१३ (१३) भेदोज्जीवनम्

ननु ‘नाहं निर्दुःखो न सर्वज्ञ’ इति..

(१३)भेदोज्जीवनम्

(१३) ननु ‘नाहं निर्दुःखो न सर्वज्ञ’ इति निर्दुःखत्वादिसंसर्गाभाव एवात्मन्यनुभूयते नेश्वरप्रतियोगिकान्योन्याभाव इति चेन्न । मयि निर्दुःखत्वं सर्वज्ञत्वादिकं वा नास्तीत्यनुभव एव तत्संसर्गाभाव

विषयकः । निर्दुःखत्वस्यैव प्रतियोगितया तत्रोपादानात् (प्रतियोगितयोपादानात्)। न चास्य निर्दुःखत्वात्यन्ताभावो विषयः । धर्मिप्रतियोगिनोस्तादात्म्यं सामानाधिकरण्येन प्रसज्य तस्यैव

निषेधात् । प्रत्यक्षप्रामाण्यं तु सुदृढमन्यत्रोपपादितमस्माभिः ।

(१३)भावप्रदीपः

नन्वीश्वरप्रतियोगिको जीवधर्मिको भेदस्तु जीवस्य प्रत्यक्ष इति यदुक्तम् । तन्न । नाहमीश्वर इति कस्याप्यनुभवाभावात् । न च नाहं निर्दुःखो न सर्वज्ञ इत्यस्ति तावत्सर्वेषामनुभवः । स एव हि नाहमीश्वर इत्यनुभवः । तल्लक्षणत्वादीश्वरस्येति वाच्यम् । अस्यानुभवस्य निर्दुःखत्वादिसंसर्गाभावविषयकत्वेन निर्दुःखादिरूपेश्वरप्रतियोगिकान्योन्याभावविषयकत्वाभावादित्याशङ्कते — नन्विति ॥ एवं शङ्कमानो न लौकिको नापि परीक्षक इति भावेन समाधत्ते ॥ मैवमिति ॥ इह घटो नास्तीतिवन्मयि निर्दुःखत्वं सर्वज्ञत्वं वा नास्तीति निर्दुःखत्वादिकं प्रतियोगितयोपादाय यद्ययमनुभवः प्रवर्तेत स्यात्तदा संसर्गाभावविषयकः । न चैवम् । कित्वहं निर्दुःख सर्वज्ञ इति सामानाधिकरण्येन धर्मिप्रतियोगिनोर्जीवोश्वरयोस्तादात्म्यं प्रसज्य तन्निषेधविषयत्वादन्योन्याभावविषयक एवेति भावः । अत्र सामानाधिकरण्यं नामाहन्त्वनिर्दुःखत्वयोरेकाधिकरण्यं न त्वेकविभक्त्यन्तत्वम् । प्रतीतौ विभक्त्यादेरभावात् । तस्य शब्दधर्मत्वात् । तथाऽपि केचिदेकविभक्त्यन्तत्वमेव सामानाधिकरण्यमत्र विवक्षितमिति व्याचक्रुः ।

ननु ‘नाहं निर्दुःख’ इत्याद्यनुभवस्य भेदविषयत्वेऽपि नानेन तत्सिद्धिः । तस्याभेदसाधकबहुप्रमाणविरुद्धत्वेन प्रामाण्याभावादित्यत आह — प्रत्यक्षप्रामाण्यं त्विति ॥ अन्यत्र न्यायामृते प्रथमपरिच्छेदे प्रत्यक्षस्य जात्योपक्रमादिन्यायैश्च प्राबल्यव्युत्पादनवादमारभ्य प्रत्यक्षस्य पारमार्थिकसत्वग्राहित्वव्युत्पादनवादपर्यन्तं नवप्रकरणेषु निपुणतरमुपपादितमित्यर्थः । तत्रायं विवेकः । बाह्यप्रत्यक्षस्य बलवत्प्रत्यक्षेतरेण न बाधः । साक्षिप्रत्यक्षस्य न केनापि बाध इति ॥ तत्र नाहं निर्दुःखो न सर्वज्ञ इति तु साक्षिप्रत्यक्षमेव । अतो न केनापि तस्य बाधोऽस्तीति । निर्बाधसाक्षिप्रत्यक्षप्रामाण्यस्य नियतत्वात्तेन जीवेशभेदः सिध्यत्येवेति भावः ।

