यद्वा जीवो ब्रह्मप्रतियोगिक(तात्त्विक)तादात्म्याधिकरणं न भवति..
(१६)भेदोज्जीवनम्
(१६) यद्वा जीवो ब्रह्मप्रतियोगिक(तात्त्विक)तादात्म्याधिकरणं न भवति, ब्रह्म वा जीवप्रतियोगिक(तात्त्विक)तादात्म्याधिकरणं न भवति इति । पूर्वोक्तहेत्वोरेव साध्यनिर्देशो द्रष्टव्यः । न चैवमप्रसिद्धविशेषणत्वं दोषाय । तद्धि साध्यकोटेरप्रसिद्धेः(द्धौ) साध्यतदभाववत्त्वेन सन्देहानुदयात्पक्षताविघटनद्वारा पक्षधर्मताविघटकत्वेन दोषः, उताप्रसिद्धे साध्ये तेन हेतोर्व्याप्तिग्रहणायोगेन व्याप्तिविघटनेन वा उभयविघटनेन वा । नाद्यः । ब्रह्म जीवप्रतियोगिक(तात्त्विक)तादात्म्यापन्नं(तादात्म्यावच्छिन्नं) न वेति संशयाभावेऽपि जीवप्रतियोगिक(तात्त्विक)तादात्म्यं ब्रह्मण्यस्ति न वेति सन्देहमात्रेणाभिधेयत्वसाधकानुमान इव पक्षतोपपत्तेः (पक्षधर्मतोपपत्तेः)। न द्वितीयः । केवलव्यतिरेकिणि साध्याभावस्यैव व्याप्तिग्रहात् । अत्र साध्याभावस्य जीवतादात्म्यस्य जीवे प्रसिद्धेः । यत्र व्यतिरेकिणि भावः साध्यस्तत्राभावस्य व्याप्त्युपयोगिनो भावज्ञानाधीनत्वात्साध्याप्रसिद्धिर्दोषाय । प्रकृते त्वभावस्य साध्यत्वान्न दोषः । न तृतीयः । उभयाविघटनेनादूषणत्वात् । व्याप्तिपक्षधर्मतान्यतरविघटकत्वे(विघटकत्वेनैव) हि दूषणम् ।
(१६)भावप्रदीपः
पूवोक्तानुमानद्वये धर्मिसमसत्ताकेति विशेषणप्रवेशेन गौरवमित्यपरितोषादाह — यद्वेति ॥ पूर्वहेत्वोरेवेति । पूर्वोक्तहेतुभ्यामेवेत्यर्थः । आद्यानुमाने ब्रह्माननुसंहितदुःखानुसन्धातृत्वादिति । द्वितीये च जीवानुसंहितदुःखाननुसन्धातृत्वादिति पूर्वोक्तावेव हेतू बोध्याविति भावः ॥ न चैवमप्रसिद्धविशेषत्वमिति ॥ सर्वत्राद्वैतवादिना ब्रह्मजीवप्रतियोगिकतात्त्विकतादात्म्यस्यैवाङ्गीकारादिति भावः । यद्यप्यप्रसिद्धविशेषणत्वमस्ति । तथाऽपि न तेनानुमितिप्रतिबन्धरूपदोषोऽस्तीति भावेनोक्तं दोषायेति । तद्धि पक्षधर्मताविघटनेन वा व्याप्तिविघटनेन वोभयविघटनेन वा दोष इति योजना । कथं पक्षधर्मताविघटनमित्यत उक्तं पक्षत्वविघटनद्वारेति । तदपि कथमित्यत उक्तं साध्यकोटीत्यादि । साध्यरूपैककोटीत्यर्थः । तथा च सन्दिग्धसाध्यवत एव धर्मिणः पक्षत्वात्तद्वृत्तिहेतोरेव पक्षधर्मत्वात्सन्देहेभावे पक्षत्वासिद्धौ हेतोः पक्षधर्मता न घटत इत्यर्थः । व्याप्तिविघटनोपपादनायोक्तमप्रसिद्धनेत्यादि । जीवो ब्रह्मप्रतियोगिकतात्त्विकतादात्म्याधिकरणं न भवतीत्याद्यनुमाने ईश्वरप्रतियोगिको जीवधर्मिकस्तु भेदो जीवस्य प्रत्यक्षः । नाहं निर्दुःखो न सर्वज्ञ इत्यनुभवादिति प्राक् पक्ष एव साध्यप्रसिद्धेरुपपादितत्वेन किं पराङ्गीकारमात्रेण साध्याप्रसिद्धिमभ्युपगम्य तस्य दोषहेतुतानिरासायासेनेति भावेन ब्रह्मपक्षकद्वितीयानुमान एव साध्याप्रसिद्धेरदूषणत्वमुपपादयति — नाद्य इत्यादिना । यद्यपीश्वरधर्मिको जीवप्रतियोगिको भेद ईश्वरस्य प्रत्यक्ष इति प्रागुक्तत्वाद्द्वितीयानुमानेऽपि साध्याप्रसिद्धिर्नास्ति । तथाऽपि परबुद्धेरप्रत्यक्षत्वादुत्तमः पुरुषस्त्वन्य इतीश्वरवाक्येन तत्प्रत्यक्षानुमाने पुनस्तत्रापि साध्याप्रसिद्धिशङ्कायां तन्निरासे प्रयासगौरवमालोच्य द्वितीयानुमाने साध्याप्रसिद्धिमभ्युपगम्य तस्या अदूषणत्वकथनमिदमिति बोध्यम् । केचित्तूपलक्षणाभिप्रायेण द्वितीयानुमानेऽप्रसिद्धविशेषणत्वस्य दोषत्वाभावकथनमिदमित्याहुः । यद्यपि नायं पन्थाः सैद्धान्तिकः । आश्रयव्याश्रयासिद्धी साध्यासिद्धिश्च दूषणम् । केषाञ्चिन्न च ते दोषा व्याप्तौ सत्यां कथञ्चनेत्युक्तेः । तथाऽपि परमतानुसारेणेदमिति बोध्यम् ॥ ब्रह्मेति ॥ तत्र जीवप्रतियोगिकतात्त्विकतादात्म्यपन्नमिति साध्याभावकोटिप्रदर्शनम् । न वेति साध्यकोटिप्रदर्शनम् ।
