ननु विद्यमान एव भेदो घटादिभिर्नाभिव्यज्यते चेत्तर्ह्युत्पद्यत इति वक्तव्यम्
(११)भेदोज्जीवनम्
(११) ननु विद्यमान एव भेदो घटादिभिर्नाभिव्यज्यते चेत्तर्ह्युत्पद्यत इति वक्तव्यम् । तच्चायुक्तम् । भेदस्यौत्पत्तिकत्वेनानागन्तुकत्वादिति चेत् तर्हि दोषद्वयपरिहारायाविद्यमानमेव भेदं घटाद्युपाधिः (घटादिः) प्रतिभासयतीत्यस्तु । एवं चेद्वयं चरितार्थाः । श्रुतयश्च (श्रुतयस्तु) नेह नानाऽस्तीत्याद्या अभेदबोधिकाः । तस्मान्न स्वभावतो विष्णोर्विश्वभिन्नत्वमिति पूर्वपक्षसङ्क्षेपः ।
(११)भावप्रदीपः
एवं घटाद्युपाधेर्गगने विद्यमाने भेदे व्यञ्जकत्वमुपपद्यत इत्युक्तम् । तत्राशङ्कते — नन्विति ॥ अत्र यदीत्यध्याहार्यं तर्हीति श्रवणात् ॥ उत्पद्यत इति वक्तव्यमिति ॥ अभिव्यक्त्युत्पत्ती विनोपाधेः कार्यान्तरादर्शनादिति भावः ॥ औत्पत्तिकत्वेनेति ॥ धर्मिसमसत्ताकत्वेनेत्यर्थः । अनागन्तुकत्वान् मध्ये प्राप्तत्वाभावात् । तथाचाभिव्यक्तिपक्षमेवाश्रित्य तत्रोक्तदोषः कथमपि परिहरणीय इति भावः । पक्षद्वयोक्तदोषस्याप्यपरिहार्यत्वात्तृतीयपक्षावलम्बेन शङ्कां समाधत्ते ॥ तर्हीति ॥ दोषद्वयेति । अभिव्यञ्जकत्वपक्षे कदाचिद्धाटादीनामभावेऽपि भेदप्रतीतिप्रसङ्गः । उत्पत्तिपक्षे भेदस्यानागन्तुकत्वभङ्गप्रसङ्ग इति दोषद्वयेत्यर्थः । न च तथैवास्त्विति वक्तुं शक्यमित्याशयेनाह — एवं चेदिति ॥ अविद्यमानस्यैव भेदस्य प्रतिभासाङ्गीकारे शुक्तिरूप्यवन्मिथ्यात्वस्यैव सिद्ध्या दृष्टान्ते साध्यवैकल्याभावेनोक्तानुमानमस्मदीयं निर्दुष्टमेव जातमिति भावः । एवमाद्यानुमानद्वयेन जीवेश्वरयोर्जीवानां चाभेदं प्रसाध्य तत्स्थेम्ने तृतीयेन भेदमात्रस्य मिथ्यात्वमभिधाय चतुर्थेनाचेतनानामपि मिथो भेदाभावमभिधायेदानीं तत्रैव श्रुतीरपि प्रमाणयति — श्रुतयश्चेति ॥ इह चेतनाचेतनवर्गे किञ्चन नाना भिन्नं नास्तीत्यर्थः ॥ अभेदबोधिका इति ॥ जीवेश्वरयोर्जीवानां जडानां च मिथः पारमार्थिकभेदाभावबोधिका इत्यर्थः । उपसंहरति ॥ तस्मादिति ॥ भेदे मानाभावादभेदे तद्भावाच्चेत्यर्थः ।
(११)भेदचिन्तारत्नं
नन्वेवमपि पक्षे दृष्टान्ते च भेदस्यौपाधिकत्वमेवायातम् । न मिथ्यात्वमित्येतच्छङ्कासमाधिव्याजेन वदिष्यन्नाह — नन्वित्यादिना ॥ दोषद्वयेति । उपाध्यभिव्यङ्ग्यत्वे तदनुसरणनियमायोगः । तदुत्पन्नत्वे औत्पत्तिकत्वहानिरिति दोषद्वयेत्यर्थः ॥ प्रतिभासयतीति । शुक्तिरजतवत्प्रातिभासिकत्वान्मिथ्यात्वमिति भावः ॥ चरितार्था इति ॥ मिथ्यात्वसाधनायास्माभिर्न यतितव्यमित्यर्थः ।
(११)भेदचन्द्रिका
उपाधिघटसम्बन्धस्य गगनेऽव्याप्यवृत्तित्वमेवाङ्गीक्रियते । नत्वेकदेशवृत्तित्वं येन गगने तात्त्विकस्वान्तर्भेदः स्यात् । किन्तु स्वात्यन्ताभावसमानाधिकरणत्वम् । न च प्रतियोगितदभावयोरवच्छेदकभेदं विनैकत्र विरोध इति वाच्यम् । भगवत्याः प्रतीतेरेव विरोधशामकत्वादित्यर्थः । औत्पत्तिकत्वेन कालतो धर्मिव्यापकत्वेन ॥ श्रुतयश्चेति ॥ तथाचाभेदे प्रमाणबाहुल्यादभेदे प्रमाणाभाव एव भेदे प्रमाणमिति नाशङ्कनीयमिति भावः ।
(११)भेदसञ्जीविनी
