व्यक्त्यभेदोऽपि न बाधकः
(२२)भेदोज्जीवनम्
(२२) व्यक्त्यभेदोऽपि न बाधकः । तथा हि । आत्मत्वजातिसाधनद्वाराऽऽत्मभेदः साध्यः । स च सन्दिग्धः । न च साध्याभावसन्देहोऽनुमानं निरुणद्धि (अनुमानविरुद्धः)। (अन्यथा) अनुमानमात्रोच्छेदप्रसङ्गात् । एवं तर्हि गगनत्वादिकमपि जातिः स्यादिति चेन्न । तेषां धर्मिग्राहकमानेन लाघवानुगृहीतेनैकत्वसिद्धेः(सिद्धौ बाधात्) । न चैवं प्रकृते । धर्मिग्राहकप्रत्यक्षस्य भेदग्राहकत्वेनोपपादनात् । न चापारमार्थिकभेदेनाप्युपपत्त्याऽर्थान्तरत्वम् (आत्मत्वजात्युपपत्त्याऽर्थान्तरत्वम्)। जातेर्धर्मिसत्तासमानसत्ताकभेदवद्व्यक्त्याश्रयत्वात् (व्यक्त्याश्रितत्वात्)। अन्यथा गगनत्वस्यापि जातित्वापत्तेः ।
(२२)भावप्रदीपः
पञ्चबाधकानामभावेऽपि व्यक्त्यभेदो बाधकोऽस्त्वित्यत आह — व्यक्त्यभेदोऽपीति । यद्यप्यैक्यवादिनाऽऽत्मव्यक्तेरभेदोऽङ्गीक्रियते । तथाऽपि स नेदानीमपि निश्चितः किन्तु सन्दिग्धः । अत एवात्मत्वस्य जातित्वसाधनद्वाराऽऽत्मभेदः साध्यते । अभेदश्च भेदाभावरूपः । न च साध्याभावसन्देहोऽनुमितिविरोधी । अनुमानमात्रोच्छेदप्रसङ्गात् । प्रत्युत पक्षताघटकत्वेनानुमित्यङ्गम् । अतो नात्र व्यक्त्यभेदोऽपि बाधक इत्यर्थः । इदमपि न्यायमतानुसारेणैव । सिद्धान्ते व्यक्त्यभेदादेरजातिबाधकत्वात् । तथा हि । व्यक्त्यभेदस्तावन्न जातिबाधकः । यथोक्तं तत्त्वनिर्णये –
`यतः स्वरूपतश्चान्यो जातितः श्रुतितोऽर्थतः ।
कथमस्मि स इत्येव सम्बन्धः स्यादसंहित’ इति ।
व्याख्यातं च तट्टीकायां `जातितो जीवत्वादिजातिभेदत’ इति । आदिपदेन विष्णुत्वग्रहः । तथा च विष्णुत्वस्य जातित्वेन प्रमाणसिद्धत्वात्तत्र व्यक्त्यनेकत्वाभावान्न व्यक्त्यभेदो जातिबाधक इत्यवगम्यते । एवं तुल्यत्वमपि न बाधकम् । तुल्यव्यक्तिकयोरुभयोरपि जातित्वाङ्गीकारे बाधकाभावात् । न च घटत्ववत्करीरत्वस्यापि जातित्वापत्तिः । घटत्वातिरिक्तस्य करीरत्वस्याभावात् । घटकरीरशब्दवदेतयोरपि शब्दयोः पर्यायत्वात् । एवं सङ्करोऽपि न बाधकः । मानुषेषु परस्परपरिहारेण वर्तमानयोरपि यतित्वगार्हस्थ्ययोर्देवेषु साङ्कर्यस्य श्रुतिसिद्धत्वात् । अत एव ते न जातीति इति चेत् । तर्हि ब्राह्मणत्वादीनामपि जातित्वाभावापातात् । न च साङ्कर्याभावात्तेषां जातित्वमिति वाच्यम् । साङ्कर्यस्य जातिबाधकतासिद्ध्युत्तरकालीनत्वादस्याः कल्पनायाः । न चैवं भूतत्वमूर्तत्वोरपि जातित्वापत्तिः । मूर्तत्वस्य परिच्छिन्नपरिमाणरूपत्वेनौपाधिकधर्मतया जातित्वशङ्कानर्हत्वात् । अत एव न परापरभावानुपपत्तिरिति । अनवस्थितिरपि न बाधिका । जातौ जात्यङ्गीकारेऽप्यनवस्थाभावात् । यथोक्तमनुव्याख्याने –
