एवञ्चात्मा धर्मिसत्तासमानसत्ताकात्मप्रतियोगिकभेदाधिकरणं ..
(२४)भेदोज्जीवनम्
(२४) एवञ्चात्मा धर्मिसत्तासमानसत्ताकात्मप्रतियोगिकभेदाधिकरणं द्रव्यत्वाद्धटवदित्यादीन्यन्यथासिद्धानि(दीन्यपि
सुस्थानि) । चैत्रशरीरं वस्तुतो मैत्रशरीरस्वामिभिन्नस्वामिकं तद्विरुद्धचेष्टाकशरीरत्वादित्यत्र मैत्रशरीरं व्यतिरेकदृष्टान्तः । जीवेशौ धर्मिसत्तासमानसत्ताकभेदवन्तौ विरुद्धधर्माधिकरणत्वात्सम्मतवत् । विरोधश्च न सहानवस्थाननियमलक्षणः । ऐक्यवादिनोऽसिद्धेः । किं तर्हि नित्यत्वानित्यत्वादाविव वध्यघातुकभावलक्षणः । तादृशश्च धर्मः सर्वज्ञत्वासर्वज्ञत्वादिः । न चोपाधिभेदमात्रेण तद्व्यवस्थोपपत्तिर्योगिनि तददर्शनात् ।
(२४)भावप्रदीपः
एवमुपन्यस्तानुमानानामाभासोद्धारेण पूर्वपक्षिणाऽऽशङ्क्य दूषितान्यप्यनुमानानि निर्दोषाणि सिद्धानीत्याह — एवञ्चेति ॥ आत्मनो द्रव्यत्वे आत्मत्वस्य जातित्वे च सिद्धे धर्मिसमसत्ताकेति भेदविशेषणे च विवक्षिते सतीत्यर्थः । आदिपदेनात्मत्वं नानाव्यक्तिनिष्ठं जातित्वात्पृथिवीत्ववदित्याद्यनुमानग्रहणम् । चैत्रशरीरपक्षकानुमानदोषं परिहरति — चैत्रशरीरमिति ॥ व्यावहारिकभेदमादाय सिद्धसाधनतावारणाय वस्तुत
इति । अत्र बलवत्कारणाभावे सतीति युगपदिति च हेतौ पूरणीयम् । तेनेन्द्रानभिमतखाण्डवदहनोद्योगिन्यर्जुनशरीरे कालभेदेन गमनशयनवति मैत्रशरीरे च न व्यभिचार इति ध्येयम् । बलवत्कारणं चेशेच्छादि ॥ व्यतिरेकदृष्टान्त इति ॥ तथा चान्वयदृष्टान्ताभावविवक्षया यद्दृष्टान्ताभाव इत्युक्तं तत्परिहृतं भवति । इदानीं विमतौ भिन्नावित्यनुमानदोषं परिहरति ॥ जीवेशाविति ॥ धर्मिसत्तासमानसत्ताकेति भेदविशेषणदानेन पारमार्थिकभेदसाधनेऽप्रसिद्धविशेषणता । व्यावहारिकभेदसाधने सिद्धसाधनमिति चोद्यानवकाश इति ध्येयम् ॥ ऐक्यवादिन इति ॥ आत्मैक्यवादिनो मतेऽज्ञतासार्वज्ञादिधर्माणामेकत्रैवावस्थानाङ्गीकारादिति भावः ॥ वध्यघातुकभावलक्षण इति ॥ अत्र वध्यत्वं नाम परप्रयोज्याभावप्रतियोगित्वम् । घातुकत्वं च परप्रतियोगिकाभावप्रयोजकत्वम् । अयं च गोव्याघ्रादौ नित्यत्वानित्यत्वादौ सर्वज्ञत्वासर्वज्ञत्वादौ च समानः । ननु न समानः । गोव्याघ्रादौ तमः प्रकाशादौ वध्यघातुकभावस्य समानाश्रयाश्रितत्वनियमात् । न च नित्यत्वानित्यत्वादौ समानाश्रयताऽस्ति । न हि नित्ये गगने कदाऽप्यनित्यत्वमस्ति । नापि सर्वज्ञ ईश्वरेऽसर्वज्ञत्वम् । एवमनित्ये घटादौ नित्यत्वं वाऽसर्वज्ञे जीवे सार्वज्ञं वा कदाऽप्यस्तीति चेत् । सत्यम् । अत्रापि समानाश्रयतया प्रसक्तयोरेव नित्यत्वानित्यत्वयोः सर्वज्ञत्वासर्वज्ञत्वयोर्वाऽभावप्रतियोगित्वाङ्गीकारेणाविरोधात् । एतावांस्तु विशेषः । गोव्याघ्रादौ वध्यघातुकभावप्रविष्टोऽभावो ध्वंसरूपः । नित्यत्वानित्यत्वादौ चात्यन्ताभावरूप इति । नन्वेवं तर्ह्यत्यन्ताभावप्रतियोगिनोरप्रामाणिकत्वनियमान्नित्यत्वानित्यत्वयोर्वा सर्वज्ञत्वासर्वज्ञत्वयोर्वाऽप्रामाणिकत्वापत्त्या कथं तदधिकरणत्वं गगनघटयोर्जीवेशयोर्वेति चेत् । सत्यम् । अन्यत्र प्रसक्तानामभावप्रतियोगित्वेनाप्रामाणिकत्वेऽपि स्वस्वाधिकरणे गगनघटादौ जीवेशादौ च नित्यत्वानित्यत्वादीनां सर्वज्ञत्वासर्वज्ञत्वादीनां च प्रामाणिकत्वात् । न च तेषामुक्तरूपवध्यघातुकभावानुपपत्तिः । स्वस्वाधिकरणे परस्परसजातीयसत्ताऽसहिष्णुत्वरूपत्वात्तस्य । न हि नित्यत्वं स्वाधिकरणे गगने प्रसक्तमनित्यत्वं सहते । नाप्यनित्यत्वं स्वाधिकरणे घटादौ प्रसक्तं नित्यत्वम् । एवं सर्वज्ञत्वमपि न स्वाधिकरण ईश्वरे प्रसक्तमसर्वज्ञत्वं सहते । नाप्यसर्वज्ञत्वं स्वाधिकरणे जीवे प्रसक्तं सर्वज्ञत्वम् । अत्र वध्यमपि तदेवाभिप्रेतम् । यद्धि प्रसक्तं सजातीयम् । ततश्च वध्याभिमतस्याप्रामाणिकत्वेऽपि घातुकाभिमतस्य प्रामाणिकत्वमेव । तथा च का नामानुपपत्तिः । जीवे प्रसक्तं यत्सर्वज्ञत्वं तत्सत्ताऽसहिष्णुतया तद्घातुकाभिमतं यदसर्वज्ञत्वं तस्यैव तत्र विरुद्धधर्मत्वेन विवक्षितत्वात् । एवमीश्वरेऽपि यत्प्रसक्तमसर्वज्ञत्वं तत्सत्ताऽसहिष्णुतया तद्घातुकाभिमतं यत्सर्वज्ञत्वं तस्यैवेश्वरे विरुद्धधर्मत्वेन विवक्षितत्वादिति । नन्वेवं विरोधस्य वध्यघातुकभावलक्षणत्वाङ्गीकरणं स्वव्याहतम् । स्वेनैव न्यायामृते द्वितीयपरिच्छेदे जीवब्रह्मणोर्भेदसाधकानुमाननिरूपणावसरे विरोधश्च यद्यपि न सहानवस्थानम् । अद्वैतिनं प्रत्यसिद्धेः । नापि वध्यघातुकभावः । नाजात एकोऽन्यं हन्ति नाप्यन्याधार इति न्यायेन तस्याभेदासाधकत्वादित्याद्युक्त्वा तथाऽपि परस्परात्यन्ताभावरूपत्वं वा परस्परात्यन्ताभावव्याप्यत्वं वा कालभेदेनापि सामानाधिकरण्यायोगत्वं वा विरोध इत्युक्तत्वात् । तथा च तत्र वध्यघातुकभावलक्षणं विरोधं निषिध्यात्र तदङ्गीकारे कथं न स्वव्याहतिरिति । उच्यते । द्विविधो हि वध्यघातुकभावः । परस्परविरहसामान्यप्रयोजकत्वरूपः । परस्परध्वंसमात्रप्रयोजकत्वरूपश्चेति । तत्राद्यविवक्षयैतद्ग्रन्थप्रवृत्तिः । द्वितीयविवक्षया न्यायामृते तन्निषेध इति न स्वव्याहतिरिति ॥ अत्र केचित् । नाजात एकोऽन्यं हन्ति नाप्यन्याधार इति न्यायात्सर्वज्ञत्वासर्वज्ञत्वयोर्भिन्नाधिकरणत्वे वध्यघातुकभाव एवानुपपन्न इति कथं तेन जीवेशयोर्भेदसमाधानमित्यालोच्यात्र वध्यघातुकभावशब्देन जहल्लक्षणया परस्परविरहरूपत्वं विवक्षितमित्याचक्षते । अन्ये तु परस्परविरहव्याप्यत्वमित्याहुः । तदुभयमपि चिन्त्यम् । उक्तरीत्या मुख्यार्थसम्भवेऽनुपपत्तेरभावात् । लक्षणाबीजस्य सम्बन्धस्य लाक्षणिकप्रयोगे प्रयोजनस्य वाऽनिरूपणाच्च । असर्वज्ञत्वपदेनाल्पज्ञत्वविवक्षायां तस्य सर्वज्ञत्वविरहरूपत्वायोगाच्चेति । नन्वत्र वध्यशब्देनात्यन्ताभावप्रतियोग्यप्रामाणिकमेव विवक्षितमिति यदक्तम् । तन्न । अत्यन्ताभावप्रतियोगिनः क्वचित्प्रामाणिकत्वस्याप्यङ्गीकार्यत्वात् । अन्यथेशेऽल्पशक्तिर्नास्तीति बुद्धेर्निर्विषयत्वं स्यादिति चेन्न । भूतले शशविषाणं नास्तीति बुद्धेरपि निर्विषयत्वापातात् । जीवेऽल्पशक्तेः प्रामाणिकत्वेऽपीशे जीवसाम्येन प्रसक्तायास्तस्या अप्रामाणिकतयाऽऽवश्यकत्वाच्च । ननु च सत्त्वासत्त्वे तावत्प्रामाणिके । ते च परस्परात्यन्ताभावरूपत्वात्परस्परप्रतियोगिभूते । तथा च कथमत्यन्ताभावप्रतियोगिनः प्रामाणिकत्वाभावनिश्चय इति चेन्न । घटादेः सत्त्वस्य तदसत्त्वात्यन्ताभावरूपत्वेऽपि न तत्रासत्त्वस्य प्रतियोगिभूतस्य प्रामाणिकत्वम् । एवं शशविषाणादेरसत्त्वस्य तत्सत्त्वात्यन्ताभावरूपत्वेऽपि न तत्र प्रतियोगिभूतस्य सत्त्वस्य प्रामाणिकत्वम् । एवञ्च सति कथमत्यन्ताभावप्रतियोगिनः प्रामाणिकत्वं प्रत्याशाकर्तुं शक्यते । अत एव न्यायामृतादौ विमतं मिथ्येत्यत्र सत्त्वासत्त्वात्यन्ताभावयोः साध्यत्वे व्याहतिदानं च सङ्गच्छते ।
`त्रिकालसर्वदेशीयनिषेधाप्रतियोगिता ।
सतोच्यतेऽध्यस्ततुच्छे तं प्रतियोगिनी'
इति न्यायामृतेऽध्यस्ततुच्छयोर्द्वयोरेवात्यन्ताभावप्रतियोगित्वकथनाच्च । न च तत्रैव तत्परीक्षाग्रन्थेऽश्वे गोत्वं कदाऽपि नास्तीत्यादौ तत्संसर्ग एव निषिध्यत इति मते देशपदमनपेक्षितमित्युक्तम् । तेन ज्ञायते स्वमतेऽश्वे निषिध्यमानगोत्वेऽव्याप्तिवारणार्थं सर्वदेशीयपदमपेक्षितमिति । ततश्चात्यन्ताभावो द्विविधः । सार्वदैशिकसार्वकालिकरूप एकः । सार्वदैशिकमात्रोऽन्यः । तत्र प्रथमाभावं प्रत्येवाध्यस्ततुच्छयोः प्रतियोगित्वं द्वितीयाभावं प्रति तु प्रामाणिकस्यापि गोत्वादेः प्रतियोगित्वमिति सेत्स्यतीति वाच्यम् । अभावद्वैविध्ये प्रमाणाभावात् । अश्वे निषिध्यमानस्य गोत्वस्य प्रामाणिकत्वायोगात् । तथा हि । किं गोत्वमश्वे प्रसक्तं निषिध्यतेऽप्रसक्तं
वा । आद्येऽध्यस्तमेव तत् । न द्वितीयः । अप्रसक्तप्रतिषेधायोगात् । प्रतिषेधप्रतिपादनमेव नियमेन प्रसक्तिसापेक्षं न तत्प्रतिपत्तिरिति चेत् । तथाऽपि यद्गोगतं गोत्वं तदेवाश्वे नास्तीति प्रतीयते । उत तत्सजातीयमन्यदेव । आद्येऽपि सकलगोगतं गोत्वमुतैकगोगतम् । नाद्यः सकलगोत्वानामज्ञातत्वेन तन्नास्तिताप्रतीत्ययोगात् । अश्वे गोत्वानि न सन्तीति प्रतीत्यापाताच्च । न द्वितीयः । तथा सति तद्गोत्वं नास्तीति प्रतीत्यापत्तेः । अन्त्ये तु तुच्छमेवैतत् । सकलसद्गोत्वसजातीयस्यान्यस्याभावात् । तस्मादश्वे नास्तीति निषेध्यं गोत्वमसदेव । ततश्चाश्वे गोत्वसंसर्ग एव निषिध्यते न गोत्वमिति मतमेव स्वमतम् । तत्र सर्वदेशीयपदमनपेक्षितमेव । संसर्गात्यन्ताभावप्रतियोगिनः संसर्गस्याप्रामाणिकत्वेन तदत्यन्ताभावस्य सर्वदेशीयतानियमात् । कारिकायां सर्वदेशीयपदं त्वभ्युपगमवादेन । अत्यन्ताभावस्वरूपकथनार्थं च । अन्यथा सर्वात्यन्ताभावेष्वप्रामाणिकप्रतियोगित्वानुगतिसूचनाय शशविषाणादीनामिति बहुवचनं प्रयुक्तमिति तत्त्वविवेकटीकीयमन्दारमञ्जर्यां स्पष्टमेवोक्तत्त्वात्तद्विरोधापातात् । सिद्धान्तेऽप्रामाणिकस्यैव निषेधप्रतियोगित्वादिति प्रमाणलक्षणटिप्पण्यां श्रीराघवेन्द्रतीर्थकृतायामुक्तत्वाच्च । विस्तृतं चैतदस्माभिर्निर्दोषत्ववादे । अतोऽत्रात्यन्ताभावस्य सिद्धान्ते तुच्छातुच्छोभयप्रतियोगिकत्वमप्यस्तीत्यभियोगेन सर्वज्ञत्वासर्वज्ञत्वादेः परस्परविरहरूपत्वाङ्गीकारेऽपि न प्रामाणिकत्वभङ्गो मन्तव्य इत्युपपद्यते । उपाधिखण्डनमन्दारमञ्जरीग्रन्थविरोधमाशङ्क्य तत्र कथञ्चिदनुपपत्त्यादिकमभिधाय प्रौढिवादेनैवासौ ग्रन्थः प्रवृत्त इत्यादि यत्कैश्चिदुक्तं तदश्रद्धेयमिवाभातीति चिन्त्यम् । न चेति ॥ स्वाभाविकैक्यसद्भावेऽपि मायाविद्यारूपोपाधिकल्पितभेदस्य सत्त्वात्तन्मात्रेणैव जीवेशयोः सर्वज्ञत्वासर्वज्ञत्वादिविरुद्धधर्मव्यवस्थोपपत्तिः । तथा च नानेन पारमार्थिकभेदसिद्धिरित्यर्थः ॥ तद्वति योगिनीति । औपाधिकभेदवति सौभर्यादियोगिनि परस्परमंशानामनुसन्धानस्यैव दर्शनेन ज्ञानाज्ञानसुखदुःखादिव्यवस्थाया अदर्शनादित्यर्थः ।
