०७ (२५) भेदोज्जीवनम्

एवं देवदत्तान्तःकरणं यज्ञदत्तान्तःकरणावच्छिन्नचैतन्याद्वस्तुतो ..

(२५)भेदोज्जीवनम्

(२५) एवं देवदत्तान्तःकरणं यज्ञदत्तान्तःकरणावच्छिन्नचैतन्याद्वस्तुतो भिन्नचैतन्यावच्छेदकं तद्वृत्त्यनिवर्त्यनिवर्तकत्वात् । व्यतिरेकेण यज्ञदत्तान्तःकरणवत् । एवं देवदत्तस्मरणं (देवदत्तस्य स्मरणं) वस्तुतो न यज्ञदत्तीयं यज्ञदत्तानुभवाजन्यत्वात् । व्यतिरेकेण यज्ञदत्तस्मरणवदित्यादीनि भेदसाधकान्यूहनीयानि (इत्याद्यूह्यम्)। न चासिद्धिः । देवदत्तानुभूते यज्ञदत्त(स्य) स्मरणानुदयात् । आत्मनां (च) स्वाभाविकाभेदे सुखदुःखादिव्यवस्थाऽनुपपत्तिर्बाधिका मन्दारमञ्जर्यामस्माभिरुपपादिता द्रष्टव्या ।

(२५)भावप्रदीपः

एवं जीवेश्वरभेदेऽनुमानमभिधायान्योन्यजीवभेदेऽप्यनुमानान्याह — एवं देवदत्तान्तःकरणमिति ॥ चैतन्याद्वस्तुतो यद्भिन्नं चैतन्यं तदवच्छेदकमित्यर्थः । नित्यसापेक्षत्वाद्भिन्नपदस्य समासः । तद्वृत्त्यनिवर्त्यनिवर्तकत्वादिति ॥ यज्ञदत्तान्तःकरणवृत्तिज्ञानेनानिवर्त्यं यदज्ञानं तन्निवर्तकवृत्तिमत्त्वादित्यर्थः ॥ एवं देवदत्तस्य स्मरणमिति ॥ देवदत्तयज्ञदत्तयोरभेदस्य पारमार्थिकत्वे देवदत्तस्मरणस्य व्यवहारतोऽयज्ञदत्तीयस्यापि वस्तुतो यज्ञदत्तीयत्वं सम्भवत्येव । अतस्तन्निरासाय वस्तुत इति । तेन च देवदत्तयज्ञदत्तयोर्वस्तुतो भेदः सिध्यतीति भावः । देवदत्तयज्ञदत्तयोर्वस्तुत ऐक्याद्देवदत्तीयस्मरणस्य यज्ञदत्तानुभवजन्यत्वमेवास्त्वित्याशङ्क्य निराकरोति ॥ न चासिद्धिरिति ॥ ननु देवदत्तस्मरणस्य यज्ञदत्तीयानुभवजन्यतायास्तयोर्व्यावहारिकभेदेनाप्युपपत्तेर्नस्वाभाविकैक्यं विरुणद्धीति तत्राह — आत्मनां चेति ॥ मन्दारमञ्जर्यामिति ॥

`सुखदुःखादिभोगश्च खरूपैक्येन भेदतः ।

दृश्यो ही’ त्यादिमूलीयटीकाव्याख्यावसर इत्यर्थः ।

(२५)भेदचिन्तारत्नम्

॥ तद्वृत्त्यनिवर्त्यनिवर्तकत्वादिति ॥ यज्ञदत्तमनोवृत्त्यनिवर्त्यप्रागभावविषयावरणाज्ञानादिनिवर्तकत्वादित्यर्थः । न च विशेषणासिद्धिः । यज्ञदत्तस्य ज्ञानोत्पत्तौ देवदत्तगताज्ञानानिवृत्तेः ॥ वस्तुतो न यज्ञदत्तीयमिति ॥ यज्ञदत्तीयं नेत्येतद्वस्तुत इत्यर्थः । तेन सर्वमिथ्यात्ववादिनो यज्ञदत्तीयत्वस्याप्यवास्तववत्त्वात्सिद्धसाधनतेति निरस्तम् । व्यावहारिकेण यज्ञदत्तीयत्वाभावेन सिद्धसाधनतावारणाय वस्तुत इति ॥ इत्यादीनीति । देवदत्तेच्छा न वस्तुतो यज्ञदत्तीया तज्ज्ञानाजन्यत्वात् । तद्भोगानिवृत्त्यत्वाच्च । देवदत्तब्रह्महत्या न वस्तुतो यज्ञदत्तीया । तत्सेतुदर्शनानिवृत्त्यत्वादित्याद्यूह्यम् । विपक्षे बाधकाभावादप्रयोजकाहेतव इत्यत आह — आत्मनामिति ॥ मन्दारमञ्जर्यामिति ॥ तथा हि । यद्यात्मानो न भिन्नाः स्युस्तर्हि परस्परसुखाद्यनुसन्धानं स्यात् । न च शरीरभेदेनोपपत्तिः । तथाऽपि योगिनस्तद्दर्शनात् । तदभावेऽपि मातृगर्भस्थितयो रावणादिशरीरस्थयोश्च तददर्शनात् । न चान्तःकरणभेदेनोप