`अस्मत्पक्षे गुणाद्याश्च तद्वन्तो हि विशेषतः ।
अनन्यत्वान्नाऽनवस्थे’ति ।
विशेषसमवाययोः स्वरूपस्यैवाभावात्तत्र विशेषत्वसमवायत्वरूपधर्मस्याप्यभावेन तयोर्जातित्वनिरासार्थं रूपहान्यसम्बन्धयोर्बाधकत्वकल्पनं तु दूरोत्सारितमिति सङ्क्षेपः ॥ एवं तर्हीति ॥ व्यक्त्यभेदस्य बाधकत्वाभाव इत्यर्थः ॥ गगनत्वादिकमिति ॥ कालत्वं दिक्त्वं चादिपदार्थः । निराकरोति ॥ तेषामिति ॥ गगनकालदिशामित्यर्थः ॥ तेषामिति ॥ सामान्येन परामर्शान्नपुंसकता । गगनकालदिग्रूपपदार्थानामिति वा ॥ धर्मिग्राहकेति ॥ शब्दः क्वचिदाश्रितो गुणत्वाद्रूपवदित्यनुमानेन सामान्यतः शब्दाश्रयद्रव्ये सिद्धे तस्य पृथिव्याद्यष्टान्यतमत्वस्य बाधितत्वात्तदतिरिक्तद्रव्यं यत्सिद्ध्यति तदेवाकाशं भवति । तस्य चानेकत्वे प्रमाणाभावेन तत्कल्पने गारैवापत्त्या लाघवादेकत्वमेवाङ्गीकार्यम् । एवं कालदिशोरपि । तथा च लाघवानुगृहीतेन धर्मिग्राहकमानेनैकत्वस्यैव सिद्धेर्गगनादिव्यक्तिनानात्वाभावेन तत्र गगनत्वादिजात्यङ्गीकारे व्यक्त्यभेदो बाधको भवत्येवेति भावः । प्रकृतेऽपि तथैवास्त्वित्यत आह — न चैवमिति ॥ उपपादनादिति ॥ `तत्र ब्रूम’ इत्यादिग्रन्थेनोपपादितत्वादित्यर्थः । ननु प्रत्यक्षस्य भेदावगाहित्वेऽपि न पारमार्थिकभेदावगाहित्वम् । अद्वैतश्रुत्यादिविरोधात् । अतोऽपारमार्थिकभेदेनाप्यात्मत्वजात्युपपत्त्या पुनरर्थान्तरतैवेति । तत्राह — न चेति ॥ जातेरिति ॥ त्वन्मतेऽपि घटत्वादिजातेर्धर्मिसत्तासमानसत्ताको यो भेदो व्यावहारिकस्तद्वत्यो या व्यक्तयो घटादिरूपास्तदाश्रितत्वाङ्गीकारात् । प्रकृतेऽप्यात्मत्वजातेर्धर्मिभूतात्मसत्तासमानसत्ताकभेदवत्यो या व्यक्तय आत्मरूपास्तदाश्रितत्वेऽङ्गीकार्ये आत्मवत्तद्भेदस्यापि पारमार्थिकत्वमेव पर्यवस्यतीति भावः । व्यक्तौ भेदमात्रेण जातित्वोपपत्त्या धर्मिसमसत्ताकत्वविशेषणमतन्त्रमेवेत्यत आह — अन्यथेति । गगनेऽपि प्रातिभासिकभेदस्य त्वन्मते सत्त्वेन तावन्मात्रस्यैव जातित्वप्रयोजकत्वे गगनत्वस्य जातित्वं दुर्वारमेव । अतो धर्मिसमसत्ताकत्वविशेषणमावश्यकमेव । ततश्च धर्मिणो गगनस्य व्यावहारिकत्वेन तत्समसत्ताकत्वस्य प्रातिभासिकभेदेऽयोगेन न गगनत्वस्य जातित्वमिति वाच्यम् । तद्वदत्रापि तादृशभेद एव जातित्वप्रयोजक इत्यङ्गीकार्यमिति नार्थान्तरतेति भावः ।
