अनुमानानि च
(१४)भेदोज्जीवनम्
(१४) अनुमानानि च । जीवः ब्रह्मप्रतियोगिकधर्मिसत्तासमानसत्ताकभेदाधिकरणं ब्रह्माननुसंहितदुःखानुसन्धातृत्वाद् व्यतिरेकेण ब्रह्मवत् । ब्रह्म वा जीवप्रतियोगिकधर्मिसत्तासमानसत्ताकभेदाधिकरणं जीवानुसंहितदुःखाननुसन्धातृत्वाद् व्यतिरेकेण जीववत् । अत्र जीवब्रह्मप्रतियोगिकभेदयोर् घटसत्तया व्यावहारिक्या समानसत्ताकयो(र्व्यावहारिकयो)र्भेदयोर्घटे प्रसिद्धत्वान्नाप्रसिद्धविशेषणत्वम् । जीवब्रह्मणोश्च पारमार्थिकत्वात्तत्सत्तासमानसत्ताकत्वेन सिद्ध्यन् भेदः पारमार्थिक एव सिद्ध्यतीति न सिद्धसाधनम् । दुःखादीनामन्तःकरणाश्रितत्वेऽपि जीवस्यानुसन्धातृत्वात् । ब्रह्मणश्च दुःखानुसन्धातृत्वे तदभावलक्षणमुक्तेरपुरुषार्थत्वप्रसङ्गान् निरञ्जन(त्व)श्रुतिविरोधाच्च तदभावावश्यम्भावान्नासिद्धिः ॥
(१४)भावप्रदीपः
एवं जीवेशयोर्जीवानां च मिथो भेदे प्रत्यक्षं प्रमाणमभिधायानुमानान्यप्याह — अनुमानानि चेति ॥ जीवेश्वरयोर्जीवानां जडानां च भेदे प्रमाणत्वेनोपन्यस्यत इति शेषः ॥ धर्मिसत्तासमानसत्ताकेति ॥ धर्मी स्वयं जीवस्तत्सत्तासमसत्ताकेत्यर्थः ॥ ब्रह्माननुसंहितेति ॥ अत्रानुसन्धानं नाम न साक्षात्कारमात्रं येन सर्वज्ञत्वाद्ब्रह्मणः कथं दुःखस्य तदननुसंहितत्वमिति शङ्कावकाशः । किन्त्वहं सुखी दुःखीत्यनुभव एव । न हीश्वरस्यैतादृशो दुःखानुभवोऽस्ति । किन्नाम घटगतरूपादिकमिव जीवगतं सुखादिकं साक्षात्करोति । अतो ब्रह्माननुसंहितेति युक्तम् । केचित्तु दुःखादौ स्वात्मीयत्वाभिमानेनात्मनि तत्कृतनीचोच्चत्वलक्षणा विक्रियैवानुभव इति वदन्ति । तच्चिन्त्यम् । विक्रियाया अनुभवानन्तरिकत्वात् । न हि तज्जन्यस्य तत्त्वं सम्भवति । नाप्यहं सुखीत्यादौ सुखादिवन्नीचोच्चताऽवभासते । अनुभववद्विक्रियायाः सकर्मकक्रियात्वाननुभवाच्च । न हि दुःखं सुखं वाऽनुभवामीत्यनुव्यवसायविषयानुभवस्येव नीचोऽस्मीत्यादिज्ञानविषयनीचत्वादिविक्रियायाः सकर्मकता चकास्ति । `नीचोच्चतैव दुःखादेर्भोग इत्यभिधीयत’ इति वचनं तु `त्रपुसं प्रत्यक्षो ज्वर’ इतिवद्गौणम् । ज्ञानिनां दुःखाद्यनुभवेऽपि कदाचिन्नीचोऽस्मीत्यादिज्ञानानुदयाच्च ।
यथोक्तम् —
`ब्रह्मणोऽप्यल्पदुःखं स्यात्तदप्यनभिमानतः । नास्त्यात्मसम्बद्धतये’ति ।
`निद्रारतिर्मन्युरहं मदश्च देहेन जातस्य हि मे न सन्ती’ति भागवते जडभरतवचनाच्च । देहेन जातस्य देहाभिमानिन इत्यर्थः । नन्वहं सुखादिमानित्यनुसन्धानमीश्वरस्यापि सम्भवति । सुखादिमानित्यस्य सुखादिस्वामित्वमेवार्थः । न तु तत्समवायः । तेषामन्तःकरणधर्मत्वेन जीवेऽपि तदभावात् । अस्ति च तत्स्वामित्वं भगवतः । प्रत्युत जीवापेक्षया मुख्यं च । अतः कथं ब्रह्माननुसंहितेति विशेषणमिति चेन्न । अहं सुखीत्याद्यनुसन्धानं नाम मभेदं सुखमनुकूलं मभेदं दुःखं प्रतिकूलमित्यनुभवः । ` अन्यानन्दादिसादृश्यमानुकूल्यादिना पर’मित्युक्तेः । न चैतादृशं दुःखानुसन्धातृत्वमीश्वरस्यास्ति । जीवदुःखस्येशं प्रति प्रतिकूलत्वाभावात् । तस्माद्युक्तं ब्रह्माननुसंहितेति दुःखविशेषणम् । केचित्तु परतन्त्रदुःखानुसन्धानस्य वाऽसर्वविषयदुःखानुसन्धानस्य वाऽमुख्यस्वामितासम्बन्धेन दुःखकृतनीचतावत्त्वस्य वा हेतुत्वं विवक्षितमित्याहुः । तदपि चिन्त्यम् । अनुसन्धानशब्दस्योक्तरीत्याऽनुभवविशेषार्थकत्वेन पारतन्त्र्यादिविशेषणकृत्यादर्शनात् । ननु सपक्षभूते जडे लक्ष्म्यां चास्य हेतोरभावादसाधारण्यमिति चेन्न । अनुकूलतर्कसद्भावे तस्य प्रतिपक्षानुन्नायकत्वेनादोषत्वात् । अनुकूलतर्काणां चात्र वक्ष्यमाणत्वात् । ननु चात्र दुःखानुसन्धातृत्वमात्रस्य हेतुत्वोपपत्तौ ब्रह्माननुसंहितेति विशेषणं व्यर्थमिति चेन्न । हेतोरप्रयोजकतापरिहारार्थमनुकूलतर्कस्फोरणार्थत्वात् । यथा `ईक्षतेर्नाशब्द’मित्यत्रास्त्वीक्षणीयत्वं माऽस्तु वाच्यत्वमित्यप्रयोजकताशङ्कायां प्रत्यक्षाद्यवेद्यत्वे सतीति विशेषणं हेतूच्छित्तिरूपानुकूलतर्कव्युत्पादनार्थम् । तद्वदत्रापि यदि दुःखानुसन्धातृत्वेऽपि जीवस्य ब्रह्मभेदो न स्यात् तर्हि जीववत्तदभिन्नस्य ब्रह्मणोऽपि दुःखानुसन्धानं स्यादिति । जीवमात्रस्य पक्षीकृतत्वादन्वयदृष्टान्ताभावादाह — व्यतिरेकेणेति ॥ एवं जीवधर्मिकब्रह्मप्रतियोगिकभेदेऽनुमानमभिधाय ब्रह्मधर्मिकजीवप्रतियोगिकभेदेऽनुमानमाह — ब्रह्म वेति ॥ एवमनुमानद्वयेऽपि किं पारमार्थिकभेदः साध्यते । उत व्यावहारिकः । नाद्यः । अप्रसिद्धविशेषणत्वात् । न द्वितीयः । सिद्धसाधनत्वादिति शङ्कपरिहाराय साध्यद्वये धर्मिसत्तासमानसत्ताकेति विशेषणमुपात्तम् । तेन कथं दोषद्वयपरिहार इत्यतः क्रमेण तदुभयपरिहारं दर्शयति — अत्रेति ॥ जीवब्रह्मणोश्चेति ॥ धर्मिभूतयोरिति शेषः । ननु दुःखादेरन्तःकरणधर्मत्वात्कथं जीवस्य तदनुसन्धातृत्वम् । ब्रह्मणो वा कुतस्तदननुसन्धातृत्वम् । जीववद्दुःखानुसन्धातृत्वाङ्गीकारे बाधकाभावात् । अतोऽनुमानद्वयेऽपि हेत्वोरसिद्धिरित्यत आह — दुःखादीनामिति ॥ आदिपदेन सुखादीनां क्षुत्तृडादिदेहेन्द्रियादिधर्माणां च ग्रहणम् । अन्तःकरणादीत्यत्रादिपदेन देहेन्द्रियादिग्रहणम् । दुःखस्यैकदेशस्यैव प्रकृतत्वेऽपि सुखादीनां दृष्टान्तत्वेन ग्रहणम् ॥ जीवस्यानुसन्धातृत्वादिति ॥ नाद्यानुमानेऽसिद्धिरित्युत्तरेणान्वयः । न हि जीवगतमेव जीवेनानुसन्धेयं नान्यगतमिति नियमोऽस्ति । मभेदं प्रतिकूलमित्याद्यनुभवमात्रस्यानुसन्धानशब्दार्थत्वात् । तस्य चान्तःकरणगतदुःखादावपि सम्भवादिति भावः ॥ तद्भावलक्षणेति ॥ दुःखाद्यनुसन्धातृब्रह्मभावलक्षणेत्यर्थः । मायिमते ब्रह्मभावापत्तेरेव मोक्षत्वेनाङ्गीकारादिति भावः ॥ तदभावेति ॥ दुःखाद्यनुसन्धातृत्वाभावेत्यर्थः ॥ नासिद्धिरिति ॥ द्वितीयानुमानेऽपीत्यर्थः ।
