नन्वत्र जीवशब्देनानवच्छिन्नचैतन्यविवक्षायां
(१५)भेदोज्जीवनम्
(१५) नन्वत्र जीवशब्देनानवच्छिन्नचैतन्यविवक्षायां तस्य दुःखाननुसन्धातृत्वेनासिद्धिप्रसङ्गादन्तःकरणेन वाऽज्ञानेन वाऽवच्छिन्नचैतन्यं विवक्षणीयम् । न च तद्युक्तम् । अवच्छिन्नस्य मिथ्यात्वेन तत्सत्तासमानसत्ताकत्वेन सिध्यतो भेदस्य पारमार्थिकत्वासिद्धेरिति चेत् कस्तर्हि तवापि जीवशब्दार्थः । अवच्छिन्नमेवेति चेत् तर्हि जीव(स्य) मुक्तिर्मिथ्या स्यात् । ननु जीवभाव एव मिथ्या चैतन्यं तु सत्यमेवेति चेन्न यच्चैतन्ये (यत्र चैतन्ये) मिथ्याभूतो जीवभावस्तत्सत्यमेव । तच्चैतन्यं जीवशब्देनास्माभिर्विवक्षितमिति सन्तोष्टव्यम् । तदेव चैतन्यं दुःखानुसन्धात्रिति नासिद्धिः । दुःखानुसन्धातृत्वं मिथ्यैवेति चेत्किमनेनाकाण्डताण्डवेन । न ह्यस्माभिस्सत्यत्वं (तत्सत्यत्वं) हेतौ विशेषणीकृतम् । ननु जीवब्रह्मणोर्भेदसिद्धेः पूर्वं कथं पक्षदृष्टान्तभाव इति चेन्न । त्वयाऽभ्युपगतेन व्यावहारिकभेदेनैव पक्षदृष्टान्तभावो
पपत्तेः ॥?११
(१५)भावप्रदीपः
नन्वत्राद्यानुमाने धर्मिसमसत्ताकेति भेदस्य विशेषणेऽपि न भवदभिमतपारमार्थिकत्वसिद्धिरित्याशयेन शङ्कते — नन्वत्रेत्यादिना ॥ परमुखेनैव समाधिप्रकारंसूचयितुं पृच्छति — कस्तर्हीति । तव जीवब्रह्मणोरभेद इति वदतः । मत इति शेषः ॥ अवच्छिन्नमेवेतीति । अन्तःकरणाद्यवच्छिन्नं चैतन्यमेवेत्यर्थः ॥ तर्हीति । अवच्छिन्नस्य मिथ्यात्वाङ्गीकारान्मिथ्याभूतस्य च ब्रह्मभावरूपसत्यमुक्त्ययोगाज्जीवस्य शास्त्रेषूच्यमाना मुक्तिर्मिथ्या स्यादिति भावः । नन्ववच्छिन्नस्य जीवत्वेऽपि तस्य मिथ्यात्वेऽपि न तस्योच्यमाना मुक्तिर्मिथ्याऽऽपद्यते । जीवशब्दार्थस्य सर्वस्यापि मिथ्यात्वे हि तथा स्यात् । न चैवम् । यत्र चैतन्ये जीवभाव आरोपितस्तच्चैतन्यं सत्यमेव । तस्य च मुक्तिः सम्भवत्वेवेति भावेन शङ्कते — नन्विति ॥ तर्हि वयमपि वदामस्तदेव चैतन्यं जीवशब्द वाच्यम् । यत्र जीवभाव आरोपित इति ब्रूष इति भावेन समाधत्ते ॥ यत्र चैतन्य इति ॥ तथा च धर्मिपदेन तादृशचैतन्यस्यैव लाभेन तत्समसत्ताकत्वसिद्धौ भेदस्य पारमार्थिकत्वमेव सिध्यतीति भावः । नन्वेवंसत्यचैतन्यस्यैव जीवशब्दार्थत्वेन विवक्षितत्वे तस्य मन्मते दुःखानुसन्धातृत्वाभावेन हेतोरसिद्धिः स्यादित्यत आह — तदेवेति ॥ आरोपितजीवभावं चैतन्यमित्यर्थः । तस्य च दुःखानुसन्धातृत्वं त्वयाऽप्यङ्गीकृतमेवेति भावः । नन्वङ्गीकृतमपि तस्य दुःखानुसन्धातृत्वं मन्मते न सत्यम् । किन्तु मिथ्यैवेति कथं नासिद्धिर्हेतोरिति शङ्कते — दुःखानुसन्धातृत्वमिति ॥ मिथ्यैवारोपितमेवेत्यर्थः । आरोपितमप्यनुसन्धातृत्वं चैतन्ये त्वयाऽङ्गीकृतमेवेति तस्य सत्यतानङ्गीकारमात्रेण कथमसिद्धिः । न हि तत्र सत्यत्वं विशेषणं दत्तमस्माभिरिति भावेन प्रत्याह — किमनेनेति ॥ अकाण्डताण्डवेनेति ॥ वाद्यादिविरहितनर्तनतुल्येनानुपयुक्तेन तन्मिथ्यात्ववर्णनेनेत्यर्थः ॥ पक्षदृष्टान्तभाव इति ॥ आद्यानुमाने जीवस्य पक्षत्वं ब्रह्मणो दृष्टान्तत्वम् । द्वितीयानुमाने ब्रह्मणः पक्षत्वं जीवस्य दृष्टान्तत्वमित्यर्थः ।
(१५)भेदचिन्तारत्नं
नन्वत्रेति ॥ अनुमानद्वयेऽपीत्यर्थः ॥ अन्तःकरणेन
वेति ॥ अज्ञानमात्रस्य जीवभावं प्रत्यप्रयोजकत्वादनुसन्धानं प्रत्यनुपयोगाच्च पक्षान्तरपरिग्रहः । परेणैव परिहारं वाचयति — कस्तर्हीति । वैदिकव्यवहारेष्विति शेषः ॥ मुक्तिर्मिथ्या स्यादिति ॥ अवच्छिन्नस्य मिथ्यात्वेन स्वरूपत एव तस्य बाध्यत्वे कस्य मुक्तिरिति भावः । सन्तोष्टव्यमिति ॥ उक्तानुमानदूषणाय वृथा व्यथा कार्येति भावः । नन्वत्राप्युक्तं दूषणमित्यत आह — तदेवेति ॥ सत्यचैतन्ये मिथ्याभूतो जीवभाव आरोप्यत इति त्वयैवोक्तत्वात् । दुःखानुसन्धातृत्वस्यैव जीवशब्दार्थत्वादिति भावः । शुद्धस्य मोक्षानङ्गीकारे दुःखानुसन्धानान्वयोऽपि तस्यैव । अन्यथा वैय्यधिकरण्यादिति भावः ॥ अकाण्डेति ॥ अविच्छिन्नेत्यर्थः ॥ कथमिति ॥ अन्योन्याश्रयादिति भावः । व्यावहारिकेति ॥ प्रतिभासिकाद्वैलक्षण्यमात्रेण परेण व्यवहाराङ्गीकारादिति भावः । वस्तुतस्तु सन्दिग्धेनापि भेदेन पृथिवी इतरेभ्यो भिद्यत इत्यादाविव पक्षदृष्टान्तभावोपपत्तिः । अस्य ग्राह्यसन्देहत्वेनाप्रतिबन्धकत्वादित्याद्यूह्यम् । प्रत्यधिकरणं ब्रह्मभेदस्यान्यत्वे मानाभावेन जीवगतस्य व्यावहारिकब्रह्मभेदस्य व्यावहारिकघटेऽपि सत्त्वेन घटापेक्षया धर्मिसत्तासमानसत्ताकत्वेन पुनस्तेनान्यथासिद्धिः ।
(१५)भेदचन्द्रिका
