अनुमानं च घटः पटप्रतियोगिकतात्त्विकतादात्म्याधिकरणं न भवति
(२९)भेदोज्जीवनम्
(२९) अनुमानं च घटः पटप्रतियोगिकतात्त्विकतादात्म्याधिकरणं न भवति । प्रतियोगिसामानाधिकरण्यावच्छेदकानवच्छिन्नपटनिष्ठात्यन्ताभावप्रतियोगिधर्माधिकरणत्वात् (धर्मवत्त्वात्) व्यतिरेकेण पटवत् । अप्रसिद्धविशेषणत्वं चात्मभेदसाधकानुमान इव परिहर्तव्यम् । व्यावहारिकभेदमात्रेण पक्षदृष्टान्तभावश्च घटपटयोरुदाहरणीयः (उपपादनीयः)।
(२९)भावप्रदीपः
॥ अनुमानं चेति ॥ प्रमाणमिति शेषः ॥ प्रतियोगीति ॥ प्रतियोगिसामानाधिकरण्यावच्छेदकेनानवच्छिन्नो यः पटनिष्ठात्यन्ताभावस्तत्प्रतियोगिभूतघटत्वरूपधर्माधिकरणत्वादित्यर्थः । अत्र प्रतियोगिपदं तत्समानप्रधानपरम् । अत्यन्ताभावप्रतियोगिनोऽसत्त्वस्य व्यवस्थापितत्वेन घटस्य तदधिकरणत्वायोगादित्यर्थः ॥ व्यतिरेकेण पटवदिति ॥ पटे पटतादात्म्यस्य घटत्वानधिकरणत्वस्य च सत्त्वेन साध्यसाधनयोरभावादिति भावः ॥ अप्रसिद्धविशेषणत्वं चेति ॥ यद्यपि मायावादिना प्रपञ्चमिथ्यात्वं वदता घटपटयोरतात्त्विकतादात्म्यं नाङ्गीक्रियत इत्यप्रसिद्धविशेषणत्वशङ्काप्रसरो नास्त्येव । तथाऽपि जीवब्रह्मणोरैक्यं सर्वप्रमाणविरुद्धमङ्गीकुर्वत इदमपि सम्भावितमिति तन्मतस्यातीवहेयताज्ञापनायेयंशङ्केति द्रष्टव्यम् ॥ आत्मभेदसाधकानुमान इवेति ॥ घटः पटप्रतियोगिकतात्त्विकतादात्म्यापन्नं न वेति संशयासम्भवेऽपि पटप्रतियोगिकतादात्म्यं घटेऽस्ति न वेति सन्देहमात्रेण घटस्य पक्षत्वोपपत्त्या हेतोः पक्षधर्मतोपपत्तेरिति वा केवलव्यतिरेकिणि साध्याभावस्य साधनाभावेन व्याप्तिग्रहादत्र साध्याभावस्य पटतादात्म्यस्य पटे प्रसिद्धत्वेन व्याप्तिविघटकत्वाभावादिति वा परिहरणीयमित्यर्थः । ननु घटपटयोर्भेदसिद्धेः प्राक् कथं पक्षदृष्टान्तभाव इत्यत आह — व्यावहारिकभेदेति ॥ अन्यथा तव कुत्रापि पारमार्थिकभेदाभावेन पक्षदृष्टान्तघटितानुमानप्रयोग एव क्वचिदपि न स्यादिति भावः । अत्र व्यावहारिकेति पराङ्गीकारसूचनार्थम् । वस्तुतस्तु भेदमात्रेणैवेत्येतावदेवोपयुक्तम् । तेन व्यावहारिकभेदस्य भवद्भिरनङ्गीकारात्कथं तदुक्तिरिति शङ्कानवकाश इति ध्येयम् ।
(२९)भेदचिन्तारत्नम्
