०२ (२०) भेदोज्जीवनम्

द्रव्यत्वं पृथिवीत्वजलत्वतेजस्त्ववायुत्वमनस्त्वेतरजातिं..

(२०)भेदोज्जीवनम्

(२०) द्रव्यत्वं पृथिवीत्वजलत्वतेजस्त्ववायुत्वमनस्त्वेतरजातिं प्रति साक्षाद्व्यापकं सत्तासाक्षाद्व्याप्यजातित्वाद् गुणत्ववत् । सर्वाणि मनांसि स्पर्शानधिकरणद्रव्यत्वसाक्षाद्व्याप्यजातिमद्व्यतिरिक्तानि द्रव्यत्वात् सत्ताधिकरणत्वात् प्रमेयत्वाद्वा पृथिवीवत् । दिग्भेदवादिनां तु सर्वत्र दिक्त्वानधिकरणत्वग्रहणं कार्यम् । सर्वा पृथिवी जलत्वतेजस्त्ववायुत्वमनस्त्वानधिकरणद्रव्यत्वसाक्षाद्व्याप्यजातिमद्व्यतिरिक्ता द्रव्यत्वात्, सत्ताधिकरणत्वाद्वा जलवत् । सत्ता द्रव्यत्वान्यात्मनिष्ठजात्यन्या जातित्वात्, प्रमेयत्वाद्वा घटत्ववत् । द्रव्यत्वं वा सत्तान्यात्मनिष्ठजात्यन्यत् (आत्मनिष्ठसत्तान्यजात्यन्यत्) जातित्वात् प्रमेयत्वाद् घटत्ववत् । द्रव्यत्वं वा सत्तान्यात्मनिष्ठजात्यन्यत् (आत्मनिष्ठसत्तान्यजात्यन्यत्) जातित्वाद् घटत्ववत् । आत्माणुत्ववादिनां तु आत्मा द्रव्यत्वव्याप्यजात्यधिकरणम् अविभुद्रव्यत्वात् पृथिवीवदित्याद्यनुमानान्यात्मभेदं साधयन्ति ।

(२०)भावप्रदीपः

॥ गुणत्ववदिति ॥ अत्र रूपत्वजातिमादाय तद्व्यापकत्वेन साध्यपर्यवसानं बोध्यम् । साध्ये जातिं प्रति व्यापकमित्येवोक्तौ घटत्वमादायार्थान्तरता । अतः साक्षादिति । तावत्येवोक्ते पृथिवीत्वादिपञ्चकमादायार्थान्तरता । तन्निरासायेतरान्तम् । हेतौ जातित्वादित्येवोक्तौ सत्तायां व्यभिचारः । व्याप्यजातित्वादित्युक्तावपि पुनः सत्तायामेव व्यभिचारः । प्रमेयत्वं प्रति व्याप्यत्वात्तस्याः । अतः सत्ताव्याप्यजातित्वादिति । तावत्येवोक्ते घटत्वादौ व्यभिचारस्तद्वारणाय साक्षादिति ॥ सर्वाणि मनांसीति ॥ अत्र मनांसीत्येव निर्देशे कतिपयमनसां पक्षत्वसम्भवेन तेषु स्पर्शानाघिकरणानि यानि द्रव्यत्वसाक्षाद्व्याप्यमनस्त्वजातिमन्त्यवशिष्टमनांसि तद्व्यतिरिक्तत्वसिद्ध्याऽर्थान्तरता । अतः सर्वाणीति । इत्थं च जातिपदस्यात्मत्वजातिमादायैव पर्यवसानम् । स्पर्शानधिकरणेति विशेषणेन पृथिवीत्वजलत्वतेजस्त्ववायुत्वजातिमतां पृथिव्यादीनां व्यावर्तितत्वात् । सर्वेषामपि मनसां पक्षीकृतत्वेन मनस्त्वजातिमतां मनसामपि ग्रहीतुमशक्यत्वात् । स्वस्य स्वव्यतिरिक्तत्वायोगात् । आकाशकालदिशां च द्रव्यत्वव्याप्यजात्यनाश्रयत्वात् । साध्ये जातिमद्व्यतिरिक्तानीत्येवोक्ते सत्तादिजातिमद्गुणकर्मव्यतिरिक्तत्वसिद्ध्याऽर्थान्तरम् । अतो व्याप्येति । तर्ह्यपि सत्ताजातिव्याप्यगुणत्वकर्मत्वजातिमद्गुणकर्मव्यतिरिक्तत्वसिद्ध्याऽर्थान्तरम् । अतो द्रव्यत्वेति । तर्ह्यपि द्रव्यत्वव्याप्यघटत्वादिजातिमद्धटादिव्यतिरिक्तत्वसिद्ध्याऽर्थान्तरम् । अतः साक्षादिति । अथाऽपि द्रव्यत्वसाक्षाद्व्याप्यपृथिवीत्वादिजातिमत्पृथिव्यादिचतुष्टयातिरिक्तत्वसिद्ध्याऽर्थान्तरम् । अतः स्पर्शानधिकरणेति । नन्वेवं स्पर्शानधिकरणद्रव्यत्वव्याप्यजातिमत्पृथिव्यादिचतुष्टयातिरिक्तमित्येवालम् । साक्षादिति व्यर्थम् । द्रव्यत्वपरम्पराव्याप्यघटत्वादिजातिमतां घटादीनां स्पर्शानधिकरणपदेनैव व्यावर्तितत्वादिति चेत् । सत्यम् । तथाऽप्यात्मत्वस्य द्रव्यत्वसाक्षाद्व्याप्यत्वसिद्ध्यर्थं तदिति केचिदाहुः । एके त्वभेदेऽपि व्याप्यव्यापकभावमङ्गीकृत्य द्रव्यत्वस्यापि द्रव्यत्वव्याप्यत्वमस्त्येवेति द्रव्यत्वव्याप्यजातिपदेन द्रव्यत्वजातेरेव ग्रहणसम्भवेन तत्सिद्ध्या पुनरर्थान्तरता स्यात् । अतस्तन्निरासाय साक्षादिति । साक्षाद्व्याप्यत्वं च तद्व्याप्याव्याप्यत्वे सति तद्व्याप्यत्वम् । द्रव्यत्वस्य च द्रव्यत्वव्याप्यत्वादेव तद्व्याप्याव्याप्यत्वाभावेन द्रव्यत्वसाक्षाद्व्याप्यत्वाभावात् । आत्मत्वजातिमादायैव तस्य पर्यवसानमिति साक्षात्पदकृत्यामाचक्षते । वस्तुतस्त्वभेदे व्याप्यव्यापकभावो नास्त्येवेति पक्षे साक्षात्पदमनपेक्षितमेवेति बोध्यम् ॥ पृथिवीवदिति ॥ तत्र तादृशमनस्त्वजातिमादाय तद्वन्मनोव्यतिरिक्तत्वेन साध्यं बोध्यम् । ननु दिक्षु स्वाभाविकभेदवादिनां मते दिक्त्वस्य जातित्वोपगमेन पृथिवीत्वादिपक्षकानुमानेषु दिक्त्वभिन्नत्वसिद्ध्या द्रव्यत्वपक्षकानुमाने दिक्त्वजातिं प्रति साक्षाद्व्यापकत्वसिद्ध्या मनःपक्षकानुमाने दिक्त्वजातिमद्दिग्भेदसिद्ध्याऽर्थान्तरतैवेति तत्राह — दिग्भेदवादिनां त्विति ॥ तानुद्दिश्येत्यर्थः ॥ दिक्त्वानधिकरणत्वग्रहणमिति ॥ उपलक्षणमेतत् । दिक्त्वग्रहणमित्यपि ग्राह्यम् । अत्र सर्वत्रेत्युक्तत्वात् । तथा च मनःपक्षकानुमाने स्पर्शानधिकरणेतिवद् दिक्त्वानधिकरणेति पूरणीयम् । इतरानुमानेषु जलत्वादिसमकक्षतया दिक्त्वेति पूरणीयमिति भावः । एवमेव वक्ष्यमाणपृथिवीपक्षकानुमानेऽपि दिक्त्वानधिकरणमित्यपि द्रष्टव्यम् । अत एवात्र सर्वत्रेत्युक्तम् ॥ सर्वा पृथिवीति ॥ अत्रापि सर्वपदकृत्यं यत्किञ्चित्पृथिवीपक्षीकारे उक्तरूपपृथिवीत्वजातिमदवशिष्टपृथिवीव्यतिरिक्तत्वसिद्ध्याऽर्थान्तरवारणमेव पूर्ववदनुसन्धेयम् । साध्ये जलादिभेदमादायार्थान्तरतानिरासायानधिकरणान्तम् । गुणादिव्यतिरिक्तत्वमादाय तद्वारणाय द्रव्यत्वव्याप्येति जातिविशेषणम् । अत्रापि साक्षात्पदमात्मत्वस्य द्रव्यत्वसाक्षाद्व्याप्यत्वसिद्ध्यर्थमित्याहुः ॥ जलत्ववदिति ॥ अत्र पृथिवीभेदमादाय साध्यपर्यवसानम् ॥ सत्तेति ॥ द्रव्यत्वान्या आत्मनिष्ठा या जातिस्तदन्येत्यर्थः । अत्रात्मनिष्ठद्रव्यत्वजातिव्युदासाय द्रव्यत्वान्येति ॥ पृथिवीत्वादिवारणायात्मनिष्ठेति ॥ सा च जातिरात्मत्वं विना नान्या भवितुमर्हतीति भावः ॥ घटत्ववदिति ॥ अत्र सत्ताजातिमादाय तदन्यत्वं साध्यं बोध्यम् ॥ द्रव्यत्वं वेति ॥ अत्रापि द्रव्यत्वभेदमादाय दृष्टान्ते साध्यपर्यवसानम् ॥ अविभुद्रव्यत्वादिति ॥ अत्राकाशादावनैकान्त्यवारणायाविभ्विति । गुणादौ तद्वारणाय द्रव्यत्वादिति । नैय्यायिकादिभिरात्मनोऽणुत्वानङ्गीकारात्तद्रीत्या हेतोरसिद्धिशङ्कावारणायादावेवात्माणुत्ववादिनामित्युक्तम् ॥ इत्याद्यनुमानानीति ॥ अत्रादिपदेनात्मत्वं जातिः स्वाश्रयरूढपदप्रवृत्तिनिमित्तत्वाद् घटत्ववत् । आत्मपदं स्ववाच्यनिष्ठसत्ताद्रव्यत्वान्यजातिप्रवृत्तिनिमित्तकं रूढत्वाद् घटपदवत् । आत्मा वा आत्मपदप्रवृत्तिनिमित्तजात्याश्रयस्तत्पदरूढार्थत्वात् । यो यत्पदरूढार्थः स तत्पदप्रवृत्तिनिमित्तजात्याश्रयः । यथा घटपदरूढार्थो घटो घटपदप्रवृत्तिनिमित्तघटत्वरूपजात्याश्रय इत्यादीन्यनुमानानि ग्राह्याणि ।

