०३ (२१) भेदोज्जीवनम्

न चात्र द्रव्यत्वव्याप्यजातिमत्पदार्थान्तरसिद्ध्याऽर्थान्तरत्वम्

(२१)भेदोज्जीवनम्

(२१) न चात्र द्रव्यत्वव्याप्यजातिमत्पदार्थान्तरसिद्ध्याऽर्थान्तरत्वम् । क्लृप्ते धर्मिणि धर्मविशेषसाधनमात्रेणानुमानपर्यवसानसम्भवे तद्विशिष्टे धर्मिण्यनुमानपर्यवसाने गौरवात् । न चात्मनो द्रव्यत्वासिद्ध्याऽसिद्ध्यादिः । आत्मनि निर्गुणे रूपादिगुणाभावेऽप्ययावद्द्रव्यभाविनां द्वित्वादिगुणानां व्यावहारिकाणामङ्गीकारे बाधकाभावात् । गुणाद्यन्तर्भावप्रसङ्गाच्च द्रव्यत्वसिद्धेः(सिद्धिः) । न चानुकूलतर्काभावादप्रयोजकत्वाभाससमानयोगक्षेमत्वे । आत्मपदप्रवृत्तिनिमित्तस्य आत्मत्वस्य जातित्वाङ्गीकारे लाघवम् । औपाधिकत्वे तु (औपाधिकधर्मत्वाङ्गीकारे तु) तस्योपाधिज्ञानसापेक्षत्वेन गौरवमित्यनुकूलतर्कसनाथत्वात्(तर्करक्षकोपेतत्वात्) । तुल्यव्यक्तिकत्वादीनां च बाधकानामभावात् ।

(२१)भावप्रदीपः

॥ न चात्रेति ॥ मनःपक्षकानुमाने पृथिवीपक्षकानुमाने चेत्यर्थः ॥ जातिमत्पदार्थान्तरेति ॥ आत्मत्वातिरिक्तजातिमद्दृष्टान्ते साध्यवैकल्यम् । तद्यदात्मातिरिक्तपदार्थान्तरं तत्सिद्ध्येत्यर्थः ॥ क्लृप्ते धर्मिणीति । नवद्रव्यपतितेऽत्रात्माख्ये धर्मिणि द्रव्यत्वसाक्षाद्व्याप्यजातिविशेषरूपधर्मसाधनमात्रेणेत्यर्थः ॥ न च द्रव्यत्वासिद्ध्येति ॥ आत्मनो निर्गुणत्वाद्गुणवत्वाधीनं द्रव्यत्वं कथं तस्योपपद्येतेति भावः ॥ असिद्ध्यादिरिति ॥ आत्मपक्षकानुमानेऽसिद्धिः सत्तापक्षकानुमाने साध्ये द्रव्यत्वान्येति विशेषणवैयर्थ्यं द्रव्यत्वपक्षकानुमानेऽतिरिक्तसर्वानुमानेष्वपि बाध इत्यर्थः ॥ रूपादिगुणाभावेऽपीति । रूपादिगुणानां पटादिषु स्वरूपानुबन्धित्वदर्शनेन यावद्द्रव्यभावितयाऽऽत्मनि तदङ्गीकारे आत्मवत्पारमार्थिकत्वापत्त्या निर्गुणत्वश्रुतिव्याकोपापातेन तेषामनङ्गीकार्यत्वादिति भावः । द्वित्वादीत्यादिपदेन त्रित्वादीनां ग्रहणम् । तेषामपेक्षाबुद्धिजन्यत्वेन तद्विनाशे विनाशादयावद्द्रव्यभावित्वमुपपन्नमिति भावः । अयावद्द्रव्यभाविनामपि पारमार्थिकत्वे पुनर्निर्गुणत्वश्रुतिविरोध इत्यत उक्तं व्यावहारिकाणामिति ॥ बाधकाभावादिति ॥ निर्गुणत्वश्रुतिस्तु पारमार्थिकगुणाभावमात्रविषयिणीति भावः ॥ गुणाद्यन्तर्भावप्रसङ्गाच्चेति ॥ आत्मनः पदार्थत्वने द्रव्यत्वानङ्गीकारे गुणाद्यन्तर्भावः स्यात् । स च न युक्तः । न तावद्गुणेऽन्तर्भावः । जात्याश्रयत्वानङ्गीकारात् । नापि कर्मणि । संयोगविभागौ प्रत्यसमवायिकारणत्वाभावात् । नापि सामान्ये । अनेकसमवेतत्वाभावात् । न च समवाये । असम्बन्धरूपत्वात् । नापि च विशेषे । नित्यद्रव्याश्रितत्वाभावात् । नाप्यभावे । प्रतियोग्यनिरूप्यत्वात् । अतो द्रव्यत्वसिद्धिरिति भावः । नन्वेतेष्वनुमानेष्वप्रयोजकत्वशङ्कायां न किञ्चिद्बाधकमस्ति । जलत्वतेजस्त्वसमकक्षतयाऽऽत्मत्वमपि निवेश्य तदितरद्रव्यत्वसाक्षाद्व्याप्यजातिभिन्नत्वस्यापि साधयितुं शक्यत्वेनाकाशत्वादेरपि जातित्वसिद्धिप्रसङ्गेनाभाससाम्यं चेत्याशङ्क्य निराकरोति ॥ न चेति । अत्र योगो नाम व्याप्त्यादिसम्पत्तिः । क्षेमस्तु प्रमाणाबाध इति ज्ञेयम् ॥ आत्मपदप्रवृत्तिनिमित्तस्येति ॥ अयमाशयः । आत्मत्वरूपधर्म एव नास्तीति तावद्वक्तुं न शक्यम् । तथा सति प्रवृत्तिनिमित्ताभावेनात्मन्यात्मशब्दप्रयोग एव न स्यात् । स च जातिर्नचेन्निर्वक्तव्यः । न च स्वप्रकाशत्वमेवात्मत्वमिति वाच्यम् । परमते परावेद्यत्वमेव स्वप्रकाशत्वमित्यङ्गीकारात्स्वप्रकाशत्वस्यैवाधिकधर्मत्वप्राप्त्यापररूपोपाधिज्ञानसापेक्षत्वेन गौरवापातात् । जातित्वाङ्गीकारे तु लाघवम् । तस्या अखण्डत्वेनान्यानपेक्षणात् । तथा च गौरवापत्तिरूपानुकूलतर्कोपोद्बलितत्वेनानुमानानां नाप्रयोजकत्वादीति । ननु सबाधकं लाघवमात्रमकिञ्चित्करम् अन्यथा गगनपदप्रवृत्तिनिमित्तस्य गगनत्वस्यापि जातित्वं स्यादित्यत आह — तुल्यव्यक्तित्वादीनामिति ॥ आत्मत्वस्य जातित्वाङ्गीकार इति वर्तते ।