॥ घट इति ॥ व्यावहारिकसत्तातादात्म्यानङ्गीकारे सिद्धसाधनतावारणाय तात्त्विकेति ॥ प्रतियोगीति । प्रतियोगिना सामानाधिकरण्यस्यावच्छेदको यो धर्मो निष्प्रकारकचैतन्यापरोक्षोत्पत्तिपर्यन्तं स्वाधिकरणे स्वप्रतियोगिप्रतीत्यविरोधित्वरूपो धर्मस्तदनवच्छिन्नस्तद्रहितो यः पटनिष्ठात्यन्ताभावस्तत्प्रतियोगिकम्बुग्रीवादिधर्माधिकरणत्वादित्यर्थः । अयं भावः । परेण हि सर्वमिथ्यात्ववादिना घटत्वादीनां पटादाविव स्वाधिकरणघटादावप्यभावोऽङ्गीक्रियत एव । परन्तु घटत्वस्य पटे योऽत्यन्ताभावः स तत्प्रतियोगिकसमानाधिकरणः । अतः स्वाधिकरणे प्रतियोगिप्रतीतिं निरुणद्धि । पटे तु प्रतियोगिसमानाधिकरणः । अत एव घटे घटत्वाभावसत्त्वेऽपि घटत्वप्रतीत्यविरोधः । इयं प्रतियोगिप्रतीतिर्निष्प्रकारकब्रह्मापरोक्षपर्यन्तमेव । उत्पन्ने तु तस्मिन्नयमपि प्रतियोगिविरोध्येव भवति । एवञ्च प्रतियोगिसामानाधिकरण्यावच्छेदको यो धर्मः स्वप्रतियोगिप्रतीत्यविरोधित्वरूपस्तद्रहितो योऽत्यन्ताभावस्तत्प्रतियोगिघटत्वादिधर्माधिकरणत्वं हेतुरिति ॥ पटनिष्ठेत्येवोक्ते पट एव व्यभिचारः । परेण स्वात्यन्ताभावसमानाधिकरणत्वं मिथ्यात्वमित्यङ्गीकुर्वता पटत्वादेरपि पटनिष्ठात्यन्ताभावप्रतियोगित्वाङ्गीकारात् । अतः प्रतियोगिसामानाधिकरण्यावच्छेदकानवच्छिन्नेत्युक्तम् । पटे पटत्वात्यन्ताभावस्तु स्वाधिकरणप्रतीत्यविरोधित्वरूपोक्तधर्मावच्छिन्न एव । घटत्वात्यन्ताभावस्तु न तथा । न च घटे पटत्वादिप्रतीतिरपि भ्रमरूपा सम्भवतीति तस्यापि प्रतियोगिसामानधिकरण्यावच्छेदकानवच्छिन्नत्वं नास्त्येव । न च प्रतीतिः प्रमाकारा विवक्षितेति घटे घटत्वप्रतीतिः प्रमात्वानङ्गीकारादिति वाच्यम् । प्रतीतेर्ब्रज्ञानेतरज्ञानाबाध्याया एव विवक्षितत्वात् । प्रतियोग्यसमानाधिकरणेत्येवोक्ते पट एव व्यभिचारः । पटत्वात्यन्ताभावस्य पट एव प्रतियोग्यसमानाधिकरणत्वस्य वक्तुं शक्यत्वात् । तथा हि । प्रतियोग्यसमानाधिकरणत्वं हि प्रतियोगिसमानाधिकरणत्वाभावः । प्रतियोगिसमानाधिकरणत्वं प्रत्यभावोऽन्य एव । एवञ्च प्रतियोगिसमानाधिकरणस्याप्यभावस्य प्रतियोगिसमानाधिकरणान्तरगतप्रतियोगिसमानाधिकरणत्वरूपधर्मराहित्यं युज्यत एव । अतः प्रतियोगिसामानाधिकरण्यावच्छेदकानवच्छिन्नेत्युक्तम् । एवञ्चाभावान्ततरगतप्रतियोगिसमानाधिकरणत्वस्याभावेऽपि प्रतियोगिसामानाधिकरण्यावच्छेदकत्वं नास्तीति न व्यभिचारः । तत्र प्रतियोगिपदं प्रतियोगितावच्छेदकानवच्छिन्नपरम् । तेन प्रतियोगिसामानाधिकरण्यस्यापि प्रतियोगिविशेषसामानाधिकरण्यावच्छेदकानवच्छिन्नत्वसम्भवाद्व्यभिचार इति निरस्तम् । यद्वा पटनिष्ठसंयोगस्य स्वात्यन्ताभावसामानाधिकरणत्वेन तद्वति पटे व्यभिचारवारणाय प्रतियोगिसामानाधिकरण्यावच्छेदकानवच्छिन्नेति विशेषणम् । ननु घटपटोर्धर्मिसत्तासमानसत्ताकभेदः