(२४)भेदचिन्तारत्नम्
॥ एवञ्चेति ॥ द्रव्यत्वादेः साधितत्वेनासिद्ध्यादेरभावात् पूर्वपक्षदूषितान्यपि पुनः सिद्धानीति भावः । आत्मत्वं नानाव्यक्तिनिष्ठं जातित्वात्पृथिवीत्ववदित्यादिरादिपदार्थः ॥ चैत्रेति ॥ सकलेत्युक्तदोषग्रासाय हेतौ शरीरत्वप्रवेशः । तर्हि दृष्टान्ताभावादित्युक्तमित्यतो व्यतिरेकेति । शिष्टं विचारितम् । नन्विन्द्रार्जुनादिशरीरेषु स्वाम्यैक्येऽपि विरुद्धाया रावणादिशरीरेषु तद्भेदेऽप्यविरुद्धायाश्चेच्छाया दर्शनादप्रयोजको हेतुः । मैत्रस्यैव जन्मान्तरीयशरीरेषु व्यभिचारश्चेति चेन्न । प्रतिज्ञायां भेदपदस्य द्वित्वनिर्वाहकधर्मसामान्यवाचित्वेनेन्द्रार्जुनादिशरीरावच्छिन्ने तावद्विशेषसद्भावात् । न चैवं चैत्रमैत्रयोरपि विशेषेणार्थान्तरता । तावताऽपि निर्विशेषवादविलयापत्तेः । वस्तुतस्त्विन्द्रार्जुनादिशरीरेष्वैक्यस्य प्रमितत्वाद्भेदे प्रमाणमात्राभावाच्च । सोमाभावे पूतिकस्येव विशेषपरिग्रहः । इह तु भेदस्यैव स्वरसता प्राप्ता । चशब्दाद्बाधकानां निरसिष्यमाणत्वान्मुख्यभेदस्यैव ग्रहो युक्तः । रावणादिशरीरे व्यापकव्यभिचारस्तु नास्माकं परिपन्थी । न चैवं जन्मान्तरीयशरीरे व्यभिचारः सुस्थ एव । तत्स्वामिनो विशेषस्याभावादिति वाच्यम् । हेतौ समानकालीनत्वस्य विशेषणात् । यद्वा मुख्यभेदः साध्यः । तत्र विरुद्धचेष्टाकत्वं नामान्योन्यायतनकसुखाद्यनुसन्धानानधिकरणत्वं विवक्षितम् । उक्तस्थलेऽनुसन्धानस्यैव सत्त्वान्न व्यभिचारादि । जन्मान्तरीयशरीरादिष्वपि स्तन्यादिना प्रवृत्त्या किञ्चिदनुसन्धानाङ्गीकारात् । उत्तरशरीरगतसुखदुःखाद्यनुसन्धानं पूर्वशरीरे नास्तीति तदा व्यभिचार इति चेन्न । अन्यतरानुसन्धानस्यापि विरोधशब्दार्थत्वादित्यलम् ॥ जीवेश्वराविति ॥ पारमार्थिकभेदसाधनेऽप्रसिद्धिः । न चेत्सिद्धसाधनतेत्युक्तदोषग्रहाय धर्मीत्यादि । विरोधस्सहानवस्थाननियमश्चेत्स हि भिन्नाधिकरणत्वनियतो जीवेश्वरभेदसिद्धेः पूर्वमसिद्धमित्यत आह — विरोधश्चेति ॥ नन्वेवं चेद्विरुद्धो हेतुः । नाजात एकोऽन्यं हन्ति नाप्यन्याधार इति न्यायेन वध्यघातुकयोरेकाधिकरण्यावश्यम्भावात् । किञ्च सर्वज्ञत्वासर्वज्ञत्वयोरुक्तविरोधासिद्धिः । नित्यत्वानित्यत्वयोरप्युक्तविरोधाभावाद्दृष्टान्तायोगश्चेति चेन्न । इह वध्यघातुकत्वं नाम प्रतियोग्यभावत्वमिति विवक्षणात् । अङ्गीकृत्येदमुदितम् । सहानवस्थान एव विरोधस्तद्वांश्च धर्मो जीवत्वेश्वरत्वनियम्यत्वनियामकत्वरूप एवास्तु । न चैवमसिद्धिः । साध्यसन्देहाहितो हेतुसन्देहो न दोष इत्युक्तत्वात् । सहानवस्थाननियमो नाम नेदं सहावस्थातुमर्हतीति निर्बाधविषयत्वम् । बाधकं निराकरिष्यते । अथवा पारमार्थिकत्वव्यावहारिकत्वौदासीनभेदमात्रसापेक्षत्वं विरोधः स च व्यावहारिकभेदवादिनस्तु नासिद्धः । यद्वा जीवेश्वरयोरसङ्करव्यवहारार्थं वादिद्वयाङ्गीकृततदसाधारणशब्दघटितलौकिकवैदिकव्यवहारेष्वन्योन्यनिष्ठत्वेनाव्यवह्रियमाणधर्माधिकरणत्वमिति दिक् ॥ तद्व्यवस्थेति ॥ सार्वज्ञादिव्यवहारस्येत्यर्थः । तथा च भेदाभावे व्यवस्था न स्यादिति हेतूच्छित्तितर्कस्याप्रसिद्धत्वादप्रयोजको हेतुरिति भावः । नानादेहगतांशेष्वन्योन्यमौपाधिकभेदवत्यपि योगिन्यंशभेदेन सार्वज्ञासार्वज्ञरूपवैलक्षण्यादर्शनादौपाधिकभेदेनान्यथासिद्धिरिति भावः । नन्वारोपे सति निमित्तानुसरणं न तु निमित्तमस्तीत्यारोप इति चेन्न । विप्रतिपन्नस्थले क्वापि व्यावहारिकभेदेनोक्तव्यवस्थानुपलम्भेन निमित्तत्वस्यैव भञ्जनात् । ननु विरुद्धधर्मयोर्विशिष्टवृत्तित्वेन जीवेश्वरपदाभिप्रेतचैतन्ये तदसिद्धिरिति चेन्न । विशिष्टपदोक्तविशेषणद्वयस्यैव हेतुत्वात् । न च तदपि विशिष्टयोरेवेति वाच्यम् । अविद्याविशेषणयोरेव हेतुत्वात् ।
(२४)भेदचन्द्रिका
॥ एवञ्चेति ॥ आत्मनो द्वित्वगुणाश्रयत्वसमर्थनेन द्रव्यत्वसिद्धावित्यन्वयः । गुणाश्रयत्वसमर्थनेन द्रव्यत्वसिद्धावित्यर्थः ॥ चैत्रशरीरमिति ॥ व्यावहारिकभेदमादाय सिद्धसाधनतावारणाय वस्तुत
इति । न चाप्रसिद्धविशेषणतेति वाच्यम् । वस्तुतो मैत्रशिरीरस्वामितादात्म्यापन्नस्वामिकं न भवतीत्यभावसाध्यकत्वात्तत्र च साध्याप्रसिद्धिर्न दोष इत्युक्तं प्राक् ॥ विरुद्धचेष्टाकत्वादिति ॥ मैत्रशरीरचेष्टाविरुद्धचेष्टाकशरीरत्वादित्यर्थः । एवञ्चैकस्वामिकयोर्घटपटयोर्न व्यभिचारः । प्रागुक्तमन्वयदृष्टान्ताभावमङ्गीकृत्य व्यतिरेकदृष्टान्तमाह — मैत्रशरीरमिति ॥ न च कालभेदेन मैत्रशरीर एव गमनागमनयोर्विरुद्धचेष्टयोर्दर्शनाद्व्यभिचार इति वाच्यम् । एककालावच्छेदेनेति हेतुविशेषणात् । न च तथाऽपि खाण्डवदहनाज्ञानदर्शनानुकूलविरुद्धचेष्टादर्शनादिन्द्रार्जुनशरीरयोर्व्यभिचार इति वाच्यम् । उभयवादिसम्प्रतिपन्नं यदेकस्वामिकं तच्छून्यत्वे सतीति विशेषणात् । इन्द्रार्जुनशरीरयोस्त्वावयोरेकस्वामिकत्वसम्प्रतिपत्तेर्न व्यभिचारः । अत एव न सौभर्यादिशरीरे व्यभिचारः । न चाप्रयोजकता । परस्परगतदुःखानुसन्धानप्रसङ्गरूपविपक्षे बाधकतर्कसनाथत्वात् । अत एव नोपाधिसत्प्रतिपक्षाभाससाम्यशङ्का ॥ जीवेश्वराविति ॥ न च जीवस्यापि धर्मित्वात्तत्सत्तासमानसत्ताकभेदवत्त्वं परस्याभिमतमिति सिद्धसाधनतेति वाच्यम् । दत्तोत्तरत्वात् ॥ वध्यघातुकभावलक्षण इति ॥ परस्परात्यन्ताभावरूपत्वलक्षणस्तद्व्याप्यत्वलक्षणो वेत्यर्थः । तेन नाजात एकोऽन्यं हन्ति नाप्यन्याधार इति न्यायेन वध्यघातुकभावापन्नज्ञानेच्छाधारे तदापन्नतमः प्रकाशाधारे न व्यभिचारः । संयोगतदत्यन्ताभावयोस्तु नावयोरेकाश्रयत्वमिति तदाधारे न व्यभिचारः । अत एव नित्यत्वानित्यत्वादाविवेति सङ्गच्छति । न हि तत्र नाश्यनाशकभावः सम्भवति । अत एवेत्थमेव न्यायामृतेऽपि बोध्यम् ।
‘अल्पशक्तिरसार्वज्ञं पारतन्त्र्यमपूर्णता ।
उपजीवकत्वं जीवत्वमीशत्वं तद्विपर्ययः ।
स्वाभाविकं तयोरेतन्नान्यथा तु कथञ्चने’ त्यादिश्रुतेर्नासिद्धिः ।
ननु सिद्धान्तेऽत्यन्ताभावस्य तुच्छमात्रप्रतियोगिकत्वेन सर्वज्ञत्वादीनां परस्परात्यन्ताभावरूपत्वे तद्व्याप्यत्वे वा तुच्छत्वापत्तिः । तदाधारत्वस्य पक्षे दृष्टान्ते चासिद्धिः । तुच्छस्येतरात्यन्ताभावसाध्ययोर्व्याप्यत्वायोगश्च । न च तार्किकरीत्याऽयं प्रयोग इति नोक्तदोष इति वाच्यम् । ‘संयोगतदत्यन्ताभावयोस्तु नावयोरेकाश्रयत्वमिति न व्यभिचार’ इति न्यायामृतीयोत्तरवाक्यविरोधात् । ततः कथमिति चेत् । उच्यते । अत्यन्ताभावस्य न तुच्छमात्रप्रतियोगिकत्वं किन्तु तुच्छप्रतियोगिकत्वं न तु तात्त्विकमत इवातुच्छमात्रप्रतियोगिकत्वं न वा समवायविशेष्यकसंसर्गित्वमित्याशयेनैवायं प्रयोगः । अत एव निरवधिकाभावः सदा भाव इति लक्षणात् । न तु तुच्छप्रतियोगिक इति । भवति च जीवे सर्वज्ञत्वाभावो निरवधिक एवमीशे जीवधर्माभावोऽपि । अन्यथेशेऽल्पशक्तिर्नास्तीत्यादिबुद्धेर्निर्विषयत्वं स्यात् । न चेयमीशाल्पशक्तिसंसर्गाभावविषयिणीति वाच्यम् । संसर्गस्य प्रतियोगिकोटावनुल्लेखात् । बुद्धेः शब्दवद् व्याख्यानायोगात् । ईशत्वं तद्विपर्यय इति उदाहृतश्रुतिविरोधाच्च । अन्यथेह धटो नास्तीत्यग्रे भविष्यतीत्यादिप्रागभावादिबुद्धेरपि संसर्गप्रागभावविषयत्वापातेन घटादीनां प्रागभावादिप्रतियोगित्वमपि न स्यात् । तस्मादतुच्छप्रतियोगिकोऽपि सिद्धान्तेऽत्यन्ताभावोऽस्त्येवेत्याशयो ग्रन्थकारस्य । अत एव न्यायामृते सत्त्वासत्त्वात्यन्ताभावयोः साध्यत्वे व्याहतिदानं लाघवादावश्यकत्वादसत्त्वात्यन्ताभाव एव सत्त्वमिति स्वीकारात् । ‘द्वौ नञौ प्रकृतमर्थं सातिशयं गमयत’ इति न्यायेनैकतरनिषेधस्यान्यतरविधिरूपत्वात् । मे माता वन्ध्येतिवद्व्याघात इति । मया त्रिकालसर्वदेशीयनिषेधाप्रतियोगित्वतत्प्रतियोगित्वे सत्त्वासत्त्वस्वीकारादिति इति च सङ्गच्छते । परन्तु कदाचिद्धटवत्येव भूतले समयान्तरे प्रतीयमानस्तदभावो न सिद्धान्तेऽत्यन्ताभावः । तस्यामूर्तत्वेनान्यत्र गमनागमनायोगेन घटवत्यपि तदभावबुद्धेः प्रमात्वापातात् । न च समवायविशेषस्य संसर्गतया तेन सम्बन्धेन स नास्तीति कथं प्रमेति वाच्यम् । समवायविशेषस्य संसर्गत्वे प्रमाणाभावात् । अन्यथा सर्वं सर्वत्रास्त्येव । समवायविशेषरूपसंसर्गाभावादप्रतीतिविरुद्धप्रतीतिरित्यपि