१३ (३१) भेदोज्जीवनम्

ननु तर्हि घटे (घटेऽपि) घटत्वस्य मिथ्यात्वेन..

(३१)भेदोज्जीवनम्

(३१) ननु तर्हि घटे (घटेऽपि) घटत्वस्य मिथ्यात्वेन घटस्यापि घटत्वं प्रत्याश्रयत्वं (घटाश्रयत्वं) नास्तीत्यसिद्धिरिति चेन्न । घटस्य घटत्वात्यन्ताभावं प्रत्याश्रयस्यापि घटत्वाश्रयत्वस्याप्यङ्गीकार्यत्वात् । (घटत्वात्यन्ताभावं प्रत्याश्रयस्य घटस्य घटत्वं प्रत्याश्रयत्वस्याप्यङ्गी कार्यत्वात् ।) अन्यथा घटत्वस्य (घटत्वादेः) निरधिकरणत्वेन स्वात्यन्ताभावसमानाधिकरणत्वरूपं मिथ्यात्वं(रूपमिथ्यात्वं) घटत्वादेर्न स्यात् । ननु तथाऽपि पटे व्यभिचारः । पटे साध्याभावसद्भावेऽपि साधनाभावाभावात् । पटे पटत्वस्य (पटत्वस्यापि) मिथ्यात्वेन पटनिष्ठात्यन्ताभावप्रतियोगिपटत्वं प्रति पटस्याश्रयत्वादिति चेदत एव हेतुर्विशेषितः प्रतियोगिसामानाधिकरण्यावच्छेदकानवच्छिन्नेति ॥ पटे पटत्वात्यन्ताभावे सत्यपि (पटत्वात्यन्ताभावसद्भावेऽपि) तस्य पटत्वरूपप्रतियोगिसमानाधिकरणत्वेन प्रतियोगिसामानाधिकरण्यावच्छेदकावच्छिन्नतया साधनाभावसद्भावात् । ननु तर्ह्यसिद्धिः । घटपटयोरभेदं वदता पटे (पटेऽपि) घटत्वस्याङ्गीकारेण पटेऽपि (पटे) घटत्वात्यन्ताभावस्य प्रतियोगिसामानाधिकरण्यादिति चेन्न । त्वयाऽपि घटपटयोरपारमार्थिकभेदं(रभेदं) वदता पटे घटव्यवहारप्रसङ्गविरोधपरिहाराय व्यावहारिकभेदमात्रेण बिम्बप्रतिबिम्बत्वसत्त्वासत्त्वव्यवस्थावत्पटे घटत्वात्यन्ताभावस्याङ्गीकार्यत्वात् । घटत्वस्य सार्वत्रिकत्वेऽ(सर्वत्राविशेषे)प्यविद्यावशातिनियतो व्यवहार इति चेत् (न) । न ह्यविद्याऽऽरोपितरजताभावेऽपि शुक्त्यादौ रजतमिति व्यवहारं जनयति । तथात्वे पटेऽपि तं जनयेत् । घटपटयोस्तादात्म्यस्य (च) पारमार्थिकत्वाङ्गीकारे (तु) जीब्रह्मणोरिव घटपटयोः स्वरूपस्यापि पारमार्थिकत्वं (स्वरूपं पारमार्थिकं) स्यादिति प्रपञ्चमिथ्यात्ववाचोयुक्तिरयुक्ता स्यादित्यनुकूलतर्को द्रष्टव्यः ।

(३१)भावप्रदीपः

नन्वेवं सति पनुरसिद्धिर्दुर्वारैव । घटस्यापि घटत्वाधिकरणत्वाभावात् । घटत्वस्य घटेऽपि मन्मते मिथ्यात्वाङ्गीकारात् । अत्यन्ताभावप्रतियोगित्वस्यैव मिथ्यात्वरूपत्वात् । तथा च यदा घटे घटत्वस्यात्यन्ताभावस्तदा धटत्वं प्रत्यनाश्रयत्वमेव तस्य प्राप्तमिति प्रतिबन्दीमाश्रित्य शङ्कते — ननु तर्हीति ॥ अत्यन्ताभावाधिकरणस्य प्रतियोग्यनाश्रयत्वाङ्गीकार इत्यर्थः । घटत्वात्यन्ताभाववति पटे घटत्वं प्रत्यनाश्रयत्ववद्घटत्वात्यन्ताभाववति घटेऽपि तदनाश्रयत्वं त्वया नाङ्गीकर्तुं शक्यम् । तथा सति घटत्वस्य स्वात्यन्ताभावसमानाधिकरणत्वरूपमिथ्यात्वाभावापातात् । तथा च घटस्य घटत्वाश्रयताया अवश्याङ्गीकार्यत्वेन कथमप्रसिद्धिरिति भावेन प्रतिबन्दीं परिहरति ॥ नेति ॥ घटत्वस्य निरधिकरणत्वेनेति ॥ पटस्य तु घटत्वं प्रत्याश्रयत्वं नास्त्येव । तद्वद्धटेऽपि घटत्वानङ्गीकारे घटत्वादेर्निरधिकरणत्वमेव प्रसज्यत इत्यर्थः । प्रतियोगिसामानाधिकरण्यावच्छेदकानवच्छिन्नेति विशेषणकृत्यं वक्तुमाक्षिपति — नन्विति ॥ तथाऽपीति । असिद्धिपरिहारेऽपीत्यर्थः ॥ पटे व्यभिचार इति ॥ व्यतिरेका दृष्टान्तभूते पटे व्यतिरेकव्याप्तेर्व्यभिचार