(१४)भेदचिन्तारत्नम्
॥ जीवो ब्रह्मप्रतियोगिकेति ॥ जीवत्वोपलक्षिता चिद् ब्रह्मत्वोपलक्षितचित्प्रतियोगिकेत्यर्थः । अप्रस्तुतजडभेदेऽर्थान्तरतावारणाय ब्रह्मप्रतियोगिकेति । सिद्धसाधनातावारणाय धर्मीत्यादि । धर्मी जीवचित् तत्सत्ता पारमार्थिकी तत्समानेत्यर्थः । समानसत्त्वं च सत्तात्वसाक्षाद्व्याप्यधर्मेणेति ज्ञेयम् । तेन व्यावहारिक्याः सत्तायाः पदार्थत्वेन धर्मेण तत्समानत्वात्सिद्धसाधनतेति निरस्तम् । पारमार्थिकेत्यप्रसिद्धिरित्येवमुक्तिः । तथाऽपि पक्षधर्मताबलात्पारमार्थ्यसिद्धिः । उपलक्षण
मेतत् । धर्मिसत्तासमानसत्ताकेति पदस्थाने धर्मिज्ञानाकार्येति वा । धर्मिज्ञानाबाध्येति यावद्धर्मिकालमनुवर्तमानेति वाऽनौपाधिकेति वा पदप्रक्षेपेऽप्युक्तभेदसिद्धिरिति ज्ञेयम् । ब्रह्माननुसन्धातृत्वादित्येव हेतुः । दुःखपदं पक्षधर्मतास्फुरणार्थम् ।दुःखाननुसन्धातृत्वादित्येव हेतुः । शिष्टपदं प्रयोजकतास्फुरणार्थम् । अनुमानद्वयाभिप्रायेणैवमुक्तिः । यद्वाऽत्रानुसन्धानं नाम साक्षात्कारमात्रं विवक्षितम् । एवञ्च दुःखानुसन्धातृत्वं सर्वज्ञे ब्रह्मण्यस्मद्रीत्या व्यभिचरितम् । ब्रह्माननुसंहितं यथा तथा दुःखानुसन्धातृत्वादिति क्रियाविशेषणम् । ब्रह्मज्ञानविजातीयनीचताहेतुभूतज्ञानवत्त्वादित्यर्थः । एवमपि दुःखपदं व्यर्थमिति चेन्न । हेतुवाक्यपर्यवसितस्य दुःखभोक्तृत्वस्य विवक्षितत्वात् । एवमुत्तरप्रयोगेऽपि । यद्यपि द्वितीयप्रयोगे घटादावन्वयव्याप्तिरेव सुग्रहा । तथाऽपि कदाचित्पारमार्थिकेति विशेषणदानेऽप्यप्रसिद्धविशेषणताया न व्याप्तिविघटकत्वम् । व्यतिरेकव्याप्तिग्रहसम्भवादिति सूचयितुं व्यतिरेकप्रदर्शनम् । धर्मीत्यादिविशेषणाभिप्रायमाह — अत्रेत्यादिना । ननु तर्हि प्रथमप्रयोगे ब्रह्मप्रतियोगिकधर्मिसत्तासमानसत्ताकभेदवति घटे हेतोरभावादसाधारण्यमिति चेन्न । वादिविप्रतिपत्तेः । असाधारण्यं न हेत्वाभास इत्येके व्याप्यत्वासिद्धावन्तर्भवतीति केचित् । अन्ये त्वविद्यमानसपक्षस्यैव तथात्वेन विद्यमानसपक्षस्तु व्यभिचारी । अनुचितस्थलवृत्तित्ववदुचितस्थलावृत्तेरपि व्यभिचारपदार्थत्वात् । एके तु सत्यप्यन्यत्र साध्यतत्सम्बन्धादर्शनेन व्याप्तिसन्देहजनकत्वात्पृथग्घेत्वाभास इत्याहुः । वस्तुतस्तु नायं हेत्वाभासो व्यतिरेकमुखेन व्याप्तिसम्भवात् । नापि संशयजनकत्वमनुकूलतर्केण तन्निश्चयोपपत्तेः । अन्यथा धूमादेः कतिपयसपक्षवर्तिनोऽपि व्याप्तिसन्देहतौल्यादिति । अस्तु वाऽयं दोषः । दुःखानुसन्धातृत्वं नाम दोषाधिकरणत्वं विवक्षितम् । तच्च घटेऽस्तीति न कश्चिद्दोषः । ननु जीवब्रह्मणोरभेदवादे जीवगतानुसन्धानस्यैव ब्रह्मगतत्वेनासिद्धिरिति चेन्न । एवं सति कुत्रापि तुहिनदहनादौ विरुद्धधर्मेण व्यावहारिकभेदसाधनमपि न स्यात् । तत्रापि दहनगतोष्णत्वस्य तुहिनगतत्वादिति । किञ्च प्रकृतहेतुर्न निश्चितासिद्धः किन्तु साध्यभूतसन्देहाहितसन्देहग्रस्तः । एवञ्च साध्यसन्देहानाहितस्वारसिक एव । तथाच साध्यसन्देहाहितसंशये हेतुरसंशयादिविषयत्वं हेतोरसिद्धिर्नाम । अन्यथा वह्निसंशयाहितो धूमसंशयोऽपि तथा स्यात् । तत्रापि कारणीभूतवह्निसन्देहैतत्कार्यधूमसन्देहस्य न्याय्यत्वात् । ननु सन्दिग्धोऽपि वह्निर्न प्रत्यक्षप्रमितधूमसन्देहस्येष्टे । किन्तु हेतुनिश्चयबलात्तत्सन्देह एव लीयत इति केचित्तर्ह्यत्रापि निरनिष्टादिश्रुतिबलादभेदसन्देह एव लीयत इति । ननु द्वितीयप्रयोगेऽननुसन्धानात्यन्ताभावरूपहेतोर्जीवे व्यभिचारः । अनुसन्धानस्य स्वात्यन्ताभावसमानाधिकरणत्वादिति चेन्न । प्रतियोग्यसमानाधिकरणात्यन्ताभावस्य विवक्षितत्वात् ॥ नासिद्धिरिति ॥ जीवस्यानुसन्धातृत्वादित्युक्त्याऽऽद्यनुमाने हेतुस्वरूपस्य हि द्वितीये तद्विशेषणस्य ब्रह्मणश्च तदभावावश्यम्भावादित्युक्त्याद्यविशेषणस्य द्वितीये तत्स्वरूपस्य नासिद्धिरित्यर्थः ।
(१४)भेदचन्द्रिका
॥ अनुमानानि चेति ॥ मुख्ये जीवेश्वरभेदे प्रासङ्गिके जीवानां परस्परभेदे जडानां च परस्परभेदे च प्रमाणानीत्यर्थः ॥ जीव इति ॥ पक्षविचारस्तु मूल एवाग्रे भविष्यति । ब्रह्माननुसंहितेति हेतावनुकूलतर्कस्फोरणार्थम् । न तु हेतुशरीरान्तर्गतं वैय्यर्थ्यात् । न तु ब्रह्मणि व्यभिचारः । तस्य सर्वज्ञत्वेन सर्वदुःखानुसन्धातृत्वात् । न च तस्य दुःखानुसन्धातृत्वे तद्भावलक्षणमुक्तेरपुरषार्थत्वापत्तिः । भवन्मते तद्भावस्यामुक्तित्वेन भवन्मतेऽनैकान्त्यात् । न च `निरनिष्टो निरवद्य’ इति श्रुतिविरोधादस्माभिर्दुःखानुसन्धातृत्वं ब्रह्मणो नाङ्गीक्रियत इति वाच्यम् । `यः सर्वज्ञ’ इत्यादिश्रुतिविरोधादपसिद्धान्ताच्च । न च भगवतः सर्वदुःखानुसन्धातृत्वेऽपि न मम दुःखमिति स्वामित्वसम्बन्धेन दुःखानुसन्धातृत्वं विवक्षितं तथाभूतं च जीव इति न व्यभिचारो न वाऽसिद्धिरिति वाच्यम् । भवन्मते परमेश्वरस्यैव मुख्यं सर्वस्वामित्वं तद्दत्तममुख्यं `जीवानामिति ज्योतिराद्यधिष्ठानं तु तदामननादि’त्यधिकरणे निरूपितत्वात् । न च —