(२२)भेदचिन्तारत्नं
ननु जातिबाधकाभाव एवोक्तन्यायावतार इत्यतः प्रकृतेऽपि तुल्यव्यक्तिकत्वादिकं नास्तीत्याह — व्यक्त्यभेदोऽपीति । प्रकृते साध्याभावरूपतया सन्दिग्धत्वात्सन्देहस्य साध्यसन्देहत्वेनाप्रतिबन्धकत्वादिति भावः । जातेरेव साध्यत्वात्कथमेतदित्यत आह — आत्मत्वेति ॥ अयं भावः । इह चात्मत्वजातिसाधनं न तावन्मात्रतात्पर्यकम् । वैयर्थ्यात् । किन्तु तद्द्वारा व्यक्तिभेद एव साध्यः । एवञ्च परम्परयाभेदस्य साध्यत्वेन न भेदसन्देहोऽनुमितिप्रतिबन्धकः प्रत्युत गुण एवेति । ननु साक्षात्साध्यसन्देह एवाप्रतिबन्धक इति चेन्न । साध्यनियतसंशयमात्रस्य तथात्वात् । अन्यथा वह्निसामग्रीसंशयः प्रतिबन्धकः स्यात् । ननु सत्प्रतिपक्षादिस्थले साध्यसन्देहोऽप्यनुमानं निरुणद्धीति चेत् । सत्यम् । विरोध्याहितस्य तथाभावेऽपि स्वारसिकसंशयस्य गुणत्वात् ॥ गगनत्वादिकमिति ॥ उक्तन्यायादेवेति भावः ॥ धर्मिग्राहकेति ॥ शब्दस्योपादानकार्यत्वादिनेत्यर्थः ॥ न च पारमार्थिकेति ॥ घटादावपारमार्थिके भेदस्य घटत्वेऽपि कृतेनेत्यर्थः ॥ धर्मिसत्तेति ॥ धर्मिणामेव व्यावहारिकत्वेन भेदस्य तथात्वोपपत्तावात्मनो धर्मित्वेन पारमार्थिकत्वसिद्धिरिति भावः । एवञ्च जातिलक्षणेऽनेकानुगतत्वं धर्मिसत्तासमानसत्ताकभेदवद्वृत्तित्वमिति जातिसिद्ध्यैवभेदपारमार्थ्यसिद्धिः । यद्वा ॥ गगनत्वस्यापीति । तत्रापि प्रातिभासिकव्यक्तिभेदस्यैव जातिघटकत्वसम्भवादिति भावः ॥
(२२)भेदचन्द्रिका
॥ अन्यथेति ॥ तत्रापि प्रातिभासिकधर्मिभेदस्य सत्त्वादिति भावः ।
(२२)भेदसञ्जीविनी
शङ्काभिप्रायमाविष्कृत्य निराकरोति ॥ व्यक्त्यभेदोऽपीति ॥ साध्याभावसन्देह इति ॥ स्वारसिकसन्देह इत्यर्थः । आहितस्तु भवत्येव स च प्रकृते नास्त्येव । तस्य परामर्शादौ अप्रामाण्यशङ्कामूलकत्वात् । तेषां च प्रकृतेऽनुकूलतर्कभयेनानुत्थितेरिति भावः ॥ धर्मिग्राहकमानेनेति ॥ शब्दरूपगुणाश्रयतया गगनस्य सिद्धिः । तत्र पृथिव्यादिचतुष्टयकल्पने गौरवप्रतिसन्धानेनैको विभुराकाशः सिध्यति । एवमिदानीं घट इत्यादिप्रतीतिषु तरणिपरिस्पन्दो घटादीनां सम्बन्धघटकतया लाघवादेको विभुः कालः सिध्यति । इह घट इत्यादिप्रतीतिनिर्वाहाय मूर्तसम्बन्धघटकतया लाधवादेका विभुर्दिक् सिध्यति । तत्र जात्यङ्गीकारे नानागगनादिप्राप्त्या तस्य धर्मिग्राहकमानबाधादित्यर्थः । न चेतीत्यर्थान्तरमित्यनेन सम्बन्धः ।
(२२)काशीतिम्मण्णाचार्य
ननु तथापि व्यक्त्यभेदो बाधकः । यथोक्तम् —