तथा च ब्रह्मरूपपक्षधर्मिकसाध्यतभावकोटिकसंशयासम्भवेऽपि साध्याभावधर्मिकपक्षवृत्तित्वतदभावकोटिकसन्देहमात्रेण पक्षत्वोपपत्त्या हेतोः पक्षधर्मत्वोपपत्तेरित्यर्थः । क्वचित्साध्यधर्मिकपक्षवृत्तित्वतदभावकोटिकसंशयेनापि पक्षतोपपत्तिर्द्रष्टव्या । नेयं रीतिः शास्त्रानुबद्धेति मन्तवयमिति भावेनात्र दृष्टान्तमाह — अभिधेयत्वसाधकानुमान इवेति ॥ शब्दोऽभिधेयः प्रमेयत्वादित्यत्राभिधेयत्वस्य केवलान्वयित्वेन तदभावाप्रसिद्ध्या शब्दोऽभिधेयत्वावान्न वेति सन्तेहेसम्भवेऽप्यभिधेयत्वं शब्दवृत्ति न वेति सन्देहमात्रेण यथा शब्दस्थपक्षतोपपत्तिस्तथाऽत्रापीति भावः । इदमपि पक्षतासम्पादनं परोक्तानुसारेणैव । न स्वमतरीत्या । स्वमते लिङ्गजन्यप्रतीतिविषयरूपसाध्यधर्मवत्तामात्रस्य पक्षतारूपत्वेन सन्दिग्धसाध्यधर्मवत एव पक्षत्वनियमाभावात् । घनगर्जितश्रवणेन घनानुमाने ज्ञात्वाऽपि परीक्षार्थं पृच्छन्तं प्रति प्रयुक्तानुमाने प्रत्यक्षादिना निश्चितेऽप्यर्थे दार्ढ्यार्थं प्रयुज्यमानानुमाने च साध्यसन्देहाभावेन साध्यधर्मवतः पक्षताभावप्रसङ्गात् । स्वकारणायत्ततया जायमानायामनुमितौ प्राक् साध्यसिद्धेरप्रतिबन्धकत्वाच्च । सिद्ध्यभावस्यानुमितावनङ्गत्वाच्च । न हि सामग्री बुद्धिमती येन यन्मया कर्तव्यां तदन्येनैव कृतमित्यालोच्योदासीत । अत एव सिषाधायिषा सहकृतसिद्ध्यभावः पक्षतेत्यादिवादा अपि स्थवीयांस एव । पर्वते वह्निं दृष्ट्वा किञ्चिद्दूरगतस्य सहसा धूमदर्शने वह्न्यनुमितेरनुभवसिद्धत्वात् । न हि तत्र सिषाधयिषाऽस्ति । नापि सिद्ध्यभाव इति ॥ केवलव्यतिरेकिणीति । हेतोः साध्येन व्याप्तिग्रहे हि साध्यप्रसिद्धेरुपयोगः । साधनाभावेन साध्याभावस्य व्याप्तिग्रहे तु न साध्यप्रसिद्धिरुपयोगिनी । केवलव्यतिरेकी चायं हेतुरिति भावः ।
ननु केवलव्यतिरेकिणि व्यतिरेकव्याप्तिग्रहे साध्यप्रसिद्धेरनुपयोगेऽपि साध्याभावप्रसिद्धिस्त्वावशियक्येव । साऽपि कथमत्रेत्यत आह —
अत्रेति ॥ जीवतादात्म्याभावस्यैव साध्यत्वेन तदभावो जीवतादात्म्यं जीवे प्रसिद्धमेवेति भावः । ननु जीवच्छरीरंसात्मकं प्राणादिमत्त्वादित्यत्र व्यतिरेकव्याप्तिग्रहे प्रतियोगितया साध्यप्रसिद्धेरप्यावश्यकत्वेन कथं सा नोपयोगिनीति तत्राह — यत्र त्विति ॥ तथा च सात्मकत्वानुमाने सात्मकत्वस्य भावरूपत्वेन व्यतिरेकव्याप्तिग्रहे प्रतियोगिभूतसात्मकत्वाज्ञानस्यापेक्षितत्वेन तदप्रसिद्धौ व्याप्तिग्रहायोगेन साध्याप्रसिद्धेर्दोषत्वेऽपि न प्रकृतानुमाने साध्याप्रसिद्धिर्दोषाय । जीवतादात्म्याभावस्य साध्यत्वेन तस्याप्रसिद्धत्वेऽपि व्यतिरेकव्याप्तौ जीवतादात्म्याभावाभावरूपजीवतादात्म्यस्य जीवे प्रसिद्धत्वेन तस्य हेत्वभावेन व्याप्तिग्रहस्य सुशकत्वादिति भावः । अभावस्याभावज्ञानस्य । भावज्ञानाधीनत्वात् साध्यरूपप्रतियोगिज्ञानाधीनत्वात् ॥ उभयविघटनेनेति ॥ असिद्ध्यादिहेत्वाभासदोषेषु पक्षधर्मताव्याप्त्युभयविघटनेन दूषणत्वस्यादर्शनादित्यर्थः । तत्कुत इत्यत आह — व्याप्तीति । अन्यतरविघटकत्वमात्रेणैव दूषणत्वं न तूभयविघटकत्वेनापि गौरवात् । अतोऽत्रापि नोभयविघटकत्वेन दूषणत्वमङ्गीकार्यमिति भावः ।
(१६)भेदचिन्तारत्नम्
एवं द्वितीयप्रयोगेऽपीत्यतः सत्येव समाधाने विषयव्याप्तिसूचनार्थं प्रकारान्तरेण प्रयुङ्क्ते ॥ यद्वेति ॥ समाधानं तु ब्रह्मप्रतियोगिकाभेदो न जीवघटयोरेकः । तस्य धर्मिस्वरूपत्वेन प्रत्यधिकरणमन्यान्यत्वात् । तथा हि । अन्योन्याभावो धर्मिस्वरूपो धर्म्यभिन्नत्वेनारोप्यमाणप्रतियोगिकः सः स्वयमपि धर्मिणा तदवस्थानापन्नः । यथा धर्मिभिन्नतयाऽऽरोप्यमाणप्रतियोगिकः संसर्गाभावो धर्मिभिन्न इति । विपक्षे भेदपरम्परयाऽनवस्थेत्यनुकूलतर्कः । अस्तु वाऽसन्नेक एव भेदः । तथाऽपि यावद्धर्मिसत्तासमानसत्ताकेति विशेषणान्न दोषः । न जीवघटोभयधर्मिकस्य विरुद्धसत्ताद्वयप्रत्याहत्या व्याहतिरिति वाच्यम् । पक्षधर्मताबलाद्व्याहतार्थस्यापर्यवसानात् । किञ्च जीवजडयोः पारमार्थिकत्वैकरूपसत्ताकत्वस्याप्यनेन लाभात् । न चैवं जीवस्यापि व्यावहारिकपर्यवसानं किन्न स्यादिति वाच्यम् । सन्दिग्ध एव पर्यवसानस्य न्याय्यत्वादिति ॥ तादात्म्याभावस्यैव भेदत्वेन पूर्वानुमानापेक्षयाऽत्र को भेद इति चेन्न । तादात्म्यारोप्यकस्यैव भेदत्वात् । इह च तादात्म्याभावसाध्यत्वात् । न चैवं भेदसाधनासङ्गतिरिति वाच्यम् । तादात्म्यविरोधिमात्रस्यैवादौ भेदपदेन विवक्षितत्वात् । व्यावहारिकतादात्म्यस्याभावेन सिद्धसाधनतावारणाय तात्त्विकेति ॥ अप्रसिद्धेति ॥ सर्वस्यापि तत्त्वतो ब्रह्मपदाभिधेयचैतन्यात्मकत्वाङ्गीकारादिति भावः । साध्यासिद्धिर्न दूषणमिति भावेनाह — तद्धीति । पक्षत्वविघटनद्वारेण पक्षधर्मताविघटनद्वारेणेत्येकविधो विकल्पः । अप्रसिद्धकोटिकसंशयासम्भवे सन्दिग्धत्वरूपपक्षत्वाभावेनेत्यर्थः ॥ उभयेति ॥ उक्तव्याप्तिपक्षधर्मतारूपद्वयेत्यर्थः । प्रकारत्रयं विना दोषतायोगादिति भावः । साध्याप्रसिद्धौ पक्षविशेष्यकसाध्यतदभावोभयकोटिकसंशयाभावेऽपि साध्यतदभावान्यतरविशेष्यकेन पक्षवृत्तित्वावृत्तित्वकोटिसंशयेनालमित्याह ॥ ब्रह्मण्यस्ति न वेतीति ॥ एवञ्च ब्रह्मवृत्तित्वतदवृत्तित्वयोरेव कोटित्वेन तयोः सत्त्वज्ञानत्वादौ प्रसिद्धत्वादिति भावः । अभिधेयत्वेति शब्दोऽभिधेय इत्यत्राभिधेयत्वस्य केवलान्वयित्वेन नेति कोट्यप्रसिद्ध्याऽभिधेयो न वेति संशयायोगेऽपि अभिधेयत्वं शब्देऽस्ति न वेति सन्देहमात्रेणैवेत्यर्थः । यथाकथञ्चित्पक्षतावच्छेदकसामानाधिकरण्यसंशयोऽनुमित्यङ्गम् । न तु तस्यानुमितिसमानविशेष्यप्रकारतापेक्षेति भावः । वस्तुतस्तु जिज्ञासुं प्रत्यनुमानप्रवृत्तावेव संशयोऽङ्गम् । प्रतिवादिनं प्रति सिषाधयिषायाम् । वादिप्रतिवादिमध्यस्थानां स्वस्वसिद्धान्तनिश्चयित्वात् । किञ्च कोटिज्ञानस्यैव संशयं प्रति हेतुत्वं लाघवात् । अतश्चारोपरूपाप्रसिद्धिः सर्वत्र युज्यते । न हि परस्य विशेषदर्शनवतः सा न युक्तेति वाच्यम् । तस्याप्याहार्योपपत्तेः । प्रतिवादिनं प्रति प्रवृत्तौ तु संशयस्याप्याहार्यहेतुत्वाङ्गीकारात् । अपि च तादात्म्याधिकरणं न भवतीति प्रतिज्ञावाक्यादेव कोटिप्रसिद्धिरस्तु । अयोग्यताज्ञानं वाक्यार्थज्ञानप्रामाण्य एव प्रतिबन्धकम् । तज्ज्ञानं तु विशेषदर्शनं चन्द्रप्रादेशेन चन्द्रप्रादेशत्वप्रत्यक्षसामग्रीवशाद्भवत्येवेति ॥ साध्याभावस्य व्याप्तिग्रहणादिति ॥ एवञ्च साध्यव्याप्तेरग्रहणे तदप्रसिद्धिरदोष इति भावः । इदं च पररीत्यैव । वस्तुतस्त्वधिकरणविशेषस्याप्रसिद्धत्वेऽप्यधिकरणानुबन्धेनैवेदमनेन व्याप्तं तदभावव्यापकीभूताभावप्रतियोगित्वादित्यन्वय एव सुग्रहः । उपलक्षणमेतत् । विशेषतत्साध्याप्रसिद्धावपि यो यदवृत्तिधर्माधिकरणं स तत्तादात्म्याधिकरणं न भवतीति सामान्यव्याप्तिस्तु सुग्रहेति । अभावव्याप्तिग्रहेऽपि प्रतियोगिप्रसिद्धिरावश्यिकीत्यत आह — यत्रेत्यादिना ॥ दोषायेति ॥ कथञ्चिदिति शेषः । तत्रारोप्यद्वयप्रसिद्धेरूपपादयितुं शक्यत्वादिति भावः । अन्यथा साध्याप्रसिद्धिर्न दोष इति विरोधः ॥ अभावस्य साध्यत्वादिति ॥ अभावाभावस्य भावत्वेन प्रतिज्ञानानपेक्षणादिति भावः । इदं चापाततोऽभावाभावस्य भावत्वेऽपि न विधिमुखेन व्यतिरेकधीः । किन्त्वभावाभावत्वेन । ईदृश्या एव व्यभिचारधीविरोधित्वादिति । वस्तुतस्तूक्तरीत्याऽऽरोपरूपाप्रसिद्धिरवसेया । अस्तु प्रकारान्तरेण दुष्टत्वमित्यत आह — व्याप्तीति ।
(१६)भेदचन्द्रिका