इत्यर्थः । तमेवोपपादयति — पट इति ॥ साध्याभावसद्भावेऽपीति । पटप्रतियोगिकतात्त्विकतादात्म्यसद्भावेऽपीत्यर्थः ॥ साधनाभावाभावादिति ॥ साधनस्यैव सत्त्वादित्यर्थः । तमेवोपपादयति — पट इति ॥ नन्वत्यन्ताभावाधिकरणे कथं प्रतियोगिनोऽवकाश इत्यत उक्तं पटे पटस्य मिथ्यात्वेनेति ॥ स्वसमानाश्रयात्यन्ताभावप्रतियोगित्वस्यैव मिथ्यात्वतया मन्मतेऽङ्गीकारादित्यर्थः ॥ अत एवेति ॥ उक्तव्यभिचारपरिहारार्थमेवेत्यर्थः ॥ हेतुरिति ॥ हेत्वन्तर्गतोऽत्यन्ताभाव इत्यर्थः ॥ प्रतियोगिसामानाधिकरण्येति ॥ प्रतियोगिना पटत्वेन यत्सामानाधिकरण्यं तदवच्छेदकं यत्पटीयपटत्वात्यन्ताभावत्वं तदवच्छिन्नतयाऽनवच्छिन्नताऽभावस्तद्गर्भितसाधनाभावादित्यर्थः । यद्यप्यत्र प्रतियोग्यसमानाधिकरणेत्येव पटनिष्ठात्यन्ताभावो विशेष्टुं शक्यस्तावतैव पटत्वात्यन्ताभावव्यावृत्तिसिद्धेः । तथाऽपि घटत्वात्यन्ताभावस्यापि घटे प्रतियोगिसमानाधिकरणत्वात्प्रतियोग्यसमानाधिकरणत्वस्याभावात्तत्प्रतियोगिधर्मोऽप्रसिद्ध एवेति पुनरसिद्धिशङ्का स्यात्तन्निरासाय प्रतियोगिसामानाधिकरण्यावच्छेदकानवच्छिन्नेत्युक्तिः । एवमुक्ते तु नासिद्धिः । घटत्वात्यन्ताभावस्य सर्वत्रैकत्वेऽपि प्रकृते पटनिष्ठात्यन्ताभावपदेन न सामान्यरूपोऽभावो विवक्षितः । किन्तु पटनिष्ठत्वाववच्छिन्नात्यन्ताभाववान् । एतच्चात्यन्ताभावत्वं न घटत्वसामानाधिकरण्यावच्छेदकं तदवच्छेदकं तु घटनिष्ठत्वावच्छिन्नमेव मायिमते । अतो न घटान्तर्भावेन पटनिष्ठात्यन्ताभावस्य घटत्वरूपप्रतियोगिसामानाधिकरण्यमादाय प्रतियोग्यसमानाधिकरणस्याभावस्याप्रसिद्धिः शङ्क्या । ततश्च तद्धटितहेतोः कथमसिद्धिरिति ॥ नन्विदमेकं सन्धित्सताऽन्यच्चयवत इत्यापन्नम् । यतो व्यभिचारवारणाय विशेषणोपादाने पुनरसिद्धिः प्राप्ता । घटपटयोरभेदवादे पटेऽपि घटत्वसत्त्वात् । तस्य च मिथ्यात्वेन तदत्यन्ताभावस्य प्रतियोगिसामानाधिकरण्यसद्भावेन तदवच्छेदकावच्छिन्नतयाऽनवच्छिन्नत्वाभावादिति भावेन शङ्कते — ननु तर्हीति ॥ त्वयाऽपीति । घटपटयोरभेदं वदताऽपि त्वया पटे घटत्वात्यन्ताभावस्याङ्गीकार्यत्वादिति सम्बन्धः । अत्र प्रतियोग्यसमानाधिकरणस्येति पूरणीयम् । तथा च पटे घटत्वस्यानङ्गीकार्यत्वादिति तात्पर्यं बोध्यम् । अन्यथा घटत्वात्यन्ताभावस्य तेनाप्यङ्गीकृतत्वाद्दोषानिवृत्तेः । कुतो घटत्वं पटे नाङ्गीकार्य मयेत्यत उक्तं पटे घटव्यवहारप्रसङ्गनिरोधायेति । यदि पटेऽपि घटत्वं स्यात् तर्हि घट इव पटेऽपि घटव्यवहारः स्यादिति भिया नाङ्गीकार्यमिति भावः । घटपटयोः पारमार्थिकभेदाङ्गीकारे कथं पटे घटत्वस्यानङ्गीकारः सम्भवेत् । न हि प्रयोजनाधीना प्रमेयसिद्धिर्येन पटे घटव्यवहारप्रसङ्गनिरोधाय तदनङ्गीकार इति स्यादित्यत उक्तं घटपटयोरपारमार्थिकभेदं वदतेति । अत एव त्वयाऽपारमार्थिको भेदोऽप्यङ्गीकृतोऽस्तीति भावः । भेदस्यापारमार्थिकत्वेऽसत्त्वस्यैवापत्त्या पुनरुक्तदोषानिवृत्तिरित्यत उक्तं व्यावहारिकभेदमात्रेणेति । अपारमार्थिकशब्देन व्यावहारिक एव भेदो विवक्षितो नासन्नित्याशयः । नन्विदमप्यसम्भवत्येव । स्वाभाविकैक्ये व्यावहारिकभेदमात्रेण कथं घट एव घटत्वं न पटे इति व्यवस्थोपपत्तिरित्यत उक्तं बिम्बप्रतिबिम्बेत्यादि । यथा त्वन्मते बिम्बप्रतिबिम्बयोरभेदेऽपि व्यावहारिकभेदमात्रेण बिम्बे मुखे बिम्बत्वमेव न प्रतिबिम्बत्वम् । प्रतिमुखे च प्रतिबिम्बत्वमेव न बिम्बत्वम् । तथा बिम्बे सत्यत्वमेव नासत्यत्वं प्रतिबिम्बेऽसत्यत्वमेव न सत्यत्वमिति व्यवस्था स्वीकृतैवमिहापीत्यर्थः । ननु घटपटतादात्म्यवादे घटत्वं घट इव पटेऽप्यस्त्येव । न च तथात्वे पटेऽपि घटव्यवहारापत्तिः । अविद्यावशात्प्रतिनियतव्यवहारोपपत्तेरित्याशङ्कते — घटत्वस्येति ॥ सर्वत्र पटादौ । अविशेषेऽपि सत्त्वेऽपीति यावत् । यद्यविद्यावशात्पटे घटत्वसत्त्वेऽपि घटव्यवहारनिरोधस्तदा त्वन्मते घटपटयोरिव शुक्तिरजतयोरप्यभेदाच्छुक्तौ रजतत्वसद्भावेऽपि कुतस्तत्र सर्वदा न रजतव्यवहार इति पृष्टेऽविद्यावशादेवेति वक्तव्यम् । ततश्च रजतारोपकालेऽपि रजतव्यवहारो न स्यात् । व्यवहारविघटिकाया अविद्याया जागरूकत्वात् । अथैवं ब्रूषे । न केवलाविद्या व्यवहारस्य साधिका बाधिका वा किन्त्वारोपितसापेक्षैव । तथा च रजतारोपसद्भावे रजतमिदमिति व्यवहारं जनयति तदभावे न जनयतीति । तर्ह्यारोपितविषयलक्षणनिमित्तभावाभावयोरेव व्यवहारतदभावप्रयोजकत्वं न केवलाविद्याया इत्यायातम् । तथा च पटे घटत्वरूपनिमित्तसद्भावे तत्र घटव्यवहारो दुर्वार एव । अविद्यामात्रस्याकिञ्चित्करत्वदिति भावेन परिहरति ॥ न हीति । कुतो न जनयतीत्यत आह — तथात्व इति ॥ तं रजतमिति व्यवहारम् । अत्रानुमाने हेतोरप्रयोजकताशङ्कां परिहरति ॥ घटपटयोरिति ॥ साध्ये तात्त्विकतादात्म्येत्युक्तत्वात्तदनुरोधेन तादात्म्यस्य पारमार्थिकत्वाङ्गीकार इत्युक्तम् । केचित्तु किं तदैक्यं पारमार्थिकमुतापारमार्थिकमिति विकल्प्याद्यपक्षे दूषणमिदमित्याहुः ॥ घटपटयोः स्वरूपस्येति ॥ न हि धर्मिप्रतियोगिनोरपारमार्थिकत्वे तत्तादात्म्यस्य पारमार्थिकत्वं सम्भवतीति भावः । इष्टापत्तिं परिहर्तुमाह — प्रपञ्चेति ॥ वाचो युक्तिरित्यलुक् । वाक्प्रयोग इत्यर्थः ।

