०५ (२३) भेदोज्जीवनम्

नन्वेतावताऽऽत्मत्वस्य जातित्वमात्रं सिध्यति नात्मभेदः

(२३)भेदोज्जीवनम्

(२३) नन्वेतावताऽऽत्मत्वस्य जातित्वमात्रं सिध्यति नात्मभेदः । न च तथात्वे व्यक्त्यभेदो बाधकः स्यात् । स ह्यनुगतव्यवहाराभावेनानुगतव्यवहाररूपजातिविषयकप्रमाणविघटनेन दूषणम् । न चात्मत्वजातावनुगतव्यवहारः । येन तद्विघटनेन जातिरेव न सिध्येदिति व्यक्त्यभेदो दूषणं स्यात् । किन्तु त्वदुक्तानुमानान्येव । ततः कथं भेदसिद्धिरिति चेत् । सत्यम् । नात्र व्यक्त्यभेदो जातेः प्रमाणविघटनेन दूषणम् । येनैवमुपलभ्ये(भे)महि । किन्तर्हि लक्षणविघटनद्वारा । नित्यमेकमनेकानुगतमिति हि तल्लक्षणम् ।

(२३)भावप्रदीपः

तथात्वे आत्मभेदाभावे । व्यक्त्यभेदो हि न साक्षादेव जातिबाधकः । किन्तु जातिविषयकप्रमाणविघटकत्वेन । प्रमाणं च नानाविशेष्यकैकप्रकारकाभिज्ञाभिवादनरूपानुगतव्यवहार एव । अत एव घटादिषु घटत्वादिजातेरङ्गीकारो न गगनादिषु गगनत्वादिजातेः । न च प्रकृते आत्मनि तादृशव्यवहारोऽस्ति । स्वात्मातिरिक्तस्यात्मनः प्रत्यक्षत्वाभावात् । अनुमानादेश्चाद्यापि गहननिविष्टत्वात् । अतः कथं व्यक्त्यभेदस्तत्र तद्विघटकत्वेन जातिबाधकः स्यात् । न च तत्रानुगतव्यवहाराभावेऽपि तत्साधकान्यनुमानान्युपन्यस्तान्येविति वाच्यम् । तैर्जातिमात्रसिद्धावप्यात्मभेदसिद्धेरिति भावेन पूर्वपक्षी समाधत्ते । स हीत्यादिना कथं भेदसिद्धिरित्यन्तेन । आत्मत्वजाताविति विषयसप्तमी । अनुगतव्यवहारः प्रमाणमिति शेषः । तथा चात्मत्वरूपानुगतजात्यङ्गीकारेऽयमात्माऽयमात्मेति नानात्मविशेष्यकात्मत्वरूपैकप्रकारव्यवहार एव न स्यात् । अत आत्मत्वजातावनुगतव्यवहार एव प्रमाणमिति न वाच्यमित्यर्थः । त्वदुक्तानुमानान्येव । प्रमाणमिति शेषः ॥ येनैवमुपलभेमहीति । येनानुगतव्यवहाररूपप्रमाणविघटकत्वाभावेन व्यक्त्यभेदस्यादूषणत्वं प्रतीयेत इत्यर्थः ॥ अनेकानुगतमिति ॥ अनेकसमवेतमित्यर्थः । अनुगतमित्यनन्तरमिति शब्दोऽध्याहार्यः । ततश्च नित्यत्वे सत्येकत्वे सत्यनेकानुगतत्वं हि जातिलक्षणमित्यर्थः सम्पद्यते । तथाचात्मभेदानङ्गीकारे आत्मत्वस्यानेकानुगतत्वानुपपत्त्या जातित्वमेव न स्यादिति भावः । अत्रानेकानुगतत्वमित्यनेकसमवेतत्वमुच्यते । अन्यथा गगनात्यन्ताभावेऽनेकानुगतेऽतिव्याप्तिः स्यात् । समवेतत्वस्य त्वभावेऽभावान्नातिव्याप्तिः । तावत्येवोक्ते आकाशसमवेते शब्देऽतिव्याप्तिः । अतोऽनेकेति । परमाणुसमवेतविशेषेष्वतिव्याप्तिनिरासायैकमिति । संयोगे तद्व्युदासाय नित्येति । नन्वथाऽपि नित्यमनेकानुगतमित्येवालम् । अनेकानुगतत्वमित्यस्यानेकत्वसङ्खयावदनुगतत्वविवक्षायां गुणत्वादिजातावव्याप्तेः स्वाश्रयभिन्नसमवेतत्वे विवक्षणीये तेनैकत्वस्य स्वत एव लाभात् । न हि प्रतिव्यक्तिभिन्नस्य स्वाश्रयभिन्नसमवेतत्वं सम्भवति । अत एकमिति माऽस्त्विति चेत् । सत्यम् । तथाऽपि न सामान्यं विशेषवत्प्रतिव्यक्तिभिन्नं किन्त्वेकमेव सर्वत्रानुगतव्यवहारहेतुरिति स्वरूपकथनार्थमेतदिति नैय्यायिकसम्प्रदायविदः ।

