१० (२८) भेदोज्जीवनम्

यद्वा, तत्त्वमसीति श्रुत्यर्थापरिज्ञानादद्वैतप्राप्तिरस्तु

(२८)भेदोज्जीवनम्

(२८) यद्वा, तत्त्वमसीति श्रुत्यर्थापरिज्ञानादद्वैतप्राप्तिरस्तु । अस्ति च श्रुत्यर्थापरिज्ञानप्राप्तस्य श्रुत्यन्तरेण निषेधः । यथेष्टापूर्तयोः परमपुरुषार्थत्वनिषेधः । अथवा प्रवाहतोऽनादिरूपया दुःशास्त्रपरम्परयाऽद्वैतप्राप्तिरस्तु । अस्ति च कुमतप्राप्तस्य निषेधः । `तद्धैक आहुरसदेवेदमग्र आसीत्’, ‘एकमेवाद्वितीयं’, `तस्मादसतः सदजायते’ति, `कुतस्तु (खलु) सोम्यैवं स्यादिति होवाच’, `कथमसतः सज्जायेते(सदजायते)‘त्यादौ । अत्र हि बौद्धमतप्राप्तमसतः कारणत्वं निषिध्यते (इति) । तस्माद् द्वा सुपर्णेत्याद्याः श्रुतयो जीवेश्वरभेदे प्रमाणम् ।

‘परमं साम्यमुपैति सह ब्रह्मणा विपश्चिता’ ‘मम साधर्म्यमागता’ इत्याद्यास्तु न व्यावहारिकभेदपरत्वेन शङ्कितुमपि शक्याः । मुक्त्यनन्तरं भेदप्रतिपादकत्वात् । घटपटादि भेदे तु प्रत्यक्षं सुलभमेव ।

(२८)भावप्रदीपः

अद्वैतश्रुतेरनुवादकत्वसिद्ध्यर्थं प्रकारान्तरेणाद्वैतस्य प्राप्तिं दर्शयति — यद्वेति ॥ तत्त्वमसीति श्रुतेस्तात्पर्यविषयीभूतोऽर्थस्तु तद्गुणसारत्वात्तद्व्यपदेश इति सूत्रकारेणैव सिंहो देवदत्त इत्यादिवज्जीव

ब्रह्मणोः सादृश्यरूपो दर्शितस्तदपरिज्ञानेनेत्यर्थः । श्रुत्यर्थापरिज्ञानप्राप्तस्य श्रुत्यन्तरेण निषेधः क्व दृष्ट इत्यत आह — अस्तीति । `दर्शपूर्णमासाभ्यां स्वर्गकामो यजेते’त्यादिश्रुतितात्पर्यापरिज्ञानप्राप्तमनीश्वरविषयं काम्यकर्मे `ष्टापूर्तं मन्यमाना वरिष्ठं नान्यच्छ्रेयो वेदयन्ते प्रमूढाः । नाकस्य पृष्ठे सुकृते तेऽनुभूत्वा इमं लोकं हीनतरं वा विशन्ती’ ति श्रुतिः । पूर्वार्धेनानूद्योत्तरार्धेन तस्य परमपुरुषार्थसाधनत्वं निराकरोति । निन्दायाः प्रतिषेधे तात्पर्यात् । न चैवंविधकर्मणोऽन्यतः प्राप्तिरस्ति । अतः श्रुतितात्पर्यापरिज्ञानमेव तत्प्रापकं वाच्यम् । तद्वत्प्रकृतेऽपीति भावः ॥ इष्टापूर्तयोरिति ॥ इष्टं यजनं पूर्तमन्नदानादिकं तयोरित्यर्थः । अन्येषामपि दृश्यत इति दीर्घः श्रुत्यनुसारेण । श्रुतौ च द्वन्द्वैकवद्भावः । सर्वो द्वन्द्वो विभाषयैकवद्भवतीति वचनात् । वरिष्ठं परमपुरुषर्थसाधनम् । अन्यच्छ्रेयः परब्रह्मापूज्यम् । तत्प्रसादमिति यावत् । न वेदयन्ते न जानन्ति । वरिष्ठमिति वर्तते । प्रकारान्तरेणाप्यद्वैतप्राप्तिं दर्शयति — अथवेति ॥ कथमाधुनिकदुःशास्त्रपरम्परया प्राप्तस्यानादिना वेदेन निषेध इत्यत उक्तं प्रवाहतोऽनादिरूपयेति । अनादिककालतो वृत्ताः समया हि प्रवाहत इति वचनादिति भावः । अस्यां श्रुतौ किं मतप्राप्तं किं निषिध्यत इत्यतः स्पष्टयति — अत्र हीति । इति शब्दः प्रप्तिप्रदर्शनप्रकरणसमाप्तिपरः । उपसंहरति — तस्मादिति ॥ उक्ततीत्या भेदस्य व्यावहारिकत्वाभावदनुवादकत्वाभावाच्चेत्यर्थः । व्यावहारिकभेदपरत्वेन शङ्कितुमप्यशक्यमौक्तभेदश्रुतयः स्मृतयश्च सन्तीत्याह — परममिति ॥ न हि मुक्तौ व्यावहारिकभेदो युज्यत इति भावः । एवमात्मभेदे प्रमाणत्रयमुपन्यस्यैतेन घटपटादिभेदे प्रमाणं निरस्तमित्यादिना प्राक् कृतांशङ्कां निराह — घटपटादीति ॥ सुलभ

