अपि च पृथिवीत्वं ..
(१९)भेदोज्जीवनम्
(१९) अपि च पृथिवीत्वं जलत्वतेजस्त्ववायुत्वमनस्त्वेतरद्रव्यत्वसाक्षाद्व्याप्यजातिभिन्नम् । जातित्वात् प्रमेयत्वाद्वा जलत्ववत् । न च पृथिवीत्वेतरत्वमुपाधिः । तस्य पक्षेतरत्वात् । अनुकूलतर्काणां वक्ष्यमाणत्वाच्च । एवं जलत्वतेजस्त्ववायुत्वमनस्त्वपक्षीकारेणानुमानचतुष्टयमूहनीयम् ।
(१९)भावप्रदीपः
यत्प्रागुक्तमात्मत्वं नानाव्यक्तिनिष्ठं जातित्वात्पृथिवीत्ववदित्यस्यासिद्धिरिति तत्रात्मत्वस्य जातित्वसाधनद्वाराऽऽत्मभेदं साधयितुमनुमानान्याह — अपिचेत्यादिना इत्याद्यनुमानान्यात्मभेदं साधयन्तीत्यन्तेन ॥ नैय्यायिकमतावष्टम्भेनैवैतान्यनुमानानि प्रवृत्तानि । इत्थं हि तन्मतप्रक्रिया । पृथिव्यप्तेजोवाय्वाकाशकालदिगात्ममनांसि नव द्रव्याणि । तत्राकाशत्वकालत्वदिक्त्वानि न जातयः । एकव्यक्तिकत्वात् । पृथिवीत्वादिषट्कं तु जातिरिति । तत्र पृथिवीत्वस्य जलत्वादिचतुष्टयेतरद्रव्यत्वसाक्षाद्व्याप्यजातिभेदसिद्धौ तादृशजातेरात्मत्वानतिरेकात्तस्य जातित्वसिद्धौ तन्निर्वाहायात्मनानात्वमङ्गीकार्यमेवेत्यात्मभेदसिद्धिः । एवमुत्तरत्रापि ॥ जलत्वेति ॥ जलत्वादिचतुष्टेयतरा या द्रव्यत्वसाक्षद्व्याप्याजातिस्तद्भिन्नमित्यर्थः । दृष्टान्ते पृथिवीत्वजातिभिन्नत्वेन साध्यपर्यवसानम् । साध्ये सत्ताजातिव्युदासाय व्याप्येति विशेषणम् । न च तथाऽपि प्रमेयत्वादिव्याप्या भवत्येवेति वाच्यम् । जातिव्याप्यत्वस्य विवक्षितत्वात् । प्रमेयत्वादेरजातित्वात् । व्याप्यजातिभिन्नमित्येवोक्ते रूपत्वजातिभिन्नत्वसिद्ध्याऽर्थान्तरता । अतो द्रव्यत्वेति । तावत्येवोक्ते घटत्वमादायार्थान्तरता । अतः साक्षादिति । घटत्वं च द्रव्यत्वव्याप्यपृथिवीत्वव्याप्यमिति न द्रव्यत्वं प्रति साक्षाद्व्याप्यम् । तद्व्याप्यजात्यव्याप्यत्वे सति तद्व्याप्यस्यैव तत्साक्षाद्व्याप्यत्वात् । तावत्येवोक्ते जलत्वादिजातिभिन्नत्वसिद्ध्याऽर्थान्तरता । अतो जलत्वतेजस्त्ववायुत्वमनस्त्वेतरेति जातिविशेषणम् । ननु द्रव्यत्वस्यापि द्रव्यत्वव्याप्यत्वमावश्यकमेव । अन्यथा शब्दोऽनित्यः कृतकत्वादित्यत्र कृतकत्वस्यैवोपाधित्वापत्तेः । साध्यसमव्याप्तत्वेन तस्यानित्यत्वव्यापकत्वात् । स्वव्याप्यत्वानङ्गीकारे स्वाभिन्नसाधनाव्यापकत्वाच्च । अतोऽभेदेऽपि व्याप्यव्यापकभावमङ्गीकृत्य कृतकत्वे साधनव्यापकत्वमङ्गीकरणीयम् । तद्वदत्रापि द्रव्यत्वस्य द्रव्यत्वव्याप्यत्वेऽङ्गीकार्ये तद्भिन्नत्वसिद्ध्याऽर्थान्तरतेति चेन्न । व्याप्यव्यापकभावस्य भिन्नाश्रयत्वनियमात् । प्रपञ्चमिथ्यात्वानुमानखण्डनटीकायां तत्त्वोद्योतटीकायां च