत्वान्यत्वमादाय तद्वारणायाभावेति ॥

ननु दृष्टान्तीकृतपटध्वंसे यथा पटात्यन्ताभावन्यत्वमादाय साध्यम् । तथा पक्षेऽपि तदन्यत्वमेवादाय साध्यमस्त्येवेति सिद्धसाधनम् । न च तन्निवृत्त्यर्थ घटप्रतियोगिकत्वविशेषणं देयमिति वाच्यम् । दृष्टान्ते साध्यवैकल्यापत्तेः । न च दृष्टान्ते घटप्रागभावान्यत्वमादाय साध्यं भविष्यतीति वाच्यम् । तस्य घटसंसर्गानवचिछन्नप्रतियोगिताकत्वघटादिधर्मिकत्वयोरभावात् । अग्रिमग्रन्थविरोधाच्च । सेयमुभयतः पाशारज्जुरिति चेन्न । स्वप्रतियोगिप्रतियोगिकत्वेनाभावविशेषणात् । स्वशब्दः समभिव्याहृतपरः पक्षे साध्ययोजनदशायां घटप्रागभावं बोधयति । दृष्टान्ते तद्योजने तु पटध्वंसम् । एवञ्च न सिद्धसाधनं न वा दृष्टान्ते साध्यवैकल्यमिति ॥ अनाद्यभावपदं तूपरञ्जके भविष्यतीति इति न किञ्चिदनुपपन्नम् ॥ घटप्रध्वंसो वेति ॥ पूर्ववदेवात्र सर्वं बोध्यम् । ननु जडानां परस्परं तत्त्वतो भेदस्याभाव इति मते घटपटयोरभेदेति घटात्यन्ताभावपटात्यन्ताभावयोरभेदाच्च न पटात्यन्ताभावस्य घटसंसर्गानवच्छिन्नप्रतियोगिताकभिन्नत्वमिति दृष्टान्ते साध्यवैकल्यम् । एवं सिषाधयिषिताऽन्योन्याभावेऽपि न घटसंसर्गानवच्छिन्नप्रतियोगिताकत्वम् । घटात्यन्ताभावतदन्योन्याभावयोरभेदात् । तथा च बाध इत्यत आह — घटपटयोरभेदवादिनेति ॥ इदमुपलक्षणम् । तदुभयात्यन्ताभावयोरभेदवादिना घटात्यन्ताभावघटान्योन्याभावयोरभेदवादिनेत्यपि बोध्यम् ॥ साध्यवैकल्यादीति । आदिपदेन बाधः । दृष्टान्तेत्युपलक्षणं पक्षस्यापि ॥ अन्यथेति ॥ व्यावहारिकभेदानङ्गीकार इत्यर्थः । ननु सर्वत्रापि पक्षेतरत्वस्य तत्समीपशीलस्यैवोपाधेः सम्भवात् । सोपाधिकत्वमन्योन्याभावत्वस्यापि साध्यशरीरप्रवेशेन सम्पन्नस्याभाससमानयोगक्षेमताऽप्रयोजकत्वं चेत्यत आह — अनुकूलतर्कस्येति ॥ अन्यत्र न्यायामृते । उक्तत्वाद् उक्तप्रायत्वात् । यदि घटपटयोस्तात्त्विकमैक्यं स्यात् तर्हि घटनाशे पटनाशः स्यात् । घटज्ञाने पटज्ञानं स्यात् । सिद्धघटस्य पुंसः पटसामग्र्युपादानं न स्यादित्यादेस्तर्कस्य सत्त्वात् । हेतोः साध्यव्याप्यत्वेन साध्यव्याप्यहेत्वव्यापकत्वेनोपाधेः साध्यव्यापकत्वात् । न सोपाधिकत्वम् । अन्योन्याभावान्यत्वस्यापि साध्यशरीरे प्रवेशेन सम्पन्नस्याभावस्याभाससमानात्मकस्याभासानामनुकूलतर्काभावेन न समानयोगक्षेमता । अत एव नाप्रयोजकत्वमपीति भावः ।

(३२)भेदसञ्जीविनी

॥ किञ्चेति ॥ घटसंसर्गानवच्छिन्नेति ॥ पटनिष्ठघटात्यन्ताभावमादाय सिद्धसाधनतावारणाय घटसंसर्गानवच्छिन्नेति । संसर्गानवच्छिन्नत्वमात्रोक्तौ भेदसिद्धेः प्राग्घटनिष्ठतादृशत्रैकालिकाभावाप्रसिद्ध्या साध्याप्रसिद्धिः स्यादतो घटसंसर्गेति । दृष्टान्ते तादृशं पट[घट]निष्ठं पटात्यन्ताभावमादाय साध्योपपत्तिः । तस्य घट[पट]सर्गावच्छिन्नत्वेऽपि पटसंसर्गानवच्छिन्नत्वात् । पक्षे चोक्तसाध्यसिद्धिरन्योन्याभावं विना न पर्यवस्यति । घटीयप्रागभावप्रध्वंसयोः प्रतियोगिसमवायकारणवृत्तित्वेन पटधर्मिकत्वाभावात् । प्राचीनमते पूर्वापरकालावच्छिन्नसमवाययोरेव तत्प्रतियोगितावच्छेदकतया घटसंसर्गानवच्छिन्नत्वा[न्ना]भावात् । त्रैकालिकत्वाभावाच्च । तादृशाभावान्योन्याभाव एव वक्तव्य इति