परेणाङ्गीक्रियत एवेति किं तत्साधनेन । न च पारमार्थ्यसाधनार्थं यत्नः । धर्मिणामेव तस्य साध्यत्वात् । एकाधिष्ठानाध्यस्तत्वमेव जडानामैक्यमिति तन्मतम् । न च भेदसाधनप्रसङ्गाच्छिष्यं प्रतीदमुच्यत इत्युत्तरं मायावादिरीत्यैव ग्रन्थचलनाच्छिष्यं प्रति सिद्धसाधनत्वान्नेति चेन्न । घटः पटतादात्म्याधिकरणं न भवतीत्यस्य पटारोपाधिष्ठानाध्यस्तो न भवतीत्यर्थकत्वात् । हेतुवाक्यस्यापि पटधर्मात्यन्तविलक्षणधर्माधिकरणत्वादिति निष्कृष्टार्थः । अत्यन्तविलक्षणयोरेकाधिष्ठाने आरोपासम्भवादिति भावः । यद्वा वाचारम्भणमित्याद्यर्थकत्वेन यज्जडैक्यं तेनाङ्गीकृतं तदभाव एवात्र साध्यत इत्यदोषः । ननु सर्वपदार्थानामैक्याङ्गीकारादप्रसिद्धविशेषणतेत्यत आह — अप्रसिद्धेति ॥ व्याप्त्याद्यविघटकत्वेनेति शेषः । एतदनुमानात्पूर्वं जडभेदासिद्धेः पक्षदृष्टान्तानुपपत्तिरित्यत आह — व्यावहारिकेति ॥ असत्प्रतियोगिकवैलक्षण्येन भेदस्य साधनसाधनाङ्गत्वम् । अन्यथाऽयं पट एतत्तन्तुनिष्ठ इत्यादावपि समानमिति भावः ।
(२९)भेदचन्द्रिका
॥ अनुमानं चेति ॥ घटपटभेदे प्रमाणमिति शेषः । अभावस्य साध्यत्वान्न साध्याप्रसिद्धिर्दोष इत्याह — अप्रसिद्धविशेषणत्वं चेति ॥ प्रतियोगिसामानाधिकरण्यावच्छेदकेनावच्छिन्नः पटनिष्ठो योऽत्यन्ताभावस्तत्प्रतियोगी यो धर्मो घटत्वादिस्तदधिकरणत्वं घटत्वस्य तदा यदि घटत्वादिर्घटवृत्तिधर्मः पटे न स्यात् । तत्तदपि तदा यदि तयोः पारमार्थिको भेदस्त्वद्याप्यसिद्धः ।
(२९)भेदसञ्जीविनी
॥ प्रतियोगीत्यादि । प्रतियोगिपदं स्वप्रतियोगिपरम् । अन्यथा तस्याव्यावर्तकतापत्तेः । अनवच्छिन्नान्तमत्यन्ताभावविशेषणम् । सामानाधिकरण्यं किञ्चिन्निष्ठं ग्राह्यम् । न तु हेतुशरीरनिविष्टात्यन्ताभावनिष्ठम् । स्वमते सर्वत्र न्यायमते च व्याप्यवृत्त्यभावे प्रसिद्धेः । तस्य सामानाधिकरण्यस्य योऽअवच्छेदक उभयाधिकरण्यं, घटे गगनाभावे घटत्वसामानाधिकरण्यं न पट इति प्रतीतेः । गगनाभावनिष्ठघटत्वसामानाधिकरण्यं घटावच्छेद्यं न पटावच्छेद्यमिति तदभिलापवाक्यार्थः । पटे गगनाभावे न घटत्वसामानाधिकरण्यमित्यत्र तु गगनाभावनिष्ठघटत्वसामानाधिकरण्याभावः पटावच्छेद्य इति इदं सार्वभौमेनाङ्गीकृतम् । प्रतियोग्यसमानाधिकरणयत्समानाधिकरणेत्यादिसिद्धान्तलक्षणे मणिकृताङ्गीकृतत्वात् । अयं चात्र ग्रन्थस्तदनुसारेण प्रवृत्तः । घटत्वात्यन्ताभावप्रतियोगिघटत्वसामानाधिकरण्यं यद्गगाभावनिष्ठं तदवच्छेदकः पटो न, किन्तु घट एव । तदनवच्छिन्नपटनिष्ठेत्यत्र