(३१)भेदचिन्तारत्नम्

एवं हेतुविशेषणासिद्धिमुद्धृत्येदानीं विशेष्यासिद्धिमाशङ्क्योद्धरति ॥ घटे घटत्वस्येति ॥ हेतौ पटावृत्तिर्घटत्वादिधर्माधिकरणत्वं खलु विवक्षितम् । घटे पटत्वादेर्मिथ्यात्वेन तदत्यन्ताभावसत्त्वात् । पक्षे हेत्वभावस्यैवासिद्धिशब्दार्थत्वादिति शङ्कार्थः । न च हेत्वभावमात्रमसिद्धिः । किन्तु प्रतियोग्यसमानाधिकरण एव हेत्वभावः । प्रकृते घटत्वाभावसत्त्वेऽपि घटत्वमप्यङ्गीकरणीयम् । अन्यथा पटावृत्तिनो घटेऽप्यसत्त्वेनानिराश्रयत्वं स्यात् । स्वात्यन्ताभावसमानाश्रयत्वरूपमिथ्यात्वहानिश्च स्यादिति भावः । प्रतियोगिसामानाधिकरण्यावच्छेदकानवच्छिन्नेति पदकृत्यं स्पष्टीकर्तुमाह — नन्विति ॥ पटे तादात्म्यसत्त्वेन साध्याभावसत्त्वात् । पटत्वात्यन्ताभावादेर्मिथ्यात्वेन पटावृत्तिधर्माधिकरणत्वरूपहेतोश्च सत्त्वादिति भावः ॥ हेतुर्विशेषित इति ॥ हेत्वन्तर्गताभावो विशेषित इत्यर्थः । तेन व्यभिचारप्रकारमाह — पटे पटत्वात्यन्ताभाव इति ॥ घटपटयोरेकत्वेन घटत्वस्यापि पटे सत्त्वात्पटेऽपि घटत्वात्यन्ताभावस्य प्रतियोगिसामानाधिकरण्यसत्त्वात्पुनर्विशेषणासिद्धिमाशङ्कते — ननु तर्हीति ॥ एवञ्च सर्वपदार्थानामभेदमङ्गीकृत्य सर्वत्र सर्वधर्माङ्गीकारेऽपि प्रतिनियतव्यवहारसिद्ध्यर्थं व्यवस्थाविशेषोऽङ्गीकर्तव्य एवेति नैवास्माभिरसिद्धिः सुपरिहरेत्याह — नेति ॥ सर्वत्र सर्वधर्माङ्गीकारेऽपि घटत्वात्यन्ताभावो घट एव प्रतियोगिसमानाधिकरणः । पटे तु नेति व्यवस्थाऽङ्गीकार्यैव । एवञ्च तादृशप्रतियोग्यसामानाधिकरण्यमेव हेतुविशेषणमिति नासिद्धिरिति फलितोऽर्थः ॥ अविद्यावशादिति ॥ तस्या अघटितघटनापटीयस्त्वादिति भावः । अविद्याऽपि तद्वति तद्व्यवहारं जनयेत्तद्रहिते तदभावव्यवहारं जनयेन्नान्यथा दर्शनादित्याह — नेति ॥ आरोपितरजाताभावेऽप्यधिष्ठानभूतंशुक्त्यादि तदेव रजतमिति व्यवहारं न हि जनयतीत्यर्थः । अविद्याया अघटितघटकत्वेऽरजतेऽपि रजतमिति व्यवहारं जनयेत् । तदर्थं प्रातिभासिकरजतजन्माङ्गीकारः कुत इति भावः । व्यावहारिकभेदमात्रेण घटे पटावृत्तिधर्मोपपत्तौ पारमार्थिकप्रयोजको हेतुरित्यतस्तर्कमाह — घटपटयोश्चेति ॥ जीवब्रह्मतादात्म्यस्य पारमार्थिकत्वेन यथा तत्सम्बन्धिनोर्जीवब्रह्मणोः पारमार्थिकत्वं तथेति भावः ॥ वाचो युक्तिरिति ॥ वाचः प्रयोगः ।