पत्तिः । योगिन्यपि तस्योपपादितत्वात् । एकस्याप्यहरहः सुप्तवतः कारणविलयाङ्गीकारात् । उत्तराहे पूर्वाथीयानुसन्धानं न स्यात् । नाप्यविद्याभेदानुपपत्तिः । मुक्तस्य संसाराविद्याभिन्नाविद्याभावेन तद्दुःखाद्यनुसन्धानापत्तेः । न चाविद्यैक्यमनुसन्धाने प्रयोजकम् । मुक्तस्य स्वानन्दानुभवस्याप्यभावापत्तेरिति ।

(२५)भेदचन्द्रिका

॥ एवं देवदत्तान्तःकरणमिति ॥ भिन्नचैतन्यावच्छेदकमिति ॥ समासस्तु नित्यसापेक्षत्वाद्बोध्यः ॥ तद्वृत्त्यनिवर्त्यनिवर्तकत्वादिति ॥ तद्वृत्त्याऽनिवृत्त्यज्ञानसंशयविपर्ययादितन्निवतकवृत्तिमत्त्वादित्यर्थः ।

(२५)भेदसञ्जीविनी

॥ एवं देवदत्तेति ॥ वस्तुतो भिन्नेति ॥ एकजीववादिनं प्रति प्रयोगे पूर्वोक्तरीत्या वस्तुत इत्यस्याप्रातिभासिक इत्येवार्थः । तन्मतेऽन्तःकरणस्य जीवौपाधित्वाभावेऽप्येकमहाविद्योपाधिकत्वेन महतस्तत्परिणामभूतनानान्तःकरणावच्छिन्नत्वस्यैकस्मिन्नपि सम्भवात् । बहुजीववादिनं प्रति तु प्रागेव वस्तुत इत्यस्य परमार्थत इत्यर्थः । उद्देश्यसिध्यर्थमेकजीवपक्षेऽपि परमार्थत इत्येवार्थो वा । अप्रसिद्धविशेषणतोद्धारप्रकारस्तु चैत्रशरीरमित्युक्तानुमानविवरणोक्तक्रमेण बोध्यः (क्रमेणोह्यः) ॥ तद्वृत्तीति । तद्वृत्तिर्यज्ञदत्तान्तःकरणवृत्तिरूपघटाभावज्ञानादिः । तदनिवर्त्यस्य पटसंशयविपर्यादेर्निवर्तकत्वात् पटज्ञानोत्पत्तिद्वारा निवर्तकत्वादित्यर्थः । तद्वृत्त्यनिवृत्त्यनुवर्तकत्वादिति पाठे तद्वृत्तिभिः स्रक्चन्दनभोगरूपप्रत्यक्षादिभिरनिष्पाद्यसुखादेर्विषयान्तरभोगद्वारा निष्पादकत्वादित्यर्थः । न वस्तुतो यज्ञदत्तीयमिति यज्ञदत्तीयत्वप्रतियोगिकपारमार्थिकाभाववदित्यर्थः । न च मिथ्यात्ववादिना मिथ्यात्वसिद्धये तद्वत्त्वेऽपि तदभावस्य पारमार्थिकस्याङ्गीकारत्सिद्धसाधनता । पारमार्थिकत्वाप्रक्षेपेऽपि तमेवाभेदमादाय सिद्धसाधनता । यज्ञदत्तस्मरणेऽपि पारमार्थिकस्य यज्ञदत्तीयत्वाभावस्य सत्त्वाद्व्यतिरेकासिद्धिश्च । प्रतियोगिवैयधिकरण्यावच्छिन्नस्य तस्य साध्यत्वेऽपि सिद्धसाधनतैव । देवदत्तस्मरणे तथाभूतस्यैव यज्ञदत्तीयत्वप्रतियोगिकपारमार्थिकाभावस्याङ्गीकृतत्वाच्चेति वाच्यम् । न वस्तुतो यज्ञदत्तीयमित्यस्य यज्ञदत्तपिण्डावच्छिन्न भोक्तृत्वोपलक्षितचित्स्वामिकत्वाभाववदित्यर्थः । देवदत्तस्मरणे तादृशोपेतचित्स्वामिकत्वं च परेणाप्यङ्गीकृतम् । अन्यथैक्यमित्यस्य पारिभाषिकत्वापत्तेः । तथा च तस्य प्रतियोगिवैयधिकरण्यावच्छिन्नस्य साध्यत्वान्न सिद्धसाधनत्वादिकं व्यतिरेकासिद्धिश्चेति द्रष्टव्यम् ॥ इत्यादीनीति । देवदत्तसुखादिपक्षका(नुमाना)दीनीत्यर्थः ॥ द्रष्टव्येति ॥ तथा चानुकूलर्कसनाथत्वान्नाप्रयोजकतेति भावः ॥