स्यात् । किन्तु यथायथं घटतद्भूतलसंसर्गप्रागभावादिः । न च शब्दवत्तत्प्रतीतिव्याख्यानमनुपपन्नमिति वाच्यम् । अनन्यगत्या तत्र तथा स्वीकारात् । एतदभिप्रायिक एव भूतले घटाभावबुद्धेर्विषयो न वाच्यः प्राचां यत्र तद्भूतले घटसंसर्गः कदाऽपि न तत्र तत्सम्बन्धात्यन्ताभावविषयोक्तिस्त्वनवस्थैव । उक्तरीत्या तत्र घटात्यन्ताभावविषयत्वस्यापि सम्भवात् । अथवा तत्रापि प्रतीतिर्न व्याख्येया । प्रतियोगिसमवायिदेश इव तदन्यदेशेऽपि कालादादिव घटप्रागभावादिसत्त्वं तयोर्न विरुद्धम् । इह भूतले इदानीं घटो नास्ति अग्रे भविष्यति प्रागभूद्वेति प्रतीतेः । न च तथाऽप्यविद्यमानस्यैव घटादेः समवायान्यदेशवृत्तिप्रागभावप्रध्वंसप्रतियोगित्वमागतं न तु देशान्तरवृत्तेः । प्रतियोगित्वं वर्तमानस्यैव प्रागभावादिविरोधित्वादिति तदर्थप्रतीतिव्याख्यानं दुर्वारमिति वाच्यम् । एतस्मिन्भूतले स घटो भविष्यदभूद्वेति । अस्माकं समग्रो भविष्यत्यभूद्वेति विद्यमानस्यापि प्रागभावादिप्रतियोगित्वबुद्धेरविशेषेण न्यायेऽत्यन्ताभाव इव तत्तदधिकरणे तत्तत्कालावच्छेदेन तत्तत्सम्बन्धेन प्रतियोगित्वस्यैव प्रागभावादिविरोधकल्पनया तत्र हि तत्सह विरोधेन तत्राप्रतीतेरव्याख्यानात् । न चैवमेकघटप्रतियोगिकनानाप्रागभावापातः प्रतीतेरुपलम्भायोगात् । संसर्गप्रागभावविषयत्वादीति चेन्न । प्रतीतिव्याख्यानायोगेन प्रामाणिकगौरवस्य सोढव्यत्वात् । अन्यथा प्रागभावादाविवात्यन्ताभावेऽपि प्रतियोगिवर्तमानत्वस्यैव विरोधिकल्पनेन तद्बुद्धेरपि संसर्गात्यन्ताभावबुद्धित्वं को वारयिता । अति लाघवेन सत्त्वमात्रस्यैवात्यन्ताभावविरोधकल्पनया सर्वत्र सत्प्रतियोगिकात्यन्ताभावबुद्धिः संसर्गात्यन्ताभावविषयत्वमत्यन्ताभावस्य त्वसन्मात्रप्रतियोगिकत्वं को निवारयितेति दिगित्यपि केचित् । ननु ग्रन्थकृत एवमाशयवर्णने मन्दारमञ्जरीविरोधः । तथा हि तत्र भेदग्राहिप्रत्यक्षे बाधाभावव्युत्पादनावसर उक्तम् । स्वं बाधाभाव एव हेतुः । स्वशब्दश्च भेदग्राहिप्रत्यक्षपरः । न च तत्प्रसिद्ध्यप्रसिद्धिभ्यां तदभावस्य दुर्वारमिति वाच्यम् । अत्यन्ताभावस्य प्रतियोगिसत्त्वानपेक्षणात् । ज्ञानन्त्वसतोऽपि साधितमेव । ननु कथमभावो निष्प्रतियोगिकः स्यादिति चेन्न । किमिदं निष्प्रतियोगिकत्वम् । प्रतियोगिप्रतीतिनिरपेक्षत्वं वा प्रामाणिकप्रतियोगिहीनत्वं वा । नाद्यः । अनुक्तोपलम्भात् । न ह्यस्माभिरत्यन्ताभावप्रतीतिः प्रतियोगिप्रतीतिनिरपेक्षेत्युक्तम् । किन्तर्हि प्रसक्तप्रतिषेध इत्युक्तम् । न द्वितीयः । अभावत्वं निष्प्रतियोगित्ववत् । सत्त्वसाक्षाद्व्याप्यधर्मत्वाद्भावत्ववदित्यनुमानेन निष्प्रतियोगिकाभाव साधनात् । अथ भूतलान्तरे घटे विद्यमाने इह भूतले घटो नास्तीति घटस्याभावोऽनुमीयते । अयं प्रागभावध्वंसाभावयोरन्यतरः प्रतियोग्यसमानकालीनत्वात्तयोर्नाप्यन्योन्याभावः । भूतलं घटो न भवतीति प्रसङ्गात् । ततः परिशेषादत्यन्ताभाव एव गम्यते । ततश्चात्यन्ताभावः कथं निष्प्रतियोगिकः स्यादिति चेन्न । इह भूतले घटो नास्तीत्यादौ भूतलघटसंयोगस्यैव निषिध्यमानत्वात् । अवश्यं चैतत्त्वयाऽप्यङ्गीकरणीयम् । घटस्य भूतलान्तरे सत्त्वेन स्वरूपेण निषेधायोगात् । एतद्भूतलसंसृष्टत्वाकारेण निषिध्यत इति चेत् । तर्हि प्राप्ताप्राप्तविवेकेन संसर्ग एव निषिध्यत इत्यायातम् । सविशेषणे हि विधिनिषेधौ सति विशेष्यबाधे विशेषणमुपसङ्क्रामत इति न्यायात् । कथं तर्हि घटो नास्तीत्यत्र घटशब्दोपादानमिति चेत् । भूतल इत्यधिकरणसप्तम्या भूतलस्याश्रयत्वेऽभिहिते आश्रयत्वप्रतिसम्बन्धिन्याधेयत्वे चार्थाद्युक्ते किन्निष्ठाधेयतेत्यकाङ्क्षायां घटनिष्ठेत्यावेदयितुं घटशब्दोपादानात् । एवञ्चेह भूतले घटो नास्तीत्यत्रापि भूतलघटयोराधाराधेयभावो निषिध्यत इति स्थितम् । तत्र यदि नाम तयोराधाराधेयभावः प्रागभूत्तदाऽयमनुभवस्तत्प्रध्वंसविषयकः । यदि तु भविष्यति तदा प्रागभावविषयकः । यदि न जातो न भावी तदा तदत्यन्ताभावविषयकः । एवञ्च शशविषाणं नास्तीत्यादेः शशविषणं नास्तीत्याद्यपि न कल्पनीनयम् । तत्राप्यप्रामाणिकस्य शशविषाणस्यैव प्रतियोगित्वोपपत्तेः । तस्मादत्यन्ताभावस्य निष्प्रतियोगिकत्वात्स्वबाधात्यन्ताभावो हेतुरिति न कश्चिद्दोष इति । ततः कथमेवमाशयवर्णनमिति चेत् । उच्यते । न तावदनुमानविरोधः । तुच्छप्रतियोगिकात्यन्ताभावस्यापि स्वीकारेणाभावत्वस्य निष्प्रतियोगिकनिष्ठत्वात् । निष्प्रतियोगिकमात्रनिष्ठत्वं न तु साध्यार्थः । बाधात् । भावत्वे च व्यभिचाराच्च । हेतूकृतसत्त्वसाक्षाद्व्याप्यधर्मत्वं यद्यपि सत्त्वव्याप्यत्वे सति तद्व्याप्यत्वम् । अभावपृथिव्यन्यतरव्याप्यत्वे सति तदभावस्यासिद्ध्यापत्तेः । नापि तद्व्याप्यजात्यव्याप्यत्वे सति तद्व्याप्यत्वम् । प्रागभावत्वे व्यभिचारात् । तथाऽपि सत्त्वसाक्षाद्विभाजकोपाधित्वम् । तदपि भावाभावभेदेन सद्विभागं कुर्वतो मते स्वतन्त्रसद्विरुद्धविभागवादादसिद्धिरिति न मन्तव्यम् । तथा च नानुमानविरोधः । अथ भूतलान्तर इत्यादि ग्रन्थस्तु न साधुसन्दर्भः । तथा हि । अभावत्वस्य निष्प्रतियोगिकनिष्ठत्वं तुच्छप्रतियोगिकनिष्ठत्वं तुच्छप्रतियोगिकात्यन्ताभावत्वे तदन्यत्वे वा सत्यभावात् । प्रकृतस्य स्वबाधकविरहस्य हेतूकृतस्य निष्प्रतियोगिकत्वेऽभावत्वकथन्तायाः समाहितत्वात् । न ह्यत्यन्ताभावमात्रस्य निष्प्रतियोगित्वमनुमानार्थो येन ग्रन्थसन्दर्भः शुद्धः स्यात् । अवश्यं चैतत्त्वयाऽप्यङ्गीकरणीयमित्याद्यपि न नैय्यायिकभयावहम् । तेनाधिकरणान्तरे सत एव घटस्य स्थलान्तरे स्वरूपेणैव निषेधाङ्गीकारात् । एतावान्परं विशेषः । शशशृङ्गादिकं सद्भिः सर्वत्र निषिध्यत इत्युच्यते न तु घटोऽधिकरणविशेषे स्वरूपेण निषिध्यत इत्युच्यते । न पुनर्भूतलसंसृष्टत्वरूपविशेषाङ्गीकारेण सुन्दरो देवदत्तो नास्तीत्यादाविव विशेषणस्य प्रतियोगितावच्छेदककोटावनुपादानात् । अभिमतसंसर्गावच्छिन्ना प्रतियोगिता परं संसर्गमर्यादया भासत इत्यङ्गीकारात् । यदि चाधेयताया घटनिष्ठताज्ञापनाय घटशब्दोपादानं स्यात्तर्हीह घटो नास्तीत्यग्रे भविष्यतीत्यादावपि घटशब्दोपादानस्य तदेव फलं भविष्यतीति प्रागभावादेरपि न घटप्रतियोगिकत्वं स्यात् । अपि त्वाधाराधेयप्रतियोगिकत्वमेव स्यादिति न तस्मादयं ग्रन्थः प्रौढिवादेन प्रागुक्तसामग्रिकात्यन्ताभावनास्तित्वतात्पर्यक एव वक्तव्यः । अत एव मन्दारमञ्जर्यामेव सत्यत्वनिरुक्तिप्रस्तावे निषेधाप्रतियोगित्वमिति चेन्न ।धटादेरपि निषेधप्रतियोगित्वेन लक्षणासम्भवात् । त्रैकालिकनिषेधाप्रतियोगित्वमिति चेन्न । अश्वत्वस्य गवि त्रैकालिकनिषेधप्रतियोगित्वेन तत्राव्याप्तेः । न हि गौः कदाचिदप्यश्वत्वाश्रय इत्यादिग्रन्थः । अश्वत्वादेरत्यन्ताभावप्रतियोगित्वाङ्गीकारपरो दृश्यते । अन्यथा तत्रैव पूर्वोत्तरविरोध उदाहृतन्यायेन न्यायामृतवाक्यविरोधः स्यादिति । अत एवानिर्वाच्यत्वसाधकनिषेधप्रतियोगित्वान्यथाऽनुपपत्तिभङ्गे न्यायामृते — ‘किञ्चेह भूतले घटो नास्तीत्यादिना पराभिमतसामयिकात्यन्ताभावबुद्धेरेव संसर्गाभावविषयत्वव्युत्पादनं न तु गव्यसत्त्वाभावं बुद्धे’र्दृश्यते । तथा हि । किञ्चेह भूतले घटो नास्तीति धियः संसर्गाभावो विषयो न तु घटाभावः । इह भूतले घटो नास्तीत्यत्र संयोगो निषिध्यत इत्युदयनोक्तेः । भूतले घटोऽस्तीति बुद्धेस्तत्सम्बन्धविषयत्वे नास्तीति बुद्धेरपि तदभावविषय
त्वाच्च । किञ्च न तावदयं घटस्य प्रागभावो ध्वंसो वा प्रतियोगिसमानकालीनत्वात् । नाप्यत्यन्ताभावः । कदाचित्तत्र घटस्य सत्त्वात् । यदि चैतत्कालावच्छेदेनात्यन्ताभावस्तर्हि अत्यन्ताभावातिरिक्तः प्रागभावादिर्न सिध्येत् । संयोगस्य तु भूतले भूतलत्वे ध्वंसो भावित्वे प्रागभावः कदाऽप्यभावे त्वत्यन्ताभाव इत्यसतः संसर्गस्य प्रतियोगित्वसिद्धिः । न च घटे सन्नेव संसर्ग इह निषेध्यः । तस्यापि घटतुल्यत्वेन प्रागभावादिकल्पनाप्रसरात् । यदुक्तं वर्धमानेन घटात्यन्ताभावस्तर्ह्यत्यन्ताभावातिरिक्तः प्रागभावादिर्न सिध्येत् । संयोगस्य तु भूतल एवायम् । घटकाले त्वसम्बन्धान्न भवति । घटात्यन्ताभावस्य भूतलेन सहसम्बन्धश्च तत्संयोगध्वंसादिः । अथवा प्रतियोगिभेदेनेव प्रतियोगितावच्छेदकभेदेनाप्यभावभेदात् । संयुक्तघटाभावोऽयं विशिष्टान्तराभाववदुत्पादविनाशशाल्यप्यन्य एवेति । तत्र नाद्यः । अभावाधिकरणयोः सम्बन्धान्तरमन्तरेण तदुपश्लिष्टस्वभावत्वरूपक्लृप्तसम्बन्धत्यागेन संयोगध्वंसादेः सम्बन्धत्वकल्पनेऽऽवश्यकसंयोगध्वंसादेरेव तद्धीविषयत्वोपपत्तेः । अन्यथा घटस्य कपालेष्वत्यन्ताभाव एव घटकालत्वाश्रयाश्रयिभावध्वंसादिरूपसम्बन्धाभावादप्रतीतेरिति । घटात्यन्ताभावः केवलान्वयी स्यात् । न द्वितीयः । संयोगस्य निषेध्यकोटित्वादिष्टासिद्धेः । दण्डे सत्यपि पुरुषाभावेन दण्ड्यभाववद्भूतलसंयोगवत्यपि घटाभावेन संयुक्ताभावस्यादर्शनेन क्लृप्तैः संयोगप्रध्वंसादिभिरेव सर्वोपपत्तावुत्पादविनाशशीलसंयुक्ताभावान्तरकल्पनायोगाच्चेति । अत एव न्यायामृते सत्त्वनिरुक्तिप्रस्तावे त्रिकालसर्वदेशीयनिषेधाप्रतियोगिता सत्तोच्यते । अध्यस्ततुच्छेतं प्रति प्रतियोगिनीति सत्त्वलक्षणमभिधाय परीक्षावसरेऽश्वे गोत्वं कदापि नास्तीत्यादौ तत्संसर्ग एव निषिध्यत इति मते देशपदमनपेक्षितमित्युक्तम् । न च तदपि स्वमतमेव न्यायरीत्या देशपदं मन्मते तु नापेक्षितमिति तदर्थ इति वाच्यम् । तथात्वे गगनादेरप्यत्यन्ताभावो केवलान्वयीत्युक्तत्वान्न गगनादावव्याप्तिरितिवदश्वादेरत्यन्ताभावप्रतियोगित्वं नेति न तत्राव्याप्तिरिति वक्तव्यम् । न तदुद्धाराय सर्वदेशीयपदं देयम् । अन्यथा न्यायनये गगनादावव्याप्त्युद्धाराय पदान्तरं देयं स्यादिति । तस्मादत्यन्ताभावस्य तुच्छमात्रप्रतियोगिकत्वं ग्रन्थकर्तुरभिमत एवेति । केचित्त्वत्यन्ताभावस्य तुच्छमात्रप्रतियोगिकत्वं साधयन्त इत्याहुः । प्रध्वंसप्रागभावयोस्तावत्प्रतियोगिना सह कालिको विरोध इति परस्यापि सम्मत इति । तत्र प्रतियोगिना सह कालिकविरोधितावच्छेदकं प्रध्वंसत्वं प्रागभावत्वं चेति नाना वक्तव्यम् । ततो वरं लाघवात् । संसर्गाभावत्वमेवैकमिति घटकालीनतदत्यन्ताभावः सिध्यति । एकरूपेण विरोधकल्पनोपपत्तावत्यन्ताभावस्य दैशिको विरोध इतरयोस्तु कालिक इत्यर्धजरतीयानुपपत्तेः । नन्वेवं ततोऽपि लाघवादभावत्वमेव विरोधितावच्छेदकमस्तु । एवं सति घटकालेऽपि घटान्योन्याभावोऽपि न सिद्धः स्यात्किन्त्वत्यन्ताभाव इवान्योन्याभावोऽप्यसत्प्रतियोगिक एव स्यादिति चेन्न । मन्मतेऽन्योन्याभावस्याभावत्वाभावेनाभावस्य त्रिविधत्वात् । तदुद्भावितानिष्टापादनमापादकाभावादभावत्वस्यैव लाघवाद्विरोधितावच्छेदकत्वे अस्मदिष्टस्यैव सिद्धेः । तदुक्तं भगवत्पादैः —
`प्राक् प्रध्वंससदात्वेन त्रिविधोऽभाव इष्यते । भावाभावस्वरूपत्वान्नान्योन्याभावता पृथगि’ति ।
नन्वेतावताऽपि धर्म्यात्मकत्वेनान्योन्याभावस्य भावनिष्ठे तस्मिन्भावत्वेऽप्यभावनिष्ठे तदस्त्येवेति चेत् तावताऽपि प्रागभावादित्रयाणामेवान्योन्याभावरूपत्वेन तेषां प्रतियोगिसमानकालीनत्वं
नास्तीत्युक्तं स्यात् । तदस्माकमिष्टमेवेत्यवोचामेवेति । नन्वेवं वायौ रूपात्यन्ताभावो न स्यादिति चेन्न । इष्टापत्तेः । न चैवं वायौ रूपापत्तिः । किं रूपमात्रसद्भाव आपाद्यते वा वायुरूपसद्भावो वा । नाद्यः । घटादौ रूपस्य सत्त्वेनेष्टापत्तेः । न द्वितीयः । वायावित्यधिकरणरूपकारकविभक्तेरुल्लेखात्कारकाणां क्रिययैवान्वयात् । वाय्वधिकरणरूपकर्तृसद्भावरूपक्रियाविशेषणस्यैव शब्दमर्यादया प्रतीतेर्जनकज्ञानस्य च शाब्दबोधसमानाकारकतया वायुरूपसंसर्गविशेषविषयत्वात्तस्य तुच्छत्वेन तदत्यन्ताभावस्यापि वायौ सम्भवान्न कोऽपि चोद्यावकाशः । ननु तादृशसंसर्गस्याकालिकत्वेन कथं तज्ज्ञानं येनापादनमपि वक्तुं शक्यत इति चेत् । कविकाव्यमूलभूतोत्प्रेक्षाज्ञानं चेदाहार्यत्वात्तस्य । अत एव प्रतियोग्यधिकरणसंसर्गारोपोऽपि तत्र कारणमिति त्वदीयसाम्प्रदायिकाः । एतावान्परं विशेषः । तैस्तादृशज्ञानस्य स्वतन्त्रकरणतः स्वीक्रियते । अस्माभिस्तु तदेव प्रतियोगिज्ञानमित्यास्थीयत इति । अत एव वायौ रूपं नास्तीत्यभावप्रतीतिरपि वाय्वधिकरणकरूपकर्तृकसत्तामेव निषेध्यत्वेन विषयीकरोति शाब्दबुद्धिसमानाकारत्वाच्छब्दप्रयोगकरणबुद्धेः । अन्यथाऽतिप्रसङ्गात् । शब्दात्तु वायौ रूपमस्तीति यत्तन्नेत्येव प्रतीतिः । अधिकरणे सप्तम्यनुशासनात् । वाय्वाद्यधिकरणकरूपकर्तृकसत्तायास्त्वलीकत्वाद्युक्तं सार्वात्रिकात्यन्ताभावप्रतियोगित्वम् । अत एव न सुरां पिबेदित्यादावपि बलवदनिष्टाननुबन्धित्वरूपलिङन्तक्रियापदार्थांश एव निषेधान्वय इति तवाऽपि सम्मतम् । रूपाभाववान्वायुरित्यादावपि निषेध्यतया प्रतीयमानं रूपं वायवीयमेव । वायौ स्वीयं रूपं नास्तीत्यप्रतीतेः । अन्यनिष्ठरूपस्यान्यत्राभावमादाय तत्प्रतीतौ घटादावापि रूपं नास्तीत्यादिप्रतीत्यापत्तेः । अत एव तादृशस्थले नञ्प्रसज्यप्रतिषेधमाक्षिपति । उक्तं च —
`अप्राधान्यं विधेर्यत्र प्रतिषेधे प्रधानता ।
प्रसज्यप्रतिषेधोऽयं क्रियया सह यत्र नञि’ति ।
अत एव संयोगाभावं बुबोधयिषवो भूतले घटो नास्तीत्येव प्रवक्तारो निरस्ताः । एतेन भूतले घटो नेत्येव प्रयोक्तारो निरस्ताः `अव्ययं विभक्ती’त्यादिनाऽर्थाभावे यदव्ययं तत्तेन सह नित्यसमासाम्नानाव्द्यस्तप्रयोगस्य साधुत्वात् । धटो नास्तीत्यादौ `सुप्सुपे’त्यनुवृत्तेस्तिङन्तेन सह समासाप्रसङ्गादेव नासाधुत्वशङ्कावकाशः । न च घटः घटो नेत्यत्रासाधुत्वापत्तिः । विभाषाधिकारे नञ्समासाम्नानात् । न च तत्राप्यव्ययीभावप्रसङ्गः । अर्थाभाव इत्यर्थशब्दोपादानमहिम्ना संसर्गाभाववाचकनञैव समासविधानेनान्योन्याभावस्थले तत्प्राप्तेरेवाभावादितीति । तस्माद्वायौ रूपं नास्तीति शब्दजन्या बुद्धिर्वाव्यधिकरणकरूपकर्तृकसत्त्वनिषेधमेव गोचरयतीति तादृशोल्लेखवती प्रत्यक्षबुद्धिरपि प्रमेयं गोचरयतीति सिद्धमत्यन्ताभावस्यासत्प्रतियोगिकत्वम् । अवश्यं चैतदेवम् । अन्यथा घटो नास्ति घटौ न स्तः घटा न सन्ती वचनव्यवस्था । देवदत्तो नास्ति त्वं नास्यहं नास्मीति पुरुषव्यवस्था च न स्यात् । अस्तित्वं प्रत्यक्षाभावस्य कर्तृत्वं सर्वत्र नास्तीत्येव प्रयोगापत्तेः । युष्मद्युपपदे समानाधिकरणेऽस्मदि च तथा विधेर्मध्यमोत्तमयोरनुशासनादिति ॥ अत्रोच्यते । यत्तावदुक्तं प्रागभावध्वंसयोः प्रतियोगिना सह कालिकविरोधितावच्छेदकं न प्रागभावत्वं ध्वंसाभावत्वं च नाना गौरवात् । किन्तु लाघवात् संसर्गाभावत्वमेकमेव । एवञ्च त्रयाणामेकरूपेण कालिको विरोधो न पुनरत्यन्ताभावस्य दैशिकोऽन्ययोस्तु कालिक इत्यर्धजरतीयमिति सिद्धमत्यन्ताभावस्यासत्प्रतियोगिकत्वमिति । तन्न प्रतियोग्यधिकरणसंसर्गारोपपूर्वकनिषेधधीविषयाभावत्वरूपसंसर्गाभावत्वापेक्षया लघोः क्वाचित्काभावत्वस्योभयानुगतस्य विरोधितावच्छेदकत्वात् । तन्तुपटादीनां संसर्गस्यैवाभावान्न प्रागभावध्वंसयोः संसर्गाभावत्वमिति टीकाकारैस्तयोः संसर्गाभावत्वस्यैव निषेधेन तस्य विरोधितावच्छेदकत्वायोगाच्च । कार्यकारणभेदवादे प्रतियोगिना सह कालिकविरोधस्य दुर्वचत्वाच्च । भेदेन कथञ्चिदुपपादनेऽपि तन्तूनां प्रतियोगिकोटिनिवेशस्य त्यक्तुमशक्यत्वात् । प्रतियोगिताया द्वित्वादिवद्व्यासज्यवृत्तित्वाभावेन प्रतियोगितापर्याप्त्यधिकरणविरोधस्याप्ययोगात् । इदानीं मयि धनं नास्तीत्यग्रे भविष्यतीत्यादिप्रतीत्यनुरेधात् । वर्तमानस्यापि प्रागभावप्रतियोगित्वादेर्दर्शितत्वाच्च । अत्यन्ताभावस्य कालिकविरोधस्वीकारेऽपि दैशिकविरोधस्यावश्यं वक्तव्यत्वेनार्धचरतीयन्यायानिस्तारात् । अन्यथा प्रागभावदेश इवात्यन्ताभावदेशे प्रतियोगिसत्त्वं स्यात् । न चात्यन्ताभावस्य सर्वकालवृत्तित्वात्तत्काले तद्देशे कथं प्रतियोगी स्यादिति वाच्यम् । यत एवं सति कालिकविरोधो दैशिकविरोधस्योपोद्बलक एव न तु निवर्तकः । यदपि नन्वेवं ततोऽपि लाघवादित्यारभ्य तदस्माकमिष्टमित्यवोचामेत्यन्तं तदपि न रमणीयम् । तथा हि । अभावत्वं किं यत्किञ्चित्प्रतियोगिताश्रयविरोधिताश्रयविरोधितावच्छेदकम् । किं वा तदभावनिष्ठप्रागभावादिका यावत्यः ।
नाद्यः । तथा सति सत्प्रतियोगिकात्यन्ताभावेऽपि स्वमते तुच्छान्योन्याभावसम्भवेन तस्य च तदात्मकत्वेन तदभावनिष्ठान्योन्याभावनिरूपकयत्किञ्चित्प्रतियोगिताश्रयतुच्छेन कालिकविरोधेऽपि तस्य विरोधितावच्छेदकत्वसम्भवेन स्वाभिमतासत्प्रतियोगिकत्वानिर्वाहात् । न द्वितीयः । अभावत्वस्य प्रागभावादिनिष्ठप्रागभावत्वनिरूपकप्रतियोगिताश्रयविरोधिताश्रयविरोधितावच्छेदकत्वेऽपि तन्निष्ठान्योन्याभावत्वनिरूपकप्रतियोगिताश्रयघटादिविरोधितावच्छेदकत्वाभावेनाभावत्वस्य विरोधितावच्छेदकत्वायोगात् । यदपि नन्वेवं वायावित्यारभ्यास्थीयत इत्यन्तम् । तन्न । यदि पर्वतो निरग्निः स्यात् तर्हि निर्धूमः स्यादित्यत्रापि धूमाभावमात्रस्यापाद्यत्वेन तस्य च जलादौ सत्त्वेनेष्टापत्तेः । न च तत्रापि पर्वतवृत्तिधूमाभावो धूमाभाववान्पर्वतो वाऽऽपाद्यः । स च न जल इति नेष्टापत्तिरिति वाच्यम् । वह्न्यभावमात्रेण तदापादनाऽयोगात् । न च निर्वह्निपर्वतादिकमेवापादकमिति वाच्यम् । निर्वह्निमत्पर्वतस्य निर्धूमवत्पर्वतेन व्याप्तेरग्रहात् । धर्मविशेषेऽनिष्टापादनाभावे तेन तन्निष्ठविपक्षज्ञानस्योच्छेदायोगात् । अद्यप्रभृत्येतादृशापाद्यापादकभावस्याश्रुतत्वाच्च । न च धूमाभावस्य जल इव पर्वते नेष्टता इति नेष्टापत्तिरिति वाच्यम् । इहापि रूपस्य वायावनिष्ठत्वेन तदभावात् । तथा च पर्वतो यदि वह्न्यभाववान्स्यात् तर्हि धूमाभाववान्स्यादितिवद्वायुर्यदि रूपात्यन्ताभाववान्न स्यात् तर्हि रूपवान्स्यादिति तर्कः सुस्थ एवेति । अवच्छेदकभेदादापाद्यापादकभावोपपत्तेः । अथवा रूपात्यन्ताभावो यदि वायुवृत्तिर्न स्यात् तर्हि तद्वृत्तिरूपप्रतियोगिकः स्यादिति तर्काकार इति । वायावित्यधिकरणरूपायाः कारकविभक्तेरित्यादि यद्विकल्पितं द्वितीये तदपि न युक्तम् । वायुरूपसद्भावस्यालीकत्वेन वायौ तदत्यन्ताभावस्य सत्त्वेन तदापादनायोगादित्येव वक्तुं युक्तम् । न हि विकल्पस्थले उपादानापेक्षा । अयुक्तं च तदुपपादनमुदाहृततर्कशरीरद्वये सप्तम्याद्यभावात् । प्रसिद्धतर्क इवापाद्यापादकयोर्धर्म्यघटितत्वाच्च । तुच्छात्यन्ताभावस्य वायुवृत्तित्वेऽपि तस्य केवलान्वयित्वेन तस्य रूपाविरोधित्वेन तदापादनरूपचोद्यावकाशासत्त्वाच्च । अलीकस्य ज्ञानसम्भवेऽपि तेन व्याप्तिग्रहायोगाच्च । तर्कविचारावसरेऽभावज्ञानकरणपार्थक्यापार्थक्यविचारस्यासङ्गतत्वाच्च । यदपि अत एव वायौ रूपं नास्तीत्याद्यनुशासनादित्यन्तं तदपि न । तथा