तथैवोक्तत्वात् । न च तथात्वे शब्दानित्यत्वानुमाने कृतकत्वस्योपाधित्वापत्तिः । अनिष्टाभावात् । साधनस्य साध्यव्याप्यत्वग्राहकप्रमाणविरोधेन साधनसद्भावे तद्व्यापकस्य साध्यस्यापि सत्त्वनियमात्पक्षे व्यभिचारव्याप्यत्वासिद्ध्योर्वा बाधप्रतिपक्षयोर्वाऽनुन्नायकत्वात् । अतो द्रव्यत्वस्य द्रव्यत्वव्याप्यत्वाभावान्न तद्भेदमादायार्थान्तरतेति । अभ्युपगम्य चेदमुक्तम् । वस्तुतस्तु तत्र कृतकत्वस्योपाधित्वं नास्त्येव । साधनाव्यापाकत्वस्यैवाभावात् । न हि साधनाव्यापकत्वं साधनव्यापकत्वाभावः किन्तु साधानवदवृत्तित्वम् । न हि कृतकत्वं शब्दावृत्ति । तद्वति तदभावायोगादिति । केचित्त्वभेदेऽपि व्याप्यव्यापकभावमभ्युपेत्य द्रव्यत्वस्य द्रव्यत्वव्याप्यत्वेऽपि द्रव्यत्वसाक्षाद्व्याप्यत्वं नास्ति । तद्व्याप्याव्याप्यत्वे सति तद्व्याप्यत्वं हि साक्षाद्व्याप्यत्वम् । न च द्रव्यत्वे तदस्ति । द्रव्यत्वव्याप्ये द्रव्यत्वे तदव्याप्यत्वाभावात् । अतो नार्थान्तरतेत्याहुः ॥ पक्षेतरत्वादिति ॥ पक्षेतरत्वरूपत्वादित्यर्थः । पक्षेतरत्वस्याप्युपाधित्वेऽनुमानमात्रोच्छेदप्रसङ्ग इति भावः । ननु पक्षेतरत्वस्यापि वह्निरनुष्णः पदार्थत्वादित्यादौ वह्नीतरत्वादेरिवोपाधित्वं किन्न स्यादित्यत आह — अनुकूलतर्काणामिति ॥ वक्ष्यमाणत्वादिति ॥ आत्मपदप्रवृत्तिनिमित्तस्यात्मत्वस्य जातित्वाङ्गीकारे लाघवमित्यादिनेति शेषः । तथा च पृथिवीत्वनिष्ठभेदप्रतियोगिन आत्मत्वस्य जातित्वमनङ्गीकृत्यौपाधिकधर्मत्वं यद्यङ्गीक्रियेत तर्हि तस्योपाधिज्ञानाधीनज्ञानत्वेन गौरवप्रसङ्ग इत्याद्यनुकूलतर्कसद्भावादात्मत्वस्य जातित्वेऽवश्यमङ्गीकार्ये तद्भिन्नत्वस्य पृथिवीत्वे सत्त्वेन पृथिवीत्वेतरत्वस्य पक्ष एव साध्यव्यापकताभङ्गान्नोपाधित्वम् । वह्न्यनौष्ण्याद्यनुमाने त्वनुकूलतर्काभावाद्वह्नीतरत्वादेरुपाधित्वं सम्भवतीति भावः ॥ एवमिति ॥ जलत्वं पृथिवीत्वतेजस्त्ववायुत्वमानस्त्वेतरद्रव्यत्वसाक्षाद्व्याप्यजातिभिन्नम् । जातित्वात्प्रमेयत्वात्पृथिवीत्ववदित्यादिरूपेणोह्यमित्यर्थः ।
(१९)भेदचिन्तारत्नं
सिद्धान्त्युत्प्रेक्षितानुमानानि प्रयुङ्क्ते ॥ पृथिवीत्वमित्यादिना ॥ जातिभिन्नमिति ॥ भेदप्रतियोगित्वेनात्मत्वजातिसिद्धावनेकानुगतत्वनियमेनात्मनानात्वसिद्धिरिति भावः । पृथिवीत्वस्य स्वेन भेदायोगाज्जलत्वादीनामितरान्तविशेषणेनैव वारणादाकाशकालदिशामेकद्रव्यत्वे विवादाभावेन तत्रापर्यवसानात् । द्रव्याणां नवत्वनियमेन जात्यन्तरकल्पने गौरवान् नान्यथासिद्धिः । गुणत्वादिनाऽन्यथासिद्धिवारणाय द्रव्यत्वव्याप्येति । घटत्वादिना तद्वारणाय साक्षाद्व्याप्येति । बुद्धिगुणत्वादिना तद्वारणाय जातीति । नन्वस्माभिरसत्प्रतियोगिकभेदस्याङ्गीकारादुक्तजातेरसत्त्वेऽपि तद्भिन्नत्वेनान्यथासिद्धेरिति चेन्न । तादृशसज्जातिभिन्नत्वस्यैव विवक्षितत्वात् । न्यायमतरीत्या वैतदनुमानप्रवृत्तिरित्यदोषः । अत एव द्रव्यनवत्वाद्युपपत्तिः । अस्मद्रीत्या त्वहन्त्वाहङ्कारत्वादीतरेत्यपि ग्राह्यम् ॥ जलत्ववदिति ॥ पक्षीकृतपृथिवीत्वभिन्नं तदिति ज्ञेयम् ॥ पक्षेतरत्वादिति ॥ तस्योपाधित्वेऽनुमानमात्रोच्छेदप्रसक्तिरिति भावः । ननु तेजोऽनुष्णं पदार्थत्वादित्यादौ बाधाद्युन्नीततेजोव्यतिरिक्तत्वमुपाधिर्भवत्येव बाधकाभावे पक्षेतरत्वस्योपाधित्वं न्याय्यमेवेत्यत आह — अनुकूलतर्काणामिति ॥ एवमिति ॥ जलत्वं पृथिवीत्वतेजस्त्ववायुत्वमनस्त्वेतरद्रव्यत्वसाक्षाद्व्याप्यजातिभिन्नं जातित्वात्पृथिवीत्ववदित्याद्यूह्यम् ।
(१९)भेदचन्द्रिका
आत्मत्वजातिसाधनेनात्मनानात्वं सेत्स्यतीत्याशयेनाह — अपि चेति ॥ दृष्टान्ते पृथिवीत्वमादाय साध्यं बोध्यम् । पक्षे चात्मत्वजातिमादायेत्यात्मनानात्वसिद्धिः । न च कालत्वादिभेदमादायार्थान्तरता । धर्मिग्राहकमानेन लाघवतर्कसनाथेन तदैक्यसिद्धेः । जलत्वादीतरत्वविशेषणं तु तद्भेदमादाय सिद्धसाधनतावारणाय । सत्ताभेदमादाय तद्वारणाय द्रव्यत्वव्याप्येति । घटत्वादिभेदमादाय तद्वारणाय साक्षादिति । नन्वनुकूलतर्काभावे पक्षेतरत्वस्यापि सत्प्रतिपक्षोन्नायकतया दूषणत्वं स्यादेवेत्यत आह — अनुकूलतर्काणामिति ॥ एवमिति ॥ तदा पृथिवीत्वान्यत्वं साध्ये देयम् । जलत्वादि च पक्षी कर्तव्यम् । पृथिवीत्वादि दृष्टान्तीकर्तव्यमिति भावः ।
(१९)भेदसञ्जीविनी
॥ अपि चेति ॥ पृथिवीत्वमित्यादि । जलत्वादिभिन्ना या द्रव्यत्वसाक्षाद्व्याप्या जातिः पृथिवीत्वं तद्भिन्नत्वं जलत्वरूपे दृष्टान्ते हेत्वधिकरणजात्यन्तरेष्वपि वर्ततेऽतो न कुत्रापि व्यभिचारशङ्का । पक्षे च हेतुबलादुक्तसाध्यसिद्धौ सत्यां पृथिवीत्वे स्वभेदमादायोपपादयितुमशक्यत्वादतिरिक्तात्मत्वरूपजातिसिद्धिद्वाराऽऽत्मभेदसिद्धिः । अत्र जलत्वादिभेदप्रतीत्यसिद्धत्वात्सिद्धसाधनमर्थान्तरता च स्यादिति जलत्वादिनिवेशः ॥ प्रतियोगितया जातेरनुपादाने गगनपरिमाणपृथिवीजलादिवृत्तित्रित्वबहुत्वादिभेदमादायोक्त(एव) दोष इति जातित्वेन जातेर्निवेशः । घटत्वादिभेदमादाय तद्दोषवारणाय द्रव्यत्वसाक्षाद्व्याप्येति । तत्त्वं च द्रव्यत्वभिन्ना स्वभिन्ना च द्रव्येतरावृत्तिर्या या जातिस्तत्तदवच्छिन्नभेदकूटवद्वृत्तित्वे सति द्रव्येतरावृत्तित्वम् । इदं च जलत्वपृथिवीत्वादौ स्फुटम् । घटत्वादिषु तादृशभेदकूटान्तर्गतपृथिवीभेदवत्यवृत्तित्वान्न