(३१)भेदचन्द्रिका

ननु तर्हीति । यथा पटे घटत्वस्य मिथ्यात्वेन तत्र तदत्यन्ताभावस्तथा घटेऽपि घटत्वस्य मिथ्यात्वेन तत्रापि तदत्यन्ताभावः । तथा च तादृशघटत्वाधिकरणत्वं घटेऽपि नास्तीऽति नासिद्धिरित्यर्थः । घटस्य घटत्वप्रतीतिर्यदि घटत्वं कुत्रापि न स्यात्तदा स्वात्यन्ताभावसमानाधिकरणत्वरूपं मिथ्यात्वं तस्य न स्यात् । अतः कुत्रचिदङ्गीकरणीयम् । तच्च प्रतीतिबलाद्धट एवाङ्गीकार्यमिति नासिद्धिरिति भावः ॥ ननु तथाऽपीति । पटत्वस्यापि मिथ्यात्वेन पटेऽपि तदत्यन्ताभावसत्त्वात्पटनिष्ठात्यन्ताभावप्रतियोगिधर्मसामान्याभावेन पट इति व्यतिरेकेव्याप्तौ व्यभिचार इत्यर्थः । अवच्छिन्नेति हेतुविशेषणबलादेव न व्यभिचार इत्याह — अत एवेति ॥ हेतुविशेषितो हेत्वन्तर्गतोऽत्यन्ताभाव इत्यर्थः ॥ पटे पटत्वात्यन्ताभावे सत्त्वेऽपीति । पटे पटत्वात्यन्ताभावसत्त्वेऽपि स प्रतियोग्यसमानाधिकरणः । उक्तरीत्या पटत्वस्यापि तत्र सत्त्वात् । तादृशश्च पटत्वादेरभावतदधिकरणत्वसामान्याभावः पट इति न व्यभिचार इत्यर्थः । अत्र प्रतियोग्यसमानाधिकरणत्वमात्रोक्तौ पटत्वात्यन्ताभावस्यापि घटे प्रतियोगिसमानाधिकरणत्वात्प्रतियोग्यसमानाधिकरणपटनिष्ठात्यन्ताभावप्रतियोगिधर्मोऽप्रसिद्ध एव स्यादिति हेत्वप्रसिद्धिः स्यात् । अतः प्रतियोग्यसामानाधिकरण्यावच्छेदकानवच्छिन्नेति ॥ ननु तथाप्युक्तदोषानिवृत्तिः । पटवृत्तिघटत्वात्यन्ताभावस्य घटरूपप्रतियोगिसामानाधिकरण्यावच्छेदकावच्छिन्नत्वेन तादृशाभावाप्रसिद्धेरिति चेन्न । प्रतियोग्यधिकरणत्वेन पटस्यैव विशेषणात् ॥ ननु तर्हीति ॥ व्यभिचारवारणार्थं हेतुविशेषण इत्यर्थः ॥ त्वयाऽपीति ॥ घटपटयोः पारमार्थिकभेदमनङ्गीकुर्वताऽपीत्यर्थः ॥ पटे घटत्वात्यन्ताभावस्येति ॥ पटे घटत्वस्यानङ्गीकार्यत्वादिति भावः । अन्यथा भावस्य तेनाप्यङ्गीकृतत्वाद्दोषानिवृत्तेः । यद्यप्येतावन्मात्रं प्रागेव वक्तव्यम् । तावतैवासिद्धिपरिहारो भविष्यति कृतं पटे घटत्वमिथ्यात्वविचारेण । तथाऽपि न विचारचातुरीशिक्षायै प्रागेव नोक्तमिति मन्तव्यम् ॥ घटत्वस्येति ॥ मया पटे घटत्वमङ्गीक्रियत एव । न च घटे पटत्वव्यवहारप्रसङ्गः । अघटितघटनापटीयस्याविद्ययैव तन्निरोधोपपत्तिरित्यर्थः ॥ न ह्यविद्यारोपितेति ॥ अविद्या आविद्यकविषयसापेक्षे व्यवहारनिर्वाहिका । अन्यथाऽऽविद्यकरजताभावेऽपि शुक्त्यादौ रजतमिति व्यवहारं जनयेत् । ततश्च तत्राविद्यकरजताङ्गीकारो व्यर्थः स्यात् । पटेऽपि रजतव्यवहारप्रसङ्गश्च स्यात् । एवञ्च घटे आविद्यकघटत्वसत्त्वेऽविद्याया अपि व्यवहारनिरोधो न सम्भवतीति भावः । यद्यपि शुक्तौ शुक्तित्वसत्त्वेऽप्यविद्यायास्तद्व्यवहारनिरोधकत्ववद्धटत्वसत्त्वेऽप्यविद्याया व्यवहारनिरोधः सम्भावितस्तथाऽपि तत्र बाधोत्तरंशुक्तिव्यवहारस्य सत्त्वात्सतोऽपि शुक्तित्वस्य व्यवहारनिरोधोऽविद्याकृत इत्यङ्गीक्रियते । न चैवम् । प्रकृते घटपटव्यवहारस्य कदाऽप्यभावादिति नात्राविद्याकृतस्तन्निरोध इति भावः ।

