०८ (२६) भेदोज्जीवनम्

श्रुतयश्च द्वा सुपर्णेत्यादिकाः

(२६)भेदोज्जीवनम्

(२६) श्रुतयश्च द्वा सुपर्णेत्यादिकाः । व्यावहारिकभेदपरास्ता इति चेत् (न)। स किं बाध्यः ? बाढमिति चेत् (न)। तर्हि श्रुतेः प्रामाण्यं न स्यात्, बाध्यार्थग्राहित्वात् शुक्तिरूप्याध्यक्षवत् । प्रामाण्यं (च) व्यावहारिकमिति चेत् । किन्तर्ह्यप्रामाण्यं पारमार्थिकम् ? कः (कस्य) सन्देहः? अस्ति महान्सन्देहस्तथागतचरणशरणत्वमजानतः (तथागतचरणशरणं प्राप्तवान्यतः) । ननु श्रुत्युप(स्थित)स्थापितार्थानङ्गीकारे हि श्रुत्यप्रामाण्यं स्यात् । न चास्माभिः श्रुतिप्रतिपादितो भेदो नाङ्गीक्रियते । नाप्यस्माभिरनङ्गीकृतं तत्सत्यत्वं श्रुति(तौ)प्रतिपाद्यम् । श्रुतौ(तत्र) सत्यपदाश्रवणादिति चेत् । नैष दोषः । स्वगोचरार्थाबाधो हि प्रामाण्यम् । तद्बाधश्चाप्रामाण्यम् । तत्कथं श्रुतिवेद्यस्य भेदस्य बाधे श्रुतेः प्रामाण्यम् (प्रामाण्यप्रसङ्गः) । सत्यपदाश्रवणमात्रेण तदनङ्गीकारे एकमेवाद्वितीयं ब्रह्मेत्यादावपि सत्यपदाश्रवणेनाद्वैतमपि पारमार्थिकं न स्यात् । अथ अद्वैतश्रुतेः षड्विधतात्पर्यलिङ्गयुक्तत्वात्तदर्थः पारमार्थिक इति चेन्न । उपक्रमादीनि हि स्वार्थे तात्पर्यं ज्ञापयन्ति । एवञ्चाद्वैतमात्रपरमस्तु(मात्रं सिध्यति) तात्पर्यलिङ्गवशात् । न तत्सत्यत्वपरं(तत्सत्यत्वं) तस्यातदर्थत्वात् । भेद एव षड्विधतात्पर्यलिङ्गयुक्तत्वमस्माभिरन्यत्रोपपादितम् ।

