नन्वौपाधिकभेदमात्रेण..
(१८)भेदोज्जीवनम्
(१८) नन्वौपाधिकभेदमात्रेण (उपाधिभेदमात्रेण) दुःखानुसन्धातृत्वाननुसन्धातृत्वोपपत्तेः पारमार्थिकभेदसाधनेऽप्रयोजकत्वमेवेति चेन्मैवम् । औपाधिकभेदेऽपि योगिनो नानादेहजन्यसुखाद्यतुसन्धानस्यैव दर्शनात् । अत्र देहस्य चान्तःकरणस्य चोपाधेर्भिन्न
त्वात् । न ह्यन्यदेहस्थमन्तःकरणमन्यदेहस्थं भवति । तत्राविद्योपाधिरेक एव भवतीति चेत् । इहाप्येकजीववादिन एक एव । बहुजीववादिनस्तु सुप्तावपि कारणात्मनाऽन्तःकरणानुवृत्तिं वदतो नाविद्यावच्छेदो जीवभावहेतुः । किन्तर्ह्यन्तःकरणमेव । ततश्च तदेव व्यवस्थानियामकं वाच्यम् । तच्च योगिष्वपि (योगिन्यपि) विद्यत (भिद्यत) इत्युक्तम् ।
(१८)भावप्रदीपः
ननु जीवब्रह्मणोर्वा परस्परजीवानां वा दुःखाद्यनुसन्धानाननुसन्धाने न पारमार्थिकभेदप्रयोजके । स्वरूपैक्ये विद्यमानेऽप्यौपाधिकभेदमात्रेण तदुपपत्तेः । अतोऽप्रयोजका एते सर्वेऽपि हेतव इत्याशङ्क्य निषेधति — ननु चेति ॥ उपाधिभेदमात्रेण उपाधिकृतभेदमात्रेण । उपाधीनां भेदमात्रेणेति वा ॥ औपाधिकभेदेऽपीति । उपाधिकृतभेदेऽपीत्यर्थः । अभ्युपगम्योक्तिरियम् । स्वमते उपाधेर्भेदं प्रति कारकत्वाभावात् । उपाधीनां सम्बन्धी औपाधिक उपाधिनिष्ठ इति यावत् । तादृशभेदेऽपीति वा । योगिनः सौभर्यादेः । तथा चौपाधिकभेदोऽप्रयोजक इति पारमार्थिकभेद एव परस्परमननुसन्धाने प्रयोजक इति स्वीकार्य इति भावः ।
ननु देह एव नोपाधिः किन्त्वन्तःकरणमपि । तथा च देहभेदसद्भावेऽपि सौर्भादावन्तःकरणस्यैकत्वेनानुसन्धानं सम्भवति । न तथा प्रकृते । अन्तःकरणानां भिन्नत्वादित्यत आह — देहस्येति ॥ न सौभरिदेहेऽप्यन्तःकरणमेकं किन्तु भिन्नमेव कथमन्यथैकदेहस्थान्तःकरणस्यान्यदेहे भोगावच्छेदकत्वं सम्भवेदिति भावः । ननु देहान्मनसो न भिन्नत्वमङ्गीकर्तुमुचितम् । देहवत्तस्योत्पत्त्यभावात् । मनो नित्यमनादित्वादिति श्रुतेः । न ह्यनादेरेकस्य मनसः प्रतिशरीरं भिन्नत्वं सम्भवति । अतः कथं तस्य भिन्नत्वमुच्यत इति चेत् । सत्यम् । तथाऽप्येकस्यैव मनसो बहुधाविभक्तत्वेन तत्तद्भौतिकांशैरूपचितत्वाच्च सीताभूषणवद्भेदाङ्गीकारवदियं भिन्नत्वोक्तिरिति बोध्यम् । अत एव न्यायमृते द्वितीयपरिच्छेदे आत्मभेदेऽनुकूलतर्ककथनावसरे न चान्तःकरणरूपोपाधिभेदो दुःखाद्यनुसन्धाने तन्त्रं योगिनश्चान्तःकरणमेकमेवेति वाच्यमित्याशङ्क्य चैतन्यैक्येऽन्तःकरणभेदस्याप्रयोजकत्वादित्येवोक्तम् । न तु योगिनोऽप्यन्तःकरणभेदः साधितः । तेन ज्ञायते योगिनामन्तःकरणमेकमेवेत्येतदनुमितमिति । नन्वन्तःकरणाद्युपाधेर्भिन्नत्वेऽप्यविद्यालक्षणोपाधेः सौभयोदियोगिन्येकत्वादन्योन्यमनुसन्धानम् । प्रकृते त्वविद्याभेदान्नानुसन्धानमिति शङ्कते — तत्रेति ॥ योगिनीत्यर्थः । उत्तरमाह — इहेपीति । देवदत्तादिष्वपीत्यर्थः ॥ एकजीववादिन इति ॥ मत इति शेषः । एक एव । उपाधिरिति वर्तते । अवच्छेद्यजीवस्यैकत्वादवच्छेदकाविद्याऽप्येकैव । तथा चानुसन्धानं दुर्वारमिति भावः ॥ बहुजीववादिनस्त्विति । मत इति शेषः । अयमाशयः । यद्यपि बहुजीववादेऽविद्याभेदोऽस्ति । तथापि सा न जीवभावहेतुः किन्त्वन्तःकरणमेव । यद्यन्तःकरणमेव जीवभावे हेतुत्वेनाभिमतं न स्यात्तर्हि सुप्तावन्तःकरणस्य कारणात्मनाऽनुवृत्तिर्नाङ्गीक्रियेत । अविद्यावच्छेदादेव सुप्तावपि जीवभावावस्थित्युपपत्तेः । अङ्गीक्रियते च सा तेन सुप्तावन्तःकरणविलयाज्जीवभावापगमेन तदैव ब्रह्मभावरूपा मुक्तिः स्यादिति शङ्कानिरासः । कार्यात्मना विलयेऽपि कारणात्मनाऽवस्थितेः । तथा च योगिन्यविद्योपाधेरेकत्वेऽपि जीवभावहेत्वन्तःकरणस्य प्रतिशरीरं भिन्नत्वाद्देवदत्तादिवदनुसन्धानाभाव एव युक्तः । अस्ति चानुसन्धानम् । तेन ज्ञायते स्वरूपैक्यमेवानुसन्धाने प्रयोजकं नोपाधिभेदाभाव इति । तथा च दुःखाद्यनुसन्धातृत्वतदभावौ पारमार्थिकभेदमेवाक्षिपत इति ।
(१८)भेदचिन्तारत्नं
नन्वेतद्धेतवोऽप्रयोजकाः । यदि भेदो न स्यात् तर्हि सुखाद्यनुसन्धानं स्यादिति हेतूच्छित्तितर्कस्य मिथ्याभेदेनान्यथासिद्धिरिति शङ्कते — नन्विति ॥ तस्य तद्व्यभिचारित्वेन न तेनान्यथासिद्धिरित्याह — औपाधिकेति ॥ औपाधिकभेदस्यान्वयव्यभिचारेणाप्रयोजकत्वादिति भावः ॥ अत्रेति ॥ योगिन्यौपाधिकभेदं दर्शयति — अत्रेति ॥ बहुरूपाणि गृहीतवति योगिनीत्यर्थः । अस्तु भेदमात्रं नान्तःकरणभेद इत्यत आह — न हीति । अणुत्वादिति भावः । ननु तर्हीशजीवेष्वन्तःकरणाभावः स्यात् । तात्कालिकान्तःकरणजननाङ्गीकारादिति चेन्न । चैतन्येन सह तस्याप्यंशभेदाङ्गीकरणात् । अन्तःकरणांशानां चान्योन्यत्वात् । तथाऽपि योगिनोऽनुसन्धानसत्त्वे को हेतुरिति चेन्न । अन्यथा शरीबाहुल्यग्रहणेच्छानुपपत्तेः । नन्वंशानां परस्परानुसन्धानाभावेऽप्यंशिनो यावदवयवगतानुसन्धानं स्यादेव । तदंशानामन्तःकरणतयांऽशांशिनोरभेदस्यापि सत्त्वेनोपाध्यैक्यात् । तावन्मात्रेण बहुरूपेच्छेति ॥ विश्लेषावस्थायामुपाध्यैक्याभावात् । उपाध्यैक्यमाशङ्कते — तत्रेति ॥ इहापीति । अयोगिष्वित्यर्थः । एक एव जीव ईश्वरमायाकल्पितोऽन्ये तदविद्याकल्पितास्तदंशा इत्यङ्गीकारादिति भावः ।