तत्सिद्धिः । न च पटधर्मिकेति विशेषणं व्यर्थम् । पटनिष्ठघटभेदरूपोद्देश्यसिद्ध्यर्थत्वात् । त्रैकालिकेत्यपि तदर्थमेव । तस्य पारमार्थिकत्वसिद्ध्यर्थत्वमप्यग्रे ग्रन्थ एव व्यक्तम् । न च व्यधिकरणसम्बन्धावच्छिन्नघटात्यन्ताभावं पटनिष्ठमादाय सिद्धसाधनमिति वाच्यम् । संसर्गावच्छिन्नपट[घट]निष्ठप्रतियोगित्वानिरूपकत्वस्य तदर्थत्वात् ॥ घटात्यन्ताभाव इति ॥ घटप्रतियोगिकत्वं पटात्यन्ताभावभेदमादाय सिद्धसाधनतावारणायान्यत्र भेदमङ्गीकृत्य घटपटस्थल एव व्यभिचारवेलायामेतत्साध्यस्य प्रवृत्तत्वान्न भेदघटितसाध्याप्रसिद्धिः शङ्क्या । पटधर्मिकत्वत्रैकालिकत्वयोः कृत्यं तु पूर्ववदेव । दृष्टान्ते पक्षीभूतघटात्यन्ताभावभेदमादाय साध्यमुपपादनीयम् । पक्षे तत्सिद्धेः स्वभेदमादाय पर्यवसानायोगात् । तादृशान्योन्याभाव सिद्धिः । न च पटनिष्ठघटप्रतियोगिकनानासम्बन्धावच्छिन्नात्यन्ताभावानां मध्ये एकस्मिन्परभेदमादाय साध्योपपादनसम्भवेन सिद्धसाधनता । घटात्यन्ताभावत्वावच्छेदेन साध्यसाधनेऽप्येकस्मिन्परभेदमादाय सर्वपक्षेषु साध्यसत्त्वात्साध्यतावच्छेदकरूपेण पक्षतावच्छेदकव्यापकत्वमबाधितमेव । भेदघटितव्यापकताभानमनुमितौ पूर्वमेव निराकृतमिति न तद्भानबलाद्भेदसिद्धिः स्यात् । घटप्रतियोगिकपटधर्मिकत्रैकालिकाभावत्वावच्छिन्नप्रतियोगिताकभेदसाधने पक्षेऽप्युक्तप्रतियोगितावच्छेदकाक्रान्ते साध्यस्याभावद्बाधापत्तिरिति चेन्न । अन्योन्याभावघटितैव यापकता सर्वत्रानुमितावुत्सर्गतो भासते । लघुशरीरत्वात् । तद्बाधग्रहसहकृतसामग्र्यधीनानुमितावत्यन्ताभावघटिता भासत इत्यभ्युपगमेन प्रकृते बाधनिश्चयाभावेनान्योन्याभावघटितव्यापकतया एव भावेनाभिमतसिद्धिः । लाघवज्ञानबलाद्वा प्रकृते तद्भानाङ्गीकारादभिमतसिद्धेः । अथवाऽऽश्रयनिष्ठप्रतियोगिताकत्वस्वसामानाधिकरण्योभयसम्बन्धेन घटात्यन्ताभावत्ववदन्यत्वेन साध्यीभूतभेदस्य विशेषणीयतयोक्तभेदानां तादृशत्वेन तद्वारणेनेष्टसिद्धेः ॥ घटसंसर्ग इति ॥ घटसम्बन्धिसंसर्ग इत्यर्थः । घटनिष्ठत्रैकालिकाभावप्रतियोगितावच्छेदको यो घटनिष्ठधर्मस्तदन्य