`व्यक्तेरभेदस्तुल्यत्वं सङ्करोऽथानवस्थितिः ।

रूपहानिरसम्बन्धो जातिबाधकसङ्ग्रह'

इति वचनाद्व्यक्त्यभेदादीनि षड् जातिबाधकानि । तत्र तावत्तुल्यत्वादीनि पञ्चबाधकान्यात्मत्वस्य जातित्वाङ्गीकारे न सन्ति । तथा हि । तुल्यत्वं नाम तुल्यव्यक्तिकत्वम् । तुल्यदेशवृत्तित्वमिति यावत् । तथा च घटत्वाश्रयघटमात्रवृत्तित्वात्करीरत्वस्य न जातित्वम् । परस्पपरिहारेण वर्तमानयोरेकत्र समावेशः सङ्करः । यथा भूतत्वमूर्तत्वयोः । भूतत्वं गगनेऽस्ति न मूर्तत्वम् । मूर्तत्वं च मनस्यस्ति न भूतत्वम् । तयोश्च पृथिव्यादिभूतचतुष्टये समावेशः । अतो न ते जाती । घटत्वे पुनः सत्ताजात्यङ्गीकारे तत्रापि पुनः सत्ताजात्यङ्गीकारप्रसङ्गादनवस्थितेर्जातौ न जातिरङ्गीकार्या । विशेषेषु विशेषत्वरूपजात्यङ्गीकारे रूपहानिर्बाधिका । रूपहानिर्नाम स्वभावहानिः । परमाणुगतविशेषाणां च परमाणुष्वन्योन्यव्यावृत्तिधीहेतुत्वरूपमन्त्यव्यावर्तकत्वस्य भावः । आत्यन्तिकत्वं च कदाऽपि संशयाद्यहेतुत्वम् । अत एव परमाणुप्रत्यक्षवतां योगिनां तत्तद्गतविशेषदर्शिनां कदाऽपि परमाणुषु संशयविपर्ययौ न जायेते । यदि विशेषेष्वपि विशेषत्वजातिः स्यात् तर्हि सर्वेषां विशेषाणां विशेषत्वरूपसमानधर्माक्रान्तत्वेन घटादिष्विव कदाचित्संशयादिसम्भवेन तदाश्रयपरमाणुष्वपि संशयादिप्राप्तौ तेषामुक्तस्वभावहानिः स्यात् । अतो न विशेषेषु जातिरिति । समवाये समवायत्वजात्यङ्गीकारेऽसम्बन्धो बाधकः । यदि समवाये जात्यङ्गीक्रियेत तर्हि जातिव्यक्त्योः समवायनियमात्समवाये पुनः समवायान्तरमङ्गीकरणीयम् । समवायश्चैक एव । अतः समवाये समवायाभ्युपगमे आत्माश्रयापत्त्या न समवायत्वं समवाये जातिरिति । तथा चात्मत्वस्य जातित्वाङ्गीकारे न तावत्तुल्यव्यक्तित्वं बाधकम् । आत्मन्यात्मत्वसमनियतधर्मान्तराभावात् । सद्भावे वा तस्यैव जातित्वापातात् । नापि सङ्करः । आत्मत्वस्यात्ममात्रवृत्तित्वात् । नाप्यनवस्थितिः । तदभावात् । नापि रूपहानिः । आत्मस्वभावस्य कस्याप्यनपायात् । नाप्यसम्बन्धः । समवायसम्भवादिति भावः ।

