१२ (३०) भेदोज्जीवनम्

ननु तथाऽपि (नन्वथापि) घटपटयोरपारमार्थिकभेदं वदता..

(३०)भेदोज्जीवनम्

(३०) ननु तथाऽपि (नन्वथापि) घटपटयोरपारमार्थिकभेदं वदता मया घटत्वादेरपि पटनिष्ठत्वाङ्गीकारेण पटनिष्ठात्यन्ताभावप्रतियोगिकधर्माधिकरणत्वं घटस्य नास्तीत्यसिद्धिरिति चेन्न (चेत्) । (किं) पटे घटत्वं तथ्यमतथ्यं (मिथ्या) वा । नाद्यः । अपसिद्धान्तात् । द्वितीये तु कथं पटे घटत्वात्यन्ताभावानङ्गीकरणम् ।

‘सर्वेषामेव भावानां स्वाश्रयत्वेन सम्मते । प्रतियोगित्वमत्यन्ताभावं प्रति मृषात्मते’ति वचनात् त्वया स्वसमानाधिकरणात्यन्ताभावप्रतियोगित्वं मिथ्यात्वमित्यङ्गीकारात् । पटस्य घटत्वं प्रत्याश्रयत्वमेव नास्तीति तत्र तदत्यन्ताभावाभावेऽपि तत्र तस्य मिथ्यात्वं न विरुध्यत (विरुद्धम्) इति चेत् तर्हि पटे (पटस्य) घटत्वं प्रत्यनाश्रये (प्रत्यनाश्रयत्वे) घटत्वात्यन्ताभावाधिकरणत्वं सुप्रसिद्धमिति कथमसिद्धिः ।

(३०)भावप्रदीपः

ननु घटपटयोरैक्यवादे पटत्वस्यापि घटे सत्त्वेन पटनिष्ठात्यन्ताभावप्रतियोगित्वाभावाद्धटत्वस्य तदनधिकरणत्वं घटेऽसिद्धमिति शङ्कते — नन्विति ॥ अथाऽप्यप्रसिद्धविशेषणत्वाभावेऽपि कथञ्चित्पक्षदृष्टान्तभावोपपत्तावपीत्यर्थः । पटे घटत्वात्यताभावमङ्गीकारयितुं विकल्पेन पृच्छति — पट इति ॥ सर्वेषामिति ॥ सर्वेषामपि भावानां घटादिपदार्थानां स्वाश्रयत्वेन सम्मते भूतलादावत्यन्ताभावं प्रति प्रतियोगित्वमेव मृषात्मता मिथ्यात्वमिति वचनार्थः । तथा च घटे पटत्वमतथ्यं चेत्तन्निष्ठात्यन्ताभावप्रतियोगित्वं घटत्वस्य दुर्वारमिति कथमसिद्धिरिति भावः । नन्वत एव स्वाश्रयत्वेन सम्मत इत्युक्तम् । तथा च पटस्य घटत्वाश्रयत्वाभावात्तदत्यन्ताभावस्य पटेऽनङ्गीकारेऽपि न घटत्वस्य तथ्यत्वापत्तिः । स्वाश्रयत्वेन सम्मते घटे स्वात्यन्ताभावसामानाधिकरण्यस्य सत्त्वात्तावन्मात्रेणैव मिथ्यात्वोपपत्तेरिति भावेन शङ्कते — पटस्येति ॥ एवं तर्हि न सुतरामसिद्धेरवकाश इति भावेन परिहरति ॥ तर्हीति । तस्यैवार्थः पटस्य घटत्वं प्रत्यनाश्रयत्व इति ॥ सुप्रसिद्धमितीति । घटानाश्रयस्य भूतलस्य घटात्यन्ताभावाधिकरणतानैयत्यस्य सर्वसम्मतत्वादिति भावः ।