इत्यर्थः । दृष्टान्ते पटनिष्ठाभावान्तरीयप्रतियोगितावच्छेदकसंसर्गे एतादृशघटसंसर्गभेदमादाय साध्यमुपपादनीनयम् । तत्सिद्धेः स्वान्यत्वमादाय पर्यवसानायोगात् । तादृशाभावप्रतियोगितावच्छेदकीभूतं घटसंसर्गभिन्नतादात्म्यमुपादाय तद्भेदो वक्तव्यः । प्राचीनैस्तादात्म्यस्य संसर्गरूपत्वानङ्गीकारात् । आधाराधेयभावनियामकसंयोगसमवायस्वरूपादेरेव तथात्वाभ्युपगमात् । स एव भेद इत्युद्देश्यसिद्धिः । प्राचीनैस्तादात्म्यावच्छिन्नप्रतियोगिताकाभावस्यैव भेदत्वाभ्युपगमात् । न च तर्हि विषय[यि]तासम्बन्धस्य भवदुक्तसंसर्गपदार्थत्वाभावात्तत्साधारणरूपेण पक्षत्वेऽसिद्धिप्रसङ्गात्तस्य पक्षबहिर्भावावश्यकत्वे पटनिष्ठविषयता(सम्बन्धा)वच्छिन्नाभावप्रतियोगितावच्छेदकीभूतविषयताभेदमादाय सिद्धसाधनता विषयत्वादीनाम् । वृत्त्यनियामकतया तादात्म्यातिरिक्तवृत्त्यनियामकसम्बन्धस्याभावप्रतियोगितावच्छेदकत्वानङ्गीकर्तृप्राचीननैयायिकमते तस्य तादृशावच्छेदकत्वमेव नास्तीत्युच्यते । तथाऽप्यत्यन्ताभावीयप्रतियोगितावच्छेदघटत्वभेदस्य घटसंसर्गेषु सत्त्वात्सिद्धसाधनमेवेति वाच्यम् । संसर्गविधया या विलक्षणावच्छेदकता तद्वत्त्वावच्छिन्नप्रतियोगिताकभेदस्यैव साध्यत्वात् । अन्योन्याभावनिरूपितप्रतियोगितानिरूपिततादृशावच्छेदकतायास्तादात्म्य एवाङ्गीकारात्तद्भेदस्यैव साध्यत्वप्राप्तेः । घटत्वस्य वा तथात्वान्न तद्भेदमादाय सिद्धसाधनता । न चैकसंसर्गे अपरसंसर्गभेदमादाय सिद्धसाधनम् । तादृशाभावीयप्रतियोगितानिरूपितविलक्षणावच्छेदकताकत्वावच्छिन्नप्रतियोगिताकभेदस्य साधने बाधः । पक्षस्यापि तथाविधप्रतियोगितावच्छेदकधर्माक्रान्तत्वादिति चेन्न । पूर्वोक्तरीत्या घटनिष्ठसंसर्गत्वावच्छेदेन तादृशप्रतियोगितावच्छेदकभेदस्य साध्यता व्यापकता च भेदघटितैव भासत इति वा स्वसमानाधिकरणप्रतियोगिताकत्वस्वसमानाधिकरणानुयोगिकत्वोभयसम्बन्धेन घटसंसर्गत्वविशिष्टान्यत्वस्य साध्यीभूतभेदे निवेशनीयतया वारणसम्भवात् । न च प्रतियोगितावच्छेदके घटनिष्ठत्वविशेषणं दृष्टान्तीभूतपटसंसर्गे पटनिष्ठतादृशाभावीयप्रतियोगितावच्छेदकघटसंसर्गभेदाभावाद्व्यभिचारवाणायेति वक्तव्यम् [वाच्यम्] । तच्च न घटते । तादृशस्तम्भसंसर्गभेदमादाय साध्यसत्त्वादिति वाच्यम् । पक्षेऽपि तमादायैव साध्यसत्त्वोपपत्त्या भेदासिद्धिप्रसङ्गवारणाय तस्य सार्थकत्वात् ॥ घटप्रागभावो वेति ॥ घटसंसर्गानवच्छिन्नप्रतियोगिताकपटादिधर्मिको योऽनाद्यभावस्तदन्य इत्यर्थः । दृष्टान्ते घटसंसर्गानवच्छिन्नप्रतियोयोगिताकपटादिधर्मिकोऽनाद्यभावः पटरूपप्रागभावस्तदन्यत्वं वर्तते । पक्षे चैतादृशसाध्यं सिध्यत्पटभेदमादायैव पर्यवस्यति । घटात्यन्ताभावस्य घटसंसर्गानवच्छिन्नप्रतियोगिताकत्वविरहात् । अत एव तद्विशेषणं सार्थकम् । अन्यथाऽत्यन्ताभावाभेदमादायार्थान्तरतापातात् । संसर्गानवच्छिन्नप्रतियोगिताकत्वमात्रनिवेशे पटे पटभेदस्येवान्यभेदस्यापि विचारदशायां तुल्यन्यायेन सन्दिग्धतया पटनिष्ठरूपप्रागभावात्यन्ताभावानां संसर्गानवच्छिन्नप्रतियोगिताकत्वेन संसर्गानवच्छिन्नप्रतियोगिताकपक्षनिष्ठानाद्यभावप्रसिद्धिरतो घटसंसर्गेति । अनादित्वानुपादाने पटनिष्ठरूपध्वंसभेदमादाय सिद्धसाधनता स्यादतोऽनादीति । ननु पटनिष्ठरूपप्रागभाव एव हेतोर्व्यभिचारः । न च तादृशरसादिप्रागभावादिभेदसत्त्वान्न व्यभिचार इति वाच्यम् । तथापीति पक्षीभूतपटप्रगभावेऽपि तमादाय साध्यसत्त्वादेव सिद्धसाधनता । तादृशाभावत्वावच्छिन्नभेदसाधने घटप्रागभावस्य पटधर्मिकत्वाभावेनोक्ताभावत्वावच्छिन्नप्रतियोगिताकभेदसत्त्वात्सिद्धसाधनम् । पटे विद्यमानानाद्यभावेषु व्यभिचारश्चाधिकः । पटधर्मिकानाद्यभावे घटप्रतियोगित्वोपादाने भेदसिद्धेः प्राग्घटसंसर्गानवच्छिन्नघटप्रतियोगिकपटधर्मिकाभावाप्रसिद्ध्याऽप्रसिद्धेः । घट[पट]प्रतियोगिकप्रागभावस्य घट[पट]संसर्गानवच्छिन्नत्वविरहात् । पटधर्मिकत्वाच्च । अत्यन्ताभावस्य घटसंसर्गानवच्छिन्नप्रतियोगिताकत्वविरहात् । व्यधिकरणसम्बन्धावच्छिन्नप्रतियोगिताकघटप्रतियोगिकपटधर्मिकानाद्यभावभेदमुपादाय सिद्धसाधनतावारणाय घटसंसर्गेत्यस्य संसर्गानवच्छिन्नघटवृत्तिप्रतियोगिताकान्यत्वपर्यन्तमवश्यं विवरणीयतया तस्याप्यघटकत्वात् । अनादिपदवैयर्थ्यं च । पटनिष्ठसंयोगध्वंसादेर्घटप्रतियोगिकत्वेनैव वारितत्वेन तद्भेदमादाय सिद्धसाधनत्वाभावात् । मैवम् । पटधर्मिकोक्ताभावस्यैव स्वप्रतियोगिप्रतियोगिकत्वस्वभिन्नत्वोभयसम्बन्धेन साध्यत्वाङ्गीकारात् । पटध्वंसरूपे दृष्टान्ते पटधर्मिकपटात्यन्ताभाव एवोक्तसम्बन्धेन वर्तते । पक्षे (च) घटप्रतियोगिकानाद्ये भावान्तरभेदमादाय सिद्धसाधनत्वादेरनवकाशात् । न चैवं गगनाभावे प्रमेयत्वभेदे च पटनिष्ठे व्यभिचारः । तत्प्रतियोगिप्रतियोगिकाभावान्तरस्य तत्राभावादिति वाच्यम् । पटे प्रमेयत्वस्य स्वरूपसम्बन्धेन सत्त्वेऽपि व्यधिकरणसम्बन्धानवच्छिन्नानां बहूनामभावानां सत्त्वेनैकस्मिन्नपराभावमादाय साध्यत्वोपपत्तेः । एवं गननस्य समवायस्वरूपसम्बन्धाद्यनवच्छिन्ननानाभावानां घटे सत्त्वेनैकाभावमादायापरस्मिन्साध्यत्वान्न कुत्रापि व्यभिचारः । न च पटधर्मिकत्वानादित्वविशेषणयोर्वैयर्थ्यम् । घटप्रतियोगिकाभावानां घटप्रागभाव उक्तसम्बन्धेनासत्त्वात् । घटीय[पटीय]संसर्गाभावानां घटसंसर्गानवच्छिन्नत्वेनैव वारणादिति वाच्यम् । पटे घटभेदसिद्धेरुद्देश्यत्वेन पटधर्मिकत्वस्य, भेदे ज्ञानकल्पितत्वाभावरूपमिथ्यात्वाभावसिद्ध्यर्थमनादित्वस्य सार्थक्यात् । न चोक्ताभावस्य स्वप्रतियोगिप्रतियोगिकत्वसम्बन्धमात्रेण साध्यत्वेऽप्युक्तसाध्यस्यान्योन्याभावं विना पर्यवसानाभावाद्भेदघटितोभयसम्बन्धेन साध्यता व्यर्थेति वाच्यम् । उक्तवैयर्थ्यपरिहाराय प्रतियोगिप्रतियोगिकत्वस्य पटधर्मिकाभावांशाभाव एव साध्यकोटौ विशेषणीयत्वात् । न च तर्हि स्वप्रतियोगिप्रतियोगितादृशाभावकत्वमात्रं साध्यमस्तु तादृशा[श]भावान्यत्वं व्यर्थमिति वाच्यम् । बहुव्रीह्यर्थसम्बन्धस्यावश्यं निवेशनीयतया तद्भिन्नत्वस्यैव तत्कत्वपदार्थत्वात् । पक्षदृष्टान्तयोः स्वत्वा[सत्त्वा]ननुगमासहिष्णुतायां स्वप्रतियोगिप्रतियोगित्वसम्बन्धेन स्वविशिष्टो यः संसर्गावच्छिन्नघटवृत्तिप्रतियोगिताकान्यपटधर्मिकाभावस्तन्निष्ठप्रतियोगिताकभेदवत्त्वतादात्म्योभयसम्बन्धेन किञ्चिद्विशिष्टत्वं पक्षे साध्यम् । संसर्गकोटौ स्वत्वं परिचायकमिति नाननुगमः । सम्बन्धद्वयप्रयोजनं स्फुटमेव । अत्रेदमवधेयम् । उक्तसिद्धसाधनतापरिहाराय स्वप्रतियोगिप्रतियोगिकत्वस्य साध्यतावच्छेदकशरीरान्तः पातितया वा पूर्वोक्तोभयसम्बन्धत्वेन साध्यतावच्छेदकशरीरान्तःपातित्वे वा प्रकृतानुमानसिद्धान्योन्याभाव एव व्यभिचाराद्धेतोर्वस्तुतो दुष्टत्वापत्तिरतो भेदांशोऽनुपादेय एव व्यर्थत्वाद्दोषसम्पादकत्वाच्च[त्वात्] । न च मूलविरोधः । अस्या गोरन्योऽन्वेष्टव्य इत्यादावन्यपदस्य भेदघटितसाजात्यावच्छिन्नार्थकताया दृष्टत्वात् । प्रकृते साजात्यघटकप्रतियोगिप्रतियोगिकत्वमुपादाय भेदांशपरित्यागेऽपि मूलार्थस्यापरित्यक्ततया तद्विरोधविरहात् । प्रतियोगिमात्रोक्तावपि स्वप्रतियोग्यप्रतियोगिकत्वस्वभिन्नत्वोभयसम्बन्धेन तादृशाभाव एव साध्यमिति वस्तुतः पूर्वोक्तसाध्ये न कोऽपि दोषः । (वस्तुतः) घटसामान्यभेदतद्धटभेदानु[वु]पादाय परस्परसाध्यसत्त्वान्न व्यभिचारप्रसक्तिः । तथाऽपि मूलोक्तान्यत्ववैयर्थ्यपरिहाराय यथाकथञ्चित्सार्थकीकर्तुमुक्तप्रयास इत्यलमित्याहुः । परे तु घटरूपप्रागभावादिकमादाय सिद्धसाधनतावारणाय घटप्रतियोगिकत्वमेवाभावे विशेषणं