(२३)भेदचिन्तारत्नम्

॥ एतावतेति ॥ निर्बाधेन लाघवानुगृहीतेनोक्तानुमानजातेनेत्यर्थः ॥ व्यक्तिभेदो बाधक इति ॥ एवं स्वयं सिध्यतो जातिः स्वबाधकव्यक्त्यभेदं बाधत एव । यावता विना न पक्षे साध्यपर्यवसानं तत्सर्वं पक्षधर्मताबललभ्यमिति न्यायादिति भावः । अनुगतव्यवहारप्रामाण्यकजातावेव तद्बाधो नान्यत्रेत्यत आह — स हीति । एकस्मिन्ननुगतव्यवहारायोगादिति भावः । अनुगतव्यवहार इति प्रमाणीकृत इति शेषः ॥ त्वदुक्तेति ॥ पृथिवीत्वमित्याद्यैरनुमानैरेवानुगतव्यवहारं विना जातिसिद्धौ व्यक्तिभेदस्य कुत्रोपयोग इति भावः ।

(२३)भेदचन्द्रिका

तथात्वे धर्मिभेदाभावे ॥ स हीति । नानाविशेष्यकैकप्रकारकज्ञानरूपोऽनुगतव्यवहारो हि सङ्कराद्यभावे जातौ प्रमाणम् । व्यक्त्यभेदे हि स न स्यादिति । व्यक्त्यभेदस्य प्रमाणविघटकत्वेन दूषणत्वम् । प्रकृते त्वनुगतव्यवहाररूपप्रमाणाभावेऽपि त्वदुदाहृतानुमानानामेव प्रमाणत्वान् न तस्य बाधकतेति समुदायार्थः ।

(२३)भेदसञ्जीविनी

आत्मभेदविचारावसरे उक्तानुमानैस्तदसिद्ध्याऽर्थान्तरतेत्याशङ्कते — नन्वित्यादिना । एकव्यक्तिमात्रविषयकानुगतप्रतीतेस्तद्विषयकत्वेनैव सम्भवात्तन्निर्वाहाय जातिर्न सिध्यति । व्यक्तिबहुत्वे तु घटो घट इत्यनुगतव्यवहारस्यैकव्यक्त्या निर्वोढुमशक्यत्वात्तादृशनिखिलप्रतीतिषु भासमाना एका (जातिः) सिध्यतीति व्यक्त्यैक्यं जातिग्राहकप्रमाणविघटकमिति भावः । एवमुपलभ्ये(भे)महि एवमाक्षेपगोचरा भवाम इत्यर्थः ॥ किन्तर्हीति ॥ लक्षणेति ॥ तथा चारोपितव्यक्तिभेदमादाय गगनत्वे जातिलक्षणातिव्याप्तिपरिहाराय स्वसमानसत्ताकभेदवन्नानाव्यक्तिवृत्तित्वघटितं जातित्वं तदेव साध्यशरीरे जातित्वं निवेशनीयम् । अन्यथा जातित्वस्याखण्डोपाधित्वे मानाभावेन तेन रूपेण निवेशायोगः । तथाऽप्युक्तानुमानबलादेव पारमार्थिकात्मभेदमादायात्मत्वं सिध्यतीति भावः ।

(२३)काशीतिम्मण्णाचार्य

ननूक्तानुकूलतर्कसहकृतेनोक्तानुमानजातेनात्मत्वजातिसिद्धावपि नात्मभेदसिद्धिः । न च तत एव तदनुमानसम्भवः । अप्रयोजकत्वात् । उक्तनियमस्य निर्मूलत्वादित्याशयेन दर्शयति — नन्विति ॥ तथात्वे आत्मभेदाभावे ॥ बाधक इति ॥ आत्मत्वजातिसिद्धिविरोधीत्यर्थः । तथा च विपक्षे बाधकतर्कसम्भवान्नाप्रयोजकत्वमित्यभिसन्धिः । व्यक्त्यभेदो हि न साक्षाज्जातिसिद्धिविरोधी । मानाभावात् । अपि तु कारणविघटनद्वारा । कारणं च क्वचिदनुगतव्यवहारः क्वचिदनुमानम् । प्रकृते त्वनुमानमेव । न च तत्र तस्य व्यक्त्यभेदस्य विरोधित्वं मानाभावादित्याह — स हीति ॥ अनुगतव्यवहारो नाम नानेकेष्वेकधर्मज्ञानम् । अनुगतधर्मसिद्धेः पूर्वं तदसिद्धेः । किन्त्वनेकेष्वेकाकारज्ञानम् । व्यक्तिभेदश्च व्यक्त्यभेदघटिततादृशप्रमाणविरहसम्पादकत्वेन जातिसिद्धिविरोधीत्यर्थः ॥ न चेति ॥ अन्यथाऽनुमानवैयर्थ्यमिति भावः ।