ननु धर्मित्वमेकं नानुगतम् । तथा च यदि घटसत्तासमानसत्ताकं भेदविशेषणं तदा सिद्धसाधनता विशेषणवैय्यर्थ्यं च । यदि ब्रह्मसत्तासमानसत्ताकत्वं तदा साध्याप्रसिद्धिरित्यत ओह — यद्वेति ॥ ब्रह्म वा जीवप्रतियोगिकेति ॥ इदं द्वितीयानुमानाभिप्रायेण । एवं प्रथमानुमानेऽपि जीवो ब्रह्मप्रतियोगिकतात्विकतादात्म्याधिकरणं न वेति सन्देहासम्भवेऽपि ब्रह्मप्रतियोगिकतात्त्विकतादात्म्यं जीववृत्ति न वेति सन्देहसम्भवेन पक्षता बोध्या । न च पक्षविशेष्यकसाध्यतदभावकोटिकसंशयान्यसंशयेनापि पक्षतायां सिद्धिदशायामपि यादृशतादृशसंशयेन पक्षतापत्तिरिति । प्रकृतानुमितिनिवृत्त्य संशयस्यातिप्रसङ्गभञ्जकत्वात् । प्रकृतानुमितिश्च भिन्नविशेष्यकप्रकारकाऽप्यनुभवविरोधात् तादृशसंशयनिवृत्तिकेति भावः । इदमुपलक्षणम् । वस्तुतस्तु घनगर्जितेन घनाद्यनुमानानुरोधेन विशिष्टसिद्ध्यभावः पक्षता सा तु संशयाभावेऽप्यक्षता । पक्षधर्मता तु न तावत्तत्तद्धर्मधर्मिता । किन्तु पक्षताभिमतधर्मवृत्तितैव सा तु संशयनिरपेक्षितैवेति न तद्विघटकता साध्याप्रसिद्धेरित्यपि बोध्यम् । तत्राभावज्ञानस्य व्याप्त्युपयोगिनो भावाधीनत्वादिति पाठः साधुः । क्वचित्तत्राभावव्याप्तिप्रतियोगिनो भावाधीनत्वादिति पाठः । तत्र व्याप्तिप्रतियोगिनो व्याप्त्याश्रयस्याभावज्ञानाधीनत्वादित्यर्थः ॥ उभयविघटनेनेति ॥ यद्यप्युभयविघटनेऽनुमितिप्रतिबन्धो भवत्येव तथाऽप्युभयविघटकत्वं न दूषकताबीजं गौरवादव्याप्तेश्चेति भावः ।
(१६)भेदसञ्जीविनी
शिष्यव्युत्पादनायोक्तार्थदार्ढ्याय चानुमानान्तराण्याह — यद्वेति ॥ केचित्तु धर्मित्वेन निवेशे घटादिरूपधर्मिसत्तासमानसत्ताकभेदं व्यावहारिकमादाय सिद्धसाधनता । स्वधर्मीति निवेशे पक्षदृष्टान्तयोरेकसाध्यालाभ इत्यरुचेराह यद्वेतीत्याहुः । इति साध्यनिर्देशः पूर्वोक्तहेतोः कर्तव्य इत्यर्थः ॥ ब्रह्मप्रतियोगिकतात्त्विकतादात्म्याधिकरणं न भवतीति ॥ ननु तादात्म्ये तात्त्विकत्वं विशेषणं व्यर्थम् । सामान्यतस्तादात्म्यानाधिकरणत्वमात्रसाधनेनाप्यभिमतार्थसिद्धेः । यथाकथञ्चित्तत्तादात्म्याधिकरणत्वे तत्सामान्यानाश्रयत्वबाधापत्त्याऽत्यन्तभेदसिद्धेः । न चारोपितस्य जीवतादात्म्यस्य ब्रह्मणि, ब्रह्मतादात्म्यस्य च जीवे सत्त्वाद्बाधवारणाय तत्सार्थक्यमिति वाच्यम् । आरोपितानारोपितयोर्मिलित्वा तादात्म्यत्वाख्यैकधर्मस्यैवाभावात् । आरोपितस्यैवासत्त्वेन किञ्चिदधिकरणावृत्तितद्वत्तामादाय बाधप्रसक्त्यभावाच्च । नापि परं प्रति बाधसिद्धसाधनतावारणायेति वाच्यम् । तात्त्विकतादात्म्यस्य त(त्व)न्मतेऽङ्गीकृतत्वेन तादत्म्यसामान्याभावस्य तन्मतेऽनङ्गीकारेण सिद्धसाधनानवकाशात् । तात्त्विकतादात्म्यमङ्गीकुर्वतस्तात्त्विकत्वदानेऽप्यदानेऽपि बाधस्यावश्यकत्वेन तस्यादूषणत्वात् । अन्यथा सर्वत्र प्रतिवादिनाऽनभ्युपगतस्यैव साधनीयत्वेन बाधावश्यकतया परार्थानुमानकथोच्छेदप्रसङ्गगात् । तादात्म्ये तद्दानेऽपि व्यावहारिकतदभावमादाय सिद्धसाधनानिस्ताराच्च । तस्मात्तात्त्विकत्वस्य न तादात्म्यविशेषणतासम्भवः । नापि तदभाव(वे)विशेषणत्वमपारमार्थिकम् । तादात्म्याभावमादाय सिद्धसाधनतावारणायेति वाच्यम् । समासमध्यपतितस्य पदस्य समासबहिर्भूतस्वासमभिव्याहृतनञर्थान्वय्यबोधकत्वात् । परमार्थत्व विशिष्टतादात्म्याभावरूपभेदस्य परं प्रत्यसिद्धत्वाच्च । व्यतिरेकव्याप्तिमूलकानुमानेनापि यद्धर्मावच्छिन्नव्यापकतावच्छेदकत्वं हेत्वभावत्वे गृहितं तद्धर्मावच्छिन्नाभावानुमापकत्वस्य हेतौ सत्त्वेऽपि पारमार्थिकत्वविशेषिततादृशाभावानुमितौ बीजाभावात् । तस्मात्तात्त्विकपदमफलमेवेति चेन्न । अत्र तात्त्विकपदं न पारमार्थिकपरं किन्तु मुख्यपरम् । स तु तादात्म्यपदस्यैकत्वपरतातात्पर्यग्राहकम् । अन्यथा जीवब्रह्मणोः सादृश्याभेदादितात्पर्येण शास्त्रे तादात्म्यैक्यादिपदानां बहुशः प्रयोगात् । तादात्म्येत्येतावत एवोक्ते तेषामप्युपस्थितौ तदभावस्य