१२ (१२) भेदोज्जीवनम्

अत्रायं परिहारः

(१२)भेदोज्जीवनम्

(१२) अत्रायं परिहारः ॥ यत्तावदुक्तं प्रत्यक्षं न जीवेश्वरयोर्भेदे प्रमाणमिति तत्र ब्रूमः । ईश्वरधर्मिको जीवप्रतियोगिको भेद ईश्वरस्य प्रत्यक्षः । ( ईश्वरस्य) तस्य तादृशप्रत्यक्षसद्भावे ` उत्तमः पुरुषस्त्वन्य’ इति तद्वचनं प्रमाणम् । ईश्वरस्य जीवाध्यक्षीकरणक्षमत्वान्न (जीवाध्यक्षीकरणे क्षमत्वान्न) चोद्यावकाशः । ईश्वरप्रतियोगिको जीवाधिकरणकस्तु (जीवधर्मिको भेदो) जीवस्य प्रत्यक्षः । सप्रतियोगिकपदार्थप्रत्यक्षे न प्रतियोगिप्रत्यक्षं प्रयोजकम् (तन्त्रम्) । इयं गौर्गवयसदृशी, इह स पटो नास्ति (इह घटो नास्ति), स्तम्भः पिशाचो नेत्यादौ व्यभिचारात् । एतेनाभावप्रत्यक्षयोग्यतायाः (अन्योन्याभावप्रत्यक्षयोग्यतायाः) प्रतियोगिप्रत्यक्षयोग्यताधीनत्वादयोग्येश्वरप्रतियोगिकान्योन्याभावस्य कथं प्रत्यक्षयोग्यतेति निरस्तम् । स्तम्भः पिशाचो न भवतीत्यादौ व्यभिचारात् (स्तम्भः पिशाचो न भवति इत्यनुभवात्)। अन्योन्याभावविषयत्वाच्च तस्याः (अन्योन्याभावविषयत्वात्तस्य) । एवं यज्ञदत्तप्रतियोगिको विष्णुमित्रधर्मिको भेदो विष्णुमित्रस्य, विष्णुमित्रप्रतियोगिको देवदत्तधर्मिको भेदो देवदत्तस्य प्रत्यक्ष इत्याद्यूह्यम् ।

(१२)भावप्रदीपः

एवं प्राप्तं पूर्वपक्षं प्रतिषेद्धुमुपक्रमते — अत्रायमिति ॥ भेदप्रमाणविषये दूषणोद्धाररूपपरिहारोऽभेदप्रमाणविषये दूषणरूपपरिहारश्चायं वक्ष्यमाणो द्रष्टव्य इत्यर्थः ॥ तत्र ब्रूम इति॥ ईश्वरधर्मिकस्येश्वरप्रतियोगिकस्य वा भेदस्येश्वराप्रत्यक्षत्वेनाप्रत्यक्षत्वादिति यद्दूषणमुक्तं तत्रोत्तरं ब्रूम इत्यर्थः ॥ ईश्वरस्य प्रत्यक्ष इति ॥ ईश्वरप्रत्यक्षस्यास्माद्यप्रत्यक्षत्वेऽपि स्वं प्रति प्रत्यक्षत्वादिति भावः । नन्वीश्वरस्य तादृशप्रत्यक्षसद्भाव एव कुतः । परबुद्धेरप्रत्यक्षत्वादित्यत आह — तस्येति ॥ `यस्मात्क्षरमतीतोऽह’मित्युत्तरवाक्यमप्यत्रोदाहर्तव्यम् । तेन जीवादहमन्य इतीश्वरप्रत्यक्षसिद्धिः । नन्वीश्वरस्य धर्मिभूतस्वप्रत्यक्षसद्भावेऽपि प्रतियोगिभूतजीवप्रत्यक्षाभावात्कथं तत्प्रतियोगिकस्वधर्मिकभेदप्रत्यक्षमित्यत आह — ईश्वरस्येति ॥ अन्यथा तस्य सार्वज्ञासिद्धेरिति भावः । यद्यपि वक्ष्यमाणरीत्या भेदप्रत्यक्षे धर्मिमात्रप्रत्यक्षं तन्त्रं न प्रतियोगिप्रत्यक्षमपि । तथाऽपि तुष्यत्विति न्यायेनाभ्युपेत्योक्तिरियम् ॥ जीवधर्मिक इति ॥ भेद इति वर्तते ॥ जीवस्येति ॥ प्रत्यक्ष इति वर्तते । ननु जीवस्येश्वरप्रत्यक्षाभावत्कथं तत्प्रतियागिकस्वधर्मिकभेदः प्रत्यक्ष इत्यत आह — सप्रतियोगिकेति ॥ अयं भावः । लोके सप्रतियोगिकाः पदार्थाः सादृश्यसंयोगादयो बहवस्सन्ति । तत्र संयोगप्रत्यक्षे प्रतियोगिप्रत्यक्षस्यावश्यकत्वेन सादृश्यादिप्रत्यक्षे तदावश्यकता नास्ति । तथा हि । इयं गौर्गवयसदृशीति तावत्सादृश्यप्रत्यक्षं जायते । न तत्र प्रतियोगिप्रत्यक्षमस्ति । वने प्राग्दृष्टस्य गवयस्य तदा व्यवहितत्वेन स्मृतिमात्रेणोपयोगितया प्रत्यक्षाभावात् । एवमिह न घटोऽस्तीति घटाभावप्रत्यक्षं जायते । न च तत्र प्रतियोगिभूतघटप्रत्यक्षमस्ति । तथा स्तम्भः पिशाचो नेति स्तम्भे पिशाचप्रतियोगिकभेदः प्रतीयते । न च तत्र पिशाचप्रत्यक्षमस्ति । किन्तु तद्विषयकपरोक्षज्ञानेनैव । अत एवं व्यभिचारदर्शनान्नेश्वरप्रतियोगिकभेदप्रत्यक्षे ईश्वरप्रत्यक्षं तन्त्रं किन्तु तज्ज्ञानमात्रम् । तत्तु `यः सर्वज्ञः स’ इत्याद्यागमेन सिध्यतीति । क्वचित्त्विह न स पट इति पाठः । अत एव पटस्याप्रत्यक्षत्वस्फोरणाय स इति प्रयोग इत्याहुः । एवं गवयसदृशीत्यत्रापि तद्गवयसदृशीति बोध्यमित्यप्याहुः । अत्र यद्यपि स्तम्भः पिशाचो नेत्येकत्रैव व्यभिचारोद्भावनमुपयुक्तम् । भेदप्रत्यक्षमात्रे प्रतियोगिप्रत्यक्षस्य तन्त्रत्वेन शङ्कितत्वात् । नान्यत्र सादृश्यादिविषये प्रतियोगिप्रत्यक्षस्य तन्त्रत्वेनानाशङ्कितत्वात् । तथाऽपि शिष्यव्युत्पादनार्थं वा दृष्टान्तत्वेन वा तदुद्भावनमिति ज्ञातव्यम् । नन्वभावप्रत्यक्षे प्रतियोगिप्रत्यक्षमेव तन्त्रमिति न ब्रूमः । येनेह न घट इत्यादौ व्यभिचारः स्यात् । किन्तु प्रतियोगिनः प्रत्यक्षयोग्यतामात्रम् । न च नेह घट इत्यादौ घटस्य तदानीं प्रत्यक्षत्वाभाववत्प्रत्यक्षयोग्यताऽपि नास्ति । प्रकृते चेश्वरप्रतियोगिकान्योन्याभावरूपभेदस्य प्रत्यक्षत्वाङ्गीकारे प्रतियोगिभूतेश्वरस्य प्रत्यक्षयोग्यत्वमङ्गीकार्यम् । न च तदस्ति । अतः कथं प्रत्यक्षायोग्येश्वरप्रतियोगिकभेदस्य प्रत्यक्षत्वं सम्भवेदित्याशङ्कामतिदेशेन निरस्यति — एतेनेति ॥ प्रतियोगिप्रत्यक्षयोग्यताधीनत्वादिति ॥ प्रतियोगिप्रत्यक्षयोग्यताधीनत्वादित्यर्थः ॥ अयोग्येश्वरेति ॥ प्रत्यक्षायोग्येश्वरेत्यर्थः ॥ कथं योग्यतेति ॥ प्रत्यक्षयोग्यतेत्यर्थः । एतेनेत्युक्तमेव विशदयति — स्तम्भः पिशाचो नेति ॥ न हि पिशाचस्य घटादिवत्प्रत्यक्षयोग्यताऽस्तीति भावः । ननु नायमनुभवोऽभावविषयकः किन्तु पिशाचप्रतियोगिकभेदविषय एव । अतः कथमत्र तदुदाहरणामिति मन्दाशङ्कां निराह — अन्योन्याभावेति ॥ अन्योन्याभाव एव हि भेदो

नाम । अतः कथमयमनुभवोऽभावविषयो न भवेदिति भावः । एवमुभयविधजीवेश्वरभेदस्य प्रत्यक्षसिद्धत्वमुपपाद्येदानीं परस्परजीव भेदोऽपि प्रत्यक्षसिद्धो मन्तव्य इत्याह — एवमिति ॥ चेष्टालिङ्गेन परदेहस्य सात्मत्वे साधिते तद्विरुद्धचेष्टावतो विष्णुमित्रस्य नाहं देवदत्त इत्यनुभवसद्भावादिति भावः ।