यदुक्तं न चात्मत्वजातावित्यादि तत्सत्यमेव । किन्तु व्यक्त्यभेदस्य जातिलक्षणविरोधितया तदभावधीसम्पादकत्वाज्जातिसिद्धिविरोधित्वमिति समाधत्ते ॥ सत्यमिति ॥ अत्र जातेः प्रकृतसाधनविषयीभूतात्मत्वजातेरित्यर्थः । यद्यपि व्यक्त्यभेदस्य जातित्वाभावव्याप्यतया साक्षादपि जातिसिद्धिविरोधित्वसम्भवः । तथाप्यनुकूलतर्कास्फूर्तौ तादृशव्याप्यत्वस्य दुर्ग्रहत्वाल्लक्षणविघटनद्वारेत्युक्तम् । लक्षणस्य च लक्ष्यतावच्छेदकव्यापकत्वं, व्यापकाभावस्य व्याप्याभावसाधकत्वं च प्रसिद्धमेव । तथाच व्यक्त्यभेदे लक्षणाभावापत्त्या जातित्वानुपपत्तिरूपानुकूलतर्कसत्त्वादुक्तजातित्वहेतुकानुमानेनात्मभेदसिद्धिरावश्यकीत्याशयः ।

ननु कथं व्यक्त्यभेदस्य जातिलक्षणविघटकत्वमिति चेत्तस्य व्यक्तिभेदघटितत्वादित्याशयेन तार्किकोक्तं जातिलक्षणमाह — नित्यमिति ॥ संयोगादावतिव्याप्तिवारणाय नित्यमिति । गगनपरिमाणादावतिव्याप्तिवारणायानेकानुगतमिति । अनेकसमवेतमित्यर्थः । तेनात्यन्ताभावे नातिव्याप्तिः । अनेकसमवेतत्वं च न पदार्थविभाजकोपाधिरूपेण । तथा सत्यनेकवृत्तितावच्छेदकपदार्थविभाजकोपाधिमत्त्वरूपस्य तस्य विशेषेऽपि सत्त्वादतिव्याप्तेः । किन्तु प्रत्येकं स्वसमवायिप्रतियोगिकभेदवत् समवेतत्वपर्यवसितमेव विवक्षितमिति ज्ञापनायैकमित्युक्तम् । एकमिति क्रियाविशेषणम् । तेनैकसम्बन्धेन समवायेनानेकवृत्तित्वलाभ इत्यप्याहुः ।