`व्यक्तेरभेदस्तुल्यत्वं सङ्करोऽथानवस्थितिः ।
रूपहानिरसम्बन्धो जातिबाधकसङ्ग्रह'
इत्यत आह — व्यक्त्यभेद इति ॥ आत्मत्वस्य जातित्वे व्यक्त्यभेदः स्वाश्रयप्रतियोगिकभेदवदवृत्तित्वं विरोधीति न वाच्यम् । तस्य साक्षाज्जातित्वानुमितिविरोधित्वे मानाभावात् । फलीभूतात्मभेदानुमितौ च तन्निश्चयस्यैव बाधविधया विरोधित्वात्, तस्य च प्रकृतेऽभावादित्याह — आत्मत्वेति ॥ आत्मभेद आत्मत्वस्य स्वाश्रयप्रतियोगिकभेदवद्वृत्तित्वम् । स च सन्दिग्ध इति ॥ तत्सन्देहस्य च व्यक्त्यभेदसन्देहतया न विरोधित्वमिति भावः । ननु तत्सन्देह एवानुमितिप्रतिबन्धको भविष्यतीत्यत आह — न चेति ॥ अनुमानमात्रोच्छेदप्रसङ्ग इति ॥ सर्वत्र साध्यसन्देहसत्त्वादिति भावः । एतच्च साध्यसन्देहः पक्षतेति मतेनोक्तम् । सिद्ध्यभावपक्षतापक्षे तु साध्यसन्देहस्यानुमित्यव्यवहितपूर्वमनावश्यकत्वात् सन्दिग्धसाध्यकानुमानोच्छेदप्रसङ्गो द्रष्टव्यः ।
ननु संशयसाधारणव्यक्त्यभेदज्ञानमात्रस्य जातित्वानुमितौ मणिमन्त्रादिवत् स्वातन्त्र्येणैव विरोधित्वम् । अन्यथोक्तक्रमेण गगनत्वादिजातिसिद्धिप्रसङ्गात् । तथाच नात्मत्वजातिसिद्धिरित्याशङ्कते — एवमिति ॥ व्यक्त्यभेदसन्देहस्य जातित्वानुमित्यविरोधित्व इत्यर्थः । स्यादेवं यदि प्रकृत इव गगनव्यक्त्यभेदः सन्दिग्धः स्यात् । न चैवम् । अपि तु प्रमित एव । तथाच तत एवातिप्रसङ्गवारणादुक्तविरोधित्वे मानाभाव इति भावेन समाधत्ते ॥ धर्मिग्राहकेति ॥ शब्दो द्रव्याश्रितो गुणत्वाद्रूपवदित्यनुमानेन शब्दस्यैकद्रव्याश्रितत्वे लाघवमिति लाघवग्रहसहकृतेन पृथिव्याद्यष्टद्रव्याश्रितत्वबाधे सत्यष्टद्रव्यातिरिक्तैकद्रव्याश्रितत्वस्यैव सिद्ध्या गगनत्वादेर्जातित्वाभावनिश्चयादित्यर्थः । धर्मिग्राहकेत्यनेनोपजीव्यतया प्राबल्यं सूचितम् । तेन वैपरीत्यशङ्कानवकाशः ॥ प्रत्यक्षस्येति ॥ साक्षिणो नाहं निर्दुःख इत्यादिरूपस्य भेदग्राहकत्वेनैव पूर्वमुक्तत्वादित्यर्थः । एवं च नोक्ताभाससाम्यमित्याशयः ।
आत्मत्वं नानाव्यक्तिनिष्ठं जातित्वादिति फलीभूतानुमाने साध्यशरीरे भेदसामान्यप्रवेशादारोपितभेदसिद्ध्याऽप्यनुमानपर्यवसानादर्थान्तरमित्याशङ्क्य निराचष्टे ॥ न चेति ॥ आत्मत्वजात्युपपत्त्या आत्मत्वस्य जातित्वोपपत्त्या ॥ जातेरिति ॥ तथाच धर्मिसत्तासमानसत्ताकभेदस्यैव साध्यघटकत्वादात्मनि पारमार्थिकभेदं विना साध्यापर्यवसानान्नार्थान्तरत्वमिति भावः । ननु जातेर्भेदवद्व्यक्त्याश्रितत्वमित्येव नियमो न तु धर्मिसत्तासमानसत्ताकत्वमपि तत्र निवेश्यत इत्यत आह — अन्यथेति ॥ जातित्वापत्तेरिति ॥ गगनेऽप्यौपाधिकभेदसत्त्वादिति भावः । एतच्च मायिमतेनोक्तम् । सिद्धान्तिभिरौपाधिकभेदानङ्गीकारात् ।