(२६)भावप्रदीपः

एवं जीवेशभेदे प्रत्यक्षानुमाने अभिधायागमं चाह — श्रुतयश्चेति ॥ जीवेश्वरभेदे प्रमाणमिति शेषः । व्यावहारिकभेदः किं बाध्य उताबाध्य इति विकल्पं हृदि निधायाद्यं दूषयितुं पृच्छति ॥ स किं बाध्य इति ॥ तं पक्षं पूर्वपक्षी कक्षीकरोति ॥ बाढमितीति । बाध्य इत्येतदेव दृढमित्यर्थः । दूषयति — तर्हीति । शुक्तिरूप्याध्यक्षवद्बाध्यार्थग्राहित्वेऽपि न श्रुतेः सर्वथा प्रामाण्याभावः । किन्तु प्रतिपाद्यभेदवत्प्रामाण्यमपि व्यावहारिकमेव । नैवंशुक्तिरूप्याध्यक्षस्य । किन्त्वप्रामाण्यमेवेत्याशयेन शङ्कते — प्रामाण्यमिति ॥ श्रुतिप्रामाण्यस्य व्यावहारिकत्वाङ्गीकारेऽप्रामाण्यस्य व्यावहारिकत्वे तदभेदस्य पारमार्थिकत्वमिति भावेन सोल्लुण्ठं पृच्छति ॥ किन्तर्हीति । अपहासमजानानस्तमेव पक्षमङ्गीकृत्य शङ्कते — कः सन्देह इति ॥ अप्रामाण्यस्य पारमार्थिकत्वविषये न कोऽपि सन्देह इत्यर्थः । उत्तरमाह — अस्तीति । कुत इत्यत आह — तथागतेति ॥ तथागतो बौद्धः । अजानतोऽमन्यमानस्य । आत्मनः । तवेति शेषः । अयं भावः । न हि भवान् बौद्ध इव सर्वथा श्रुत्यप्रामाण्यवादी । किन्त्वद्वैतभागस्य तत्त्वावेदकत्वलक्षणं भेदभागस्यातत्त्वावेदकत्वलक्षणं प्रामाण्यमङ्गीकुरुते । यदीदानीमप्रामाण्यमेव पारमार्थिकमित्युच्यते तर्हि बौद्धमतप्रवेशः स्फुटमेव तवापद्यत इति शङ्कते — श्रुत्युपस्थापितेति ॥ श्रुतिप्रतिपादितेत्यर्थः । नाङ्गीक्रियते किन्तु भेदमङ्गीकृत्य तत्सत्यत्वं नाङ्गीक्रियत इत्यर्थः । भेदसत्यत्वं श्रुतिप्रतिपाद्यं नेति कथं ज्ञायत इत्यत आह — तत्रेति ॥ श्रुतावित्यर्थः । द्वेत्यादिपदं तु भेदव्याप्यद्वित्वमात्राभिधायीति भावः । उत्तरमाह — नैष इति ॥ श्रुतौ सत्यपदाश्रवणेऽपि तत्सत्यत्वस्य दुर्वारत्वात्सत्यत्वानङ्गीकारे श्रुतेरप्रामाण्यापत्तिर्दुर्वारेत्यर्थः । एतदेवोपपादयति — स्वगोचरार्थेति ॥ स्वप्रतिपाद्येत्यर्थः । तथा चाबाधितार्थप्रतिपादकत्वं प्रामाण्यं बाधितार्थप्रतिपादकत्वमप्रामाण्यम् । तथा च श्रुतिप्रतिपादितभेदस्य त्वया बाध्यत्वाङ्गीकारे कथमप्रामाण्यं न स्यादिति भावः । सत्यपदाश्रवणादित्युक्तदोषं प्रतिबन्द्या परिहरति ॥ सत्यपदेति ॥ तदनङ्गीकारे सत्यत्वानङ्गीकारे । प्रमेयसाम्ये हि प्रतिबन्दीग्रहणम् । नात्र प्रमेयसाम्यमस्तीति भावेन शङ्कते — अथेति ॥ षड्विधतात्पर्यलिङ्गयुक्तत्वादिति ॥ एकमेवाद्वितीयमित्युपक्रमः । तत्त्वमसीत्युपसंहारः । तत्त्वमसि तत्त्वमसीति नवकृत्वोऽभ्यासः । अद्वैतस्य प्रमाणान्तराप्राप्तत्वेनापूर्वत्वम् । तस्य तावदेवचिरमिति फलम् । येनाश्रुतं श्रुतं भवतीत्यर्थवादश्चेत्येवंषड्विधतात्पर्यलिङ्गयुक्तत्वादित्यर्थः । उपलक्षणमेतत् । मृत्पिण्डादिदृष्टान्तैरैक्यस्योपपादितत्वादुपपत्तिरपि ग्राह्या । उपक्रमादीनामप्युपपत्तिविशेषत्वादुपपत्तेः पृथगविवक्षया षड्विधेत्युक्तिः । तथा चाद्वैतश्रुतौ सत्यपदाभावेऽपि तात्पर्यलिङ्गबलेनाद्वैतस्य सत्यता सिध्यति । भेदश्रुतेस्तु तात्पर्यलिङ्गाभावेन न तदर्थस्य भेदस्य सत्यत्वमिति भावः । एतच्च वैषम्यमर्थसत्यत्वेऽप्रयोजकमिति भावेनाह — उपक्रमादीनीति ॥ स्वार्थे श्रुत्यर्थे । । अतदर्थत्वात् श्रुत्यर्थत्वाभावात् । अभ्युपगम्योक्तिरियम् । वस्तुतस्तु वैषम्यमसिद्धमेवेत्याह — भेदेऽपीति ॥ अन्यत्रेति ॥ न्यायामृते द्वितीयपरिच्छेदे । सन्ति च भेदश्रुतेरपि षड्विधतात्पर्यलिङ्गानि । तथा हि । आथर्वणे द्वा सुपर्णेत्याद्युपक्रमः । परमं साम्यमुपैतीत्युपसंहारः । तयोरन्योऽनश्नन्नन्योऽन्यमीशमित्यभ्यासः । शास्त्रैकगम्येश्वरप्रतियोगिकस्य तद्धर्मिकस्य वा कालत्रयाबाध्यभेदस्य शास्त्रं विनाऽप्राप्तेरपूर्वता । पुण्यपापे विधूयेति फलम् । अस्य महिमानमिति स्तुतिरूपार्थवादः । अत्त्यनश्नन्नित्युपपत्तिरित्यादिनोपपादितमित्यर्थः । अत्रापि सप्तविधतात्पर्यलिङ्गयुक्तत्वमिति वक्तव्ये षड्विधेत्युक्तेरुक्त एवाभिप्रायः ।