वा मुख्यामुख्य साधारणरूपावच्छिन्नाभावस्य वा प्रकृते साध्यत्वभ्रमेण प्रकृते बाधशङ्का स्यात् । तात्त्विकपददाने तु मुख्यैक्यमित्यर्थलब्ध्या तदभावस्यैव साध्यतालाभान्न बाधशङ्काप्रसक्तिः । तथा च जीवप्रतियोगिकैक्यत्वावच्छिन्नप्रतियोगिताकाभावो ब्रह्मप्रतियोगिकैक्यत्वावच्छिन्नप्रतियोगिताकाभावश्चानुमानद्वये यथायथं साध्ये । अयमभावस्तादात्म्यनिष्ठस्वरूपसंसर्गावच्छिन्नप्रतियोगिताकोऽत्यन्ताभाव एव भेदादन्य एवाधिकरणीभूतब्रह्मादिस्वरूपतया परमते पारमार्थिक एव सिध्यति । तेन तस्य व्यावहारिकत्वमादाय सिद्धसाधनतापर्सक्तिः । । भेदस्तु तादात्म्यसम्बन्धावच्छिन्नप्रतियोगिताको वा तादात्म्यावच्छिन्नप्रतियोगिताको वा भेदत्वमखण्डोपाधिर्वा । अभेदसामान्यमपारमार्थिकमिति पराभ्युपगमपक्षेऽत्यन्ताभावस्यैव साधनेनास्माकं कृतार्थतेत्याशयेनैतदनुमानं प्रवृत्तमिति न कोऽपि दोषः । अत एवोत्तरग्रन्थेषु तात्त्विकत्वविशेषणं तादात्म्येऽनुपादायैव व्यवहारः । पूर्वं तादात्म्याभावस्य भेदत्वेन व्यवहारादत्र तस्यातिरिक्तत्वाङ्गीकारे पूर्वोत्तरविरोध इति चेन्न । भेदस्य तस्य च समनैय्यत्येनैक्यमिति मतविशेषाभिप्रायेण तथा व्यवहृतत्वेन विरोधाभावात् । केचित्तु परार्थानुमानस्य विप्रतिपत्तिपूर्वकत्वाद्विप्रतिपत्तौ च तात्त्विकतादात्म्यत्वेन परेण स्वपक्षोत्कीर्तनं कार्यम् । अन्यथाऽनिर्वचनीयतादात्म्यमादाय पर्यवसानात्परस्यार्थान्तरापातात् । तथा च तदभावरूपसिद्धान्त(सिद्धान्त्यभिमत)कोटिस्तात्त्विकत्वघटितैवेति तात्त्विकपदं सार्थकमित्याहुः ॥ न चैवमप्रसिद्धविशेषणत्वमिति ॥ न च ब्रह्मैक्यस्य जीवैक्यस्य वा घटादावभावाद्धटादावेव तदभावः प्रसिद्ध इति कथमप्रसिद्धविशेषणतेति वाच्यम् । तादात्म्यमैक्यमित्यनर्थान्तरं तद्वृत्यसाधारणधर्मस्यैव (तत्)तादात्म्यरूपत्वात् । भेदाभावरूपैक्यस्य च प्रतियोगितावच्छेदकस्वरूपत्वेन तत्रैव पर्यवसानात् । इत्थं गन्धवत्त्वलक्षणकथनात्प्राक् पृथिवीत्वस्य सर्वत्र प्रसक्तौ सत्यां जलाद्यसङ्कीर्णवस्तुज्ञानाभावाज्जलादिभेदस्य कुत्रापि प्रसिद्ध्यभावाज्जलादिभेदव्याप्यवत्ताज्ञानासम्भवमाशङ्क्याभावसाध्यकव्यतिरेकित्वात्तादृशसाध्याभावभूतजलत्वव्यापकीभूताभावप्रतियोगिगन्धवानिति ज्ञानाज्जलभेदानुमितेः परैरङ्गीकारात्तद्ब्रह्मत्वस्य जीवस्य च सर्वत्र प्रसक्तिदशायां तादात्म्याभावस्य क्वचिदधिकरणे निश्चयाभावादप्रसिद्धविशेषणता तद्रीत्यैव समाधानं वक्तुं शक्यतेत्यदोषः । पृथिवीत्वस्य सर्वत्र प्रसक्तिदशायां जलादित्रयोदशान्यतमभेदाधिकरणत्वेन व्यक्तिविशेषानिर्णयात्तत्र जलभेदादेरनुपस्थितिवदिहापि दशाविशेषे तादृशतादात्म्याभावस्यानुपस्थितिसम्भवात् । यद्वाऽद्वैतवादिभास्करस्य मते समस्तजगतः सच्छक्तिमद्ब्रह्मपरिणामित्वाङ्गीकारात्समस्तजगति ब्रह्मतादात्म्यमेवं जीवचित एव ब्रह्मत्वात्तदुपादानकत्वेन जीवतादात्म्यमपि सर्वत्र वर्तते । मायावादिमतेऽपि सर्वत्र ब्रह्मचैतन्यारोपितप्रपञ्चाधिष्ठानब्रह्मासाधारणधर्मरूपसत्ताया अङ्गीकृतत्वात्तादात्म्यं तदभिन्नजीवतादात्म्यं च केवलान्वयीत्यङ्गीकृतमिति तेनाप्रसिद्धविशेषणतोद्भावयितुं शक्यत एव । सत्तायाश्च ब्रह्मासाधारणधर्मत्वं `त्वानन्दो विषयानुभवः सत्ता चेति सन्ति त्रयो धर्माः, अपृथक्त्वेऽपि चैतन्यात्पृथगिवावभासन्त’ इति पञ्चपादिकोक्तेः सिद्धमिति न कोऽपि क्लेशः ॥ दोषाय चेति ॥ न चेत्यस्यात्रान्वयः । प्रकृतानुमानविघटनरूपदोषाय न भवतीत्यर्थः ॥ उभयविघटनेनेति ॥ प्रत्येकं व्याप्तिग्रहविघटनेन पक्षधर्मताविघटनेन चेति द्वित्वावच्छिन्नसम्पादानेन चेत्यर्थः ॥ ब्रह्मेति ॥ जीवप्रतियोगिकेति ॥ पूर्वं जीवरूपधर्मिणः प्रत्यक्षविषयत्वेन तत्र हेत्वादेः सुग्रहत्वादनुमितिर्झटिति भवतीति तात्पर्येण जीवपक्षकानुमानस्य प्रथमत उक्तत्वेऽपीदानीं संशयधर्मिणो जीवप्रतियोगिकतादात्म्यस्य प्रत्यक्षसिद्धत्वात्तद्धर्मिकसंशयस्य सौकर्यमिति प्राधान्यमनुसृत्य द्वितीयानुमान एव संशय उपपादितः ॥ पक्षतोपपत्तिरिति ॥ साध्यानुमितिनिवर्तनीयसंशयमात्रस्य पक्षतात्वाभ्युपगमादसमानधर्मितावच्छेदककस्याप्यस्य संशयस्यानुमितिनिवर्त्यत्वानुभवात्पक्षतात्वमिति भावः । इदन्तु संशयस्य पक्षतात्वमभ्युपेत्य । सिद्ध्यभावपक्षतात्वमते तु न कोऽपि दोषः ॥ अभावः साध्य इति ॥ तत्राभावरूपसाध्याभावज्ञानस्य भावरूपप्रतियोगिज्ञानाधीनत्वादिति तत्र साध्योपस्थितेरावश्यकत्वमिति भावः ॥ व्याप्त्युपयोगिन इति ॥ व्याप्तिज्ञानं प्रति विशेषणज्ञानमुद्रया हेतुभूतं यज्ज्ञानं तद्विषयीभूतस्येत्यर्थः ॥ अभावस्येति ॥ अभावाभावस्य भावरूपतया तस्य स्वसाध्याभावत्वेन ज्ञानार्थं साध्योपस्थितेरपेक्षणेऽपि साध्यीभूताभावीयप्रतियोगितावच्छेदकरूपेणैव व्याप्तिशरीरे भानाभ्युपगमेन तत्र साध्योपस्थितेरनपेक्षणादिति भावः । न च जलभेदानुपस्थितिदशायां जलतादात्म्यरूपजलत्वस्य सर्वत्र ग्रहे गन्धाभावस्य तद्व्यापकता ग्रहीतुं शक्यते । गन्धवत्यपि तत्प्रसक्त्या व्यभिचारग्रहादिति वाच्यम् । जलत्वस्य प्रत्यक्षेण जले ग्रहकाले गन्धाभावस्यापि तत्र पूर्वमेव व्यापकत्वादेर्गृहीतत्वेनेदेनीं तत्स्मरणरूपपरामर्शेनोक्तानुमितिसम्भवात् । पूर्वमगृहीतत्वेऽपीदानीं जलतादात्म्यादौ पृथिव्यनुयोगित्वादिसन्देहरूपतदतिप्रसक्तस्य सत्त्वेऽपि तस्य गन्धाभावनिरूपितव्यभिचारस्य जलत्वसंशयरूपत्वेन पर्यवसानेऽपि ग्राह्यसंशयस्य पक्षनिश्चये प्रतिबन्धकत्वाभावात् । तथा यथाकथञ्चिदनुकूलतर्केण तदपसरणोपपत्तेश्च व्यापकत्वग्रहे युज्यत एव । एवं शाब्दनिश्चयेऽप्युक्तव्यभिचारसंशयस्याप्रतिबन्धकत्वात् । प्रत्युत योग्यताज्ञानमुद्रयाकारणत्वादाप्तवाक्यादिनाऽपि तन्निश्चयो युज्यत इति न कोऽपि दोषः ॥ उभयविघटनेनादूषत्वादिति ॥ व्याप्तिविघटकत्वेन पक्षताविघटनद्वारा । यत्पक्षधर्मताविघटनं तेन चेति यद्दूषणत्वं तदभावादिति भावः । साध्यसन्देहस्य पक्षतात्वमते तद्विघटनेन पक्षधर्मताविघटकत्वेऽपि तस्य पक्षतात्वपक्षं दूषयित्वा सिद्ध्यभावरूपपक्षतात्वस्यैव सिद्धान्तितत्वेन तद्विघटनस्याप्रसिद्धविशेषणेन कर्तुमशक्यत्वेन विघटनद्वयस्यैवायोगात् । संशयपक्षतामते विघटनद्वयसत्त्वेऽपि तयोर्न समुचितत्वेन दूषकत्वं समुचितत्वेनोद्भावने बाधविशिष्टव्यभिचारोद्भावकस्यैवाधिक्येन निग्रहा
पत्तेः । किन्तु बाधव्यभिचारयोरिव पृथगेवोद्भावनीयत्वात्पृथगेव दोषत्वमित्यर्थः । विकल्पकोटौ निवेशस्तु यथाकथञ्चित्सम्भावितत्वमात्रेणेति द्रष्टव्यम् ॥ व्याप्तिपक्षधर्मताऽन्यतरेति ॥ प्रत्येकविघटकत्वेनेत्यर्थः । तथा चैकदैकमेवोद्भावनीयमित्यर्थः । तृतीयकल्पदूषणं शिष्यव्युत्पादनायैव । न प्रकृतोपयुक्तत्वेन । प्रकृते व्याप्तिपक्षधर्मतयोरुभयोरप्युपपादितत्वेन समुचितयोर्द्वयोर्दूषकत्वेऽपि क्षतिविरहादिति द्रष्टव्यम् ॥
(१६)काशीतिम्मण्णाचार्य
भेदे धर्मिसत्तासमानसत्ताकत्वमनिवेश्यापि पारमार्थिकभेदसाधनप्रकारमारभते ॥ यद्वेति ॥ पूर्वोक्तहेत्वोः क्रमेणेति शेषः । तथाच जीवो ब्रह्मप्रतियोगिकतादात्म्याधिकरणं न भवति, ब्रह्माननुसंहितदुःखानुसन्धातृत्वाद्व्यतिरेकेण ब्रह्मवत् । ब्रह्म वा जीवप्रतियोगिकतादात्म्याधिकरणं न भवति, जीवानुसंहितदुःखाननुसन्धातृत्वाद्व्यतिरेकेण जीववदित्युक्तं भवति । न च ब्रह्मतादात्म्याधिकरणीभूतब्रह्मप्रतियोगिकव्यावहारिकभेदस्य जीवेऽभ्युपगमात्सिद्धसाधनमिति वाच्यम् । ब्रह्मतादात्म्याधिकरणत्वावच्छिन्नप्रतियोगिताकभेदस्य साध्यत्वात् । घटाकाशे महाकाशप्रतियोगिकभेदाभ्युपगमेऽपि महाकाशतादात्म्यानधिकरणत्वाप्रतीत्या तदधिकरणत्वावच्छिन्नप्रतियोगिताकभेदस्येव जीवे व्यावहारिकस्यापि ब्रह्मतादात्म्याधिकरणत्वावच्छिन्नप्रतियोगिताकभेदस्य परानभ्युपगतत्वेन दोषाभावात् ।