(३१)भेदसञ्जीविनी

मिथ्यात्वं न स्यादिति ॥ घटत्वादीनामविद्याशक्तित्वमिति मतेनेदम् । तेन तेषामपि ब्रह्मस्वरूपत्वादिष्टापत्तिरिति चोद्यानवकाशः । तन्मतं त्वन्यत्रास्माभिर्निरस्तम् । प्रतियोगिसामानाधिकरण्येत्यादिविशेषणप्रयोजनंशङ्कासमाधानाभ्यां व्यनक्ति ॥ नन्वित्यादिना ॥ बिम्बेति ॥ एकस्यैव मुख्यस्य व्यावहारिकौपाधिकमात्रेणास्य बिम्बत्वमेवास्य प्रतिबिम्बत्वमेव बिम्बस्य सत्यत्वमेव प्रतिबिम्बस्य मिथ्यात्वमेवेति व्यवस्थायाः सत्त्वात् । तादृशव्यवस्थाया न्यायप्रयोगकालेऽपि सत्त्वेनोक्तरीत्या त्वदुद्भावितसाधनाप्रसिद्ध्यप्रसक्तेः । अविद्यैव व्यवहारनियामिका सा यथा जनयति तथा व्यवहारो भवति । नैतावता पटे घटत्वानधिकरणत्वं सिध्यतीत्युक्त[क्ति]साधनाप्रसिद्धिर्दुर्वारेति शङ्कते — घटत्वस्येति ॥ अविद्याऽपि स्वकल्पितविषयानपेक्षैव व्यवहारं जनयति । अन्यथाऽतिप्रसङ्गादित्यतो व्यवहारविषयव्यवस्थाऽङ्गीकर्तव्येत्याह । ॥ न हीति ॥ अविद्या शुक्तावारोपितरजताभावेऽपीदं रजतमिति व्यवहारं ते तव मतेऽपि जनयति किं ? न हि जनयतीत्यर्थः । इष्टापत्तौ बाधकमाह — तथात्व इति ॥ नन्वारोपे सति निमित्तानुसरणम् । न हि निमित्तमस्तीत्यारोप इति न्यायेन व्यवहारसत्त्वे तस्याविद्यामूलकत्वं कल्प्यते । न त्वविद्याऽस्तीत्येतावता तद्व्यवहारापादनं युक्तमिति चेन्न । प्रामाणिकार्थविषयकत्वात्तन्न्यायस्य । न हि पटे घटत्वसत्वे किमपि प्रमाणमस्ति । सर्ववस्त्वभावेऽप्यविद्या व्यवहारं जनयतीत्यपि वक्तुं शक्यत्वेन ब्रह्मस्वरूपस्यानिर्वचनीयाम्बरादिप्रपञ्चस्यापि व्यवहारकाल एवासत्त्वप्रसङ्गात् ॥ घटपटयोरिति ॥ जीवब्रह्मणोरिति ॥ तत्र बिम्बत्वप्रतिबिम्बत्वरूपविरुद्धाकारत्यागेनोभयानुगतचैतन्यमात्रस्वरूपमिवात्रापि घटत्वपटत्व(स्व) रूपविरुद्धाकारपरित्यगेनोभयस्वरूपभूतमेकं जडपारमार्थिकं स्यादित्यर्थः । न च ब्रह्मैवोभयस्वरूपभूतं तत्त्वम् । `शुक्तिकाज्ञाने रजतं तत्त्वतो ज्ञातं भवति सा हि तस्य तत्त्वमि’ति वाचस्पत्युक्तेरिति वाच्यम् । तथा सति घटपटयोर्जीवचिदात्मकत्वेन जडत्वानुपपत्तेः । प्रपञ्चितं चेदमन्यत्र ।