(२०)भेदचिन्तारत्नम्

॥ साक्षाद्व्यापकमिति ॥ तद्व्याप्यतयाऽऽत्मत्वजातिसिद्धिरिति भावः । घटत्वादिव्यापकत्वेनान्यथासिद्धिवारणाय प्रतिज्ञायां साक्षादिति । व्याप्यान्तरशून्ये चरमव्याप्ये शरावोदञ्चनत्वादौ व्यभिचारवारणाय हेतौ साक्षाद्व्याप्येति । जातिपदं स्वरूपकथनम् ॥ जातिमद्व्यतिरिक्तानीति ॥ व्यतिरेकप्रतियोगिविशेषणतयाऽऽत्मत्वजातिसिद्धिरिति भावः । मनोऽन्तरादन्यथासिद्धिवारणाय सर्वाणीति पक्षविशेषणम् । अथाऽपि मनसामन्योन्यं भेदेनान्यथासिद्धिरिति चेन्न । मनस्त्वावच्छिन्नव्यतिरेकाधिकरणत्वस्य साध्यत्वात् । न चैवं साध्यवैकल्यम् । मनस्त्वावच्छिन्नेति स्थाने द्रव्यत्वसाक्षाद्व्याप्येति सामान्याश्रयणोपपत्तेः । यद्वा, द्रव्यत्वसाक्षाद्याप्यजातिमद्व्यतिरिक्तानीत्यस्योक्तजात्यवच्छिन्नप्रतियोगिताकव्यतिरेकाधिकरणानीत्यर्थः । पृथिव्यादिचतुष्टयवारणाय स्पर्शानधिकरणेति । जात्यादिव्यतिरिक्तसिद्धसाधनतावारणाय जातिमदिति । गुणादिभ्यस्तद्वारणाय द्रव्यत्वव्याप्येति ॥ पृथिवीवदिति ॥ उक्तरूपमनोभिन्ना सेति ज्ञेयम् । भेदवादिनां तस्यापि जातित्वेन सर्वत्रान्थासिद्धिरित्यत आह — सत्तेति ॥ अत्र द्रव्यत्वव्याप्यात्मनिष्ठत्वेनान्यथासिद्धिवारणाय द्रव्यत्वान्येति । उक्तरूपसत्ताभिन्नं तदिति ज्ञेयम् । द्रव्यत्वमिति पूर्ववत् ॥ आत्मेति ॥ सत्ताद्रव्यत्वाभ्यामर्थान्तरवारणाय द्रव्यत्वव्याप्येति । आकाशादौ व्यभिचारवारणाय हेतावविभ्विति । एतदसिद्धिर्माभूदित्यादावात्माणुत्ववादिनामित्युक्तम् ॥ इत्यादीति ॥ पृथिवीगुणा जलतेजोवायुमनस्त्वासमानाधिकरणजातिसमानाधिकरणगुणभिन्ना गुणत्वाद्रूपवत् । बुद्धिः सत्ताद्रव्यत्वान्यजातिसमानाधिकरणा शब्दान्यगुणत्वाद्रूपवत् । पृथिवी जलादीतरविशेषगुणाधिकरणजातिमद्विभिन्ना प्रमेयत्वाज्जलवत् । आत्मत्वमात्मसमानाधिकरणप्रतियोगिताकसमानाधिकरणं धर्मत्वात्पटवदित्याद्यूह्यम् ।

(२०)भेदचन्द्रिका

॥ द्रव्यत्वमिति ॥ घटत्वादिव्यापकत्वमादाय सिद्धसाधनतावारणाय साक्षादिति । इतरं तद्व्यापकत्वमादाय सिद्धसाधनतावारणाय । व्यापकत्वमधिकदेशवृत्तित्वम् । तेन द्रव्यत्वस्य स्वव्यापकत्वमादाय न सिद्धसाधनता । जातिं प्रति व्यापकत्वमेव विशिष्टजातिव्यापकत्वम् । तेन गुणकर्मपृथिव्यन्यत्वविशिष्टसत्ताव्यापकत्वमादाय न सिद्धसाधनता । अपरजातौ व्यभिचारवारणाय सत्तासाक्षाद्व्याप्येति । तद्व्याप्यजात्यव्याप्यत्वे सति तद्व्याप्यत्वं तस्मात्साक्षाद्व्याप्यत्वम् ॥ गुणत्वादिवदिति ॥ गुणत्वादिसाक्षाद्व्यापकत्मादाय साध्यं बोध्यम् । कर्मत्वेऽप्युत्क्षेपणत्वादिसाक्षाद्व्यापकत्वमादाय साध्यसत्त्वान्न व्यभिचारः ॥ सर्वाणि मनांसीति ॥ कतिपयमनसां पक्षीकारेण मनोऽन्तरव्यतिरिक्तत्वमादाय सिद्धसाधनतावारणाय सर्वाणीति । स्पर्शानधिकरणेति जातिमतो विशेषणम् । रूपादिव्यतिरिक्तत्वमादाय तद्वारणाय द्रव्यत्वसाक्षाद्व्याप्येति । साक्षात्पदमात्मत्वस्य द्रव्यत्वसाक्षाद्व्याप्यत्वसिद्ध्यर्थमिति ॥ पृथिवीवदिति ॥ मनोव्यतिरिक्तत्वमादाय साध्यं बोध्यम् ॥ दिग्भेदवादिनामिति ॥ स्वाभाविकदिग्भेदवादिनामव्यवहितानुमाने स्पर्शानधिकरणदिक्त्वानधिकरणद्रव्यत्वसाक्षाद्व्याप्यजातिमद्व्यतिरिक्तानीति साध्यं कर्तव्यम् । दिक्त्वभेदमादाय सिद्धसाधनतावारणाय सर्वानुमानेषु दिक्त्वेतरत्वं साध्ये विशेषणं देयमिति भावः ॥ सर्वा पृथिवीति ॥ यत्किञ्चित्पृथिवीपक्षीकारे पृथिव्यन्तरभेदमादाय सिद्धसाधनमिति सर्वेति । अधिकरणान्तं जलादिभेदमादाय सिद्धसाधनतावारणाय । गुणत्वादिव्यतिरिक्तत्वमादाय तद्वारणाय द्रव्यत्वसाक्षाद्व्याप्येति । साक्षात्पदमात्मत्वस्य साक्षाद्व्याप्यत्वसिद्ध्यर्थम् ॥ जलत्ववदिति ॥ पृथिवीभेदमादाय साध्यं

