यद्वा ब्रह्मप्रतियोगिकाभेदो न जीवधर्मिको भवति
(१७)भेदोज्जीवनम्
(१७) यद्वा ब्रह्मप्रतियोगिकाभेदो न जीवधर्मिको भवति । ब्रह्मधर्मिको वाऽभेदो न जीवप्रतियोगिकः । जीवानुसंहितदुःखाननुसन्धातुरभेदत्वात् । व्यतिरेकेण जीवप्रतियोगिकजीवधर्मिकैक्यवत् । जीवप्रतियोगिकमैक्यं वा न ब्रह्मधर्मिकं जीवधर्मिकमैक्यं वा न ब्रह्मप्रतियोगिकं ब्रह्माननुसंहितदुःखानुसन्धातुरभेदत्वात् । व्यतिरेकेण ब्रह्मधर्मिकब्रह्मप्रतियोगिकैक्यवत् (ब्रह्मप्रतियोगिकब्रह्मधर्मिकैक्यवत्)। एवं यज्ञदत्तादिभ्यो देवदत्तादीनां भेदः साध्यः ।
(१७)भावप्रदीपः
एतस्मिन्नप्यनुमानद्वयेऽप्रसिद्धविशेषणत्वशङ्कानिरासप्रयासगौरवमित्यपरितोषादाह — यद्वेति ॥ अननुसन्धातुरभेदत्वातिति ॥ अननुसन्धातृ यद्ब्रह्म तत्सम्बन्ध्यभेदत्वादित्यर्थः । सम्बन्धश्चाद्ये प्रतियोग्यनुयोगिभावरूपो द्वितीये धर्मिधर्मभावरूपो बोध्यः । एवमुत्तरत्रापि ॥ व्यतिरेकेण जीवप्रतियोगिकेति ॥ तत्र हि जीवधर्मिकत्वं जीवप्रतियोगिकत्वं च वर्तते न तु तदभावः । एवं जीवानुसंहितदुःखानुसन्धातृजीवसम्बन्धित्वमेव वर्तते । न तु तदननुसन्धातृमसम्बन्धित्वमिति साध्यसाधनाभावोऽवगन्तव्यः । एवमुत्तरत्रापि । एवं जीवेशभेदेऽनुमानाष्टकमभिधाय परस्परजीवभेदेऽपि तमेव प्रकारमतिदिशति ॥ एवमिति ॥ देवदत्तो यज्ञदत्तप्रतियोगिकधर्मिसमसत्ताकभेदाधिकरणम् । यज्ञदत्ताननुसंहितदुःखानुसन्धातृत्वाद् व्यतिरेकेण यज्ञदत्तवदित्यादिरूपेण भेदः साध्य इत्यर्थः ।
(१७)भेदचिन्तारत्नं
ननु भूः शशविषाणोल्लखिता भूत्वादित्यादौ को दोष इति चेत् । प्रमाणबाध इति समाधेयम् । यस्याप्रसिद्धविशेषणत्वे दोषाभिमानस्तेनापि सन्तोष्टव्यमिति प्रकारन्तरेण प्रयुङ्क्ते ॥ यद्वेति ॥ जीवधर्मिकत्वाद्यभावस्य सार्वज्ञादौ प्रसिद्धेर्न दोषः ॥ अननुसन्धातुरभेदत्वादिति ॥ अत्र धर्मित्वप्रतियोगित्वोदासीनसम्बन्धमात्रं षष्ठ्यर्थः ॥ ब्रह्मप्रतियोगिको वा जीवप्रतियोगिक इति ॥ जीवब्रह्मणोरभेदे जीवो ब्रह्मणैको ब्रह्म वा जीवेनैकमिति तयोरैक्यं प्रति धर्मित्वप्रतियोगित्वे
स्याताम् । तन्निषेधे त्वैक्यमेव निषिद्धं भवतीति भावः ॥ एवमिति ॥ देवदत्तो यज्ञदत्तप्रतियोगिकधर्मिसत्तासमानसत्ताकभेदाधिकरणम् । तत्तादात्म्याधिकरणं वा न भवति । तत्पुण्याभोक्तृत्वाद् व्यतिरेकेण तद्वत् । अन्वयेन घटवत्याद्यूह्यम् । अन्यपुण्यादेरन्यभोक्तृत्वे कृतहानाकृताभ्यागमप्रसक्तेर्नासिद्धिः ।