(१२)भेदचिन्तारत्नं

सिद्धान्तयति — अत्रेति ॥ तद्वचनं प्रमाणमितीश्वरावतारेण कृष्णेनोत्तमः पुरुषस्त्वन्य इत्युत्तमत्वमुक्त्वा ‘यस्मात्क्षरमतीतोऽहमि’त्युक्तत्वात्स्वभेदः स्वस्य प्रत्यक्ष इति भावः । न च वाच्यं तस्यापि भेदः श्रुतोऽनुमितो वा कि स्यादिति । धर्मिप्रत्यक्षतादिप्रत्यक्षसामग्र्_या बलवत्याऽनुमित्यादिप्रतिबन्धात् । वस्तुतस्त्वीश्वरस्य परोक्षज्ञानमेव नास्तीति तत्त्वविदः ॥ न चोद्येति ॥ प्रतियोगिप्रत्यक्षाभावात्कथं प्रत्यक्षमिति चोद्येत्यर्थः । यद्यपि प्रतियोगिप्रत्यक्षं न तन्त्रमित्यनुपदमेव वक्ष्यति । तथाऽप्यङ्गीकारवादोऽयमित्यदोषः । किञ्च भेदो योगिनामपि प्रत्यक्षो `जुष्टं यदा पश्यत्यन्यमीशमस्य महिमान’मिति वचनात् । यद्यपीश्वरादिप्रत्यक्षं भेदमात्रे प्रमाणीकर्तुं शक्यते । तथाऽप्युक्तभेदस्यास्मदाद्यप्रत्यक्षत्वज्ञापनायैवमुक्तिः ॥ जीवस्येति ॥ तत्तज्जीवस्येत्यर्थः । नाहमीश्वरो न निर्दुःख इत्याद्यनुभवादित्यर्थः । ईश्वरवज्जीवस्य प्रतियोगिप्रत्यक्षाभावात्कथमित्यत आह — सप्रतियोगिकेति ॥ गवयेति ॥ तस्य तत्कालाप्रत्यक्षत्वादिति भावः । गवयप्रतियोगिकसादृश्यस्य भावत्वात्तदुपपत्तावप्यभावस्य नोपपद्यत इत्यत आह — इहेति ॥ नन्वन्योन्याभावस्यैवायं नियमः । किञ्च गवयादेस्तत्कालाप्रत्यक्षत्वेऽपि तद्योग्यतैव तन्त्रम् । ईश्वरे तु साऽपि नास्तीत्यत आह — स्तम्भ इति ॥ नन्वेवं वाय्वाकाशसंयोगस्याप्रत्यक्षत्वेऽपि वायुघटसंयोगस्य प्रत्यक्षत्वं स्यात् । वायुनिरूपितस्य घटधर्मिकस्य तस्य प्रत्यक्षयोग्यधर्मिकत्वात् । न ह्यस्माकं मते द्वयोरपि धर्मित्वमङ्गीकृतम् । `भिन्नाश्च भिन्नधर्माश्च पदार्था निखिला अपी’ति वचनादिति चेत् । सत्यम् । संयोगो ह्यन्यप्रतियोगिकोऽन्यधर्मिकोऽपि पदार्थद्वयसत्ताधीनसत्ताकः । अन्यतरनाशे संयोगनाशात् । सादृश्यादिकं नैवम् । नष्टेनापि गवयेन सदृशी गौरिति प्रतीतेः । किन्तु धर्मिसत्तामात्रसापेक्षसत्ताकम् । एवञ्च संयोगस्य धर्मिप्रतियोगिद्वयसत्तासापेक्षसत्ताकत्वात्तद्वयप्रत्यक्षस्यापि तद्वयप्रत्यक्षाधीनत्वम् । सादृश्यादिप्रत्यक्षं धर्मिमात्रप्रत्यक्षाधीनमिति न तत्प्रतिबन्दी ॥ एतेनेति ॥ पिशाचान्योन्याभावे व्यभिचारेणेत्यर्थः ॥ अभावप्रत्यक्षयोग्यताया इति ॥ भेदस्यान्योन्याभावरूपत्वादिति भावः । अनेनेयंशङ्का निरस्ता । तथाहि । न तावत्पृथक्त्वं विभागोऽनेकत्वं वैलक्षण्यं वा भेदः । तेषां भावत्वाच्च भेदस्य घटः पटो नेत्यादिनिषेधधीवेद्यत्वात् । नाप्यन्योन्याभावस्तादात्म्यप्रतियोगिकाभावत्वं वा तादात्म्यावच्छिन्नप्रतियोगिताकाभावत्वं वा संसर्गानवच्छिन्नप्रतियोगिताकाभावत्वं वा । नाद्यः । तादृशतादात्म्यात्यन्ताभावेऽतिव्याप्तिः । घटः पटो नेत्यत्र पटस्यैव निषेधविशेषत्वेन प्रतियोगित्वधीविरोधाच्च । समानन्यायेन संसर्गाभावेऽपि संसर्गस्यैव प्रतियोगित्वापत्तेः । न द्वितीयः । तदात्मना नास्तीति बोध्यमानात्यन्ताभावेऽतिव्याप्तेः । पटो न भवतीत्यत्र प्रतियोगिशरीरे पटपटत्वातिरिक्ततादात्म्यानुल्लेखाच्च । प्रतियोगिवृत्त्युल्लेख्यमानस्यैव प्रतियोगितावच्छेदकत्वात् । घटतादात्म्यस्य पटावृत्तित्वेन तस्यावच्छेदकत्वानुपपत्तेश्च । न्यायसाम्येन संसर्गाभावेऽपि संसर्गस्यैवावच्छेदकत्वप्राप्त्या घटत्वादेरनवच्छेदकतापाताच्च । न तृतीयः । घटः संसृष्टः पटो न भवतीति बोध्यमानान्योन्याभावेऽव्याप्तेः । उक्तन्यायेन संसर्गाभावेऽपि संसर्गस्यानवच्छेदकत्वेनातिव्याप्तेः । नापि तत्र प्रमाणम् । घटः परो नेत्यादिप्रतीतेर्लाघवात्सविशेषणे हीति न्यायानुग्रहाच्च । घटे पटत्वस्य योऽत्यन्ताभावस्तेनैव चारितार्थ्यमिति तद्भेदशून्यस्यापि तन्निष्ठधर्मात्यन्ताभावाधिकरणत्वं धर्माणां स्वात्यन्ताभावसामानाधिकरण्यवादिनामनिष्टम् । अपि च पटान्योन्याभावस्य पटः पटत्वं तादात्म्यं वा प्रतियोगि । नाद्यः । तस्य पटसामानाधिकरण्याविरोधात् । विरोधित्वस्यैव प्रतियोगिशब्दार्थत्वात् । यत्किञ्चित्सम्बन्धमात्रेण प्रतियोगित्वेऽधिकरणादेरपि तथात्वप्राप्तेः । न द्वितीयतृतीयौ । पटस्यैव निषेध्यत्वप्रतीतेरित्युक्तदोषानिस्तारादिति ॥ अत्र चकास्ति । अन्योन्याभावो हि भेदः । तत्त्वं तादात्म्यारोप्यसम्बन्धकाभावत्वम् । संसर्गारोप्यकश्च संसर्गाभावः । तादात्म्येन नास्तीत्यत्र तादात्म्यस्याव्छेदकत्वेऽपि नारोप्यसम्बन्धता संसर्गस्यैव । एवं संसृष्टो न भवतीत्यत्रापि वैपरीत्यमूह्यम् । तादात्म्यं च न प्रतियोगि नापि तत्रावच्छेदकं संसर्गान्योन्याभावयोश्चारोप्यसम्बन्धभेदाद्भेदः । अन्योन्याभावस्य प्रतियोगितावच्छेदकेनैव विरोधो न प्रतियोगिना । प्रतियोगित्वं चान्योन्याभावासमानाधिकरणधर्माधिकरणत्वमिति नातिप्रसङ्गः । यद्वाऽऽरोप्यभूततादात्म्यसम्बन्धेन प्रतियोगी न वर्तते तदन्योन्याभाव एव भेद इत्यस्त्येव प्रतियोगिना विरोधः । तादात्म्यं वा पटादेर्धर्मः संसर्गतुल्ययोगक्षेमः । तदुल्लेखश्च घटः पटो न भवतीत्यत्र पदद्वयसामानाधिकरण्येन व्युत्यत्तिवशात्संसर्गाभावेऽपि संसर्गस्य संसर्गत्वेनाभानेऽपि संसर्गमर्यादया भानमात्रेणैवात्रापि तादात्म्येनाभानेऽप्यारोप्यसम्बन्धत्वोपपत्तेः । नापि तत्र प्रमाणाभावः । घटे पटत्वं नास्तीति बोध्यमानस्य पटत्वत्वावच्छिन्नपटत्वसंसर्गारोप्यकत्वेन घटः पटो न भवतीति बोध्यमानस्य पटत्वावच्छिन्नपटतादात्म्यारोप्यकत्वेन प्रतियोग्यवच्छेदकारोप्यकाणां त्रयाणां भेदो नास्य तेनैव चारितार्थ्यात् । अङ्गीकृतश्चैकैकभेदेन घटाभावात्पटाभावस्य द्रवत्वावच्छिन्नघटाभावाद्धटत्वावच्छिन्नाभावस्य च भेदो न स्यादित्यलम् ।