मेवेति ॥ नोपपादनसापेक्षं धर्मिप्रतियोगिनोरुभयोरपि प्रत्यक्षयोग्यत्वेन पूर्वशङ्कानवकाशादिति भावः ।

(२८)भेदचिन्तारत्नं

ननु केवलानुमानान्नेश्वरप्राप्तिः । शास्त्रैकसमधिगम्यत्वादीश्वरस्य । आगममूलत्वे स्वानुपजीवत्वाभावात्कथमनुवादित्वमित्यतः प्राप्त्यन्तरमाह — यद्वेति ॥ अपरिज्ञानादिति ॥ तात्पर्यापरिज्ञानादापातप्रतीतिमात्रादित्यर्थः । आधुनिकपुरुषज्ञानात्प्राप्तमर्थं कथमनादिश्रुतेरनुवाद इत्यत आह — अस्तीति । अज्ञानस्यापि प्रवाहतोऽनादित्वादिति भावः ॥ निषेध इति ॥ इष्टापूर्तं मन्यमाना इति शेषः । अत्र साक्षान्निषेधश्रवणेऽपि निन्दार्थवादाद्गम्यत इति ज्ञेयम् । नन्वियं प्राप्तिः श्रुत्यर्थापरिज्ञानादेवेति कुतः शास्त्रादितोऽपि सम्भवादिति चेन्न । यामिमां पुष्पितां वाचं प्रवदन्ति विपश्चित इति समाख्यानात् । विषयव्याप्त्यर्थं प्राप्त्यन्तरमाह — अथवेति ॥ समयस्याधुनिकत्वात्कथमेतदित्याशङ्क्योक्तं प्रवाहत इति । एके शून्यवादिन इदमग्रेऽस्य जगतः पूर्वमेवाद्वितीयमसच्छून्यमेवासीत्तस्मादसतः सज्जगदासीत् । अजायतेत्याहुः । हे सोमार्ह कुतः कारणादेवं स्यादिति होवाच गुरुः शिष्यं प्रति कथमसतः सज्जायेतेति भावेनेत्यर्थः । किञ्च भेदाभेदवाक्ययोः पौर्वापर्यनियमाभावाद्यत्तच्छब्दभावद्भेदवाक्ये विधेयान्तरश्रवणात् । भेदाभेदवाक्ययोरसन्निहितत्वाद्भेदस्याङ्गीकृतार्थान्तरेण सहपाठाच्च नानुवादनिषेध इति भावः । यच्चोक्तं सिद्धानुवादकत्वाद्भेदवाक्यं दुर्बलमिति । तन्न । ब्रहुप्रमाणसंवादस्य दाढर्यहेतुत्वेन गुणत्वात् । एतेन भेदवाक्यस्य वैयर्थ्यमिति निरस्तम् । व्यर्थत्वेऽपि तदर्थस्य सत्यत्वाविरोधाच्च न दोषः । वस्तुतस्त्वनुवादित्वेऽपि न वैयर्थ्यम् । अधिकारिभेदेन प्रवृत्तसमानार्थकशाखान्तरे व्यभिचारात् । अधिकारिभेदेनाप्रवृत्ते सतीति विशेषणे त्वसिद्धिः । यस्य वादिमत्या प्रत्यक्षं भेदनिश्चयग्रहश्च नेष्टे तं प्रति प्रवृत्तत्वात् । किञ्च मा हिं स्यात्सर्वा भूतानीति वाक्ये व्यभिचारः । कस्यापि सर्वहिंसाप्रसक्त्यभावात् । एकदेशेऽपूर्वताऽस्तीति चेत् । समं ममापि सर्वभेदस्य प्रत्यक्षाप्राप्तत्वात् । अपि च सौप्तिकसुखानुभवसिद्धानुवादे आनन्दं ब्रह्मण इति वाक्ये व्यभिचारः । तस्यैव त्रैकालिकत्वविधानार्थं तदिति चेत् । समं प्रकृतेऽपि । उक्तरीत्या भेदप्रत्यक्षस्य श्रुत्युपजीव्यत्वादिति भेदस्य सत्यत्वेऽसन्दिग्धश्रुतिमपि पठति — परममित्यादिना ॥ नन्वत्र साम्यादिरेवोच्यते न च भेदः । न च तद्व्यापकोक्त्या तदनुमातुं शक्यत इति वाच्यम् । तर्ह्यागमतयोदाहरणानुपपत्तिरिति चेन्न । तद्भिन्नत्वे सति तद्गतभूयोधर्मवत्त्वं सादृश्यमिति भेदगर्भत्वात् । न च तन्निष्ठत्वमेव लक्षणमस्त्विति वाच्यम् । स्वस्यापि स्वसादृश्यव्यवहारापत्तेश्च । अत एव गगनं गगनाकारमित्यादौ सदृशान्तरनिषेध एव तात्पर्यमिति वदन्ति । ननु तथाऽपि भवतां ब्रह्मसादृश्यं सिद्धान्तविरुद्धमिति चेन्न । `जगद्व्यापारवर्ज’मिति निर्णायकानुसरणसङ्कोचकरणात् । एवञ्च सहभावस्यापि तद्भिन्नत्वे सति तत्क्रियायोगित्वमिति ॥ भेदगर्भ इत्याद्या इति ॥ परञ्ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते । न यत्र माया किमुतापरे हरेरनुव्रत इत्यादिरूह्यम् । न चेयं सगुणमुक्तिरिति वाच्यम् । मुक्तिद्वैविध्ये मानाभावात् । स्वक्रियान्यथाऽनुपपत्त्या कल्पने त्वन्योन्याश्रयः । अस्तु वा तद्वैविध्यं साम्यवाक्ये पुण्यपापे विधूयेति निरञ्जनत्वोक्तेः । उपसत्तिवाक्ये स्नेहरूपेणेति मिथ्याकारे प्रहाणोक्तेः । अन्त्येन यत्र मायेति मायाभावोक्तेश्च न सगुणमुक्तिपरत्वमिति । एवमात्मभेदं प्रसाध्य जडभेदं साधयति — घटपटेति ॥ नायं घट इति प्रत्यक्षमित्यर्थः ।