देयम् । घटप्रतियोगिकपटधर्मिकभेदसिद्धेः प्रागुक्तविशेषणाक्रान्ताभावाप्रसिद्ध्या साध्याप्रसिद्धिरिति न शङ्क्यम् । पटादिधर्मिक इत्यस्य पटावृत्तित्वप्रागभावाभिन्नत्वैतदुभयाभाववदर्थकत्वात् । आदिपदं तु स्तम्भादिकमपि निवेश्यमेव प्रयोक्तव्यमित्यभिप्रायेण । तादृशश्च पक्षीभूत एव घटप्रागभाव इति तदन्यत्वरूपसाध्यप्रसिद्ध्या दृष्टान्ते तमादायैवोपपादनसम्भवात् । पक्षीभूते स्वस्मिन्स्वभेदमादाय साध्यापर्यवसानात् । घटप्रतियोगिकपटधर्मिकभेदसिद्धिः । घटसंसर्गानवच्छिन्नघटप्रतियोगिकोक्ताभावकत्वमात्रोक्तौ घटप्रागभावरूपपक्ष एव तादृश इति स्ववैशिष्ट्यसामान्यं स्वस्मिन्वर्तत इति सिद्धसाधनमर्थान्तरता च स्यादतस्तदन्यत्वपर्यन्तानुधावनम् । ध्वंसप्रागभावप्रतियोगितयोः संसर्गानवच्छिन्नत्वमिति मताश्रयणान्न पुनः साध्याप्रसिद्धिशङ्कावकाशः । घटपटोभयवृत्तिद्वित्वावच्छिन्नप्रतियोगिताकभेदस्य पटाद्यवृत्तित्वाभावेनोभयाभाववत्त्वात् । घटप्रतियोगिकत्वाच्च तदन्यत्वमादाय सिद्धसाधनतानवकाशः । व्यासज्यवृत्तिधर्मावच्छिन्नभेदस्य पटादिरूपप्रतियोगिन्यवृत्तित्वाङ्गीकारेणोक्तोभयाभावविरहात् । अङ्गीकारे वा व्यासज्यवृत्तिधर्मावच्छिन्नप्रतियोगिताकान्यत्वेनाप्यभावस्य विशेषणीयत्वात् । घटमात्रप्रतियोगिकत्वं वा प्रतियोग्यवृत्तित्वं वाऽभावे निवेश्योक्तदोषो वारणीय इति तु न सत् । प्रथमविशेषणेन घटद्वय[द्वये ]भेदस्यावारणेन तदन्यत्वमादाय सिद्धसाधनत्वावारणात् । द्वितीयविशेषणपक्षे घटात्यन्ताभावस्याप्यनेनैव वारणेन घटसंसर्गानवच्छिन्नेत्यस्य वैयर्थ्यापत्तेरिति प्राहुः । वस्तुतस्तु घटसंसर्गानवच्छिन्नेत्यस्य घटसंसर्गावच्छिन्नप्रतियोगिताकोऽभाव इति विग्रहः । घटपदोत्तरषष्ठ्यर्थस्य प्रतियोगित्वस्याभाव एवान्वयः । संसर्गानवच्छिन्नप्रतियोगिताकेत्येतदत्यन्ताभावभिन्नत्वतात्पर्यकम् । अत्यन्ताभावप्रतियोगिताया अवश्यं संसर्गावच्छिन्नत्वनियमात् । प्रागभावध्वंसप्रतियोगित्वयोर्धर्मावच्छिन्नत्वसंसर्गावच्छिन्नत्वाङ्गीकारात् । पटा[घटा]दीत्यत्रादिपदग्राह्यतावच्छेदकरूपं घटत्वाभाववत्त्वम् । तथा च घटप्रतियोगिकोऽत्यन्ताभावभिन्नो घटत्वाभाववद्धर्मिको योऽनाद्यभावस्तदन्यत्वं साध्यं पर्यवसितम् । अत्र घटत्वानधिकरणकपालवृत्तिघटप्रागभावभेदमादाय दृष्टान्तादिषु सर्वत्र साध्यसत्त्वनिर्वाहः । पक्षे स्वभेदमादाय पर्यवसानायोगाद्धटभेदस्य पटादिनिष्ठस्य सिद्धिः । कपालवृत्तिरूपप्रागभावभेदमादाय सिद्धसाधनतावारणाय घटप्रतियोकिति ॥ घटत्वानधिकरणवृत्तिघटात्यन्ताभावभेदमादाय तद्वारणायात्यन्ताभावभिन्नेति ॥ धटध्वंसभेदमादाय सिद्धसाधनतावारणायानादीति । घटत्वेतरधर्मानवच्छिन्नघटवृत्तिप्रतियोगिकत्वंवक्तव्यम् । तेन घटासमवेतभेदस्यापि घटप्रतियोगि(ता)कतया प्रागभावनिष्ठतद्भेदमादाय नार्थान्तरता । घटप्रागभावप्रतियोगिताया धर्मानवच्छिन्नत्वात्तद्भेदमादाय दृष्टान्ते साध्यत्वनिर्वाहः । घटान्यस्मिन्सर्वत्र घटभेदसिद्धेरुद्देश्यायाः सम्पत्तये [च] घ[प]टत्वाभाववद्धर्मिकेति विशेषणमिति सारम् ॥ घटध्वंसो वेति ॥ पूर्वानुमानवदेव सर्वम् । ज्ञानोच्छेद्यस्वरूपं मिथ्यात्वादित्यादिमतनिरासपूर्वकं भेदस्य पारमार्थिकत्वद् सिद्धये नित्यत्वविशेषणमनुसन्धेयम् । घटाभेदस्य (पटे) स्वसिद्ध्यभाववेलायां पटात्यन्ताभावस्यापि घटसंसर्गा(न)वच्छिन्नप्रतियोगिताकत्वेन पटात्यन्ताभावप्रतियोगितात्वमुपादाय कथं पटस्वरूपे दृष्टान्ते साध्यसत्त्वमित्याशङ्कां व्यावहारिकभेदस्य सर्वव्यवहारनिर्वाहक्षमत्वे (न उक्तदूषण)परिहारक्षमत्वमपि वर्तत इत्याशयेन परिहरति — घटपटयोरित्यादिना न दोषप्रसङ्गश्चेत्यन्तेन ॥ अन्योन्याभावोऽपि घटसंसर्गावच्छिन्नो न भवतीति क्रमेण । बाधः साध्यवैकल्यादीत्यत्रादिपदार्थः । त्रै कालिकत्वादिनेति पदार्थाय कालिकत्वादिनेति ॥ आदिनाऽनादित्वनित्यत्वयोर्ग्रहः ॥ व्यावहारिकत्वे चेति ॥ अज्ञानकल्पितत्वे ज्ञानोच्छेद्यत्वे चेत्यर्थः ॥ अनुकूलतर्काणामिति ॥ न्यायामृतादावित्यर्थः । भेदस्य पारमार्थिकत्वे घटनाशे सति पटनाशः स्यात् । बन्धमोक्षयोरैक्यापत्त्येदानीं मुक्तत्वापत्त्या तदर्थं श्रवणाद्यनुपपत्तिरूपस्तर्क इति ज्ञेयम् ॥ नोपाधीति । पक्षेतरत्वमुपाधिः । घ(प)टतादात्म्यानवच्छिन्नघटप्रतियोगिकत्वमप्यभावे निवेश्य प्रयोगे पञ्चमाभावसिद्ध्यापत्त्याऽऽभाससाम्यप्रयोजकत्वं (चे)वेत्यर्थः ।