(२१)भेदचिन्तारत्नम्

अन्तिमत्रयव्यतिरिक्तानुमानानामात्मनो जातिमत्त्व इव जातिमद्दशमद्रव्यसिद्धौ पर्यवसानं किन्न स्यादित्यत आह — न चात्रेति ॥ अन्तिमत्रयव्यतिरिक्तानुमानेष्वित्यर्थः ॥ असिद्ध्यादिरिति ॥ आत्मनो निर्गुणस्येत्याद्युक्तदिशाऽन्त्यानुमानेऽसिद्धिः । अत एवोपान्ते सत्ताद्रव्यत्वरूपात्मनिष्ठजात्यन्यत्वेन दृष्टान्ते साध्यस्य वक्तव्यत्वेन द्रव्यत्वस्यात्मन्यभावे साध्यवैकल्यं चेत्यर्थः ॥ अयावद्द्रव्येति ॥ यावद्द्रव्यभाविगुणाङ्गीकारेऽस्य तु कदाऽप्यनिवृत्त्या निर्गुणत्वभङ्गः स्यात् । उक्तगुणाङ्गीकारे तूत्तरत्र भाविनिर्गुणत्वविरोधादिति भावः । द्रव्यत्वानङ्गीकारे बाधकं चाह — गुणानामिति ॥ अद्रव्यत्वे गुणाद्यन्यतमत्वं स्यात् । अन्यथाऽपदार्थत्वापत्तिरिति ।

ननु द्रव्यादिषट्कातिरिक्तत्वेऽपि पदार्थत्वमङ्गीक्रियते को दोष इति चेत् । तर्हि गुणादिपञ्चकभिन्नत्वमेव द्रव्यत्वं विवक्षितमिति कथमसिद्ध्यादिः ॥ अप्रयोजकत्वाभाससमानयोगक्षेमत्व इति ॥ अन्यत्र सहचारसम्भवेऽपि पक्षे व्यभिचारसम्भवादप्रयोजकत्वम् । न च हेतुमति साध्याभावेनोपाधिसहचारभङ्गेनानुमानमात्रोच्छेदः स्यादिति तर्कोऽस्तीति वाच्यम् । व्यभिचारोच्छेदकस्य व्यभिचारेऽवश्यमुपाधिरित्यनौपाधिकत्वस्यासम्मतेः । न चोपाधिर्न दृश्यत इति वाच्यम् । बाधकाभावे पक्षेतरत्वादीनामपि तथात्वात् । किञ्चाद्यानुमाने जलादीतरेति वदात्मत्वेतरेत्यपि प्रवेशे जातिमद्दशमद्रव्यस्याप्यापत्तिः । तत्रानधिकरणत्वस्यापि प्रवेशे पुनर्द्रव्यान्तरसिद्ध्यापत्तिः । तथाऽऽकाशादीनामपि जातिमत्वं सुसाध्यम् । तथा मनोव्यतिरिक्तपक्षकेष्वनित्यसमानाधिकरणे जातिविशेषणे आत्मानित्यत्वं स्यादित्याभाससाम्यं चेत्यर्थः ॥ लाघवमिति ॥ जात्युपाध्योर्जातिर्बलीयसीति न्यायादिति भावः ॥ उपाधीति । बुद्धिगुणकत्वस्वप्रकाशत्वाद्युपाध्यधीनेति भावः । यद्यप्युक्तोपाधिनैवानुगतप्रतीत्युपपत्तावनौपाधिकत्वाङ्गीकारो व्यर्थः । तथाऽप्यखण्डव्यवहारसिद्ध्यर्थं पराङ्गीकृतानुवादोऽयमिति ज्ञातव्यम् । इदं गौरवं न फलमुखं येन दोषः स्यात्किन्तु कारणमुखमिति दर्शयितुमादावात्मपदप्रवृत्तिनिमित्तस्येत्युक्तम् । ननु व्यक्तिबहुत्वनिश्चय एव जात्युपाध्योरिति न्यायावतारिका । इह तु तत्सन्देहात्कालपर्यन्तत्वेन जातित्वमेव गुर्विति चेन्न । व्यक्तिभेदस्य प्रत्यक्षसिद्धत्वेनाकल्पनात् । प्रत्युतौपाधिकत्वकल्पनस्यैव व्यक्तिभेदग्राहकप्रत्यक्षाद्यप्रामाण्यकल्पनपर्यन्तत्वेन ततोऽतिगौरवमिति । एवञ्च यद्यात्मत्वं न जातिस्तर्हि कल्पनागौरवमिति तर्कसत्त्वान्न दोषः ।