पटवृत्तित्वविशिष्टेऽभावेऽनवच्छिन्नत्वस्य विशेषणत्वे फलतो पट[घट]निरूपिताधेयतायां घटत्वा[पटत्वा]भावनिष्ठायां पटत्वसामानाधिकरण्यरूपायां विशेषणं पर्यवस्यति । घटत्वाभावे तस्याव्यावर्तकत्वात् । तथा च स्वप्रतियोगिसामानाधिकरण्यावच्छेदकानवच्छिन्नपटनिरूपिताधेयतावदभाव इत्यर्थः । तादृशश्च घटत्वात्यन्ताभावस्तत्प्रतियोगिघटत्वरूपधर्मवत्त्वं घटे [हेतौ] वर्तत इत्यर्थः । अस्य प्रयोजनमुत्तरग्रन्थे स्फुटीभविष्यति । घटपटसंयोगादिकमव्याप्यवृत्त्यभावप्रतियोगिनमादाय व्यभिचारवारणाय चेदम् । घटपटसंयोगात्यन्ताभावस्य घट[पट]निष्ठत्वेऽपि तन्निष्ठसंयोगरूपप्रतियोगिसामानाधिकरण्यं प्रति पटस्यावच्छेदकत्वात्तन्निष्ठतदत्यन्ताभावमुपादाय पटादौ व्यभिचारः । सामानाधिकरण्यस्याव्याप्यवृत्तित्वानङ्गीकर्तृदीधितिकृद्रीत्या तु प्रतियोगिसामानाधिकरण्येत्यादेः प्रतियोगिसामानाधिकरण्यानिरूपकनिरूपितपटनिरूपिताधेयतेत्यर्थः । किञ्चिन्निष्ठप्रतियोगिसामानाधिकरण्यनिरूपकत्वं प्रतियोग्यधिकरणस्यैवेत्युक्तविशेषणेन स्वप्रतियोग्यनधिकरणपटनिष्ठात्यन्ताभावप्रतियोगिधर्मवत्त्वादिति हेतुः पर्यवस्यति । प्रतियोगिवैयधिकरण्ये प्रतियोग्यधिकरणता हेतुतावच्छेदकसम्बन्धावच्छिन्ना बोध्या । प्रयोजनं स्वयमूह्यम् । केचित्तु प्रतियोगिसामानाधिकरण्यरूपं यदवच्छेदकधर्मस्तदनवच्छिन्नस्तदविशिष्टः सन्पटनिष्ठो योऽभाव इत्यर्थः । प्रतियोगिसमानाधिकरणान्यस्याभावविशेषणत्वे वक्ष्यमाणन्यायेन पटत्वाभावादेरतथात्वादेवमुक्तम् । उक्तवाक्यस्यापि प्रतियोयोग्यनधिकरणपटनिष्ठात्यन्ताभावेत्याद्युक्तहेतौ पर्यवसानमत इदमपि कथमिति शङ्कानवकाश इत्याहुः ।
(२९)काशीतिम्मण्णाचार्य
अत्रैवानुमानान्याह – अनुमानं चेति ॥ पटेत्यादेः पटप्रतियोगिकतादात्म्याधिकरणत्वावच्छिन्नप्रतियोगिताकभेदवानित्यर्थः । तात्त्विकतादात्म्येति पाठे पटत्वविशिष्टतादात्म्यावच्छिन्नभेदमादाय सिद्धसाधनवारणाय तात्त्विकपदं तदुपलक्षिततादात्म्यनिवेशलाभार्थम् । तदवच्छिन्नव्यावहारिकभेदसिद्ध्याऽर्थान्तरत्वं त्वात्मभेदसाधकानुमानरीत्या परिहरणीयम् ॥ प्रतियोगीति ॥ अव्याप्यवृत्तिसंयोगादिकं व्याप्यवृत्तिपटत्वादिकं चादाय पटे व्यभिचारवारणायानवच्छिन्नान्तनिष्ठान्तयोरभावविशेषणत्वेन निवेशः । न च प्रतियोग्यसमानाधिकरणत्वविशेषणेनैव संयोगाभावादिव्यावृत्तेरनवच्छिन्नान्तव्यावृत्त्यभाव इति