यदत्र वल्गितमाधुनिकेन भेदप्रत्यक्षे बाधकम् ।

`न प्रमाणं मनोऽस्माकमयोग्यानुपलब्धिगम् ।

औपाधिकस्थो भेदोऽयं नाध्यक्षमतिगोचरम् । प्रमाणसहकारित्वाद्विषयस्याप्यभावतः ।

अप्रमाणं मनोऽस्माकं प्रमादेराश्रयत्वतः’

इत्यादिना । तस्यायं निष्कर्षः । मनो नैवमतत्वेऽपि नेश्वरभेदग्राहि । तथात्वेऽपि भेदो नासौ शुद्धचैतन्यगत इति । तत्तुच्छम् । मनसोऽप्रामाण्ये आत्माद्यसिद्धिप्रसङ्गात् । तस्य साक्षिवेद्यत्वे तद्भेदोऽपि तथैवेति किं मनःप्रामाण्यनिरासविस्तरेण । कुतश्च तदप्रामाण्यं प्रमाणसहकारित्वात् कालवदिति चेन्न । उपनीतप्रत्यक्षसहकार्युपनायके वाक्यसहकार्युपक्रमादिलिङ्गे च व्यभिचारात् । यावत्प्रमाणसहकारित्वादिति वाच्यम् । साक्षिणं स्वं प्रत्यन्यथात्वेनासिद्धेः । न च यावद्बाह्यप्रमाणसहकारित्वादिति वाच्यम् । त्वदीयसाक्षिणि व्यभिचारात् । किञ्चाप्रसिद्धोऽयं हेतुः । अनिन्द्रियत्वं चोपाधिः । यच्चोक्तं मनसः क्वचिज्ज्ञानकारणत्वे लाघवाद्रूपादिज्ञाने तस्य कारणत्वापत्त्या चक्षुरादेरालोकवत् सहकारिमात्रतापत्त्या तत्प्रामाण्यं न स्यादिति । तन्न । प्रत्यक्षत्वव्याप्ययत्किञ्चिद्धर्मावच्छिन्नकार्यतानिरूपितकारणतावच्छेदकजातिमत्त्वरूपातिशयस्य चक्षुरादावेव सत्त्वेन तस्यैव कारणत्वौचित्यात् । आलोकादेरपि चाक्षुषज्ञानं प्रत्यकारणत्वेन तदयोगात् । उक्तातिशयाभावेऽपि कारणत्वव्यवहारमात्रापादने शब्दकलह एवेत्युपेक्षणीयम् । यच्चाभाणि ।

`संयोगादेरयुक्तत्वात्तदन्यस्याप्रसिद्धितः ।

सन्निकर्षस्य तेनेदं भेदसंज्ञेव मान'

मित्यादिना मनोभेदयोर्न सान्निकर्ष इति । नैतज्ज्यायः । साक्षिणैव भेदग्रहणेनोभयोरात्मस्वरूपत्वेन तादात्म्यस्यैव सन्निकर्षत्वात् । तादात्म्यं च न प्रत्यासत्तिमपेक्षत इति तदुक्तेश्च । माऽस्तु तादात्म्यसन्निकर्षः । आत्मनि साक्षिणा सुखाभावग्रहणे यो विशेषणतादिः सन्निकर्षस्तदेव तादात्म्याभावरूपभेदग्रहेऽप्यस्तु । अस्तु वा मनसैव भेदग्रहस्तत्र संयुक्तविशेषणतादिः सन्निकर्षः । यदुक्तं विशेषणतादेः प्रत्यासत्तित्वे मानाभावादिति । तन्न घटादिग्रहे संयोगादेरिवान्वयव्यतिरेकाभ्यां तथात्वसिद्धेः । यच्चात्र प्रलपितम् । योग्यानुपलब्धिरूपसहकार्यभावान्न प्रत्यक्षस्येश्वरान्योन्याभावग्राहकत्वमिति । तदसारम् । योग्यानुपलब्धेर्हेतुत्वेऽतीन्द्रियार्थोल्लेखविकल्पानां सामान्याभावप्रमाभावापत्तेः । परमाण्वाद्यनुपलब्धेर्योग्यानुपलब्धित्वाभावात् । तस्मादनुपलब्धिमात्रं हेतुः । प्रतियोग्यनुपलम्भेऽप्यधिकरणस्य प्रतियोग्याधारत्वयोग्यताज्ञानस्य प्रतिबन्धकत्वान्नातिप्रसङ्गः । संसर्गाभावग्रहे तथात्वेऽप्यन्योन्याभावग्रहेऽप्यनुपलब्धिमात्रस्यैव हेतुत्वान्न दोषः । अन्यथा स्तम्भः पिशाचो नेत्यनुमितिर्नेति चेन्न । प्रत्यक्षे धर्मिणि संसर्गरूपारोप्यसम्बन्धेन वस्तुसत्त्वेऽप्ययोग्यतया क्वचिदनुपलब्धिवृत्तितादात्म्यारोपसम्बन्धकस्थले धर्मिणस्तदात्मना क्वचिदनुपलम्भाभावेनात्र योग्यताविशेषणस्य वैय्यर्थ्यात् । घटादिप्रत्यक्षे तदात्मनः स्वस्यैव पुनरप्रत्यक्षतादर्शनात् । न च वाच्यं पर्वतस्य प्रत्यक्षत्वेऽपि तदात्मनो वह्विमतो योग्यतया प्रत्यक्षानुपलब्धिर्दृश्यत इति । पर्वतवह्विमतोर्जीवेश्वरवदत्यन्तभेदानङ्गीकारात् । न च रामग्रहे कृष्णग्रहो दृश्यत इति वाच्यम् । नेन्द्रियाणि नानुमानम् । शुक्लमत्पक्षस्यैवेश्वरग्रहे पटुत्वावधारणात् । रामकृष्णयोस्तादात्म्यग्रहप्रतिबन्धकविशेषस्य सत्त्वात् । जाम्बुवत्कर्तृकप्रत्यक्षं तूत्तेजकसमवधानान्न तत्प्रतिबन्धः । न चैवं निर्विशेषितचैतन्यवादिनः परस्यातो लाघवादनुपलब्धिकत्वमेवावच्छेदकम् । संसर्गाभावे त्वतिप्रसङ्गाद्योग्यताप्रवेश इति ॥ अस्तु वा तत्प्रवेशः । तत्र योग्यस्यानुपलब्धिरित्यर्थः । परमाणौ पृथिवीत्वाभावस्य प्रत्यक्षतापत्तेः । न चाधिकरणयोग्यताऽपि हेतुरिति वाच्यम् । गौरवात् । किं स्वप्रतियोगिसन्निकर्षेतरयावदुपलम्भयोग्यतासामग्रीसमानकालीनत्वमनुपलब्धियोग्यत्वम् । उपलम्भनयोग्यत्वं चातर्कितप्रतियोगिसत्त्वप्रसञ्जितोपलम्भतात्वम् । अत्र यदि जीव एवेश्वरो जीवग्राहि मन इश्वरतयैव गृह्णीयादिति तर्कितोपलम्भताकमनः समानकालीनैवोपलब्धिरिति । यद्वा प्रतियोगिसत्त्वविरोधित्वमनुपलब्धियोग्यत्वम् । विरोधित्वं यदि प्रतियोगी स्यात् तर्हि स्वयं न स्यादित्यापादनीयाभावप्रतियोगित्वम् । यच्चोक्तमसतः प्रतियोगिसत्त्वस्य कथमापादकत्वमिति । तन्मन्दम् । तर्कमात्रेऽपि तथात्वात् । यच्चोक्तमसत आपादकत्वमर्थमहिम्नोत तद्व्याप्त्यादिज्ञानमहिम्ना । नाद्यः । असतः शक्तिमात्रविकलत्वात् । द्वितीये प्रतियोगी न तत्रानुपलब्धिरिति व्यतिरेकज्ञानपूर्वकत्वनैय्यत्येनानुपलब्धिरनुमानतयैवाभावज्ञापकेति न तत्र भेदप्रत्यक्षमिति ॥ तत्तु विभीषकामात्रम् । योग्यतालक्षणघटनाय व्याप्त्यादिस्वीकारेऽप्यनुपलब्धीयाभावबोधने तदनपेक्षणात् । अनुपलब्धौ ज्ञानकरणत्वे विवादात् । अङ्गीकृत्येदमुदितम् । वस्तुतस्तु प्रत्यक्षेणाभावग्रहे नानुपलब्धेः कृत्यमुपलभ्यते । न च प्रतियोगितदुपलम्भे चाभावधीः स्यादिति वाच्यम् । विषयस्यैवाभावात् । न च त्वन्मते विषयस्याकारणत्वात्किन्तेनेति वाच्यम् । विषयाभावेनेन्द्रियस्य सन्निकर्षरूपसामग्रीविघ्नात् । न च वाच्यं प्रतियोगिरहितस्थले प्रतियोगिप्रमादशायामभावाधीस्स्यादिति योग्युपलम्भस्य प्रतिबन्धकत्वादिति । न चैवं प्रतिबन्धकाभावत्वेनानुपलब्धहेतुत्वं प्राप्तमिति वाच्यम् । प्रतिबन्धकाभावस्य मन्मते हेतुत्वासम्मतेः । पूर्ववृत्तितानियमस्यैव कारणत्वशब्दार्थत्वात् । कथं तस्य कारणत्वमिति चेन्न । कार्यजनकशक्तिवैषम्यस्यैव तदर्थत्वात् । अन्यथा तन्तुरूपादेरपि तत्त्वप्रसङ्गात् । न च तदन्यथासिद्धमिति वाच्यम् । अस्यापि तथात्वं वक्तुं शक्यत्वात् । ननु कारणतया सम्मतेन येन सहैव यस्य यं प्रति पूर्ववृत्तिग्रहस्तत्तेनान्यथासिद्धम् । अन्यं प्रति पूर्ववृत्तित्वे ज्ञात एव यस्य यं प्रति पूर्ववृत्तित्वमवगम्यते तत्तेनान्यथासिद्धम् । अन्यत्र क्लृप्तनियतपूर्ववृत्तिन एव कार्यसम्भवे तत्सहभूतमन्यथासिद्धमित्यन्यथासिद्धत्रयमध्येऽस्य काऽन्यथासिद्धिरिति चेदेषैवेति ब्रूमः । मण्यभावसमवहितो वह्निर्दाहपूर्ववृत्ती मण्यभावादेर्वह्न्यादिना सहैव पूर्ववृत्तिताग्रहणात् । मण्यभावो दाहकारणमिति पृथग्ग्रहणाननुभवात् । किञ्च प्रकृते भावग्रहे क्लृप्तेन्द्रियसन्निकर्षादिनैवाभावस्यापि ग्रहोपपत्तौ तत्सहभूतानुपलब्धेस्तृतीयान्यथासिद्धत्वं युज्यते । अन्यथा तत्राप्यभावानुपलब्धेः कारणत्वं स्यात् । अपि च प्रक्रियामात्रस्य निर्मूलत्वेनोक्तान्यथासिद्ध्ययोगे कार्याभावप्रयोजकीभूतं यद्वस्तु प्रतियोगिकत्वाभावत्वेन यस्य यं प्रति पूर्ववृत्तित्वग्रहस्तत्तेनान्यथासिद्धमिति चतुर्थान्यथासिद्धत्वं कल्प्यताम् । किं प्रतिबन्धकाभावस्य कारणगतशक्त्यावरणापसरणतामात्रं च तेन कार्यभावप्रयोजकीभूतावरणापसरणे कर्माभाववस्थाने स्वत एव कार्योत्पत्तिसम्भवे प्रतिबन्धकाभावस्यापि कारणत्वे गौरवम् । कारणगतशक्त्युत्तेजकत्वेनान्यथासिद्धश्च । तस्माद्योग्यानुपलब्धेरहेतुत्वेन प्रकृते तदभावेऽपि प्रतियोग्युपलम्भरूपप्रतिबन्धकाभावादन्योन्याभावप्रत्यक्षोपपत्तिरित्युक्तम् । यच्चोक्तं ‘पुरुषग्रहेऽपि सहकार्यभावाद्ब्रह्मणत्वस्यैवैक्यमात्रोपपत्तिरि’ति । तदसङ्गतम् । ऐक्यग्रहानुपपत्त्या भेदनस्य साधनात् । किन्तु नाहमीश्वर इति प्रत्यक्षेणेत्युक्तं भवति । प्रतीतजीवतन्मात्रैक्यवादिनस्तद्दृष्टान्तोऽप्ययुक्तः । एतेनैक्यान्तस्योपनिषदत्वादज्ञातत्वाद्वाऽनुपलब्धिरिति निरस्तम् । यच्चोक्तमहमित्यौपाधिकप्रतीतेर् नायं भेदोऽपरिच्छिन्नशुद्धात्मगत इति । तन्न । जडेशवृत्तित्वस्यैव जीवस्वभावत्वात् । नन्वत्रोक्तानुभवस्यैव मानत्वात् । न चापरिच्छिन्नब्रह्मात्मनः कथमयं स्वभाव इति वाच्यम् । तद्भावस्याप्यद्याप्यप्रसिद्धेः । यच्च प्रलपितं नाहमीश्वर इति अहङ्कारधीरिति तदिदमतिमान्दम् । अहं ब्रह्मास्मीत्यादिविलयापत्तेः । नाहमीश्वर इति वन्नामीश्वरेण स्थीयत इत्यादावहमुल्लेखाभावाच्च । अहमिति प्रयोक्त इत्यादिप्रयोगसिद्धोऽहंशब्दस्यास्मच्छब्दाभिन्नार्थकत्वप्रसिद्धेश्चेत्यलं दुर्बलहिंसया ॥ एवमिति ॥ देवदत्तस्य योगेन परजीवाध्यक्षीकरणदशायामिति शेषः । एवं देवदत्तोऽहं न यज्ञदत्तो नाहं जडो घटो नेश्वर इत्याद्यूह्यम् ।