तेषां साक्षाद्व्याप्यत्वम् । न चेदं पृथिवीत्वजलत्वादावपि दुर्घटम् । पृथिवीत्वभिन्ना द्रव्यत्वभिन्ना या जातयो घटत्वादिरूपाः पृथिवीत्वव्याप्या जलत्वव्याप्याः काश्चन जातयश्च । तत्तदवच्छिन्नभेदकूटवत्त्वं न पृथिव्यां नापि जलादौ । सर्वस्या अपि पृथिव्या जलदेश्च किञ्चिज्जात्याक्रान्तत्वात् । अतस्तादृशकूटवद्गगनादिर्गुणादिकं वा तत्र पृथिवीत्वादेरवृत्तित्वादिति वाच्यम् । द्रव्यत्वव्याप्यव्याप्यजातेः परमाणुष्वस्वीकारेण परमाणुमादायैवोपपादनसम्भवात् । केचित्तु तत्तदवच्छिन्नभेदसामानाधिकरण्यकूटस्यैव निवेशनीयत्वाददोषः । पृथिवीत्वे घटत्वावच्छिन्नभेदसामानाधिकरण्यं पटान्तर्भावेण पटत्वावच्छिन्नभेदसामानाधिकरण्यं घटान्तर्भावेणेत्येवं क्रमेण तत्तज्जात्यवच्छिन्नभेदकूटसामानाधिकरण्यकूठं वर्तत इति पृथिवीत्वजलत्वादिकं द्रव्यत्वसाक्षाद्व्याप्यं घटत्वादिकं तु नैवं स्वशब्देन घटत्वोपादने तद्भिन्नद्रव्यत्वभिन्नद्रव्येतरावृत्तिजातिमध्ये पृथिवीत्वस्यापि निविष्टतया तदवच्छिन्नभेदसामानाधिकरण्यविरहादित्याहुः । स्वभिन्नत्वद्रव्यत्वभिन्नत्वयोर्द्रव्येतरावृत्तिजातौ निवेशान्न स्वमादाय द्रव्यत्वमादाय च पृथिवीत्वादेरुक्तद्रव्यत्वसाक्षाद्व्याप्यत्वभङ्गः । द्रव्येतरावृत्तित्वनिवेशान्न सत्तामादायोक्तदोषः । जातित्वेन निवेशान्न पृथिवीमात्रवृत्तियावत्त्वरूपसङ्ख्यावच्छिन्नभेदसामानाधिकरण्याभावाद् उक्तदोषः । सत्ताया गुणत्वस्य च द्रव्यत्वसाक्षाद्व्याप्यत्ववारणाय विशेष्यदलम् ।
यद्वोक्तभेदकूटनिवेशे गौरवात्स्वभिन्नद्रव्यत्वभिन्नद्रव्येतरावृत्तिजातित्वावच्छिन्नाभाववद्वृत्तित्वं विशेषणदलार्थः । तादृशपटत्वरूपयत्किञ्चिज्जात्यभाववति घटवत्त्वस्य वृत्तित्वात् साक्षाद्व्याप्यत्ववारणाय तादृशजातिसामान्याभावनिवेशः । द्रव्यत्वव्याप्यव्याप्यजातीनां परमाणुष्वभावादेवोक्तलक्षणनिर्वाहाय द्रव्यत्वस्य द्रव्यत्वसाक्षाद्व्याप्यत्वमुक्तरूपमिष्टमेव । प्रकृतानुमाने द्रव्यत्वमादाय सिद्धसाधनतावारणाय द्रव्यत्वनिष्ठभेदप्रतियोगितावच्छेदकम् अधिकं निवेश्य तादृशव्याप्यत्वं द्रव्यत्वाद्व्यावर्तनीयम् ।
ननूक्तसाक्षाद्व्याप्यत्वस्य स्वत्वघटितत्वेनाननुगतत्वप्राप्त्या दृष्टान्तानुरोधेन स्वपदार्थतया पृथिवीत्वस्यैव निविष्टत्वेन तेन कथमात्मत्वस्य सिद्धिः । प्रत्युत पृथिवीत्वरूपपक्षे स्वभेदाभावाद्बाध एव इति चेन्न । स्वाभाववदवृत्तित्वस्वभिन्नत्वोभयसभ्बन्धेन स्वविशिष्टजातिमत्त्वसम्बन्धावच्छिन्नप्रतियोगिताकस्वाभाववत्त्वस्वाभाववदवृत्तित्वोभयसम्बन्धेन द्रव्यत्ववज्जातित्वमेव द्रव्यत्वसाक्षाद्व्याप्यजातित्वमनुगतम् । सम्बन्धशरीरे