(२१)भेदचन्द्रिका

॥ असिद्ध्यादिरिति ॥ अव्यवहितानुमाने स्वरूपासिद्धिः सत्तापक्षकानुमाने साध्ये विशेषणवैयर्थ्यं कतिपयेषु बाध इति भावः ॥ बाधकाभावादिति ॥ तथा च गुणाश्रयत्वरूपव्यापकनिवृत्त्यभावान्न द्रव्यत्वासिद्धिरिति भावः ॥ गुणाद्यन्तर्भावेति ॥ आत्मनो व्यावहारिकद्वित्वादिगुणानाश्रयत्वे सत्ताश्रयत्वे कर्मणो व्यतिरिक्तत्वेन जातिमात्राश्रयो गुण इति गुणलक्षणाक्रान्तत्वाद्गुणान्तर्भावः स्यात् । सत्तानाश्रयत्वेत्वभावान्तर्भावप्रसङ्गात् । द्वित्वादिगुणाश्रयत्वमङ्गीकार्यम् । ततश्च द्रव्यत्वसिद्धिरिति भावः ॥ न चानुकूलतर्काभावादिति ॥ पृथिवीत्वजलत्वतेजस्त्ववायुत्वमनस्त्वात्मत्वेतरद्रव्यत्वसाक्षाद्व्याप्यजातिभिन्नजातित्वाज्जलत्व

वदिति । सत्ता द्रव्यत्वान्याकाशनिष्ठजात्यन्येत्याभाससमानयोगक्षेमत्वमित्यर्थः । ननु सबाधकं लाघमवकिञ्चित्करम् । अन्यथा गगनपदप्रवृत्तिनिमित्तं गगनत्वमपि जातिः स्यादित्यत आह — तुल्यव्यक्तिकत्वादीनामिति ।

(२१)भेदसञ्जीविनी

॥ न चेति ॥ पदार्थान्तरेति ॥ आत्मसहितनवद्रव्यातिरिक्तेत्यर्थः ॥ क्लृप्ते धर्मिणीति । सर्वप्रत्यक्षसिद्धात्मस्वेव तज्जातिकल्पने लाघवम् । अन्यथा धर्मधर्मिणोरुभयोः कल्पने गौरवं स्यादित्यर्थः । ननु तर्हि क्लृप्तेषु गगनादिष्वेव तत्सिध्येत् । न च तेषां धर्मिग्राहकप्रमाणेनैकत्वेनैव सिद्धत्वाज्जातिकल्पनाऽयुक्तेति वक्ष्यतीति वाच्यम् । तादृशयुक्त्यैकैकगगनादौ तादृशजातिसिद्ध्यभावेऽप्याकाशकालदिक्षु वा विनिगमकाभावानु सन्धानेऽप्यात्मसाहित्येन वा तेषु जात्यङ्गीकारसम्भवात् । आत्मभेदासिद्ध्याऽर्थान्तरतेति चेन्न । सन्दिग्ध एव न्यायप्रवृत्तिर्न तु बाधित इति न्यायात् । गगनकालदिक्षु द्रव्यत्वसाक्षाद्व्याप्यजातेरभावस्यैव निश्चिततया तत्र विवादाभावेन बाधितार्थान् विहायान्यसन्दिग्धात्मस्वेव जातिसिद्धेः । अत एव सर्वाणि मनांसीत्याद्यनुमितिविषयसाध्यसत्त्वनिर्वाहाय केषुचिन्मनस्स्वेक(का)द्रव्यत्वसाक्षाद्व्याप्या जातिरेकाऽपरमनस्स्वेका तादृशी जातिर्मनस्त्वाख्यैका तदुभयव्यापि(काता) माऽस्त्वेव । पक्षता तु सर्वमनसां मनःपदार्थत्वे