बोध्यम् ॥ सत्तेति ॥ द्रव्यत्वभेदमादाय सिद्धसाधनतावारणाय द्रव्यत्वान्येति । गुणत्वादिभेदमादाय तद्वारणायात्मनिष्ठेति । आत्मभेदाभावेऽप्यात्मवृत्तिभेदमादाय तद्वारणाय जातीति ॥ घटत्ववदिति ॥ सत्ताभेदमादाय साध्यं बोध्यम् ॥ द्रव्यत्वं चेति ॥ पूर्ववदेव कृत्यानि । दृष्टान्ते तु द्रव्यत्वमादाय साध्यं बोध्यम् ॥ आत्माणुत्ववादिनामिति ॥ स्वरूपासिद्धिपरिहारायेदम् । गगनादौ व्यभिचारवारणायाविभ्विति । गुणादौ व्यभिचारवारणाय विशेष्यम् ॥ आत्मभेदं साधयन्तीति ॥ आत्मत्वजातिसाधनेनेति भावः ।

(२०)भेदसञ्जीविनी

॥ द्रव्यत्वमिति ॥ साक्षाद्व्यापकमिति ॥ तद्व्यापकीभूतस्वभिन्नं प्रत्यव्यापकत्वे सति तद्व्यापकमित्यर्थः । इदं च घटत्वादिव्यापकतामादाय सिद्धसाधनतावारणाय साक्षाद्व्याप्येति । घटत्वादौ व्यभिचारवारणाय समवायेन सत्तानिरूपितव्याप्यत्वलाभाय हेतौ जातित्वोत्कीर्तनम् । अन्यथा कालिकेन घटत्वस्य जन्यमात्रे सत्त्वात्सत्ताव्याप्यजातेः समवायेन कस्या अपि सर्वत्राभावाद्धटत्वस्यापि सत्ताव्याप्यजात्यव्याप्यत्वगर्भितसाक्षाद्व्याप्यत्वं प्रसज्येत । सत्ताव्याप्यत्वस्य सम्बन्धसामान्येन निवेशे कालिकेन तथात्वाभावादसिद्धिश्च स्यादतस्तदावश्यकम् ॥ सर्वाणि मनांसीति । अत्रैतदनुमानात्पूर्वं द्रव्यत्वं पृथिवीत्वजलत्वतेजस्त्ववायुत्वमनस्त्वभिन्नद्रव्यत्वसाक्षाद्व्याप्यजातिभिन्नं प्रमेयत्वादिति पाठो दृश्यते । तत्र द्रव्यत्वसाक्षाद्व्याप्यत्वं द्रव्यत्वसाधारणमेव निर्वाच्यम् । तेनात्मत्वजातिसिद्धेः प्राक् साध्याप्रसिद्धिः प्रकृतानुमानसिद्धात्मत्वजातावेव व्यभिचारादस्यानुमानस्यासदनुमानत्वमिति शङ्कानवकाशः । न चानुमित्युत्पत्तेः पूर्वमात्मत्वजातेरेवानुपस्थितत्वान्न तत्र व्यभिचारग्रहावकाशः सिद्ध्यनन्तरं तस्या जातेः सिद्धत्वेनैव व्यभिचारग्रहं प्रत्युपजीव्यत्वेन व्यभिचारग्रहेण तद्विघटनानुपयोग इति वाच्यम् । तत्सिद्ध्युत्तरमप्युक्तव्यभिचारग्रहस्य परामर्शाप्रामाण्यग्रहसम्पादनद्वारोक्तानुमित्यप्रामाण्यग्रहजननेन प्रकृतसाध्यासिद्धिविघटकस्याऽकरसिद्धत्वात् ।