॥ औत्पत्तिकत्वेनेति ॥ स्वाभाविकत्वेनेत्यर्थः ॥ अनागन्तुकत्वादिति ॥ अजन्यत्वादित्यर्थः । अत्यन्ताभावाभिन्नत्वे सति नित्याभावत्वस्य तल्लक्षणत्वादिति भावः ॥ दोषद्वयेति । उपाधिकाल एव प्रतीयमानत्वेन पूर्वं स्थित्ययोगरूपदोषो नित्यत्वादुत्पत्तिदोष इति दोषद्वयेत्यर्थः । अविद्यमानमाने प्रकृते किमगतमित्यत आह — एवञ्चेति ॥ प्रतीयमानत्वे सति त्रैकालिक निषेधप्रतियोगित्वरूपमस्मदभिमतमिथ्यात्वं सर्वभेदानां प्राप्तमिति सिद्धमेवास्मदभिमतमिति भावः । शुष्कयुक्तीनामसाधकत्वमिति नाशङ्कनीयमित्याह — श्रुतयश्चेति ॥ आद्यपदेन `यत्र द्वैतमिव भवति’ `विभेदजनके ज्ञान’ इत्यादीनां ग्रहणम् । पूर्वपक्षं निगमयति — तस्मादिति ॥ इति पूर्वपक्षव्याख्यानं समाप्तम् ।
(११)काशीतिम्मण्णाचार्य
भेदस्यौपाधिकत्वपक्षेऽनुपपत्तेः स्वाभाविकत्वसिद्धिरित्याङ्कते — ननु यदीति ॥ औत्पत्तिकत्वेन यावदाश्रयप्रतीतिभावित्वसिद्धान्तेन । अनागन्तुकत्वाद् उपाधिजन्यत्वायोगादित्यर्थः । यद्युक्तानुपपत्त्या भेदस्यौपाधिकत्वासिद्धिस्तर्हि तत एव स्वाभाविकत्वस्याप्यसिद्धौ मिथ्यात्वमेव सिद्ध्यतीत्याह — तर्हीति ॥ दोषद्वयपरिहारायेति ॥ अतिप्रसङ्गापसिद्धान्तरूपदोषद्वयपरिहारायेत्यर्थः । ततः किमित्यत आह — एवं चेदिति ॥ यद्याकाशभेदस्य मिथ्यात्वं तर्हीत्यर्थः । चरितार्थाः सिद्धस्वपक्षाः । प्रागुक्तानुमानस्य दृष्टान्ते साध्यवैकल्याद्यभावेन स्वान्तर्भेदहीनत्वरूपसाध्यसाधकत्वसम्भवादिति भावः ।
एवमभेदे प्रत्यक्षानुमाने उपपाद्यागममप्याह — श्रुतयस्त्विति ॥ `नेह नानास्ति किञ्चन’, `एकमेवाद्वितीय’मित्यादिश्रुतीनां निषेधपरतया प्रागुक्तत्वात्तत एव प्राबल्याद्भेदश्रुतिबाधकत्वं सेत्स्यतीत्यभिप्रायेण तन्नोपपादितम् । पूर्वपक्षमुपसंहरति ॥ तस्मादिति ॥ उक्तरीत्या परपक्षे साधकस्य बाधकाभावस्य चाभावात्स्वपक्षे तद्भावाच्चेत्यर्थः । पूर्वपक्षसङ्क्षेप इत्यनेन निरसनीययुक्त्यन्तरसत्त्वं सूचितम् । तच्चाद्वैतश्रुतीनाम् उपक्रमादिषड्विधतात्पर्यलिङ्गयुक्तत्वादिरूपमुपरिष्टात् प्रपञ्चयिष्यामः ॥ इतिपूर्वपक्षग्रन्थः ॥
(११)शर्कराश्रीनिवासाचार्य
इदानीं विपक्षे बाधककथनेन घटस्याकाशभेदव्यञ्जकत्वं शङ्कते — नन्विति ॥ तर्हीत्यनन्तरं घटादिभिरित्यनुवर्तते । प्रकारान्तराभावादिति भावः । औत्पत्तिकत्वेन स्वाभाविकत्वेन । अनागन्तुकत्वान् मध्ये प्राप्तत्वाभावात् ॥ दोषद्वयेति ॥ घटादीनां भेदव्यञ्जकत्वे तदभावेऽपि कदाचित्प्रतीतिप्रसङ्गरूपो मयोक्तो ऽनभिव्यञ्जकत्वे उत्पत्यनुपपत्तिरूपस्त्वयोक्त एवं दोषद्वयेत्यर्थः । घटाद्युपाध्यपेक्षया पूर्वं भेदानङ्गीकारादाद्यदोषपरिहारः । घटादीनामुपत्त्यनङ्गीकारान्न द्वितीयदोष इति भावः । न केवलमेवमङ्गीकारे दोषद्वयपरिहारमात्रं किन्तर्हीत्यत आह — एवं
चेदिति ॥ अविद्यमानं भेदं प्रतिभासयतीत्यङ्गीकारे भेदस्य मिथ्यात्वं प्राप्तं तथाचाभेदवादिनो वयं चरितार्थाः । भेदस्य पारमार्थिकत्वाभावेन दृष्टान्ते साध्यवैकल्याभावादिति भावः । एवमभेदे प्रत्यक्षानुमाने अभिधायागमं चाह — श्रुतय इति ॥ उपसंहरति — तस्मादिति ॥ भेदे मानाभावादभेदे तत्सद्भावाच्चेत्यर्थः ।