नास्तु । साध्यीभूतभेदद्वयस्यैव तादृशसाध्यतावच्छेदकरूपेण पक्षतावच्छेदकव्यापकत्वादवच्छेदकावच्छेदेन साध्यसिद्धेरपि नानुपपत्तिः । अत आत्मत्वासिद्ध्याऽर्थान्तरतेति शङ्काऽपि निरस्ता । निष्प्रामाणिकजातिद्वयाङ्गीकारे गौरवाज्जातिचतुष्टयाङ्गीकारस्यापि सम्भवादतिप्रसक्तेश्च । तादृशजातिद्वयाद्यभावेन मनस्त्वरूपसाक्षाद्व्याप्यजातिमङ्गीकृत्यैव तस्य पक्षतावच्छेदकत्वेनोपादानात्तत्रैतच्छङ्कनस्यैव साहसिकत्वात् । गगनादावपि बाधितत्वाभावात्तत्र जातिसिद्ध्याऽर्थान्तरतेत्याग्रहश्चेत् । साध्यशरीरे पूर्वतरानुमानेषु सर्वेषु द्रव्यत्वसाक्षाद्व्याप्यजातौ शब्दान्यविशेषगुणशून्यमहदवृत्तित्वविशेषणं देयमतो नार्थान्तरताप्रसक्तिरिति द्रष्टव्यम् । न च द्रव्यत्वेत्यविभुद्रव्यत्वादित्यनुमता(मना)भिप्रायेणासिद्ध्युद्भावनमितरानुमानाभिप्रायेण त्वादीति । आत्मन्यपि द्रव्यत्वसाक्षाद्व्याप्यजातेर्व्यापकद्रव्यत्वाभावेन बो(बा)धितत्वग्रहात्तादृशानुमानबलादात्मातिरिक्ते तादृशजातिमद्द्रव्यान्तरमेव सिद्ध्येदित्यर्थान्तरता । द्रव्यान्तरस्याप्यभावनिश्चये बाधो वेत्येतदुभयमादिपदार्थतया बोध्यम् । आत्मनि व्यापकीभूतद्रव्यत्वाभावसिद्धौ बीजाभावः । निर्बीजशङ्कायाः पर्यवसानाभावेन तादृशशङ्कस्य कथकताया एवाभावात् । न च द्रव्यत्वलक्षणत्वेन द्रव्यत्वं प्रति व्यापकीभूतगुणाभावादेव तत्सिद्धिः । तत्रैव बीजाभावात् । नन्वात्मनि तत्तद्गुणाभावसिद्ध्या गुणसामान्याभावसिद्धिः । ज्ञानेच्छादीनां भवतो मनःपरिणततया मनोगुणत्वाङ्गीकारात् । अनुद्भूतरूपादिसत्त्वे मानाभावः । उद्भूतरूपादिसत्त्वे महत आत्मनश्चाक्षुषाद्यापत्तेः । महत्त्वानङ्गीकारेण तदापत्तिवारणे तत्र तच्छब्दाभाव एव मानाभावः । पूर्वमात्मनि रूपं स्थितं तदा चाक्षुषमपि स्थितमिदानीं तन्नाशान्न चाक्षुषत्वमपीत्यसत् । तत्र रूपादिनाशोत्पादस्यैवाभावात् । आत्मनो नित्यत्वेनाश्रयनाशरूपकारणाभावात्तत्र पाकादेरप्रामाणिकत्वात् । तथात्वे रूपान्तरोत्पादावश्यकत्वाच्च । पाकादिरूपकारणासम्भवाच्च । तथैकत्वपरिमाणादिगुणानामपि प्रत्यक्षाद्यविषयत्वेनाप्रामाणिकत्वेनैव तदभावसिद्धेः । तथा च विशेषाभावकूटबलादेव सामान्याभावसिद्धिरिति चेन्न । तावताऽपि द्वित्वसंयोगादिसद्भावे द्वा सुपर्णेत्याद्यागमव्यवहारस्य द्वि(त्व)शब्दपरिषस्वजात इति शब्दबलाच्च सिद्धत्वेनायावद्द्रव्यभावितया तेषामपेक्षाबुद्ध्यन्यदीयक्रियाभिरुत्पत्तिविनाशाङ्गीकारेण द्वित्वसंयोगादिगुणाभावसिद्ध्या विशेषाभावकूटरूपहेतुरसिद्ध एव । अत आत्मनि द्रव्यत्वाभावशङ्कैवात्युक्तेत्याशयेनाह ॥ आत्मनीति ॥ निर्गुण इति ॥ निर्गुणत्वेन श्रौतव्यवहारादिविषयेऽपीत्यर्थः । इदं च निर्गुण इति श्रुतिबलादेव निर्गुणत्वं स्वीक्रियत इति शङ्काद्योतनाय द्वित्वादीनामिति । तथा द्वित्वादिबोधकोक्तश्रुतिसद्भावेन निर्गुणत्वश्रुतेः सत्प्र(तत्प्र)तिपक्षतत्वेन न स्वार्थनिर्णायकत्वम् । विचारदशायां तु द्वित्वाद्यङ्गीकारे बाधकाभावेन तच्छ्रुतेः स्वार्थतात्पर्यनिर्णयविषयत्वेन बलवत्याः(वत्तया) निर्गुणत्वश्रुतेः (श्रुति)गुणसामान्याभावपरत्वे तद्बाधाद् रूपादिरूपगुणाभावपरत्वमिति भावः । ननु ‘नेह नाने’ति श्रुत्या सर्वस्य निषिद्धत्वात्कथं द्वित्वादिकमात्मन्य(नाम)ङ्गीकर्तुं शक्यमित्यतो व्यावहारिकाणामिति । पृथिव्यादिष्वपि पारमार्थिकगुणाभावेन व्यावहारिकगुणाश्रयत्वेनैव द्रव्यत्वस्यैवात्रापि द्रव्यत्वस्यावश्यकत्वमिति भावः ॥ गुणाद्यन्तर्भावेति ॥ द्रव्यत्वानङ्गीकार इति शेषः ॥ प्रसङ्गाश्चेति ॥ गुणाद्यन्तर्भावापादकतर्कबलादित्यर्थः । द्रव्यभिन्नत्वे सति पदार्थत्वाद् गुणादिवद्गुणाद्यन्यतमत्वापत्तिः । न चेष्टापत्तिः । असमवेतत्वात्सत्प्रतियोगिकत्वाभावाच्च गुणाद्यभावान्तर्भावस्य वक्तुमशक्यत्वात् । तस्मादापाद्याभावाद्विशिष्टापादकाभावो(पादको)ऽस्त्वित्यापादकाभावसिद्धौ तस्य पदार्थत्वरूपविशेष्याभावेन पर्यवसाने आत्मनोऽलीकत्वाप्राप्त्या(त्वापत्त्या) विशेषणाभावेन पर्यवसाने द्रव्यत्वसिद्धेरिति भावः । यद्वा निर्गुणत्वप्रतिपादकश्रुतिविषय आत्मनि श्रुतिप्रामाण्याय गुणाभावसत्त्वमपेक्षितम् । तच्च यावद्द्रव्यभाविगुणवति न स्थातुं शक्नोति । अयावद्द्रव्यभाविगुणसत्त्वेऽपि तत्सत्ताकालातिरिक्तकालावच्छेदेन गुणाभावसत्त्वेन श्रुतिप्रामाण्याभावरूपबाधकाभावेन तत्सत्त्वसम्भव इत्यर्थः । सर्वथा तदनङ्गीकारे बाधकमाह — गुणेति ॥ तेषां निर्गुणल(त्व)क्षणत्वादिति भावः ॥ न चानुकूलतर्केत्यादि ॥ आभाससमानेति ॥ आत्मत्वजातिसिद्ध्यनन्तरमपि तद्भिन्नत्वमपि द्रव्यत्वसाक्षाद्व्याप्यजातौ निवेश्य साध्योपादानेन जात्यन्तरादिसाधकानुमानैरात्मा न जातिमान् आत्माभावान्यतरत्वादभाववदित्यादिभिश्च समानयोगक्षेमत्वमित्यर्थः । यद्यप्याभाससाम्यमप्रयोजकतापर्यवसानेनैव दूषणम् । अन्यथा साम्यमात्रसद्भावस्य दूषकत्वे धूमानुमानस्यापि प्रमेयत्वेनाभाससाम्याद्दुष्टत्वापत्तेः । तथाऽपि सुधोक्तरीत्याऽसाधकत्वापादक(त्व)मपि तस्य वर्तत इत्याशयेन पृथगुत्कीर्तनम् ॥ उपाधिज्ञानसापेक्षत्वेनेति ॥ औपाधिकधर्मत्वं नाम नानापदार्थघटितधर्मत्वम् । तज्ज्ञानेन च तद्धटकनानापदार्थज्ञानस्यावश्यकत्वेन तज्ज्ञानाधीनप्रवृत्तिनिमित्तज्ञानाधीनशक्तिज्ञानाङ्गीकारे उपस्थितिगौरवं शक्यतावच्छेदकगौरवं च स्यादित्यनुकूलतर्केणाप्रयोजकत्वशङ्कानिरासादेतेषां साधकत्वमितरेषां पुनरनुकूलतर्काभावात् प्रत्युताप्रामाणिकबहुजातिगौरवमित्यादिप्रतिकूलर्कोत्थानाच्च न साधकत्वमिति भावः । न च तर्हि विभुपदशक्यतावच्छेदकलाधवानुसाराद्विभुत्वजातिरपि सिध्येदुक्तानुमानादिनेति वाच्यम् । केवलानुमानस्याकामगामित्वेन कस्याप्यर्थस्य न साधकत्वं बाधकत्वं च । किन्तु प्रत्यक्षादिसिद्धार्थे सन्देहे युक्तिस्तत्सहायेनार्थसाधिका भवतीति स्वपरयोः सिद्धान्तः । इत्थं चात्मत्वजातेरहमहमित्यादिप्रत्यक्षविषयत्वात्तत्र सन्देहे उक्तानुमानानि तदनुग्राहकतया निर्णायकानि । न च तथा विभुत्वस्थले तस्य प्रत्यक्षवेद्यत्वाभावाच्छक्यतावच्छेदकलाघवमात्रानुसारेण जातिकल्पने नानार्थोच्छेदकप्रसङ्गादित्याशयात् । ननु तर्हि घटं दृष्ट्वा लोकानामयं घट इति करीर इति व्यवहारानुसारात्करीरत्वादिकमिति सिध्येत् । बाधक(साधक)सद्भावात्तेषां जातित्वं नास्तीत्यङ्गीकारे प्रकृतेऽपि तथाऽस्त्वित्याशङ्क्य तुल्यव्यक्तिकत्वस्याबाधकत्वमित्यभिप्रायपूर्वकं निराचष्टे – तुल्येति ॥