सर्वाणि मनांसीत्यत्र मनस्त्वावच्छेदेन साध्यसिद्धेरुद्देश्यतालाभाय सर्वाणीति । तत्सामानाधिकरण्येन साध्यसिद्धेरुद्देश्यत्वे ऽनुमित्यनन्तरं मनस्त्वसामानाधिकरण्येन साध्याभावसन्देहानिवृत्तौ तत्रैव प्रकृतहेतोर्व्यभिचारसन्देहाहिताप्रामाण्यसन्देहस्य प्रकृतपरामर्शजननेना नुमित्यप्रामाण्यसन्देहः स्यात् । एवं किञ्चिन्मनोवत्तदन्यमनसामपि हेतु(मत्त्व)सत्त्वेऽपि साध्याभावः किन्न स्यादित्यप्रयोजकताशङ्का च स्यात्तन्निरासाय यत्नान्तरकरणम् । प्रक्षालनाद्धीति न्यायेनानुचितमिति मनस्त्वावच्छेदेनैव साध्यसाधनस्योचितत्वात् । यत्किञ्चिन्मनोभेदस्यान्यमनसि सत्त्वात्सिद्धसाधनतावारणाय सर्वाणीत्युक्तमिति तु न सत् । तथात्वेऽपि तन्मनस्येतन्मनोभेदरूपसाध्यस्यैतन्मनसि तन्मनोभेदरूपसाध्यस्य सत्त्वेन सिद्धसाधनताऽनुद्धारात् । न चैक एव भेदः सर्वपक्षेषु नास्तीति वाच्यम् । किमतः साध्यतावच्छेदकाक्रान्तव्यक्तीनां मध्ये एकैकत्र पक्षे एकैकस्या व्यक्तेः सत्त्वमात्रेण सिद्धसाधनताया आवश्यकत्वात् । अन्यथा पर्वतत्वावच्छेदेन वह्निनिश्चयदशायां सिद्धसाधनताभावप्रसङ्गात् । न चैकभेद एवसाध्य इति वाच्यम् । भेदे एकत्वसङ्खयारूपगुणाभावेन साध्याप्रसिद्धेः । अन्यादृशस्य निवेशे गुणस्य वा तत्राङ्गीकारेऽप्येकत्वस्याव्यावर्तकतयैकभेदत्वरूपसाध्यतावच्छेदकस्यापि सर्वभेदेष्वव्याहतेः । अन्यादृशं तु प्रकृतोपयोगि निर्वोढुमशक्यम् । नियतैकव्यक्तेरेकसाध्यतेत्यसत् पक्षे दृष्टान्ते चैकभेदस्यानुपादानात् । न च मनस्त्वावच्छेदेन साधनेऽपि तत्तन्मनोभेदास् तादृशजातिमत्स्पर्शानधिकरणप्रतियोगिताका भवन्त्येवेति तानादाय सिद्धसाधनता । तादृग्जातिमत्स्पर्शानाधिकरणत्वावच्छिन्नप्रतियोगिताकभेदस्तु न निवेशयितुं शक्यते । तादृशजातिमत्स्पर्शानधिकरणं नेति प्रतीतिसिद्धभेदरूपस्य साध्यमनस्त्वजातिमति मनस्यभावेनाबाधात् । अतस्तादृशयत्किञ्चिदेकजातीयाव्यापकप्रतियोगिताकभेद एव साध्यत इति वाच्यम् । तथा च कथं तन्मनोभेदमादाय सिद्धसाधनता सर्वत्वेन निवेशोत्तरमिति वाच्यम् । हन्त तर्हि तददानेऽपि कथं सिद्धसाधनता । भवदुक्तसाध्यपरिष्कारे व्यासज्यवृत्तिधर्मावच्छिन्नप्रतियोगिताकभेदस्य प्रत्येकाङ्गीकारे सिद्धसाधनतैव । मनोघटभेदस्य मनस्यबाधात् । यत्किञ्चित्त्वनिवेशादननुगमे गौरवं च । स्पर्शानधिकरणवृत्तितादृशजात्यवच्छिन्नप्रतियोगिताकभेदत्वेन साध्यत्वात्तत्र तन्मनोभेदमादाय सिद्धसाधनताप्रसक्तेः । तस्मादुक्तप्रयोजनमेव युक्तम् । पृथिवीभेदादिकमादाय सिद्धसाधनतावारणाय स्पर्शानधिकरणेति । तेषामप्युत्पत्तिकालावच्छेदेन स्पर्शाभाववत्त्वात्पुनस्तद्दोषवारणाय स्पर्शानधिकरणत्वावच्छिन्नप्रतियोगिताकत्वनिवेशः । द्रव्यवृत्तिजातिनिवेशेऽपि सत्तायास्तथात्वात्तदाश्रयगुणभेदमादाय सिद्धसाधनतावारणाय द्रव्यत्वव्याप्यत्वनिवेशः । द्रव्यत्वस्यापि द्रव्यत्वव्याप्यत्वात्तदाश्रय गगनादि भेदमादाय सिद्धसाधनतावारणाय साक्षादिति । साक्षात्त्वं च मुख्यत्वं प्रकृते विवक्षितम् । तच्च भेदघटितम् । अभेदे व्याप्यव्यापकभावस्य प्राचीनैरनङ्गीकृतत्वेन तस्य मुख्यत्वात् । तथा च द्रव्यत्वभिन्नद्रव्यत्वव्याप्यजातिमत्स्पर्शाधिकरणमिति लभ्यते । गगनादिकं च न तथेति सिद्धसाधनतावकाशः । इदं तु यथाश्रुतसाध्यानुसारेणापाततः स्पर्शानधिकरणद्रव्यवृत्तिजात्यवच्छिप्रतियोगिताकभेदनिवेशस्यावश्यकत्वेन सत्ताद्रव्यत्वे समुदायोक्तदोषासंस्पर्शात् । परन्तु गुणभेदादिकमुपादाय दोषवारणाय द्रव्यवृत्तित्वमात्रं जातौ देयमित्याहुः । अन्ये त्वत्र व्यासज्यवृत्तिधर्मावच्छिन्नप्रतियोगिताकभेदानङ्गीकारात्तादृशजातिमत्प्रतियोगिताकभेदत्वेनैव(त्वेन) साध्यता । तत्तन्मनोभेदमादाय सिद्धसाधनतावारणं तु साध्यीभूतभेदे पक्षतावच्छेदकव्यापकताभानस्यावश्यकत्वात्तत्र पक्षतावच्छेदकीभूतमनस्त्ववन्निष्ठभेदप्रतियोगितानवच्छेदकत्वलक्षणं भेदघटितमेव व्यापकत्वं साध्ये वा तत्साध्यतावच्छेकसम्बन्धे वा भासते न तु मनोनिष्ठात्यन्ताभावप्रतियोगितानवच्छेदकसाध्यतावच्छेदकवत्त्वरूपम् । इदं चैकैकभेदस्य तादृशभेदघटितव्यापकत्वाभावादेव न सिद्धसाधनतावकाशः । तथा च स्पर्शानधिकरणीभूतद्रव्यत्वसत्तादिजातिमद्गगनादिभेदमादाय सिद्धसाधनतावारणाय द्रव्यत्वसाक्षाद्व्याप्यत्वं जातौ देयमेव । परन्तु द्रव्यत्वस्य स्वव्याप्यत्ववत्स्वसाक्षाद्व्याप्यत्वस्याप्यभेदेनोक्तदोषानिस्तारात् साक्षात्पदस्य मुख्यार्थकत्वमाश्रित्य द्रव्यत्वभिन्नत्वे सति तद्व्याप्यत्वार्थकत्वे पर्यवसानं कर्तव्यमित्याहुः । परे तु अवच्छेदकावच्छेदेनानुमितौ साध्ये वा साध्यतावच्छेदकसम्बन्धे वा यद्व्यापकत्वं भासते तन्न परामर्शे साध्ये वा तत्सम्बन्धे वा तद्भानमनुरुध्य किन्तु परामर्शस्यावच्छेदकावच्छेदेन हेत्ववगाहित्वमनुरूद्ध्यैव । तच्चान्यत्र यथा क्लृप्तं तथाऽत्रापीत्यङ्गीकर्तव्यम् । तथा च घटा रूपध्वंसवन्तः पर्वतो वह्निमानित्यनुमितिषु सर्वत्रात्यन्ताभावघटितव्यापकत्वभानस्यैवानुमितेरप्रामाण्यवारणायावश्यकत्वमभ्युपगन्तव्यतया अत्रापि तद्भानस्यैव प्राप्त्या ऽवच्छेदकावच्छेदेन साध्यसाधनेऽपि सिद्धसाधनताऽर्थान्तरयोरावश्यकत्वात् । न हीदं वाक्यं येन वक्तृतात्पर्यानुसारेणार्थावगाहिनीमनुमितिं परामर्शो जनयेत् । स्पर्शानधिकरणद्रव्यनिष्ठजात्यवच्छिन्नभेदसाधनेनैवाभिमतार्थसिद्धौ व्यासज्यवृत्तिधर्मावच्छिन्नभेदानभ्युपगमसाक्षाद्व्याप्यत्वनिवेश साक्षात्पदार्थान्तरादितात्पर्याद्यनेकप्रयासस्य ग्रन्थकृतामनौचिती च । तस्मान्नेदं साक्षाद्व्याप्यत्वपदप्रयोजनकथनं युक्तं किन्तु हेतौ व्यर्थविशेषणघटितत्वे यथा व्याप्यत्वासिद्ध्या न तथा साध्यशरीरे वैयर्थ्यं साध्यविशेषणानामुद्देश्यप्रतीत्यर्थत्वात् । उद्देश्यतापि कुत इत्येतावन्मात्रमवशिष्यते त(अ)त्र इत्थं ब्रूमः । पृथिवीत्वादिसमशीलत्वसिद्ध्यसिद्धिशङ्कान्तरनिरासद्वारेणेत्यभिप्रायेणेति । शङ्कान्तरं च यथा घटदौ घटत्वव्याप्यच्चैत्रजन्यदशघटेषु चैत्रजन्यतावच्छेदकजातयोऽपि प्राचीनैरङ्गीकृता लिप्यादावनुभवसिद्धाश्च । जानेऽहं चैत्रस्येयं लिपिर्न मैत्रस्य तस्य तु विलक्षणेति सर्वलोकसिद्धव्यवहारात् । उत्पत्तिक्षणद्वितीयक्षण एव न(ना)श्यमाना अपि