(१७)भेदचन्द्रिका
साध्यप्रसिद्धिसौकर्यायाह — यद्वेति ॥ अनुमानचतुष्टये पक्षे तात्त्विकत्वं विशेषणं बोध्यम् । तेन न सिद्धसाधनता । जीवाननुसंहितदुःखानुसन्धातुरिति षष्ठी । आद्ये साध्येति प्रतियोग्यनुयोगिभावो द्वितीये धर्मिधर्मभावो बोध्यः । एवमुत्तरत्रापीति । न च घटादौ घटप्रतियोगिघटधर्मिकयोर्भेदयोर्वा साधारण्यमिति वाच्यम् । अभेदस्य घटात्मकत्वेन घटप्रतियोगिकधटधर्मिकभेदस्य पटाद्यात्मकत्वेन पटाद्यात्मकतया घटधर्मिकभेदसय्प्येवंरूपत्वेन हेतोरति सत्त्वात् । यद्यप्युत्तरानुमानयोगेनैव साधारण्यं न सुपरिहरम् । तथाऽप्यनुकूलतर्कसनाथत्वाद् व्यतिरेकिणि सत्प्रतिपक्षोन्नायकता न सम्भवतीति न तस्य दोषत्वमिति भावः । प्रासङ्गिकभेदसाधनमाहः ॥ एवमिति ॥ देवदत्तो यज्ञदत्तप्रतियोगिकधर्मिसत्तासमानसत्ताकभेदाधिकरणं यज्ञदत्ताननुसंहितदुःखानुसन्धातृत्वात् । व्यतिरेकेण यज्ञदत्तवदित्यादिरूपेणेत्यर्थः ।
(१७)भेदसञ्जीविनी
॥ उक्तप्रयासप्रद्वेषादनुमानान्तरणि दर्शयति — दुःखानुसन्धातुरभेदत्वादिति ॥ प्रथमानुमानपक्षे प्रतियोगित्वं षष्ठ्यर्थः । द्वितीयानुमानपक्षे आधेयत्वं षष्ठ्यर्थ इति ध्येयम् ॥ जीवप्रतियोगिकेति ॥ प्रथमानुमानतात्पर्येण जीवप्रतियोगिकेति ॥ द्वितीयतात्पर्येण जीवधर्मिकेति ॥ जीवप्रतियोगिकेत्याद्यत्राप्यनुसन्धातुरिति षष्ठ्याऽनुमानभेदेनार्थद्वयं द्रष्टव्यम् । अनुमानचतुष्टयेऽप्यस्मन्मते परमते चाभेदस्य धर्मिस्वरूपत्वेन सत्यत्वात्तत्र साधनीयस्यात्यन्ताभावरूपसाध्यस्याधिकरणस्वरूपत्वमत्यन्ताभावस्याभ्युपगच्छता मिथ्यात्वस्य वक्तुमशक्यतया न व्यावहारिकसाध्यमादायार्थान्तरतोद्भावनावकाशः । जीवानां परस्परं भेदसाधनेऽपीमं प्रकारमतिदिशति ॥ एवमिति ॥ देवदत्तो यज्ञदत्तप्रतियोगिकैक्याभाववान् यज्ञदत्ताननुसंहितदुःखाननुसन्धातृत्वाद् व्यतिरेकेण यज्ञदत्तवदिति प्रकारो द्रष्टव्यः ।
(१७)काशीतिम्मण्णाचार्य