(१३)भेदचिन्तारत्नम्

॥ संसर्गाभाव इति ॥ सविशेषणे हीति न्यायानुग्रहाद् दुःखाभावादिरूपयोग्याप्रतियोगित्वेन प्रत्यक्षवत्त्वसम्भवादभावैकविध्यरूपलाघवाच्चेति भावः । नन्वेवमपीश्वरीयधर्मादभेदः प्राप्त इति वाच्यम् । तथाऽपि भेदप्रत्यक्षताभङ्गात् । वस्तुतस्तु तद्धर्माणां स्वात्यन्ताभावसमानाधिकरणताङ्गीकारेण न कश्चिद्दोषः । तादात्म्यं सामानाधिकरण्येन प्रसज्येत । नाहं निर्दुःख इत्यत्राहंनिर्दुःखपदयोः समामानाधिकरण्येन तयोस्तादात्म्यमारोप्येत्यर्थः । एवञ्च मयि निर्दुःखत्वं सर्वज्ञत्वं वा नास्तीत्यत्र व्यधिकरणान्वयस्य संसर्गव्युत्पन्नतयाऽस्य संसर्गारोप्यकत्वेन संसर्गज्ञापकत्वं युक्तम् । उक्तप्रतीतेस्तु तादात्म्यारोप्यकत्वेन तद्विलक्षणाभावविषयत्यमेव वाच्यमित्यदोषः । भेदप्रत्यक्षं भ्रान्तमित्युक्तमित्यत आह — प्रत्यक्षेति ॥ अन्यत्रेति । न्यायामृत इत्यर्थः । तथा हि । प्रत्यक्षप्रामाण्यं बाधकं तूष्णीं वा । आद्ये प्रत्यक्षेणानुमानेनागमेन बाधकशङ्कामात्राद्वा । नाद्यः । तदभावात् । भावे वा वैपरीत्यसम्भवात् । आद्यस्यासञ्जातविरोधित्वेन बलवत्त्वाच्च । न द्वितीयः । कालात्ययापदिष्टमात्रोच्छेदापत्तेः । प्रत्यक्षस्य धर्मिग्राहकत्वेनोपजीव्यत्वाच्च । न तृतीयः । यजमानः प्रस्तर इति श्रुत्या तद्भेदप्रत्यक्षबाधोपपत्तेः । चन्द्रपादेशप्रत्यक्षं त्वागमविरोधात्प्रागेवान्यत्र क्लृप्तपरिणामसामग्रीविरहादपटुतया जातं पश्चादागमेन बाध्यते । न तुर्यः । अतिप्रसङ्गात् । अत एव न द्वितीयः । वर्तमानमात्रग्राहिप्रत्यक्षेणोत्तरकालिकसत्ता न सिध्यतीति चेन्न । तावताऽपि त्रिकालनिषेधरूपमिथ्यात्वासिद्धेरिति ।

(१३)भेदचन्द्रिका

॥ मयीति । अनुयोगिनि सप्तम्याः संसर्गाभावोल्लेक्षनियतत्वादिति भावः । ननु नाहं निर्दुःख इत्यादिकमस्तु भेदविषयकं तथाऽपि नानेन तत्सिद्धिरस्याप्रमाणत्वादित्यत आह — प्रत्यक्षप्रामाण्यमिति ॥ साक्षिरूपत्वादस्य प्रत्यक्षस्य साक्षिणश्च प्रमाणरूपत्वाद्बाधकाभावाच्च । ‘नेह नानाऽस्ति’ ‘तत्त्वमसी’त्याद्यागमस्य त्वन्मतेऽखण्डार्थ परत्वेनाबाधकत्वात् । उपजीव्यप्रत्यक्षविरोधेन यजमानः प्रस्तर इत्याद्यागमवद्गौणार्थतासम्भवात् ।