(२८)भेदचन्द्रिका

॥ श्रुत्यन्तरेणेति ॥ इष्टापूर्तं मन्यमाना वरिष्ठं नान्यच्छ्रेयो वेदयन्ते प्रमूढा इत्यादिनेत्यर्थः ॥ मुक्त्यनन्तरमिति ॥ आविद्यकस्य मुक्तावनुवृत्त्ययोगादित्यर्थः ॥ सुलभमेवेति ॥ धर्मप्रतियोगिनोर्योग्यत्वादित्यर्थः ।

(२८)भेदसञ्जीविनी

॥ इष्टापूर्तयोरिति ॥ `इष्टापूर्तं मन्यमाना वरिष्ठं नान्यच्छ्रेयो वेदयन्ते प्रमूढाः । नाकस्य पृष्ठे सुकृते तेऽनुभूत्वा इमं लोकं हीनतरं वा विशन्तीत्याथर्वणश्रुतेरयमर्थः । इष्टं यजनं पूर्तमन्नदानादि । इष्टपदोत्तर`मन्येभ्योऽपि दृश्यत’ इति दीर्घ इति विष्णुतत्त्वनिर्णयटीकायामुक्तम् । अन्यच्छ्रेयः परमात्मप्राप्तिलक्षणमोक्षरूपश्रेयो ब्रह्म वा वेदयन्ते स्वार्थे णिच् विन्दन्ति । नाकस्य पृष्ठे स्वर्गस्य स्थाने सुकृते सुकृतसाध्येऽनुभूत्वा सुखमनुभूय । इमं लोकमित्यादि । वाशब्दो व्यवस्थितविकल्पे । विष्णौ राजादिवत्सर्वोत्तमत्वज्ञानपूर्वकं तद्विशेषापरिज्ञानपूर्वकं च काम्यकर्म कृत्वाऽन्यदेवतोद्देश्यककर्माप्यन्ततो विष्णावेव समर्पयन्ति । ते स्वर्गं भुङ्क्त्वेमं लोकं मानुषलोकम् आविशन्ति प्राप्नुवन्ति । अन्येषां भगवत्साम्यमन्येभ्यो भगवतो हीनत्वमित्यादिज्ञानिनो दुर्योधनप्रमुखा अयोग्या दक्षिणा तदर्पितानामाचार्याणां द्रोणादीनां तेजसा स्वर्गं भुक्त्वा तदनन्तरं हीनतरं तमादिरूपं पुनरुत्थानशून्यं क्रमादाविशन्तीति । उक्तं ह्येतदाथर्वणभाष्ये –