हि । अत एवेत्यनेन संसर्गाभावत्वस्य विरोधितावच्छेदकत्वं वोपष्टम्भकत्वेन परामृश्यते । शाब्दबुद्धेस्तदाकारत्वं वोभयं वा । नाद्यः । निरस्तत्वात् । न द्वितीयः । असिद्धेः । तथा हि । कारकाणां क्रिययैवान्वय इत्यत्र न किञ्चित्प्रमाणमस्ति । न हि कारकविभक्तीनां क्रियान्वित एव स्वार्थे शक्तिः । किन्तु योग्येतरान्विते । तत्र यत्कारकं साक्षात्क्रियान्वययोग्यकर्त्रादि तस्य क्रियान्वयः । अधिकरणं तु सर्वं न साक्षात्क्रियान्वययोग्यम् । यथाऽध्वनि देवदत्तश्चरति गङ्गायां देवदत्ताय गां ददाति वृक्षाद्भूमौ पर्णं पततीत्यादावध्वगङ्गाभूम्यादीनां चलनदानपतनाद्याधारत्वाभावात् । न च देवदत्तादिद्वारा क्रियाधारताऽधिकरणानामिति वाच्यम् । आवश्यकत्वेन देवदत्ताद्यन्वयस्यैव वक्तुमुचितत्वात् । अत एवाहुः — `यद्यदाकाङ्क्षितं योग्यं सन्निधानं प्रपद्यते तेन तेनान्वितः स्वार्थः पदैरेवाभिधीयत’ इति । एवञ्च प्रकृतेऽपि रूपनिष्ठवर्तनभावनापरपर्यायसत्ताक्रियाया वायुवृत्तित्वायोगात् । न च वायोस्तथाऽन्वयः । सत्ताजातिस्तु न क्रिया स्वमतेऽनुगतायास्तस्याभावाच्च । एवञ्च वाय्वधिरणकसत्तेत्यन्वयबोधांशो न युज्यते । न वायुरूपकर्तृकसत्येत्यंशोऽपि कर्तुराख्यातोऽभिहिते त्वितरपदोत्तरकर्तृकर्तृकविषयविभक्तेरभावेन रूपकर्तृकनिषेधायोगात् । आख्यातार्थस्तु कर्ता तु प्रकृतिप्रत्ययौ सहार्थं भूतस्तयोः प्रत्ययार्थः प्राधान्येनेति नियमान्न क्रियोपसर्जनतायोगः । अत एव सत्तानिषेध इत्यंशोऽपि न युज्यते । न ह्येवं सम्भवति । तथात्वे या नञर्थं प्रतियोगितयाऽन्वेति । आख्यातार्थस्तु धात्वर्थे उपसर्जनतामश्नुत इति । किञ्चैवं बोधाङ्गीकारे वायौ रूपं नास्त्युक्तेऽपि पुनरधिकरणान्तराकाङ्क्षा स्यात् । तद्वारणार्थं सर्वत्रेत्युक्तिरपि स्यादिति । तस्माद्वाय्वधिकरणरूपकर्तृकसत्तानिषेध इति न शाब्दबुद्धेराकारः । किन्तु चैत्रस्येदं धनं न मैत्रस्येत्यादौ षष्ठ्यर्थं मैत्रस्वत्वस्य नञर्थेऽन्वयेन मैत्रस्वत्वाभाववद्धनमिति बुद्धिवत्पृथिव्यां रूपं न वायावित्यादावपि सप्तम्यर्थाधेयत्वस्य नञर्थेऽन्वयेन वाय्वाद्याधेयत्वाभाववद्रूपमित्येवान्वयबोधः । एवमन्वयबोधे वचनव्यवस्था पुरुषव्यवस्था च सम्यगुपपद्यते । घटादीनामेवास्ति क्रियाकारककर्तृकत्वाङ्गीकारात् । तथा हि । घटादीनां सर्वात्मना निषेधायोगादधिकरणविशेषापादनस्यावश्यकत्वेन तदाधेयत्वनिषेधविशिष्टघटपटत्ववदात्मत्वादेर्विशेष्यत्वस्यौचित्यात् । न चैवं भूतले घटो नास्तीत्यत्र घटात्यन्ताभावो न विषयः स्यादिति वाच्यम् । न भवत्येव शाब्दबोधे प्रात्यक्षिके त्विन्द्रियसम्बद्धविशेष्यतादिसद्भावे भवत्येव विषयः । स तात्पर्यशब्दप्रयोगकारणीभूताऽस्तु शाब्दबुद्धिसमानाकारो मानसादिर्भिन्न एव बोध इति न किञ्चित्सङ्करम् । अस्तु वा वायौ रूपं नास्तीति शब्दस्थले वाय्वधिकरणकरूपकर्तृकसत्तानिषेध इत्याकारो बोधस्तादृशशब्दप्रयोगकारणीभूतोऽपि मानसादिस्तदाकारः । तथापि सर्वैरेव प्रात्यक्षिकैर्बोधैस्तदाकारैरेव भवितव्यमिति न नियमः । स्वस्यानुव्यवसायसाक्षिकाणां तत्तत्सामग्रीबललभ्यानामाकारान्तराणामपि सम्भवात् । न हि ते सर्वेऽप्याकाराः शब्देनाभिलपनीया इति नियमोऽस्ति । केषाञ्चिदाकाराणां शब्देनाभिलपनायोगात् । यथा जातिविशेषविशिष्टपुत्रादिस्वरलिप्यादिबोधाद्याकाराः । यथा वा भूतलविशेष्यकघटप्रकारकप्रत्यक्षबोधाकारो न तत्समानाकारशाब्दबुद्धिजनकशब्देनाभिलपितुं शक्यः । घटाभाववद्भूतलमित्यनेन घटाभावसम्बन्ध्यभिन्नं भूतलमिति बोधात् । एवं भूतलविशेष्यकघटप्रकारकेत्यादेरपि शब्दो विलक्षणाकारमेव बोधं जनयतीति शाब्दबोधक्रियाविदां सुज्ञानमेव । वाय्वाधेयत्वाभाववद्रूपमिति बोधाङ्गीकारे वायौ रूपं नास्तीति प्रयोक्तारो निराकृताः । सप्तम्यर्थस्यैव नञर्थप्रतियोगित्वेनान्वयेनोपपदेन सामर्थ्याभावेन समासाप्रसक्तेः । सप्तमी तु न सुबन्तमिति न तयाऽपि समासप्रसङ्गः । अत एव टीकाकारव्यासतीर्थानां बहवः प्रयोगाः । अस्तु वा वायौ रूपं नास्तीत्यत्र यत्किञ्चिच्चैत्रस्यैदं न मैत्रस्येत्यादौ सत्प्रतियोगिकात्यन्ताभावबोधेन यत्किञ्चिद्बाधकम् । न हि तत्रापि कारकविभक्तिरस्ति षष्ठ्या अकारकत्वात् । अन्यथा राज्ञः पुरुष इत्यत्रापि षष्ठ्यर्थस्य पुरुषेऽन्वयो न स्यात् । अत एव न तृतीयः । किञ्चैवं सति इदानीं घटो नास्त्यग्रे भविष्यति इदानीं त्वमस्यग्रे न भविष्यसि इदानीमहमस्म्यग्रे न भविष्यामि । एवमिदानीं घटो प्राङ्नाभूत् त्वं नाभूर् अहं नाभूवमित्यादौ घटप्रतियोगिकध्वंसप्रागभावबोधो जायत इत्यविवादम् । सोऽपि भवदुक्तरीत्या न स्यात् । तत्रापि कारकविभक्तिश्रवणेनाग्रिमकालाधिकरणकघटादिकर्तृकालिकसत्तानिषेध एव प्रतीयेत । न चैवम् । अनुभवविरोधात् । घटादिध्वंसादीनां सत्ताकर्तृकत्वे च ध्वंसप्रागभावादिव्यक्तीनां नानात्वेन वचनविरोधाभावेऽपि पुरुषविरोधः स्यादेव । सर्वत्रापि भविष्यति अभूदित्येव स्यात् । न च तत्रापि ध्वंसादिप्रतियोगिव्यवस्थाकृतैव पुरुषव्यवस्था । `युष्मद्युपपदे समानाधिकरण’ इत्यादौ प्रथमैकवचनान्तशब्दप्रतिपाद्यत्वरूपं यदाख्यातार्थकर्त्राद्यभेदान्वययोगतावच्छेदकं रूपं तद्वत्त्वमेव सामानाधिकरण्यं विवक्षितम् । न त्वभेदान्वयोपहितत्वपर्यन्तमिति वाच्यम् । भूतले घटो नास्तीत्यादावपि तुल्यत्वात् । एवञ्च भूतले वृत्तिर्घटाभावः सत्ता कर्तेत्यपि बोधाकारः समाहितो भवति । वचनव्यवस्थायाः पुरुषव्यवस्थासमानयोगक्षेमत्वा
दिति । किञ्च रूपाभाववान्वायुर्वायौ नीरूपं रूपाभावो वेत्याद्यभिलापस्थले का गतिः । न हि तत्रोक्तकुसृष्टिश्चलति । आद्येऽधिकरणविभक्तेरभावात् । अग्रिमे पुरुषपदस्य नञादिभिः समासात् । न चात्रापि रूपपदं वायुरूप
परम् । अन्यथाऽन्यदीयरूपाभावेनैतादृशबोधेऽभिलापे वा पृथिव्यादावपि तथा बोधाभिलापापात इत्युक्तमिति वाच्यम् । अन्वयितावच्छेदकावच्छिन्नप्रतियोगितावच्छेकत्वस्य व्युत्पत्तिबललभ्यत्वेन तत एव पृथिव्यादौ तथा बोधाभिलापयोरप्रसङ्गेन वृथा लक्षणाङ्गीकारायोगात् । विशेषाभावबोधस्त्विष्ट एव । अपि च घटः पटो न भवतीति यत्तन्नेति योजनया घटकर्तृकपटभावनिषेध एव प्रतीयते । न पटान्योन्याभावः । न च पटपदस्य कारकपदविभक्त्यन्तत्वाभावेनैतदर्थस्य नञर्थेऽन्वयबोधात्पटान्योन्याभावबोध इति वाच्यम् । वायौ रूपं नास्तीत्यादावपि रूपपदस्य तथात्वेन तदर्थस्य नञर्थेऽन्वये बाधकाभावादिति साम्यादिति दिक् । तस्मादेवमाशयवर्णनेन किञ्चिद्बाधकमिति स्थितम् । एवञ्च सति पारतन्त्र्यादिदोषात्यन्ताभावानां भगवल्लक्षणताऽपि समाहिता भवति । अत्यन्ताभावस्य तुच्छमात्रप्रतियोगिकत्वे तु तेषां केवलान्वयित्वेन भगवल्लक्षणत्वं न सम्भवति । अस्तु वाऽत्यन्ताभावस्य तुच्छमात्रप्रतियोगिकत्वं सिद्धान्ते तथाऽपि न क्षतिः । तथा हि । हरावेव सर्वज्ञत्वमन्यस्मिन्नेव तदभावः । एवं जीवादावेवासर्वज्ञत्वं हरावेव तद
भावः । एवं गव्येव गोत्वं तदन्यस्मिन्नेव तदभाव इत्यादिप्रतीतिः सर्वजनसिद्धा निर्बाधा सर्वसमाधेया । सा तु सर्वज्ञत्वासर्वज्ञत्वगोत्वात्यन्ताभावानामारोपिततुच्छतत्प्रतियोगित्वे तुच्छतत्तत्संसर्गप्रतियोगिकत्वे वा तेषामभावीयविशेषणतासम्बन्धेन केवलान्वयित्वान्न समाधातुं शक्या । आरोपितसर्वज्ञत्वाद्यभावानां हर्यादिष्वपि सत्त्वात् । अतस्तेषां व्यतिरेकितानिर्वाहकं सम्बन्धान्तरमावश्यकम् । यथेश्वरज्ञानस्य विषयतासम्बन्धेन केवलान्वयिनोऽपि व्यतिरेकितायै समवायान्यद्वेति । यथा वा परमते आकाशात्यन्ताभावस्य केवलान्वयित्वेऽपि प्रतियोगितावच्छेदकसम्बन्धेनाकाशमात्रनिष्ठत्वार्थं प्रतियोगितासम्बन्धः । तच्चात्यन्ताभावस्याश्वाद्यारोपितगोत्वप्रतियोगिकत्वे स्वप्रतियोग्यधिष्ठानत्वमश्वादिमात्रनिष्ठं व्यावृत्तमन्यद्वाऽस्तु । अश्वाद्यनुयोगिकगोत्वप्रतियोगिकसंसर्गप्रतियोगिकत्वे तु स्वप्रतियोग्यनुयोगित्वं गोव्यावृत्तमन्यद्वाऽस्तु तेन विनोक्तप्रतीत्यनिर्वाहात् । एवञ्च सर्वज्ञत्वाभावस्य जीवमात्रनिष्ठसम्बन्ध आवश्यकः । असर्वज्ञत्वाभावस्येश्वरमात्रनिष्ठः । स च स्वरूप एव लाघवात् । तथा च परस्परात्यन्ताभावस्वरूपमसाधारणसम्बन्धस्तदात्मकत्वात् । तेन सम्बन्धेनात्यन्ताभावस्य व्यापकतानिरूपितव्याप्तिमत्त्वात् । परस्परात्यन्ताभावरूपत्वं तद्व्याप्यत्वं च युक्तमिति । एवं सर्वदोषात्यन्ताभावस्यापि नृहरिमात्रनिष्ठः सम्बन्ध आवश्यक इति तेन सम्बन्धेन तस्य लक्षणताऽपि युज्यते । एवं रूपात्यन्ताभावस्य वाय्वादिमात्रनिष्ठः पृथिव्यादिव्यावृत्तः सम्बन्ध आवश्यक इति तेन सम्बन्धेन तस्य तस्य रूपविरोधित्वान् न वाय्वादौ रूपापत्तिरिति दोषसंसर्गात्यन्ताभावेऽपि परम्परया दोषसम्बन्धित्वाद्दोषत्यन्ताभावतया व्यवह्रियत इति न किञ्चिदनुपपन्नम् । नन्वत्यन्ताभावस्य तुच्छमात्रप्रतियोगिकत्वं निर्युक्तिकं सिद्धान्ते कथमङ्गीक्रियत इति चेदुच्यते । तुच्छमात्रप्रतियोगिकत्वं तावत्क्वापि शशशृङ्गं नास्तीति प्रतीतिबलात्सिद्धम् । शशशृङ्गस्य तुच्छत्वात् । तस्य चैतत्प्रतीतिबलात्प्रतियोगिकत्वसिद्धेः । न च तत्र शशशृङ्गं प्रतियोगि किन्तु शृङ्गमात्रं न तत्तुच्छम् । तन्निष्ठा प्रतियोगिता परं व्यधिकरणेन शशीयत्त्वेनावच्छिद्यते । तदवच्छिन्नप्रतियोगिताकः शृङ्गप्रतियोगिताक एवाभावोऽनया प्रतीत्या गृह्यत इति वाच्यम् । तथा सति शशीयं नास्तीति प्रतीत्याकारः स्यात् । शृङ्गत्वस्य प्रतियोगितावच्छेदकाघटस्य प्रतियोगिदिशिभानायोगात् । अन्यत्र तथाऽदर्शनात् । बाधकं विना विशिष्टप्रतियोगिताबुद्धेः स्वरसभङ्गायोगाच्च । अन्यथा देवदत्तवति दण्डी देवदत्तो नास्तीत्यादिबुद्धेरपि देवदत्तमात्रप्रतियोगित्वं दण्डित्वं तदवच्छेदकमिति स्याद्विशिष्टस्य प्रतियोगित्वं न स्यात् । विशिष्टं दण्डदेवदत्तात्मकमतिरिक्तं वेत्यन्यदेतत् । ननु तत्र विशिष्टं सत्त्वमत्रासदिति वैलक्षण्यमिति चेत् । अस्तु किमेतावता । न ज्ञानमभावप्रतीतिकारणं न सम्भवतीति चेत् । असतोऽपि शब्दाभासादिना प्रतीतिसम्भवात् । अन्यथा तवापि प्रतियोगितावच्छेदकप्रकारकप्रतियोगिज्ञानं न स्यात् । ननु योग्यानुपलब्धिरभावप्रत्यक्षे कारणम् । योग्यता च तद्व्याप्येतरयावत्तदुपलम्भकसमवधानरूपसदुपलभ्भकत्वदोषघटितम् । तत्सत्त्वेऽनुपलम्भायोगः । तदसत्त्वे न योग्यतेति नासद्विशिष्टाभावः प्रत्यक्ष इति चेन्न । प्रत्यक्षासम्भवेऽपि शाब्दबुद्धेरेव सम्भवात् । किञ्च योग्यतायां दोषातिरिक्तत्वमेवोपालम्भकं वक्तव्यम् । अन्यथा घटाभावोऽपि प्रत्यक्षो न स्यात् । युक्तितौल्यात् । किञ्च संयोगिनाशजन्यसंयोगनाशप्रत्यक्षस्थले एतद्योग्यतानुपलब्धेरभावात् । तर्कितप्रतियोगिसत्त्वप्रसञ्जनप्रसञ्जितप्रतियोगिकानुपलब्धिरभावप्रत्यक्षे कारणं वाच्यम् । सा चात्रास्त्येवेति न किञ्चिदनुपपन्नम् । योग्यानुपलब्धिविचारस्तु प्रागेव कृत इति नेह प्रपञ्च्यते । विस्तृतं चैतन्न्यायामृतेऽख्यातिवादान्यथाऽनुपपत्तिभङ्गे । निषेध्यत्वानुपपत्तिभङ्गे च । तथा च सिद्धमत्यन्ताभावस्य तुच्छप्रतियोगिकत्वम् ।
ननु तथाऽपि तन्मात्रप्रतियोगिकत्वं कुत इति चेत् । शृणु । तुच्छप्रतियोगिकात्यन्ताभावस्यास्ति दैशिक इव कालिकप्रतियोगिना विरोधः । तत्रापि कालिकविरोधितावच्छेदकं न तुच्छाभावत्वं गौरवात् । किन्तु लाघवादत्यन्ताभावत्वमेव । तथा च नात्यन्ताभावकाले प्रतियोगी । अत्यन्ताभावस्य त्वनादिनित्यत्वात् सर्व एव काल इति सकलकालावृत्तिप्रतियोगिकत्वसिद्धौ तुच्छमात्रप्रतियोगिकत्वमेव सम्पन्नमिति । अथवा त्वन्मते प्रतियोगितावच्छेदकावच्छिन्नस्य प्रतियोगिनस्तद्देशकालावच्छेदेन तत्तत्सम्बन्धेन तत्राधिकरणे सत्त्वं तत्राधिकरणेऽत्यन्ताभावविरोधित्वम् । तत्र यथा लाघवात्प्रतियोगितावच्छेदकावच्छिन्नांशत्यागेन प्रतियोगिसत्त्वं विरोधि कल्पयित्वा व्यासज्यवृत्तिधर्मावच्छिन्नाभावस्य व्यधिकरणधर्मावच्छिन्नाभावस्य चासम्भव उच्यते । तथा ततोऽपि लाघवाद्यत्र कुत्रापि प्रतियोगिसत्त्वमात्रस्यात्यन्ताभावविरोधित्वमास्थायास्माभिः सत्प्रतियोगिकात्यन्ताभावासम्भव उच्यत इति । अश्वे गोत्वं नास्तीत्यादिप्रतीतिस्तु व्यासज्यवृत्तिधर्मावच्छिन्नाभावव्यधिकरणधर्मावच्छिन्नाभाववत्प्रतीतिवद्विषयान्तरमासादयिष्यति । तच्च विषयान्तरमश्वे गोत्वादिसंसर्गात्यन्ताभाव एव । न च शब्दवत्प्रतीतिव्याख्यानमयुक्तमिति वाच्यम् । त्वन्मते व्यासज्यवृत्तिधर्मावच्छिन्नाभावादिस्थल इवानन्यगतिकत्वात् । अन्यथेदानीमपि धनं नास्त्यग्रे भविष्यति प्रागभूद्वेत्यादिप्रतीतिबलाद्वर्तमानप्रतियोगिकौ प्रागभावध्वंसाभावावप्यङ्गीकार्यौ स्याताम् । यदि च तत्र स्वरूपसंसर्गस्य प्रागभावः प्रध्वंसश्च विषयो लाघवेन प्रतियोगिवर्तमानत्वमात्रस्य प्रागभावप्रध्वंसविरोधिकत्वात् । न तु तेन तेन सम्बन्धेन तत्तत्कालावच्छेदेन तत्राधिकरणे प्रतियोगिसत्त्वे विरोधि गौरव इत्यङ्गीक्रियते तर्हि प्रकृतेऽपि दीयतां दृष्टिरिति सङ्क्षेपः ॥ नचेति ॥ जीवेश्वरयोर्मायाविद्यारूपोपाधिकृतभेदस्य सत्त्वात्सर्वज्ञत्वासर्वज्ञत्वव्यवस्थोपपत्तिरित्यर्थः ॥ योगिनीति । औपाधिकभेदवति प्रतियोगिनि सौभर्यादौ तत्तत्पदार्थविषयकज्ञानाज्ञानयोरदर्शनादित्यर्थः ।
(२४)भेदसञ्जीविनी
॥ एवञ्चेति ॥ आत्मनो गुणाश्रयत्वव्यवस्थापनेन द्रव्यत्वसिद्धौ सत्यामित्यर्थ इति केचित् । वस्तुतस्तु धर्मिसत्तासमानसत्ताकानेकाश्रितत्वस्यावश्यकत्वं तत्रैव व्यक्त्यभेदस्य बाधकत्वमित्यस्य सिद्धौ सत्यामित्यर्थः ॥ इत्यादीन्यपीति ॥ आदिनाऽऽत्मत्वं स्वाश्रयसमानसत्ताकस्वाश्रयप्रतियोगिकभेदवन्नानाव्यक्तिवृत्ति जातित्वाद्धटत्ववदित्यादेर्ग्रहणम् । सुस्थानि पारमार्थिकात्मभेदपर्यवसायीनीत्यर्थः । आरोपितभेदवन्नानाव्यक्तिनिष्ठत्वं जातेर्यदि स्यात् तर्हि आत्मनि द्रव्यत्व(त्वात्मत्वादि)जातय आत्मान्तरघटान्तरप्रतियोगिकपारमार्थिकभेदेन विनाप्युपपन्न, न तस्यात्मान्तरघटादिभ्यः पारमार्थिकभेदव्यवस्थापन
क्षमाः । यदि च व्यक्त्यैक्यं प्रत्यक्षादिप्रमाद्यविघटकत्वेन दूषणम् । तदाऽनुमानसिद्धात्मत्वस्यात्मन्यात्मान्तरप्रतियोगिकपारमार्थिकभेदव्यवस्थापकत्वं न सिध्येत् । तद्व्यवस्थापने त्विदं सिद्धं भवतीत्युपष्टम्भसङ्गतिः ॥ चैत्रशरीरमिति ॥ अत्र वस्तुतो मैत्रशरीरस्वामिभिन्नस्वामिकमित्येव पाठः । व्यावहारिकभेदमादाय सिद्धसाधनतावारणाय वस्तुत इत्युक्तमिति प्राचीनटिप्पण्युक्तेः । इदं च बहुजीववादिनं प्रति जीवानां परस्परं पारमार्थिकभेदसाधनाय प्रवृत्तमित्याशयेनैकजीववादिनिरासायैतदनुमानप्रयोगे तु तेन सिद्धसाधनता व्यावहारिकभेदमादायोद्भावयितुं न शक्यते । एकमेव शरीरं सजीवमन्यानि शरीराणि स्वप्नदृष्टकशरीराणीव निर्जीवाण्येवेति वा सजीवत्वेऽपि सर्वशरीराधिष्ठितैक एव हिरण्यगर्भो नाम जीव इति वा तैरङ्गीकृतत्वेनैकशरीरस्वामिनि शरीरान्तर(रे )स्वामिप्रतियोगिकव्याहारिकभेदस्यापि तैरनङ्गीकृतत्वात् । तदा प्रातिभासिकभेदमादाय सिद्धसाधनतावारणाय वस्तुत इत्येतदप्रातिभासिकपरम् । अत एव केषुचित्कोशेषु तत्पदाघटित एव पाठो दृश्यते । तत्र प्रातिभासिकभेदमादाय सिद्धसाधनतावारणाय वस्तुत इति न वक्तव्यम् । पदानां प्रातिभासिकव्यावृत्तधर्मावच्छिन्नोपस्थापन एव(स्थापकस्यैव) समर्थत्वेन भेदादिपदेन तदुपस्थापनस्यैवाभावात् । अन्यथा वस्तुतः पर्वतो वस्तुतो वह्निमानित्येव प्रयोगापत्तेरित्यभिप्रायः । (ननु) अत्र वस्तुत इत्यनेन पूर्वोक्तमतभेदेन पारमार्थिकत्वस्याप्रातिभासिकत्वस्य वा निवेशे मैत्रशरीरस्वामिप्रतियोगिकपारमार्थिकभेदवत्(भेदेन) स्वामिरूपसाध्याप्रसिद्ध्याऽप्रसिद्धविशेषणता । अस्य भावसाध्यकत्वेन साध्याप्रसिद्धेर्दोषत्वस्यावश्यकत्वात् । न च वस्तुतो मैत्रशरीरस्वामितादात्म्यापन्नस्वामिकत्वाभाव एवात्र साध्यत्वेन विवक्षितोऽ(तोऽ)भावसाध्यकव्यतिरेक्ये(के) वेदमिति वाच्यम् । तथा च वस्तुत इति विशेषणं प्रतियोकोटौ अभावे वा । नाद्यः । विशिष्टप्रतियोगिन एवाप्रसिद्ध्या तन्निरूपितव्यापकताया हेत्वभावे दुर्ग्रहत्वात् । प्रतियोगिप्रसिद्धेरत्रा(द्धेस्तत्रा)ङ्गीकारेऽपि तदभावरूपसाध्यस्य व्यावहारिकत्वेन वा प्रातिभासिकत्वेन वा सिद्धसाधनताया अनुद्धारात् । अस्य साध्यस्य शरीराधिकरणत्वेन सिद्धस्यापि पारमार्थिकत्वायोगाव्यावहारिकत्वस्यैवोचितत्वात् । सर्वस्याप्यत्यन्ताभावस्य पारमार्थिकत्वमेवेति मताश्रयणे प्रतियोगिकोटौ वस्तुत इत्यनुक्तावपि तादृशस्य स्वामिकत्वसामान्यभावस्य पारमार्थिकत्वस्यैव (प्र)सिद्ध्या प्रतियोगिकोटौ तद्वैयर्थ्यात् । वस्तुतः पारमार्थिकस्वामि(क)त्वस्यैव तन्मते प्रसिद्धिरेव । एतेन प्रतियोगिनि पारमार्थिकत्वानुपादाने स्वामित्वसामान्याभावे पारमार्थिकत्वतादृशस्वामित्वमिथ्यात्वपर्यवसायि स्यात्तेन पराभिमतस्यैव सिद्ध्याऽर्थान्तरता स्यादतस्तन्निवेशनं तत्प्रतियोगिनि तद्दाने तु तस्य पारमार्थिकत्वेनैव गृहीतत्वान् न तन्मिथ्यात्वे पर्यवसानमिति निरस्तम् । अत्यन्ताभावस्य पारमार्थिकत्वसिद्धावपि तस्य तादृशस्वामिकत्वं सामानाधिकरण्यासिद्ध्या मिथ्यात्वापर्यवसानाच्च । अत्यन्ताभावस्याप्रामाणिकत्वप्रतियोगिकत्वमेवेति मते उक्तसाध्यीभूताभावस्य पारमार्थिकप्रतियोगिकत्वायोगाच्च । नाप्युक्तसिद्धसाधनतावारणायाभाव एव वस्तुत इत्येतद्विशेषणमिति पूर्वोक्तद्वितीयक्षः । यद्धर्मावच्छिन्नव्यापकता हेत्वभावस्य गृहीता तदभावेन तद्धर्मावच्छिन्नाभावत्वेन सिध्यतु पारमार्थिकत्वेन सिद्धौ तु बीजाभावः । अन्यथा व्यावहारिकत्वेन कुतो न सिध्येत् । न च प्र(भ्र)मात्मकानुमितिसामान्यं स्वविषयं पारमार्थिकत्वेनैव विषयीकरोतीति वाच्यम् । तथात्वे वस्तुत इति विशेषणोपादानमनर्थकमेव । अन्यानुमितीनामिवास्याप्यनुमितेः स्वमहिम्नैवोक्तसाध्यस्य पारमार्थिकत्वव्यवस्थापकत्वसम्भवादिति चेन्न । अत एव वस्तुत इति पदाघटितोऽपि पाठः पुस्तकेषु दृश्यते । तद्दाने तु तस्य पारमार्थिकत्वेनैव गृहीतत्वान्न मिथ्यात्वपर्यवसानम् । तत्सत्त्वेऽपि यथाश्रुतसाध्यमेवेदं नाभाससाध(ध्य)कम् । तत्र व्यावहारिकसाध्यादिकमादाय सिद्धसाधनतावारणाय वस्तुत इति सार्थकम् । तच्च मैत्रशरीरस्वामिभेदेऽन्वेति । न चाप्रसिद्धविशेषणता दोषः । नैयायिकैरेव तदभ्युपगमात् । वेदान्तिमते तस्या अदूषणताया —