(१२)भेदचन्द्रिका

तस्माद्भेदे प्रमाणाभावादीश्वरधर्मिकभेदस्यास्मत्प्रत्यक्षाविषयत्वेऽपि तत्प्रत्यक्षविषयत्वं भविष्यतीत्यत आह — ईश्वरधर्मिक इति ॥ ईश्वरस्येति ॥ इदं प्रौढिवादेन । वस्तुतस्तु जन्यलौकिकप्रत्यक्षे प्रतियोगियोग्यतादेस्तन्त्रत्वेनेश्वरप्रत्यक्षस्यानेवंविधत्वेनात्र न तदपेक्षा । अपेक्षायामपि वक्ष्यमाणरीत्या स्तम्भे पिशाजान्योन्याभावप्रत्यक्षदर्शनेन तर्कितप्रतियोगिसत्त्वसञ्जनप्रसञ्जितप्रतियोगिकानुपलब्धेरेवापेक्षितत्वेन तस्याश्च जीवाद्यक्षाभावेनापि सम्भवेन चोद्यानवकाशात् । जीवस्य प्रत्यक्ष इत्यनुषज्यते । नन्वीश्वरस्यायोग्यत्वेन तत्प्रतियोगिकभेदः कथं प्रत्यक्ष इत्याशङ्क्य प्रतियोगिप्रत्यक्षत्वस्य किं सति प्रतियोगिकपदार्थप्रत्यक्षत्वे कारणता किं वाऽभावप्रत्यक्षे उतान्योन्याभावप्रत्यक्षे इति विकल्पं मनसि निधायात्र क्रमेण व्यभिचारानाह — सप्रतियोगिकेति ॥ इदमुपलक्षणम् । वस्तुतस्तु विकल्पद्वयमपि बोध्यम् । स पट इति पटस्य प्रत्यक्षत्वस्फोरणार्थम् ॥ स इति ॥

` इदं प्रत्यक्षगतं समीपतरवृत्ति चैतदो रूपम् ।

अदसस्तु विप्रकृष्टं तदिति परोक्षे विजानीयादि’

त्युक्तेः । एवं गवयसदृशीत्यत्रापि तद्गवयसदृशीति बोध्यम् । ननु यस्य पुंसोऽभावप्रत्यक्षं तत्पुरुषीयप्रत्यक्षयोग्यत्वं प्रतियोगिनस्तदभावप्रत्यक्षतायां तन्त्रम् । परोक्षघटाभावप्रत्यक्षे तु तदस्ति । नास्ति च जीवधर्मिकेश्वरभेदस्थल इति कथं प्रत्यक्षमित्याशङ्कामन्तिमपक्षोक्तदोषेण परिहरति ॥ एतेनेति ॥ प्रतियोगिप्रत्यक्षयोग्यता प्रतियोगिनः प्रत्यक्षयोग्यता । अत एवोत्तरत्रायोग्येश्वरेति ॥ एतेनेत्युक्तं दर्शयति — स्तम्भ इति ।