‘सर्वेभ्योऽपि परं विष्णुं राजवद्यस्तु मन्यते ।

याजी स मानुषं याति साम्यहीनत्ववित्तम’ इति ।

अत्र विशेषो गीतातात्पर्तनिर्णयतोऽवगन्तव्यः । तथा चेष्टापूर्तादेः परमपुरुषार्थत्वज्ञानिनां निन्दाद्वारा श्रुतिः परमपुरुषार्थत्वं निषेधति । अर्थवादस्य विधिनिषेधावन्तरापर्यवसानायोगात् । निषेधश्च प्राप्तिपूर्वकः । प्राप्तिर्वक्तव्या सा च प्रत्यक्षानुमानाभ्याम् । स्वर्गादेस्तन्निष्ठपुरुषार्थतायास्तज्जनकत्वादीनामतीन्द्रियत्वे प्रत्यक्षाप्रसक्तेः । पक्षसाध्यहेत्वादीनां ग्रहीतुमशक्यत्वेनानुमानस्याप्यप्रवृत्तेः । तथा च `यन्न दुःखेन सम्भिन्न’मित्यादिवाक्यैः स्वर्गनिरूपणपरैर्ज्योतिष्टोमेन स्वर्गकामो यजेतेत्यादिवाक्यैश्च तात्पर्यमविदुषां यागादिसाध्यस्य स्वर्गादेः परमपुरुषार्थत्वभ्रमरूपा प्राप्तिर्वर्तते । तद्विषयीभूतं यथा श्रुत्या निषिध्यते तथेहाप्यस्त्विति भावः ॥ प्रवाहतोऽनादिरूपयेति । इदं चागन्तुकं कथमनादिरूपया श्रुत्याऽनूद्यत इति शङ्कानिरासाय । प्रवाहतोऽनादित्वं च यादृशरूपाश्रयाधिकरण[काल]सामान्यं यादृशरूपाश्रय प्रतियोगिकप्रागभावध्वंसवत्तादृशरूपाश्रयत्वं तेन रूपेण प्रवाहतोऽनादित्वमिति रूपघटितं निर्वाच्यम् । मन्दारमञ्जर्युक्तस्यैकप्रवाहेत्यादिलक्षणवाक्यस्योक्तार्थे पर्यवसानमन्यत्र प्रदर्शितमस्माभिर्ग्रन्थगौरवभयान्नेह प्रदर्शितं सुधीभिः स्वयमूह्यम् ॥ तद्धैक आहुरिति ॥ छान्दोग्योपनिषदि षष्ठेऽध्याये सदेव सौम्येदमग्र आसीदेक एवाद्वितीयमिति स्वमतमुक्त्वा तद्धैक आहुरित्यादिना बौद्धसिद्धन्तोऽनूद्यते । `कुतस्तत्खलु सौम्यैवं स्यादि’त्यादिना तन्निषेधार्थम् । तथेहापि प्रवाहतोऽनाद्यद्वैतमप्राप्तजीवेश्वरैक्यादिकम् । तादात्म्यनिषेधरूप(भेद)बोधकश्रुत्या निराक्रियत इत्यर्थः । अत्र यद्यपि सर्वेषां प्राणिनां देहगेहादिकं प्रत्यपरायत्तस्वामित्वभ्रमो वर्तते । तस्य च भावाभावसाधारणधर्मत्वाद्भगवत्तादात्म्यभ्रमरूप एवेति चतुर्थेऽपि प्राप्तिः । प्रत्यक्षरूपा विष्णुतत्त्वनिर्णये आचार्यैरेवोपपादिता । तथाऽपि साति स्फुटतया तादात्म्यभ्रमरूपतया ज्ञातुं शक्या बहूपपादनसापेक्षेत्याशयेन तिसृणामेवोपपादनं कृतमिति ज्ञातव्यम् ॥ आशङ्कितुमपि शक्या इति ॥ मुक्तौ विद्यमानानां बाध्यत्वायोगादिति भावः ॥ घट इत्यादि ॥ अद्वैतिनां मध्ये मायावादिमते भेदस्य भ्रान्तिगोचरतयाऽङ्गीकृतत्वाद्भेदमात्रसाधने सिद्धसाधनता । भास्करमते सद्रूपत्वेन घटपटादीनामप्यभेद एव घटत्वादिरूपेण तु भेद इत्यङ्गीकृतत्वेन तन्मात्रसाधने सिद्धसाधनता । उभाभ्यां तादात्म्यासामानाधिकरण्यस्य भेदस्य कुत्राप्यनङ्गीकृतत्वादत्यन्ताभेदसाधने चाप्रसिद्धविशेषणता घटपटादीनां त्वतात्त्विकस्वरूपं ब्रह्मैवेति मायिभिरङ्गीकृतत्वाद्भेदे पारमार्थिकविशेषणं मायावादिनो[ना]ऽप्रसिद्धविशेषणतासम्पादकं भास्करस्य सिद्धसाधकसम्पादकमिति भेदसाधनमुपेक्ष्य तात्त्विकतादात्म्याभाव एव साधितः । स चाद्वैतवादिनामसम्मतमेवेति न सिद्धसाधनम् । यद्यपि तादात्म्यत्वावच्छिन्नाभावरूपसामान्याभावसाधनेनैव निर्वाहे तात्त्विकत्वं विशेषणं तादात्म्येनार्थवदिति भाति । तथाऽपि सेत्स्यमानस्य तदभावः पारमार्थिक एव संसिध्यति । न्यूनसत्ताकस्य तदभावस्य तद्विरोधित्वाभावेनानुमितेस्तत्संशयनिवर्तकत्वानुपपत्तेरिति द्योतनाय । यद्वा प्रातिभासिकतादात्म्यमादाय परेण साध्याभाव(रूप)तादात्म्यं प्रति हेत्वभावस्य व्यापकताभङ्गाद्व्यतिरेकव्याप्त्यनुपपत्तिशङ्कने आरोपितस्यासत्त्वेन तदधिकरणाप्रसिद्ध्योक्तशङ्कनमयुक्तमित्याद्युपपादनप्रयासविद्वेषेण साध्यीभूताभावप्रतियोगिकोटौ तन्निवेश इति ज्ञेयम् । यद्यपि वास्तवपदवत्तादात्म्यं ब्रह्मस्वरूपमेव परसिद्धं तच्च घटादावपि परैरङ्गीकृतम् । अन्यथैतद्ग्रन्थसमाप्तिभागस्थपरानुमानद्वयापत्ति(प्रवृत्ति)प्रसङ्गात् । तथा च कथं व्यतिरेके व्याप्तिग्रह इति भाति । तथाऽपि घटे व्यतिरेकसहचारस्य निश्चयादन्यत्र घटे तत्सन्देहेऽपि घटो यदि पटात्मा स्यात्तत्कार्यकारी स्यादित्याद्यनुकूलतर्कबलात्तमवधूय व्याप्तिनिश्चयो भवतीति द्रष्टव्यम् । अभावसाध्यककेवलव्यतिरेकित्वान्नात्राप्रसिद्धविशेषणतेति । अनुपदमप्रसिद्धविशेषणं त्विति मूल एव व्यक्तम् । अतस्तच्छङ्कानवकाशः ।