(१८)भेदचन्द्रिका
औपाधिकभेदेऽपीति । तथा च न सोऽनुसन्धानाननुसन्धानप्रयोजक इति तन्निर्वाहाय स्वरूपभेद एव तात्त्विकः स्वीकार्य इति भावः । सुप्तावपि कारणात्मनाऽन्तःकरणानुवृत्तिं वदन्त इति सुप्तावन्तःकरणाव्याप्तिवारणारय क्वचित्त्वन्तःकरणानुवृत्तिं वदन्तो नाविद्यावच्छेदो जीवभावहेतुः किन्तर्ह्यन्तःकरणमेव वदन्तीति पाठः । तत्र बहुजीववादिन इति प्रथमाबहुवचनम् । पाठान्तरे तु वदन्तीति नास्ति । तत्र बहुजीववादिन इति षष्ठ्येकवचनं बोध्यम् ।
(१८)भेदसञ्जीविनी
अनुमानेऽप्रयोजकतामाशङ्कते — नन्वौपाधिकेति ॥ तथा च स्वाभाविकैक्येऽनुसन्धानाननुसन्धानव्यवस्थानुपपत्तिरूपतर्कानुत्थानादप्रयोजकतेति भावः ॥ औपाधिकभेद इति ॥ अनुसन्धाने स्वाभाविकैक्यमेव प्रयोजकं न तूपाधिनिमित्तकभेदाभावः । तत्सहितमैक्यं वा योगानुगृहीतनानाशरीरावच्छिन्नसुखानुसन्धातृषु व्यभिचारात् । तस्य चान्यत्र व्यवस्थापितत्वादिति भावः । नन्वन्तःकरणकृतभेदाभाव एव प्रयोजकः । स च योगिषु वर्तत इत्यतोऽन्तःकरणैक्यं निराकरोति ॥ अन्तःकरणस्य चेति ॥ नहीति ॥ देहानां परस्परं विश्लिष्टत्वेन तत्रैकान्तःकरणस्य स्थित्यङ्गीकारे तस्य दीर्घत्वापत्त्या पुरुषान्तरशरीरेऽप्यवस्थानापत्तेरिति भावः । जीवोपाधित्वं नान्तःकरणस्य किन्त्वविद्यायास्तस्या निरंशत्वेनाप्रतिपाद्यत्वेन सर्वशरीरेष्वेकत्वं युज्यत इत्याशङ्क्य निराकरोति ॥ अविद्योपाधिरिति ॥ एकजीववादिन इति ॥ तथा चैकजीववादे दूषणं दुष्परिहरमेवेति भावः । इदं च योगिविषये दूषणपरिहारमभ्युपगम्योक्तम् । घटपटाद्युपाधिभिर्घटाकाशादिभेदवद्युगपन्नानादेहसम्बन्धादविद्यायामेव भेदस्यावर्जनीयतया तन्मूलकजीवभेदस्याप्यवर्जनीयत्वमिति ज्ञेयम् । सुप्तावपीति ॥ कारणात्मनेति ॥ सूक्षमरूपात्मसंस्काररूपेणेत्यर्थः । तथा चान्तःकरणतत्संस्कारान्यतरोपाध्यवच्छिन्नचेतनस्यैव जीवत्वात्सुषुप्तौ जीवसिद्धिः । अन्यथा जीवस्यैव लयापत्तेरित्यर्थः ॥ नाविद्येति ॥ तथात्वे सुषुप्तावविद्यासत्त्वादेव जीवसम्बभवे सुषुप्तावन्तःकरणस्य सूक्ष्मरूपेण कथनमयुक्तं स्याद्वैय्यर्थ्यादिति भावः । नन्वन्तःकरणकारटमविद्यैव । अन्तःकरणात्मनाऽवास्थानेऽविद्यैव सेति प्राप्तमित्यविद्योपाधिकत्वमागतमिति वाच्यम् । सत्यम् । अविद्यैवान्तःकरणकारणमिति ॥ तथाऽपि तदानीमपि कल्पितभेदेन कार्यावस्थापन्नमेव स तु जीवोपाधिः । अन्यथा चैत्रमैत्रयोर्युगपत्सुप्तिकाले शुद्धेकाविद्योपाधिबलादैक्यप्राप्त्या परस्परसुषुप्तिस्मरणाद्यापातात् । तथा च बहुजीववादेऽन्तःकरणस्यैव जीवोपाधित्वात्तत्रोक्तदूषणं दृढमेव । बहुजीववादे प्रतिनियतबहुज्ञानाङ्गीकारे नैष दोष इति चेत् । तत्र प्रमाणाभावगौरवादिदूषणसत्त्वात् । शरीरभेदप्रयुक्ताविद्याभेदादित्युक्तदोषापरिहाराच्चेत्यलम् । अत्रान्तःकरणवृत्तिं वदत इति पाठे बहुजीववादिन इति षष्ठ्यैकवचनं वदन्त इति पाठे प्रथमाबहुवचनमेव । तस्य किं तर्ह्यन्तःकरणमेवेत्यनन्तरमित्याहुरित्यध्याहृत्य तेन सह तस्यान्वयो वाच्यः ।
(१८)काशीतिम्मण्णाचार्य
ननूक्तानुमानेषु विपक्षे बाधकाभावादप्रयोजकत्वम् । न चैवमेकस्यैव स्वाननुसंहितानुसन्धातृत्वापत्तिः । तत्प्रतियोगिकभेदमात्रस्य तत्प्रयोजकत्वेनाप्युपपत्तेः पारमार्थिकभेदस्यानावश्यकत्वादित्याशङ्कते — नन्विति ॥ उपाधिभेदमात्रेण पारमार्थिकभेदाभावेऽप्यविद्याद्युपाधिकृत भेदेन । दुःखेत्यादेर्जीवेश्वरयोरित्यादिः । अप्रयोजकत्वम् उक्तहेतूनामिति शेषः । तदननुसंहितानुसन्धातृत्वादौ तत्प्रतियोगिकपारमार्थिकभेद एव प्रयोजको वाच्यः । अन्यथा योगसिद्धसौभर्यादीनां स्वेच्छागृहीतनानादेहावच्छिन्नचैतन्यानुसंहितानुसन्धातृत्वानुपपत्तेः । तथाच विपक्षे हेत्वनुपपत्तिरेव बाधिकेत्याशयेन समाधत्ते ॥ मैवमिति ॥ उपाधेर्भिन्नत्वादित्यन्तमौपाधिकभेदे हेतुः । नन्वन्तःकरणकृतभेदस्यैवाननुसन्धानप्रयोजकत्वान्न देहभेदेऽप्यनुसन्धानानुपपत्तिरित्यत आह — अन्तःकरणस्य चेति ॥ ननु देहभेदेऽप्यन्तःकरणैक्यमस्त्वत आह — न हीति ॥ अन्तःकरणस्याकाशादिवदव्याप्तत्वादिति भावः । अथ तस्य यावद्देहव्यापित्वे को दोष इति चेत् तर्हि तदन्तरानुवर्तिपुरुषान्तरस्यापि तदन्तःकरणग्रस्तत्वेन तत्कृतभेदाभावात्तत्पुरुषीयानुसन्धानापत्तेः ।