`भिन्ना जीवाः परो भिन्नस्तथाऽपि ज्ञानरूपतः ।

प्रोच्यन्ते ब्रह्मरूपेण वेदवादेषु सर्वशः’ ।

`तद्गुणसारत्वात् तद्व्यपदेश’ इति स्मृतिसूत्रयोर्गौणार्थताया उक्तत्वाच्चेत्यादिना न्यायामृते प्रत्यक्षप्रामाण्यमुपपादितमित्यर्थः । ननु प्रतियोगिप्रत्यक्षस्य व्यभिचारेणाहेतुत्वेऽभावप्रत्यक्षे किं प्रयोजकम् । इन्द्रियसम्बद्धविशेषणतादिकमेवेति चेन्न । पिशचाभावादेः प्रत्यक्षता

पातात् । न च योग्यप्रतियोगिकत्वं संसर्गाभावे तन्त्रम् । योग्याधिकरणत्वं चान्योन्याभावप्रत्यक्षे तेन न पिशाचाभावादेः प्रत्यक्षत्वम् । न वा स्तम्भे पिशाचान्योन्याभावस्याप्रत्यक्षत्वमिति वाच्यम् । घटे मनस्त्वात्यन्ताभावादेरप्रत्यक्षतापातात् । घटे परमाणु भेदादेः प्रत्यक्षतापातात् । किञ्च यत्किञ्चित्प्रतियोगियोग्यत्वं यावत्तद्योग्यत्वं वा तन्त्रम् । आद्ये मूर्तसामान्याभावप्रत्यक्षापातः । द्वितीये महति वायौ रूपसामान्याभावप्रत्यक्षापातः । एवमधिकरणयोग्यतायामपि विकल्पः । आद्य मूर्तसामान्ये पिशाचान्योन्याभावप्रत्यक्षप्रसङ्गः । द्वितीये महति वायौ रूपवदन्योन्याभावप्रत्यक्षापात इति चेत् । अत्रोदयनाचार्याः । प्रतियोगितद्व्याप्येतरयावत्प्रतियोग्युपलम्भकसमवधानं संसर्गाभावे योग्यता । तेन नातीन्द्रियान्योन्याभावाप्रत्यक्षापातः । न वा पिशाचाभावादेः प्रत्यक्षताप्रसङ्ग इति वदन्ति । तन्न । अन्योन्याभावप्रत्यक्षे योग्यतान्तरस्यानुक्तत्वेन तत्रेन्द्रियसम्बन्धविशेषणादेरेव हेतुत्वाङ्गीकारे गुरुत्ववदन्योन्याभावाप्रत्यक्षतापत्तेः । किञ्च यावत्तदुपलम्भकसमाधाने सम्भवति यावत्तदुपलम्भकतावच्छेदकं यत्तदवच्छिन्नसमवधानमपि तथा । भूतले घटाभावप्रत्यक्षस्थले यावद्धटोपलम्भकतावच्छेदकानां तत्तत्परामर्शत्वतत्तच्छब्दज्ञानत्वतत्तसंस्कारत्वादीनामाश्रयाणामभावात् । किञ्च प्रतियोगिव्याप्यत्वं कालिकेन दैशिकेन वा सम्बन्धेन । नाद्यः । घटसन्निकर्षस्य घटाव्याप्यतापातात् । घटनाशोत्तरं तन्नाशात् । कालिकेन नित्यव्याप्येतराप्रसिद्ध्या नित्यप्रतियोगिकसंसर्गाभावात्प्रत्यक्षतापाताच्च । न द्वितीयः । घटेन्द्रियसन्निकर्षस्यापि घटाव्याप्यत्वापत्त्या तत्समवधानाभावेन घटाभावस्याप्रत्यक्षतापत्तेः । प्रतियोगिमदसाधरणकारणं व्याप्यपदेन विवक्षितमिति चेन्न । आलोकादिव्यावृत्तासाधारण्यस्य दुर्वचत्वात् । किञ्च यावत्तदुपलम्भकसमवहिताभावत्वेन वा । अभावसमवहितयावत्तदुपलम्भकत्वेन वा हेतुत्वमित्वत्र विनिगमनाभावः । इन्द्रियादेरभावप्रत्यक्षहेतुतया योग्यतारूपकारणतावच्छेदककुक्षिनिक्षेपायोगात् । संयोगिनाशजन्यनाशाप्रत्यत्यक्षता च संयोगिनोस्तत्प्रक्षस्य वा संयोगाद्व्याप्यत्वेन संयोगोपलम्भकत्वेन समवधानाभावादिति दिक् । मणिकृतस्तु । प्रतियोगिसत्त्वप्रसञ्जन प्रसञ्जितप्रतियोग्युपलम्भकाभाववत्त्वं संसर्गाभावान्योन्याभावसाधारणी योग्यता । यत्राधिकरणे संयोगतादात्म्यादिसम्बन्धावच्छिन्नप्रतियोगिसत्त्वेनापादितेन तत्सम्बन्धेन प्रतियोग्युपलम्भो यस्याभावस्यापादायितुं शक्यते सोऽभावोऽत्राधिकरणे योग्य इत्यर्थः । प्रतियोगिसत्त्वं चाविनश्यदवस्थप्रतियोगिसत्त्वं तेन संयोगिनाशजन्यसंयोगनाशप्रत्यक्षोपपत्तिः । पिशाचान्योन्याभावतदत्यन्ताभावयोः प्रत्यक्षाप्रत्यक्षोपपत्तिश्चेति वदन्ति । तदपि न । तथा हि । प्रतियोगिसत्त्वस्य प्रतियोग्युपलम्भप्रसञ्जकत्वं तदुपहितत्वं तद्योग्यत्वं वा । नाद्यः । तर्करूपस्य तस्याभावप्रत्यक्षात्पूर्वं नियमेनाभावात् । न द्वितीयः । व्याप्यत्वातिरिक्तस्य तस्यानिरुक्तेः । अस्तु तदेव किं बाधकमिति चेत् । उच्यते । शुद्धं प्रतियोगिसत्त्वं व्याप्यविशेषितं वाऽभिमतम् । आद्ये पटाद्यभावप्रत्यक्षं न स्यात् । केवलसत्त्वस्योपलम्भाव्याप्यत्वात् । द्वितीये जलपरमाणौ पृथिवीत्वाभावाप्रत्यक्षापत्तेः । तत्रापि महत्त्वविशिष्टपृथिवीत्वस्योपलम्भव्याप्यत्वात् । न च धर्म्यवृत्तिविशेषणावच्छिन्नप्रतियोगिसत्त्वं व्याप्यं विवक्षितं महत्त्वादिकं च परमाण्ववृत्तीति नोक्तदोष इति वाच्यम् । इन्द्रियसन्निकर्षपार्थिवाणुभिन्नत्वादिसमवहितपृथिवीत्वसत्त्वस्य तथात्वेनोक्तदोषानिवृत्तेः । न च तत्राधिकरणे यत्प्रतियोग्युपलम्भकं तदतिरिक्तानवच्छिन्नं तत्तथा । पार्थिवाणुभिन्नत्वादेस्तदतिरिक्तत्वान्नोक्तदोष इति वाच्यम् । तत्राधिकरणे प्रतियोग्युपलम्भातिरिक्तानवच्छिन्नंशुद्धं प्रतियोगिसत्त्वं तु न तथेति यावत्प्रतियोग्युपलम्भकावच्छिन्नं व्याप्यं