(३२)काशीतिम्मण्णाचार्य

॥ किञ्चेत्यादि ॥ घटसंसर्गेणानवच्छिन्ना प्रतियोगिता यस्य तादृशो यः पटादिधर्मिकस् त्रैकालिकोऽभावस्तत्प्रतियोगीत्यर्थः । दृष्टान्ते पटात्यन्ताभावमादाय साध्यसत्त्वं, पक्षे च तत्प्रतियोगित्वबाधाद्धटपटभेदमादायैव साध्यपर्यवसानादुद्देश्यसिद्धिः । घटात्यन्ताभावप्रतियोगितामादाय सिद्धसाधनवारणाय घटसंसर्गानवच्छिन्नेति । तत्र

घटपदं दृष्टान्ते साध्यवैकल्यवारणाय । न च संयोगेन पटो नास्तीति प्रतीत्या संयोगसामान्यस्यैव प्रतियोगितावच्छेदकत्वावगाहनात् कथं पटाभावस्य घटसंसर्गानवच्छिन्नप्रतियोगिताकत्वमिति वाच्यम् । लाघवेन प्रतियोगिसंसर्गस्यैव प्रतियोगितावच्छेदकत्वात् । घटत्वसहितसंसर्गानवच्छिन्नत्वविवक्षणाद्वा दोषाभावात् । आत्मानात्मभेदसिद्ध्याऽर्थान्तरवारणाय पटादिधर्मिकेति । पटे घटभेदसिद्धेरुद्देश्यत्वे पटधर्मिकत्वमभावविशेषणम् । दण्डादौ तत्सिद्धेरुद्देश्यत्वे च तद्धर्मिकत्वमेव तथेत्यावेदयितुमादिपदम् । घटध्वंसप्रागभावप्रतियोगितामादाय सिद्धसाधनवारणाय त्रैकालिकेति । न च तयोः प्रतियोगिसमवायिमात्रवृत्तित्वनियमेन पटादिधर्मिकत्वाभावादेव वारणसम्भव इति वाच्यम् । तादृशनियमे मानाभावात् । ध्वंसप्रागभावयोः प्रतीतिबलेन प्रतियोगिसम्बन्धिमात्रवृत्तित्वौचित्यात् । पटादेरपि संयोगादिना प्रतियोगिसम्बन्धित्वात् ।

यत्तु घटध्वंसप्रागभावयोः संसर्गाभावत्वेन घटसंसर्गानवच्छिन्नप्रतियोगिताकत्वाभावादेव वारणं सम्भवतीति । तच्चिन्त्यम् । ध्वंसप्रागभावयोः संसर्गावच्छिन्नप्रतियोगिताकत्वानङ्गीकर्तृतार्किकैकदेशिमतेनैतत्प्रयोगात् । अत एव सिद्धान्ते पटादिधर्मिकभेदस्य धर्मिस्वरूपत्वेन त्रैकालिकत्वानुपपत्तावपि न बाधप्रसङ्गः । यत्त्वतद्गुणसंविज्ञानबहुव्रीहिणा पटादिपदस्य नित्यमात्रपरत्वान्न दोष इति । तदसङ्गतम् । तथा सति प्रक्रान्तघटपटभेदासिद्धिप्रसङ्गात् । पटादिधर्मिकसमवायादिप्रतियोगित्वसिद्ध्याऽर्थान्तरवारणायाभावपदम् । एवमग्रेऽपि ।

॥ घटात्यन्ताभावो वेति ॥ अत्र घटात्यन्ताभावान्यत्वमादाय दृष्टान्ते साध्यसत्त्वम् । पक्षे तद्बाधादन्योन्याभावान्यत्वमादायैव साध्यपर्यवसानादुद्धेश्यसिद्धिः । पटात्यन्ताभावादन्यत्वमादाय सिद्धसाधनवारणाय घटप्रतियोगिकेति विशेषणं पूर्ववत् । यद्यपि घटात्यन्ताभावस्यापि घटप्रतियोगिकपटादिधर्मिकत्रैकालिकाभावत्वेन तदन्यत्वासम्भवाद्बाधः । तथापि यादृशाभावादन्य इत्येकवचनान्तेन समासात्, तादृशयत्किञ्चिदभावान्यत्वस्यैव साध्यत्वलाभान्न दोषः । न चैवं तादृशघटपटोभयाभावान्यत्वमादाय सिद्धसाधनम् । घटात्यन्ताभावत्वावच्छेदेन तदन्यत्वसाधनात् ।