`नरकेऽपि वसन्नीशो नासौ दुःखभुगुच्यते ।
नीचोच्चता हि दुःखादेर्भोग इत्यभिधीयते ।
नासौ नीचोच्चतां याति पश्यत्येव सदा प्रभुः'
इति वचनाद्दुःखादिकृतनीचोच्चतारूपदुःखादिभोक्तृत्वं दुःखानुसन्धातृत्वं जीवमात्रनिष्ठमिति न व्यभिचार इति वाच्यम् । नीचोच्चताया अपीन्द्रियदेहादिनिष्ठायाः साक्षात्सम्बन्धेन जीवेऽभावात् । स्वामित्वसम्बन्धेन भगवत्यपि सत्त्वात् । किञ्चेन्द्रगतशचीसंयोगादिजन्यसुखाननुसन्धातु रप्यर्जुनस्येन्द्राभेदवज्जीवगतदुःखानुसन्धानवतोऽपि ब्रह्मणो जीवाभेदः किन्न स्यादित्यप्रयोजकता । किञ्च जडं लक्ष्मीश्च पक्षः सपक्षो वा । नाद्यः । तयोर्दुःखानुसन्धातृत्वाभावेन भागासिद्ध्यापत्तेः । न द्वितीयः । असाधारण्यापत्तेः । न चासाधारण्यस्यान्वयव्याप्तिग्रहे प्रतिबन्धकत्वेन दोषत्वान्न व्यतिरेकिणि दोषतेति वाच्यम् । यत्र साध्यं तत्र हेत्वभावे एतस्याः साध्याभावीयव्यतिरेकव्याप्तित्वेन सत्प्रतिपक्षोत्थापकत्वेन तत्रापि दोषत्वादिति चेत् । अत्रोच्यते । परतन्त्रदुःखानुसन्धानरूपत्वस्यासर्वविषयदुःखानुसन्धानरूपत्वस्य वाऽत्र हेतुत्वम् । न च परतन्त्रत्वमसर्वविषयत्वं वा हेतुरस्तु विशेष्येण कृतमिति वाच्यम् । परतन्त्रासर्वविषयपदाभ्यां दुःखानुसन्धाननिष्ठवैजात्योपलक्षणात् । यद्वाऽमुख्यस्वामित्वसम्बन्धेन दुःखकृतनीचतावत्त्वं हेतुः । तदपि जीव एवेति न व्यभिचारः । प्रपञ्चितं चेदमस्माभिर्मध्वतन्त्रमुखालोके प्रथमाधिकरणे । न चाप्रयोजकता । अर्जुनस्य त्वन्मतेऽपीन्द्रावतारत्वेनेन्द्रजीवापादकोपाध्याक्रान्ततावश्यकत्वेन व्यावहारिकैकजीवतायास्त्वया वक्तव्यत्वेन शचीभोगादिजन्यसुखाननुसन्धानस्य मानुषान्नोपभोगभूतसम्बन्धादिप्रयुक्ततावश्यकी । न चात्र ब्रह्मणो दुःखाननुसन्धानमुपाधिकृतं वक्तुं
शक्यते । सर्वोपाधिविनिर्गलितत्वात्तस्य । किञ्चेन्द्रगतोपासनादिजन्यं दुःखमर्जुनेन नानुभूयत एवार्जुनगतं च सर्वमिन्द्रियेणानुभूयते । न चैवं प्रकृत इति कथमभेदः । न चासाधारण्यम् । अनुकूलतर्काणां वक्ष्यमाणत्वेन व्यतिरेकिण्यसाधारण्योन्नीतसत्प्रतिपक्षानवतारात् । अत एवासाधारण्यं दशाविशेषे दोष इति वदन्ति वृद्धाः । असाधारण्यभयाद्वाऽऽह — ब्रह्म वेति ॥ अत्रापि जीवानुसंहितेत्यनुकूलतर्कस्फुरणार्थम् । पूर्वोक्तव्यभिचारपरिहारवदत्र स्वमते स्वरूपासिद्धिपरिहारः ।
(१४)भेदसञ्जीविनी
॥ अनुमानानि चेति ॥ पूर्वोक्तभेदेष्वित्यादिः ॥ ब्रह्मप्रतियोगिकेति ॥ स्वस्मिन्व्यासज्यवृत्तिधर्मावच्छिन्नप्रतियोगि(ताक)भेदानङ्गीकारेणेदम् । अतो नोद्देशस्य ब्रह्मवृत्तितद्व्यक्तित्वब्रह्मत्वाद्यवच्छिन्नप्रतियोगिताकभेदस्यासिद्धिप्रसङ्गेनार्थान्तरापातः । ब्रह्मप्रतियोगिकभेदस्य केवलान्वयितया तत्साधारणसाध्यतावच्छेदकावच्छिन्नाभावप्रसिद्ध्या व्यतिरेकव्याप्त्यनवकाशश्च । सिद्धसाधनता तु नास्ति । वक्ष्यमाणजीवत्वोपलक्षितचैतन्ये स्वसमानसत्ताकस्य कस्यापि (भेदस्य) परेण नङ्गीकृतत्वेन साध्यस्योभयसिद्धत्वाभावात् ॥ ब्रह्माननुसंहितेति ॥ दुःखानुसन्धातृत्वमात्रस्य व्यभिचाराद्यभावेऽपि ब्रह्माननुसंहितेति दुःखादिस्वरूपकथनमैक्ये जीवानुसंहितदुःखे ब्रह्मणोऽनुसन्धानाभावानुपपत्तिरित्यनुकूलतर्कोत्थापनाय । एवमुत्तरत्रानुमानेऽपि । अथवा तस्य व्यभिचारवारकत्वेऽप्युक्तानुकूलतर्कोत्थापनद्वारा व्याप्तिग्रहोपयोगित्वात् हेतुशरीरे निवेशो युक्त एव । तदनुपयोगिविशेषणमात्रस्य तु वैय्यर्थ्येन हेतुशरीरे निवेशो नास्तीति नव्यमताभिप्रायेणेदम् । प्रपञ्चितं च गुर्वद्वैतचन्द्रिकादौ सत्यत्वसाधकानुमानभङ्गावसरेऽस्माभिश्च तत्त्वोद्योतटिप्पण्यां द्वैतद्युमणौ मुक्तत्वहेतुविचारावसरे । धर्मिसत्तासमानसत्ताकत्वस्य साध्यद्वये निवेशस्तु जीवब्रह्मणोः परस्परव्यावहारिकभेदमादाय परं प्रति सिद्धसाधनतावारणाय । साध्यप्रसिद्धिर्घटादावेवेति स्वयं वक्ष्यति । व्यतिरेकेण जीववदितीति । अत्र घटादावन्वयव्याप्तेः सम्भवेऽपि सा शिष्यैरेव ज्ञातुं शक्येत्याशयेनानुक्त्वा पूर्वोत्तरानुमानसाहचर्यानुरोधाद्व्यतिरेकव्याप्तिरेवोक्ता । यद्वोक्तहेतोरसति सत्त्वेऽपि स्वधर्मिसत्ताघटितसाध्याप्रसिद्ध्या व्यभिचारवारणाय हेतौ चेतनत्वं लाघवान्निवेशनीयमतो नान्वयसम्भव इति व्यतिरेकव्याप्तिरेवोक्तेति द्रष्टव्यम् । ननु दुःखादेरन्तःकरणधर्मत्वात्स्वाश्रितदुःखज्ञातृत्वरूपं वा तत्प्रत्यक्षरूपं वा तदनुसन्धातृत्वं प्रथमानुमाने जीवेऽभावादसिद्धम् । द्वितीयानुमाने च जीवानुसंहितदुःखानुसन्धातृत्वाभावस्य जीवेऽपि सत्त्वाद्व्यभिचार इत्यत आह — दुःखादीनामिति ॥ अन्तःकरणाश्रितत्वेऽपि तादात्म्येन तन्निष्ठत्वेऽपि ॥ जीवस्येति ॥ तदनुसन्धातृत्वादिति ॥ अनुसन्धातृत्वशरीरे तादात्म्येन खाश्रितत्वस्य दुःखादावनिष्टत्वादिति भावः । ननु तदनुसन्धातृत्वं नाम तत्प्रत्यक्षवत्त्वमित्युक्तं स्यात् । ज्ञानत्वेन तन्निवेशस्यातिप्रसक्तत्वात् । इत्थं च ब्रह्मपदार्थभूतभवदीयेश्वरस्यापि साक्षाद्दर्शित्वात्तदननुसंहितदुःखाप्रसिद्ध्या प्रथमानुमाने हेतुस्वरूपस्यैवासिद्धिः । ब्रह्माननुसंहितेति विशेषणस्य हेतुशरीरनिवेशपक्षे तदभावपक्षे ब्रह्मण्येव व्यभिचारः । दुःखानुसन्धातृत्वस्य ब्रह्मण्यपि सत्त्वात् । द्वितीयानुमाने त्वसिद्धिरिति चेन्न । अनुसन्धानस्य तत्प्रत्यक्षापेक्षयाऽतिरिक्तत्वात् । तत्त्वं च तत्प्रत्यक्षप्रयुक्तनीचत्वादिविक्रियावत्त्वम् । तच्च जीवस्वरूप एव वर्तते न परमात्मनि । तदुक्तं भाष्ये । `नीचोच्चतैव दुःखादेर्भोग इत्यभिधीयत’ इति । सुधायां `मिथ्यात्वं यदि दुःखादे’रित्यनुव्याख्यानविवरणावसर एव `सत्ये एव नीचोच्चत्वलक्षणे विकृती अनुभवति । तादृशविक्रियायाश्च न जीवस्वरूपहानिसम्पादकत्व’मिति । नन्वेतावता हेतुशरीरे कथं निवेशः । न च ब्रह्मवृत्तिविक्रियाजनकत्वाभावाद्दुःखप्रत्यक्षाधीनविक्रियावत्त्वं हेतुर्निष्पद्यत इति वाच्यम् । तन्मते ब्रह्मवृत्तिविक्रियाप्रसिद्ध्या प्रामाणिकप्रतियोगिकाभावानङ्गीकारेण तज्जनकत्वाभावघटितहेतोरप्रसिद्धिः । स्ववृत्तिविक्रियाजनकत्वं संसर्गावच्छिन्नाभावं निवेश्य वा स्वजन्यविक्रियात्वावच्छिन्नाभाववद्ब्रह्मकत्वेन दुःखप्रत्यक्षं वा निवेश्य हेतुपरिष्कारे जीवस्वरूपे मया तदनङ्गीकारादसिद्धिरिति चेन्मैवम् । त्वन्मतेऽप्युपास्यब्रह्मरूपस्य सविशेषस्य रामकृष्णादेर्नित्यनिर्दुःखत्वस्य(त्वेन) श्रुतिपुरणादिशतसिद्धत्वेन जीवानां दुःखितायाश्चानुभवसिद्धत्वेन तद्व्यवस्थायास्त्वयाऽप्यङ्गीकर्तव्यत्वेन मयाऽपि त्वत्सिद्धं निवेश्यैव हेतु(शरीर)परिष्कारस्य कर्तुं शक्यत्वात् । न च मया दुःखादिविषयकान्तःकरणवृत्त्यात्मकप्रत्यक्षवत्त्वं तदनुसन्धातृत्वम् । तच्च जीवानां वर्तते । ईश्वरप्रत्यक्षं तु मायावृत्त्यात्मकमिति न तस्यानुसन्धातृत्वमिति तस्यानुसन्धातृत्वमिति व्यवस्था क्रियत इति वाच्यम् । तस्योक्तिसहत्वे मया (मयापि) हेतुशरीरे तथैव निवेशः कर्तुं शक्य एव तदेव न सम्भवति । दुःखादेः साक्षिवेद्यत्वेन त्वया मयाऽपि तत्रान्तःकरणवृत्तेरनङ्गीकारात् । अङ्गीकारे वा योगिनामपि परदुःखविषयकान्तःकरणवृत्तिरूपसाक्षात्कारादिव्यवहारभाजनस्य प्रत्यक्षस्य सत्त्वेन तेषामपि दुःखानुभवित्वापत्तेः । न च प्रत्यक्षे लौकिकविषयतां वा तदतिरिक्तवैजात्यं वा (किञ्चित्) योगीश्वरादिप्रत्यक्षव्यावृत्तं दुःखानुभवितृप्रत्यक्षे स्वीकृत्य तदवच्छिन्नमेवानुसन्धानमुच्यत इति वाच्यम् । दुःखादेः साक्षिवेद्यत्वमिति निष्कृष्टसिद्धान्ते गत्यभावात् । अङ्गीकारवादपक्षेऽप्यन्तःकरणवृत्तेरन्तःकरणधर्मत्वेन जीवस्य तद्वत्त्वरूपतदनुसन्धातृत्वायोगाच्च । स्वामितासम्बन्धेन तद्वत्त्वस्यैव तथात्वे सर्वस्य वशी सर्वस्येशान इत्यादिश्रुतिरीश्वरस्य स्वामिताया भवदङ्गीकृततया तस्य दुःखित्वं दुर्वारम् । अन्याधीनस्वामित्वमेव तथात्वं चेन्ममापि हेतुशरीरे तदेव निविष्टमस्तु । दुःखादावन्तःकरणवृत्तिरूपप्रत्यक्षस्य मयाऽनङ्गीकारेऽप्यन्यायत्तस्वामितासम्बन्धेन दुःखप्रत्यक्षवत्त्वस्यैव मया हेतुशरीरे निवेश्यत्वात् । न च लक्ष्म्यास्त्वन्मते दुःखित्वापत्तिः । तत्स्वरूपभूतपरकीयदुःखप्रत्यक्षस्येश्वराधीनस्वरूपभूतस्वामितासम्बन्धेन लक्ष्म्यामपि जीव इव विशेषबलेन सत्त्वादिति वाच्यम् । तवापि कथम् ? अनेकश्रुतिपुराणसिद्धेश्वराधीनेतरस्वामित्वनिर्दुःखत्वयोर्हातुमशक्यत्वात् । ननु परमार्थतो मया किमपि नासत्यापातत एव सर्वव्यवस्थाऽङ्गीक्रियत इति नातिक्षोदो मद्व्यवस्थायामिति वाच्यम् । तथात्वे सर्वत्रापि क्षोदस्य परित्यागापत्त्या तव विचारस्यैव वैय्यर्थ्यापातात् । भास्करेण सर्वप्रपञ्चसत्यतामभ्युपगच्छताऽवश्यं व्यवस्थायाः कर्तव्यत्वाच्च । उक्तानुमानयोस्तु तं प्रत्येव मुख्यतः प्रवृत्तिः । उक्तं ह्यन्यत्र टीकाकारैः — `मायावादिना सर्वस्य कल्पितत्वङ्गीकारात्काल्पनिकी व्यवस्था घटेतापि न तु भास्करस्यातस्तं प्रतीदं दुःखानुसन्धानाद्यापादन’मित्यादि । उपाधिखण्डनेऽपि भास्करमतनिरासावसर एवेदं दूषाणमभिहितम् । एवं तत्त्वोद्योते । एवमनुव्याख्यानेऽपि जगत्सत्यत्वमभ्युपेत्य जीवपरमात्मनोर्भेदाभेदमतनिरासाय प्रवृत्तस्य ‘अत एव चोपमा सूर्यकादिवदि’ति सूत्रस्य व्याख्यावसर एवेदमुदितम् । गीतातात्पर्येऽपि सत्योपाधिपक्ष एवापरस्य सुखदुःखाद्यनुसन्धानप्रसङ्गादिदूषणान्युक्त्वा मिथ्योपाधिपक्षेऽप्येते दोषा भवन्त्येवेत्युक्तत्वात्तदनुसारेण मिथ्यात्ववादिनं प्रत्यपि दुःखानुसन्धानादिव्यवस्थायात्रापादनप्रसक्तिः । तथा च व्यावहारिकदशसिद्धव्यवस्थायास्तेनापि कर्तव्यत्वादुक्तानुपपत्तिर्वर्तत एवेति । न च परमात्मतद्भार्यारूपशक्त्युभयाधीनस्वामितासम्बन्धेन दुःखप्रत्यक्षवत्त्वमेव तदनुसन्धातृत्वं तच्च जीव एव वर्तत इति चेत् । तर्हि (मम) हेतुशरीरे तदेव घटकमस्तु । तावताऽपि मदिष्टसिद्धेः । वस्तुतस्तु परायत्तस्वामितासम्बन्धेन दुःखप्रत्यक्षं दुःखं वा हेतुरस्तु । लक्ष्म्यामुक्तसम्बन्धेन जैवदुःखप्रत्यक्षस्य वा तद्दुःखस्य वा सत्त्वेऽपि नास्माकं काचित्क्षतिः । सिद्धान्ताभिमतदुःखानुसन्धानाभावेन तस्या दुःखास्पृष्टचेतनत्वोपपत्तेः । न च दुःखप्रत्यक्षस्य हेतुत्वपक्षे