यदि पुनरबाध्यो भेदस्तर्ह्यविवादः
(२७)भेदोज्जीवनम्
(२७) यदि पुनरबाध्यो भेदस्तर्ह्यविवादः । कुतश्च व्यावहारिकभेदपरत्वम् । अद्वैतश्रुतिविरोधादिति चेत्तर्ह्यद्वैतश्रुतेः प्रातिभासिकाद्वैतपरत्वमस्तु । विरोधपरिहारस्य साम्यात् । ननु न श्रुतिप्रतिपादितस्य (श्रुत्युपपादितस्य) बाधादप्रामाण्यम् । किन्तर्ह्यभिप्रेतस्य (किन्तु तदभिप्रेतस्य)। अन्यथा मीमांसकमतेऽर्थवादभागस्याप्रामाण्यप्रसङ्गः । न चात्र भेदः श्रुतितात्पर्यगोचरः । श्रुतीनां नेह नानेति निषेधाय प्रत्यक्षप्राप्तभेदानुवादित्वादिति चेन्न । ‘नेह नानाऽस्ती’त्यादि वेदवाक्यानि, ‘विमता आत्मानः परमत्मानः परमार्थतो न भिद्यन्ते आत्मत्वात् परमात्मवदि’त्यनुमानप्राप्तमभेदं
‘द्वा सुपर्णे’ति निषेधायानुवदन्तीति वैपरीत्यसम्भवात् (वैपरीत्यप्रसङ्गात्)। भेदस्य तादात्म्यनिषेधात्मकतया भेदप्रतिपादकानां तादात्म्यनिषेधरूपत्वात् । एतेन निषेधवाक्यत्वादद्वैतवाक्यं प्रबलमिति निरस्तम् (प्रत्युक्तम्)। न हि प्रत्यक्षेण प्राप्तिरेवानुवादे (प्राप्तिरनुवादे) प्रयोजिका । तथा सत्यग्निर्हिमस्य भेषज’मित्यादावग्नेर्हिमनिवृत्तिं (शीतनिवृत्तिं) प्रति कारणत्वमन्वयव्यतिरेकरूपानुमानप्राप्तं प्रतिपादयत्सर्वसम्मतमनुवादकं न स्यात् ।
(२७)भावप्रदीपः
एवं व्यावहारिकभेदस्य बाध्यत्वपक्षं निरस्याबाध्यत्वपक्षमाशङ्क्य निराकरोति — यदि पुनरिति ॥ अविवाद इति ॥ अबाध्यत्वमङ्गीकारे तदेव पारमार्थिकत्वमिति नावयोर्विवादोऽस्तीति भावः । एवं परोक्तव्यावहारिकभेदपरत्वं श्रुतीनामङ्गीकृत्य बाध्यत्वाबाध्यत्वविकल्पेन दूषणमभिहितम् । इदानीं तदेवानुपपन्नमिति भावेनाह — कुतश्चेति ॥ उत्तरं शङ्कते — अद्वैतेति ॥ अद्वैतस्य पारमार्थिकत्वात्तद्विरुद्धस्य भेदस्यापि पारमार्थिकत्वायोगाद्व्यावहारिकत्वमङ्गीकृत्य भेदाभेदश्रुत्योर्विरोधः परिहरिष्यत इति भावः । एवं तर्हि माऽस्त्वेतया भेदश्रुतीनामद्वैतपरत्वं किन्नाम सादृश्याद्यर्थकत्वमेवास्तु । एवञ्च भेदश्रुतीनां पारमार्थिकभेदपरत्वेऽपि नाद्वैतश्रुतिविरोध इति भावेनाह — किं तर्हीति ॥ विरोधपरिहारस्य साम्यादिति ॥ यथा द्वैताद्वैतश्रुत्योर्विरोधप्राप्तेऽद्वैतस्य पारमार्थिकत्वं द्वैतस्य व्यावहारिकत्वमभिप्रेत्य विरोधः परिह्रियते एवं द्वैतस्यैव पारमार्थिकत्वमङ्गीकृत्वाऽद्वैतश्रुतेः सादृश्याद्यभेदार्थकत्वेन न द्वैताद्वैत श्रुत्योर्विरोध इत्यपि विरोधपरिहारस्य साम्यादित्यर्थः । ननु स्वगोचरार्थाबाधो हि प्रामाण्यमिति यदुक्तं तत्सत्यमेव । तथाऽपि न भेदश्रुतेः प्रामाण्यम् । स्वगोचरार्थो नाम स्वतात्पर्यगोचर एव । न स्वाभिहितमात्रो भेदश्च न श्रुतितात्पर्यगोचरः । येन तस्य बाध्यत्वाङ्गीकारे श्रुतीनामप्रामाण्यं प्रसज्येत । किन्नाम नाहं सर्वज्ञ इत्यादिप्रत्यक्षप्राप्तं भेदं निषेधार्थमनुवदन्त्येव श्रुतय इति भावेन शङ्कते — नन्विति ॥ अभिहितबाधेऽप्यप्रामाण्यं कुतो नेत्यत आह — अन्यथेति ॥ यदि श्रुत्युदितस्य बाधाच्छ्रुतेरप्रामाण्यमङ्गीक्रियते । तर्ह्युत्ताना वै देवगवा वहन्तीत्यर्थवादभागस्याप्रामाण्यं स्यात् । श्रुत्युदितस्य देवगवानामूध्र्ववाहित्वस्य लौकिकगोष्वदृष्टत्वेन बाधितत्वात् । अतस्तत्र मीमांसकमते प्रथमाध्यायतृतीयपादे प्रयोगचोदनाभावार्थकत्वमविभागादिति सूत्रव्याख्यानावसरे यज्ञद्रव्यार्थत्वेन देवसम्बन्धिनो ये मनुष्याणां गावस्तत्स्तुतिपरमेवेदं वाक्यमित्यभिप्रेतार्थमुपपादायैव प्रामाण्यमुपपादितमिति भावः । केचित्तु सोऽरोदीद्यदरोदीदित्यर्थवादेषु मन्त्रेषु च शक्त्या प्रतिपादितानामतात्पर्यविषयीभूतानामर्थानां बाधादित्यर्थ इत्याहुः ॥ वैपरीत्यसम्भवादिति ॥ यदुच्यते तन्नेति वाक्यं परिहारे युक्तिविशेषं च विना निर्निमित्तमभेदे श्रुतीनां निषेधकत्वस्य भेदश्रुतीनामनुवादकत्वस्याङ्गीकारे उक्तरीत्या वैपरीत्यस्याप्यङ्गीकारप्रसङ्गादित्यर्थः । ननु भेदश्रुतीनां भेदमात्रप्रतिपादकत्वात्कथमभेदनिषेधपरत्वम् । येन वैपरीत्यप्रसङ्ग इत्यत आह — भेदस्येति ॥ भेदो नामान्योन्याभावः । स च तादात्म्यप्रतियोगिकः । तथा च तादृशभेदप्रतिपादकश्रुतीनां कथमभेदनिषेधपरत्वाभाव इति भावः । निषेधवाक्यत्वादद्वैतवाक्यं प्रबलं भेदवाक्यं तु न निषेधकमिति ततो दुर्बलमिति कश्चित् । तदप्यनेन निरस्तम् । भेदस्यापि तादात्म्यनिषेधरूपत्वादित्याह — एतेनेति ॥ ननु भेदश्रुतेरनुवादकत्ववदभेदश्रुतेरप्यनुवादकत्वमेवेति वक्तुं न शक्यते । अनुवादे प्रत्यक्षप्राप्तेरेव प्रयोजकत्वात् । न च भेदस्येवाभेदस्य प्रत्यक्षतः प्राप्तिः किन्त्वनुमानत एवेत्यत आह — न हीति ॥ तथा सतीति । कार्यकारणभावस्यातीन्द्रियत्वादग्नेर्हिमनिवृत्तिकारणत्वं न प्रत्यक्षसिद्धमिति भावः ।
(२७)भेदचिन्तारत्नं