`आश्रयव्याश्रयसिद्धी साध्यासिद्धिश्च दूषणम् ।
केषाञ्चिन्न हि ते दोषा व्याप्तौ सत्यां कथञ्चने’
त्यादिना भक्तिपादीयानुव्याख्याने सुधायां च निपुणतरमुपपादितम् । अद्वैतचन्द्रिकाकारोऽपि साध्यस्याप्रसिद्धिर्न दोषः । तत्काले यथाकथञ्चिद्वादिवाक्यादिना तदुपस्थितिमात्रेण साध्यसंशयस्य व्यतिरेकव्याप्तेश्चानुकूलतर्कादिसाहित्येन ग्रहीतुं शक्यत्वादित्युपपादितवान्द्वित्रिस्थलेषु । तथा च क्वचिन्नैयायिकरीतिमवलम्ब्य ग्रन्थप्रवृत्तावप्यत्र शुद्धवादिप्रतिवादिरीतिमवलम्ब्यैव ग्रन्थप्रवृत्तौ बाधकाभावात् । यदि चा(वा)ऽयमपि ग्रन्थोऽप्रसिद्धविशेषणताया दूषणत्वमवलम्ब्यैव लापनीय इत्याग्रहस्तदा नैरात्म्यं किञ्चिन्निष्ठाभावप्रतियोगि व्यतिरेकिधर्मत्वादित्यादिना सामान्यतः सात्मकत्वसिद्ध्यनन्तरमेव जीवच्छरीरं सात्मकं प्राणादिमत्त्वादिति व्यतिरेक्यनुमानं प्रवर्तते । तथाऽत्रापि मैत्रशरीरस्वामिभेदश्चिद्वृत्तित्वपारमार्थिकत्वोभयवान् अपारमार्थिकानिरूपककत्वे सति चिद्वृत्तित्वाच् चिन्निष्ठानन्दसत्तादिवत् । चिद्वृत्तिशुद्धत्वादौ व्यभिचारवारणाय सत्यन्तम् । तेषां जडामिश्रितत्वादिरूपतयाऽपारमार्थिकानिरूपितत्वाभावात् । सत्ताऽपि ब्रह्मस्वरूप(त्व)मेवातो न देशनिरूपितातो न दृष्टान्तासिद्धिः । तस्यास्तथात्वेऽप्यानन्दज्ञानयोर्दृष्टान्तत्वसम्भवाच्च । गगने स्वाभावाद्यनात्मकतयाऽपारमार्थिकानिरूपिते व्यभिचारवारणाय विशेष्यदलम् । चिति डित्थपिण्डनिष्ठायां भेदस्याज्ञकल्पितस्य परैरप्यङ्गीकारान्न पक्षा(प्र)सिद्धिः । नापि हेत्वसिद्धिः । विशेष्यीभूतचिद्वृत्तित्वस्योपपादितत्वात् । स्वामिपदेन तत्त्वोपलक्षितचेतनस्यैव ग्रहणात् । तस्य पारमार्थिकत्वेनापारमार्थिकानिरूपकत्वरूपविशेषणभागस्यापि सत्त्वात् । तथा चोक्तानुमानेन मैत्रशरीरस्वामिप्रतियोगिकपारमार्थिकभेदवत्सिद्ध्यनन्तरं प्रतिशरीरं जीवभेदसिद्ध्यर्थं तादृशचिदेव स्वामितानिरूपकत्वसम्बन्धेन चैत्रशरीरे प्रधानतो व्यतिरेकलिङ्गेन साध्यत इति न कश्चिद्दोषः । यद्वा मैत्रशरीरस्वामी चैत्रशरीरे पारमार्थिकप्रतियोगिकत्वापारमार्थिकत्वोभयाभाववत्स्वप्रतियोगिकभेदवत्स्वामिकत्वसम्बन्धेन साध्यते । अयं च मैत्रस्वामिकघटे घटान्तरस्य सम्बन्धः प्रसिद्धः । घटान्तरप्रतियोगिकमैत्रनिष्ठे भेदे पारमार्थिकप्रतियोगिकत्वाभावप्रयुक्तोभयाभावसत्त्वात् । अनेन सम्बन्धेन मैत्रशरीरस्वामिनः साध्यत्वे सम्बन्धघटकतद्भेदेऽपारमार्थिकत्वाभावप्रयुक्तस्यैवोभयाभावस्य वक्तव्यतया मैत्रशरीरस्वामिप्रतियोगिकपारमार्थिकभेदवत्स्वामिकत्वस्योक्तानुमानबलादेव सिद्धेः । परमते उक्तसम्बन्धस्योक्तसाध्यं प्रति व्यधिकरणसम्बन्धतया तत्सम्बन्धावच्छिन्नाभावस्य केवलान्वयितयाऽङ्गीकृतत्वेऽप्युक्तविचारदशायां मैत्रशरीरातिरिक्तेषु सन्दिग्धत्वेन मैत्रशरीरमात्रे तदभावस्य हेत्वभावस्य वादिप्रतिपाद्युभयसम्मतत्वेन निश्चितसहचारेऽप्युभयोर् वास्तवभेदो न स्यात्, तर्हि परस्परसुखदुःखानुभवः स्यादित्यादिरूपानुकूलतर्कसहितेन व्यभिचारसंशयमनादृत्य व्याप्तिग्रहोपपत्तेः । उक्ततर्कबलादेवानुमानहेतोरपि नाप्रयोजकताशङ्काऽपि । अधिकं पूर्वपक्षविवरणेनानुसन्धेयम् । उक्तानुकूलतर्कानुसन्धानाभावादेव सामान्यतो दृष्टान्ताभावकथनम् । अत्र तु तदभ्युपगमेन दृष्टान्तव्यवस्थापनाभिप्रायेण व्यतिरेकिदृष्टान्तकथनमिति न पूर्वोत्तरविरोधः ॥ तद्विरुद्धेति ॥ एककालावच्छेदेन तच्चेष्टासाध्यफलोत्पत्तिविरोधिव्यापाराश्रयत्वं तद्विरुद्धचेष्टाकत्वम् । प्रकृते तादृशव्यापारवन्तावेव चैत्रमैत्रौ ग्राह्याविति नासिद्धिः । वायूपघातादिवशान् मैत्रचेष्टाविरोधिचेष्टावति मैत्रस्वामिके घटे व्यभिचारापत्ति(चार)वारणाय शरीरत्वमुपात्तम् । तावत्युक्ते मैत्रशरीर एव व्यभिचारवारणाय विशेषणदलम् । एकस्वामिकत्वे विरुद्धक्रियोत्पत्तिर्न स्यादित्यनुकूलतर्कोत्थापकतया व्याप्तिग्रहौपयिकत्वं सर्वविशेषणघटकानां वर्तत इति न कस्यापि वैयर्थ्यम् । एतत्तर्कोपष्टम्भिततयाऽपि नास्य हेतोरप्रयोजकत्वम् । यत्त्वत्र कथितमिन्द्रार्जुनयोरेककाल एव खाण्डववनदहनतच्छमनरूपविरुद्धचेष्टावतोरेकस्वामिकत्वस्यैव सत्त्वाद्व्यभिचार इति तन्न । उक्तानुमानस्य प्रकृतहेतुसाध्यघटितव्यतिरेकव्याप्तिमूलकस्य व्यभिचाराप्रसक्तेः । यच्छरीरं यच्छरीरचेष्टाविरुद्धचेष्टकं तत्तत्स्वामिभिन्नस्वामिकमिति सामान्यव्याप्त्याऽनुमानस्याप्रवृत्तत्वेन सामान्यव्याप्तौ व्यभिचारचोदनस्याकिञ्चित्करत्वात् । न चैवं सति डित्थविष्णुमित्रशरीरस्य जीवभेदसिद्धिः कथं स्यादिति वाच्यम् । तत्राप्येतादृशव्यतिरेक्यनुमानेन तत्सिद्ध्युत्तरतद्दृष्टान्तकान्वय्यनुमानात्तत्सिद्धिसम्भवात् ।
ननु तर्ह्यर्जुनादिशरीरादिदृष्टान्तेनोक्तहेतोरप्रयोजकत्वमेव शङ्क्यत इति वाच्यम् । अनुकूलतर्कयोरुक्तत्वात् । तत्रैकस्मिन्नेव विरुद्धचेष्टानुकूलप्रयत्नोत्पादकभगवदिच्छारूपविशेषकारणरूपबलादेकस्वामिकयोः कदाचिद्विरुद्धचेष्टोत्पत्तावप्यन्यत्र भिन्नस्वामिकत्वं विना तन्निर्वाहायोगात् । अस्या व्याप्तेरौत्सर्गिकत्वेन बलवद्बाधकैकापोद्यत्वेन सोपाधिकव्यभिचारस्यादूषकत्वादित्युक्तत्वात् । अन्यथा यागीयहिंसायाः पापाजनकत्वेन हिंसात्वस्यापि पापाजनकत्वयोग्यत्वानुपपत्तेः । तत्र यागीयहिंसाभिन्नत्वविशेषणं देयमिति चैत्तर्ह्यत्राप्येकत्र विरुद्धचेष्टोत्पादकप्रयत्नजनकभगवच्छक्त्यादिरूपविशेषकारणा(णान)धीनत्वेन प्रमितत्वविशेषणं दत्वा सामान्यव्याप्त्यादिरपि निर्वोढुं शक्य (शक्यत) एव । विशेषव्याप्तिस्तु सौलभ्याय कुत्रापि विभिन्नस्वामिकत्वसिद्ध्यभावदशायां सामान्यव्याप्तेर्दर्शयितुमशक्यत्वाच्चोपात्तेत्यलम् । इयता भेदस्य व्यासज्यवृत्तित्वमवलम्ब्य तत्सिद्धये द्वित्वाद्यवच्छिन्नपक्षकानुमानन्दर्शयति — जीवेशाविति ॥ जीवे ईशे चेति भेदसिद्धौ द्वित्वेन पक्षीकरणसम्भवः । तत्सिद्धौ च सिद्धसाधनतेति शङ्कानवकाशः । द्वित्वावच्छेदेनैकभेदसिद्धेरभावात् । तत्सिद्धिस्तु द्वित्वस्य पक्षतावच्छेदकत्वमहिम्ना द्वितीयक्षणावच्छिन्नो घटो गन्धवानितिवत् । अत्र व्याप्तिस्तु यदुभयं परस्परविरुद्धधर्माधिकरणं तदुभयं स्वनिष्ठोभयत्वावच्छेदेन परस्परसम्बन्धभेदवदित्युक्तव्याप्तिज्ञानस्य द्वित्वावच्छेदेनैव भेदानुमितिजनकत्वानुरोधेनैव (तत्)सिद्धिः । एतेन पक्षतावच्छेदकत्वमाहिम्ना सिद्धिरित्यनेन तद्भानं न परामर्शकार्यतावच्छेदकमिति सम्प्राप्तम् । तथात्वे उक्तद्वित्वोपलक्षितेऽपि भेदानुमितिजनकत्वं स्यात् । विशिष्टघटे बाधदशायामुत्पत्तिकालोपलक्षितघटे तत्स्थलीयपरामर्शबलेनानुमितिदर्शनात् । तत्रेष्टापत्तौ च चैत्रमैत्रौ चैत्रभेदवन्तावित्यत्रानुमितिर्द्वित्वावच्छेदेन बाधग्रहणदशायां तदुपलक्षिते स्यात् । न च तदाकारानुमितिः कस्याप्यनुभवसिद्धा । तथान्यायोऽपि स न्याय इति कस्यचिदनुमित इति शङ्कानवकाशः । उक्तज्ञानदशायामनुमितिजनकत्वस्यैव सत्त्वात् ॥ सम्मतवदिति ॥ जलानलोभयवदित्यर्थः । अन्यत्र द्वित्वावच्छेदेन भेदमङ्गीकृत्य जीवेशद्वित्वावच्छेदेन परस्य भेदे विप्रतिपत्तिदशायामेवानुमानस्य प्रवृत्तिरिति सम्मतवदित्यनेन सूचितत्वान्न दृष्टान्ते साध्यवैकल्यशङ्कावकाशः ॥ वध्यघातुकभावलक्षण इति ॥ परस्पराभावात्मकत्वं परस्परविरहव्यापकत्वं वा । तच्चैकत्ववादिनाऽपि लौकिकव्यवहारादङ्गीकार्यम् । अन्यथा सर्वमर्यादोल्लङ्घने कथकताया एवासिद्धिप्रसङ्गादित्याशयः । सिद्धान्ते (अभावस्य) प्रामाणिकप्रतियोगित्वनैयत्येऽपि यथेदं घटते तथोपपादितं पुरस्तात् (द्वैतद्युमणौ) । नन्वेकस्मिन्नप्यारोपित योर्विरुद्धधर्मयोर्द्वित्वस्य सत्त्वाद्व्यभिचारः । तदर्थं धर्मिसत्तासमानसत्ताकत्वस्य हेतुविशेषणे परस्यासिद्धिरिति चेन्न । पल्लवाज्ञानकार्यत्वाभावरूपप्रातिभासिकत्वाभावस्य हेतुविशेषणत्वाङ्गीकारे दोषाभावात् । मन्मते च पल्लवाज्ञानस्याप्रसिद्ध्या तद्धटितप्रतियोगिताकाभावस्य सत्प्रतियोगिकत्वेनारोपितविरुद्धधर्मयोः सत्त्वेऽपि तयोरसत्त्वेन तद्वत्वस्यैव कुत्राप्यभावादेव न व्यभिचारप्रसक्तिरिति ज्ञेयम् । यद्वा भेदस्या(स्य)व्यासज्यवृत्तित्वपक्षेऽपि पूर्वं ब्रह्मपक्षकानुमानजीवपक्षकानुमाने तयो परस्परं पारमार्थिकभेदसिद्ध्यर्थं पृथगुक्त्वेदानीमेकेनैव तत्साधनार्थमाह — जीवेशादिति ॥ अत्र द्वित्वावच्छेदेन साध्यसाधनं नाम तद्व्यापकत्वेन साधनम् । स्वरूपसम्बन्धरूपावच्छेदकत्वस्यैव तत्पक्षे बाधितत्वात् । व्यापकता च प्रत्येकवृत्त्योरपि परस्परभेदयोः परस्परप्रतियोगिकपरस्परानुयोगिकभेद(व)त्त्वरूपसाध्यतावच्छेदकरूपेणैवानुमानान्तरेष्विवेति बोध्यम् । संयोगतदभावाधिकरणत्वयोरंशभेदेनैवाङ्गीकृतत्वाद्वृक्षरूपधर्मिणि संयोगसत्त्वमेव न संयोगाभावस्यापि तत्र सत्त्वमिति द्वैतद्युमणौ व्यवस्थापितत्वान्न तदुभयमुपादायोक्तव्याप्तिभङ्गः ॥ न चेति ॥ उपाधिमात्रेणेति ॥ भेदसम्पादकद्वारेत्यादिः ॥ तत्प्रतियोगिनीति ॥ उपाधिप्रतियोगिनि तदभाव इति यावत् । तददर्शनाद् उपाधिसामानाधिकरण्यादर्शनादित्यर्थः । भवेदुपाधिभेदसम्पादनद्वाराऽन्ययोर्विरोधमेकाधिकरणवृत्तित्वेऽप्युपपादनक्षमः । यदि स्वाभावविरोधं स्वस्मिन्स्वाभावं स्वं चैकस्मिन्घटमानः स्यात् । न चैतदस्ति । घटावच्छिन्नाकाशो घटाघटभावस्यांशभेदमनुपादायाकाशमात्रे वोपाध्यभावा व्यवहारात् । आकाशे घटसंयोगो नास्ति । घटावच्छिन्नाकाशे घटसंयोगो नास्तीत्यप्रतीतेः । आकाशान्तरे तु स्वाभाविकत्वान्नोपाधिकृतत्वमतोऽस्वस्वाभावयोरेवैकवृत्तित्वं विरुद्धत्वं चोपपादयितुमक्षमः । स्वयमनवतीर्ण इति न्यायेन कथमन्यत्र व्यवस्थां कुर्यादित्याशयः । उपाधिकृतभेदमात्रेणेति पाठे तत्प्रतियोगिन्यौपाधिकपरस्परस्वप्रतियोग्यनुयोगिकभेदप्रतियोगित्वेन त्वदभ्युपगतेषु (कायव्यूहवद्योगिषु) सर्वज्ञत्वाल्पज्ञत्वयोरदर्शनादौपाधिकभेदप्रयोजक इत्यर्थः । तद्वति योगिनीति पाठे औपाधिकभेदवत्सौभर्यादियोगिनि सर्वज्ञत्वाल्पज्ञत्वयोरदर्शनादित्यर्थः ।
(२४)काशीतिम्मण्णाचार्य
॥ एवं चेति ॥ उक्तरीत्या प्रथमानुमाने व्यवस्थापिते चेत्यर्थः । अपारमार्थिकभेदेन सिद्धसाधनवारणाय धर्मिसत्तासमानसत्ताकेति । इत्यादीत्यादिना सुखं नानाव्यक्तिनिष्ठं गुणत्वादित्यादीनामुपसङ्ग्रहः ।
आदिपदेनात्मत्वं नानाव्यक्तिनिष्ठं जातित्वादित्यस्य ग्रहणमिति तु मन्दम् । एतावता प्रबन्धेन तस्यैव व्यवस्थापितत्वात् । प्राथमिकत्वेन तस्यैव कण्ठत उपादातुमुचितत्वाच्च ।
॥ सुस्थानीति ॥ उक्तविधया द्रव्यत्वस्यात्मनि सिद्धत्वेनोक्तासिद्ध्यनवकाशात् । भेदे धर्मिसत्तासमानसत्ताकत्वनिवेशेन सिद्धसाधनस्य चानवकाशादिति भावः ।
नन्वेतावता सुखादिपक्षकानुमाने कथं पूर्वोक्तदोषपरिहार इति चेदित्थम् । सुखादीनामप्ययावद्द्रव्यभावित्वेनात्मन्यङ्गीकारे बाधकाभावात् । तेषां प्रत्यक्षत्वेन तत्प्रयोजकमहत्त्वशून्यमनोगुणत्वासम्भवाच्च । सुखं मनोभिन्ननानाव्यक्तिनिष्ठं गुणत्वाद्रूपवदित्यनुमीयते । तथाच न सिद्ध साधनम् । न चैवमपसिद्धान्तः । तार्किकरीत्यैतत्प्रयोगात् । आश्रयत्वानुसन्धातृत्वान्यतरसम्बन्धस्य साध्यघटकत्वाद्वा दोषाभावात् । मनोवृत्तेर्मनोभिन्नाश्रितत्वानुपपत्त्या मनोभिन्नानुसन्धातृकेनैव साध्यपर्यवसानादुद्देश्यसिद्धेरिति । अस्यार्थस्य द्वित्वादीनामिति ग्रन्थेनैव लाभान्न पृथगुक्तिः ।
ननु चैत्रशरीरमित्याद्यनुमाने प्रागुक्तदोषापरिहारात् कथमस्य सुस्थत्वमत आह — चैत्रशरीरमिति ॥ उक्तरीत्या सिद्धसाधनवारणाय वस्तुत इति भेदविशेषणम् । धर्मिसत्तासमानसत्ताकेत्यर्थः । अयं भावः । तद्विरुद्धचेष्टाकत्वं तत्क्रियाजनकप्रयत्नानुसन्धात्रननुसंहितप्रयत्नजन्यक्रियावत्त्वम् । अतो नोक्तव्यभिचारः । घटादौ प्रयत्नजन्यक्रियाविरहात् । एतदर्थमेव चेष्टापदम् । न चैवं घटादेर्दृष्टान्तत्वासम्भव इति वाच्यम् । व्यतिरेकेण मैत्रशरीरस्यैव दृष्टान्तत्वसम्भवादिति ।
यत्तु तद्विरुद्धचेष्टावत्त्वं तत्क्रियाकार्यप्रतिबन्धकक्रियावत्त्वम् । शरीरत्वेन हेतुविशेषणान्न घटादौ व्यभिचार इति । तन्न । इन्द्रार्जुनयोः खाण्डवदाहादौ विरुद्धकार्यक्रियावतोर्व्यभिचारात् । न चोभयसम्प्रतिपन्नैकस्वामिकत्वाभावे सतीति विशेषणान्न दोष इति वाच्यम् । विशेषणवैयर्थ्यादप्रयोजकत्वाच्च ।
विमतौ भिन्नौ विरुद्धधर्माधिकरणत्वाद्दहनतुहिनवदित्यस्योक्तदोषवारणाय विवक्षितार्थमाह — जीवेशाविति ॥ ननु विरुद्धधर्माधिकरणत्वस्य परस्परधर्मवदवृत्तिधर्मवत्वरूपस्य हेतोरसिद्धिः । मायिमते जीवेश्वरधर्मयोरेकाधिकरणकत्वादित्याशङ्कावारणाय विरोधं विवृणोति — विरोधश्चेति ॥ सहानवस्थाननियमः परस्पराधिकरणावृत्तित्वम् । वध्यघातुकभावश्च न नाश्यनाशकभावरूपः । सर्वज्ञत्वासर्वज्ञत्वादीनां तदभावात् । किन्तु भावाभावत्वरूप इति ज्ञापनाय नित्यत्वानित्यत्वादाविवेत्युक्तम् ।
अथ सिद्धान्ते अत्यन्ताभावस्याप्रामाणिकप्रतियोगिकत्वनियमात् कथमीशवृत्तिसर्वज्ञत्वात्यन्ताभावरूपत्वमसर्वज्ञत्वस्य, कथं वा जीवगतासर्वज्ञत्वात्यन्ताभावरूपत्वं सर्वज्ञत्वस्येति चेद् इत्थम् । जीवे आरोपिसर्वज्ञत्वप्रतियोगिकात्यन्ताभाव एवासर्वज्ञत्वम् । स च मतान्तरे प्रतियोगिनेव सिद्धान्ते प्रधानेन विरुद्ध्यते । सर्वज्ञत्ववतीश्वरे सर्वज्ञत्वं नास्तीत्यप्रतीतेः । ईशगतसर्वज्ञत्वस्यासर्वज्ञत्वं प्रति प्रधानत्वादेव प्रतियोगित्वव्यवहारः ।
एवमसर्वज्ञत्वं सर्वज्ञतादात्म्यनिषेधः । सर्वज्ञतादात्म्यं च सर्वज्ञत्वमेवेति तत्प्रतियोगिकत्वमसर्वज्ञत्वस्य । अन्योन्याभावस्य प्रामाणिकप्रतियोगिकत्वोपपत्तेः । तदभावश्च सर्वज्ञत्वमेव । भावभिन्नात्यन्ताभावस्यैव प्रामाणिकप्रतियोगिकत्वनिषेधात् । `निषेधस्य निषेधश्च भाव एव बलाद्भवेदि’ति वचनात् । अधिकमन्यत्रानुसन्धेयम् ।
॥ सर्वज्ञत्वेति ॥ ननु किमिदं सर्वज्ञत्वम् । न तावत् सर्वविषयकज्ञानवत्त्वम् । मेयत्वादिना सामान्यतः सर्वविषयकज्ञानस्य जीवसाधारण्यात् । नापि यावन्तः पदार्थास् तत्तद्व्यक्तित्वेन तावद्विषयकज्ञानवत्त्वम् । असर्वज्ञादीनां विशिष्य तावद्विषयकज्ञानाभावेन दुर्ज्ञेयत्वापत्तेः । उच्यते । विषयितासम्बन्धावच्छिन्नप्रतियोगिताकाभावानधिकरणज्ञानवत्त्वं सर्वज्ञत्वम् । मेयत्वेन सर्वविषयकेऽपि ज्ञाने घटत्वेन घटाभानाद्विषयितासम्बन्धावच्छिन्नघटत्वावच्छिन्नप्रतियोगिताकाभावस्यैव सत्त्वान्नातिव्याप्तिः । असर्वज्ञस्याप्येतादृशसर्वज्ञत्वज्ञानसम्भवान्न दुर्ज्ञेयत्वम् । आदिपदेन स्वातन्त्र्यास्वातन्त्र्यादिपरिग्रहः ।
नन्वप्रयोजको हेतुः । धर्मिसत्तासमानसत्ताकभेदाभावेऽपि तन्न्यूनसत्ताकभेदेनैव विरुद्धधर्मवत्त्वोपपत्तेरित्याशङ्कां निराचष्टे — न चेति ॥ जीवेशयोरविद्याद्युपाधिकृतभेदेनैवोक्तविरुद्धधर्मवत्त्वोपपत्तिरित्यर्थः । योगिनि योगोपात्तनानादेहवति । तददर्शनाद् उक्तविधविरुद्धधर्मवत्त्वादर्शनात् । तथाचौपाधिकभेदस्य विरुद्धधर्मवत्त्वनिर्वाहकत्वे योगिनोऽपि तत्प्रसङ्ग इति भावः । पूर्वमौपाधिकभेदस्य विशिष्य दुःखानुसन्धातृत्वतदभावोभयनिर्वाहकत्वं निराकृतम् । इदानीं तु सामान्यतो विरुद्धधर्मद्वयनिर्वाहकत्वमिति न पुनरुक्तिः ।
(२४)शर्कराश्रीनिवासाचार्य
इदानीं पूर्वपक्षदूषितानुमानान्युद्धरति ॥ एवं चेति ॥ आत्मनो द्रव्यत्वे आत्मत्वस्य जातित्वे च सिद्धे सतीत्यर्थः । असिद्ध्यभावादिति भावः । आदिपदेनाऽत्मत्वं नानाव्यक्तिनिष्ठं जातित्वादित्याद्यनुमानग्रहणम् । चैत्रशरीरपक्षकानुमानोक्तदोषं परिहरन्नाह — चैत्रशरीरमिति ॥ व्याख्यातमेतदधस्तात् । सिद्धसाधनवारणाय वस्तुत इति । अत्र एकस्वामिकयोर्घटपटयोर्व्यभिचारपरिहाराय हेतौ शरीरपदप्रवेशेऽपि न दृष्टान्तासिद्धिरिति भावः । विमतपक्षकानुमानोक्तदोषं परिहरन्नाह — जीवेशाविति ॥ धर्मिसत्तासमानसत्ताकभेदसाधनात् पारमार्थिकभेदसाधनेऽप्रसिद्धविशेषणत्वम् । व्यावहारिकभेदसाधने सिद्धसाधनमिति चोद्यानवकाश इति भावः । सम्मतवद् दहनतुहिनवत् । अनभिमतपक्षं दूषयन्नभिमतपक्षमाह — विरोध इति ॥ सहानवस्थाननियमेति ॥ नियमेनैकत्रानवस्थितत्वरूपेत्यर्थः । कुत इत्यत आह — ऐक्यवादिन इति ॥ तन्मते आत्मनामेकत्वेन विरुद्धधर्मत्वे वक्ष्यमाणयोरेकत्रैवावस्थानेनैकत्रानवस्थानासम्भवेन स्वरूपासिद्धेरित्यर्थः ॥ वध्यघातुकेति ॥ ननु ‘नाजात एकोऽन्यं हंति नाप्यनाधार’ इति न्यायेन वृश्चिकादीनां स्वजन्मना मात्रादिहन्तृत्वं भटादीनां समरभूमौघटितानां हन्तृत्वमिति लोके दृष्टम् । तत्र वक्ष्यमाणसर्वज्ञत्वादेर्वध्यघातुकभावे एकस्मादन्यजन्माभावेन घटादीनामिवैकस्थानसम्बन्धो वाच्यः । स च तदाधारजीवेशयोरैक्यमेवापेक्षत इति कथं वध्यघातुकभावविरोधविशिष्टधर्माधिकरणत्वेन भेदसाधनमिति चेन्न अत्र जहल्लक्षणया वध्यघातुकभावशब्देन परस्परविरहरूपत्वस्य विवक्षितत्वात् । वक्ष्यमाणसर्वज्ञत्वादेरपि तथात्वात् । संयोगतदत्यन्ताभावावयोश्चसामानाधिकरण्यं नेत्यावयोर्मतमिति न तदाश्रये व्यभिचारः । अत एवैतादृशविरोधविशिष्टं धर्मं दृष्टान्ततयोपादत्ते — नित्यत्वेति ॥ सुखदुःखादावुक्तविरोधविशिष्टत्वाभावात्तादृशविरुद्धधर्मः क इत्यपेक्षायामाह — तादृश इति ॥ तद्व्यवस्था विरुद्धधर्मव्यवस्था । तथाच धर्मिसत्तासमानसत्ताकभेदासिद्ध्याऽर्थान्तरमिति भावः ॥ योगिनीति ॥ योगिषु देहान्तःकरणाद्युपाधिकृतभेदसद्भावेऽपि सुखदुःखादिविरुद्धधर्मव्यवस्थाया अदर्शनान्नोपाधिभेदमात्रेण तद्व्यवस्थोपपत्तिरित्यर्थः ।