जाति मत्त्वं च स्वाभाववदवृत्तिस्वभिन्नत्वोभयसम्बन्धेनैतादृशमहासम्बन्धः द्वितीयसम्बन्धश्चेत्युभयं द्रव्यत्वस्य लक्ष्यभूतजातिषु निवेशे बोध्यम् । अत्र द्रव्यत्वसाधारण्येन द्रव्यत्वसाक्षाद्व्याप्यजातित्वरूपत्वम् । प्रकृते तद्वारणाय स्वाश्रयवृत्तिभेदप्रतियोगितावच्छेदकत्वं वा तृतीयसम्बन्धेन वा निवेश्योक्तसम्बन्धत्रयेण द्रव्यत्वविशिष्टजातित्वं तत्साक्षाद्व्याप्यजातित्वं वाच्यम् । यथाश्रुतानुसारेण निष्कर्षे सम्बन्धप्रयोजनादिकमनुसन्धेयम् । स्वत्वस्य सम्बन्धशरीरे निवेशाभावप्रयुक्तबाधकानुसन्धाने स्वाभाववदवृत्तित्वस्थानेऽभाववद्वृत्तित्वसम्बन्धावच्छिन्नस्य स्ववृत्त्यवच्छेदकताकभेदवत्त्वमेव सम्बन्धघटकं बोध्यमित्येषा दिक् ॥
जातित्वादिति ॥ अत्र प्रमेयत्वरूपकेवलान्वयिहेत्वन्तरोपादानमुक्तसाध्यस्य व्यभिचारशङ्का कुत्रापि न कर्तव्येति सूचनाय । जातित्वहेतोर्व्यर्थविशेषणकत्वादिदोषाभावस्तु `यद्धेतुव्यवच्छेदकत्वेत्यादिना तत्त्वोद्योतटीकाया’मुक्तप्रकारेण बोध्यः । पक्षेतरत्वस्याप्यनुकूलतकार्भावेऽप्युपाधित्वं वर्तत एवेत्याशङ्क्याह — अनुकूलतर्काणामिति ॥ आत्मपदप्रवृत्तिनिमित्तस्य जातित्वे लाधवमुपाधित्वे गौरवमित्यादीनामित्यर्थः ।
(१९)काशीतिम्मण्णाचार्य
इदानीमात्मत्वं नानाव्यक्तिनिष्ठं जातित्वाद् घटत्ववदित्याद्यनुमानेषु पूर्वपक्षोक्तदोषमुद्दिधीर्षुराद्यानुमानेऽसिद्धिशङ्कापरिहारायाऽत्मत्वस्य जातित्वसाधकप्रमाणं तावदाह — अपि चेति ॥ ‘इत्यनुमानान्यात्मत्वजातिसाधनद्वाराऽऽत्मभेदं साधयन्ती’ति सम्बन्धः । अत्र पृथिवीत्वभेदमादाय दृष्टान्ते साध्यसत्त्वं, पक्षे तु तदयोगादात्मत्वजातिभेदमादायैव साध्यपर्यवसानादुद्देश्यसिद्धिः । न चाकाशत्वादिजात्यन्तरसिद्ध्याऽर्थान्तरमाशङ्क्यम् । तर्कविरोधेन तदसिद्धेर्वक्ष्यमाणत्वात् । आत्मैक्यग्राहकतर्काणां च बलवत्प्रमाणविरुद्धत्वेनाभासत्वादिति । एतेन विभुत्वादिजात्यन्तरसिद्ध्याऽर्थान्तरमित्यपास्तम् । द्रव्यत्वयाप्यजातिराकाशाद्यवृत्तिः सत्ताद्रव्यत्वातिरिक्तजातित्वात् पृथिवीत्ववदित्यादितर्कविरुद्धत्वात् । संस्कारशून्यावृत्तित्वेन जातिर्विशेषणीयेत्यप्याहुः ।
अत्र च जलत्वादिजातिभेदमादाय सिद्धसाधनवारणाय जलत्वाद्यतिरिक्तत्त्वं जातिविशेषणम् । घटत्वादिभेदमादाय तद्दोषवारणाय द्रव्यत्वसाक्षाद्व्याप्येति ॥
द्रव्यत्वसाक्षाद्व्याप्यत्वं च द्रव्यत्वव्याप्यजात्यव्याप्यत्वे सति द्रव्यत्वव्याप्यत्वम् । घटत्वादिवारणाय सत्यन्तम् । द्रव्यत्वव्याप्यभूतत्वादिव्याप्यस्य पृथिवीत्वादेः सङ्ग्रहाय तत्र जातिपदम् । गुणत्वादिवारणाय विशेष्यदलम् ।