ननु श्रुत्युक्तभेदोऽबाध्य एव नाप्रामाण्यमित्यत आह — यदीति । प्रतीतभेदपारमार्थत्यागो निर्बीजश्चेत्याह — प्रातिभासिकेति ॥ विरोध्यन्यतरस्यार्थान्तरमेव वाच्यं न तु प्रतीतार्थस्य मुख्यसत्ताकत्वकल्पनं युक्तमिति भावः । यथाऽऽहैको मीमांसको ब्रूयाद्विरोधे शास्त्रयोर्मिथः । एकं प्रमाणमितरं त्वप्रमाणं भवेदिति । किञ्चैवं श्रुत्युक्तजगतो मिथ्यात्वे ब्रह्मापि मिथ्या स्यात् । सत्यं ज्ञानमित्यादिविरोध इति चेन्न । विश्वं सत्यमित्यादिवदुपपत्तेः । अनृतेन हि प्रत्यूढमिति जगतोऽसत्त्वमुच्यतेऽद्वैतं परमार्थत इति ब्रह्मणः पारमार्थ्यमुच्यत इति चेन्न । `याथातथ्यतोऽर्थानि’तिवदुपपत्तेः । असद्वा इदमग्र आसीन्न तत्सन्नासदुच्यते । न सन्न चासञ्छिव एव केवलं सन्न चासन्निषेधशेषो जयतादशेष इति ब्रह्मणोऽपि तथात्वापत्तेः । आहुरसदित्यादिना ब्रह्मासत्त्वं निन्द्यत इति चेन्न । प्रकृतेऽप्यसत्यमाहुर्जगदेतदज्ञा असत्यमप्रतिष्ठं त इत्यादि निन्द्यते च । एतच्छून्यवादिनिन्दनमिति चेत् । समं तवापि । अधिष्ठानज्ञानाय ब्रह्मैकं सत्यमावश्यकमिति चेत् । प्राधान्याय जगदेकमपि तथा स्यात् । निष्प्रधानकब्रह्माङ्गीकारे निरधिष्ठानकोऽपि किन्न स्यात् । मुक्तौ ब्रह्मावशेषः श्रूयत इति चेत् । स्त्रीभिर्वा यानैर्वा ज्ञातिभिर्वेति जगदवशेषोऽपि मुक्तौ श्रूयते । सगुणमुक्तावेव जगदवशेषो न निर्गुणमुक्ताविति चेत् । सन्मुक्तावेव ब्रह्मावशेषो नासन्मुक्तौ । सन्मुक्तिरप्रामाणिकीति चेत् । निर्गुणमुक्तिरपि तथैव । यत्र त्वस्य सर्वात्मैवाभूदित्यादिना निर्गुणमुक्तिः श्रूयत इति चेत् । असन्नेव स भवति असद्ब्रह्मेति वेद चेति ब्रह्मासत्त्वज्ञानेनासन्मुक्तिरपि महत्तमपुरुषार्थो श्रूयते । स्वरूपासत्त्वं न पुरुषार्थ इति चेन्न । नैर्गुण्यमपि तथैव । मुक्तौ स्वरूपसत्तावबोधकप्रमाणबाहुल्यादेतद्वचनमन्यथा नेयमिति चेत् । एवं भोगप्रतिपादकवचनबाहुल्यादेर्निर्गुणवचनमप्यन्यथा नेयमित्यलम् । अपि च श्रुत्यर्थानां व्यावहारिकत्वं स्वरसतः प्रतीयते ब्रह्मवत्पारमार्थिकत्वं वा स्वरसतः प्रतीयते । नाद्यः । अनुभवविरोधात् । विमतमिथ्यात्वसाधने वैय्यर्थ्यापत्तेश्च । ऐक्यादेरपि स्वरसतः पारमार्थिकत्वानापत्तेश्च । द्वितीये जितमस्माभिः । सर्वत्र प्रतीतपारमार्थ्यं बाधवति त्यज्यते । इह तु भेदवाक्यमैक्यवाक्यबाधितमिति चेन्न । वैपरीत्यस्य प्रातिभासिकत्वस्य वा पारमार्थिक एव द्वैविध्यस्य वा त्रिविधातिरिक्तसत्तान्तरस्य वा सम्भवेनान्यथासिद्धिः । किञ्च व्यावहारिकत्वस्यैव दुर्वचत्वेन श्रुतेः सत्यत्वमष्टमरसारितमिति । भेदस्याभिमतत्वेऽपि तात्पर्यगोचरत्वाभावेन नाप्रामाण्यमित्याशङ्कते — श्रुतीति ॥ अर्थवादेति ॥ उत्ताना वै देवगवा वहन्तीत्यादावभिहितार्थबाधे उपलक्षितप्राशस्त्यरूपं तात्पर्यगोचराबाधमात्रेण प्रामाण्याङ्गीकारादिति भावः । वाक्यान्यनुवदन्तीति सम्बन्धः । तर्हि विनिगमनाविरह इत्यत आह — भेदस्येति ॥ निषेधात्मकतयेति ॥ अन्योन्याभावविषयतयेत्यर्थः ॥ निषेधरूपत्वादिति ॥ निराकरणरूपत्वादित्यर्थः । अभावप्रतिपादनस्य प्रतियोगिप्रसञ्जनपूर्वकं तदपन्हवरूपत्वेनैव प्रवर्तनान्निषेधकत्वमुचितमिति भावः । एतेन पूर्वपक्षोक्तमनुवादित्वं निरस्तं ज्ञेयम् ॥ एतेनेति ॥ भेदवाक्यस्य निषेधकत्वस्वरूपप्रतिपादनेनेत्यर्थः ॥ निषेधवाक्यत्वादिति ॥ अद्वैतपदस्य नार्थगर्भितत्वमिति भावः । यद्वा नेह नानाऽस्तीत्यद्वैतवाक्यस्य नार्थगर्भितत्वादिति भावः ॥ निरस्तमिति ॥ शब्दनिषेधरूपत्वादर्थतो निषेधरूपत्वस्य प्रबलत्वादिति भावः । भेदस्येवैक्यस्य प्रत्यक्षप्राप्त्यभावात्कथमनुवादित्वमित्यत आह — न हीति । स्वानुपजीविमानान्तरप्राप्तिरेवानुवादित्वे तन्त्रमिति भावः ॥ अनुमानप्राप्तमिति ॥ कार्यकारणभावस्यातीन्द्रियत्वादिति भावः ।
(२७)भेदचन्द्रिका
द्वितीयमाशङ्क्येष्टापत्तिमाह — यदि पुनरिति ॥ भेदश्रुतीनां व्यावहारिकभेदपरत्वं निष्प्रमाणिकमित्याह — कुतश्चेति ॥ अर्थवादादिभागस्येति ॥ सोऽरोदीद्यदरोदीदित्याद्यर्थवादेषु मन्त्रेषु च शक्त्या प्रतिपादितानामतात्पर्यविषयीभूतानामर्थनां बाधादित्यर्थः । वैपरीत्येवोचितमित्याह — भेदस्य तादात्म्यनिषेधात्मकतयेति ॥ निषेधवाक्यत्वादद्वैतवाक्यं प्रबलमिति वाचस्पत्युक्तमप्यत एव निरस्तमित्याह — एतेनेनि ॥ ननु भेदस्य प्रत्येक्षेण प्राप्तेर्भेदवाक्येऽनुवादकता युज्यते नाभेदवाक्ये । अभेदस्य प्रत्यक्षेणाप्राप्तेरित्याशङ्कामाप्रयोजकत्वेन परिहरति — न हीति ॥
(२७)भेदसञ्जीविनी
अविवाद आवयोरिति शेषः । अस्माभिरपि तथैवाङ्गीकारादिति भावः । भेदो व्यवहारकालाबाध्य एव न वस्तुत इत्याशङ्क्य द्वैताद्वैतयोः श्रुतिप्रतिपाद्यत्वसाम्येऽपि उक्तबाध्यत्वमेव कुत इत्याशयेन दूषयितुं पृच्छति ॥ कुतश्चेति ॥ पूर्वं भेदस्य श्रुत्यर्थत्वेऽपि न सत्यत्वेन श्रुत्यर्थत्वमित्याशङ्का निराकृता । इदानीं श्रुत्यर्थत्वमेव नास्तीति शङ्कानिरासार्थो नन्वित्यादिग्रन्थः ॥ श्रुत्यभिप्रेतस्येति ॥ तात्पर्यप्रमाधीनश्रुतिजन्यबोधे निषेधाप्रतियोगित्वेन भासमानस्येत्यर्थः ॥ अर्थवादभागस्येति ॥ प्रजापतिरात्मनो वपामुदखिददित्यादीनामित्यर्थः । प्रजापतिवपोत्खननस्य तात्पर्यविषयस्यासत्त्वेऽपि तेषां प्राशस्त्यलक्षकतया प्रामाण्यं वर्तते । तस्यैव तात्पर्यविषयत्वादित्यर्थः ॥ न चेहेति ॥ निषेधाप्रतियोगित्वेनेति शेषः । तस्यैवासत्त्वाङ्गीकारेऽप्रामाण्यं द्वैतवाक्यानि तु निषेधप्रतियोगितयैव द्वैतं बोधयन्तीत्यर्थः । अनुवादस्य प्राप्तिमूलकप्रत्यक्षेणेत्युक्तम् ।