(३१)काशीतिम्मण्णाचार्य

हेतुघटकचरमाधिकरणत्वं वास्तवमेव निविष्टमित्याशयेन शङ्कते — नन्विति ॥ व्यावहारिकसाधारणमधिकरणत्वमेव हेतुघटकमित्याशयेन समाधत्ते ॥ घटस्येति ॥ प्रातिभासिकानैकान्त्यं तु न दूषणमिति भावः । अन्यथा घटस्य घटत्वं प्रति व्यावहारिकाधिकरणत्वानङ्गीकारे ॥ निरधिकरणत्वेनेति ॥ घटातिरिक्ते तादृशाधिकरणत्वस्यासम्भावितत्वादिति भावः । स्वसमानाधिकरणात्यन्ताभावप्रतियोगित्वस्वात्यन्ताभावसमानाधिकरणत्वयोरविशेषादाह — स्वात्यन्ताभावेति ॥ अनवच्छिन्नान्तविशेषणमव्याप्यवृत्त्यभावमात्रवारकमिति मन्वानो दर्शयति — नन्विति ॥ न च पटे पटत्वाधिकरणत्वस्यापि मिथ्यात्वेन तदभावसत्त्वान्न व्यतिरेकव्यभिचार इति वाच्यम् । व्यतिरेकिणि प्रतियोगिव्यधिकरणसाधनाभावनिरूपितव्याप्तेरेव प्रयोजकत्वात् । पटे पटत्वाधिकरणत्वाभावस्य च प्रतियोगिसमानाधिकरणत्वात् । अन्यथा पृथिवीत्वाभावव्यापकाभावप्रतियोगिसंयोगवत्त्वेन जलादौ पृथिवीत्वसिद्धिप्रसङ्गात् ॥ अनवच्छिन्नान्तदानादेव नायं दोष इति समाधत्ते ॥ अत एवेति ॥ एतादृशदोषप्रसङ्गादपीत्यर्थः । हेतुर्हेतुघटकाभावः ॥ प्रति

योगीति ॥

अथैवं घटत्वाद्यभावस्यापि घटादौ प्रतियोगिसमानाधिकरणत्वेन प्रतियोगिसामानाधिरण्यावच्छेदकानवच्छिन्नाभावाप्रसिद्धिरिति चेदत्राहुः । प्रतियोगिसामानाधिकरण्यस्य निरूपकतया यदवच्छेदकं तदनवच्छिन्नपटवृत्तिकात्यन्ताभावप्रतियोगिधर्मवत्त्वं विवक्षितम् । घटत्वाद्यभावश्च पटादौ तादृश इति नाप्रसिद्धिरिति । तदसत् । प्रतियोग्यधिकरणस्य प्रतियोगिसामानाधिकरण्यावच्छेदकत्वेन निवेशने बीजाभावात् । यत्तु प्रतियोगिसामानाधिकरण्यावच्छेदकानवच्छिन्नेत्यस्य प्रतियोग्यनधिरणत्वेन पटविशेषणे तात्पर्यान्नाप्रसिद्धिरिति । तच्चिन्त्यम् । तथासति प्रतियोग्यनधिकरणेत्यनुक्त्वा प्रतियोगिसामानाधिकरण्यावच्छेदकानवच्छिन्नेत्युक्तौ बीजाभावप्रसङ्गात् । अव्याप्यवृत्त्यधिकरणत्वस्याव्याप्यवृत्तित्वे संयोगमादायानैकान्त्याच्च ।

वस्तुतस्तु परमते अभावानामधिकरणात्मकत्वाद् घटनिष्ठघटत्वाभावस्य प्रतियोगिसामानाधिकरण्यावच्छेदकावच्छिन्नत्वेऽपि पटनिष्ठाभावस्य तदनवच्छिन्नत्वमव्याहतमेव । न च प्रतियोगिसामानाधिकरण्यावच्छेदकीभूतघटत्वाभावत्वस्यैक्यान्न पटनिष्ठाभावस्य तदनवच्छिन्नत्वसम्भव इति वाच्यम् । अनुयोगिताविशेषरूपाभावत्वस्याभावभेदेन भिन्नत्वात् । अथवा प्रतियोगिसामानाधिकरण्यरूपं यदवच्छेदकम्, विशेषणं तदनवच्छिन्नत्वं तद्विशिष्टभिन्नत्वमिति यावत् । तदुपलक्षितभिन्नत्वस्य परमते पटवृत्तित्वविशिष्टघटत्वाभावादावभावेऽपि तद्विशिष्टभिन्नत्वमक्षतमेव । पटवृत्तित्वविशिष्टसंयोगाद्यभावे च न प्रतियोगिसामानाधिकरण्यविशिष्टभिन्नत्वमिति

न कश्चिद्दोषः ।

परमते प्रतियोगिसामानाधिकरण्यावच्छेदकानवच्छिन्नाभावाप्रसिद्धिरित्याशङ्कते — ननु तर्हीति ॥ घटपटयोरभेदं वदताऽपि त्वया, पटे घटत्वात्यन्ताभावस्य प्रतियोग्यसमानाधिकरणघटत्वाभावाङ्गीकार्यत्वादिति सम्बन्धः । ननु घटपटयोरभेदे घटत्वाभावस्य पटे प्रतियोग्यसामानाधिकरण्यमेव कथमुपपद्यत इत्याशङ्क्योक्तम् – घटपटयोर्व्यावहारिकभेदमात्रेणेति ॥ अत्र दृष्टान्तः – बिम्बेति ॥ यथा बिम्बप्रतिबिम्बयोः स्वरूपैक्येऽपि, व्यावहारिकभेदबलाद् बिम्बस्यैव बिम्बत्वं सत्त्वं च, प्रतिबिम्बस्यैव प्रतिबिम्बत्वमसत्त्वं चेति व्यवस्था, तथा घटस्यैव घटत्वम्, न तु पटस्येत्यङ्गीकार्यमिति भावः । ननु घटवत् पटेऽपि घटत्वमङ्गीक्रियत एव । ‘न चैवं घट एव घटव्यवहारो न पट’ इति व्यवस्थानुपपत्तिरिति वाच्यम् । अविद्यासामर्थ्येन तदुपपत्तेरित्याशङ्कते — घटत्वस्येति ॥ तथा चोक्तहेत्वप्रसिद्धितादवस्थ्यमिति भावः । विषयनिरपेक्षाविद्यायाः साक्षात्तादृशव्यवहारनियामकत्वमसिद्धमित्याह — न हीति ॥ अन्यथाऽऽविद्यकविषयवैयर्थ्यप्रसङ्गात् । विषयसम्पादनद्वारैव तस्यास्तादृशव्यवहारनियामकत्वमङ्गीकार्यमिति भावः । ततः प्रकृते किमित्यत आह — तथात्व इति ॥ विषयसम्पादनद्वारा व्यवहारनिर्वाहकत्वे चेत्यर्थः ॥ पटेऽपि तं जनयेदिति ॥ पटे घटत्वरूपविषयसत्त्वादविद्या तद्व्यवहारं जनयेदित्यर्थः ।