वाच्यम् । तत्रापि यत्किञ्चित्प्रतियोग्युपलम्भकावच्छिन्नं न तथेति यावत्प्रतियोग्युपलम्भकावच्छिन्नतया वाच्यम् । एवञ्च प्राप्ताप्राप्तविवेकेन यावत्प्रतियोग्युपलम्भकसमवाधानमेव योग्यतेत्युक्तं स्यात् । स च प्राचीनैर्योग्यताऽत्र च दोषाणामुक्तत्वात् । किञ्चापाद्योपलम्भो लौकिकोऽलौकिको वा । नाद्यः । स्तम्भे पिशाचान्योन्याभावाप्रत्यक्षतापातात् । तत्र तादृशोपलम्भासिद्धेः । न द्वितीयः । तादात्म्येन पिशाचसत्त्वस्यालौकिकोपलभ्भाव्याप्यत्वात् । न द्वितीयः । तादात्म्येन पिशाचसत्त्वस्य लौकिकोपालम्भाव्याप्यत्वात् । न चालौकिकोपालम्भकसमवहितं तत्सत्त्वं तथेति वाच्यम् । पिशाचात्यन्ताभावप्रत्यक्षापत्तेरिति दिक् । तस्मादिन्द्रियसन्निकर्षाद्यविशेषे कश्चिदेवाभावः कस्यचित् प्रत्यक्ष इत्यत्र नियामकं दुर्वचनीयमितीश्वरान्योन्याभावप्रत्यक्षे का प्रत्याशेति चेत् । उच्यते । अनुगतनियामकमभावेषु नास्त्येव । किन्तु भावेष्विव तत्तदभावप्रत्यक्षे भिन्नभिन्नैव सामग्री नियामिका । गुरुत्वादिवत् केषाञ्चिदभावानां स्वरूपेण प्रत्यक्षायोग्यत्वादेवाप्रत्यक्षत्वम् । सामग्री चान्वयव्यतिरेकाभ्यां यथायथमुन्नेया । स्तम्भः पिशाचो नेति वन्नाहं सर्वज्ञ इत्यनुभावान्नेश्वरान्योन्याभावस्याप्रत्यक्षत्वसम्भावना । इतरथा घटान्योप्याभावप्रत्यक्षत्वेऽपि का प्रत्याशेति सर्वं सुस्थम् ।

(१३)भेदसञ्जीविनी

॥ न चास्येति ॥ इदानीमहं न शिखीति प्रतीतेरिवानुयोगिनः सप्तम्यन्तपदेनानुपादानेऽपि प्रतियोगिन आश्रयांशे भानेन प्रतियोगितया प्रथमान्तपदेनानुपादानेऽपि तत्संसर्गाभावविषयकत्वसम्भवात् । न च दृष्टान्ते विवादः । भेदस्य व्याप्यवृत्तितया शिखिभेदस्य तत्र भानायोगादित्याशयः ॥ तादात्म्यमिति ॥ सामानाधिकरण्येन समानविभक्तिकपदेनोल्लेखबलेन । निषेधान् निषेधानुभवात् । तृतीयान्तमत्रैव हेतुः । तादात्म्याभाव एव हि भेदः । दृष्टान्ते त्वगत्या तत्र तादृशव्यवहारस्य पारिभाषिकत्वं वा यथाकथञ्चिदत्यन्ताभावबोधकत्वं वा भेद(स्य )व्याप्यवृत्तित्वं स्वीकृत्य तद्बाधकत्वं वाऽभ्युपगम्यत इति भावः । ननु सर्वमपि प्रत्यक्षं श्रुतिविरोधादप्रमाणमेवेति न साधकम् । ईश्वरप्रत्यक्षस्यापि विक्षेपशक्तिमन्मायारूपदोषमूलकत्वादित्यत आह — प्रत्यक्षप्रामाण्यमिति ॥ प्रत्यक्षस्य श्रुतिं प्रत्युपजीव्यत्वनिरवकाशत्वस्वभावप्राबल्यादिभिस्तत्प्रामाण्यं सुदृढतया न्यायामृते उपपादितमित्यर्थः ।