॥ घटसंसर्गो वेति ॥ अत्र घटात्यन्ताभावप्रतियोगितावच्छेदको यो घटसंसर्गस्तदन्यत्वमादाय दृष्टान्ते साध्यं बोध्यम् । पक्षे च तदयोगात् पटधर्मिकभेदप्रतियोगितावच्छेदकीभूततादात्म्यान्यत्वमादाय साध्यपर्यवसानादुद्देश्यसिद्धिः । न च घटात्यन्ताभावप्रतियोगितावच्छेदकघटत्वान्यत्वमादाय सिद्धसाधनमिति वाच्यम् । पटधर्मिकत्रैकालिकयत्किञ्चिदभावप्रतियोगितावच्छेदकत्वावच्छिन्नभेदस्य साध्यत्वात् । यत्किञ्चिदभावपदेन घटात्यन्ताभावपरिग्रहे तत्प्रतियोगिताच्छेदकत्वावच्छिन्नभेदस्य पक्षे बाधितत्वेन भेदसिद्धेरावश्यकत्वात् । न च घटस्यैकसंसर्गे अपरसंसर्गावच्छिन्नात्यन्ताभावप्रतियोगितावच्छेदकत्वावच्छिन्नभेदस्य सिद्धत्वात् सिद्धसाधनमिति वाच्यम् । घटसंसर्गत्वावच्छेदेन साध्यसिद्धेरुद्देश्यत्वेन दोषाभावात् । पटसंसर्गावच्छिन्नपटात्यन्ताभावप्रतियोगितावच्छेदकभेदमादाय सिद्धसाधनभङ्गाय घटनिष्ठेति । अन्यत् पूर्ववत् । संसर्गत्वं च मिथो भिन्नप्रतियोग्यनुयोगिकसम्बन्धत्वं, तादात्म्यातिरिक्तसम्बन्धत्वं वेति ध्येयम् ॥

॥ घटप्रागभावो वेति ॥ घटस्य यः संसर्गानवच्छिन्नप्रतियोगिताकपटादिधर्मिकानाद्यभावस्तदन्य इत्यर्थः । दृष्टान्ते घटप्रागभावान्यत्वमादाय साध्यसत्त्वम् । पक्षे च तदनुपपत्त्या पटधर्मिकभेदभिन्नत्वमादायैव साध्यपर्यवसानादुद्देश्यसिद्धिः । घटध्वंसान्यत्वेन सिद्धसाधनवारणायानादीति । अन्यधर्मिकभेदसिद्ध्याऽर्थान्तरवारणाय पटादिधर्मिकेति । घटात्यन्ताभावान्यत्वेन सिद्धार्थताभङ्गाय संसर्गानवच्छिन्नप्रतियोगिताकेति । पटादिधर्मिकरूपादिप्रागभावान्यत्वमादाय तद्दोषवारणाय घटेति । तस्य च घटप्रतियोगिकत्वाभावान्न दोषः । अत्राभावान्तरस्य दृष्टान्तत्वसम्भवेऽपि पटधर्मिकानाद्यभावान्यत्वस्य पटध्वंसे स्फुटत्वात्तस्यैव दृष्टान्तीकरणमिति ज्ञातव्यम् ।

केचित्तु घटसंसर्गेणानवच्छिन्नप्रतियोगिताको यः पटधर्मिकानाद्यभावस्तदन्यत्वं साध्यार्थः । घटात्यन्ताभावान्यत्वमादाय सिद्धसाधनवारणाय घटसंसर्गेत्यादि । तत्र घटपदं तु दृष्टान्ते पटात्यन्ताभावान्यत्वमादाय साध्यसत्त्वनिर्वाहार्थम् । घटपटभेदरूपोद्देश्यसिद्ध्यर्थं पटादि

धर्मिकेति । पटीयरूपादिध्वंसान्यत्वमादाय सिद्धार्थत्वनिरासायानादीति । प्रथमदलस्य घटसंसर्गावच्छिन्नप्रतियोगिताकान्यपरतया तथाविघपटत्वाद्यन्यत्वमादाय तद्दोषवारणायाभावपदम् ।

नन्वेवं दृष्टान्तवत् पक्षेऽपि पटात्यन्ताभावान्यत्वमादाय सिद्धसाधनम् । न च घटप्रतियोगिकत्वेनाभावो विशेषणीयः । दृष्टान्ते साध्यवैकल्यापत्तेः । न च घटप्रागभावान्यत्वमादाय दृष्टान्ते साध्यसत्त्वनिर्वाह इति वाच्यम् । तस्य घटसंसर्गानवच्छिन्नप्रतियोगिताकत्वपटादिधर्मिकत्वशून्यत्वात् । घटपटयोरित्यग्रिमग्रन्थविरोधाच्च । तस्य पटात्यन्ताभावान्यत्वमादाय दृष्टान्ते साध्यसत्त्वोपपादनपरत्वादिति चेन्न । स्वप्रतियोगिप्रतियोगिकत्वेनाभावविशेषणात् । स्वपदस्य प्रतिज्ञायां पक्षपरत्वादुदाहरणे च दृष्टान्तपरत्वान् न कोऽपि दोष इत्याहुः । तच्चिन्त्यम् । अनादिपदवैयर्थ्यापत्तेः । अनुमानपञ्चकेऽप्यत्यन्ताभावमादायैव दृष्टान्ते साध्यसत्त्वोपपादने त्रैकालिकत्वानादित्वनित्यत्वरूपविभिन्नविशेषणोपादानस्य निर्बीजत्वप्रसङ्गाच्च । एतेन व्यावहारिकभेदसिद्ध्याऽर्थान्तरवारणमनादिप्रदप्रयोजनमित्यपास्तम् । तावन्मात्रस्य तत्प्रयोजनत्वे पूर्वानुमानेऽप्यनादित्वस्यैव लाघवेन निवेशनौचित्यात् । अग्रिमग्रन्थस्त्वनुकूलतयैव व्याख्यास्यते । तस्माद्धटध्वंसप्रागभावयोः संसर्गानवच्छिन्नप्रतियोगिताकत्वपटादिधर्मिकत्वाभ्युपगमाभिप्रायक एवायं ग्रन्थ इति युक्तमुत्पश्यामः ।

॥ घटध्वंसो वेति ॥ घटस्य यः संसर्गानवच्छिन्नप्रतियोगिताकपटादिधर्मिकनित्याभावस्तदन्य इत्यर्थः । दृष्टान्ते घटध्वंसान्यत्वमादाय, पक्षे च घटभेदान्यत्वमादाय साध्यमुपपादनीयम् । घटप्रागभावान्यत्वमादाय सिद्धसाधनवारणाय नित्येति । उद्देश्यसिद्ध्यर्थं पटादिधर्मिकेति । घटात्यन्ताभावान्यत्वमादाय सिद्धार्थताभङ्गाय संसर्गानवच्छिन्नप्रतियोगिताकेति । पटीयरूपध्वंसान्यत्वमादाय तद्दोषनिरासार्थं घटेति । अत्रापि पटध्वंसादेर्दृष्टान्तत्वसम्भवेऽपि पूर्ववत् स्फुटप्रतिपत्तये प्रागभावग्रहणम् ।