(२८)काशीतिम्मण्णाचार्य

एवमनुमानादद्वैतप्राप्तिमभिधायाऽगमादपि तामाह — यद्वेत्यादि ॥ श्रुतिप्राप्ताद्वैतस्य श्रुत्यन्तरेण प्रतिषेधे श्रुतेरप्रामाण्यापत्तिरतः ॥ श्रुत्यर्थापरिज्ञानादिति ॥ श्रुतितात्पर्यविषयार्थापरिज्ञानात् । तत्सादृश्यादिरूपार्थे श्रुतितात्पर्यापरिज्ञानादिति यावत् ॥ यथेष्टापूर्तयोरिति ॥ स्वर्गकामो यजेतेत्यादिश्रुतितात्पर्यविषयस्वार्गपदार्थपरमात्मज्ञानसाधनत्वापरिज्ञानप्राप्तस्य अनित्यसुखस्वरूपस्वर्गसाधनत्वस्य `इष्टापूर्तं मन्यमाना वरिष्टं नान्यच्छ्रेयो वेदयन्ते प्रमूढा’ इत्यादौ प्रतिषेध इत्यर्थः । इष्टं यजनं पूर्तम् अन्नदानादि ।

सयुक्तिकशब्दाभासादप्यद्वैतप्राप्तिमाह — अथवेति ॥ दुःशास्त्रपरम्परया पूर्वपूर्वोपजीव्युत्तरोत्तरमायिशास्त्रेण । ननु आधुनिकशास्त्रप्राप्ताद्वैतं कथमनादिवेदेन निषिद्ध्यत इत्यत आह — प्रवाहतोऽनादिरूपयेति ॥ प्रवाहतोऽनादित्वं चैकप्रवाहमध्यपतितानेकप्रवाहिप्रतियोगिकप्रागभावावच्छिन्नकालावृत्तित्वानधिकरणध्वंसप्रतियोगिप्रवाहित्वमिति मन्दारमञ्जर्यामुक्तम् । तत्र च सादिप्रवाहघटकघटादिक्रियायामतिव्याप्तिवारणाय कालावृत्तित्वानधिकरणेति कालत्वव्यापकार्थकम् । सादिप्रवाहघटकवस्तुध्वंसस्य च न कालत्वव्यापकत्वम् । तस्य तत्प्रवाहोत्तरयावत्कालवृत्तित्वेऽपि तत्प्रवाहघटकानेकवस्तुप्रागभावावच्छिन्नयावत्कालवृत्तित्वाभावादित्येतल्लाभार्थमवच्छिन्नान्तोपादानम् । न त्वस्य लक्षणघटकत्वमनर्थकत्वात् । कालत्वव्यापकप्रवाहित्वमित्येवोक्तौ अनित्यानादिप्रवाहघटकमनोवृत्तीनामसङ्ग्रहात्तादृशध्वंसप्रतियोगित्वपर्यन्तनिवेशः । यद्यप्यनादिप्रवाहघटककामकर्मादिध्वंसानामपि न प्रत्येकं कालत्वव्यापकत्वसम्भवः । तथापि तत्प्रवाहघटकवस्तुध्वंसत्वेन व्यापकत्वं विवक्षणीयमिति ज्ञापनाय प्रवाहिपदम् । यद्यप्येवं न कामकर्मादिध्वंसप्रवाहसङ्ग्रहः । तद्घटकवस्तुध्वंसाप्रसिद्धेः । तथाप्यत्र भावानामेव लक्ष्यत्वान्न दोषः । अभावानामपि लक्ष्यत्वे तत्प्रवाहघटकप्रवाहिप्रागभावावच्छिन्नकालत्वव्यापकप्रवाहित्वं प्रवाहतोऽनादित्वं बोध्यम् । एतेन यथाश्रुतलक्षणस्यानादिप्रवाहघटकचरमव्यक्तावव्याप्तिः । तद्ध्वंसस्य तत्प्रवाहघटकवस्तुप्रागभावावच्छिन्नकालावृत्तित्वात् । एवं तादृशकालावृत्तित्वानधिकरणत्वस्य तादृशकालवृत्तित्वरूपतया तस्य च सादिप्रवाहघटकवस्तुसाधारणत्वादतिव्याप्तिः । तादृशयत्किञ्चित्कालावृत्तित्वानधिकरणत्वस्य तादृशयावत्कालवृत्तित्वपर्यवसितस्य विवक्षायामसम्भवः । कस्यापि ध्वंसस्य तादृशयावत्कालावृत्तित्वाद् अवच्छिन्नान्तवैयर्थ्यं चेत्यादिकमपास्तम् ।

केचित्तु एकप्रवाहेत्यादिनैकप्रवाहघटका यावन्तः प्रवाहिणस्तत्तत्प्रागभावावच्छिन्नकालवृत्तिध्वंसप्रतियोगित्वं विवक्षितम् । तत्र च सादिप्रवाहवारणायावच्छिन्नान्तोपादानम् । तद्घटकवस्तुध्वंसानां च न तद्घटकप्रथमव्यक्तिप्रागभावावच्छिन्नकालवृत्तित्वमित्यदोषः। यद्यपि सामान्यतो यावत्प्रागभावावच्छिन्नकालवृत्तित्वनिवेशेऽपि तद्दोषवारणसम्भवः । तथापि अव्यावर्तकानन्तप्रागभावनिवेशवैयर्थ्यात् तत्प्रवाहघटकप्रवाहिप्रागभावानामेव निवेशः । न चानादिप्रवाहघटकवस्तुध्वंसानामपि प्रत्येकं तादृशयावत्प्रागभावावच्छिन्नकालवृत्तित्वाभावादसम्भव इति वाच्यम् । तत्तत्प्रागभावावच्छिन्नकालवृत्तिवृत्तितत्प्रवाहघटकवस्तुध्वंसत्वाश्रयीभूतध्वंसप्रतियोगित्वस्य विवक्षितत्वात् । न चैवं तत्तत्प्रागभावावच्छिन्नकालवृत्तिवृत्तितत्प्रवाहघटकत्वस्यैव सम्यक्त्वाद् ध्वंसप्रतियोगित्वपर्यन्तनिवेशो निष्फल इति वाच्यम् । यथा सन्निवेशेन वैयर्थ्यानवकाशादित्याहुः । एवं च दुःशास्त्राणामप्युक्तरूपानादित्वादनादित एवाद्वैतस्य प्राप्तिसम्भवाद्वेदनिषेध्यत्वोपपत्तिरिति भावः ।