अथ व्याप्यत्वस्य तदभाववदवृत्तित्वरूपत्वेन द्रव्यत्वस्यापि द्रव्यत्वव्याप्यत्वसम्भवात्तद्भेदमादाय सिद्धसाधनम् । यत्तु द्रव्यत्वस्य द्रव्यत्वव्याप्यद्रव्यत्वरूपजातिव्याप्यतया न द्रव्यत्वसाक्षाद्व्याप्यत्वमिति ।
तन्न । तथासति पृथिवीत्वादेरपि द्रव्यत्वव्याप्यद्रव्यत्वरूपजातिव्याप्यतया द्रव्यत्वसाक्षाद्व्याप्यजात्यसिद्ध्यापत्तेः । द्रव्यत्वव्याप्यद्रव्यत्वभिन्नजात्यव्याप्यत्वविवक्षणे तु द्रव्यत्वस्यापि द्रव्यत्वसाक्षाद्व्याप्यत्वाक्षतेः ।
एवं द्रव्यत्वव्याप्यजात्यव्याप्यत्वस्य द्रव्यत्वव्याप्यजात्यभाववद्वृत्तित्वरूपतया पृथिवीत्वादेरसङ्ग्रहः । पृथिव्यां द्रव्यत्वव्याप्यजातिसत्त्वेन तदभावासम्भवात् । द्रव्यत्वव्याप्ययत्किञ्चिज्जात्यभाववद्वृत्तित्वविवक्षणे च घटत्वादेरपि सङ्ग्रहप्रसङ्ग इति चेन्मैवम् । न्यूनवृत्तित्वरूपव्याप्यत्वस्य विवक्षितत्वात् । न्यूनवृत्तित्वं च तत्समानाधिकरणभेदप्रतियोगितावच्छेदकत्वे सति तत्समानाधिकरणत्वम् । सत्तागुणत्वयोर् द्रव्यत्वव्याप्यत्ववारणाय सत्यन्तविशेष्यभागयोः प्रवेशः । द्रव्यत्वस्य च द्रव्यत्वसमानाधिकरणभेदप्रतियोगितावच्छेदकत्वाभावान्न द्रव्यत्वव्याप्यत्वम् । द्रव्यत्वव्याप्यजात्यव्याप्यत्वशरीरे च द्रव्यत्वव्याप्यत्वं द्रव्यत्वसमानाधिकरणभेदप्रतियोगितावच्छेदकत्वमात्रम् । अधिकस्य वैयर्थ्यात् । तदव्याप्यत्वं च तत्समानाधिकरणत्वे सति तत्समानाधिकरणभेदप्रतियोगितावच्छेदकं यत्तदन्यत्वम् । स्वसमानाधिकरणभेदप्रतियोगितावच्छेदकत्वस्वसमानाधिकरणत्वोभयसम्बन्धेन तादृशजातिविशिष्टान्यत्वमिति यावत् । पृथिवीत्वादेर्द्रव्यत्वव्याप्यजलत्वसमानाधिकरणभेदप्रतियोगितावच्छेदकत्वात् तथाविधघटत्वादिसमानाधिकरणत्वाच्चासङ्ग्रहापत्तिरतो दलद्वयनिवेशः । इत्थं च द्रव्यत्वव्याप्यं पृथिवीत्वादि । तद्व्याप्यं घटत्वादि । तदन्यत्वं च पृथिवीत्वादेरिति तत्सङ्ग्रहः ।
गगनावृत्तिविशेषगुणवत्त्वादिधर्मभेदमादाय सिद्धसाधनवारणाय जातिपदम् । यद्यपि तादृशजातिनिष्ठप्रतियोगिताकस्य पृथिवीत्वघटोभयभेदस्य पृथिवीत्वेऽपि सत्त्वात्सिद्धसाधनम् । तादृशजातित्वानधिकरणत्वसाधने च पृथिवीत्वस्यापि तादृशजातित्वाधिकरणत्वाद्बाधः । तथापि तादृशजातिप्रतियोगिकप्रतियोग्यवृत्तिभेदसाधनाददोषः । उभयभेदस्य प्रतियोगिवृत्तित्वात् ।
जातित्वं चाखण्डोपाधिः । अतो गुरुधर्मस्य हेतुतानवच्छेदकत्वे नित्यानेकसमवेतत्वस्य हेतुत्वासम्भवेऽपि न क्षतिः । आधेयत्वमात्रं वा हेतुत्वेन विवक्षितम् । प्रमेयत्वाद्वेत्यत्र प्रशब्दः प्रकृतसाधनस्य प्रामाणिकत्वद्योतनार्थः ।