(१२)भेदसञ्जीविनी

भेदस्य व्यासज्यवृत्तित्वादिपक्षमवलम्ब्य पूर्वपक्षावसरे दूषणकथनेऽपि सिद्धान्तकथनावसरे वस्तुस्थितिमालम्ब्यैव समाधानमाह — ईश्वरधर्मिक इत्यादिना । कस्यचित्प्रत्यक्षसत्त्वमात्रेण भेदे प्रत्यक्षं प्रमाणमित्युक्तेर्युक्तत्वान्न सर्वेषां तदसत्त्वं बाधकमिति भावः । अस्माकं तन्निश्चायकप्रमाणप्रश्ने तत्प्रत्यक्षोपन्यासोऽकिञ्चित्कर इति चेन्न । आप्तवाक्यसिद्धतत्प्रत्यक्षेण देशान्तरस्थवस्तुनिश्चयवदत्राप्युपपत्तेः । तत्प्रत्यक्षं नास्माकं प्रत्यक्षविधया घटप्रत्यक्षवत्संशयोच्छेदहेतुः किन्तु लिङ्गविधयेति चेत् । अत्रापि तथाऽस्तु का क्षतिः सभायां वस्तुविशेषे लौकिकप्रत्यक्षस्य मध्यस्थं प्रति प्रमाणत्वेनोपन्यासवदत्रापि तथोक्तौ बाधाभावात् । ईश्वरस्य प्रत्यक्षसद्भावे किं मानमित्यत आह — ईश्वरस्येति ॥ तद्वचनमिति ॥ आप्तवाक्येन तत्प्रत्यक्षसिद्धिवदत्रापि तथेति भावः । ननु जन्यभेदलौकिकप्रत्यक्षे प्रतियोगिप्रत्यक्षस्य कारणत्वं भेदस्य व्यासज्यवृत्तित्वेनैकस्यैवोभयवृत्तित्वपक्षे यावदाश्रयप्रत्यक्षं विना तत्प्रत्यक्षं न (सं)भवतीत्येव वक्तव्यम् । अन्यथा गगनघटद्वित्वसंयोगादिप्रत्यक्षापत्तेः । प्रतियोग्यवृत्तित्वेन धर्मिमात्रवृत्तित्वपक्षेऽप्यनुभवसाम्याय प्रतियोग्यनुयोगिप्रत्यक्षयो रूपान्तरेण कारणतयाऽवश्यं पूर्वं सत्त्वमावश्यकम् । अत एव स्तम्भे पिशाचभेदोऽपि न प्रत्यक्षः । मतान्तरे पिशाचरूपाश्रयप्रत्यक्षाभावेन तत्प्रत्यक्षाभावस्यावश्यकत्वेनैतन्मतेऽपि तादृशानुभवसाम्याय तथाङ्गीकारौचित्यात् । तथैव भेदलौकिकप्रत्यक्षं प्रति तद्धर्मितत्प्रतियोग्युभयनिष्ठलौकिकविषयताशालिप्रत्यक्षत्वम् । अयम् उभयोः समावेशेन लब्धः पाठः । व्यापकम् । अव्यभिचरितसहचारदर्शनेन वह्नेर्धूमव्यापकताया इव तस्य निश्चयात् । एवञ्चेश्वरज्ञानस्य मायावृत्त्यात्मकत्वस्य जन्यत्वात्तं प्रति जीवेश्वरोभयप्रत्यक्षस्य पूर्वं सत्त्वमावश्यकम् । तस्य नित्यत्वेऽप्युक्तव्याप्यव्यापकभावनिर्वाहाय तत्प्रत्यक्षेऽप्युभयोर्लौकिकविषयत्वमावश्यकम् । तच्चात्र न घटते । अणुत्वेन लौकिकचाक्षुषायोग्यस्य जीवस्य परमात्मचाक्षुषेऽपि भानासम्भवात् । परमात्मनः परमानसविषयत्वादर्शनेनेश्वरमानसगोचरत्वस्याप्यसम्भवादित्यत आह ॥ ईश्वरस्य जीवाध्यक्षीकरणक्षमत्वादिति ॥ क्षमत्वात् समर्थत्वादित्यर्थः । अन्यथाऽघटितघटनाशक्तिमत्त्वरूपेश्वरत्वस्यैव हानिप्रसङ्गात् । अत एवेश्वरस्येति हेतुगर्भविशेषणम् ।