प्रत्यक्षे दुःखविषयकत्वविशेषणं व्यर्थम् । उक्तसम्बन्धेन प्रत्यक्षमात्रस्य व्यभिचारासंस्पर्शात् (इति वाच्यम्)। दुःखस्यैव परायत्तस्वामिताकप्रत्यक्षकत्वसम्बन्धेन हेतुत्वाङ्गीकारेण यथासन्निवेशे वैय्यर्थ्याभावात् । यद्वा स्वसाक्षात्कारप्रयोज्यापकर्षवत्त्वसम्बन्धेन दुःखं हेतुरस्तु । मन्मते तादृशापकर्षस्तत्काले जायते नित्यसिद्धाद्विलक्षणः । परैरपि दुःखित्वादिनाऽपकर्षस्याविद्यकस्य यस्मात्क्षरमतीतोऽहमित्यादिप्रमाणानुसारेणेङ्गीकर्तव्यतयोभयसाधारणापकर्षत्वरूपेण हेतुतावच्छेदकसम्बन्धशरीरे निवेशान्न तं प्रति प्रत्यक्षसिद्धिः । वस्तुतस्तु प्रमाणबलेन परं प्रत्यपीश्वरव्यावृत्तमस्मदभिहि(म)तं विक्रियावत्त्वरूपं हेतुं प्रसाध्यैतदनुमानस्य प्रयोक्तव्यत्वान्न कोऽपि दोष इति तत्त्वम् । नन्वेवमपीन्द्राननुसंहितदुःखानुसन्धातृत्वमर्जुने वर्तते । अर्जुनाननुसंहितदुःखानुसन्धातृत्वमिन्द्रस्य वर्तते । तयोर्भेदस्याभावात् कथमेतद्युज्यते । मैवम् । अनेन किमुक्तं भवति । प्रकृतानुमित्यौपयिकव्याप्तिविघटनाय व्यभिचारश्चेत् । स नास्त्येव । यो यदननुसंहितदुःखानुसन्धाता स तस्माद्भिन्न इति सामान्यव्याप्त्यनुसरणे हि सा स्यान्न चैवं
प्रकृते । प्रकृतसाध्यहेतुघटितव्यतिरेकव्याप्तेरेवोक्तत्वात् । तद्रीत्याऽयं हेतुरप्रयोजक इत्यभिप्रायश्चेत् । दृष्टान्त एवासिद्धः । इन्द्रस्यार्जुनशरीरावच्छिन्नसकलसुखदुःखानुसन्धानवत्त्वात् । अर्जुनस्यापीन्द्रशरीरावच्छिन्नोपासनादिसाध्यमहाफलरूपसुखादिभोक्तृत्वसत्त्वात् । तदीययत्किञ्चिदल्पसुखदुःखाद्यननुसन्धानं तु मानुषान्नोपभोगादिना भगवतोऽघटितघटकेश्वरशक्त्युपबृंहितेन भवतीत्येतावतोत्सर्गतः प्राप्ता तदीयदुःखाद्यनुसन्धानस्य तद्भेदनिरूपिताव्याप्तिः किं भज्यते । व्यभिचारस्य सोपाधिकत्वात्तस्यादूषणताया –
`उत्सर्गतोऽपि यत्प्राप्तमपवादविवर्जितम् ।
व्यभिचार्यपवादेन मानमेव भविष्यती’
ति भक्तिपादीयानुव्याख्यानेन तद्विवरणावसरे सुधायां चाभिहितम् । ननु सुधोक्तमपि सोपाधिकव्यभिचारस्यादूषकत्वं कथमुपपद्यते । व्यभिचारस्य सोपाधिकत्वेऽपि व्याप्तिविघटकताया दुर्वारत्वात् । अन्यथा निरुपाधिकस्याप्यदूषणं स्यादविशेषात् । मैवम् । यतोऽत्रेत्थं प्रतिभाति । व्याप्तिर्नाम साहचर्यनियमः । पद्धतौ तथैवोक्तत्वात् । साध्याभाववदवृत्तित्वाधिकरणतायोग्यतावत्त्वं यादृशहेतुतावच्छेदकाश्रयसामान्ये तादृशहेतुतावच्छेदकवत्त्वं व्याप्तिरिति पद्धत्यर्थः । यादृशदेशादिवृत्तित्वविशिष्टहेतुना यादृशदेशादिषु साध्यानुमितिरानुभाविकीतत्तत्स्थलीयव्याप्तिस्तादृऽशदेशादिकं निवेश्य निर्वाच्या । यत्र केवलान्वयिनि साध्याभावोऽप्रसिद्धस्तत्स्थले तद्धटिता व्याप्तिरप्रामाणिकप्रतियोगिकाभाववादिनां सुलभैव । सद्धेतुस्थले सर्वत्र तादृशयोग्यता वर्तते । व्यभिचाराद्यनुपलम्भादनुकूलतर्कसहितप्रत्यक्षादिप्रमाणैस्तन्निश्चयस्य सर्वलोकानुभवसिद्धत्वात् । क्वचिद्ब्रलवन्मन्त्रौषधादिकारणविशेषाद्धेतुव्यक्तिविशेषस्य साध्याभाववद्वृत्तित्वप्राप्तावपि प्रमाणेन (हेतुसामान्ये) सिद्धा तादृशयोग्यता नापनीयते । यद्यपीयं व्यक्तिः साध्याभावाधिकरणावृत्तित्वसम्बन्धयोग्यैव तथाऽपि बलवत्कारणवशादस्याः साध्याभावसम्बन्धः प्राप्तः सर्वलोकानुभवात् । अन्यथा भोजनादिरूपसामग्रीसत्त्वेऽपि बलवन्मन्त्रौषधादिवशात् तृप्त्यभावेऽपि तृप्तियोग्यमेवेदं बलवन्मन्त्रोषधादिबलात्तृप्त्यनुपाधायकं जातमिति सर्वव्यवहारस्याप्यप्रामाण्यापातात् । न चोक्तप्रतीतिव्यवहारयोः प्रामाण्ये बलवद्बाधकमस्ति येनेष्टापत्तिः स्यात् । योग्यता च तत्तत्स्वभावभूतस्तत्तन्निष्ठपदार्थविशेषः । स च तत्तन्निष्ठतादृशवृत्तित्वाधिकरणतां प्रति प्रयोजको भवति । कुतो धूमस्यैव वह्न्यभाववदवृत्तित्वं न घटादीनामिति प्रश्ने तत्स्वभाव एव नियामक इति सर्वैरपि वक्तव्यत्वात् । स्वभावस्य च –
`स्वभावजीवकर्माणि द्रव्यं कालः श्रुतिः क्रिया ।
यत्प्रसादादिमे सन्ति न सन्ति यदुपेक्षये'
ति प्रमाणबलादीश्वराधीनत्वात् । न चोक्ताधिकरणता साक्षादीश्वरनियम्याऽस्तु किं (मध्ये) स्वभावरूपशक्तेर्मध्येतन्नियामकत्वमल्पनेनेति वाच्यम् । भगवच्छक्तेर्बाह्यकारणद्वारैव पदार्थप्रयोजकस्य बहुशो दर्शनात् । अन्यथा दण्डेऽपि घटानुकूलशक्तेरप्येवं प्रत्याख्यानप्रसङ्गात् । न च धूमत्वमेव तादृशयोग्यतारूपमस्त्येवेति वाच्यम् । धूमत्वस्यालोकादिनिष्ठतादृशाधिकरणतान्यूनवृत्तित्वेन तत्प्रयोजकत्वाभावात् । प्रत्युताधूमत्वादयं तादृशावृत्तित्वयोग्य इति प्रतीत्या तादृशयोग्यताज्ञापकतयैव प्रतीतेस्ततोऽतिरिक्तत्वात् । इत्थं च स्व(स्वा)भावमप्यभिभूय बलवत्कारणाधीनतादृशवृत्तित्ववत्यपि (हेतौ) तादृशयोग्यतासत्त्वान्न सम्भवः । तत एव व्याप्तिज्ञानस्य न प्रतिबन्धो विरोध्यविषकत्वात् । तादृशयोग्यताभावज्ञानस्यैव विरोधित्वात् । विषयाबाधाच्च न तत्स्थलीयव्याप्तिज्ञानस्य भ्रमत्वम् । न च तस्य प्रमात्वे बाधानवतारदशायामपवादविषये जायमानानुमितिः प्रमा स्यात् । सलिङ्गपरामर्शस्य भ्रमानुमितिजनकत्वाभावादिति वाच्यम् । साध्याभाववद्विषयकत्वरूपदोषाहितभ्रमजननशक्त्या भ्रभजनकत्वसम्भवात् । नैय्यायिकैः पृथिवीत्वरूपसल्लिङ्गकपरामर्शजन्याया अप्युत्पत्तिक्षणावच्छिन्नघटे गन्धानुमितेर्भ्रमरूपाया अङ्गीकृतत्वात् । नन्वपवादविषयहेतुभिन्नत्वमेव व्याप्यतावच्छेदककोटौ निवेश्यतां किमुक्तप्रयासेनेति चेन्न । ऐन्द्रियकानैन्द्रियकमन्त्रौषधादिरूपापवादानां भाविकालीनानां वर्तमानकालीनानां चाभावस्य निश्चयायोगेन तत्समवहितभेदविशिष्टत्वावच्छिन्नस्य निश्चेतुमशक्यत्वेन तद्रूपावच्छिन्नहेतौ व्याप्तिग्रहानुपपत्तेः । अपवादादिस्फूर्त्यभावकाले व्याप्तिप्रमानुत्पत्त्यापत्तेश्च । यत्र यत्रापवादस्य प्रवृत्तिस्तत्तद्भेदकूटस्यासर्वज्ञदुर्ग्रहतया तदज्ञानिनामसर्वज्ञानां व्याप्तिप्रमाविलया