॥ निषेध इति ॥ `असदेवे’त्यादिना परमतमनूद्य `कुतस्त्वि’त्यादिना निषेध इत्यर्थः । कस्य मतेन प्राप्तं किमत्र निषिध्यत इत्याकाङ्क्षायामाह — अत्र हीति ॥ द्वा सुपर्णेत्यादिश्रुतेः पारमार्थिकभेदपरत्वमुपसंहरति ॥ तस्मादिति ॥ अद्वैतश्रुतीनामुक्तरीत्या बाधोपपत्तेरित्यर्थः ।

व्यावहारिकभेदपरत्वशङ्कानिराससौकर्यात् श्रुत्यन्तराण्यप्याह — परममिति ॥ `यदा पश्यः पश्यते रुग्मवर्णं कर्तारमीशं पुरुषं ब्रह्मयोनिम् । तदा विद्वान् पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति ।’; `यो वेद निहितं गुहायां परमे व्योमन् सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चिता’ ।; `इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागता’ इत्याद्या इत्यर्थः ॥ मुक्त्यनन्तरमिति ॥ तद्भिन्नत्वे सति तद्धर्मजातीयधर्मवत्त्वस्यैव साम्यादिशब्दार्थत्वात्तद्भिन्नतत्समानदेशत्वस्यैव तत्सहभावरूपत्वात् तस्य च ब्रह्मदर्शनफलत्वेनोक्तस्याविद्यानिवृत्त्युत्तरभावित्वेनाऽविद्यकत्वासम्भवादिति भावः ।

एवमात्मभेदं प्रसाध्यानात्मभेदमपि व्यवस्थापयति — घटपटादीति ॥ सुलभमेवेति ॥ धर्मिप्रतियोगिनोः प्रत्यक्षत्वेनोक्तशङ्कानवकाशादिति भावः । अतीन्द्रियभेदे तु पूर्ववदीश्वरप्रत्यक्षमुदाहर्तव्यम् । न च प्रत्यक्षस्य व्यावहारिकविषयकत्वम् । मानाभावात् । अस्यैवार्थस्य व्यावहारिकत्वाव्यावहारिकत्वयोर्व्याघाताच्च । न च भेदस्य प्रत्यक्षत्वेऽपि तस्य परमार्थसत्त्वे किं मानमिति वाच्यम् । सत्त्वेनैव भेदस्य प्रतीयमानत्वात् । तस्य च बाधाभावेन परमार्थत्वादित्यन्यत्र विस्तरः ।

(२८)शर्कराश्रीनिवासाचार्य

प्रकारान्तरेणापि तत्प्राप्तिं दर्शयति — यद्वेति ॥ तत्त्वमसीतिश्रुतेस्तात्पर्यविषयीभूतोऽर्थः `तद्गुणसारत्वत्ताद्व्यपदेश’ इति ब्रह्मसूत्रोक्तरीत्या सिंहो देवदत्त इत्यादिवत्तत्सदृशोऽसीति तत्वनिर्णयाद्युक्तरीत्या अतत्वमसीति पदच्छेदेन तद्भिन्नोऽसीति च । तदपरिज्ञानदशायामैक्यमर्थतया प्रतीयते तदनुवदति नेह नानेति वाक्यमित्यर्थः । श्रुत्यर्थापरिज्ञानेन प्राप्तं श्रुत्यन्तरेण निषिध्यत इत्येतददृष्टचरमित्यत आह — अस्तीति ॥ `दर्शपूर्णमासाभ्यां स्वर्गकामो यजेते’ति श्रुतितात्पर्यार्थः स्वर्गपदवाच्येश्वरविषयकं निष्कामं कर्म कार्यमिति । तदपरिज्ञानदशायां प्राप्तमनीश्वरविषयं काम्यकर्म `इष्टापूर्तं मन्यमाना वरिष्ठं नान्यच्छ्रेयो वेदयन्ते प्रमूढा’ इत्यनूद्य `नाकस्य पृष्ठे सुकृते तेऽनुभूत्वा इमं लोकं हीनतरं वाविशन्ती’ति निराक्रियते । निन्दायाः प्रतिषेधे तात्पर्यात् । नचैवंविधस्य कर्मणोऽन्यतः प्राप्तिरस्तीति भावः । इष्टं यजनम् । पूर्तम् अन्नदानादिकम् । प्रकारान्तरेणाद्वैतप्राप्तिं दर्शयति — अथवेति ॥