(२५)काशीतिम्मण्णाचार्य

मिथो जीवभेदकानुमानान्तरमाह — एवमिति ॥ अत्र यज्ञदत्तान्तःकरणावच्छिन्नचैतन्यप्रतियोगिकधर्मिसत्तासमानसत्ताकभेदविशिष्टस्यैव साध्यत्वम् । चैतन्यावच्छेदकपदं तु चैतन्यनिरूपितस्य स्वभोग्यवृत्तिकत्वरूपावच्छेदकत्वस्य सम्बन्धत्वलाभार्थम् । नातः साध्याप्रसिद्धिः । तादृशभेदविशिष्टस्य घटादेः प्रसिद्धत्वात् । तस्य चोक्तसम्बन्धेन वृत्त्यसम्भवाच्चैतन्यावच्छेदकत्वमादायैव साध्यपर्यवसानादुद्धेश्यसिद्धिः ॥ तद्वृत्यनिवर्त्यनिवर्तकत्वादिति ॥ यज्ञदत्तान्तःकरणवृत्तिरूपं यज्ज्ञानं तदनिवर्त्यं यदज्ञानादि तन्निवर्तकवृत्त्यारम्भकत्वादित्यर्थः ॥

देवदत्तस्मरणमिति ॥ देवदत्तकर्तृकस्मरणं यज्ञदत्तप्रतियोगिकवास्तवतादात्म्यापन्नकर्तृकस्मरणान्यद् यज्ञदत्तकर्तृकानुभवाजन्यत्वादित्यर्थः । अत्र यद्यपि घटादेरन्वयदृष्टान्तत्वं सम्भवति । तथापि यज्ञदत्तीयस्मृतेस्तदीयानुभवजन्यत्वेन व्यतिरेकव्याप्तेः सुग्रहत्वात्तदनुसरणम् । अत्र च फलतो देवदत्तयज्ञदत्तयोर्भेदसिद्धिः । आदिपदेन देवदत्तानुभवो न वस्तुतो यज्ञदत्तीयो यज्ञदत्तस्मरणाजनकत्वाद् व्यतिरेकेण यज्ञदत्तानुभववदित्यादेः सङ्ग्रहः । देवदत्तस्मरणस्य यज्ञदत्तानुभवजन्यत्वादसिद्धिरित्याशङ्कां वारयति — न चेति ॥ न च मायिमते देवदत्तानुभवस्यैव यज्ञदत्तीयत्वादसिद्धिर्दुर्वारैवेति वाच्यम् । चैतन्यमात्राभेदेऽपि विशिष्टभेदेन तव तदीयत्वासम्भवात् । अन्यथा देवदत्तानुभूते यज्ञदत्तस्मरणप्रसङ्गात् । उक्तानुमानेषु विपक्षे बाधकमाह — आत्मनामिति ॥ सुखदुःखव्यवस्थानुपपत्तिः ॥ तत्सुखं तेनैवानुभूयत इत्यादिनियमानुपपत्तिः । चैत्रादेर्मैत्रादिसुखाद्यनुभवस्यापत्तिरिति यावत् ।