(२७)काशीतिम्मण्णाचार्य
अस्तु तर्ह्यबाध्य एव श्रुत्युक्तो भेद इत्यत आह — यदि पुनरिति ॥ अविवाद इति ॥ अबाध्यत्वस्यैव पारमार्थिकत्वरूपतयाऽस्मदभिमतसिद्धेरिति भावः । भेदश्रुतेर्व्यावहारिकभेदपरत्वे बाधकमभिधाय साधकाभावमाह — कुतश्चेति ॥ अद्वैतस्य व्यावहारिकत्वासम्भवात् प्रातिभासिकेत्युक्तम् । नन्वेवमद्वैतश्रुतीनामप्रामाण्यप्रसङ्ग इति चेत् त्वन्मते द्वैतश्रुतीनामप्रामाण्यप्रसङ्गेन तुल्यत्वादिति भावः । स्यादेवम् । यद्यबाध्यार्थप्रतिपादकत्वं प्रामाण्यं स्यात् । न चैवम् । अपि त्वबाध्यार्थपरत्वम् । द्वा सुपर्णेत्यादीनां च भेदानुवादकानां तन्निषेधपरत्वादेव प्रामाण्योपपत्तिः । अत एव तत्प्रतिपाद्यभेदस्य बाध्यत्वमपीत्याशयेन शङ्कते — नन्विति ॥ अर्थवादभागस्येति ॥ तस्य प्रतिपाद्यार्थाबाधनियमाभावेऽप्य बाध्यविध्यर्थकार्यपरत्वेनैव प्रामाण्याङ्गीकारादिति भावः । मतान्तरे प्रतिपाद्यार्थेऽपि प्रामाण्यान् मीमांसकमत इत्युक्तम् । एवं सत्यद्वैतश्रुतीनां प्रातिभासिकाद्वैतपरत्वेऽपि नाप्रामाण्यप्रसङ्ग इत्याशयेनाह — नेहेति ॥ वाक्यान्यनुवदन्तीत्यन्वयः । भेदवदभेदस्य प्रत्यक्षेण प्राप्त्यभावादाह — विमता इति ॥ ननु द्वासुपर्णेत्यादीनां कथमभेदनिषेधपरत्वम् ? तदर्थकपदाभावादत आह — भेदस्येति ॥ तादात्म्यनिषेधरूपत्वाद् अभेदाभावरूपत्वात् । तथाच भेदार्थस्यैव तदर्थकत्वान्नोक्तदोष इति भावः ।
एवं भेदश्रुतेरभेदनिषेधकत्वसमर्थनेन वाचस्पत्युक्तमपि प्रत्युक्तमित्याह — एतेनेति ॥ प्रबलमिति ॥ तथाच तेन भेदश्रुतेरेव बाधः । अन्यथा नेदं रजतमिति प्रत्यक्षस्यापि प्राबल्यासिद्धेरिदं रजतमिति प्रत्यक्षबाधकत्वानुपपत्तिरिति भावः ॥ प्रत्युक्तमिति ॥ भेदश्रुतेरपि निषेधकत्वसाम्ये दुर्बलत्वायोगादिति भावः । अथ भेदस्याभेदनिषेधरूपत्वेऽप्यभेदनिषेधत्वेन भेदाप्रतिपादकत्वाद् द्वा सुपर्णेत्यादेर्दुर्बलत्वमेवेति चेदत्र वक्तव्यम् । किमभेदज्ञानं प्रति अभेदनिषेधत्वेनैव भेदज्ञानं विरोध्युत भेदत्वेनापि । आद्येऽनुभवविरेधः । घटः पटभिन्न इत्यादिज्ञानदशायां जात्वपि तदभेदज्ञानानुदयात् । द्वितीये तु कथं द्वा सुपर्णेत्यादेर्दुर्बलत्वम् ? विरोधित्वाविशेषात् । न चैवमुक्तातिप्रसङ्गः । निश्चितप्रामाण्यकत्वेन प्राबल्यात् । परीक्षया च तन्निश्चयात् । निषेधकत्वमात्रस्याप्रयोजकत्वात् । अन्यथा `न हिंस्या’दित्यादे`रग्नीषोमीय’मित्यादिश्रुतिबाधकत्वप्रसङ्गात् ।