यत्तु तथात्वे आरोपितरजताभावेऽप्यविद्याया रजतव्यवहारजनकत्वे, पटेऽपि रजतव्यवहारं जनयेदिति व्याख्यानं तदसत् । अविद्यासामर्थ्यात् पटे घटव्यवहारं परिहरन्तं प्रति पटे रजतव्यवहारापादनायोगात् । घटरजतयोरविशेषात् । अथ शुक्तौ रजतारोपदशायां शुक्तित्वरूपविषयसत्त्वेऽपि तदव्यवहारवत्, पटे घटत्वसत्त्वेऽपि तदव्यवहार उपपद्यतामिति चेन्न । शुक्तौ विरोध्यारोपेण शुक्तित्वव्यवहारप्रतिबन्धसम्भवात् । पटे च विरोध्यारोपाभावदशायां घटत्वव्यवहारस्यापादनीयत्वात् । न च अविद्यासामर्थ्यादेव तत्र तत्प्रतिबन्धोऽस्त्विति वाच्यम् । पटे घटत्वकल्पकाविद्यायास्तद्व्यवहारविरोधित्वायोगात् । पटे घटत्वं परिकल्प्याविद्यायास्तद्व्यवहारविरोधित्वकल्पनस्य प्रक्षालनाद्धीति न्यायेनानुचितत्वाच्च ।

स्यादेतत् । उक्तानुमानेऽसिद्ध्यादिवारणेऽपि विपक्षे बाधकाभावादप्रयोजकत्वं दुर्वारमत आह — घटपटयोरिति ॥ यदि घटपटयोर्भेदः पारमार्थिको न स्यात्तदा तदभेदः पारमार्थिकः स्यात् । ततश्च तयोरपि पारमार्थिकत्वप्रसङ्गः । अन्यथा घटपटनिवृत्तौ तदभेदस्यापि निवृत्त्यापत्तिरिति भावः ।