(२३)शर्कराश्रीनिवासाचार्य

पूर्वमुक्तानुमानैरात्मभेदमात्रसिद्धिमङ्गीकृत्य तस्य पारमार्थिकत्वासिद्ध्याऽर्थान्तरमाशङ्क्य निराकृतम् । अधुनाभेदस्यैवासिद्ध्याऽर्थान्तरमित्याशङ्कते — नन्विति ॥ एतावता उक्तानुमानसमुदायेन । तथात्वे आत्मभेदमनङ्गीकृत्यात्मत्वस्य जातित्वाङ्गीकारे तस्य प्रकृते बाधकत्वं निराकरोति ॥ सहीत्यादिना ॥ स चानुगतप्रत्ययसाध्यः । अनुगतप्रत्ययोप्यनुगतधर्मसाध्य इत्यनुगताघटत्वादिजातिरङ्गीक्रियत इत्यनुगतव्यवहारोऽत्र जात्यङ्गीकारे प्रमाणम् । व्यक्तिभेदाभावे चानुगतव्यवहारस्यैवाभावादनुगतजात्यङ्गीकरो व्यर्थ इति खलु व्यक्त्यभेदस्यानुगतव्यवहाररूपजातिघटकप्रमाणविघटकत्वेन दूषणत्वम् । नच प्रकृतेऽनुगतव्यवहारबलादात्मत्वस्य जातित्वमङ्गीक्रियते । येनानुगतव्यवहाररूपजातिघटकप्रमाणविघटनेन व्यक्त्यभेदो दूषणं स्यात् । किन्तु अनुमानबलादेवात्मत्वस्य जातित्वस्वकारः । नचोक्तरीत्या व्यक्त्यभेदस्य तद्विघटकत्वमस्तीति समुदायस्यार्थः । व्यवहार इत्यनन्तरं प्रमाणमिति शेषः । जातिरेव आत्मत्वरूपजातिरेव । त्वदनुमानान्येव प्रमाणमिति शेषः ॥ ततः कथमिति ॥ व्यक्त्यभेदस्य दूषणत्वे आत्मत्वस्य जातित्वनिर्वाहाय व्यक्तावात्मनि भेदोऽङ्गीकार्यस् तदभावे तु निमित्ताभावादात्मभेदसिद्धिः कथमित्यर्थः । अत्र प्रकृते ॥ लक्षणविघटनद्वारेति ॥ व्यक्त्यभेदे अनेकानुगतत्वरूपलक्षणायोगादिति भावः । किं तज्जातिलक्षणं यद्विघटकत्वेन व्यक्त्यभेदस्य दूषणत्वं जानीम इत्यतो नैयायिकोक्तजातिलक्षणमुपन्यस्यति ॥ नित्यमिति ॥अनेकानुगतमिति ॥ (* इतः ‘अत्र सम्प्रदायविदः’ इति पर्यन्तं मु.पाठे नास्ति ।) अनेकसमवेतमित्यर्थः । अन्यथा आकाशात्यन्ताभावेऽतिव्याप्तिः । तत्र नित्यत्वे सत्येकत्वे सत्यनेकानुगतत्वस्य सत्वात् । समवेतत्वमित्युक्तौ च नातिव्याप्तिः । तत्र नित्यत्वे सत्येकत्वे सत्यपि अनेकसमवेतत्वाभावात् । अभावस्य क्वचिदप्यसमवायात् । तथा च नित्यत्वे सत्येकत्वे सत्यनेकसमवेतत्वं सामान्यलक्षणम् । अत्र समवेतमित्येवोक्तौ शब्देऽतिव्याप्तिः । तस्याकाशसमवेतत्वात् । अतोऽनेकेति । आकाशस्यैकत्वेन शब्दस्यानेकसमवेतत्वाभावात् परिहारः । अनेकसमवेतमित्युक्ते विशेषेषु । तेषामपि अनेकपरमाणुसमवेतत्वात् । अत एकेति । तेषामनन्तत्वात् । एकमनेकसमवेतमित्युक्ते संयोगे । तस्य द्विष्ठगुणत्वेनानेकसमवेतत्वादेकत्वाच्च । अतो नित्येति । तस्यानित्यत्वात् । नित्यमित्युक्ते विशेषेषु । अत एकेति । नित्यमेकमित्युक्ते गगने । अतोऽनेकसमवेतमिति । नित्यत्वे सत्यनेकसमवेतत्वमित्युक्ते विशेषेषु । अत एकेति । अत्र सम्प्रदायविदो ऽत्रैकत्वं न लक्षणशरीरान्तर्गतम् । किन्तु सामान्यं सर्वत्रानुगतव्यवहारहेतुत्वादेकमेव न विशेषवत्प्रतिव्यक्तिभिन्नभिन्नमिति स्वरूपकथनार्थमेवेति ।

अत्रेदं चिन्त्यं किमिदमनेकसमवेतत्वं नामानेकत्वसङ्ख्यावत्समवेतत्वं वा स्वाश्रयप्रतियोगिकान्योन्याभाववत्समवेतत्वं वा आद्ये रूपत्वेऽव्याप्तिः । रूपेऽनेकत्वसङ्ख्याभावेन रूपत्वेऽनेकत्वसङ्ख्यावत्समवेतत्वाभावात् । द्वितीये एकपदवैयर्थ्यम् । नच विशेषेष्वतिव्याप्तिपरिहाराय तत् । तेषां प्रतिव्यक्तिनियतत्वेन कुत्रापि विशेषे स्वाश्रयप्रतियोगिकान्योन्याभाववत्समवेतत्वाभावेनानतिव्याप्तेः । नच विशेषसमुदायेऽस्तीति वाच्यम् । समुदायिभिन्नसमुदायाभावात् । भावे वा तस्य समवेतत्वाभावेनातिव्याप्त्यभावाच्च । समुदायस्याप्येकत्वेन दत्तेऽपि विशेषणेऽतिव्याप्त्यपरिहाराच्चेति । ननु कालाकाशसंयोगस्याजन्यत्वेन नित्यत्वादेकत्वात्कालाकाशरूपानेकसमवेतत्वात्समग्रलक्षणस्य तत्रातिव्याप्तिरिति चेन्न । तादृशसंयोगस्यैवाभावात् । कालाकाशयोरमूर्तत्वेन तत्संयोगानङ्गीकारे व्याप्तत्वभङ्गाभावाच्चेति सङ्क्षेपः ।