(२६)भेदचिन्तारत्नम्

॥ श्रुतयश्चेति ॥ श्रुतयः सूत्राणि चेति ग्राह्यम् ॥ व्यावहारिकेति ॥ यद्यप्यनुवादित्वमेव पूर्वपक्षोक्तं तदेवादौ परिहर्तव्यम् । तथाऽपि प्रासङ्गिकतया तस्यापि परिहारलाघवादेवमुक्तिः । यत्नशतेनापि श्रुतेः पारमार्थिकत्वानङ्गीकारे बौद्धवैलक्षण्यं बाध्यार्थत्वस्यैवाप्रामाण्यपदार्थत्वादिति भावेनाह — किमित्यादिना ॥ बाध्यार्थग्राहित्वादिति ॥ नन्विदमेवाप्रामाण्यमिति चेन्न । प्रमाजनकत्वाभावस्येहाप्रामाण्यत्वात् । अङ्गीकरोति कः सन्देह इत्युक्तवतस्त्वास्माभिस्तदुद्भावने कृते महान्सन्देहः कर्तव्योऽस्तीत्यर्थः । ननु श्रुतेस्तदर्थस्य तत्प्रामाण्यस्य चैकसत्ताकत्वेन धर्मिसत्ताकं प्रामाण्यमङ्गीक्रियते । तथा च श्रुतेर्जगतश्च व्यावहारिकत्वाङ्गीकारेऽपि जगतः स्वागमोक्तप्रकारेणैव व्यवस्थामङ्गीकृत्य श्रुतेश्चात्यन्ताप्रामाण्यमङ्गीकृतमिति चेत्किमनेनाकाण्डताण्डवेन । शुक्तिरजतवद्बाध्यार्थत्वापरिहारात् । ब्रह्मज्ञानमात्रबाध्यार्थमपि प्रमाणमिति चेन्न । ब्रह्मणि क्षणिकत्वाद्यारोपस्यापि प्रामाण्यापत्तेः । किञ्च प्रामाण्यद्वैविध्ये गौरवमनुगतनिष्प्रकारकज्ञानेतरज्ञानाबाध्यार्थत्वं प्रामाण्याङ्गीकरणं सम्भवतीति चेन्न । तर्हि द्वैताद्वैतयोरुक्तरूपैकप्रामाण्यकत्वेन तदर्थयोर्व्यावहारिकत्वपारमार्थिकत्वभेदानुपपत्तेः । सर्वथाऽबाध्यार्थत्वं मुख्यप्रामाण्यम् । ब्रह्मज्ञानबाध्यार्थत्वेऽपि तदितराबाध्यार्थत्वममुख्यप्रामाण्यमित्यस्त्येव प्रामाण्येऽवान्तरभेद इति चेत् तर्हि विवक्षामात्रस्य निरङ्कुशत्वेन बौद्धोऽपि वेदार्थस्य ज्ञानविशेषबाध्यत्वं वदन्वेदवादी स्यात् । स्वबाधात्प्रागेवाबाध्यार्थत्वं प्रामाण्यम् । रजतस्थले तु रजतप्रत्यक्षस्य प्रातिभासिकतया प्रत्यक्षबाधात्प्रागेव रजतं बाध्यत इति चेन्न । निष्प्रकारकब्रह्मापरोक्षाव्यवहितपूर्वोत्पन्नरजतादिभ्रमेऽतिव्याप्तिः । किञ्चार्थबाधोनामार्थनाशो भावज्ञानं वा तत्प्रत्यक्षं वा । नाद्यः । श्रुत्यर्थभूतस्य घटादेः प्रपञ्चस्य श्रुतिबाधात्प्रागेव नाशाङ्गीकारात् । न द्वितीयः । विदितवेदान्तस्य नेहनानाऽस्तीत्यादिना प्रागेवापरोक्षतोऽर्थासत्त्वज्ञानात् । अत एव न तृतीयः । चन्द्रप्रादेशप्रत्यक्षस्य तादृशबाधाभावेन प्रामाण्यापत्तेरित्यलम् । ननु यावच्छ्रुत्युक्तं तन्मात्रानङ्गीकारे हि दोषः । इह तु श्रुत्युक्तं सर्वमङ्गीक्रियते । तत्पारमार्थ्यं न तच्छ्रुत्यर्थ इत्याशङ्कते — श्रुतीति ॥ स्वगोचरेति ॥ एवञ्च श्रुत्युक्तं सर्वमङ्गीक्रियते तत्पारमार्थ्यं नेति रिक्तं वचः । अबाध्यप्रतिपत्तेरेवाङ्गीकारपदार्थत्वादिति भावः । किञ्च सत्त्वासत्त्वौदासीन्येन प्रतिपादनायोगात्सर्ववाक्यानां सत्यपदाभावे स्वार्थसत्तापर्यन्तत्वं व्युत्पत्तिसिद्धम् । अन्यथा सत्यं ज्ञानमित्यादावपि सत्यपदसत्त्वेऽपि सत्यतैव स्यान्न तु सत्यतायाः सत्यत्वमिति शङ्कापिशाची दुरूच्चाटा स्यात् । दृश्यते च सत्यं भिदेत्यादौ सत्यपदमपीति । ननु सत्यं पदं विनाऽप्यसत्ये तात्पर्यायोगादैक्यस्य सत्यतासिद्धिः । तात्पर्यं च तल्लिङ्गाद्गम्यत इति शङ्कते — अथेति ॥ छान्दोग्ये एकमेवेत्युपक्रमः । तत्त्वमसीत्युपसंहारः । तत्त्वमसि तत्त्वमसीति नवकृत्वोऽभ्यासः । ऐक्यस्य प्रमाणान्तराप्राप्तत्वादपूर्वता । अथ सम्पत्स्यत इत्यैक्यज्ञानस्य फलम् । येनाश्रुतं श्रुतं भवतीत्यैक्यार्थवादश्चेति ज्ञेयम् । स्वार्थेति स्वप्रकरणे यावदुक्तं तावति तात्पर्यमस्ति । न तूक्तिमात्रमित्येतावन्मात्रमुपक्रमादीनि ज्ञापयन्ति । एवञ्च तात्पर्यमेव स्यान्न तु सत्यत्वमिति भावः । नन्वित्येतत्तात्पर्ययोगात्सत्त्वमपि लभ्यत इति चेत् तर्हि भ्रान्तादिवाक्यस्योपक्रमादिलिङ्गावगततात्पर्यवदुपपत्तेः । वस्तुतस्तु ‘एकमेवाद्वितीयमित्यस्य समाभ्यधिकराहित्यस्यान्यत्रोक्तत्वाद्विशेषनिषेधः शेषविधिं गमयतीति भेदोपक्रमत्वादुपसंहारस्यापि दृष्टान्तानुगुण्यायातत्त्वमसीति विच्छेदेन वैकपदत्वमभ्युपेत्य तस्य भावस्तत्त्वमिति विग्रहाश्रयणेन वा नपुंकसकोपपत्त्यर्थं तत्वम्पदस्येदं सर्वमिति जगत्परामर्शकत्वेन वा सादृश्य इत्याद्यर्थकत्वेन वा भेदपरत्वात् । अत एवाभ्यासस्य भेदपरत्वाद्वेदैकवेद्येश्वरभेदस्याप्यपूर्वत्वात्प्रकरणस्य भेदपरत्वे फलस्यापि तदन्वयात् । भेदज्ञानस्य हेति तत्पदादिकादिश्रवणाच्च भेद एव तात्पर्यमिति च ज्ञेयम् ॥ भेद एवेति ॥ एवञ्च तात्पर्यलिङ्गात्सत्यतासिद्धिश्चेत्समं ममापीति भावः । अन्यत्र न्यायामृते । तथा हि । आथर्वणे द्वासुपर्णेत्युपक्रमः । साम्यमुपैतीत्युपसंहारस्तयोरन्यो ऽनश्नन्नन्यः, अन्यमीशमित्यभ्यासः । उक्तरीत्याऽऽपूर्वता । पुण्यपापे विधूयेति फलम् । अस्य महिमानमिति वीतशोक इत्यर्थवाद इति ।