(२२)शर्कराश्रीनिवासाचार्य
तर्हि व्यक्त्यभेदो बाधकोऽस्त्वित्यत आह — व्यक्त्यभेदोऽपि न बाधक इति ॥ अयमर्थः । व्यक्त्यभेदो हि नेदानीमपि निश्चित आवयोस्तत्रैव विवादात् । किन्तु सन्दिग्धः । तथाचात्रभेदस्य साध्यत्वादभेदस्य तदभावरूपत्वात् तत्सन्देहस्य साध्यतदभावकोटिकसंशयत्वात् तस्य च सार्वत्रिकत्वेनानुमानमात्रोच्छेदकतया दूषणत्वात् प्रत्युत पक्षताघटकत्वेनानुमित्यङ्गत्वाद् भेदानुमित्यप्रतिबन्धकत्वाद् व्यक्त्यभेदो नात्र बाधक इति ॥ एवन्तर्हीति ॥ तत्रापि व्यक्तिभेदस्योक्तरीत्या बाधकत्वपरिहारसम्भवादिति भावः ॥ धर्मिग्राहकेति ॥ आकाशो धर्मी । शब्दः क्वचिदाश्रितः गुणत्वादित्यनेन शब्दाश्रये सामान्यतः सिद्धे तस्य पृथिव्याद्यष्टान्यतमत्वबाधे तदतिरिक्तो नवम आकाशाख्यः पदार्थोऽङ्गीक्रियते । लाघवादनेकत्वे प्रमाणाभावाच्चैकत्वं च तस्य निश्चितम् । तथाचैकत्वरूपसाध्याभावस्य निश्चितत्वाद् भवत्येव तत्र व्यक्त्यभेदो बाधक इति भावः । तर्ह्यत्रापि तथैवास्त्वित्यत आह — नचैवमिति ॥ आत्मग्राहकं साक्षिप्रत्यक्षम् । तच्च भेदग्राहकमेवेति नाहं सर्वज्ञ इत्यादिना प्रागुपपादनादित्यर्थः । तस्मान्नाभाससमानयोगक्षेमत्वमिति भावः । उपपत्त्या आत्मत्वजातेः ॥ जातेरिति ॥ जातेर्हि धर्मिणो व्यक्तेर् यदृशी सत्ता तत्समानसत्ताको यो भेदस् तद्वत्यो या व्यक्तयस् तदाश्रितत्वं नियतम् । घटत्वजातेर्धर्मिणो घटस्य या सत्ता व्यावहारिकी तत्समसत्ताको यो भेदो व्यावहारिकस् तद्वत्यो घटव्यक्तयस् तदाश्रितत्वदर्शनात् । तथाऽऽत्मत्वजातेरपि धर्मिण आत्मनो यादृशी सत्ता पारमार्थिकी तत्समसत्ताको यः पारमार्थिकभेदस् तद्वदात्मवृत्तित्वे आत्मनां पारमार्थिकभेदसिद्ध्याऽर्थान्तरता नेत्यर्थः । जातित्वे व्यक्तिभेदमात्रस्य प्रयोजकत्वमस्तु नतु भेदस्य धर्मिसत्तासमसत्ताकत्वमित्यत आह — अन्यथेति ॥ व्यक्तिभेदभावादेव हि गगनत्वस्य जातित्वपरित्यागः । नचासौ युक्तः । तत्रापि प्रातिभासिकभेदसद्भावात् । अतो गगनत्वमपि जातिः
स्यात् । अतोऽत्र प्रातिभासिकभेदसद्भावेऽपि आकाशो धर्मी तस्य या सत्ता व्यावहारिकी तत्समसत्ताकभेदाभावान् न गगनत्वं जातिरिति परिहाराय जातेर्धर्मिसत्तासमानसत्ताकभेदसापेक्षत्वमवश्यमङ्गीकार्यमिति भावः ।