न चैवं भेदाभेदवाक्ययोः प्राबल्यदौर्बल्यानिर्णयः । निरवकाशत्वादिना तन्निर्णयात् । निरवकाशत्वं च भेदवाक्यानामेवेत्यन्यत्र प्रपञ्चितम् ।
नन्वभेदश्रुतीनां नानुवादकत्वसम्भवः । अभेदस्य प्रत्यक्षेणाप्राप्तत्वात् । न च प्राप्तिमात्रमनुवादप्रयोजकम् । सर्वस्याप्यनुमानतः प्राप्तिसम्भवेन श्रुतिमात्रस्याप्यनुवादकत्वप्रसङ्गादित्यत आह — न हीति ॥ इति वाक्यमनुवादकं न स्यादित्यन्वयः । इष्टापत्तिनिरासार्थमनुवादकत्वेन सर्वसम्मतमिति । प्रत्यक्षप्राप्तप्रतिपादकत्वे दोषाभावादन्वयव्यतिरेकरूपानुमानप्राप्तं कारणत्वमर्थं प्रतिपादयदिति । कारणत्वस्य कालादिघटितत्वेन प्रत्यक्षासम्भवादिति भावः । यत्सत्त्वे यत्सत्त्वमित्यन्वयमात्रस्य प्रमेयत्वाभिधेयत्वयोर् व्यभिचरितत्वाद् व्यतिरेकनिवेशः । यदभावे यदभाव इति व्यतिरेकस्य नरशृङ्गशशशृङ्गयोर्व्यभिचारित्वादन्वयनिवेशः । न चैवमप्यन्यथासिद्धान्वयव्यतिरेकवति व्यभिचारः । अनन्यथासिद्धत्वेनापि विशेषणीयत्वात् । वस्तुतस्तु अन्वयव्यतिरेकवत्त्वस्य नियतपूर्ववृत्तित्वव्याप्यतया तेन तस्मिन् साध्यमाने हिमनिवृत्तिं प्रत्यग्नेरन्यथासिद्धनियतपूर्ववृत्तित्वबाधाद् अनन्यथासिद्धनियतपूर्ववृत्तित्वरूपकारणत्वसिद्धिरित्यवधेयम् ।
(२७)शर्कराश्रीनिवासाचार्य
एवं व्यावहारिकभेदस्य बाध्यत्वमित्याद्यपक्षं दूषयित्वा द्वितीयमनूद्य दूषयति — यदीति ॥ अविवाद इति ॥ श्रुतिप्रतिपाद्यभेदस्य पारमार्थिकत्वापरपर्यायाबाध्यत्वाङ्गीकारेऽस्मदभिमतस्यैवाङ्गीकारादावयोर्विवादो न स्यादित्यर्थः । एवं भेदस्य परोक्तव्यावहारिकत्वमभ्युपेत्य दूषणमभिहितम् । इदानीं व्यावहारिकत्वमेव भेदस्य नेत्याह — कुतश्चेत्यादिना साम्यादित्यन्तेन ॥ श्रुतिप्रतिपाद्यभेदस्य व्यावहारिकत्वं कस्मादङ्गीक्रियत इत्यर्थः । उत्तरं शङ्कते — अद्वैतेति ॥ पारमार्थिकाद्वैतेत्यर्थः ॥ विरोधपरिहारस्येति ॥ उभयोरपि श्रुत्योः पारमार्थिकभेदाभेदप्रतिपादकत्वेऽन्योन्यविरोधात् खलु भेदश्रुतेर्व्यावहारिकभेदपरत्वमभेदश्रुतेः पारमार्थिकाभेदपरत्वमङ्गीकृत्य तत्परिहारः क्रियते । तस्य च विरोधपरिहारस्य भेदश्रुतेः पारमार्थिकभेदपरत्वमभेदश्रुतेः प्रातिभासिकाभेदपरत्वमित्यङ्गीकारेऽपि समानत्वादित्यर्थः ।
ननु व्यावहारिकभेदस्य बाध्यत्वमित्याद्यपक्ष एव स्वीक्रियते । नच तथात्वे श्रुतेर्बाध्यार्थग्राहित्वेनाप्रामाण्यप्रसङ्ग इति वाच्यम् । श्रुतितात्पर्यविषयार्थबाधस्यैवाप्रामाण्ये प्रयोजकत्वेन श्रुतिप्रतिपाद्यबाधस्याप्रयोजकत्वात् । भेदस्य च श्रुतिप्रतिपाद्यत्वेऽपि श्रुतितात्पर्यगोचरत्वाभावादिति शङ्कते — नन्विति ॥ उपपादितस्य प्रतिपाद्यस्य । अभिप्रेतस्य तात्पर्यगोचरस्य ॥ अन्यथेति ॥ यदि तस्य बाधाच्छ्रुतेरप्रामाण्यमङ्गीक्रियते त`र्ह्युत्ताना वै देवगवा वहन्ती’त्याद्यर्थवादभागस्याप्यप्रामाण्यं