(२६)भेदचन्द्रिका

व्यावहारिकभेदो बाध्योऽबाध्यो वेति विकल्पं मनसि कृत्वाऽऽध्यमाशङ्कते — स किमिति ॥ भ्रान्त्योद्देशयति — नन्विति ॥ भ्रान्तिमाविष्करोति ॥ स्वगोचरार्थाबोधो हीति । श्रुतिप्रामाण्याङ्गीकारे तदर्थं सत्त्वाङ्गीकार आवश्यक इत्यर्थः । वैषम्यमाशङ्कते — अथैतच्छ्रुतेरिति ॥ अथ प्रयोजकं वैषम्यमित्याह — उपक्रमादीनीति । एवञ्चोपक्रमादिबलादद्वैतश्रुतेस्तात्पर्यमात्रमायास्यति । न तु तदर्थं सत्यताप्रतारकवाक्ये सत्यपि तात्पर्यार्थसत्यत्वाभावात् । अद्वैतमात्रमस्तु न तु सत्यत्वमिति परभाष्योक्तिः । असिद्धं च वैषम्यमित्याह भेदेऽपीति । अन्यत्र न्यायामृते ।

(२६)भेदसञ्जीविनी

॥ द्वा सुपर्णेत्यादिका इति ॥ आसामागमतया भेदावगमकत्वमुपपादितं पूर्वपक्षविवरणावसरे ॥ किन्तर्हीति ॥ प्रामाण्यं व्यावहारिकमित्युक्ते व्यवहारमात्रं तत्र न वस्तुतस्तदस्तीत्यर्थः ॥ तथागतेति ॥ बौद्ध इत्यर्थः ॥ प्रतिपादित इति ॥ यस्मिन्धर्मिणि यो धर्मः श्रुत्या बोध्यते तद्विशिष्टधर्मिणोऽत्यन्ताभाव इत्यर्थः । अन्यथा श्रुतिघटकवाक्यबोध्यस्य कस्यचिदनङ्गीकारस्याप्रामाण्यहेतुत्वे वेदघटकसत्वादिपदबोध्यस्याभावात्तवाप्यप्रामाण्यं स्यादिति भावः ॥ नाङ्गीक्रियत इति ॥ किन्तु मिथ्यात्वेनाभ्युपगम्यत इति शेषः । जीवेशौ धर्मीकृत्य द्वा सुपर्णेत्यादिना तत्र भेदोक्ते तत्र तदनङ्गीकारेऽप्रामाण्यं दुर्वारमित्याशयेनाह — नैष दोष इति ॥ सत्त्वेन प्रकारविधया प्रतिपाद्यस्यासत्त्व एव दोषो न प्रकृते तथेत्याशङ्क्याह — सत्यपदेति ॥ षड्विधेत्युपपत्तेर्बहिरङ्गत्वादन्तरङ्गविवक्षया वाऽर्थवादफलयोः सामान्यविशेषभावेनैक्यमाश्रित्य वा षड्विधत्वोक्तिः । उपक्रमादयस्तु न्यायामृते द्रष्टव्याः ॥ न तत्सत्यत्वमिति ॥ अन्यथा शून्यवादिग्रन्थस्थोपक्रमादिभिस्तत्तात्पर्यविषयस्य शून्यस्य

सत्यत्वं स्यादित्यर्थः ॥ भेद एवेति ॥ तथा च त्वद्रीत्यैव सत्यत्वं श्रुतिप्रतिपाद्यं जातमित्यर्थः ।

(२६)काशीतिम्मण्णाचार्य

एवं जीवेशभेदे प्रत्यक्षानुमाने अभिधायागममप्याह — श्रुतयस्त्विति ॥ न श्रुतयः पारमार्थिकभेदे प्रमाणमित्याशङ्कते — व्यावहारिकेति ॥ श्रुत्युक्तो भेदो बाध्योऽबाध्यो वेति विकल्पेन दूषयितुं पृच्छति — स किमिति ॥ प्रामाण्यम् अबाध्यार्थकत्वम् । नन्वारोपितमेव श्रुतेः प्रामाण्यम् । किं त्वब्रह्मज्ञानाबाध्यत्वाद् व्यवहारार्हमित्याशङ्कते — प्रामाण्यमिति ॥ अप्रामाण्यं = प्रामाण्याभावः ॥ पारमार्थिकमिति ॥ भावाभावयोरेकस्य बाधेऽन्यस्याबाध्यत्वनियमादिति भावः । अत्रेष्टापत्तिमाशङ्कते — कः सन्देह इति ॥ तर्हि बौद्धमतप्रवेशप्रसङ्ग इत्याह — अस्तीति ॥ तथागतो बौद्धः स्वस्य तदनुयायित्वमनभ्युपगच्छत इत्यर्थः ।

शुक्तिरूप्याध्यक्षवदित्युक्तदृष्टान्ताभिप्रायमविज्ञाय शङ्कते — नन्विति ॥ सत्यपदाश्रवणात् ॥ भेदे सत्यत्वसमर्पकपदाश्रवणात् । अबोधकत्वमेव ह्यप्रामाण्यप्रयोजकम् । श्रुतीनां च भेदस्वरूपबोधकत्वान्न तदंशेऽप्रामाण्यम् । तस्य पारमार्थिकत्वं तु न श्रुतिबोधितम् । अतस्तदंशे तदप्रामाण्यमिष्यत एवेति भावः ॥ स्वगोचरेति ॥ अबाध्यार्थबोधकत्वमित्यर्थः । अयं भावः । अबोधकत्ववद्वाध्यार्थबोधकत्वमप्यप्रामाण्यप्रयोजकम् । अन्यथा शुक्तिरजतग्राहकदुष्टेन्द्रियादेरपि प्रामाण्यप्रसङ्गात् । तच्च श्रुतेरप्यविशिष्टमिति तदप्रामाण्यं दुर्वारमेव । न च ब्रह्मज्ञानेतराबाध्यबोधकत्वमेव प्रामाण्यम् । तच्च श्रुतिसाधारणमिति वाच्यम् । शुक्तिज्ञानेतराबाध्यबोधकत्वमेव प्रामाण्यं, तच्च दुष्टेन्द्रियसाधारणमित्यस्यापि सुवचत्वात् । किञ्च यच्छ्रुतेः प्रामाण्यं तद्बाध्यमेवेति तदभावलक्षणाप्रामाण्यप्रसङ्गस्तदवस्थ एवेति ।