पदार्थाः प्राचां ग्रन्थे व्यवहृताः । तथा सुरभ्यसुरभ्यवयवारब्धद्रव्येऽवयवगन्धेन कार्ये गन्धजनने विरुद्धं गन्धद्वयस्य कार्ये आपत्तिरेकस्यैवोत्पत्तिरित्यत्र नियामकाभावात् । चित्रगन्धस्यापि सिद्धान्तेऽनङ्गीकारात्तत्रावयविनि गन्धो नास्त्येव किन्त्ववयवगन्धस्यैव प्रत्यक्षं न चैवं चित्ररूपस्याप्यसिद्धिरिति वाच्यम् । बहिर्द्रव्यप्रत्यक्षे उद्भूतरूपस्य कारणतायाः क्लृप्तत्वेन धर्मिणि रूपाभावे तत्प्रत्यक्षानुपपत्त्या तत्सिद्ध्यर्थं चित्ररूपस्याभ्युपगमादिति प्राचां ग्रन्थे व्यवहारः । तथोक्तं तर्कदीपिकायाम् `सुरभ्यसुरभ्यवयवारब्धे द्रव्ये परस्परविरोधे गन्धानुत्पादाच्चित्रगन्धानङ्गीकारात् । तत्राद्यक्षणावच्छिन्ने घटे उत्पन्नविनष्टघटादौ च गन्धवत्त्वलक्षणमव्याप्तमिति’ । इत्थं च प्रकृते चैत्रजन्येषूत्पन्नविनष्टदशघटेष्वेवासम्भाविता(नां) शीतानुष्णाशीतवज्जलपृथिव्युभयारब्धचैत्रमैत्रजन्येषु केषुचिद्द्रव्येषु चित्रस्पर्शस्यापि सिद्धान्तविरुद्धतया कस्यापि स्पर्शस्याभावेन स्पर्शानधिकरणेषु वा चैत्रमैत्र जन्यतावच्छेदकजातीनामनुभवसिद्धानां चापह्नोतुमशक्तत्वात्ता जातीरुपादाय सिद्धसाधनम् । तासां स्पर्शानधिकरणवृत्तित्वात् । तदवच्छिन्नभेदस्य मनस्यभावात् (अबाधात्) । एतेन स्पर्शासामानाधिकरण्यस्य जातौ निवेशेनैव द्रव्य(त्व)सत्त्वयोर्वारणाद् द्रव्यत्वव्याप्यत्वमेव नोपादेयं कुतस्तरां साक्षात्पदमित्यपि प्रत्युक्तम् । उक्तजातीरुपादाय सिद्धसाधनताया अवारणादिति । तच्छङ्कानिरासस्तु तादृशपदार्थस्वरूपाणां बलवतीभिर्युक्तिभिर्निराकरणपूर्वकं तादृशजातिखण्डनेन वा ता अङ्गीकृत्य वा प्रकृतानुमाने जातिषु द्रव्यत्वसाक्षाद्व्याप्यत्वविशेषणप्रक्षेपेण वा भवति (भवतीति) तत्र तत्खण्डनादीनां प्रकृतानुपयोगेनानवसरदुःस्थत्वात्तदङ्गीकृत्यैव समानाधिकरणे सिद्धान्ते उत्कर्षसत्त्वात्स्वाभिमतात्मत्वजातेः पृथिवीत्वसमशीलत्वस्यापि सिद्धेश्चैतदेव युक्तमित्याशयेन द्रव्यत्वसाक्षाद्व्याप्यत्वोपादानमित्याहुः ॥ दिग्भेदवादिनां त्विति ॥ प्राचीनैकदेशिसिद्धान्तिनेत्यर्थः । अत्र सर्वत्र दिक्त्वानधिकरणत्वमित्येतदनुमानपूर्वोत्तरानुमानसहितैतदनुमानाभिप्रायेण । जातिभेदसाधकानुमानेषु दिक्त्वमादाय सिद्धसाधनतावारणाय दिक्त्वभेदोऽपि जातौ निवेश्य इति ज्ञेयम् ॥ सर्वा पृथिवीति । अत्र सर्वपदप्रयोजनं पूर्ववदेव ॥ साक्षाद्व्याप्येतीति ॥ अन्ये त्वित्युक्तमतरीत्याऽपरे त्वित्युक्तमतरीत्या केवलोद्देश्यप्रतीत्यर्थकत्वेन वा । सार्थकमिति ध्येयमित्याहुः । वस्तुतः पृथिवीत्वावच्छेदेन साध्यस्य साधनेऽपि पक्षतावच्छेदकव्यापकतावच्छेदकत्वस्यात्यन्ताभावघटितस्यैव साध्यतावच्छेदकभानस्यानुमितौ व्यवस्थापितत्वात् । जलत्वादिजातिचतुष्टयानधिकरणपृथिवीरूपद्रव्यवृत्तिघटत्वपटत्वाद्यवच्छिन्नप्रतियोगिताकभेदानामुक्तजातिचतुष्टयानधिकरणपृथिवीरूपद्रव्यवृत्तिजात्यवच्छिन्नप्रतियोगिताक भेदत्वेन पृथिवीत्वव्यापकत्वात्सिद्धसाधनतावारणाय साक्षाद्व्याप्यत्वविशेषणं जातौ सार्थकमित्यनुसन्धेयम् । अन्ये तु `सर्वाणि मनांसि’ इत्यत्र तादृशजातिमद्व्यक्तिभेदस्य साध्यत्वे तत्तन्मनोभेदमादाय सिद्धसाधनता । तादृशजातिमत्त्वावच्छिन्नप्रतियोगिताकभेदसाधने बाधः । तादृशजातिशरीरे मनस्त्वस्यापि घटकत्वात् । अतस्तादृशयत्किञ्चिज्जातिसमनियतव्यासज्यवृत्तिधर्मावच्छिन्नप्रतियोगिताकभेदः साध्यम् । तच्च प्रत्येकं सर्वमनस्सु वर्ततेऽतः सिद्धसाधनं दुर्वारमिति मनस्त्वसमनियतव्यासज्यवृत्तिधर्मस्य पक्षतावच्छेदक्(ता)अलाभाय सर्वाणि मनांसीति । व्यासज्यवृत्तिधर्मावच्छिन्नानुयोगिकप्रत्येकवृत्तिधर्मावच्छिन्नभेदाम्युपगमपक्षे मनस्त्वावान्तरजातिसिद्ध्याऽपि साध्यस्योपपन्नतयाऽर्थान्तरता स्यादिति जातिर्द्रव्यत्वसाक्षाद्व्याप्यत्वेन विशेषिता । तन्निवेशेऽपि पृथिवीत्वादिकमादाय सिद्धसाधनतावारणाय स्पर्शानधिकरणवृत्तीति । स्पर्शाधिकरणत्वं च (सर्ववाद्यभ्युपगत)सम्बन्धसामान्येन बोध्यम् । तेनात्मैक्येऽप्याकाशकालदिगात्मस्वात्मातिरिक्तोक्तत्रयेषु कालदिशोर्बहुत्वमङ्गीकृत्य प्रत्येकं तयोर्वा गगनकालयोर्वा कालदिशोर्वो गगनदिशोर्वा जातिसिद्ध्याऽपि साध्यसत्त्वनिर्वाहादर्थान्तरतेति शङ्कानवकाशः । काले कालिकसम्बन्धेन दिशि च दिक्कृतविशेषस्पर्शसत्त्वेनोक्तजातिषु स्पर्शसामानाधिकरण्यविरहात् । दिक्कृतविशेषणतया दिगुपाधिषु वृत्त्यभ्युपगमान्मनस्त्वसङ्ग्रहणसम्भवेन दृष्टान्ते साध्यसत्त्वोपपत्तिः । न च तथाऽपि गगनात्मनोर्जातिसिद्ध्याऽपि सम्भवादर्थान्तरता दुर्वारेति वाच्यम् । शब्दासामानाधिकरण्यस्यापि जातिविशेषणत्वात् । न चात्मैक्येऽपि मनः साधारण्येन जात्यभ्युपगमसम्भवात्पुनरर्थान्तरता दुर्वारेति वाच्यम् । तथा सति मूर्तत्वस्यापि जातित्वापत्या साङ्कर्यसम्भवे तथाविधजातिकल्पनासम्भवाभावादित्यभिप्रायात् । मूर्तामूर्तोभयवृत्तिभिन्नत्वं वा देयम् । वस्तुतस्तु यथाश्रुते पृथिवीत्वादीनां द्रव्यत्वव्याप्यमूर्तत्वव्याप्यतया द्रव्यत्वसाक्षाद्व्याप्यत्वशेषणेनैव स्पर्शानधिकरणेत्यादि व्यर्थमेव स्यात् । अतः साक्षाद्व्याप्येत्येतद्द्रव्यविभाजकोपाधेः परिचायकमेव । तथाच स्पर्शासमानाधिकरणद्रव्यविभाजकजातिपर्याप्तावच्छेदकताकभेदः साध्यम् । तत्र प्रत्येकं कस्यापि मनसः पक्षत्वाऽङ्गीकारेऽपि न दोष इति सूचनाय सर्वाणि मनांसीत्युक्तम् । सर्वाण्येव मनांसीत्यर्थः । `सर्व एव शुभः काल’ इत्यादाविव तद्व्यक्तित्वेन मनसामुपस्थितिसम्भवः । सर्वा पृथिवीत्यादावप्येवमेव प्रयोजनमूह्यमित्याहुः । आत्माणुत्वेति वक्ष्यमाणहेतोरसिद्धिवारणायाविभ्विति गगनादौ गुणादौ च व्यभिचारवारणाय हेतुघटकविशेषणविशेष्यभागौ ॥ इत्याद्यनुमानानि चेति । आत्मा द्रव्यत्वन्यूनवृत्तिजातिमान् घटात्मसंयोगाद्घटवत् । आत्मा(न)णुत्वपक्षे शरीरात्मसंयोगाच्छरीरवदित्यादीनि द्रष्टव्यानि । अणुपक्षे तु पूर्वोक्तसाध्य एवाणुत्वं क्रियावत्त्वं वा हेतुर्मनदिदृष्टान्तः । क्रियावत्त्वं च `सोऽस्माच्छरीरादुत्क्रम्ये’ति श्रुतिसिद्धमेव । अणुत्वपक्षे आत्मसंयोगान्तःकरण एवेति वक्तुं शक्यत्वादिदं न घटते । कण्ठोक्तानुमानानामिवैषामप्यनुकूलतर्कसानाथ्येनार्थसाधकत्वात् ।