पातात् । न चेष्टापत्तिः । केषुचिद्भोजनेषु दृष्टिदोषादिना मरणादिजनकत्वदर्शनात्केषुचिन्मन्त्रौषधादिबलात्तृप्त्यजनकत्वदर्शनाच्च (भोजनमात्रस्य) बलवदनिष्टाजनकत्वविशिष्टेष्टसाधनत्वव्याप्यवत्ताज्ञानाद्भोजने तदनुमितिपूर्वकं प्रवर्तमानानामेवं भोजनमात्रस्य तृप्तिव्याप्यताज्ञानात् (ज्ञानेन) भोजनलिङ्गेन तृप्त्यनुमितिमतामसर्वज्ञानां भ्रमत्वप्रसङ्गः । न च तत्रेष्टापत्तिः । प्रेक्षावता स्वोक्तनिर्वाहार्थमेव कर्तुं शक्यते । नानाभेदकूटविशिष्टहेतुज्ञानत्वेन कारणत्वे कारणतावच्छेदकस्यातिगुरुशरीरत्वं स्यादित्युक्तरीतिरेव सम्यक् । स्वरसव्यभिचारस्थलेऽप्येवं स्यादिति नापाद्यम् । प्रमाणबलेनोक्तयोग्यतारूपव्याप्तिसिद्ध्यनन्तरमेवोक्तरीत्याश्रयणात् । तस्मात्सुधोक्तं युक्तमेव । तद्वाक्यस्थव्यभिचारपदमपि साध्याभाववद्वृत्तित्वपरमेव न तूक्तयोग्यत्वाभावपरम् । अतोऽपवादविषये व्यभिचार एव नास्तीति तदङ्गीकारेण दूषणत्वकथनमसङ्गतमिति शङ्कानकाश इति । ननु तथाऽपीदमनुमानमुयुक्तम् । आश्रयत्वरूपधर्मित्वेनानुगतरूपेण निविष्टत्वेन घटरूपधर्मिसमानसत्ताकव्यावहारिकभेदस्य जीवादौ सिद्धत्वेनानुमानद्वयेऽपि सिद्धसाधनतैव ।तत्तद्धर्मिणां विशिष्य साध्यशरीरे निवेशे पुनः सिद्धसाधनतैव । ब्रह्मरूपधर्मिणो विशिष्य निवेशे तत्समानसत्ताकभेदाप्रसिद्ध्या पुनरप्रसिद्धविशेषणतैव । स्वधर्मीति निवेशेऽपि स्वपदेन ब्रह्मजीवमात्रधर्मिकजडभेद(दादि)ग्रहणे पूर्ववदप्रसिद्धविशेषणतैव । घटादिमात्रधर्मिकचिद्भेदग्रहणे जीवेषु ब्रह्मणि चाभावेनानुमानद्वये बाध एव । चेतनजडोभयसाधारणभेदमादाय सिद्धसाधनता दुर्वारैवेति चेन्न । प्राचीनमते यथाकथञ्चित्स्वत्वस्यानुगतत्वेन स्वत्वेन (भेद)निवेशे साध्याप्रसिद्धिविरहात् । परन्तु ब्रह्मजडोभयसाधारणभेदमादाय सिद्धसाधनता(दि)वारणाय तत्तद्धर्मिकभेदस्य (तद्)वस्तुस्वरूपतयोभयनिष्ठैकभेदो नास्तीति स्वपक्ष एवाश्रयणीयः । स्वत्वेन साध्ये निवेशस्थलेऽप्रसिद्धस्यापि साध्यस्य पक्षे सिद्धिप्रकारस्तु द्वैतद्युमणौ दर्शितस्तत्रैवानुसन्धेयः । आधुनिकनैय्यायिकादिमनःसमाधानं तु स्ववृत्तित्वसत्तासमानसत्ताकत्वोभयसम्बन्धेन धर्मिविशिष्टभेद एव साध्यः । घटवृत्तिभेदे उभयसम्बन्धेन घटरूपधर्मिवैशिष्ट्यस्य सत्त्वेन साध्यप्रसिद्धिः । सपक्षे चोक्तसाध्यसिद्ध्या पारमार्थिकभेदस्य सिद्धिः । अन्यवृत्तित्वविशिष्टस्यान्यत्रावृत्तित्ववदाधेयतासम्बन्धेनान्यविशिष्टस्याप्यन्यत्र वृत्तेरभावादुभयसम्बन्धेन धर्मिविशिष्टसाध्यस्य पक्षे सत्तायाः पक्षीभूतजीवब्रह्मरूपधर्मिणमादायैवोपपानीयतया पारमार्थिकत्वस्यावश्यं प्राप्तेः । भेदस्य धर्मिभेदेन भिन्नत्वमेकत्वं वाऽस्तु न काचित्क्षतिः । उक्तोभयत्वावच्छिन्नस्य संसर्गतया भानमप्रमाणिकमित्यङ्गीकारे तु पारमार्थिकवृत्तित्वपारमार्थिकान्यत्वोभयाभावत्वमेव प्रकृते धर्मिसत्तासमानसत्ताकत्वेन विवक्षितम् । इत्थं च तादृशोभयाभाववद्भेदवत्त्वं साध्यम् । यद्वा पारमार्थिकान्यनिरूपितत्वपारमार्थिकवृत्तित्वोभयाभाववद्भेदाधिकरणत्वं साध्यम् । भेदस्याश्रयभेदेन भेदानङ्गीकारे पटवृत्तिघटभेदे जीवादिवृत्तित्वस्यापि सत्त्वेन तादृशोभयाभावस्य तत्रासत्त्वेऽप्यचेतनमात्रवृत्तिचेतनभेदे पारमार्थिकवृत्तित्वाभावादुभयाभावत्वं प्रसिद्धम् । अधिकरणतायाः साध्यत्वपक्षे भेदस्याश्रयभेदेन भेदाभावेऽपि तदधिकरणतानामाश्रयभेदेन भिन्नत्वात् । घटादिभेदनिरूपितपटादिनिष्ठाधिकरणतासु पारमार्थिकवृत्तित्वाभावदुभयाभावत्वं प्रसिद्धम् । तथा च नाप्रसिद्धविशेषणता । पक्षे उक्तसाध्यं तु भेदस्य पारमार्थिकत्वं विना न पर्यवस्यति । भेदे तदधिकरणत्वे वा पारमार्थिकवृत्तित्वस्यैव सत्त्वेनापारमार्थिकत्वाभावप्रयुक्तस्य वा पारमार्थिकनिरूपितत्वाभावप्रयुक्तस्य वोभयाभावस्य वक्तव्यत्वादिति रीत्या कर्तव्यमित्येषा दिक् ।