हन्त तर्हि चेतनमपि घटं कुर्याज्जीवमपि स्वात्मानं कुर्यात् । मैवम् । प्रमाणसिद्धस्य लोकरीत्या घटनावैधुर्येण प्रतीयमानस्य घटकतया `विचित्रशक्ति’रित्यादिप्रमाणैस्तच्छक्तौ सिद्धत्वात् । परमात्मनश्च `सर्वपदार्थविषयकसाक्षाद्द्रष्दृत्वं ’ `साक्षी चेता केवलो निर्गुणश्च’ यः सर्वज्ञः स सर्वविदि’त्यादिश्रुतिस्मृतिसहस्रसिद्धमिति भावः ॥ न चोद्यावकाश इति ॥ इदानीमीश्वरप्रत्यक्षे जीवाविषयकत्वमवलम्ब्य चोद्यस्योत्थाने खलु तन्निरासाय प्रतियोगिप्रत्यक्षकारणत्वखण्डनस्यान्यत्र तादृशकारणत्वमङ्गीकृत्येश्वरप्रत्यक्षनित्यत्वविचारपूर्वकं तत्र प्रतियोगिप्रत्यक्षानुपयोगस्य वा कथनावसरः । आदौ तच्छङ्कैव नावतरति । तस्य मायिकसर्वज्ञत्वे वा स्वाभाविकसर्वज्ञत्वे वा तत्प्रत्यक्षाविषयवस्तुनः केनापि वादिनाऽनङ्गीकृतत्वात् । अत एवोक्तेश्वरवचनात् (तस्य) स्वव्यवहारप्रयोजकज्ञानसिद्धावपि तस्य प्रत्यक्षरूपत्वमसिद्धमिति निरस्तम् । प्रथमतस्तस्यैव प्राप्तत्वेन तत्परित्यागे बाधकाभावात् । तथा च तन्निरासार्थं प्रतियोगिप्रत्यक्षकारणत्वादिखण्डनस्यानाकाङ्क्षितत्वात्तन्निराकरणं न क्रियते किन्तु जीवस्य भेदप्रत्यक्षव्यवस्थापनावसर एवानुपदं क्रियते । तत इदानीमेवाकाङ्क्षितमकृत्योत्तरत्र तत्करणे सन्दर्भाशुद्धिरिति मनः खेदो न कार्य इति भावः । केचित्तु जन्यप्रत्यक्षे प्रतियोगिज्ञानस्य कारणत्वेनेश्वरप्रत्यक्षे तस्य कारणत्वाप्रसक्त्या वक्ष्यमाणन्यायेन तस्य खण्डितत्वेन च चोद्यप्रसक्तिविरहेण जीवविषयकप्रत्यक्षरूपकारणकथनेन तदनवकाशकथनं प्रौढिवादमात्रमित्याहुः । अस्मदुक्तरीत्यैतत्पङ्क्त्युथानसम्भवेनोत्तरग्रन्थे तत्कारणताखण्डनेऽपीदानीमीश्वरप्रत्यक्षस्य जन्यत्वभ्रमेण प्राप्तशङ्कामङ्गीकृत्य समाधिसौकर्येण परिहारकरणस्य च सम्भवेन चाविमर्शपूर्वकोक्तिपर्यवासायि प्रौढिवादत्वं कथमस्य ग्रन्थस्येति त एव प्रष्टव्याः ॥ ईश्वरप्रतियोगिक इति ॥ जीवस्येति ॥ जीवस्यापीत्यर्थः । ननु पूर्वपक्षोक्तरीत्या प्रतियोगिप्रत्यक्षकारणताया व्यवस्थापितत्वाज्जीवस्य तदभावात्कथं तत्प्रत्यक्षसम्भव इत्याशङ्क्य किं सप्रतियोगिक इति प्रत्यक्षमात्रे प्रतियोगिप्रत्यक्षकारणत्वमुताभावप्रत्यक्ष इति विकल्पौ हृदि निधायाद्ये व्यभिचारमाह — इयं गौरिति ॥ सन्निकृष्टगवि स्मृतारण्यकगवयसादृश्यप्रत्यक्षे व्यभिचारान्नेदं युक्तमिति भावः । द्वितीये दार्ढ्यायात्यन्ताभावस्थलेऽन्योन्याभावस्थलेऽप्युभयत्र व्यभिचारमाह — इह स पट इति ॥ पटस्य तत्काले परोक्षत्वद्योतनाय स इति निर्देशः । तेन (प्रतियोगि)प्रत्यक्षरूपकारणाभावस्य तत्काल उपपादनम् । सप्रतियोगिकप्रत्यक्षे वाऽत्यन्ताभावप्रत्यक्षेऽथवाऽन्योन्याभावप्रत्यक्ष इति विकल्पान् हृदि निधाय क्रमान्निराकरोतीति नावतरणं कार्यम् । अत्यन्ताभावप्रत्यक्षे प्रतियोगिप्रत्यक्षकारणत्वाकारणत्वयोः पूर्वपक्षसिद्धान्तयोरनुपयोगेनात्यन्ताभावप्रत्यक्षत्वेन विकल्पकोटौ निवेशासङ्गतेः । अभावप्रत्यक्षत्वेन द्वितीय(विकल्प)कोटिं परिकल्प्यान्योन्याभावप्रत्यक्षत्वेन तृतीयकोटिं निवेश्य क्रमान्निराहेत्यवतरणमपि युक्तम् ॥ स्तम्भ इति ॥ नन्वेतत्प्रत्यक्षरूपं न भवतीत्युक्तमेवेति वाच्यम् । यत एकस्यैव घटप्रतियोगिकत्वेन तदितरसर्वानुयोगिकत्वेनास्मदभ्युपगतभेदस्य व्यासज्यवृत्तित्वे द्वित्ववत्प्रतियोगिन्यनुयोगिकव्यक्तावेको भेदः । एवं प्रतियोगिनि तदन्यापरानुयोगिव्यक्तावेको भेद इत्युच्यते । उक्तप्रतियोगिनि (तदन्य)सर्वानुयोगिष्वेक एव भेद इत्युच्यते । आद्ये घटप्रतियोगिकभेदस्यैवानुयोगिकभेदेन नानात्वस्याप्रामाणिकस्यैव कल्पनाप्रसङ्गः । द्वितीये घटभेदस्याप्रत्यक्षत्वापत्तिः । जन्मसहस्रेणापि तदाश्रययावद्व्यक्तीनां युगपत्प्रत्यक्षासम्भवात् । पक्षद्वयेऽपि घटः स्वस्माद्भिन्न इति प्रतीतिवारणाय पूर्वोक्तरीत्या विलक्षणाधिकरणत्वादिकल्पनागौरवं चेत्याद्युक्त्या तन्मतस्य हेयत्वेन तन्मताङ्गीकृतानुभवसाम्यस्याकिञ्चित्करत्वेन स्तम्भे पिशाचभेदप्रत्यक्षस्य सर्वानुभवसिद्धस्यापलापानर्हत्वात् । तथा च प्रतियोगिप्रत्यक्षस्य भेदप्रत्यक्षहेतुत्वाभावात्तज्ज्ञानमात्रस्य हेतुत्वादीश्वरप्रत्यक्षं विनाऽप्यागमजन्यज्ञानेन तत्स्मरणसम्भवान्नाहं सर्वज्ञः सर्वेश्वर इत्यादिरूपमीश्वरभेदप्रत्यक्षं युक्तमेव(मेवेति भावः) । आगमस्य चिन्मात्रपरत्वान्नेश्वरनिश्चयः सम्भवतीति न युक्तम् । उत्तरत्रागमस्य भेदपरत्वव्यवस्थापनेन तस्य निरसनीयत्वात् । आगमतात्पर्यनिर्णयात्प्रागेव सार्वज्ञादिवैदिकपदैस्तज्ज्ञानमात्रेणाप्युक्तप्रतियोगिस्मृतिसम्भवाच्च । माऽस्तु तर्हि प्रतियोगिप्रत्यक्षमभावप्रत्यक्षत्वावच्छिन्नेऽन्योन्याभावप्रत्यक्षत्वावच्छिन्ने वा कारणम् । तथाऽप्यभावप्रत्यक्षत्वावच्छिन्नं प्रति लौकिकप्रत्यक्षविषयप्रतियोगिज्ञानत्वेन हेतुता वाच्या । अन्यथा भूतलादौ पिशाचाभावप्रत्यक्षापत्तेः । तथा चेश्वरस्य प्रत्यक्षाविषयत्वात्तज्ज्ञानेन न तद्भेदप्रत्यक्षमित्याशङ्क्यात्यन्ताभावप्रत्यक्षस्थले तथा कार्यकारणभावो नान्योन्याभावस्थले स्तम्भे पिशाचभेदप्रत्यक्षादौ व्यभिचारात् । किन्त्वधिकरणप्रत्यक्षत्वेन प्रतियोगिज्ञानत्वेन च कारणता । अनुभवानुसारेण सर्वपदार्थव्यवस्थाङ्गीकारात्प्रकृते न काऽप्यनुपपत्तिरित्याह — एतेनेत्यादिना । एतेन पिशाचभेदप्रत्यक्षे व्यभिचारेण । अभावप्रत्यक्षयोग्यताया अभावनिष्ठप्रत्यक्षयोग्यतायाः । योग्यता च विषयता वा यावद्द्रव्यपदार्थान्तरं वेत्यन्यदेतत् । प्रतियोगिप्रत्यक्षाधीनत्वाद् उक्तरीत्या प्रतियोगिप्रत्यक्षप्रयोज्यत्वात् । प्रत्यक्षविषयप्रतियोगिज्ञानत्वेन हेतुत्वे प्रतियोगिप्रत्यक्षस्य कारणतावच्छेदकघटकतया परम्परया भावविषयतारूपकार्यतावच्छेदके तत्समशीलयोग्यतया वा प्रयोजकत्वमव्याहतम् ॥ स्तम्भ इति ॥ तस्याः = प्रतियोगिनिष्ठप्रत्यक्षयोग्यतायाः । चशब्दः पूर्वोक्तव्यभिचारसमुच्चायकः । अन्योन्याभावाविषयत्वाद् अन्योन्याभावप्रत्यक्षेऽप्रयोजकत्वाभावात् । तत्रैवानुभवादित्यन्तं हेतुः । तथा च पूर्वोक्तव्यभिचारादनुभवानुसारेणान्योन्याभावस्थले तथा कार्यकारणभावाकल्पनाच्च तदवष्टम्भेन शङ्का निरस्तेति भावः । अन्योन्याभावविषयत्वाच्च तस्या इति स्त्रीलिङ्गान्तं प्रामादिकं, बहुपुस्तके पुल्लिङ्गान्तपाठदर्शनात् । तत्पक्षे चायमर्थः । एतेनेत्युक्तं विवृणोति ॥ स्तम्भ इति ॥ तादृशानुभवसत्त्वेऽपि प्रकृते किमायातमित्यत आह — तस्येति ॥ तस्य चेत्यन्वयः । चस्त्वर्थः । तथा च व्यभिचारान्नेदं युक्तमिति भावः । योग्यानुपलब्धेरभावप्रत्यक्षे हेतुत्वपक्षेऽप्यहं यदि सर्वज्ञः स्यात् तथाऽनुभूतः स्यामित्यापादनयोग्योपलब्धिप्रतियोगिकानुपलब्धिरत्राक्षतैवेति न भेदप्रत्यक्षस्यानुपपत्तिः । अनुपलब्धिस्वरूपं तु द्वैतद्युमणौ प्रत्यक्षयोग्यसत्त्वनिरुक्त्यवसरे विचारितं तत्रैवानुसन्धेयम् । एवं जीवधर्मिकेश्वरभेदेश्वरधर्मिकजीवभेदयोर्मुख्यतः प्राप्तयोर्विषये प्रत्यक्षं समर्थ्य प्रसङ्गतो वा परम्परया वा यथाकथञ्चित्तदुपयोगित्वेन (वा) प्राप्ते जीवप्रतियोगिकजीवधर्मिके भेदे तदुपपादयति — एवमिति ॥ एवं यज्ञदत्तप्रतियोगिकदेवदत्तधर्मिको भेदो देवदत्तस्य प्रत्यक्ष इत्याद्यूह्यमिति पाठः सार्वत्रिकः सुसङ्गत एव । क्वचित्तु विष्णुमित्रधर्मिकः यज्ञदत्तप्रतियोगिकः भेद इत्याद्यूह्यमिति पाठः । यद्यपि देवदत्तपरिदृश्यमानयोर्यज्ञदत्तविष्णुमित्रशरीरयोरेव भेदोऽनुभूयते न तच्चेतनयोर्भेदः साक्षात्क्रियते । चक्षुराद्ययोग्यत्वेन तच्चाक्षुषत्वायोगात् । तदीयजीवस्य देवदत्तसाक्ष्यवेद्यत्वेन साक्षिणोऽपि तत्राप्रवृत्तेः । तथा चेदमयुक्तमिति