नन्वेवं परमते सर्वस्यैव ब्रह्मतादात्म्याधिकरणत्वात्तदवच्छिन्नप्रतियोगिताकभेदरूपसाध्याप्रसिद्धिरत आह — न चैवमिति ॥ यद्यपि काञ्चनमयवह्न्यादेः साध्यतायामिव साध्ये साध्यतावच्छेदकाभावरूपसाध्याप्रसिद्धिः साक्षादनुमितिविरोधितया दोष एव । तथापि प्रकृते न तादृशासिद्धिरुद्भावयितुं शक्या । विप्रतिपत्त्या भेदे ब्रह्मतादात्म्याधिकरणत्वावच्छिन्नप्रतियोगिताकत्वसन्देहेन तदनिर्णयात् । तत्सन्देहस्य च साध्यसन्देहाधायकत्वेनाविरोधित्वात् । किन्तूक्तसाध्यस्य क्वचिदगृहीतत्वादज्ञानरूपासिद्धिरेवोद्भाव्या । सा च नाभावसाध्यकव्यतिरेक्यनुमाने दोष इति भावः । एतदेवोपपादयति — तद्धीति ॥ ‘पक्षधर्मताविघटनेन वा व्याप्तिविघटनेन वोभयविघटनेन वा दोष’ इति सम्बन्धः ।
ननु साध्यस्याप्रसिद्धावपि हेतोः पक्षधर्मत्वसम्भवात् कथं तस्यास्तद्विघटकत्वमित्यत उक्तम् – पक्षताविघटनेनेति ॥ तदपि कथम् ? अतः साध्यकोटीत्यादि । अथ पक्षताविशिष्टपक्षधर्मताज्ञानं नानुमितिहेतुः । पक्षतायाः स्वरूपसत्याः पृथगेव हेतुत्वात् । किन्तु पक्षतावच्छेदकवति हेतोर्धर्मत्वज्ञानमेव हेतुरिति कथं पक्षताविघटकस्यानुमित्यौपयिकपक्षधर्मताविघटकत्वमिति चेत् सत्यम् । तथापि पक्षतायाः स्वातन्त्र्येण हेतुत्वे तद्विशिष्टपक्षधर्मताया अनुमितिप्रयोजकत्वानपायाद् एकदेशविघटकस्य विशिष्टविघटकत्वमव्याहतमेव ।
अप्रसिद्धेनेत्याद्ययोगादित्यन्तं व्याप्तिविघटने हेतुः । साध्यस्याप्रसिद्धौ तन्निरूपितव्याप्तिग्रहायोगादित्यर्थः ॥ उभयविघटनेनेति॥ उक्तरीत्या व्याप्तिपक्षधर्मतोभयविघटनेनेत्यर्थः ।
ब्रह्मधर्मिकभेदानुमानस्य प्राधान्यादन्योपलक्षकतया तत्र साध्याप्रसिद्धेरदोषत्वमुपपादयति — नाद्य इत्यादिना ॥ ननु पक्षधर्मिकसाध्यतदभावकोटिकसन्देहस्यैव पक्षतात्वात् कथमन्यविधसंशयेन पक्षतोपपत्तिरत आह — अभिधेयत्वसाध्यकानुमान इति ॥ अभिधेयत्वं शब्देऽस्ति न वेति संशयेनेति शेषः । यथा शब्दोऽभिधेयः प्रमेयत्वादित्यादौ साध्याभावाप्रसिद्ध्या साध्यतदभावकोटिकसंशयासम्भवेऽपि साध्ये पक्षनिष्ठत्वतदभावकोटिकसंशयस्य पक्षतात्वमुपेयते, तथाऽत्र जीवतादात्म्यरूपसाध्याभावे पक्षनिष्ठत्वतदभावकोटिकसंशयस्य पक्षतात्वमुररीक्रियते, विशेषाभावादिति भावः । इदमुपलक्षणम् । विप्रतिपत्त्यधीनसाध्यसंशयस्य सिषाधयिषाविरहविशिष्टसिद्ध्यभावस्य च पक्षतात्वसम्भवो द्रष्टव्यः । ननु साध्याप्रसिद्धौ कथं साध्याभावस्यापि व्याप्तिग्रहः । प्रतियोगिप्रसिद्धेरभावधीहेतुत्वादित्यत आह — यत्रेति ॥ शब्दो गगनविशेषगुणः शब्दत्वाद्व्यतिरेकेण रूपवदित्यादौ । व्याप्त्युपयोगिनः साध्याभावे हेत्वभावनिरूपितव्याप्तिग्रहप्रयोजकस्य । अभावस्य साध्याभावज्ञानस्य । भावज्ञानाधीनत्वात् साध्यज्ञानप्रयोज्यत्वात् । साध्याप्रसिद्धिर्दोषाय व्याप्तिग्रहविघटनद्वाराऽनुमितिविघटनायेत्यर्थः ।
अयमाशयः । व्यतिरेकिणि तद्धर्मावच्छिन्नाभावसाध्यकानुमितौ तद्धर्मावच्छिन्नाभावाभावत्वेन व्याप्तिज्ञानवत्तद्धर्मेण व्याप्तिज्ञानमपि हेतुः । वह्न्यभावाभावत्वेनेव वह्नित्वेन व्याप्तिज्ञानादपि वह्न्यभावानुमितिदर्शनात् । तथाच प्रकृते प्रसिद्धजीवतादात्म्यत्वेन व्याप्तिग्रहात्तदवचिछन्नाभावसाध्यकानुमितिर्न साध्यसिद्धिमपेक्षत इति ।
अथ सिद्धान्ते व्यतिरेकस्यान्वयमुखेनैव साध्यसाधकतया कथमप्रसिद्धसाध्यव्याप्त्यनुमापकत्वं तस्येति चेन्न । यो यव्द्यापकीभूताभावप्रतियोगी स तदभावव्याप्यः । वह्न्यभावव्यापकीभूताभावप्रतियोगिधूमवदिति सामान्यव्याप्त्या पक्षधर्मताबलादप्रसिद्धसाध्यव्याप्त्यनुमितिसम्भवादिति विभावनीयम् ॥ उभयाविघटनेनेति ॥ उक्तरीत्या व्याप्तिपक्षधर्मताग्रहाविघटकत्वेन अनुमित्यविघटकत्वादित्यर्थः । ननु तथापि बाधादिवदसिद्धेरपि साक्षादनुमितिविरोधित्वेनैव दोषत्वमस्त्वत आह — व्याप्तीति ॥ बाधादेरपि साध्यसन्देहरूपपक्षताविघटकत्वेन दोषत्वं बोध्यम् ॥