नन्वत्र लक्ष्म्या जीवत्वाभावेनापक्षत्वाद् यथाकथञ्चिदल्पशक्तित्वादिना तस्या अपि पक्षकोटौ निवेशे दुःखानुसन्धातृत्वरूपहेत्वभावेन भागासिद्धिप्रसङगात् सपक्षत्वे तत्र हेत्वभावादसाधारण्यमिति चेन्न । पक्षत्वेऽपि तत्साधारणानुसन्धातृत्वस्यैव हेतुत्वाङ्गीकारेण भागासिद्धि(द्ध्यादि)विरहात् । तद्व्यावृत्तहेतुपरिष्कारपक्षे तस्याः पक्षबहिर्भावेऽपि तन्मात्रे उक्तसाध्यनिश्चये बीजाभावेन सन्दिग्धसाध्यवत्तया पक्षतुल्यत्वेन सपक्षत्वाभावेन तत्र हेतोरवृत्तावप्यसाधारण्यविरहात् । तत्र साध्यसिद्धेरपेक्षितत्वे एतदनुमानसिद्धजीव दृष्टान्तेनैवाल्पशक्तिकत्वादिनोक्तसाध्यस्य साधयितुं शक्यत्वान् न दोषः । व्यतिरेकदृष्टान्तभूते ब्रह्मणि हेत्वभावो न सिद्ध इत्याशङ्क्य निषेधति ॥ ब्रह्मणश्चेति ॥ यद्वा ब्रह्माननुसंहितत्वघटिताद्यानुमानहेतोर्ब्रह्मपक्षकानुमानहेतोश्चासिद्धिमाशङ्क्य निराकरोति ॥ ब्रह्मणश्चेति ॥ अपुरुषार्थत्वप्रसङ्गादिति ॥ संसारदशायां स्वकीयदुःखमात्रभोक्तृत्वं ब्रह्मभावे तु तत्तादात्म्यापन्न सकलजीवदुःखभोक्तृत्वापत्त्या मुक्तेरत्यन्तहेयताप्रसङ्गश्च ज्ञातव्यः ॥ निरञ्जनत्वश्रुतीति । ‘निरञ्जनः परमं साम्यमुपैती’ति श्रुत्या निरञ्जनपदेन दुःखभोक्तृत्वादि सकलदोषराहित्योक्तेस्तद्विरोध इति भावः । पञ्चम्यन्तद्वमवश्यम्भावे हेतुः ॥ नासिद्धिरिति ॥ उक्तावतारिकाद्वयानुरोधेन न दृष्टान्तासिद्धिर् हेत्वसिद्धिरित्यर्थद्वयमनुसन्धेयम् ।
(१४)काशीतिम्मण्णाचार्य
॥ अनुमानानि चेति ॥ भेद इत्यादिः । उच्यन्त इति
शेषः । यद्यपि पूर्वपक्षक्रमेण सामान्यत एवात्मनानात्वसाधकानुमानमादौ वक्तव्यम् । तथापि प्रधानसिद्धौ सुतरां गुणसिद्धिरिति भावेनाह — जीव
इति ॥ अत्र दुःखेति स्वरूपकीर्तनम् । न तु हेतुघटकम् । एवं च नित्यसुखाद्यनुसन्धातरि ब्रह्मणि व्यभिचारवारणाय ब्रह्माननुसंहितेति सार्थकम् । न च ब्रह्मणः सर्वज्ञत्वेन ब्रह्माननुसंहिताप्रसिद्धिः । स्वीयत्वेनानुभवस्यैवानुसन्धानत्वात् । स्वीयत्वं च स्वनैच्याद्यापादकत्वम् । न तु स्वधर्मत्वम् । अतो नान्तःकरणवृत्तिदुःखासङ्ग्रहः । एतल्लाभार्थं च दुःखपदमिति ध्येयम् । यद्यपि अर्जुनाननुसंहितकिञ्चित्सुखाद्यनुसन्धातुरिन्द्रस्य तदभेदवदत्राप्यभेदोपपत्तेरप्रयोजकत्वम् । तथापि भेदतत्प्रतिनिधिविशेषोभयसाधारणभेदव्यवहारविषयमात्रस्य साध्यत्वान्न दोषः । जीवब्रह्मणोर्बाधकाभावेन भेदस्यैव सिद्धेः । स्वाभाविकविशेषसिद्ध्याऽपि परनिवृत्तेश्च ।
अत्रान्वयव्याप्तौ दृष्टान्ताभावादाह — व्यतिरेकेणेति ॥ यद्यपि प्रथममीश्वरधर्मिकभेद एव प्रत्यक्षस्योक्तत्वादनुमानमपि तत्रैवादौ वक्तुमुचितम् । तथापि जीवधर्मिकभेदस्य जीवप्रत्यक्षसिद्धत्वेन तत्रानुमानव्युत्पादनसौकर्यात्तदेवादावुक्तम् । पूर्वपक्षक्रमेण च पूर्वमीश्वरधर्मिकभेदे प्रत्यक्षं प्रदर्शितम् । पूर्वपक्षिणा च प्राधान्यात्तदेवादौ प्रतिक्षिप्तमिति नासङ्गतिः ।
॥ ब्रह्म वेति ॥ अत्र जीवत्वावच्छिन्नप्रतियोगिताकभेदः साध्यः । तेन जीवप्रतियोगिकभेदस्य जीवसाधरण्येऽपि न व्यतिरेकाप्रसिद्धिः । तत्तज्जीवप्रतियोगिकभेद एव साध्य इत्यप्याहुः । अत्रापि हेतौ दुःखपदं स्वरूपकीर्तनमेव । न चैवं जीवानुसंहितदुःखाभावानुसन्धातृत्वस्य ब्रह्मण्यपि सत्त्वादसिद्धिरिति वाच्यम् । दुःखध्वंसप्रागभावयोरेव जीवानुसंहितत्वात् । ईश्वरस्य च दुःखात्यन्ताभावानुसन्धातृत्वेन दोषाभावात् । एवं चाननुसन्धातृत्वमात्रस्य ब्रह्मण्यभावादसिद्धिरतो जीवानुसंहितेति सार्थकम् । न च व्यभिचारावारकत्वात्तद्वैयर्थ्यमिति शङ्क्यम् । व्यभिचारवदसिद्धेरप्यनुमितिविरोधित्वाविशेषेण ‘विमतं कर्त्रजन्यं शरीराजन्यत्वादि’त्यादौ शरीरादिविशेषणवदसिद्धिवारकत्वेऽप्यवैयर्थ्यस्य शास्त्रे समर्थितत्वात् । अखण्डाभावसम्पादकत्वेनावैयर्थ्यं चोभयत्र तुल्यम् । केचित्तु दुःखानुसन्धातृत्वतदभावयोरेवात्र हेतुत्वम् । दुःखे ब्रह्माननुसंहितत्वाद्यभिधानं तु व्यतिरेकदृष्टान्ते हेत्वभावसत्त्वप्रदर्शनपरमित्याहुः । तच्चिन्त्यम् । तत्प्रदर्शनस्य दुःखादीनामित्यग्रिमग्रन्थेनैव लाभेन ब्रह्माननुसंहितत्वाद्यभिधानवैयर्थ्यस्य दुर्वारत्वात् । यद्यपि द्वितीयानुमाने घटादेरन्वयदृष्टान्तत्वं सम्भवत्येव । तथापि अन्वयदार्ढ्यायैव व्यतिरेकेण जीववदित्युक्तम् । यद्यपि च प्रथमे ब्रह्मानुसंहितसार्वज्ञाद्यननुसन्धातृत्वस्य, द्वितीये जीवाननुसंहितसार्वज्ञाद्यनुसन्धातृत्वस्य च हेतुत्वं सम्भवति, तथापि परमते शुद्धस्यानुसन्धातृत्वाभावादसिद्धिः स्यादतो न तदनुसरणम् । न चैवं प्रथमे ब्रह्मानुसंहिताप्रसिद्ध्या परस्य हेत्वप्रसिद्धिरिति वाच्यम् । ब्रह्माननुसंहितेत्यनेन ब्रह्मनिष्ठाभावप्रतियोग्यनुसन्धानविषयत्वस्य विवक्षितत्वेन दोषाभावात् ।
अत्र साध्यशरीरे धर्मिसत्तासमानसत्ताकत्वविशेषणव्यावृत्तिं व्यञ्जयन् पारमार्थिकत्वेन भेदविशेषणाविशेषणयोः पूर्वपक्षोक्तसाध्याप्रसिद्धिसिद्धसाधनरूपदोषानवकाशं दर्शयति — अत्रेति ॥ एतदनुमानद्वय
इत्यर्थः । अस्य च `नाप्रसिद्धविशेषणत्वं’ `न सिद्धसाधन’मित्याभ्यामन्वयः । अथ सत्तात्वादिना ब्रह्मसत्तासमानसत्ताकव्यावहारिकभेदमादाय सिद्धसाधनवारणाय पारमार्थिकत्वेनैव समानत्वं विवक्षणीयम् । तथा च परं प्रति साध्याप्रसिद्धिस्तदवस्थैव । पारमार्थिकत्वव्यावहारिकत्वान्यतररूपेण समानत्वोक्तौ तु सिद्धान्ते व्यावहारिकत्वाप्रसिद्ध्या साध्याप्रसिद्धिः । सत्तात्वव्याप्यरूपेण तद्विवक्षणे च पारमार्थिकव्यावहारिकान्यतरत्वेन ब्रह्मसत्तासमानत्वमादाय सिद्धसाधनम् ।