भेदसत्यत्वं न श्रुत्युक्तमित्येतद्दूषयति — सत्यपदाश्रवणादिति ॥ द्वा सुपर्णेत्यादावित्यादिः । तदनङ्गीकारे भेदसत्यत्वानङ्गीकारे ॥ न स्यादिति ॥ अयमाशयः । सत्त्वासत्त्वोदासीनप्रतीत्यभावादुक्तश्रुत्याऽपि सत्त्वेनैव भेदप्रतीतेः सम्भवति श्रुतेस्तत्सत्यत्वे प्रामाण्यम् । अन्यथा श्रुतेरद्वैतस्वरूपमात्रग्राहकत्वापत्त्या सत्यत्वाग्राहकत्वादद्वैतमपि तव बाध्यं

स्यादिति ।

ननु श्रुतेरद्वैतस्वरूपमात्रग्राहकत्वेऽपि तत्सत्यत्वमुपक्रमादितात्पर्यलिङ्गैरवसीयते । न तु भेदसत्यत्वमित्याशङ्कते — अथेति ॥ `सदेव सोम्येदमग्र आसी’`देकमेवाद्वितीय’मित्युपक्रमः । `ऐतदात्म्यमिदं सर्व’मित्युपसंहारः । `तत्त्वमसी’ति नवकृत्वोऽभ्यासः । ऐक्यस्य मानान्तराप्राप्तत्वादपूर्वता । `अथ सम्पत्स्यत’ इति फलम् । `येनाश्रुतं श्रुतं भवती’त्यर्थवाद इति षड्विधतात्पर्यलिङ्गयुक्तत्वादित्यर्थः । यद्यप्युपपत्त्या सह तात्पर्यलिङ्गानि सप्तविधानि । अस्ति चाद्वैतेऽपि श्रौतोपपत्तिर्यथा सोम्यैकेन मृत्पिण्डेन सर्वं मृण्मयं विज्ञातं स्यादित्यादिः । तथाप्युपक्रमादेः सर्वस्यापि उपपत्तिरूपत्वेनार्थसिद्धत्वात् सा न पृथगुक्ता । स्यादेवम् । यद्युपक्रमादिप्रतिपाद्यमैक्यसत्यत्वं स्यात् । न चैवम् । अपि त्वैक्यमात्रम् । अतो न तत्सत्यत्वसिद्धिरित्याह — उपक्रमादीनीति ॥

ननूपक्रमादीनामैक्यसत्यत्वाप्रतिपादकत्वेऽपि तद्व्याप्यतया तत्साधकत्वमव्याहतमित्यत आह — भेद इति ॥ `द्वा सुपर्णे’त्युपक्रमः । `परमं साम्यमुपैती’त्युपसंहारः । `तयोरन्यः’ `अनश्नन्नन्यः’ `अन्यमीश’मित्यन्यशब्दाभ्यासः । शास्त्रैकसमधिगम्येश्वरभेदपरत्वादपूर्वता । `पुण्यपापे विधूये’ति फलम् । `अस्य महिमान’मित्यर्थवादः । अनश्नन्नित्युपपत्तिश्चेत्युपपत्तिसहितषड्विधतात्पर्यलिङ्गयुक्तत्वं भेदविषयश्रुतेरपि न्यायामृते उपपादितम् । ततश्च भेदसत्यत्वसिद्धिरित्याशयः । यद्वा, भेदविषय एव श्रुतेः षड्विधतात्पर्यलिङ्गयुक्तत्वमित्यर्थः । तथाहि । एकमेवाद्वितीयमिति सजातीयद्वितीयराहित्येनैवोपक्रमः । कालादेः सत्त्वश्रवणेन द्वितीयमात्रनिषेधायोगात् । ऐतदात्म्यमित्येतत्स्वामिकत्वेनोपसंहारो न त्वेतत्स्वरूपत्वेन । तद्धितवैयर्थ्यात् । तत्त्वमसीत्यनेनापि तत्सदृशत्वादिकमेवाभ्यस्यते । तत्त्वंपदमुख्यार्थविशिष्टाभेदबाधेन पदद्वयस्य चिन्मात्रलक्षणापेक्षया सामानाधिकरण्यमात्रस्य गौणत्वौचित्यात् । अतत्वमसीति च्छेदे तु स्फुटमेव भेदपरत्वम् । मानान्तरागम्येश्वरभेदपरत्वादपूर्वत्वम् । अथ सम्पत्स्यत इति ब्रह्मप्राप्तिः फलमुच्यते । येनाश्रुतं श्रुतं भवतीत्यर्थवादश्च सादृश्यादिनोपपद्यते । तथैव मृत्पिण्डादिदृष्टान्तैरुपपादनात् । सर्वमृण्मयानामेकमृत्पिण्डविकारत्वाभावेन तदभेदे तात्पर्यायोगादित्यादि द्रष्टव्यम् ।