॥ नन्वत्रेति ॥ प्रथमानुमाने पक्षवाचकजीवशब्देनेत्यर्थः ॥ पारमार्थिकत्वासिद्धिरिति ॥ तथाच सिद्धसाधनमिति भावः । गूढाभिसन्धिः पृच्छति — कस्तर्हीति । जीवनिष्ठा मुक्तिर्मिथ्या स्यात् । न हि मिथ्याभूतधर्मिनिष्ठो मिथ्यात्वतत्समशीलधर्मातिरिक्तो धर्मो न मिथ्येति युज्यत इत्यर्थः । यद्वा, जीवस्य मुक्तिरिति वाक्यं मिथ्या स्यात् । अप्रामाण्यात् । यदि जीवो मिथ्याभूतस्तदा ब्रह्मज्ञानेन तन्निवृत्तिः स्यात् । तथा च ब्रह्मज्ञानेन जीवो मुच्यत इति वाक्यमप्रमाणं स्यात् । मुक्त्याधारस्य जीवस्याभावादिति भावः ॥ नन्विति ॥ तस्य मुक्त्याधारत्वान्नोक्तदोष इति भावः । आशयमुद्धाटयति — यत्रेति ॥ ननु तस्य दुःखानुसन्धातृत्वाभावादसिद्धिरित्यत आह — तदेवेति ॥ उपाधेर्जडस्यानुसन्धातृत्वायोगेनोपाधिना निमित्तेन चैतन्य एवानुसन्धातृत्वस्य वाच्यत्वादिति भावः ।
(१५)भेदसञ्जीविनी
पक्षनिष्कर्षार्थं शङ्कते — नन्विति ॥ अनवच्छिन्नेति ॥ अविद्ययाऽन्तःकरणोपाधिभिर्वाऽनवच्छिन्नेत्यर्थः । प्रसङ्गादिति विवक्षणीयमित्यनेनान्वेति तवापीति ।
`अदुःखमितरत्सर्वं जीवा एव तु दुःखिनः ।
तेषां दुःखप्रहाणाय श्रुतिरेषा प्रवर्तत'
इत्यादौ दुःखित्वेन मुक्तत्वरूपदुःखप्रहाणवत्त्वेन च प्रतिपाद्यते । जीवशब्दार्थः स क इत्यर्थः ॥ अवच्छिन्नमेवेतीति । अविद्ययाऽन्तःकरणेन चेत्यर्थः । जीवशब्दोक्तानामेव तेषामिति परामर्शेन मुक्तिर्दुःखप्रहाणरूपोच्यते । सा मिथ्या स्यात् प्रातिभासिकी स्यात् । इदमुक्तं भवति । अविद्याद्युपाध्यपगम एव जीवस्य मुक्तिरूपदुःखनाशहेतुस्तदपगमे तु विशेषणनाशेन तद्विशिष्टस्वरूपात्मकजीव एव नष्ट इति जीवनिष्ठमुक्तेरभावादुक्तश्रुतिर्घटस्य चैतन्यमिति वाक्यवदप्रमाणमेव स्यादिति ॥ नन्विति ॥ जीवभाव एवेति ॥ जीवत्वं चैतन्ये आरोपितं तत्तादात्म्यापन्नं विशिष्टं वेत्यर्थः । ॥ चैतन्यं तु सत्यमिति ॥ तथा च यो बालस्तस्यैदानीं स्थविरत्वमित्यादिवाक्येन यथा बाल्योपलक्षितपिण्ड एव स्थविरत्वं प्रतीयते न तद्विशिष्टे बाधात् । तथा प्रकृते तेषामिति जीवत्वोपलक्षितान्परामृश्य मुक्तिरुच्यते । तत्र मुक्तिसम्बन्धस्याबाधान्न तद्वाक्याप्रामाण्यमिति भावः । परं प्रति समाधिं वक्तुं तेन विवादं कर्तुमशक्यत्वस्थापनाय गूढाभिसन्धिना यत्पृष्टं तदिदानीमुद्धाटयति — यत्रेत्यादिना । जीवो जीवत्वविशिष्टो मिथ्याभूत आरोपित इति व्युत्क्रमेणोद्देश्यविधेयभावः ॥ तच्चैतन्यमिति ॥ तथा च जीवत्वोपलक्षितञ्चैतन्यमेव पक्षः । जीवत्वविशिष्टस्य तादात्म्येन तत्राध्यासेन तद्धर्मभूतजीवत्ववत्त्वस्यापि तत्राध्यस्ततया तद्धर्मत्वादिति भावः ।