किं च किमन्तःकरणैक्ये चैतन्यैक्यं नियामकमुत देहैक्यम् । नाद्यः । अयोगिनामपि अन्तःकरणैक्यप्रसङ्गात् । नान्त्यः । योगिनामपि तदनुपपत्तेः । न च तत्तद्देहगतभोगानुसन्धानं तत्तद्देहगतान्तःकरणैक्यनियामकमतो नोक्तदोष इति वाच्यम् । भोगानुसन्धानस्यान्तःकरणैक्यनिबन्धनत्वेनान्योन्याश्रयात् । सिद्धान्ते त्वन्तःकरणांशानां देहभेदेन भेदेऽप्यात्मैक्यस्यानुसन्धाननियामकत्वान्न कश्चिद्दोषः । अस्तु तर्ह्यविद्योपाधिकृतभेद एवाननुसन्धाननियामकः । चैत्रमैत्रादेरविद्याभेदादननुसन्धानस्य योगिनो देहभेदेऽप्यविद्यैक्यादनुसन्धानस्य चोपपत्तेः । न च भेदकाभावात्कथमविद्याभेद इति वाच्यम् । तस्यानादित्वाभ्युपगमादित्याशयेनाशङ्कते — तत्रेति ॥ नानादेहवति योगिनीत्यर्थः ।
अविद्याभेदस्याननुसन्धाननियामकत्वं किमेकजीववादमाश्रित्योच्यते किं वा बहुजीववादम् । आद्ये दोषमाह — इहेति ॥ अयोगिनि चैत्रादावित्यर्थः ॥ एक एवेति ॥ अविद्योपाधिरित्यनुवर्तते । मत इति
शेषः । तथाचैक एव हिरण्यगर्भो जीवस्तदन्ये तु घटादिवत्स्वरूपेणैव मिथ्याभूता इति मते परस्पराननुसन्धानप्रयोजकस्याविद्योपहितपरस्परभेदस्य चैत्रमैत्रादिषु दुर्वचत्वेन परस्पराननुसन्धानानुपपत्तिरिति भावः । द्वितीये दोषमह — बहुजीवेति ॥ सुप्तौ कार्यात्मनाऽन्तःकरणवृत्त्यसम्भवात् कारणात्मनेत्युक्तम् । तथाचाविद्योपाधेर्जीवभावहेतुत्वे तत एव सुप्तौ जीवभावोपपत्तेरन्तःकरणानुवृत्तिवैयर्थ्यमिति भावः । नन्वविद्योपाधेर्जीवभावहेतुत्वाभावेऽप्युक्तव्यवस्थानियामकत्वमस्त्वत आह — ततश्चेति ॥ व्यवस्थानियामकमिति ॥ चैतन्यैक्येऽपि परस्परभोगाननुसन्धाननियामकपरस्परभेदप्रयोजकतया तस्यैव तदनुसन्धानमिति नियमनिर्वाहकमित्यर्थः । ऐक्यवादे निरुक्तव्यवस्थानिर्वाहार्थमेव जीवभेदस्य कल्पितत्वेन तन्नियामकस्यैव तन्नियामकत्वप्राप्तेरिति भावः ॥ तच्चेति ॥ स्वसम्बद्धदेहभेदेन परस्पराननुसन्धानप्रयोजकमन्तःकरणं चेत्यर्थः । तथाच योगिनो नानादेहगतभोगानुसन्धानानुपपत्तितादवस्थ्यमिति भावः ।
(१८)शर्कराश्रीनिवासाचार्य
ननु पारमार्थिकभेदसाधकेषूक्तानुमानेषु सर्वत्र हेतुरस्तु साध्यं मा भूदिति शङ्कायां बाधकाभावादप्रयोजकत्वम् । नच यदि जीवब्रह्मणोर्जीवानाञ्चान्योन्यं पारमार्थिकभेदो न स्यात् तर्हि जीवस्य दुःखानुसन्धानं ब्रह्मणश्च तदननुसन्धानम् एकस्य जीवस्य सुखमपरस्य दुःखमित्यादिव्यवस्था न स्यादिति बाधकं वाच्यम् । उक्तव्यावस्थायाः पारमार्थिकभेदाभावेऽप्यौपाधिकभेदेनोपपत्त्या तर्कस्यान्यथासिद्धत्वादिति शङ्कते — नन्वौपाधिकभेदमात्रेणेति ॥ उपाधिकृतभेदमात्रेणेत्यर्थः ॥ औपाधिकभेदेपीति ॥ सौभर्यादियोगिनो हि योगप्रभावाद्युगपदनेकशरीराणि बिभ्रति । तत्रैकदेहस्थस्य दुःखेऽन्यदेहस्थस्यापि दुःखम् एकस्य सुखेऽपरस्यापि सुखं भवतीति वस्तुगतिः । तत्रोपाधिकृतभेदसद्भावेऽप्यन्योन्यादुःखानुसन्धानदर्शनेनौपाधिकभेदस्य नोक्तव्यवस्थानियामकत्वमिति न तर्कस्यान्यथासिद्धिरित्यर्थः । ननु योगिस्थले औपाधिकभेद एव नास्तीत्यभेदतोऽन्योन्यानुसन्धानं युक्तमित्यत आह — अत्रेति ॥ देहस्योपाधेर्भिन्नत्वादिति सम्बन्धः । ननु तत्र देहलक्षणोपाधिसद्भावेऽप्यन्तःकरणोपाधेरेकत्वादन्योन्यानुसन्धानमित्यत उक्तमन्तःकरणस्येति ॥ अन्तःकरणभेदमेवोपपादयति — नहीति ॥ अन्तःकरणस्य मनोरूपत्वेन मनआदीन्द्रियाणां प्रतिशरीरं भिन्नत्वादिति भावः । ननु देहान्तःकरणोपाधेर्भेदेऽप्यविद्याख्योपाधेरेकत्वाद्योगिष्वप्यन्योन्यमनुसन्धानं प्रकृते त्वविद्याभेदान्नानुसन्धानमिति शङ्कते — तत्रेति ॥ योगिस्थल इत्यर्थः । किमेकजीववादिमतानुसारेणोच्यते, उत बहुजीववादिमतानुसारेण ? आद्य आह — इहापीति ॥ तन्मतेऽवच्छेद्यजीवस्यैकत्वादवच्छेदकाविद्याया अप्येकत्वम् । तथाचोक्तरीत्याऽप्यनुसन्धानन्दुर्वारमिति भावः । द्वितीये आह — बहुजीववादिनस्त्विति ॥ अविद्यावच्छेदो ऽविद्यायाः परिच्छेदः । सत्यं बहुजीववादिमतेऽविद्योपाधेर्भिन्नत्वमिति । तथाप्यविद्यावच्छेदस्य जीवभावहेतुत्वाभावादेवाविद्याभेदस्य नोक्तव्यवस्थानियामकत्वमित्यर्थः ॥ अन्तःकरणमेवेति ॥ अन्तःकरणावच्छेद एव ॥ कुत एतदित्यत उक्तम् ॥ सुप्तावपीति । बहुजीववादी स्वग्रन्थे सुप्तिकालेऽपि कारणात्मनाऽन्तःकरणं तिष्ठतीति प्रतिपादितवान् । तच्चान्तःकरणावच्छेदस्य जीवभावहेतुत्वे सङ्गच्छते । यद्यन्तःकरणावच्छेदस्य जीवभावहेतुत्वन्तर्हि सुप्तिकालेऽन्तःकरणविलयेनावच्छेदकाभावाज्जीवत्वापगमे तदानीमेव ब्रह्मैक्यानुभवरूपमुक्तिप्रसङ्ग इति शङ्कायां कार्यात्मनाऽन्तःकरणविलयेऽपि कारणात्मना विद्यमानत्वेन तदधीनजीवत्वानिवृत्तेर्न तदानीं मुक्तिप्रसङ्ग इति परिहारसम्भवात् । नचैतदविद्यावच्छेदस्य जीवभावहेतुत्वे सङ्गच्छते । तथात्वेऽविद्याया एवसुप्ताववस्थानकथनप्रसङ्गादिति भावः । तदेव भिन्नान्तःकरणमेव । न ह्येकस्य जीवभावहेतुत्वमपरस्य व्यवस्थानियामकत्वमिति भावः । ततः किमित्यत आह — तच्चेति ॥ व्यवस्थानियामकं भिन्नान्तःकरणमित्यर्थः । उक्तम् अन्यदेहेत्यादिना । तथाच योगिष्वन्तःकरणभेदसद्भावेऽपि व्यवस्थाभावान्न तस्य व्यवस्थापकत्वम् । ततश्च व्यवस्थानियामकत्वेन पारमार्थिकभेदस्यावश्यकत्वान्नाप्रयोजकत्वमिति भावः ।