ननु अनादिना वेदेनाऽऽधुनिकवादिकृतशास्त्रपरम्परया प्राप्ताद्वैतनिषेधः कथं क्रियत इत्यत उक्तमनादिरूपयेति ॥ स्वरूपानादित्वायोगादुक्तं प्रवाहत इति ॥ यथोक्तम् । `अनादिकालतो वृत्तास्समया हि प्रवाहत’ इति । दुःशास्त्रपरम्परया प्राप्तस्य श्रुत्या निषेधो न दृष्ट इत्यत आह — अस्तिचेति ॥ तदेव दर्शयति — तद्धेति ॥ तत् तत्र जगत्कारणत्वे निरूपणीये । एके शून्यवादिनः । आहुर् ह प्रसिद्धम् । किमाहुः । `असदेवेदमग्र आसीत्’ अत्रासच्छब्देन शून्यमुच्यते । स्वकार्यं प्रति अन्यन्नास्तीत्येके मन्यन्ते । शून्यातिरेकेण शून्यस्य सहकारिणं द्वितीयं प्रतिषेधति ॥ अद्वितीयमिति ॥ विप्रतिपत्त्यन्तरमाह — तस्मादिति ॥ तस्मादसतः सज्जगदुत्पद्यत इति ॥ एवमनूदितं पक्षं दूषयन्ति ॥ कुत इति ॥ तुशब्दः पूर्वपक्षव्यावृत्त्यर्थः । हे सोम्य कथमेवमसदासीदिति कुत एवं स्यान् न कुतोऽपि । व्याहतेः प्रमाणाभावाच्चेति होवाच । विप्रतिपत्त्यन्तरं दूषयति — कथमिति ॥ कथमसतः सदुत्पद्येत । अदृष्टत्वादसतः कारणत्वानुपपत्तेरित्यर्थः । इत्यादौ निषेधोऽस्तीति सम्बन्धः । अत्र केषां मतेन प्राप्तं किं निषिध्यत इति स्फुटमप्रतीतेराह — अत्रेति ॥ बौद्धेति ॥ बौद्धैकदेशिमाध्यमिकेत्यर्थः । उपसंहरति ॥ तस्मादिति ॥ उक्तरीत्या व्यावहारिकत्वाभावादनुवादकत्वाभावाच्चेत्यर्थः । उदाहृतभेदश्रुतेर्व्यावहारिकभेदपरत्वशङ्कानिरासप्रयासगौरवमिति मन्वानो व्यावहारिकभेदपरत्वशङ्कानास्पदभेदश्रुतीरुदाहरति ॥ परममित्यादिता ॥ यदा पश्य इति श्रुतेरयमर्थः । पश्यतीति पश्यो जीवः । सुवर्णवर्णं जगत्कर्तारं तन्नियामकं चतुर्मुखोत्पादकं परमपुरुषं यदा साक्षात्करोति तदाऽपरोक्षज्ञानी स जीवोऽनिष्टं पुण्यं पापं च विनाश्य निर्लेपस्सन् स्वयोग्यज्ञानानन्दादिना परमपुरुषस्य साम्यं यातीति । `यो वेदे’ति श्रुतेश्च योऽधिकारी हृदयगुहायां परमे व्योम्नि निहितं ब्रह्म वेद स विपश्चिता ब्रह्मणा साकं स्वयोग्यान्सर्वान्कामानश्नुत इत्यर्थः । इदं ज्ञानमिति गीतावाक्यस्य च इदं पूर्वोक्तज्ञानं समाश्रित्य ज्ञानानन्दादिना मम समानधर्मत्वं प्राप्ताः सृष्टौ न जायन्ते प्रलये न व्यथन्तीत्यर्थः । अत्रोक्तसाम्यसहभावसाधर्म्याणां भेदेन विनाऽयोगात्तत्सिद्धिरिति भावः ॥ मुक्त्यनन्तरमिति ॥ पुण्यपापविधूननस्य सर्वविषयभोगस्य सृष्टावजननादेश्च संसारेऽभावान्मुक्त्यनन्तरं भेदप्रतिपादकत्वम् । अविद्यानिवृत्तिरूपमुक्तावनुवृत्तस्य चाविद्यातत्कार्यान्यतरत्वव्याप्तव्यावहारिकत्वं त्वया नाङ्गीकृतमिति भावः ।