(२०)काशीतिम्मण्णाचार्य

॥ द्रव्यत्वमिति ॥ अत्र रूपत्वादिजातिमादाय दृष्टान्ते, आत्मत्वजातिमादाय पक्षे साध्यसत्त्वं बोध्यम् । द्रव्यत्वस्य पृथिवीत्वादिसाक्षाद्व्यापकतया सिद्धसाधनवारणायेतरान्तम् । अष्टद्रव्यवृत्त्युपाधिव्यापकत्वमादाय तद्दोषवारणाय जातिपदम् । तादृशजातित्वावच्छिन्नव्यापकत्वं जातेर्बाधितमतस्तादृशयत्किञ्चिदेकजातिव्यापकत्वलाभाय समासमुपेक्ष्य जातिं प्रतीत्येकवचनान्तं पृथगुपात्तम् । पृथिवीत्वादिभिन्नघटत्वव्यापकत्वमादाय सिद्धसाधनमतः साक्षात्पदम् ।

साक्षाद्व्यापकत्वं च तद्व्यापकजात्यव्यापकत्वम् । व्यापकत्वं चाधिकदेशवृत्तित्वम् । तच्च तदवच्छिन्नभेदवद्वृत्तित्वे सति तद्वद्वृत्तित्वम् । पृथिवीत्वादिभिन्नं यद्रूपत्वादि तद्वद्वृत्तिरूपत्वादिकं प्रति तदवच्छिन्नभेदवद्वृत्तिरसत्वादिकं प्रति च गुणत्वस्य व्यापकत्वाद् दृष्टान्तस्य साध्यवैकल्यापत्तिरतः सत्यन्तविशेष्यदलयोर्निवेशः । तादृशधर्माव्यापकत्वस्य साध्यत्वे गुणत्वस्य विशेषगुणत्वादिरूपतादृशधर्मव्यापकतया साध्यवैकल्यमतस्तादृशजात्यव्यापकत्वमनुसृतम् । न च पृथिवीत्वादिव्यतिरिक्तरूपत्वादिव्यापकगुणत्वाव्यापकत्वस्य द्रव्यत्वे सिद्धत्वात्सिद्धसाधनमिति वाच्यम् । तदव्यापकत्वस्य तदवच्छिन्नभेदवदवृत्तित्वरूपतया तादृशगुणत्वाव्यापकत्वस्य द्रव्यत्वे बाधितत्वात् । न च पृथिवीत्वादिव्यतिरिक्तगुणत्वव्यापकसत्ताजात्यवच्छिन्नभेदवदवृत्तित्वमादाय सिद्धसाधनमिति वाच्यम् । तदवच्छिन्नभेदवदसमवेतत्वस्य विवक्षितत्वात् । सत्ताजात्यवच्छिन्नभेदवत्समवेतत्वस्यैवाप्रसिद्ध्या सिद्धसाधनानवकाशात् । एवं च स्वाधिकरणवृत्तित्वस्वावच्छिन्नभेदवद्वृत्तित्वोभयसम्बन्धेन पृथिवीत्वादिव्यतिरिक्तकिञ्चिज्जातिविशिष्टजात्यवच्छिन्नभेदवदसमवेतत्वं साध्यमिति निष्कर्षः । उभयसम्बन्धप्रवेशात् पृथिवीत्वादिव्यतिरिक्तरूपत्वाद्यवच्छिन्नभेदवद्वृत्तिस्तादृशरसत्वादिमद्वृत्तिश्च या रसत्वादिजातिस् तद्व्यापकत्वेऽपि गुणत्वरूपदृष्टान्तस्य न साध्यवैकल्यम् । तेन रूपत्वव्यापकगुणत्वं प्रति गुणत्वस्य स्वाधिकरणवृत्त्यभावाप्रतियोगित्वेन व्यापकत्वादव्यापकत्वरूपसाध्यवैकल्यं दृष्टान्तस्येति निरस्तम् । अधिकदेशवृत्तित्वरूपव्यापकत्वस्यैव विवक्षितत्वादिति ।

हेतौ जातित्वमात्रस्य सत्तायामनैकान्त्यात् सत्ताव्याप्येति । व्याप्यत्वं च पूर्ववन्न्यूनवृत्तित्वरूपं ग्राह्यम् । अतः स्वस्य स्वव्याप्यत्वमादाय न दोषः । घटत्वादौ व्यभिचारवारणाय साक्षात्पदम् । यद्यपि घटत्वादौ पृथिवीत्वादिभिन्नघटत्वादिसाक्षाद्व्यापकत्वरूपसाध्यसत्त्वान्न व्यभिचारावकाशः ।

तथापि पृथिवीत्वादिभिन्नद्रव्यत्वव्यापकद्रव्यगुणान्यतरत्वरूपधर्मान्तराव्यापकत्वसिद्ध्याऽर्थान्तरवारणाय तद्व्यापकजात्यव्यापकत्वे सति तद्व्यापकत्वमेव साक्षाद्व्यापकत्वपदेन विवक्षणीयमित्याशयेन तदुपादानात् । अन्यथा तु नोपादेयमेव साक्षात्पदमित्यवधेयम् । गगनावृत्तिधर्मसमवायित्वे व्यभिचारवारणाय जातित्वनिवेशः । एतच्चोपलक्षणम् । द्रव्यत्वं मूर्तावृत्तिजातिमद्वृत्ति, सत्तासाक्षाद्व्याप्यजातित्वादमूर्तवृत्तिजातित्वाद्वा गुणत्वादिवत् । द्रव्यत्वमात्मवृत्तिजातिव्यापकम्, आत्मानात्मवृत्तिजातित्वात् सत्तावदित्यादिकमप्यूह्यम् ।

॥ सर्वाणि मनांसीति ॥ दृष्टान्ते मनस्त्वजातिमद्व्यतिरिक्तत्वेन पक्षे चात्मत्वजातिमद्व्यतिरिक्तत्वेन साध्यपर्यवसानं बोध्यम् ।