(२१)काशीतिम्मण्णाचार्य

मायिनामाशङ्कां मायिरीत्यैव निरस्यति – न चेति ॥ निर्गुणश्रुतिविरोधेनात्मनि गुणवत्त्वासिद्ध्या तद्व्याप्यद्रव्यत्वजातिरप्यसिद्धेत्यर्थः ॥ असिद्ध्यादिरिति ॥ अव्यवहितपूर्वानुमाने स्वरूपासिद्धि

र्बाधश्च । तत्पूर्वानुमाने साध्याप्रसिद्धिः । तत्पूर्वानुमाने द्रव्यत्वान्येति विशेषणवैयर्थ्यम् । तत्पूर्वानुमानेष्वात्मनि द्रव्यत्वव्याप्यजातिसिद्धिमादाय साध्यपर्यवसानायोगादुद्देश्यासिद्धिरित्यर्थः ॥ आत्मनीति ॥ अयं भावः । निर्गुणश्रुत्या पारमार्थिकगुणनिषेधेऽपि व्यावहारिकगुणाङ्गीकारे बाधकाभावः । न च गुणानां यावद्द्रव्यभावित्वेन पारमार्थिकत्वापत्तिः । यावद्द्रव्यभाविरूपादिगुणाङ्गीकारायोगेऽप्यपेक्षाबुद्धिजन्यद्वित्वाद्यङ्गीकारे बाधकविरहादिति । नन्वत्र साधकाभाव एव बाधक इत्यत आह — गुणाद्यन्तर्भावेति ॥ अवृत्तित्वेन गुणाद्यनन्तर्भूतस्य परिशेषाद्द्रव्यत्वसिद्धेरित्यर्थः ।

ननूक्तानुमानेषु हेतुरस्तु साध्यं माऽस्त्वित्यप्रयोजकशङ्कावारकतर्काभावादसाधकत्वम् । एवं पृथिवीत्वं जलत्वादिक्लृप्तजातिव्यतिरिक्तद्रव्यत्वसाक्षाद्व्याप्यजातिभिन्नं जातित्वात्, सत्ता द्रव्यत्वान्याकाशनिष्ठजात्यन्या जातित्वाद्धटत्ववदित्याद्याभाससाम्यं चेत्याशङ्कां निराह — न चेति ॥ आभाससमानेति ॥ योगक्षेमयोः साधकबाधकभावाभावयोराभाससमानत्वमित्यर्थः । तथाचोक्तानुमानस्याभासत्वादस्याप्याभासत्वमविशेषादिति भावः । आभाससाम्यं विघटयिष्यन्ननुकूलतर्कमुपपादयति — आत्मपदेति ॥ आत्मपदशक्यतावच्छेदकस्येत्यर्थः ॥ लाघवमिति ॥ जातेरखण्डत्वेन विशेषणज्ञानाद्यनपेक्षत्वादिति भावः ॥ औपाधिकत्वेति ॥ विशिष्टधर्मस्वरूपत्वेत्यर्थः । अनेकवस्तुघटितस्वप्रकाशत्वादेरात्मपदप्रवृत्तिनिमित्तत्व इति यावत् ॥ गौरवमिति ॥ यद्यपि स्वप्रकाशत्वादेरात्मपदप्रवृत्तिनिमित्तत्वाभावेऽपि स्वघटकोपाधिज्ञानसापेक्षज्ञानकत्वमस्त्येवेति न लाघवावकाशः । प्रत्युत जात्यन्तरकल्पनादेव गौरवम् । तथाप्यात्मपदशक्तिज्ञानादेरनेकोपाधिज्ञानाधीनत्वकल्पनादनेकोपाध्यन्तर्भावेन शक्यतावच्छेदकत्वकल्पनाच्च गौरवं बोध्यम् ।

एवमात्मत्वजातौ साधकसत्त्वमुपपाद्य बाधकासत्त्वमप्युपपादयति — तुल्यव्यक्तिकत्वादीनामिति ॥ घटत्वकलशत्वयोर्भिन्नजातित्वे जातिसमनैयत्यरूपतुल्यव्यक्तिकत्वं बाधकम् । भूतत्वमूर्तत्वयोर्जातित्वे परस्पराभावसमानाधिकरणत्वे सति परस्परसमानाधिकरणत्वरूपसाङ्कर्यम् । जातेर्जातिमत्त्वे जातिपरम्परया अनवस्था । विशेषस्य जातिमत्त्वे जातेरेव व्यावर्तकतया स्वतोव्यावृत्तत्वरूपतत्स्वरूपस्य, जात्यन्यत्वे जातिशून्यत्वे च सति समवेतत्वरूपतल्लक्षणस्य वा हानिः । अभावस्य जातिमत्त्वे समवायवैधुर्यं बाधकम् । आत्मत्वजात्यङ्गीकारे चैतेषामभावादित्यर्थः ।