ननु जीववत्त्वस्य स्वोपहित एव सत्त्वात्तद्वत्त्वेनोपहितस्यैव पक्षत्वप्राप्त्या तत्रोक्तसाध्यत्वाभ्युपगमात्सिद्धसाधनतेति चेन्न । शुद्धे जीववत्त्वसंसर्गस्याभावे पूर्वोक्तजीवमुक्तिवचनाप्रामाण्यापत्त्या तस्मिञ्जीववत्त्वसम्बन्धस्यावश्यकत्वे स्वोपहितप्रतियोगिकेन स्वोपहितावृत्तिना तादात्म्येन जीववत्त्वस्य पक्षतावच्छेदकत्वे उपहितव्यावृत्तेः शुद्धसङ्ग्रहाच्च । उपहिते उपहितप्रतियोगिकत्वविशिष्टतादात्म्याभावाच्छुद्धे तत्सत्त्वाच्च । तदुपहितत्वं स्वविषयताव्यापकतत्प्रकारकत्वरूपमेवोभयमतानुरोधान्निवेश्यम् । अतः सिद्धान्ते विशिष्टातिरिक्तोपहिताप्रसिद्धावपि न पक्षासिद्धिरिति ज्ञेयम् । तर्हि चैतन्ये दुःखानुसन्धातृत्वमसिद्धमित्यत आह — तदेवेति ॥ जडस्यानुसन्धानरूपज्ञानायोगात् । अन्यथा `ईक्षतेर्नाशब्द’मित्यत्रेक्षत्याश्रयत्वेन प्रधानव्यावृत्त्ययोगात् । अनुसन्धातृत्वमपि चेतन एव वक्तव्यममिति नासिद्धिरित्याशयः । असिद्ध्यभिप्रायेण शङ्कते — दुःखेति ॥ मिथ्यैवेति ॥ स्वात्यन्ताभाववत्येव प्रतीयमानमित्यर्थः । तथा चासिद्धिरिति भावः । किं वस्तुतो मिथ्येति कृत्वा स्वरूपासिद्धिरित्यभिप्रायः? उत सत्यत्वं हेतुविशेषणमवश्यं वाच्यम्, अन्यथाऽऽरोपितदुःखानुसन्धातृत्वमादाय ब्रह्मण्येव व्यभिचारापत्तेरतः साधनाप्रसिद्धिरिति ? ॥ नाद्यः । त्वन्मते सवानुमानस्थलेऽप्यसिद्धेर्बाधस्य च दुर्वारतयाऽनुमानप्रामाण्यवार्तोच्छेदापत्तेरतस्तद्वारणाय प्रतियोगिवैय्यधिकरण्यादिकं निवेश्यासिद्धिबाधादिलक्षणम् । परिष्कार्यमिति कथमसिद्ध्युद्भावनमित्याशयेनाह — किमनेनेति ॥ अनवसरेऽनुपयुक्तवचनेनेत्यर्थः । अनुमानदोषकथनावसरे तदनुपयुक्तमिथ्यात्वकथनमसङ्गतमिति भावः । द्वितीयं निराचष्टे ॥ न
हीति । अनुसन्धातृत्वं चैतन्ये वर्तत इति तव मम च सम्मतम् । तत्र मिथ्यात्वसत्यत्वविषये पुनरावयोर्विवादः । तत्र विवादविषये सत्यत्वरूपं वा मिथ्यात्वरूपं वा धर्ममविशेषणीकृत्यानुसन्धातृत्वमात्रस्य हेतुत्वेनोपादानान्न साधना प्रसिद्धिरन्यतरमतेनोद्भावयितुं शक्येति भावः । त्वन्मते आरोपितधूममादाय धूमत्वावच्छिन्नस्य वह्निव्यभिचारवारणाय प्रातिभासिकव्यावृत्तस्य व्यावहारिकधूममात्रवृत्तेर्धूमत्वस्य हेतुतावच्छेकत्वम् । मन्मते च तस्यासत्त्वेन तत्र धूमत्वस्यैवाभावाद्धूमत्वस्य हेतुतावच्छेदकत्वम् । ननु धूमे सत्यत्वं विशेषणं देयम् । तद्वत्प्रकृतेऽपि ब्रह्मण्यारोपितानुसन्धातृत्वस्य मन्मतेऽलीकत्वेन त्वन्मते प्रातिभासिकत्वेन तमादायावयोर्मते व्यभिचारप्रसक्त्यभावेन कुतो हेतौ सत्यत्वविशेषणं देयमिति भावः ॥ पक्षदृष्टान्तभावेति ॥ केवलपारमार्थिकदृष्ट्या तव प्रवृत्तौ मम तव चैक्येन वादिप्रतिवादिभावस्यैवानुपपत्तिः स्यादिति भावः ।
(१५)काशीतिम्मण्णाचार्य
आद्यानुमाने पक्षं परिष्कर्तुमाशङ्कते — नन्विति ॥ अनवच्छिन्नेति ॥ यद्यपि यावद्विशेषणानवच्छिन्नस्य बोधयितुमशक्यत्वान्न पक्षत्वसम्भवः । सिद्धान्ते पक्षाप्रसिद्धिश्च । तथाप्यनवच्छिन्नपदस्यान्तःकरणाद्यनवच्छिन्नपरतया तदनवच्छिन्नत्वेन पक्षत्वे तात्पर्यान्न दोषः । बहुजीवपक्षेऽन्तःकरणेनेति, एकजीवपक्षेऽज्ञानेनेति । अवच्छिन्नं विशिष्टम् । तस्य च मिथ्यात्वमपारमार्थिकत्वं, व्यावहारिकत्वमिति यावत् । तथाच तत्सत्तासमानसत्ताकभेदस्य सिद्धत्वात् सिद्धसाधनं, पारमार्थिकभेदासिद्धेरर्थान्तरं चेत्याशयः ।
अत्र विशिष्टघटकविशेष्यांशस्यैव पक्षत्वमङ्गीकृत्य समाधास्यन् उक्तसिद्धसाधनाद्यभावस्फुटीकरणाय पृच्छति – कस्तर्हि तवेति ॥ अवच्छिन्नमिति ॥ सामान्ये नपुंसकम् । अवच्छिन्नं चैतन्यमिति वा ॥ मिथ्या स्यादिति ॥ शशशृङ्गादिवदसती स्यादित्यर्थः । जीवस्य मिथ्यात्वेनाज्ञानवत् प्रविलीनस्य ब्रह्मभावायोगादिति भावः । तथाच निष्प्रयोजनत्वेन वेदान्तानामनारम्भणीयत्वप्रसङ्ग इति ध्येयम् । जीव शब्दार्थविशिष्टघटकविशेष्यांशस्य ब्रह्मत्वापत्तिरेव जीवमुक्तिशब्दार्थः । तत्र च नोक्तदोष इत्याशङ्कते — नन्विति ॥ जीवभावोपलक्षितचैतन्यस्य पक्षत्वान्नार्थान्तरादीत्याशयेन समाधत्ते – यत्रेति ॥ सन्तोष्टव्यमित्यनेनाभ्युपेत्यैवेदमुक्तम् । वस्तुतो विशिष्टस्यापि सत्यत्वमेवेति सूचितम् ॥ तदेवेति ॥ दुःखानुसन्धातृत्वस्य जीवभावनियतत्वादिति भावः । नन्वपारमार्थिकदुःखानुसन्धातृत्वस्य ब्रह्मण्यनैकान्त्यात् पारमार्थिकत्वेन हेतुर्विशेषणीयः । तथाच परमते हेत्वसिद्धिरित्याशङ्कते — दुःखानुसन्धातृत्वमिति ॥ स्यादेवं यदि पारमार्थिकत्वेन हेतुर्विशेषितः स्यान्न चैवं, प्रातिभासिकानैकान्त्यस्यादोषत्वात् । अन्यथाऽनुमानमात्रोच्छेदापत्तेरिति भावेनाह — किमनेनेति ॥ अनवसरताण्डवायितेनानेनानुक्तोपालम्भेन किमस्माकमनिष्टम् ? न किमपीत्यर्थः ।