नन्वत्र घटपक्षकानुमाने दृष्टान्तस्य साध्यवैकल्यम् । घटपटयोरभेदमते पटात्यन्ताभावस्यापि घटसंसर्गावच्छिन्नप्रतियोगिताकत्वेन तदन्याभावप्रतियागित्वस्य पटादावभावात् । एवं घटात्यन्ताभावादिपक्षकानुमानेषु सिद्धसाधनम् । पटात्यन्ताभावस्यापि घटप्रतियोगिकतया, पटसंसर्गस्यापि घटनिष्टधर्मतया, पटप्रागभावध्वंसयोरपि घटप्रतियोगिकत्वपटधर्मिकत्वसम्भवेन च तत्तदन्यत्वरूपसाध्यस्य घटात्यन्ताभावादिरूपपक्षे सिद्धत्वादित्यत आह – घटपटयोरिति ॥ पटात्यन्ताभावादेरित्यादिपदेन पटसंसर्गपटप्रागभावपटध्वंसानां परिग्रहः । धटसंसर्गानवच्छिन्नप्रतियोगिताकत्वादेरित्यादिपदेन घटप्रतियोगिकत्वधटनिष्ठधर्मत्वपटधर्मिकत्वानां राहित्यपरिग्रहः । दृष्टान्तस्य साध्यवैकल्यादीत्यादिपदेन सिद्धसाधनपरिग्रहः । यत्त्वत्यन्तान्योन्याभावयोरैक्यमते घटान्योन्याभावस्य घटसंसर्गावच्छिन्नप्रतियोगिताकान्यत्वायोगाद् बाधस्यादिपदेन सङ्ग्रह इति तन्न । उभयसिद्धप्रमाणविरोधाभावेन बाधानवकाशात् । अत्यन्ताभावस्य सत्यत्वेन मिथ्याभूतान्योन्याभावैक्यायोगाच्च । अन्यथा पटात्यन्ताभावस्य त्रैकालिकत्वायोगेन दृष्टान्तवैकल्यस्य दुरुद्धरत्वप्रसङ्गात् । तस्माद्भावाद्वैतनिरासपरोऽसौ ग्रन्थ इत्यवधेयम् ।

॥ अन्यथेति ॥ उक्तव्यवस्थानिर्वाहकव्यावहारिकभेदानङ्गीकार इत्यर्थः । सिद्धघटस्य लब्धघटस्य पटसामग्र्यां प्रवृत्तिर्न स्यादित्यर्थः । कारणीभूतपटेच्छानुपपत्तेरिति भावः । त्रैकालिकत्वादिनेत्यादिनाऽनादित्वनित्यत्वपरिग्रहः ॥ तदयोगादिति ॥ त्रैकालिकत्वाद्ययोगादित्यर्थः । व्यावहारिकस्याविद्याकार्यत्वादिति भावः ।

नन्वेतावताऽप्यर्थान्तरत्वं दुर्वारमेव । यावत्कालवृत्तित्वरूपत्रैकालिकत्वस्य व्यावहारिकभेदेऽपि सम्भवात् । कालस्याप्यविद्याकार्यत्वेन तदभावे तदभावावश्यम्भावात् । एवं पूर्वोत्तरकालराहित्यरूपानादित्वनित्यत्वयोरपि सम्भवो द्रष्टव्यः । मैवम् । प्रागभावाप्रतियोगित्वमना दित्वम् । ध्वंसाप्रतियोगित्वं नित्यत्वम् । तदुभयशालित्वं च त्रैकालि कत्वम् । न चैतद् व्यावहारिके सम्भवति । न च व्यावहारिकेऽप्यविद्यावदनादित्वमिष्यत इति वाच्यम् । स्वरूपतोऽनादित्वेऽविद्याकार्यत्वानुपपत्तेः । अन्यथा नित्यस्य निवृत्तिरित्यपि स्यात् । प्रतियोगितादात्म्याविद्यानधीनप्रतीतिकत्वरूपानादित्वविवक्षायामर्थान्तरशङ्कानवकाशाच्चेति दिक् । ननूक्तानुमानेषु पक्षेतरत्वादिकमुपाधिः । अनुकूलतर्काभावे पक्षेतरत्वस्याप्युपाधित्वसम्भवात् । अत एव तादात्म्यानवच्छिन्नप्रतियोगिताकत्वेनाभावविशेषणादाभाससमानयोगक्षेमत्वमप्रयोजकत्वं चेत्यत आह — अनुकूलतर्कस्येति ॥ घटपटाद्यभेदस्य पारमार्थिकत्वे घटपटादिस्वरूपं पारमार्थिकं स्यादित्यतिप्रसङ्गरूपस्यात्रैवोक्तत्वात् । अन्यत्रेति पाठे जडभेदाभावे मुक्तिसाङ्कर्यादिप्रसङ्गरूपस्य न्यायामृतादौ चोक्तत्वादित्यर्थः । इदमुपलक्षणम् । ‘आत्मन आकाशः सम्भूतः । आकाशाद्वायुः । वायोरग्निः । अग्नेरापः । अद्भ्यः पृथिवी । पृथिव्या ओषधयः’ इत्यादयः श्रुतयोऽपि जडभेद उदाहर्तव्याः ।