अत्र यत्किञ्चिन्मनसः पक्षत्वे मनोऽन्तरव्यतिरिक्तत्वमादाय सिद्धसाधनात् सर्वाणीत्युक्तमिति केचित् । तच्चिन्त्यम् । सर्वेषामपि मनसां चालिनीन्यायेन तादृशजातिमन्मनःप्रतियोगिकभेदवत्त्वेन सर्वपदोपादानेऽपि सिद्धसाधनानुद्धारात् । तादृशजात्यवच्छिन्नप्रतियोगिताकभेदवत्त्वस्य साध्यार्थत्वे च सर्वपदवैयर्थ्यात् । न च तादृशजातिमत्प्रतियोगिकयत्किञ्चिदेकभेदस्य साध्यत्वान्न दोषः । एकमनोभेदस्य सर्वमनस्स्वभावादिति वाच्यम् । तादृशभेदप्रतियोगिन्यनैकान्त्यात् । साध्ये साक्षात्पदवैयर्थ्यप्रसङ्गाच्च । मनस्त्वावान्तरजातिमत्प्रतियोगिकैकभेदस्य सर्वमनस्स्वभावादेव सिद्धसाधनानवकाशात् । यत्तु द्रव्यत्वव्याप्यद्रव्यत्ववद्गगनादिभेदमादाय सिद्धसाधनवारणाय साक्षात्पदम् । द्रव्यत्वस्य च द्रव्यत्वव्याप्याव्याप्यत्वाभावान्न दोष इति । तन्न । द्रव्यत्वसाधारणद्रव्यत्वव्याप्यत्वविवक्षायां द्रव्यत्वव्याप्याव्याप्यत्वे सति द्रव्यत्वव्याप्यजात्यप्रसिद्ध्या साध्याप्रसिद्धेः । यदप्यात्मत्वस्य द्रव्यत्वसाक्षाद्व्याप्यत्वसिद्ध्यर्थं साक्षात्पदमिति । तदपि न । तत्सिद्धेः प्रकृतानुपयुक्तत्वात् ।

तस्मात्तादृशजात्यवच्छिन्नप्रतियोगिताकभेद एव साध्यः । सर्वपदं त्ववच्छेदकावच्छेदेन साधनस्यापि साधुत्वज्ञापनार्थम् ।पृथिव्यादिव्यतिरिक्तत्वमादाय सिद्धसाधनवारणाय स्पर्शानधिकरणेति । जातिगुणादिव्यतिरिक्तत्वेन सिद्धार्थतानिरासाय द्रव्यत्वव्याप्यजातिमदिति । मनस्त्वावान्तरचित्तत्वादिजातिमद्व्यतिरिक्तत्वमादाय तद्दोषभङ्गाय साक्षात्पदम् । एतत्सूचनार्थं सर्वाणि मनांसीत्युक्तम् । चित्तादिभेदेन नानाजातीयानीत्यर्थः । तेन ‘मनस्त्वावान्तरजातेरप्रामाणिकत्वात् साक्षात्पदवैयर्थ्यमि’ति शङ्कानवकाशः । यद्यप्यत्राऽत्मपृथिव्यादिसाधारणजात्यन्तरसिद्ध्याऽर्थान्तरसम्भवः । तथापि स्पर्शानधिकरणेत्यनेन स्पर्शासमानाधिकरणत्वस्य जातौ विवक्षितत्वान्न दोषः । पृथिवीत्वादिकं द्रव्यत्वसाक्षाद्व्याप्यं, द्रव्यविभाजकजातित्वान् मनस्त्ववदित्यनुमानविरोधेन तादृशजात्यन्तरासिद्धेश्च । आत्माकाशादिमात्रसाधारणजात्यन्तरसिद्धिस्तु प्रागेव दूषितेति । नन्वेवमपि स्वाभाविकदिग्भेदवादिनां मते दिक्त्वजातिमद्व्यतिरिक्तत्वमादाय सिद्धसाधनमत आह — दिग्भेदवादिनामिति ॥ अत्र द्रव्यपक्षकानुमाने । उपलक्षणमेतत् । द्रव्यत्वादिपक्षकोक्तानुमानेष्वपि दिक्त्वेतरत्वग्रहणं कार्यम् ।

॥ सर्वा पृथिवीति ॥ जलतेजोवायुमनसां त्वप्रत्ययेनान्वयः । अन्यत्पूर्ववत् । अनयैव रीत्या प्रत्येकं जलादिपक्षकानुमानान्यूह्यानि । एवं पृथिव्यादिद्रव्याणि आत्मवृत्तिजातिमद्व्यतिरिक्तानि अनात्मत्वाद् गुणादिवदित्यनुमानं बोध्यम् ।

॥ सत्तेति ॥ अत्र दृष्टान्ते सत्तान्यत्वमादाय पक्षे चात्मत्वान्यत्वमादाय साध्यसत्त्वं द्रष्टव्यम् । द्रव्यत्वपृथिवीत्वादिभेदमादाय सिद्धसाधनवारणाय द्रव्यत्वान्यत्वात्मनिष्ठत्वयोर् जातौ, जातेश्च गुणभेदमादाय तद्दोषनिरासाय निवेशः । यद्यप्यात्मत्वसिद्धेः प्रागात्मनिष्ठत्वस्य निवेशासम्भवः । जातिं विना व्यक्तिभानायोगात् । तथापि तद्व्यक्तित्वेनाष्टद्रव्यान्यद्रव्यत्वेन वा तन्निवेशान्न दोषः । न चैवमप्यात्मपृथिव्युभयानुगतजात्यन्तरसिद्ध्याऽर्थान्तरमिति वाच्यम् । तस्य विनिगमनाविरहेण यावद्द्रव्यवृत्तित्वे तुल्यव्यक्तिकतया द्रव्यत्वानतिरेकात् । एतेन द्रव्यत्वं वेत्यादिकं व्याख्यातप्रायम् ।

॥ आत्मेति ॥ जीवात्मेत्यर्थः । तेन नेश्वरे भागासिद्धिः । अत्र द्रव्यत्वादिजात्या सिद्धार्थतावारणाय द्रव्यत्वव्याप्येत्युक्तार्थकम् । एकत्वादिना तद्दोषवारणाय जातीति । गगनादौ व्यभिचारवारणायाविभ्विति । विभुत्वं च सर्वमूर्तसंयोगित्वं परममहत्त्ववत्त्वं वा । तच्छून्यत्वरूपाविभुत्वस्य गुणादावनैकान्त्याद् द्रव्येति । एतादृशहेतोरसिद्धिपरिहारायैवात्माणुत्ववादिनामित्युक्तम् । नत्वात्मविभुत्वपक्षे हेत्वन्तरासम्भवात् । प्रत्यक्षद्रव्यत्वादेर्हेतुत्वसम्भवात् । एवं पटो पटात्मान्यतरवृत्तिजातिशून्यो मेयत्वाद्धटवत् । सत्ताद्रव्यत्वाभ्यामनेन ज्ञायमानमिदमिदानीमात्मवृत्तिजात्या न ज्ञायते, वस्तुत्वाद्वस्त्वन्तरवदित्यादिकमात्मत्वजातिसाधकमनुमानं द्रष्टव्यम् ॥ द्रव्यत्वव्याप्यजातीति ॥ तादृशजात्यन्तरविशिष्टदशमद्रव्यसिद्ध्या पृथिवीत्वादिपक्षकानुमानेष्वर्थान्तरमित्यर्थः ॥ गौरवादिति ॥ धर्मधर्म्युभयकल्पनातो धर्ममात्रकल्पनाया लघुत्वादिति भावः । न चैकव्यक्तौ जातिकल्पनायोगाद्व्यक्त्यन्तरकल्पनमावश्यकमेवेति वाच्यम् । अक्लृप्तानेकव्यक्तिकल्पनापेक्षया क्लृप्तव्यक्त्यन्तर्भावेन जातिकल्पने लाघवानपायात् ।