(१३)काशीतिम्मण्णाचार्य

स्यादेवमुक्तभेदस्य प्रत्यक्षत्वं, यदि नाहं निर्दुःख इत्यादि प्रत्यक्षं भेदविषयं स्यात्, न त्वेवमित्याशङ्कते — नन्विति ॥ प्रतियोगितयोपादानादिति ॥ अभावांशे प्रतियोगितासंसर्गेण विशेषणत्वादित्यर्थः । अस्य नाहं निर्दुःख इत्यादिप्रत्यक्षस्य ॥ धर्मिप्रतियागिनो

रिति ॥ ‘नाहं निर्दुःख’ इति वाक्येनेत्यादिः । धर्मिणि जीवे प्रतियोगिन ईश्वरस्य तादात्म्यं धर्मिप्रतियोगिपदयोः समानविभक्तिकत्वेनारोप्य । तादृशतादात्म्यारोपजनकसमानविभक्तिकधर्मिप्रतियोगिपदे समुल्लिख्येति यावत् । तस्य तादात्म्यस्यैव निषेधाद् अभावबोधनादित्यर्थः ।

अयमाशयः । यादृशशब्दाद्यादृशार्थस्य बोधस्तादृशशब्दोल्लिखितप्रतीतौ तादृशार्थ एव भासते । नञसमभिव्याहारे यत्र यादृशधर्मः प्रतीयते नञ्समभिव्याहारे तत्र तदभावो बुध्यते । तथाच मयि निर्दुःखत्वमस्तीत्यादौ धर्मिणि निर्दुःखत्वभानात्तदभावस्यैव निर्दुःखत्वं नास्तीत्यादौ भानसम्भवः । न च मयि निर्दुःखत्वमस्तीत्यादिशब्दान्निर्दुःखत्वादौ धर्मिनिरूपितास्तित्वस्यैव बोधात् कथमुक्तप्रतीतौ धर्मिणि निर्दुःखत्वभानमिति वाच्यम् । निर्दुःखत्वे धर्मिनिरूपितास्तित्वभाने धर्मिणि निर्दुःखत्वभानस्याप्यनुभवसिद्धत्वात् ।

एवमहं निर्दुःख इत्यादौ धर्मिणि निर्दुःखतादात्म्यभानात् तदभावस्यैव नाहं निर्दुःख इत्यादौ भानमित्युक्तान्योन्याभावस्य प्रत्यक्षत्वमावश्यकम् । तादात्म्यनिषेधस्यैवान्योन्याभावत्वात् । न च निर्दुःखतादात्म्यस्य निर्दुःखत्वरूपतया तदत्यन्ताभाव एवायमिति वाच्यम् । तादात्म्यत्वेन तादात्म्यनिषेधस्यान्योन्याभावत्वात् । एवं नाहं निर्दुःख इत्यादौ निर्दुःखप्रतियोगिकत्वेन भासमानभेदे तत्तादात्म्यप्रतियोगिकत्वमपि

भासते । निर्दुःखत्वं नास्तीत्यादौ तु न तथेति नैकविषयत्वमिति ध्येयम् ।

नन्वस्तु जीवेश्वरभेदप्रत्यक्षम् । किं त्वप्रमाणमेव । दर्शितप्रमाणबाधितत्वादित्यत आह — प्रत्यक्षप्रामाण्यमिति ॥ सुदृढमुपपादितं मानान्तराबाध्यत्वेनोपपादितं न्यायामृतादौ । अन्यथा वह्निरनुष्णः कृतकत्वादित्यादौ बाधोच्छेदापत्तेरिति भावः । अस्यार्थस्य पूर्वाचार्यैरेवोक्तत्वादुक्तमित्यनुक्त्वोपपादितमित्युक्तम् । जीवेशाभेदप्रत्यक्षं तु नास्त्येवेति वक्ष्यते । यद्वा, प्रकृतस्य जीवेश्वरभेदप्रत्यक्षस्यैव प्रामाण्यं सुदृढमव्यभिचार्युपपादितम् । अस्य साक्षिप्रत्यक्षत्वात् साक्षिणश्च नियतप्रामाण्यकत्वादिति भावः ।