(३२)शर्कराश्रीनिवासाचार्य

प्रपञ्चेति ॥ उक्तानुमानेऽप्रसिद्धविशेषणत्वस्वरूपासिद्धिव्यभिचारपरिहारे प्रयासगौरवमित्यपरितोषादाह — किञ्चेति ॥ घटसंसर्गानवच्छिन्नेति ॥ घटसंसर्गेणानवच्छिन्ना अव्यावृत्ता प्रतियोगिता यस्यासौ घटसंसर्गानवच्छिन्नप्रतियोगिताकः । यत्प्रतियोगिता घटसंसर्गेण नावच्छिद्यते घटसंसर्गलक्षणप्रतियोगितावच्छेदकरहित इति यावत् । स चासौ पटादिधर्मिकः पटादिवृत्तिः । त्रैकालिकस् त्रिकालवृत्तिर्योऽभावस् तत्प्रतियोगीत्यर्थः । अत्र पटादिधर्मिकाभावप्रतियोगीत्युक्ते प्रागभावध्वंसाभावप्रतियोगित्वमादायार्थान्तरता अतस्त्रैकालिकेति । तयोश्च क्रमेण प्रतियोगिपूर्वोत्तरकालमात्रवृत्तित्वात् । तावत्युक्तेऽत्यन्ताभावप्रतियोगित्वमादायार्थान्तरता । अतो घटसंसर्गानवच्छिन्नप्रतियोगिताकेति । अत्यन्ताभावस्य संसर्गरूपप्रतियोगितावच्छेदकोपेतत्वान्न तथात्वम् । तावत्युक्ते दृष्टान्ते साध्यवैकल्यम् । एवंविधस्यान्योन्याभावरूपत्वेन तत्प्रतियोगित्वस्य पटे परेणानभ्युपगमात् । अतो घटेति । तादृशश्च पटात्यन्ताभावस् तत्प्रतियोगित्वं पटे । परेणाभ्युपगमात् । पटात्यन्ताभावस्य पटसंसर्गावच्छिन्नप्रतियोगिताकत्वेन घटसंसर्गानवच्छिन्नप्रतियोगिताकत्वात् । एवमभावत्रयव्यावृत्ताभावप्रतियोगित्वे घटस्य सिद्धे तादृशाभावस्यान्योन्याभावानतिरेकद्धटपटभेदसिद्धिः । उक्तानुमानेऽत्यन्ताभावव्यावृत्त्यर्थं घटसंसर्गानवच्छिन्नप्रतियोगिताकेति विशेषणप्रवेशाद्गौरवमित्यपरितोषादाह — घटात्यन्ताभाव इति ॥ घटप्रतियोगिकेति ॥ घटप्रतियोगिकः पटादिधर्मिकस् त्रैकालिकोयोऽभावस् तदन्य इत्यर्थः । अत्र पटप्रतियोगिकपटादिधर्मित्रैकालिकपटात्यन्ताभावान्यत्वसिद्ध्याऽर्थान्तरवारणाय घटप्रतियोगिकेति ॥ इतरत्पूर्ववद्द्रष्टव्यम् ॥ पटाभाववदिति ॥ तत्रोक्तविधघटात्यन्ताभावान्यत्वसद्भावादिति भावः । प्रतियोगितावच्छेदकपक्षकानुमानमाह — घटसंसर्ग इति ॥ पटादिधर्मिकोयोयं त्रैकालिकोभावस् तस्य प्रतियोगितावच्छेदकीभूतोयोयं घटनिष्ठधर्मस् तदन्य इत्यर्थः । अयमर्थः । त्रैकालिकाभावोहिद्विविधः । अत्यन्ताभावोऽन्योन्याभावश्च । तत्रात्यन्ताभावप्रतियोगितावच्छेदधर्मः संसर्गः । अन्योन्याभावप्रतियोगितावच्छेदकं तादात्म्यम् । तत्र घटसंसर्गस्यपटादिधर्मिकत्रैकालिकाभावप्रतियोगितावच्छेदकघटनिष्ठधर्मान्यत्वे सिद्धे घटे तादृशाभावप्रतियोगितावच्छेदकधर्मान्तरसिद्धिः । तस्य तादृशाभावप्रतियोगितावच्छेदकत्वञ्च तादृशाभावं विनानसिध्यति । तादृशश्चान्योन्याभाव एवेति घटपटयोर्भेदसिद्धिरिति अत्र पटादिधर्मिकाभावप्रतियोगितावच्छेदकधर्मान्यत्वमात्रसाधने पटात्यन्ताभावप्रतियोगितावच्छेदकपटनिष्ठसंसर्गान्यत्वसिद्ध्याथा । न्तरम् । अतो घटनिष्ठेति ॥ पटादिधर्मिकाभावप्रतियोगितावच्छेदकघटनिष्ठधर्मान्यत्वसाधने प्रध्वंसप्रागभावप्रतियोगितावच्छेदकपूर्वोत्तरकालीनत्वरूपधमा । न्यत्वसिद्ध्याऽर्थान्तरम् । अतस्त्रैकालिकेति ॥ पटनिष्ठसंसर्गेति ॥ तत्रोक्तविधसंसर्गरूपधर्मान्यत्वसद्भावादिति भावः । त्रैकालकत्वविशेषराप्रवेशेनानुमानद्वयमाह — घटप्रागभाव इत्यादिना ॥ घटसंसर्गानवच्छिन्नेति ॥ घटसंसर्गानवच्छिन्नप्रतियोगिताकः पटादिधर्मिको योऽभावस् तदन्य इत्यर्थः । अत्र प्रध्वंसान्यत्वसिद्ध्याऽर्थान्तरवारणायानादीति । तस्य सादित्वात् । अत्यन्ताभावान्यत्वसिद्ध्याऽर्थान्तरवारणाय घटसंसर्गानवच्छिन्नप्रतियोगिताकेति ॥ (घटप्रध्वंसवदिति) घटसंसर्गेति ॥ अत्र प्रागभावान्यत्वसिद्ध्याऽर्थान्तरवारणाय नित्येति ॥ तस्यानित्यत्वात् । शेषं पूर्ववत् ॥ घटप्रागभाववदिति ॥ व्याख्यातप्रायमेतत् । नन्वत्र द्वितीये घटपक्षकानुमाने पटरूपदृष्टान्ते साध्यवैकल्यम् । घटेपटप्रतियोगिकात्यन्ताभावेविद्यमानेऽपि तस्य घटसंसर्गानवच्छिन्नप्रतियोगिताकत्वं नास्ति । घटपटयोरैक्येन पटप्रतियोगिकात्यन्ताभावस्यापि घटसंसर्गावच्छिन्नप्रतियोगिकत्वेन घटत्वसंसर्गानवच्छिन्नप्रतियोगिताकत्वाभावादित्यत आह — घटपटयोरिति ॥ अत्यन्ताभावादेरित्युद्देश्यम् । प्रतियोगिकत्वादेरिति विधेयम् । ननु भेदाभावात्कथमिदमङ्गीकारे तयोरेकत्वादिति भावः ॥ सिद्धघटस्येति ॥ सिद्धोघटो यस्य स तथोक्तस् तस्येत्यर्थः ॥ पटसामग्रीति ॥ घटपटयोरैक्येन घटस्य लाभे पटस्यापि लब्धत्वेन पटलाभायतत्सामग्रयां प्रवृत्तिर्न स्यादित्यर्थः ॥ व्यावहारिकेति ॥ उक्तानुमानेषु पारमार्थिकत्वविशेषणाभावादिति भावः ॥ तदयोगादिति ॥ ब्रह्मज्ञानबाध्यत्वस्यैव व्यावहारिकत्वेनान्योन्याभावस्य व्यावहारिकत्वे ब्रह्मज्ञानोत्तरम्बाधः स्यात् । एवं च न त्रिकाले विद्यमानत्वमिति भावः । ननु जडभेदसाधकानुमानेषु सर्वत्र पक्षेतरत्वस्योपाधित्वम् । घटः पटसंसर्गानवच्छिन्नप्रतियोगिताकघटादिधर्मिकत्रैकालिकाभावप्रतियोगित्यपिसाधनसौलभ्येनाभाससमानयोगक्षेमत्वं हेत्वङ्गीकारेण साध्यपरित्यागसम्भवेनाप्रयोजकत्वं चेत्यत आह — अनुकूलतर्कस्यान्यत्रोक्तत्वादिति ॥ जडभेदाभावेभेदसिद्ध्यसिद्ध्योर्दोषतदभावयोश्चाभेदेन स्वक्रियाविरोधः स्यात् । मुक्तिसाङ्कर्यं च स्यादित्यनुकूलतर्कस्य न्यायामृते द्वितीयपरिच्छेदे उक्तत्वादित्यर्थः । उपलक्षणमेतत् । घटपटयोस्तादात्म्यस्य पारमार्थिकत्वाङ्गीकार इत्यादिना प्रागुक्तत्वाद् दूरस्थावनस्पत्योश्चशुक्तिरूप्ययोश्चाभेदग्राहिप्रत्यक्षन्तत्वावेदकं स्यादित्यादिना वक्ष्यमाणत्वाच्चेत्यपि द्रष्टव्यम् ।