ननु सुखादिव्यवस्थायाः पारमार्थिकत्वे भवेत्स्वाभाविकभेदापेक्षत्वम् । न चैवम् । तस्याः काल्पनिकत्वादित्याशङ्कापनोदाय मन्दारमञ्जर्यामुपपादितेत्युक्तम् । तथाहि । काल्पनिकी व्यवस्था किं व्यवस्थापकमेव नापेक्षते । किं वा पारमार्थिकम् । आद्ये काल्पनिकजीवत्वादिव्यवस्थानिर्वाहायाविद्यादिकल्पनानर्थक्यप्रसङ्गः । द्वितीये काल्पनिकस्यापि व्यवस्थापकस्य स्वाभाविकभेदं विनाऽनुपपत्तेरित्यादिकं तत्र द्रष्टव्यम् ।

(२५)शर्कराश्रीनिवासाचार्य

जीवनामन्योन्यभेदसाधकानुमानान्याह — एवमिति ॥ अत्र यज्ञदत्तान्तःकरणस्य देवदत्तान्तःकरणावच्छिन्नचैतन्यभिन्नचैतन्यावच्छेदकत्वे यज्ञदत्तदेवदत्तयोर्भेदसिद्धिः ॥ देवदत्तेति ॥ यज्ञदत्तान्तःकरणावच्छिन्नं परिच्छिन्नं यच्चैतन्यं यज्ञदत्तचैतन्यं तस्माद्वस्तुतोभिन्नं यच्चैतन्यं देवदत्तचैतन्यं तस्यावच्छेदकं परिच्छेदकमित्यर्थः ॥ तद्वृत्तीति ॥ तद्वृत्त्या यज्ञदत्तान्तःकरणवृत्तिरूपज्ञानेनानिवर्त्यं देवदत्ताज्ञानं तन्निवर्तकत्वादित्यर्थः ॥ यज्ञदत्तान्तःकरणवदिति ॥ तत्र साध्याभावरूपयज्ञदत्तान्तःकरणावच्छिन्नचैतन्यावच्छेकत्वं वर्तते । तादृशचैतन्यं देवदत्तचैतन्यमेव । तदनवच्छेदकत्वात् । तथा तद्वृत्यनिवर्त्यनिवर्तकत्वाभावस्तद्वृत्तिनिवर्त्यनिवर्तकत्वं चास्ति । तद्वृत्त्या यज्ञदत्तान्तःकरणवृत्तिज्ञानेन । निवर्त्यं यद्यज्ञदत्ताज्ञानं तन्निवर्तकत्वादिति ध्येयम् । अत्रैवानुमानान्तरमाह — एवमिति ॥ अत्र देवदत्तयज्ञदत्तयोरभेदेन देवदत्तस्मरणस्यापि यज्ञदत्तानुभवजन्यत्वेन द्वितीयहेतोः स्वरूपासिद्धिरित्याशङ्क्य निराकरोति ॥ नचेति ॥

ननु जीवानामन्योन्यभेदसाधकानुमाने विपक्षे बाधकाभावादप्रयोजकत्वम् । नच तथात्वे सुखदुःखव्यवस्थानुपपत्तिर्बाधिकेत्युक्तमिति वाच्यम् । पारमार्थिकभेदाभावेन पारमार्थिकव्यवस्थानुपपत्तावपि तद्भिन्नव्यस्थाभ्युपगमे बाधकाभावादित्यत आह — आत्मनामिति ॥ पारमार्थिकव्यवस्थासम्भवेऽपि काल्पनिकीव्यवस्था सम्भवतीति चेत् सा किं व्यवस्थापकमेव नापेक्षते उत पारमार्थिकम् । नाद्यः । यक्षानुरूपबलिवदनुगुणव्यवस्थापकस्यावश्यकत्वात् । अन्यथाऽपारमार्थिकजीवादिव्यवस्थासिद्धयेऽविद्यानङ्गीकारप्रसङ्गात् । न द्वितीयः । अपारमार्थिकस्यापि व्यवस्थापकस्य स्वाभाविकभेदातिरेकेण निराकरिष्यमाणत्वादित्यादिमन्दारमञ्जर्यामुपपादिता काल्पनिकव्यवस्थाया अनुपपत्तिर्द्रष्टव्येत्यर्थः ।