(२१)शर्कराश्रीनिवासाचार्य

ननूपन्यस्तसर्वानुमानैः पृथिवीत्वजलत्वतेजस्त्ववायुत्वमनस्त्वेतरद्रव्यत्वसाक्षाद्व्याप्यजातिसिद्धौ तादृशजातेरात्मत्वानतिरेकात्तस्य जातित्वसिद्धावात्मभेदसिद्धिरिति मतम् । तन्न आत्मान्यतादृशजात्यन्तरविशिष्टदशमद्रव्यसिद्ध्याऽर्थान्तरादित्याशङ्क्य निराकरोति – नचेति ॥ पृथिवीत्वादिपञ्चकान्यद्रव्यत्वसाक्षाद्व्याप्यजातिमदात्मान्यव्यक्तिसिद्ध्याऽर्थान्तरतेत्यर्थः ॥ क्लृप्त इति ॥ आत्मा धर्मी क्लृप्तस् तत्रात्मत्वजातिरूपधर्मविशेषानुमानपर्यवसाने लाघवम् । धर्ममात्रस्य कल्प्यत्वात् । कल्प्यविशेषधर्मविशिष्टव्यक्त्यन्तरपर्यवसाने गौरवम् । धर्मधर्मिणोरुभयोरपि कल्प्यत्वात् । धर्मिकल्पनातो वरं धर्मकल्पनमिति न्यायादुक्तरीत्यैव साध्यपर्यवसानमिति भावः । नन्वात्मनि निर्गुणे गुणाश्रयत्वरूपद्रव्यत्वस्य मन्मतेऽसिद्ध्याऽऽत्मत्वस्य द्रव्यत्वसाक्षाद्व्याप्यजातित्वासिद्धिः । तथाचानुमानस्य विशेष्यासिद्धिरित्याशङ्क्य निराकरोति — नचेति ॥ व्यावहारिकाणामिति ॥ तथाच `केवलो निर्गुणश्चे’ति श्रुतिः पारमार्थिकगुणनिषेधपरेति भावः । गुणानां त्रिकालाबाध्ययावद्ब्रह्मभावित्वे तेषामपि पारमार्थिकत्वमेवेत्यत उक्तमयावद्द्रव्यभाविनामिति । सत्येवद्रव्येऽपेक्षाबुद्धिनाशेन द्वित्वानाशाद्द्रव्यं यावत्कालं तिष्ठति तावदसतामित्यर्थः ॥ बाधकाभावादिति ॥ त्वत्पक्षेपीति शेषः ॥ गुणादीति ॥ यद्यात्मनो द्रव्यत्वं न स्यात्तदा तस्य गुणादिपदार्थेष्वन्तर्भावः पदार्थान्तरत्वं वा

वक्तव्यम् । तत्राद्ये न तावद्गुणेन्तर्भावः द्रव्यासमवेतत्वात् । तत एव न कर्मणि अचलनात्मकत्वाच्च । नापि सामान्ये अनेकानुगतत्वाभावात् । नापि समवाये असम्बन्धरूपत्वात् । नापि विशेषे नित्यद्रव्यानाश्रितत्वात् । नाप्यभावे प्रतियोग्यनिरूप्यत्वादिति । नापि द्वितीयः पदार्थानां सप्तत्वनियमात् । अतः परिशेषाद्द्रव्यत्वसिद्धिरिति भावः । नन्वपिचेत्यादिनोक्तेष्वात्मत्वजातिसाधकेष्वनुमानेषु सर्वत्र हेतुरस्तु साध्यं मास्त्वित्यप्रयोजकताशङ्कायां बाधकतर्काभावादप्रयोजकत्वम् । तथा पृथिवीत्वं जलत्वतेजस्त्ववायुत्वमनस्त्वात्मत्वेतरद्रव्यत्वसाक्षाद्व्याप्यजातिभिन्नं जातित्वादित्याकाशत्वादेर्जातित्वसाधकाभासानुमानसाम्यं चेत्यत आह — नचेति ॥ अप्रयोजकत्वेति ॥ अप्रयोजकत्वं चाभाससमानयोगक्षेमत्वं चेति विग्रहः । योगशब्देन व्याप्त्यादिसाधकसम्पत्तिर्विवक्षिता । क्षेमशब्देन च प्रमाणबाधाद्यभावः । तथाचाऽभासानुमानतुल्यसाधकबाधकाभाववत्त्वमित्यर्थः । आत्मपदप्रवृत्तिनिमित्तस्य आत्मत्वस्य ॥ लाघवमिति ॥ जातेरखण्डत्वेनान्यज्ञाननिरपेक्षरणादिति भावः । औपाधिकत्वे स्वप्रकाशत्वरूपत्वे ॥ उपाधीति ॥ स्वप्रकाशत्वस्य त्वन्मते इतरावेद्यत्वरूपत्वेनेतररूपोपाधिज्ञानाधीनत्वादित्यर्थः । उपाधिप्रत्ययं विनोपहितप्रत्ययानुपपत्तेरिति भावः ॥ इत्यनुकूलतर्करक्षकोपेतत्वादिति ॥ अनुमानानां विपक्षे कल्पनागौरवरूपानुकूलतर्काख्यरक्षकोपेतत्वादित्यर्थः । नचैवमाकाशपदप्रवृत्तिनिमित्तस्य जातित्वानङ्गीकारे गौरवमिति तत्रापि वक्तुं शक्यमिति वाच्यम् । तत्र जातिबाधकसद्भावेन जातित्वस्याङ्गीकारानर्हत्वेन गौरवस्यादोषत्वादिति भावः । यदाहोदयनः । व्यक्तेरभेदस्तुल्यत्वमित्यादिना । तत्र न तावदात्मत्वस्य जातित्वाङ्गीकारे तुल्यत्वादीनि पञ्च बाधकानि सन्तीत्यर्थः ।