(१६)शर्कराश्रीनिवासाचार्य
— पूवोक्तानुमानद्वये धर्मिसत्तासमानसत्ताकेति विशेषणप्रवेशेन गौरवमित्यपरितोषादाह — यद्वेति ॥ पूर्वहेत्वोरिति ॥ तथाच जीवः ब्रह्मप्रतियोगिकं यत्तादात्म्यमैक्यं तदाश्रयो न भवति ब्रह्माननुसंहितदुःखानुसन्धातृत्वाद् व्यतिरेकेण ब्रह्मवत् । ब्रह्म वा जीवप्रतियोगिकं यत्तादात्म्यं तादाश्रयं न भवति जीवानुसंहितदुःखाननुसन्धातृत्वाद् व्यतिरेकेण जीववदित्यनुमानद्वयमुक्तं भवति ।
ननु सर्वत्र जीवब्रह्मप्रतियोगिकतादात्म्याधिकरणत्वस्यैव मयाऽङ्गीकारेण तदभावरूपसाध्याप्रसिद्ध्योभयत्राप्यप्रसिद्धविशेषणत्वमित्याशङ्क्य निराकरोति ॥ नचेति ॥ एवमुक्तरीत्या प्रतिज्ञाकरणेऽप्रसिद्धविशेषणत्वस्य स्फुटत्वेन कथं तदपलाप इत्यत उक्तम् ॥ दोषायेति ॥ तद् विद्यमानमप्यप्रसिद्धिविशेषणत्वम् । पक्षधर्मताविघटकत्वेन दोष इत्यन्वयः । कथं तस्य पक्षधर्मताविघटकत्वमित्यत उक्तम् ॥ पक्षताविघटनद्वारेति ॥ पक्षताश्रयवृत्तित्वं पक्षधर्मत्वम् । पक्षताया अभावे तदाश्रयवृत्तित्वरूपपक्षधर्मत्वमपि नेत्यर्थः । पक्षताविघटकत्वमेव कथमित्यत उक्तम् ॥ साध्यतदभाववत्त्वेन सन्देहानुदयादिति ॥ सन्दिग्धसाध्यधर्मवत्ता हि पक्षता । साध्यसन्देहस्यैवाभावे तद्धटितपक्षतापि नेत्यर्थः । साध्यसन्देहानुदय एव कुत इत्यत उक्तम् ॥ साध्यकोटेरप्रसिद्धेरिति ॥ तथात्वेकोटिस्मृतेरभावादिति भावः ॥ व्याप्तिग्रहणायोगेनेति ॥ व्याप्तिरूपसप्रतियोगिकपदार्थज्ञाने साध्यरूपप्रतियोगिज्ञानस्याकारणत्वादिति भावः ॥ उभयेति ॥ व्याप्तिपक्षधर्मतारूपोभयेत्यर्थः । उपलक्षणाभिप्रायेण द्वितीयानुमानेऽप्रसिद्धविशेषणत्वस्य दोषत्वाभावमाह — नाद्य इत्यादिना ॥ इति सन्देहमात्रेणेति ॥ पक्षधर्मिकसाध्यतदभावकोटिकसन्देहवत्साध्यतदभावान्यतरधर्मिकपक्षवृत्तित्वतदभावकोटिकसंशयस्यापि पक्षताघटकत्वादिति भावः । अत्रैव दृष्टान्तमाह — अभिधेयत्वसाधकेति ॥ शब्दोऽभिधेयः प्रमेयत्वादित्यत्राभिधेयत्वस्य केवलान्वयित्वेन तदभावाप्रसिद्ध्या शब्दोऽभिधेयत्ववान्न वेति पक्षधर्मिकसाध्यतदभावकोटिकसन्देहाभावेऽपि साध्यतदभावान्यतरधर्मिकपक्षवृत्तित्वतदभावप्रकारकसन्देहमात्रेण यथा पक्षधर्मता तथाऽत्रापि साध्याभावधर्मिकपक्षवृत्तित्वतदभावकोटिकसंशयेन पक्षतोपपत्तेरित्यर्थः ॥ अत्रेति ॥ द्वितीयानुमाने हि जीवतादात्म्यानधिकरणत्वं साध्यं तदभावश्च जीवतादात्म्याधिकरणत्वं तच्च जीवे प्रसिद्धमतस्तत्र साधनाभावेन व्याप्तिग्रहस्सम्भवतीत्यर्थः । नन्वभावज्ञाने प्रतियोगिज्ञानस्य कारणत्वेन प्रतियोगिभूतसाध्यस्याप्रसिद्धत्वे तदभावज्ञानायोगात्कथं तत्र व्याप्तिग्रह इत्यत आह — यत्रेति ॥ शब्द आकाशविशेषगुण आकाशमात्रवृत्तिगुणत्वाद् व्यतिरेकेण रूपवदिति केवलव्यतिरेक्यनुमाने साध्यस्याकाशविशेषगुणत्वस्य भावरूपत्वेन तदभावस्याभावरूपत्वात् । प्रतियोगिभूताकाशविशेषगुणत्वस्याप्रसिद्धत्वेन तदभावस्य ज्ञातत्वेन तत्र व्याप्तिग्रहासम्भवात्साध्याप्रसिद्धिर्दोषाय । प्रकृते जीवतादात्म्यस्य भावरूपत्वेन तज्ज्ञानस्य प्रतियोगिज्ञनानधीनत्वात्तत्र व्याप्तिग्रहसम्भवेन साध्याप्रसिद्धिर्न दोषायेत्यर्थः । अभावस्य साध्याभावज्ञानस्य । भावज्ञानाधीनत्वात् साध्यरूपप्रतियोगिज्ञानाधीनत्वात् । कुत इत्यत आह — व्याप्तीति ॥ असिद्ध्यादिहेत्वाभासानां हि व्याप्तिपक्षधर्मतान्यतरविघटकत्वेनैव दोषत्वं प्रसिद्धं नतु प्रकारान्तरेण । अतोऽप्रसिद्धविशेषणत्वस्यापि व्याप्त्यादिविघटकत्वाभावेन दूषणत्वमेव नेत्यर्थः ।