(१३)शर्कराश्रीनिवासाचार्य

यदुक्तमीशप्रतियोगिको जीवधर्मिको भेदो जीवस्य प्रत्यक्ष इति तन्न । तस्य तादृशप्रत्यक्षाभावात् । नच नाहं सर्वज्ञो न निर्दुःख इति प्रत्यक्षमेवेशभेदावगाहीति वाच्यम् । तस्य जीवे निर्दुःखत्वात्यन्ताभावविषयकत्वेन निर्दुःखेशान्योन्याभावविषयकत्वाभावादिति शङ्कते — नन्विति ॥ यद्युक्तप्रत्यक्षस्य निर्दुःखत्वात्यन्ताभावविषयकत्वं स्यात् तर्हि मयि निर्दुःखत्वमिति निर्दुःखत्वं प्रतियोगित्वेनापाद्य तन्निषेधः क्रियेत । नचैवम् । किन्त्वहं निर्दुःख इत्यस्मच्छब्दवाच्यजीवस्य निर्दुःखशब्दावाच्येनेशेनैक्यं प्रतियोगित्वेनापाद्य नेति निषिध्यते । तादात्म्यनिषेधरूपश्चान्योन्याभाव एव । अत ईशप्रतियोगिकान्योन्याभावविषयकत्वमेवास्येति ॥ परिहरति ॥ मयीति ॥ अस्य नाहं निर्दुःख इति प्रत्यक्षस्य ॥ धर्मिप्रतियोगिनोरिति ॥ धर्मी अस्मच्छब्दवाच्यो जीवः । प्रतियोगी निर्दुःखशब्दाभिधेय ईशः । तादात्म्यप्रसञ्जनज्ञापकमुक्तम् ॥ सामानाधिकरण्येनेति ॥ अत्र सामानाधिकरण्यमेकविभक्त्यन्तत्वम् । तथाच शुक्लः पट इत्यादिवदहं निर्दुःख इत्यनयोरपि प्रथमान्तत्वेन तादात्म्यप्रतिपादकत्वमिति भावः । ननु नीलं नभ इति नभोनैल्यग्राहिप्रत्यक्षस्य नभो नीरूपं विभुत्वादात्मवदित्यनुमानविरुद्धत्वेन प्रादेशपरिमितश्चन्द्रमा इति चन्द्रप्रादेशपरिमितत्वावगाहिप्रत्यक्षस्य

`अष्टाशीतिसहस्त्राणि विस्तीर्णो योजनानि तु ।

प्रमाणं तत्र विज्ञेयं कलाः पञ्चदशैव तु ।’

इत्याद्यागमबाधितत्वेन यथाऽप्रामाण्यं तथा जीवेशभेदग्राहिप्रत्यक्षस्य विमता आत्मानः परमात्मनस्तत्वतो न भिद्यन्ते आत्मत्वात् परमात्मवदित्यनुमानबाधितत्वेन नेहनानेत्यागमबाधितत्वेन चाप्रामाण्यमित्यत आह — प्रत्यक्षप्रामाण्यमिति ॥ प्रत्यक्षस्यानुमानागमाबाध्यत्वं कुत्रापि न दृष्टम् । नभोनैल्यचन्द्रप्रादेशत्वावगाहिप्रत्यक्षं तु दूरस्थत्वादिदोषयुक्तत्वादपट्वेवोत्पन्नम् । अनन्तरं प्रवृत्तावनुमानागमौ तेन दत्तावकाशौ तद्बाधकाविवोच्येते । नच भेदावगाहिप्रत्यक्षस्यापटुत्वे मानमस्ति येनोक्तरीत्याऽप्रामाण्यमित्यन्यत्र न्यायामृते समर्थितमित्यर्थः ॥