(३१)शर्कराश्रीनिवासाचार्य

प्रतिबन्द्या प्रकारान्तरेण स्वरूपासिद्धिं शङ्कते — नन्विति ॥ तर्हीति ॥ यदि घटे घटत्वस्य मिथ्यात्वात्तदत्यन्ताभावाधिकरणत्वमङ्गीक्रियते तर्हीत्यर्थः ॥ मिथ्यात्वेनेति ॥ तथात्वे घटे घटत्वात्यन्ताभावप्राप्तेरिति भावः ॥ घटस्येति ॥ उक्तात्यन्ताभावप्रतियोगिघटत्वरूपधर्माधिकरणत्वस्य घटे सत्वान्न स्वरूपासिद्धिरिति भावः ॥ अन्यथेति ॥ यदि घटत्वं प्रति घटस्याश्रयत्वं नाङ्गीक्रियते तर्ह्यन्यस्याश्रयस्याभावाद् घटत्वस्याश्रय एव नास्तीति स्यात् । तथाच स्वाश्रयत्वेन सम्मते विद्यमानात्यन्ताभावप्रतियोगित्वरूपं मिथ्यात्वं घटत्वस्य न स्यादित्यर्थः । प्रतियोगिसामानाधिकरण्यावच्छेदकानवच्छिन्नेति विशेषणकृत्यं वक्तुमाक्षिपति — नन्विति ॥ उक्तरीत्याऽसिद्धिपरिहारेऽपि पटे व्यभिचारः स्यादित्यर्थः । साधनाभावमुपपादयति — पटे पटत्वस्य मिथ्यात्वेनेति ॥ इदं पटे पटत्वात्यन्ताभावोपपादनायोक्तम् । तथाच पटनिष्ठो योऽत्यन्ताभावः पटत्वात्यन्ताभावः । तत्प्रतियोगिपटत्वं तदाश्रयत्वेन पटे पटनिष्ठात्यन्ताभावप्रतियोगिधर्माधिकरणत्वरूपसाधनसद्भावादित्यर्थः ॥ अत एवेति ॥ यत एवं पटनिष्ठात्यन्ताभावप्रतियोगिधर्माधिकरणत्वरूपो हेतुः पटे व्यभिचरितोऽत एव प्रतियोगिसामानाधिकरण्यावच्छेदकानवच्छिन्नत्वेन विशेषित इत्यर्थः । यद्यपीदमत्यन्ताभावविशेषणम् । तथापि तद्विशेषणत्वे तद्विशिष्टहेतुविशेषणत्वमप्यस्तीत्यभिप्रेत्यैवमुक्तमिति ध्येयम् । दत्तेऽपि विशेषणे कथं व्यभिचारपरिहार इत्यत आह — पट इति ॥ प्रतियोगिसमानाधिकरणत्वेनेति ॥ पटत्वात्यन्ताभाववति पटे पटत्वरूपप्रतियोगिनोऽपि सत्त्वादिति भावः ॥ प्रतियोगिसामानाधिकरण्येति ॥ पटत्वरूपप्रतियोगिसामानाधिकरण्यं पटत्वात्यन्ताभावेऽस्ति । तदवच्छेदकं पटत्वात्यन्ताभाववत्त्वम् । तदवच्छिन्नतयेत्यर्थः ॥ साधनाभावेति ॥ प्रतियोगिसामानाधिकरण्यावच्छेदकानवच्छिन्नत्वगर्भितसाधनस्याभावान्न व्यभिचार इत्यर्थः । यदि व्यभिचारपरिहाराय विशेषणोपादानं तर्हि स्वरूपासिद्धिरिति शङ्कते — नन्वित्यादिना ॥ प्रतियोगिसामानाधिकरण्यादिति ॥ पटे घटत्वात्यन्ताभावस्य घटत्वरूपप्रतियोगिसमानाधिकरणत्वे प्रतियोगिसामानाधिकरण्यावच्छेदकघटत्वात्यन्ताभाववत्त्वावच्छिन्नत्वेन प्रतियोगिसामानाधिकरण्यावच्छेदकानवच्छिन्नत्वगर्भितहेतोरभावादित्यर्थः । घटपटयोरभेदं वदता त्वयाऽपि पटे घटत्वात्यन्ताभावस्याङ्गीकार्यत्वादित्यर्थः । कुत इत्यत उक्तं पटे घटव्यवहारप्रसङ्गेति । यदि पटे घटत्वं तर्हि घटपदव्यवहारप्रयोजकसद्भावात्पटे घटव्यवहारः स्यात् । अतस्तत्परिहाराय पटे घटत्वं नाङ्गीकार्यमित्यर्थः । तयोरभिन्नत्वेन घटो घट एव न पट इति, घट एव घटत्वं न पट इति व्यवस्थैव कथमित्यत उक्तम् ॥ घटपटयोरपारमार्थिकभेदं वदतेति ॥ अभेदमङ्गीकुर्वताऽपि तयोर्व्यावहारिकभेदाङ्गीकारादुक्तव्यवस्थोपपद्यत इत्यर्थः । वस्तुतोऽभिन्नत्वे कथं व्यावहारिकभेदमात्रेणेयं व्यवस्थेत्युक्तं व्यावहारिकेति । यथा हि त्वन्मते बिम्बे बिम्बत्वमेव न प्रतिबिम्बत्वं तथा बिम्बे सत्यत्वमेव न त्वसत्यत्वं प्रतिबिम्बेऽसत्यत्वमेव न सत्यत्वमिति व्यवस्था तथेहापीत्यर्थः । ननु मया पटे घटत्वमङ्गीक्रियत एव । न च तर्हि निमित्तसद्भावात्पटे घटव्यवहारापत्तिरिति वाच्यम् । घटव्यवहारनिमित्तस्य घटत्वस्य घटपटादिसर्वपदार्थेष्वविशेषेऽप्यविद्यासामर्थ्येन घट एव घटव्यवहारो न पट इतिव्यवस्थोपपत्तेरिति शङ्कते — घटत्वस्येति ॥ प्रतिनियतः प्रतिवस्तुनियतः । घटे घट इत्येव न पट इत्यादिरूपः । अविद्याया एतादृशसामर्थ्यमेवासिद्धमित्याह — नहीति ॥ यदि व्यवहारतदभावौ प्रति निमित्ततदभावयोरप्रयोजकत्वमङ्गीकृत्याविद्याया एव तन्निर्वाहकत्वमङ्गीक्रियते । तर्ह्यविद्या शुक्तिकायां रजतारोपाभावदशायां तत्र रजतव्यवहारं जनयेत् । आरोपितरजतत्वरूपनिमित्तस्य त्वयैवाप्रयोजकत्वाभ्युपगमात् । नचैवं तथात्वे घटेऽपि रजतत्वव्यवहारं जनयेदविशेषात् । अतः शुक्तिकायां रजतव्यवहारनिमित्तारोपितरजतत्वसद्भावाज्जनयति । पटे तदभावान्न जनयतीति निमित्ततदभावयोरेव व्यवहारतदभावप्रयोजकत्वमिति पटे घटत्वसत्त्वे घट इति व्यवहारप्रसङ्गो दुर्वार इत्यर्थः । ननूक्तानुमाने हेतुरस्तु घटपटयोरैक्यमेवास्तु नतु तदभावरूपं साध्यमित्यप्रयोजकत्वमिति चेद् अत्र वक्तव्यम् । किमैक्यं पारमार्थिकमुतापारमार्थिकम् । नान्त्यः परस्परविरुद्धयोरिति न्यायेनैक्यस्यापारमार्थिकत्वे तद्विरुद्धभेदस्य पारमार्थिकत्वापत्तेः । आद्य आह — घटपटयोरिति ॥ पारमार्थिकं न निवर्तते अपारमार्थिकं तु निवर्तत इति खलु वस्तुगतिः । तत्र घटपटयोरपारमार्थिकत्वाङ्गीकृतावैक्यमपि निवर्तेत । ततश्च कुतः पारमार्थिकत्वम् । अत ऐक्यस्यापारमार्थिकत्वे घटपटयोः पारमार्थिकत्वमपरिहार्यमिति भावः ॥ जीवब्रह्मणोरिति ॥ यथा तयोः पारमार्थिकाभेदाश्रयत्वेन पारमार्थिकत्वं तथेहापीत्यर्थः । इष्टापत्तिं परिहरति ॥