॥ न चेति ॥ यद्यपि पक्षे साध्यसन्देहान्न पक्षेतरत्वे साध्यव्यापकत्वनिश्चयः सम्भवति । तथापि तस्य सन्दिग्धोपाधित्वमव्याहतम् । न च तस्य न प्रतिपक्षोन्नायकत्वं, तदधीनप्रतिपक्षसन्देहस्य च साध्यसन्देहतया न विरोधित्वमिति वाच्यम् । स्वारसिकसन्देहस्याविरोधित्वेऽप्याहितसन्देहस्यानुमानविरोधित्वादिति भावः । पक्षेतरत्वस्य सन्दिग्धोपाधित्वेऽपि न दूषकत्वम् । अन्यथाऽनुमितिमात्रोच्छेदापत्तेरित्याशयेनाह — तस्येति ॥ नन्वनुकूलतर्कसत्त्व एव सन्दिग्धोपाधेरदूषकत्वम् । अन्यथा वह्निरनुष्णः कृतकत्वादित्यादौ वह्नीतरत्वोपाधेर्दूषकत्वानुपपत्तेरित्यत आह — अनुकूलतर्काणामिति ॥ `विपक्षे गौरवप्रसङ्गरूपाणा’मित्यादिः ।
॥एवमिति॥ जलत्वं पृथिवीत्वतेजस्त्ववायुत्वमनस्त्वेतरद्रव्यत्वसाक्षाद्व्याप्यजातिभिन्नं जातित्वात् पृथिवीत्ववदित्यादिप्रकारेणेत्यर्थः । इदमुपलक्षणम् । पृथिवीत्वं जलाद्यवृत्तिद्रव्यवृत्तिकिञ्चिज्जातिमदवृत्ति, द्रव्यत्वव्याप्यजातित्वाज्जलत्वादिवत् । पृथिवीत्वं गन्धज्ञानान्यतरवद्वृत्तिद्रव्यत्वसाक्षाद्व्याप्यजातिभिन्नं, मेयत्वाद्धटत्ववदित्यादिकमप्यात्मत्वजातिसाधकमूहनीयम् ।
(१९)शर्कराश्रीनिवासाचार्य
इदानीमात्मत्वस्य जातित्वसाधनद्वाराऽऽत्मनां भेदसाधकानुमानान्याह — अपिचेत्यादिना आत्मभेदं साधयतीत्यन्तेन ॥ अत्र पृथिवीत्वस्य जलत्वादिचतुष्टयेतरद्रव्यत्वसाक्षाद्व्याप्यजातिभिन्नत्वसिद्धौ तादृशजातेरात्मत्वानतिरेकात्तस्य जातित्वसिद्धौ तन्निर्वाहायाऽऽत्मनामनेकत्वमङ्गीकार्यमित्यात्मभेदसिद्धिः । एवमग्रेऽप्युपयोगो बोद्धव्यः ॥ जलत्वेति ॥ जलत्वादिभ्य इतरा या द्रव्यत्वसाक्षाद्व्याप्यजातिस् तद्भिन्नमित्यर्थः । दृष्टान्ते पृथिवीत्वभिन्नत्वेन साध्यपर्यवसानम् । साध्ये जातिभिन्नमित्युक्ते सत्ताजातिभिन्नत्वसिद्ध्याऽर्थान्तरम् । अतो व्याप्येति ॥ तस्या द्रव्यादीतरवृत्तितया व्यापकत्वात्तत्परिहारः । नच सापि प्रमेयत्वव्याप्यजातिर्भवत्येवेति वाच्यम् । जातिं प्रति व्याप्यत्वस्य विवक्षितत्वात् । व्याप्यजातिभिन्नमित्युक्ते रूपत्वभिन्नत्वसिद्ध्याऽर्थान्तरम् । तस्य रूपमात्रवृत्तित्वेन व्याप्यजातित्वात् । अतो द्रव्यत्वेति ॥ तस्य च गुणत्वव्याप्यत्वात्तत्परिहारः । द्रव्यत्वव्याप्यजातिभिन्नमित्युक्ते घटत्वभिन्नत्वसिद्ध्याऽर्थान्तरमित्यत उक्तम् ॥ साक्षादिति ॥ घटत्वं च न द्रव्यत्वसाक्षाद्व्याप्यजातिः । तद्व्याप्यजात्यव्याप्यत्वे सति तद्व्याप्यत्वं हि तत्साक्षाद्व्याप्यत्वम् । यथा पृथिवित्वं द्रव्यत्वसाक्षाद्व्याप्यम् । तद् द्रव्यत्वम् । तद्व्याप्यजातिर् जलत्वादिः । तद्व्याप्यत्वे सति द्रव्यत्वव्याप्यत्वात् । न तथा घटत्वम् । तद् द्रव्यत्वम् । तद्व्याप्यं पृथिवीत्वम् । तद्व्याप्यत्वेन तद्व्याप्याव्याप्यत्वाभावात् । द्रव्यत्वसाक्षाद्व्याप्यजातिभिन्नमित्युक्ते जलत्वादीनामपि द्रव्यत्वसाक्षाद्व्याप्यजातित्वेन तद्भिन्नत्वसिद्ध्याऽऽर्थान्तरमतो जलत्वतेजस्त्ववायुत्वमनस्त्वेतरेति । अतः सर्वं सार्थकम् । ननु तथापि जलत्वादीतरसाक्षाद्व्याप्यजातिर्द्रव्यत्वं तद्भिन्नत्वसिद्ध्याऽऽर्थान्तरम् । नच द्रव्यत्वस्य द्रव्यत्वं न व्याप्यम् । अभेदे व्याप्यव्यापकभावानङ्गीकारात् । अन्यथा शब्दो नित्यः कृतकत्वादित्यत्र कृतकत्वस्योपाधित्वप्रसङ्गात् । कृतकत्वस्यानित्यत्वव्यापकत्वात् । अभेदे व्याप्यव्यापकभावानभ्युपगमेन कृतकत्वाव्यापकत्वाच्च । अतस्तदङ्गीकारे तु नायं दोषः । कृतकत्वस्य कृतकत्वव्यापकत्वेन साधनव्यापकत्वात् । अतः कथमिति चेन्न । द्रव्यत्वस्य द्रव्यत्वव्याप्यत्वेऽपि साक्षाद्व्याप्यत्वाभावात् । तथाहि । तद्व्याप्यजात्यव्याप्यत्वे सति तद्व्याप्यत्वं तत्साक्षाद्व्याप्यत्वम् । नच द्रव्यत्वे तदस्ति । तद् द्रव्यत्वम् । तद्व्याप्यं द्रव्यत्वं तद्व्याप्यत्वं द्रव्यत्वे वर्तते नतु तद्व्याप्यत्वम् अतो न दोष इति जलत्ववदिति ॥ नचेति ॥ जलत्वे साध्यव्यापकत्वात् पक्षे साधनाव्यापकत्वात् पृथिवीत्वे तरत्वमुपाधिरिति नेत्यर्थः । कुत इत्यत आह — पक्षेतरत्वादिति ॥ पक्षेतरत्वस्याप्युपाधित्वं किं न स्यादिति चेत् तथात्वे पर्वतो वह्निमान्धूमवत्त्वादित्यत्र महानसे साध्यव्यापकत्वात्पक्षे साधनाव्यापकत्वाच्च पर्वतेतरत्वमुपाधिस्स्यात् । तथाचानुमानमात्रोच्छेदः स्यादिति भावः । ननु विषमोयमुपन्यासः पर्वतो वह्निमानित्यत्र यदि वह्निर्न स्यात् तर्हि धूमोऽपि न स्यादित्यनुकूलतर्कबलात्पर्वते वह्निसिद्धौ तत्र पर्वतेतरत्वाभावेन साध्याव्यापकत्वात्पर्वतेतरत्वस्य नोपाधित्वम् । यथाहुः
`अनुकूलेन तर्केण सनाथे सति साधने ।
साध्यव्यापकताभङ्गात्पक्षे नोपाधिसम्भव’ इति ।
सनाथे सस्वामिक साधने सति पक्षे साध्यव्यापकताभङ्गादिति सम्बन्धः । प्रकृते चानुकूलतर्काभावात् । वह्निरनुष्णः पदार्थत्वादित्यत्र वह्नीतरत्वस्येव (पक्षेतरत्वस्यापि) पृथिवीत्वेतरत्वस्याप्युपाधित्वं युक्तमित्यत आह — अनुकूलतर्काणामिति ॥ आत्मपदप्रवृत्तिनिमित्तस्य जातित्वाङ्गीकारे लाघवमित्यादिनेति शेषः । तथा चात्राप्यनुकूलेन तर्केण बलेन पक्षे साध्यसिद्धौ तत्र पृथिवीत्वेतरत्वाभावेन साध्यव्यापकत्वान्नायमुपाधिरिति भावः । पृथगुपन्यासे गौरवादाह — एवमिति ॥ जलत्वं पृथिवीत्वतेजस्त्ववायुत्वमनस्त्वेतरद्रव्यत्वसाक्षाद्व्याप्यजातिभिन्नं जातित्वात् पृथिवीत्ववदित्याद्यूह्यमित्यर्थः ॥