अथायं पूर्वपक्षाभिप्रायः । दुःखानुसन्धातृत्वस्य मिथ्यात्वान्न पक्षधर्मत्वम् । सत्यानृतयोः सम्बन्धानुपपत्तेः । यद्यप्यध्यस्ताधिष्ठानभावरूपः सम्बन्धोऽस्ति । तथापि नासौ हेतुत्वनियामकः । सिद्धान्ते दुःखानुसन्धातृत्वस्यानारोपितत्वेन तदनुपपत्तेः । किन्त्वाश्रयाश्रयिभावः । तथाच परेषामसिद्धिरिति । अत्र ब्रूमः । अनुसन्धातृत्वसम्बन्धेन दुःखवत्त्वस्यैवात्र हेतुत्वम् । अनुसन्धातृत्वं च परमते स्वाधिष्ठान एव, सिद्धान्ते च स्वाधार एव दुःखादेर्वृत्तिनियामकमिति न कोऽपि दोषः ।
॥ कथं पक्षदृष्टान्तभाव इति ॥ यद्यपि प्रकृते वादिविप्रतिपत्त्या भेदस्य सन्दिग्धत्वान्न सन्दिग्धसाध्यकत्वादिलक्षणपक्षत्वानुपपत्तिरस्ति । तथापि पक्षत्वसहितदृष्टान्तत्वानुपपत्तेर्विवक्षितत्वान्न दोषः । यद्वा , भेदसिद्धेः पूर्वमभेदनिश्चये यथा जीवस्य पक्षत्वमनुपपन्नं तथा तत्सन्देहे ब्रह्मणो दृष्टान्तत्वमनुपपन्नमित्यर्थे तात्पर्यम् । अत एव भेदसिद्धेः पूर्वमित्यपि सङ्गच्छते । अन्यथा भेदसिद्ध्युत्तरमपि पक्षत्वानुपपत्तिसत्त्वेन तदसङ्गतेः । अत्र जीवे ब्रह्मभेदसन्देहेऽपि ब्रह्मणि तदभेदानिश्चयान्नोक्तदोषः । न चाभेदे तदनुपपत्तिः, व्यावहारिकभेदेनैव तदुपपत्तेरित्याशयेन समाधत्ते ॥ त्वयेति ॥ यद्यपि केवलचैतन्यभेदः परेण नाभ्युपगतः । तथापि विशिष्टभेदस्य विशेष्यीभूतचैतन्यप्रतियोगिकत्वमस्तीति स एव पक्षदृष्टान्तभावोपपादक इति भावः । यद्वा , सार्वज्ञादिविशिष्टचैतन्यमेव दृष्टान्तः । तत्प्रतियोगिकभेद एव साध्य इति न कश्चिद्दोषः । अथ तथापि जीवब्रह्मणोरभेदवादिनां ब्रह्मचैतन्येऽपि दुःखानुसन्धातृत्वसत्वाद्व्यभिचारः । अभेदस्य विप्रतिपत्त्या सन्दिग्धत्वेऽपि सन्दिग्धानैकान्त्यं दुर्वारमिति चेन्न । हेतुमति साध्याभावसन्देहाधीनव्यभिचारसन्देहस्यादोषत्वात् । प्रकृते च तस्य हेतुमति जीवे ब्रह्माभेदसन्देहमूलत्वाद् अन्यथा पक्षीयव्यभिचारसन्देहस्य सार्वत्रिकत्वेनानुमानोच्छेदप्रसङ्गादिति ।
(१५)शर्कराश्रीनिवासाचार्य
जीवपक्षकानुमाने धर्मिसमसत्ताकेति विशेषणेऽपि न सिद्धसाधनत्वपरिहार इति शङ्कते — नन्वित्वादिना पारमार्थिकत्वासिद्धिरित्यन्तेन ॥ अन्तःकरणेनेति बहुजीववादिमतेन अज्ञानेनेत्येकजीववादिमतसाधारण्येनेति ध्येयम् । अत्र प्रतिबन्द्या समाधत्ते ॥ कस्तर्हीत्यादिना सन्तोष्टव्यमित्यन्तेन ॥ तव जीवस्य ब्रह्मभावो मुक्तिरिति वदतः ॥ तर्हीति ॥ यद्यवच्छिन्नं जीवशब्दार्थस्तर्हि तस्य मिथ्यात्वेन मिथ्याभूतस्य ब्रह्मज्ञाननिवर्त्यत्वेन ब्रह्मात्मैक्यापरोक्षज्ञानसमये जीवस्यैवाभावाज्जीवस्य ब्रह्मभावो मुक्तिरित्येतन्मृषा स्यादित्यर्थः । ननु जीवशब्दार्थभूतमविद्यादिविशिष्टं नसर्वं मिथ्या किन्तु विशेषणभाग एव । विशेष्यभागस्य तु सत्यत्वेन निवृत्त्यभावात्तस्य ब्रह्मभावरूपा मुक्तिर्युक्तैवेति शङ्कते — नन्विति ॥ जीवभावः जीवत्वम् ॥ यत्र चैतन्य इति ॥ तथाच जीवस्यपारमार्थिकत्वेन तत्समसत्ताकत्वेन सिध्यन्भेदःपारमार्थिक एव सिध्यतीति न सिद्धसाधनमिति भावः । मिथ्याभूतो जीवभाव इति परमतानुवादः । स्वमते जीवभावस्य सत्यत्वादिति ध्येयम् । ननु यदि सिद्धसाधनतापरिहाराय सत्यचैतन्यमेव जीवशब्दार्थोऽङ्गीक्रियते । तर्हि तस्य दुःखानुसन्धातृत्वाभावात्स्वरूपासिद्धिः स्यादित्यत आह — तदेवेति ॥ अहं दुःखीत्यत्र चैतन्यस्यैवास्मच्छब्दार्थत्वादिति भावः ॥ अकाण्डताण्डवेनेति ॥ अत्र ताण्डवाङ्गादिकं काण्डशब्देन विवक्षितम् । तथाच काण्डाभावेऽपि ताण्डवायितेन दुखानुसन्धातृत्वमिथ्यात्वेन किमित्यर्थः । यथा नर्तनाङ्गमृदङ्गादिसद्भावेन नर्तनं सङ्गतं तदभावे त्वसङ्गतं तद्वदत्रापि दुःखानुसन्धातृत्वस्यास्माभिः सत्यत्वे वर्णिते तन्मिथ्यात्वकथनं सङ्गतं, तदभावे तत्कथनमसङ्गतमेवेति भावः । एतदेवाह — नहीति ॥ हेतौ दुःखानुसन्धातृत्वे । येन तन्मिथ्यात्ववर्णनं सङ्गतं स्यादिति भावः । वस्तुगत्या भवदभिमतं सत्यत्वं निराकृतमिति चेन्न । तस्य प्रसङ्गान्तरत्वेन प्रकृतासङ्गत्यपरिहारादिति हृदयम् । नन्वाद्यानुमाने जीवस्य पक्षत्वं ब्रह्मणो दृष्टान्तत्वं द्वितीये ब्रह्मणः पक्षत्वं जीवस्य दृष्टान्तत्वं न सम्भवति । पक्षदृष्टान्तभावस्य भेदसापेक्षत्वात् । जीव्रब्रह्मणोर्भेदस्याद्याप्यसिद्धत्वादिति शङ्कते — नन्विति ॥ नचानेनैवानुमानेन तयोर्भेदसिद्ध्या पक्षदृष्टान्तभावोपपत्तिरिति वाच्यम् । भेदसिद्धौ पक्षदृष्टान्तभावोपपत्त्याऽनुमानप्रवृत्तिरनुमानप्रवृतौ च तेन भेदसिद्धिरित्यन्योन्याश्रयापातादिति भावः । पक्षदृष्टान्तभावे हि भेदमात्रमपेक्षितं ननु तस्य पारमार्थिकत्वमपि । तथात्वे त्वन्मते पर्वतमहानसयोः पारमार्थिकभेदाभावेन पक्षदृष्टान्तभावानुपपत्तिप्रसङ्गात् । भेदमात्रं तु जीवब्रह्मणोस्त्वयाप्यङ्गीकृतमिति तेन पक्षदृष्टान्तभावोपपत्तिरिति परिहरति त्वयेति ॥