(३०)भेदचिन्तारत्नं

विशेषणासिद्धिमाशङ्क्य समाधत्ते ॥ नन्विति ॥ अपारमार्थिकभेदाङ्गीकारादित्युपलक्षणम् । वास्तवतादात्म्याङ्गीकारादित्यपि द्रष्टव्यम् । घटत्वादेरित्यादिपदेन पृथुबुध्नोदराकारत्वादेर्ग्रहणम् । घटपटयोरैक्ये घटस्यैव पटत्वेन घटत्वादेः पटावृत्तित्वं नास्तीत्यर्थः । उक्तरीत्या घटत्वादेः पटत्वे पटनिष्ठात्यन्ताभावप्रतियोगित्वं वाच्यम् । यावत्स्वाधिकरणनिष्ठात्यन्ताभावप्रतियोगित्वरूपमिथ्यात्वाङ्गीकारात् । एवञ्च तन्मात्रमेवास्तु हेतुविशेषणमिति भावेन परिहरति — पटे घटत्वमिति ॥ कथमिति ॥ तस्यैव मिथ्याशब्दार्थत्वाङ्गीकारात् । तत्र परसम्मतिमाह — परेषामिति ॥ भावानां स्वाश्रयत्वेन सम्मते वस्तुन्येवाधिकरणेऽत्यन्ताभावं प्रति प्रतियोगित्वं मृषात्मेति सम्बन्धः । स्यादेतत् । यदि घटोऽपटत्वं प्रत्याश्रयः स्यात्तदा मिथ्यात्वघटनाय तदत्यन्ताभावोऽपि तत्राङ्गीकार्यः स्यात् । न चैवम् । पूर्वमसिद्धिचोदनं तु पटस्य पटत्वविशेषाघटत्वं प्रत्याश्रयत्वाभावेऽपि घटपटयोस्तादात्म्यमाश्रित्येत्यत आह — पटस्य घटत्वं प्रतीति ॥ सुप्रसिद्धमितीति । तदत्यन्ताभावस्यैव तदन्याश्रयत्वशब्दार्थत्वादिति भावः । यदुक्तं पटत्वविशेषाश्रयत्वं नास्तीति । तन्न । पटस्यैव स्वभावत्वेन तद्विना पटस्य वास्तववेषान्तराभावात् । न हि चेतनेष्विव जडेषु भागत्यागेनैक्यमुच्यत इति ।

(३०)भेदचन्द्रिका

यस्त्वपारमार्थिको भेदो मयाऽप्यङ्गीकृतः स न परस्परधर्मसङ्क्रान्तिनिवर्तक इत्यतोऽसिद्धिरित्यत आह — नन्वथाऽपीति । अप्रसिद्धविशेषणत्वस्य दोषत्वाभावेऽपीत्यर्थः । परस्परधर्मसङ्क्रान्तौ पक्षदृष्टान्ताभावेऽपि दुरुपपादनीय एवेति न तदङ्गीकारोऽथाऽपीत्यर्थः ॥ असिद्धिरिति ॥ हेत्वसिद्धिरित्यर्थः । अनयैव रीत्या सर्वेषां सर्वधर्मवत्त्वेन पटनिष्ठात्यन्ताभावप्रतियोगिधर्माधिकरणत्वस्याप्रसिद्धेः । द्वितीये त्वित्यादि । पटे घटत्वस्य मिथ्यात्वे त्वया स्वसमानाधिकरणात्यन्ताभावप्रतियोगिकत्वं मिथ्यात्वमित्यङ्गीकारात् । पटे घटात्यन्ताभावोऽवश्यमङ्गीकार्यः । तथा च नासिद्धिः । यदि च घटत्वस्याधिकरणं घट एव तन्निष्ठात्यन्ताभावप्रतियोगित्वेनैव तस्य मिथ्यात्वमित्युच्यते । तदा सुतरां घटत्वात्यन्ताभावः पट इति समुदायार्थः ।

(३०)भेदसञ्जीविनी

॥ तथ्यमिति ॥ अत्रेदं पारमार्थिकमिति प्रामाणिकव्यवहारगोचरीभूतं न वेत्यर्थः ॥ मृषात्मतेतीति । मृषात्वं मतमित्यर्थः । मृषात्मेति पाठः साधुः ॥ सुप्रसिद्धमिति ॥ घटत्वं नास्तीति त्वदीयव्यवहारबलादागतस्य कथमनङ्गीकार इत्यर्थः ॥ असिद्धिरिति ॥ स्वपदेन घटत्वात्यन्ताभावस्य ग्रहणे स्वप्रतियोगिभूतघटत्वाश्रयाप्रसिद्ध्या तद्धटितसाधनाप्रसिद्धिः । अत्यन्ताभावस्यासत्प्रतियोगिकत्वादुक्तावच्छिन्नत्वाभावघटितसाधनप्रसिद्ध्यङ्गीकारे तादृशधर्मवत्त्वं पटे नास्तीति स्वरूपासिद्धिरित्यर्थः ।