स्यात् । श्रुत्युदितस्य देवगवानामूर्ध्ववाहित्वस्य बाधितत्वात् । मतान्तरेऽर्थवादाप्रामाण्यस्येष्टत्वान्मीमांसकमत इत्युक्तम् । कुत इत्यत आह — श्रुतीनामिति ॥ श्रुतीनां भेदानुवादित्वादिति सम्बन्धः । अप्राप्तस्यानुवादासम्भवादाह — प्रत्यक्षप्राप्तेति ॥ नाहं सर्वज्ञ इत्यादिप्रत्यक्षप्राप्तेत्यर्थः । अनुवादे प्रयोजनमाह — नेह नानेति ॥ प्रतिबन्द्या समाधत्ते ॥ नेति ॥ ननु नेह नानेति वाक्यस्येह ब्रह्मणि जगति वा भेदो नास्तीति भेदनिषेधकत्वेन तेन निषेधाय द्वासुपर्णेत्यादेर्भेदानुवादकत्वं युज्यते । द्वा सुपर्णेत्यादेस्तु भेदमात्रप्रतिपादकत्वेनाभेदनिषेधकत्वाभावात्कथं तेन निषेधाय नेह नानेत्यादेरभेदानुवादकत्वमित्यत आह — भेदस्येति ॥ भेदो ह्यन्योन्याभावरूपः । स च तादात्म्यप्रतियोगिकत्वेन तन्निषेधरूप एव । तथा च तादृशभेदप्रतिपादकवाक्यस्य तादात्म्यनिषेधरूपत्वेन निषेधाय नेह नानेत्यादेर्भेदानुवादकत्वं युक्तमेवेत्यर्थः ॥ एतेनेति ॥ भेदश्रुतिविरोधादभेदश्रुत्यर्थत्यागो वा उताभेदश्रुतिविरोधाद्भेदश्रुत्यर्थत्यग इति सन्देहे निषेधवाक्यत्वेनाभेदश्रुतेः प्राबल्यात्तद्विरोधेन भेदश्रुत्यर्थस्यैव भेदस्य परित्याग इति यदुक्तमद्वैतवादिना तद्भेदवाक्यस्यापि निषेधकत्वकथनेन निरस्तमित्यर्थः । ननु नाभेदवाक्यस्यानुवादकत्वं युक्तम् । अभेदस्य प्रामाणान्तराप्राप्तेः । नचानुमानतः प्राप्तिरुक्तेति वाच्यम् । अनुवादे प्रत्यक्षतः प्राप्तेरेव प्रयोजकत्वेनानुमानेन प्राप्तेरप्रयोजकत्वादित्यत आह — नहीति ॥ तथा सतीति ॥ प्रत्यक्षतः प्राप्तेरेवानुवादप्रयोजकत्वे `अग्निर्हिमस्यभेषज’मिति वाक्यमनुवादकं न स्यादित्यन्वयः । कुत इत्यत उक्तमग्नेरित्यादिप्रतिपादयदित्यन्तम् । अग्नेर्हिमनिवृत्तिकारणत्वं हि सत्यग्नौ हिमनिवृत्तिरन्यथा नेत्यन्वयव्यतिरेकदर्शनेन हिमनिवृत्तिरग्नितो जन्या । तदन्वयव्यतिरेकानुविधायित्वादित्यानुमानप्राप्तम् । तदेवप्रतिपादयदिदं वाक्यमनुवादकमङ्गीक्रियते । न च तत्रापि प्रत्यक्षप्राप्तस्यैवानुवाद इति वाच्यम् । कार्यकारणभावस्य कालादिघटितत्वेनातीन्द्रियत्वादिति भावः । इष्टापत्तिपरिहारायोक्तं सर्वसम्मतमिति । नेह नानेति वाक्यस्यानुमानेनैक्यप्राप्तिरित्यभिहितम् ।