(२६)शर्कराश्रीनिवासाचार्य

एवं जीवेशभेदे प्रत्यक्षानुमाने अभिधायाऽगमञ्चाह — श्रुतय इति ॥ जीवेशयोः पारमार्थिभेदे मानमिति शेषः ॥ व्यावहारिकेति ॥ तथाच पारमार्थिकभेदे प्रमाणत्वेन एतच्छ्रुत्युदाहरणमयुक्तमिति भावः । व्यावहारिकभेदः किं बाध्य उताबाध्य इति विकल्पं हृदिनिधायाद्यं दूषयितुं पृच्छति ॥ स किमिति ॥ उत्तरं शङ्कते — बाढमिति ॥ व्यावहारिकभेदो बाध्य इत्येतद् दृढमित्यर्थः । दूषयति — तर्हीति ॥ कुत इत्यत आह — शुक्तिरूप्येति ॥ शुक्तिरजतप्रत्यक्षस्यापि शुक्तिरजतरूपबाध्यार्थग्राहित्वादेव प्रामाण्याभावो दृष्टः । तथैवागमस्यापि व्यावहारिकभेदरूपबाध्यार्थग्राहित्वे प्रामाण्यं दुर्लभमिति भावः । ननु बाध्यार्थग्राहकस्य पारमर्थिकप्रामाण्यविरोधित्वेन तदसम्भवेऽपि व्यावहारिकप्रामाण्याविरोधित्वात्तादृशप्रामाण्यमागमस्य सम्भवतीति शङ्कते — प्रामाण्यमिति ॥ तथात्वे शुक्तिरजताध्यासस्यापि व्यावहारिकप्रामाण्यं स्यादिति दोषे सत्येव दोषान्तरं वक्तुं पृच्छति ॥ किन्तर्हीति ॥ परस्परविरुद्धयोरन्यतरनिषेधस्यान्यतरविधिव्याप्तत्वादिति भावः ॥ कस्येति ॥ वेदप्रामाण्यस्य व्यावहारिकत्वं वदतो मम तदप्रामाण्ये पारमार्थिकत्वनिश्चय एवास्ति न तु संशय इत्यर्थः । दूषयति — अस्तीति ॥ तथागतः बौद्धः । बौद्धेन वेदाप्रामाण्यं पारमार्थिकमित्यङ्गीक्रियते त्वयाऽपि तदभ्युपगमे तन्मताभ्युपगमप्रसङ्गः । तथाच वेदप्रामाण्यस्य व्यावहारिकत्वेन तदप्रामाण्यं किं पारमार्थिकम् उत तथाङ्गीकारे बौद्धराद्धान्ताभ्युपगमप्रसङ्गेन पारमार्थिकं नेति संशय एव स्यान्न पारमार्थिकमिति निश्चय इत्यर्थः । यद्वा सन्देहः शङ्का अनिष्टमिति यावत् ॥ श्रुत्युपस्थापितेति ॥ श्रुतिप्रतिपादितेत्यर्थः ।

ननु श्रुतिप्रतिपादितभेदाङ्गीकारेऽपि तत्प्रतिपादितभेदसत्यत्वानभ्युपगमादप्रामाण्यं स्यादेवेत्यत आह — नापीति ॥ कुत इत्यत आह — तत्र सत्यपदेति ॥ द्वेत्यादिपदं तुभेदापरपर्यायद्वित्वमात्रवाचकमिति भावः । नच प्रामाण्याप्रामाण्ययोः प्रतिपाद्यार्थाङ्गीकारानङ्गीकारौ प्रयोजकौ । अपितु प्रतिपाद्यार्थबाधाबाधावेव । तथाहि प्रतिपाद्यार्थाबाधादेव वह्निरुष्ण इत्यस्य प्रामाण्यं प्रतिपाद्यार्थबाधादेव वह्निरनुष्ण इत्यस्याप्रामाण्यम् । प्रकृते च श्रुतिप्रतिपाद्यार्थस्यभेदस्य बाध्यत्वेऽङ्गीकृते सत्यप्रामाण्यं दुर्वारमिति परिहरति ॥ नैषदोष इत्यादिना ॥ स्वगोचरेति ॥ स्वं प्रामाणत्वेनाभि

मतम् । तद्बोध्येत्यर्थः । श्रुतिवेद्यस्य श्रुतिप्रतिपाद्यस्य । तत्र सत्यपदाश्रवणादित्येतत्प्रतिबन्द्या दूषयति — सत्येति ॥ तदनङ्गीकारे भेदसत्यत्वानङ्गीकारे । नन्वेकमेवाद्वितीयमिति श्रुतौ सत्यपदाश्रवणेऽपि तत्प्रतिपाद्यैक्यस्य पारमार्थिकत्वमेव । तस्याः श्रुतेरैक्ये उपक्रमादिषड्विधतात्पर्यलिङ्गयुक्तत्वात् । तथाहि । एकमेवाद्वितीयमित्युपक्रमः । तत्त्वमसीत्युपसंहारः । तत्त्वमसि तत्त्वमसीति नववारमभ्यासः । ऐक्यस्यान्यप्रमाणेनाप्राप्तत्वादपूर्वता । अथ सम्पत्स्यत इति फलम् । येनाश्रुतं श्रुतं भवतीति स्तुतिरूपोऽर्थवादः । यथा सोम्यैकेन मृत्पिण्डेनेति मृत्पिण्डादिदृष्टान्तैरुपपादितत्वादुपपत्तिश्चाधिकेति । नच भेदश्रुतेर्भेदे षड्विधतात्पर्यमस्ति । येन तदर्थस्य पारमार्थिकत्वं स्यादिति शङ्कते — अथेति ॥ यद्यपि तात्पर्यलिङ्गानामुपपत्त्या सह सप्तविधत्वम् । यथोक्तं –