यत्तु समानत्वमभेद एव । सिद्धान्ते भेदस्य धर्मिस्वरूपत्वेन तत्र धर्मिसत्तातिरिक्तसत्ताविरहादिति । तन्न । परमते घटादौ साध्यप्रसिद्ध्यनुपपत्तेः । मैवम् । तदधिकरणयावत्कालवृत्तित्वं तत्समानत्वमित्यङ्गीकारात् । व्यावहारिकस्य व्यवहारनिवृत्तिकालावृत्तित्वेन सिद्धसाधनाद्यनवकाशात् । यद्वा, ब्रह्मसत्ताभिन्नत्वतदभिन्नत्वान्यतररूपेण समानत्वं विवक्षणीयम् । ब्रह्मसत्ताभिन्नत्वेन धर्मिसत्तासमानसत्ताकभेदस्य घटादौ प्रसिद्धत्वान्नाप्रसिद्धविशेषणत्वम् । ब्रह्मणि ब्रह्मसत्ताभिन्नत्वेन ब्रह्मसत्तासमानत्वासम्भवेन तदभिन्नत्वेन तत्समानसत्ताकभेदः सिद्ध्यन् ब्रह्माभिन्नः पारमार्थिक एव सिद्ध्यतीति दिक् ।
अत्र च घटादिसत्तासमानसत्ताकभेदस्य ब्रह्मण्यभ्युपगमात् सिद्धसाधनमतो धर्मीति । यद्यपि घटादेर्मेयत्वादिकं प्रति धर्मित्वमस्त्येव । तथापि स्वधर्मित्वं विवक्षितम् । स्वपदस्य च तत्तद्भेदपरत्वान्न दोषः । न चैवमात्मधर्मिकभेदस्य परमते स्वधर्मिसत्तासमानसत्ताकत्वाभावात् साध्याप्रसिद्धिरिति वाच्यम् । सजातीयसाध्यस्य घटादौ प्रसिद्ध्यैवानुमाननिर्वाहात् । अन्यथा पक्षीयवह्नेः प्रागसिद्धत्वेनानुमानोच्छेदप्रसङ्गात् । वस्तुतः स्वनिष्ठत्वस्वनिष्ठसत्तासमानसत्ताकत्वोभयसम्बन्धेन धर्मिविशिष्टो भेदः साध्यः । एवं च साध्यस्यानुगतत्वाद्धटादौ तत्प्रसिद्धिः सुलभैव । एतेन भेदस्यानुगतत्वपक्षे घटादिसत्तासमसत्ताकतद्धर्मिकभेदस्यैवात्मन्यभ्युपगमेऽपि न सिद्धसाधनावकाशः । गुणादौ द्रव्यवृत्तित्वविशिष्टसत्ताया इव घटादिवृत्तित्वविशिष्टभेदस्यात्मन्यभावादिति ।
ननु ज्ञानसुखदुःखादीनामैकाधिकरण्यनियमेन दुःखानधिकरणे जीवे तदनुसन्धानस्याप्यभावात् प्रथमानुमाने स्वरूपासिद्धिः । अन्यथा ब्रह्मणोऽप्यविशेषेण दुःखानुसन्धानापत्त्या द्वितीये तद्दोष इत्यत आह — दुःखादीनामिति ॥ वृत्त्यात्मकानामेव ज्ञानसुखादीनामैकधिकरण्यनियमात् तदनुसन्धानस्य च साक्षिप्रत्यक्षत्वेन जीवगतत्वे बाधकाभावान्न प्रथमेऽसिद्धिः । ब्रह्मणश्च दुःखानुसन्धातृत्वे तद्भावं प्राप्तस्यापि तदापत्त्या, मुक्तित्वेन पराङ्गीकृतब्रह्मभावस्य पुरुषार्थत्वानुपपत्तेः `निरनिष्टः’ इत्यादिश्रुत्यप्रामाण्यप्रसङ्गाच्च ब्रह्मणो दुःखाननुसन्धातृत्वावश्यकत्वान्न द्वितीयेऽपि दोष इति भावः ।
(१४)शर्कराश्रीनिवासाचार्य
— एवं जीवेशयोर्जीवानां च भेदे प्रत्यक्षप्रमाणमभिधायानुमानान्याह — अनुमानानि चेति ॥ भेदे सन्तीति शेषः । तत्र तावद्ब्रह्मप्रतियोगिकजीवधर्मिकभेदेऽनुमानमाह — जीव इति ॥ धर्मिसत्तासमानसत्ताकेति ॥ धर्मी जीवः । तस्य यादृशी सत्ता तत्समानसत्ताको यो भेदस् तदधिकरणमित्यर्थः । ब्रह्माननुसंहितं यद्दुःखं तदनुसन्धातृत्वात् । तदनुभुवितृत्वादित्यर्थः । अत्रानुसन्धानशब्दोक्तानुभवो नाम दुःखादौ स्वात्मीयत्वाभिमानेनात्मनि तत्कृतनीचोच्चतालक्षणा विक्रियैव नतु ज्ञानमात्रम् । तथाच सर्वज्ञस्य ब्रह्मणः कथं दुःखानुभवाभाव इति न
शङ्क्यम् । अन्वयदृष्टान्ताभावादाह — व्यतिरेकेति ॥ ब्रह्मणि ब्रह्मप्रतियोगिकभेदाभावेन साध्याभावो दुःखानुसन्धातृत्वस्याभावेन हेत्वभावश्च द्रष्टव्यः । इदानीं जीवप्रतियोगिकेश्वरधर्मिकभेदेऽनुमानमाह — ब्रह्म वेति ॥ अत्र धर्मि ब्रह्म । शिष्टं पूर्ववत् । जीवानुसंहितम् । जीवेनानुसंहितम् अनुभूतं यद्दुःखं तदननुसन्धातृत्वात् । तदननुभवितृत्वादित्यर्थः ॥ व्यतिरेकेणेति ॥ जीवे जीवप्रतियोगिकभेदाभावेन साध्याभावः । जीवानुसंहितदुःखानुसन्धातृत्वस्यैव विद्यमानत्वेन तदननुसन्धातृत्वाभावाद्धेत्वभावश्च द्रष्टव्यः । अत्रानुमानद्वये किं पारमार्थिकभेदः साध्य उत व्यावहारिकः । नाद्यः । अप्रसिद्धविशेषणत्वात् । नद्वितीयः । सिद्धसाधनादिति शङ्कापरिहाराय साध्यद्वये धर्मिसत्तासमानसत्ताकेति विशेषणमुपात्तम् । तेन कथं दोषद्वयपरिहार इत्यतः क्रमेण तदुभयपरिहारं दर्शयति — अत्रेत्यादिना न सिद्धसाधनमित्यन्तेन ॥ घटो ब्रह्म नेति प्रतीतिबलाद् घटे ब्रह्म प्रतियोगिकभेदस्तावदस्ति । तस्य धर्मी घटस् तस्य यादृशी सत्ता व्यावहारिकी तत्समानसत्ताकत्वं प्रसिद्धमेव मायावादिनः । अतो नाद्यानुमानेऽप्रसिद्धविशेषणत्वम् । तथा घटो जीवो नेति प्रतीतिबलाद् घटे जीवभेदः सिद्धः । तस्य घटरूपधर्मिसमानसमत्ताकत्वं प्रसिद्धमेवेति न द्वितीयानुमानेऽप्रसिद्धविशेषणत्वम् । तथा जीवस्य धर्मिणः पारमार्थिकत्वेन तत्समसत्ताकत्वेन सिध्यन्भेदः पारमार्थिक एव सिध्यतीति नाद्यानुमाने सिद्धसाधनम् । ब्रह्मणो धर्मिणः पारमार्थिकत्वेन तत्समसत्ताकत्वेन सिध्यन्भेदः पारमार्थिक एव सिध्यतीति न द्वितीयानुमाने सिद्धसाधनमित्यर्थः । ननु दुःखस्यान्तःकरणवृत्तित्वाज्जीवे दुःखमेव नास्तीति तदनुसन्धातृत्वस्याप्यभावाद्धेतोः स्वरूपासिद्धिरित्यत आह — दुःखादीनामिति ॥ अनुसन्धातृत्वादित्यस्य नासिद्धिरिति वक्ष्यमाणेनान्वयः । जीवस्य दुःखानुसन्धाने दुःखस्य जीवगतत्वं न प्रयोकजकम् । जीवावर्तिनोऽपि घटादेरनुसन्धानदर्शनादिति भावः । ननु ब्रह्मणोऽपि दुःखानुसन्धातृत्वे बाधकाभावाद्द्वितीयहेतोः स्वरूपासिद्धिरित्यत आह — ब्रह्मण इति ॥ मायावादिमते जीवस्य ब्रह्मभाव एव मोक्ष इत्यङ्गीक्रियते । तत्र यदि ब्रह्मणोऽपि दुःखानुसन्धानन्तर्हि तद्भावापन्नजीवस्यापि तत्स्यात् । तथाच तादृशमोक्षस्य पुरुषैरर्थ्यत्वाभावेन पुरुषप्रयोजनत्वं न स्यादित्यर्थः ॥ निरञ्जनेति ॥ ‘निरनिष्टो निरवद्य’ इत्यादिनिर्दुःखत्वादिप्रतिपादकश्रुतिविरोधादित्यर्थः ॥ तदभावेति ॥ दुःखानुसन्धातृत्वाभावेत्यर्थः ।