(३०)काशीतिम्मण्णाचार्य

॥पटनिष्ठत्वाङ्गीकारेणेति ॥ घटपटयोः स्वरूपैक्यादिति भावः । यद्यप्येवं पटे घटव्यवहारापत्तिरिति वक्ष्यमाणदूषणमत्र शक्यते वक्तुम् । तथापि पटे घटत्वात्यन्ताभावस्यैव प्रकृतोपयुक्तत्वात्तमेव तावदङ्गीकारयति — पट इति ॥ अङ्गीक्रियमाणमिति शेषः । ननु पटे घटत्वस्य मिथ्यात्वेऽपि तत्र तदत्यन्ताभावाङ्गीकारः कुत इत्यत आह — सर्वेषामिति ॥ घटादीनां तत्त्वतः स्वाधिकरणाप्रसिद्धेः स्वाधिकरणत्वेन सम्मत इत्युक्तम् । स्वप्रकारकधीविशेष्ये यावतीत्यर्थः । इति वदता त्वयेति सम्बन्धः । तथाच घटत्वादेरेतादृशमिथ्यात्वानुरोधादेव पटादौ तदत्यन्ताभावाङ्गीकार इति भावः ।

ननु स्वाश्रयनिष्ठाभावप्रतियोगित्वमेव मिथ्यात्वम् । स्वाश्रयत्वं च न वास्तवम् । नापि प्रातिभासिकसाधारणम् । येन विरोधः सिद्धार्थता वा स्यात् । अपि तु व्यावहारिकमेवेत्याशयेन शङ्कते — पटस्येति ॥ सुप्रसिद्धमेवेति ॥ परस्परविरुद्धयोरन्यतरनिषेधस्यान्यतरविधिव्याप्तत्वनियमादिति भावः ।

(३०)शर्कराश्रीनिवासाचार्य

ननु घटपटयोरेकत्वेन घटत्वं यथा घटे वर्तते तथा पटेऽप्यस्ति । एवं च पटे घटत्वात्यन्ताभावो नास्तीति घटत्वस्य पटनिष्ठात्यन्ताभावप्रतियोगित्वाभावेन तदाश्रयस्य पटनिष्ठात्यन्ताभावप्रतियोगिधर्माधिकरणत्वाभावादसिद्धिरिति शङ्कते — नन्विति ॥ अप्रसिद्धविशेषणत्वाभावेऽपि स्वरूपासिद्धिरस्तीत्यर्थः । तेनैव पटे घटत्वात्यन्ताभावमङ्गीकारयितुं विकल्पेन पृच्छति ॥ पट इति ॥ अपसिद्धान्तादिति ॥ घटत्वस्यापि सत्यत्वाङ्गीकारे ब्रह्मण एकस्यैव सत्यत्वमिति सिद्धान्तविरोधादित्यर्थः । कुत इत्यत आह — स्वसमानाधिकरणेति ॥ स्वं मिथ्यात्वेनाभिमतम् । तत्समानाधिकरणो योऽत्यन्ताभावस् तत्प्रतियोगित्वमित्यर्थः । यथा शुक्तिरूप्यं मिथ्या । तत्रेदं लक्षणमस्ति । स्वं शुक्तिरूप्यम् । तत्समानाधिकरणस् तेन सहैकाधिकरणे शुक्तिशकले विद्यमानो योऽत्यन्ताभावः रूप्यात्यन्ताभावः । तत्प्रतियोगित्वमस्ति रूप्यस्य । एवं पटनिष्ठघटत्वस्यापि मिथ्यात्वम् । स्वं घटत्वम् । तत्समानाधिकरणस् तेन सहैकाधिकरणे विद्यमानो योऽत्यन्ताभावः घटत्वात्यन्ताभावस् तत्प्रतियोगित्वं घटत्वस्याङ्गीकार्यमिति कथं घटत्वात्यन्ताभावः पटे न स्यादित्यर्थः । अङ्गीकारश्च तद्वाक्यादेव ज्ञायते इत्याशयेनोक्तम् ॥ सर्वेषामेवेति ॥ अस्यार्थः सर्वेषां भावानां पदार्थानां स्वाश्रयत्वेन सम्मते विद्यमानात्यन्ताभावप्रतियोगित्वरूपं मिथ्यात्वं तदा विरुध्येत यदि घटत्वं प्रत्याश्रयत्वं पटस्य सम्मतं स्यात् । नचैवमिति शङ्कते — पटस्येति ॥ तत्र पटे । तद् घटत्वम् । तत्र पटे । तस्य घटत्वस्य ॥ सुप्रसिद्धमिति ॥ पटस्य घटत्वं प्रत्याश्रयत्वं नेत्युक्ते तदभावं प्रत्याश्रयत्वस्य परस्परविरुद्धयोरिति न्यायप्राप्तत्वादिति भावः ॥ कथमसिद्धिरिति ॥ पटस्य घटत्वात्यन्ताभावाधिकरणत्वे घटस्य पटनिष्ठात्यन्ताभावप्रतियोगिधर्माधिकरणत्वसद्भावादिति भावः ।