`उपक्रमोपसंहारावभ्यासोऽपूर्वता फलम् ।

अर्थवादोपपत्ती च लिङ्गन्तात्पर्यनिर्णय’

इत्यादिना । तथाप्युपपत्तिविशेषाणामुपक्रमादीनां षड्विधत्वादेवमुक्तमित्यदोषः । एकमेवाद्वितीयमित्युपक्रमादीन्यैक्यश्रुतेरैक्ये तात्पर्यं ज्ञापयन्ति । न त्वैक्यसत्यत्वे । कुत इति चेद् ऐक्यस्य श्रुत्यर्थत्वात् । तत्सत्यत्वस्य च श्रुत्यर्थत्वाभावात् । उपक्रमादीनां श्रुत्यर्थ एव तात्पर्यज्ञापकत्वस्वाभाव्यादिति परिहरति ॥ उपक्रमादीनीत्यादिना तदर्थत्वादित्यन्तेन ॥ स्वार्थे स्वं श्रुतिस् तदर्थे । तात्पर्यं श्रुतेरिति शेषः । अद्वैतमात्रपरम् ऐक्यवाक्यमिति शेषः ॥ तात्पर्येति ॥ ऐक्यवाक्यस्यैक्ये उपक्रमादितात्पर्यलिङ्गयुक्तत्वादित्यर्थः । मात्रपदव्यावर्त्यमाह — नेति ॥ अतदर्थत्वात् श्रुत्यर्थत्वाभावात् । इदं चाभ्युपेत्योक्तम् । वस्तुतस्तु शकुनिसूत्रादिदृष्टान्तबलेन स आत्मातत्त्वमसीति वाक्यस्यातत्त्वमसीति पदच्छेदेन भेदप्रतिपादकत्वमेव युक्तम् । नह्यभेदं प्रतिज्ञाय भेदे दृष्टान्ताभिधानं सङ्गच्छते । अत एवैकमेवाद्वितीयमित्येत्समाधिकराहित्यप्रतिपादनेन

भेदपरम् । एवमेवैतदात्म्यमित्यपि । यथा सोम्येत्यादिप्राधान्यज्ञापनाय सृष्टिप्रतिपादकमित्यङ्गीकार्यम् । एवं चैकमेवाद्वितीयमित्यस्योपक्रमाद् ऐतदात्म्यमिदं सर्वमिति तस्यैवोपसंहाराद् अतत्त्वमसीति नववारमभ्यासात् शास्त्रं विना शास्त्रैकगम्येश्वरभेदस्याप्रसक्त्याऽपूर्वत्वाद् अथ सम्पत्स्यत इति फलश्रवणाद् येनाश्रुतं श्रुतं भवतीत्यर्थवादात् शकुनिसूत्रादिदृष्टान्तैरुपपादनाद् उपक्रमादितात्पर्यलिङ्गानि भेदपराण्येवेति द्रष्टव्यम् । यदि सत्यपदाश्रवणेऽप्यैक्यश्रुतेः षड्विधतात्पर्यलिङ्गवत्त्वात्तदर्थः पारमार्थिक इत्यङ्गीक्रियते तर्हि सत्यपदाश्रवणेऽपि भेदश्रुतेः षड्विधतात्पर्यलिङ्गोपेतत्वात्तदर्थः पारमार्थिक इत्यङ्गीक्रियतामित्याह — भेदे षड्विधेति ॥ आथर्वणे द्वासुपर्णेत्युपक्रमः, परमं साम्यमुपैतीत्युपसंहारः, तयोरन्यो ऽनश्नन्नन्यो ऽन्यमीशमित्यभ्यासः, शास्त्रैकगम्येश्वरप्रतियोगिकस्य तद्धर्मिकस्य वा भेदस्य शास्त्रं विनाऽप्राप्तेरपूर्वता, पुण्यपापे विधूयेति फलम्, अस्य महिमानमिति स्तुतिरूपोऽर्थवादः, अत्ति अनश्नन्निति विरुद्धधर्मोक्त्योपपत्तिरिति भेदश्रुतेर्भेदे तात्पर्यलिङ्गवत्त्वं न्यायामृते द्वितीयपरिच्छेदे उपपादितमित्यर्थः ।