(२०)शर्कराश्रीनिवासाचार्य

॥ सत्तेति ॥ सत्ताजातिसाक्षाद्व्याप्यजातित्वादित्यर्थः । दृष्टान्ते रूपत्वव्यापकत्वेन साध्यपर्यवसानम् । साध्ये जातिं प्रति व्यापकमित्येवोक्ते घटत्वं प्रति व्यापकत्वसिद्ध्याऽर्थान्तरत्वम् अत उक्तं साक्षादिति । साक्षाद्व्यापकत्वं च तद्व्यापकाव्यापकत्वे सति तद्व्यापकत्वम् । द्रव्यत्वस्य घटत्वव्यापकपृथिवीत्वव्यापकत्वेन तद्व्यापकाव्यापकत्वाभावेन साक्षाद्व्यापकत्वाभावान्न दोषः । जातिं प्रति साक्षाद्व्यापकमित्युक्ते पृथिवित्वादिपञ्चकं प्रति साक्षाद्व्यापकत्वादर्थान्तरम् । अतः पृथिवीत्वजलत्वतेजस्त्ववायुत्वमनस्त्वेतरेति । अतः सर्वं सार्थकम् । अत्रापि पूर्वोक्तरीत्या द्रव्यत्वस्य साक्षाद्व्यापकत्वाभावान्न द्रव्यत्वमादायार्थान्तरं शङ्क्यम् । साधने जातित्वादित्युक्ते व्याप्यजातित्वादित्युक्ते सत्ताव्याप्यजातित्वादित्युक्ते च घटत्वे व्यभिचारः । तस्य व्याप्यजातित्वेन व्यापकत्वरूपसाध्याभावात् । अतः साक्षादिति । घटत्वं तु पृथिवीत्वद्रव्यत्वद्वारा सत्ताव्याप्यमिति न दोष इति ध्येयम् ॥ स्पर्शानधिकरणेति ॥ स्पर्शानधिकरणं यद्द्रव्यत्वसाक्षाद्व्याप्यजातिमत्तद्व्यतिरिक्तानीत्यर्थः । दृष्टान्ते तादृशजातिमन्मनोव्यतिरिक्तत्वेन साध्यपर्यवसानं पक्षे सर्वपदपरित्यागे यत्किञ्चिन्मनसां पक्षत्वापत्त्या तत्र स्पर्शानधिकरणद्रव्यत्वसाक्षाद्व्याप्यजातिमद्यन्मनस्तद्व्यतिरिक्तत्वसिद्व्यार्थान्तरम् । अतः सर्वाणीति । साध्ये जातिमद्व्यतिरिक्तानीत्युक्ते सत्ताजातिमत्कर्मव्यतिरिक्तत्वसिद्ध्याऽर्थान्तरम् । अतो व्याप्येति । व्याप्यजातिमद्व्यतिरिक्तानीत्युक्ते सत्ताव्याप्यकर्मत्वजातिमत्कर्मव्यतिरिक्तत्वसिद्ध्याऽर्थान्तरमतो द्रव्यत्वेति । द्रव्यत्वव्याप्यजातिमद्व्यतिरिक्तानीत्युक्ते उक्तरीत्या द्रव्यत्वव्याप्यद्रव्यत्वजातिमद्व्यतिरिक्तत्वसिद्ध्याऽर्थान्तरमतः साक्षादिति । द्रव्यत्वसाक्षाद्व्याप्यजातिमद्व्यतिरिक्तानीत्युक्ते द्रव्यत्वसाक्षाद्व्याप्यपृथिवीत्वादिजातिमत्पृथिव्यादिचतुष्टयव्यतिरिक्तत्वसिद्ध्या अर्थान्तरम् । अतः स्पर्शानधिकरणेति । पृथिव्यादिचतुष्टयस्य स्पर्शाधिकरणत्वान्न दोषः । ननु पृथिवीत्वपक्षकानुमाने जलत्वादिचतुष्टयेतरजातिर्दिक्त्वं तद्भिन्नत्वसिद्ध्याऽर्थान्तरम् । एवं जलत्वादिचतुष्टयपक्षकानुमानेष्वपि । तथा द्रव्यत्वपक्षके पृथिवीत्वादिपञ्चकेतरदिक्त्वजातिं प्रति साक्षाद्व्यापकत्वसिद्व्याऽर्थान्तरम् । तथा मनःपक्षकानुमाने स्पर्शानधिकरणद्रव्यत्वसाक्षाद्व्याप्यदिक्त्वजातिमद्व्यतिरिक्तत्वसिद्ध्याऽर्थान्तरम् । तथा वक्ष्यमाणे पृथिवीपक्षकानुमाने जलत्वतेजस्त्ववायुत्वमनस्त्वानधिकरणद्रव्यत्वसाक्षाद्व्याप्यदिक्त्वजातिमद्व्यतिरिक्तत्वसिद्ध्याऽर्थान्तरम् । नच दिश एकत्वेन व्यक्त्यभेदाद्दिक्त्वं जातिरेव न भवतीति वाच्यम् । यन्मते दिशि स्वाभाविकभेदोऽङ्गीक्रियते तन्मतेऽर्थान्तरापरिहारादित्यत आह — दिग्भेदवादिनामिति ॥ अत्र मनःपक्षकानुमाने स्पर्शानधिकरणदिक्त्वानधिकरणेति कर्तव्यम् । सर्वत्र पृथिवीत्वपक्षकानुमाने मनस्त्वदिक्त्वेतरेति कर्तव्यम् । द्रव्यत्वपक्षकानुमाने मनस्त्वदिकत्वेतरजातिं प्रतीति कार्यम् । वक्ष्यमाणे पृथिवीपक्षकानुमाने मनस्त्वदिक्त्वानधिकरणेति कर्तव्यमित्यर्थः ॥ जलत्वेति ॥ जलत्वतेजस्त्ववायुत्वमनस्त्वानधिकरणं यद्द्रव्यत्वसाक्षाद्व्याप्यजातिमद्व्यतिरिक्तेत्यर्थः । दृष्टान्ते तादृशजातिमत्पृथिवीव्यतिरिक्तत्वेन साध्यपर्यवसानम् । अत्र पृथिवीत्येव पक्षनिर्देशे यत्किञ्चित्पृथिव्याः पक्षत्वापत्त्या तत्र जलत्वतेजस्त्ववायुत्वमनस्त्वानधिकरणद्रव्यत्वसाक्षाद्व्याप्यपृथिवीत्वजातिमत्पृथिव्यन्तरव्यतिरिक्तत्वसिद्ध्याऽर्थान्तरम् अतः सर्वेति । साध्ये द्रव्यत्वेत्यादेर्मनःपक्षकानुमानोक्तकृत्यमेव द्रष्टव्यम् । द्रव्यत्वसाक्षाद्व्याप्यजातिमद्व्यतिरिक्तेत्युक्ते द्रव्यत्वसाक्षाद्व्याप्यजलत्वादिचतुष्टयवद्व्यतिरिक्तत्वसिद्ध्याऽर्थान्तरम् अतो जलत्वतेजस्त्ववायुत्वमनस्त्वानधिकरणेति ॥ द्रव्यत्वेति ॥ द्रव्यत्वान्या याऽऽत्मनिष्ठा जातिस्तदन्येत्यर्थः । दृष्टान्ते सत्तान्यत्वेन साध्यपर्यवसानम् । साध्ये जात्यन्येत्येवोक्ते घटत्वजात्यन्यत्वसिद्ध्याऽर्थान्तरम् । अत आत्मनिष्ठेति । आत्मनिष्ठजात्यन्येत्येवोक्ते द्रव्यत्वजात्यन्यत्वसिद्ध्याऽर्थान्तरम् । अतो द्रव्यत्वान्येति । द्रव्यत्वान्यजात्यन्येत्युक्तघटत्वान्यत्वमादायार्थान्तरम् । अत आत्मनिष्ठेति । द्रव्यत्वान्यात्मनिष्ठान्येत्युक्ते सुखान्यत्वसिद्ध्याऽर्थान्तरम् । अतो जातीति ॥ द्रव्यत्वमिति ॥ अत्र दृष्टान्ते द्रव्यत्वान्यत्वेन साध्यपर्यवसानम् । साध्ये आत्मनिष्ठजात्यन्यदित्युक्ते सत्तान्यतासिद्ध्याऽर्थान्तरम् अतस्सत्तान्येति । जातिपदकृत्यन्तु विशिष्टसत्तापक्षकानुमानवद्द्रष्टव्यम् । आत्मनो व्याप्तत्वाद्विशेषणासिद्धिरित्यत उक्तम् आत्माणुत्ववादिनामिति । मत इति शेषः । साध्ये जात्यधिकरणत्वसिद्ध्याऽर्थान्तरमतो द्रव्यत्वव्याप्येति । हेतौ द्रव्यत्वादित्युक्ते गगने द्रव्यत्वं वर्तते द्रव्यत्वव्याप्यजात्यधिकरणत्वाभावाद्व्यभिचारः । अतोऽविभ्विति । अविभुत्वादित्युक्ते गुणे अतो द्रव्यत्वेति । उपन्यस्तानुमानानां कुत्रोपयोग इत्यत आह — इत्यादीति ॥