वाच्यम् । गुणादौ प्रतियोग्यसमानाधिकरणस्यैव संयोगाभावस्य पटनिष्ठत्वेन तदव्यावृत्तेः । अनवच्छिन्नान्तनिवेशे च प्रतियोगिसामानाधिकरण्यावच्छेदकं यत्संयोगाभावत्वं तदनवच्छिन्नत्वाभावेन तद्व्यावृत्तेः । न चैवं घटत्वाभावादेरपि घटत्वादिरूपप्रतियोगिसामानाधिकरण्यावच्छेदकप्रमेयत्वाद्यवच्छिन्नत्वादसिद्धिरिति वाच्यम् । स्वनिरूपकप्रतियोगिसामानाधिकरण्यावच्छेदकं यद्यत्तदनवच्छिन्नत्वस्य विवक्षितत्वात्, प्रमेयत्वादिनिरूपकप्रतियोग्यप्रसिद्ध्या स्वपदेन तदुपादानायोगात् । संयोगभावत्वादेरेव च तथात्वात् ।
ननु सर्वस्यैव पटतादात्म्याधिकरणत्वात् तदवच्छिन्नभेदरूपसाध्याप्रसिद्धिरत आह — अप्रसिद्धेति ॥ परिहर्तव्यमिति ॥ प्रकृतानुमित्यविरोधित्वेन ज्ञेयमित्यर्थः । अभावसाध्यकव्यतिरेक्यनुमाने तददोषत्वस्योपपादितत्वादिति भावः ।
(२९)शर्कराश्रीनिवासाचार्य
एवमात्मभेदे प्रमाणत्रयमभिधायानात्मभेदेऽपि तदुपपादयन् प्रत्यक्षं तावदाह — घटपटादीति ॥ प्रत्यक्षं घटः पटो न भवतीत्याद्यं सुलभमेव नानुमानवत्प्रयासेनोपपादनीयम् । नचास्य प्रत्यक्षस्य नेह नानेति श्रुतिबाधितत्वादप्रामाण्यमिति वाच्यम् । तस्याः श्रुतेश्च ब्रह्मणि गुणकर्मादिभेदनिषेधकत्वेन घटपटभेदबाधकत्वाभावादिति भावः ॥ प्रतियोगीति ॥ घटे घटत्वात्यन्ताभावस्य घटत्वरूपप्रतियोगिसमानाधिकरणत्वाभावेन प्रतियोगिसामानाधिकरण्याप्रसिद्ध्या तदवच्छेदकस्याप्रसिद्धत्वेन तदनवच्छिन्नः पटनिष्ठो योऽत्यन्ताभावः घटत्वात्यन्ताभावस् तत्प्रतियोगिधर्मो घटत्वं तदधिकरणत्वादित्यर्थः । प्रतियोगीत्यादिविशेषणकृत्यं स्वयमेव वक्ष्यति ॥ पटवदिति ॥ तत्र हि पटप्रतियोगिकतादात्म्याधिकरणत्वाभावाभावः पटप्रतियोगिकतादात्म्याधिकरणत्वे वर्तते । तादृशघटत्वरूपधर्माधिकरणत्वाभावश्च वर्तत इत्यर्थः ।
ननु मया पटप्रतियोगिकतादात्म्याधिकरणत्वस्यैवाङ्गीकारात्तदभावरूपसाध्यस्याप्रसिद्धत्वेनाप्रसिद्धविशेषणत्वमित्यत आह — अप्रसिद्धविशेषणत्वं चेति ॥ यथा जीवो ब्रह्मप्रतियोगिकतादात्म्याधिकरणं न भवतीत्यत्राभावस्य साध्यत्वान्नाप्रसिद्धविशेषणत्वस्य दोषत्वं तथेहाप्यभावस्य साध्यत्वाद्व्याप्त्यादिविघटकत्वाभावान्नाप्रसिद्धविशेषणत्वं दूषणमित्यर्थः । ननु घटपटयोर्भेदसिद्धेः पूर्वं कथं तयोः पक्षदृष्टान्तभाव इत्यत आह — व्यावहारिकभेदमात्रेणेति ॥ आत्मभेदसाधकानुमानवदिति वर्तते । तथाच पक्षदृष्टान्तभावे पारमार्थिकभेदस्य प्रयोजकत्वे त्वया तस्य कुत्राप्यनङ्गीकारेणानुमानमात्रोच्छेदापत्त्या भेदमात्रस्य प्रयोजकत्वे वाच्ये तस्य घटपटयोरपि विद्यमानत्वात्तयोः पक्षदृष्टान्तभावोपपत्तिरित्यर्थः ।