अप्रसिद्धविशेषणत्वशङ्कानास्कन्दितमनुमानान्तरमाह — यद्वेति ॥ अभेदस्तादात्म्यम् । यद्यपि ब्रह्मप्रतियोगिकाभेदो न जीवप्रतियोगिकः, ब्रह्मधर्मिकाभेदो वा न जीवधर्मिक इत्युक्तावप्यर्थाज्जीवब्रह्मणोर्भेदः सिद्ध्यति । तथापि अभेदसाधकत्वेन पराभिमतस्य तत्त्वमसीत्यादिवाक्यस्य ब्रह्मणि जीवप्रतियोगिकाभेदो जीवे ब्रह्मप्रतियोगिकाभेदो वा प्रतिपाद्यः । साक्षात्तद्विरोधित्वं च यथोक्तानुमानानामेवेति तदनुसरणम् । तत्र प्रथमचतुर्थयोर् द्वितीयविरोधित्वं, द्वितीयतृतीययोप्रथमविरोधित्वमिति द्रष्टव्यम् । हेतौ तादात्म्यत्वमात्रस्य दृष्टान्तेऽनैकान्त्यादननुसन्धातृतादात्म्यत्वस्य चासिद्धेर्जीवानुसंहितेत्यादि व्याख्यातार्थकम् । अत्र जडतादात्म्यस्य पक्षसमत्वेनान्वयदृष्टान्ताभावादाह — व्यतिरेकेणेति ॥ न च परमते जीवप्रतियोगिकैक्यस्य ब्रह्मप्रतियोगिकत्वमप्यस्त्येवेति न व्यतिरेकिदृष्टान्तस्यापि सम्भव इति वाच्यम् । जीवैक्यादेर्जीवत्वादिरूपतया तत्र दुःखाननुसन्धातृत्वत्वरूपहेत्वभावस्योभयवादिसिद्धत्वात् ॥ एवमिति ॥ देवदत्तो यज्ञदत्तप्रतियोगिकधर्मिसत्तासमानसत्ताकभेदाधिकरणं तदननुसंहितदुःखाद्यनुसन्धातृत्वाद्व्यतिरेकेण यज्ञदत्तवदित्यादिप्रकारेणेत्यर्थः ।
(१७)शर्कराश्रीनिवासाचार्य
पूर्वोक्तानुमानद्वयेऽप्रसिद्धविशेषणत्वस्य दूषणत्वनिरासप्रयासगौरवमित्यपरितोषात्पक्षान्तरमाह — यद्वेति ॥ जीवप्रतियोगिकजीवधर्मिकैक्यवदिति ॥ तत्र हि जीवधर्मिकत्वं वर्तते जीवानुसंहितदुःखानुसन्धाता जीवस् तत्प्रतियोगिकाभेदत्वमेवास्ति नतु तदननुसन्धातुरभेदत्वम् । तथा जीवप्रतियोगिकत्वं वर्तते । जीवानुसंहितदुःखानुसन्धाता जीवः । तद्धर्मिकाभेदत्वं च सिद्धमिति भावः । एवं ब्रह्माभेदस्य जीवसम्बन्धित्वनिषेधकानुमानमभिधाय जीवाभेदस्य ब्रह्मसम्बन्धित्वनिषेधकमपि तदाह — जीवप्रीतयोगिकेति ॥ ब्रह्मधर्मिकब्रह्मप्रतियोगिकैक्यवदिति ॥ तत्र हि ब्रह्मधर्मिकत्वं वर्तते । ब्रह्माननुसंहितदुःखाननुसन्धातृब्रह्म । तत्प्रतियोगिकाभेदत्वं चास्ति । नान्यथा त्विति । तथा ब्रह्मप्रतियोगिकत्वं वर्तते ब्रह्माननुसंहितदुःखाननुसन्धातृ ब्रह्म तद्धर्मिकाभेदत्वमेवास्तिनान्यथेति साध्यसाधनाभावसिद्धिरिति भावः । जीवेशयोर्भेदसाधनप्रकारमन्योन्यजीवभेदसाधनेऽप्यतिदिशति ॥ एवमिति ॥ जीवब्रह्मपदस्थाने देवदत्तयज्ञदत्तादिपदानि प्रक्षिप्य देवतत्तो यज्ञदत्तप्रतियोगिकधर्मिसवासमानसत्ताकभेदाधिकरणम् । यज्ञदत्ताननुसंहितदुःखानुसन्धातृत्वात् । व्यतिरेकेण यज्ञदत्तवदित्यादयः सर्वे प्रयोगा अत्र द्रष्टव्या इति भावः ।