भाति । तथाऽपि तदिन्द्रियजन्याभावप्रत्यक्षे प्रतियोगिसत्त्वप्रसञ्चनप्रसञ्चिततत्तदिन्द्रियजन्यप्रत्यक्षरूपप्रतियोगिकानुपलब्धिरेव हेतुरिति न । किन्तु यत्र यस्य प्रतियोगिनो यज्जन्यज्ञानयोग्यत्वं तत्सत्तयाऽऽपादनयोग्यतान्निश्चयरूपप्रतियोगिप्रतियोगिकाभाव एव योग्यानुपलब्धिपदार्थः । स एवाभावप्रत्यक्षे हेतुः । तत्सत्तायामपि तज्जन्यनिश्चयाभावस्तत्र तदभावप्रत्यक्षहेतुः। एवञ्च यज्ञदत्तशरीरस्थचेतनस्य पूर्वकालोपलक्षितस्यैतत्कालीनस्य च तदनुभूतस्मरणादिभिः(दिना) तदाभिसंहितफलविरोधिचेष्टाभावादिलिङ्गैश्चाभेदो निश्चीयते । न च यज्ञदत्तविष्णुमित्रयोरभेदोऽस्ति । अभेदे तादृशानुमापकलिङ्गानि तज्जन्यानुमितिश्च स्यादित्यापाद्यमानानुमित्यभावसहकृतचक्षुषैव तन्निष्ठभेदेन सह यथाकथञ्चित् संयुक्तविशेषणतासन्निकर्षसहितेन धर्म्युपस्थितिसहितेन धर्म्यंशे उपनयरूपं भेदांशे लौकिकं विष्णुमित्रचेतने यज्ञदत्तचेतनभेद इत्याकारकं प्रत्यक्षं भवतीति भावः । अधिकरणस्याप्रत्यक्षत्वेऽपि गगने उद्भूतरूपाभाव इति प्रत्यक्षानुभवबलेनात्यन्ताभावप्रत्यक्षे नाधिकरणस्य योग्यत्वं तन्त्रं किन्तु योग्यानुपलब्धिमात्रमिति स्वीकारवद्गगने उद्भूतरूपवद्भेद इति प्रत्यक्षानुभवबलेनात्रापि तथा(त्वा)ऽङ्गीकारस्यावश्यकत्वात् । न च तत्रोद्भूतलिङ्गकानुमितिविषय एवोद्भूतरूपवद्भेदो न प्रत्यक्षविषय इति वाच्यम् । विनिगमकाभावेन वैपरीत्यस्यापि वक्तुं शक्यत्वात् । व्याप्यवृत्तिधर्मात्यन्ताभावतदवच्छिन्नप्रतियोगिताकभेदयोः समनियतत्वेनैक्यपक्षे तस्यावर्जनीयत्वाच्च । यद्वा यज्ञदत्तपिण्डे विष्णुमित्रपिण्डे च चेष्टालिङ्गेन सात्मकत्वसिद्ध्यनन्तरं तत्तदात्मविशिष्टपिण्डयोः परस्परं (भेदस्य) लौकिकप्रत्यक्षे विशेषणतावच्छेदकयोरुभयोर्भेदोऽप्यलौकिकसन्निकर्षेण भासते । तदुत्तरं स्वात्मतदात्मनोरिव तयोरपि परस्परमभेदसंशयानुदयानुभवात् । अन्यथा लौकिकानां त्वच्छास्त्रजनिताप्रामाण्यशङ्कां विना संशयादिना व्यवहारोच्छेदप्रसङ्गात् । तथा च तयोर्भेदेऽपि देवदत्तप्रत्यक्षं प्रवर्तत एव । परन्तु तदंशे लौकिकत्वशून्यम् । तच्चानुपयुक्तमस्माभिर्लौकिकमेवेत्यप्रतिज्ञानात् । न चालौकिकप्रत्यक्षस्याप्यर्थसाधकत्वे गगने कालत्वसिद्धिरपि स्यात् कदाचित्तादृशोपनीतभानस्यापि सम्भवादिति वाच्यम् । प्रबलप्रमाणान्तरबाधे स्यादेव । न च तथाऽस्ति । प्रकृते तु प्रबलप्रमाणान्तरबाधो नास्त्येव । प्रत्युताहमेतस्माद्भिन्न इत्यादितद्वाक्यैर्विरुद्धधर्मवत्त्वादिलिङ्गैश्च भेदस्यैव सिद्ध्या तत्संवादस्यैवात्र सत्त्वात् । यद्वा देवदत्तो योगी चेच् चेतनद्वयभेदविषयकं प्रत्यक्षं युक्तमेव ईश्वरवत् । योगिप्रत्यक्षस्यापि साक्षात्करोमीति तदीयव्यवहारनिर्वाहकत्वात् । लौकिकप्रत्यक्षतुल्यत्वमेवेतीश्वरप्रत्यक्षवत्तस्यापि प्रकृते प्रमाणत्वेनोपन्यासो युक्तः । स्वात्मधर्मिकान्यात्मप्रतियोगिकभेदस्तु सर्वेषां (स्वीय)लौकिकप्रत्यक्षविषयो भवत्येवेति नोपपादनापेक्षाऽत्रेत्याशयवानाह — इत्याद्यूह्यमिति ॥

(१२)काशीतिम्मण्णाचार्य

सिद्धान्तं प्रतिजानीते ॥ अत्रायमित्यादिना ॥ अत्र पूर्वपक्षेऽयं वक्ष्यमाणः परिहारो दूषणोद्धार इत्यर्थः । पूर्वपक्षक्रमेणैव सिद्धान्ताभिधानमिति ज्ञापनाय प्रथमतः प्रथमदूषणोद्धारं प्रतिजानीते ॥ यत्तावदिति ॥ ईश्वरधर्मिक इति ॥ यद्यपि भेदसामान्यमीश्वरप्रत्यक्षविषयः । तत्प्रत्यक्षे च `द्वाविमौ पुरुषौ लोक’ इत्यादि तद्वचनमेव प्रमाणम् । तथापि `स्वधर्मिकस्वेतरप्रतियोगिकभेदः स्वप्रत्यक्ष’ इति सामान्यतो नियममभिप्रेत्येदं निदर्शितम् । प्रथमश्लोक ईश्वरधर्मिकभेदस्यैव प्राधान्येन प्रस्तुतत्वाद्वा । यद्यपि तत्र जडप्रतियोगिकभेदोऽपि प्रकृतः । तथापि प्रथमं जीवेश्वरभेद एव प्रत्यक्षप्रमाणाभावस्य शङ्कितत्वाज्जीवप्रतियोगिक इत्येवोक्तम् । एवमुत्तरत्रेश्वरप्रतियोगिकादिग्रहणस्य सङ्गतिरवसेया ।

नन्वीश्वरस्यैतादृशभेदप्रत्यक्षसद्भावे प्रमाणभावः । परबुद्धेरप्रत्यक्ष

त्वात् । न चेश्वरः स्वधर्मिकस्वेतरभेदप्रत्यक्षवान्, आत्मत्वाद् अस्मदादिवदित्यनुमानं मानमिति वाच्यम् । अनुकूलतर्काभावेनाप्रयोजकत्वात् । नाप्यागमः । तस्य तादृशार्थे प्रामाण्यानवधारणादित्यत आह — ईश्वरस्येति ॥ तद्वचनमिति ॥ कृष्णरूपेश्वरवचनमित्यर्थः । तथाचेदं वाक्यं वाक्यार्थविषयकेश्वरीयप्रत्यक्षपूर्वकम् । ईश्वरीयप्रमाणवाक्यत्वात् । तादृशवाक्यान्तरवत् । परोक्षज्ञानरहित ईश्वरो वैतद्वाक्यार्थज्ञानवान् । एतद्वाक्यप्रयोक्तृत्वात् । यो यद्वाक्यप्रयोक्ता स तदर्थज्ञानवान् । यथा यज्ञदत्त इत्याद्यनुमानमीश्वरस्य जीवप्रकृतिभिन्नत्वरूपवाक्यार्थप्रत्यक्षसद्भावे

प्रमाणम् । एतद्वाक्यप्रामाण्यं चोभयवादिसिद्धम् । एतादृशागमानुगृहीतत्वाद् उक्तानुमानमपि प्रमाणमेवेत्याशयः । यद्यपि भेदप्रतिपादकतद्वाक्येन तत्प्रत्यक्षं प्रसाध्य तेन भेदसाधनापेक्षया तद्वाक्येनैव भेदसाधने लाघवम् । तथापि परेण जीवेश्वरभेदे प्रत्यक्षप्रमाणासम्भवस्योक्ततया तन्निषेधाय परम्पराश्रयणम् ।

अथ व्यावहारिकभेदस्यैवेश्वरीयप्रत्यक्षविषयत्वान्न ततः पारमार्थिकभेदसिद्धिरिति चेत् स किं पारमार्थिकत्वेन प्रतीयते व्यावहारिकत्वेनैव वा । नाद्यः । ईश्वरस्यापि भ्रान्तत्वापातात् । द्वितीये च तद्व्यावहारिकत्वं बाध्यमबाध्यं वा । आद्ये बाध्यार्थग्राहित्वात् स एव दोषः । तत्त्वतो भेदस्य व्यावहारिकत्वापत्तिश्च । अन्ते त्वपसिद्धान्तः ।

किञ्चोक्तवचनानां वक्ष्यमाणरीत्या व्यावहारिकभेदपरत्वानुपपत्तौ तदनुमेयतदर्थभूतभेदप्रत्यक्षस्य कथं व्यावहारिकविषयत्वमिति दिक् ।

ननु प्रतियोग्यादिप्रत्यक्षाभावेन जीवेश्वरभेदप्रत्यक्षं प्रागेव दूषितमतः कथमेतदित्यत आह — ईश्वरस्येति ॥ अन्यथा सर्वज्ञत्वानुपपत्तेरिति

भावः । एतच्चाभ्युपेत्यैवोक्तम् । उक्तप्रतियोगिप्रत्यक्षापेक्षाया अनुपदमेव दूष्यत्वादीश्वरप्रत्यक्षस्य कारणानपेक्षत्वाच्चेति सूचनाय न दोषावकाश इत्यनुक्त्वा न चोद्यावकाश इत्युक्तम् । जीवाधिकरणकस्तु भेदो जीवस्य प्रत्यक्ष इति सम्बन्धः । नाहं सर्वज्ञो नाहं निर्दुःख इत्यनुभवादिति भावः ।

नन्वीश्वरस्याप्रत्यक्षत्वात्कथं तत्प्रतियोगिकभेदस्य प्रत्यक्षत्वमिति चेत् तत्किं प्रतियोगिप्रत्यक्षं सप्रतियोगिकपदार्थप्रत्यक्षमात्रेऽभावप्रत्यक्षमात्रेऽन्योन्याभावप्रत्यक्ष एव वा कारणम् ? किं वा योग्यानुपलब्धेरभावप्रत्यक्षहेतुत्वादभावयोग्यत्वे प्रतियोगियोग्यतायाः प्रयोजकत्वमिष्यते ? आद्यपक्षत्रयं दूषयति — सप्रतियोगिकेति ॥ इत्यादौ प्रत्यक्षे व्यभिचारात् । पूर्वक्षणे प्रतियोगिभूतगवयादिप्रत्यक्षाभावेऽपि तादृशप्रत्यक्षजननादिति

भावः । चतुर्थं तृतीयदोषातिदेशेन दूषयति — एतेनेति ॥ एतदेव विवृणोति ॥ स्तम्भ इति ॥ ‘प्रतियोगिनः पिशाचस्यायोग्यत्वेऽपी’त्यादिः । इत्यनुभवाद् इत्याकारकप्रत्यक्षजननात् । तथाच तत्र व्यभिचारेण योग्यानुपलब्धेरभावप्रत्यक्षसामान्यहेतुत्वासम्भवान्नाभावयोग्यतायाः प्रतियोगियोग्यताधीनत्वमिति भावः ।

यद्वा, ननु पिशाचभेदप्रत्यक्षमेव नास्तीति नोक्तव्यभिचार इत्यत आह — स्तम्भ इति ॥ इत्यनुभवाद् इति प्रत्यक्षस्यानुभवसिद्धत्वात् । अन्यथाऽनुभवविरोध इति भावः । ननु पिशाचो न भवतीति प्रतीतिस् तद्विरोधविषयैवास्तु । विरोधस्यापि नञर्थत्वादत आह — अन्योन्या

भावेति ॥ अर्थान्तरानुपस्थितावपि तस्यानुभवसिद्धत्वादिति भावः । नन्वभावयोग्यतायाः प्रतियोगियोग्यतानधीनत्वे गुरुत्वाद्यभावप्रत्यक्षा

पत्तिः । न च संसर्गाभावप्रत्यक्षे प्रतियोगियोग्यत्वम्, अन्योन्याभावप्रत्यक्षे चाधिकरणयोग्यत्वं प्रयोजकमिति वाच्यम् । स्तम्भे पिशाचत्वात्यन्ताभावस्य वायावुद्भूतरूपवद्भेदस्य च प्रत्यक्षानुपपत्तेरिति चेन्न । अनुभवानुसारेण तत्तदभावत्वस्यैव तत्तद्योग्यताप्रयोजकत्वात् ॥ विष्णुमित्रस्येति ॥ नाहं यज्ञमित्र इत्याद्यनुभवादिति भावः । इत्यादीत्यादिना सर्वस्यापि स्वधर्मिकस्वेतरप्रतियोगिकभेदः स्वप्रत्यक्ष इत्येतत्परिग्रहः ।

(१२)शर्कराश्रीनिवासाचार्य

सिद्धान्तयति — अत्रेति ॥ अत्र भेदप्रमाणदूषणविषये । अयं वक्ष्यमाणः । परिहारः दूषणोद्धारप्रकारः । अत्राभेदसाधकप्रमाणविषये परिहारो निराकरणप्रकार इति चार्थः । तत्र तावद्भेदप्रमाणदूषणपरिहारप्रकारं दर्शयति — यत्तावदित्यादिना ॥ ईश्वरस्य प्रत्यक्ष इति ॥ तस्य नाहं जीव इत्यनुभवसिद्धत्वादिति भावः । नन्वीश्वरबुद्धेरप्रत्यक्षत्वेनेश्वरस्य तादृशप्रत्यक्षं वर्तत इत्यस्माभिः कथं ज्ञातव्यमित्यत आह — तस्येति ॥ कृष्णरूपेणेशेन `द्वाविमौ पुरुषौ लोक’ इत्यादिना क्षराक्षरपुरुषद्वयं निरूप्य उत्तमः पुरुष आभ्यामन्यो न त्वेनयोरन्यतर इत्यभिहितम् । नच तस्यातादृशप्रत्यक्षाभावे एवंविधवचनप्रयोगः

सम्भवति । अतो ज्ञायते अस्तीशस्यैतादृशप्रत्यक्षमितीति भावः । जीवस्याणुत्वेनाप्रत्यक्षात्कथं तत्प्रतियोगिकभेदस्य प्रत्यक्षत्वमित्यत आह — ईश्वरस्येति ॥ क्षमत्वात् समर्थत्वात् । सर्वज्ञत्वादिति भावः । इदं चाभ्युपेत्योक्तम् । सप्रतियोगिकेत्यादिनाऽनुपदमेव तादृशनियमनिराकरणादिति ध्येयम् ॥ जीवस्येति ॥ तस्य नाहं सर्वज्ञो न निर्दुःख इत्यनुभवसद्भावादिति भावः । प्रतियोगिभूतेश्वरस्याप्रत्यक्षत्वे कथं तत्प्रतियोगिकभेदस्य प्रत्यक्षत्वमित्यत आह — सप्रतियोगिकेति ॥ प्रतियोगिनिरूप्येत्यर्थः ॥ इयमिति ॥ वने गवयमनुभूय नगरगतस्य गोदर्शने इयं गौर्गवयसदृशीति गवयप्रतियोगिकसादृश्यप्रत्यक्षं जायते । नच तत्र प्रतियोगिभूतगवयप्रत्यक्षमस्ति । तस्य वनस्थितत्वेन व्यवहितत्वात् । अतोऽत्र व्यभिचारान्नोक्तनियम इत्यर्थः । नन्वभावरूपसप्रतियोगिकपदार्थप्रत्यक्षे प्रतियोगिप्रत्यक्षनियमोऽङ्गीक्रियते । सादृयस्य भावरूपत्वान्न तत्प्रत्यक्षे व्यभिचार इत्यत आह — इह घटो नेति ॥ इह भूतले घटो नास्तीति घटप्रतियोगिकाभावप्रत्यक्षं जायते । नच तत्र प्रतियोगिभूतलघटप्रत्यक्षमस्ति । भूतले घटाभावेन तत्सन्निकर्षाभावात् । अतोऽत्र व्यभिचारान्नोक्तनियम इति भावः । नन्वन्योन्याभावरूपसप्रतियोगिकापदार्थप्रत्यक्षे प्रतियोगिप्रत्यक्षनियमोऽङ्गीक्रियते । इह घटो नास्तीति प्रत्यक्षं च घटसंसर्गाभावविषयमतो न तत्र व्यभिचार इत्यत आह — स्तम्भ इति ॥ स्तम्भः पिशचो नेति पिशाचप्रतियोगिकान्योन्याभावप्रत्यक्षं जायते । न च तत्र प्रतियोगिभूतपिशाचप्रत्यक्षमस्ति । तस्यातीन्द्रियत्वात् । अतोऽत्र व्यभिचारान्नोक्तनियम इत्यर्थः । नन्वभावप्रत्यक्षयोग्यतायां प्रतियोगिप्रत्यक्षयोग्यता प्रयोजिका । यथा घटस्य प्रत्यक्षयोग्यत्वेन तदभावस्य प्रत्यक्षयोग्यत्वं परमाणोः प्रत्यक्षायोग्यत्वेन तदभावस्य प्रत्यक्षायोग्यत्वम् । अतः प्रतियोगिभूतेशस्य प्रत्यक्षायोग्यत्वात्कथं तत्प्रतियोगिकान्योन्याभावस्य प्रत्यक्षयोग्यत्वम् । प्रत्यक्षयोग्यताभावे च कस्य प्रत्यक्षत्वमित्याशङ्क्यातिदेशेन दूषयति — एतेनेति ॥ अयोग्येति ॥ प्रत्यक्षायोग्येत्यर्थः । एतेनेत्युक्तं विवृणोति ॥ स्तम्भ इति ॥ पिशाचप्रतियोगिकान्योन्याभावस्य तावत्प्रत्यक्षयोग्यत्वमस्ति । नच तत्र पिशाचस्य प्रत्यक्षयोग्यताऽस्ति । अतोऽत्र व्यभिचारान्नोक्तनियम इत्यर्थः । ननु तर्हि परमाण्वभावप्रत्यक्षं स्यादिति वाच्यम् । किं परमाणुसंसर्गाभावस्य प्रत्यक्षत्वमापाद्यते उतान्योन्याभावस्य । नाद्यः । संसर्गाभावप्रत्यक्षयोग्यतायां प्रतियोगिप्रत्यक्षयोग्यतायाः कारणत्वेन तत्र तदभावात् । न द्वितीयः । इष्टापत्तेः । घटः परमाणुर्नेति परमाण्वन्योन्याभावप्रत्यक्षाभ्युपगमादिति भावः । परस्परं जीवभेदस्यापि प्रत्यक्षसिद्धत्वमाह — एवमिति ॥ विष्णुमित्रस्य नाहं यज्ञदत्त इत्यनुभवसद्भावादिति भावः ।