नन्वथाऽपि घटादिरूपोपाधिः किं गगनमात्रं स्पृशति उत गगनैकदेशम्
(१०)भेदोज्जीवनम्
(१०) नन्वथाऽपि घटादिरूपोपाधिः किं गगनमात्रं स्पृशति उत गगनैकदेशम् । नाद्यः सर्वोऽपि घटाकाशः स्यात् । द्वितीये स्वाभाविकांशसिद्धिरिति चेन्न । सर्वोऽप्याकाशो घटाकाशः स्यादिति कोऽर्थः । किं घटसम्बन्धी स्यादिति उत घटपरिमाणसदृशपरिमाणः स्यादिति, सर्वोऽपि महाकाशः घटाकाशः स्यादिति वा । नाद्यः । इष्टापत्तेः । न द्वितीयः । उपाधेः प्रतिबिम्बपक्षपातिस्वाभाव्येन (प्रतिबिम्बपक्षपातित्वेन) (प्रतिबिम्बपक्षपातित्वावश्यम्भावेन) घटस्योपाधेः प्रतिबिम्बस्थानीयाकाशे स्वगतपरिमाणप्रतीत्याधानात् । महाकाशं तु बिम्बस्थानीयमिति (बिम्बस्थानापन्नमिति) न तत्र स्वधर्मोपरञ्जकः । अत एव न तृतीयः । उपरञ्जितघटधर्मत्वस्य घटाकाशपदप्रवृत्तिनिमित्तस्य परिच्छिन्नाकाश इव महाकाशेऽभावेन तत्र तदव्यवहारात् । संयोगस्य स्वात्यन्ताभावसमानाधिकरणत्वं प्रमाणबलादङ्गीक्रियते । प्रमाणमेव विरोधं शमयिष्यति । `संविदेव हि भगवती विषयसत्त्वोपगमे नः शरण’मिति न्यायादिति ।
(१०)भावप्रदीपः
॥ अथापीति ॥ उक्तरीत्या गगने स्वाभाविकांशसिद्धावपि विकल्पद्वये द्वितीयविकल्पेऽङ्गीक्रियमाणे सति स्वाभाविकांशसिद्धिरिति योजना ॥ गगनमात्रमिति ॥ कृत्स्त्रगगनमित्यर्थः । तत्र प्रथमपक्षं तावत्कक्षीकृत्य तत्रोक्तं दूषणं परिहर्तुं विकल्पेन पृच्छति ॥ सर्वोऽप्याकाश इति ॥ सर्वोऽपि घटाकाशो महाकाशः स्यादिति वेति । सर्वोऽपि महाकाशो घटाकाशः स्यादिति योजना । क्वचित्तु तथैव पाठः । घटाकाशः स्यादित्यस्य घटाकाशपदेन व्यवह्रियमाणः स्यादित्यर्थः ॥ स्वगतपरिमाणप्रतीत्याधानादिति ॥ स्वगतवितस्त्यादिपरिमाणं घटाकाशे आदाय तत्प्रतीतिजनकत्वादित्यर्थः । अत एव न तत्र स्वधर्मोपरञ्जक इति वक्ष्यति । वितस्त्यादिपरिमाणत्वरूपस्वधर्मासञ्जक इत्यर्थः । अत एवेत्युक्तमेव विवृणोति — उपरञ्जितघटधर्मत्वस्येति ॥ आसञ्जितवितस्त्यादिपरिमाणरूपघटधर्मकत्वस्येत्यर्थः ॥ तत्र तदव्यवहारादिति ॥ महाकाशे घटाकाशपदव्यवहाराभावादित्यर्थः । यद्यप्याद्यपक्षो नाद्वैतवादिनः सम्मतस्तथाऽपि तत्रोक्तदूषणमलग्नकमित्युपपादनार्थं तत्कक्षीकरणमिति ज्ञातव्यम् । अत एव द्वितीयपक्षमभ्युपेत्य तत्रोक्तं दूषणं परिहरति — संयोगस्येति ॥ अयमाशयः । घटद्युपाधिर्गगनैकदेशं स्पृशतीति पक्षमेवाङ्गीकुर्मः । न च तर्हि स्वाभाविकांशसिद्धिरिति सन्तोष्टव्यम् । गगनैकदेशं स्पृशतीत्यस्य गगनैकदेशेन संयोगवानित्यर्थानङ्गीकारात् । किन्तु घटसंयोगो गगने स्वात्यरन्ताभावसमानाधिकरण इत्यत्र तात्पर्यम् । न च तथात्वेऽपि स्वाभाविकांशसिद्धिर्दुर्वारा । प्रतियोगितदत्यन्ताभावयोर्विरुद्धत्वेन सामानाधिकरण्यासम्भवेन विरोधपरिहारार्थमंशभेदस्यावश्यमङ्गीकार्यत्वादिति वाच्यम् । वृक्षे कपिसंयोगतदत्यन्ताभावयोरिव गगनेऽपि घटतदत्यन्ताभावयोर्युगपदेव प्रत्यक्षेण दर्शनात् । प्रमाणसिद्धे चार्थे विरोधशङ्कानवकाशादिति ॥ अत्र नैय्यायिकन्यायसम्मतिमाह — संविदेवेति ॥ भगवती मान्या । अपलापानर्हेति यावत् ।
(१०)भेदचिन्तारत्नं
स्वाभाविकभेदेऽनुपपत्तिमुक्त्वौपाधिकभेदवतामैक्यं परिहरति — नन्विति ॥ घटस्याकाशो घट इवाकाशो घटस्यैवाकाश इति त्रेधाऽभिप्रेत्य पृच्छति — घट इत्यादिना । तृतीयपक्षस्य घटाकाशो मठाकाश इति व्यवहारभेदो न स्यादित्यर्थः ॥ प्रतिबिम्बेति ॥ इदमत्र रहस्यम् । उपाधिरेकमेव बिम्बं द्वेधा प्रदर्शयति । अत्र प्रतिबिम्बपरिमाणादिकमादधाति । एवञ्च एक एव महाकाशो घटाकाशतया प्रतिबिम्बतामाकाशान्तरत्वमापद्यते । स एव घटपरिमाणतयोच्यत इति ॥ अत एवेति ॥ प्रतिबिम्बपक्षपातित्वादेवेत्यर्थः ॥ प्रवृत्तिनिमित्तस्येति ॥ एवञ्च घटसम्बन्धमात्रस्यानिमित्तत्वान्न व्यभिचार इति भावः । सर्वाकाशस्यापि घटसम्बन्धित्वे प्रदेशान्तरे तदभावधीर्न स्यादित्यत आह — संयोगस्येति ॥ तत्र प्रदेशे आकाशो घटसंयोगी अत्र तु नेति सामानाधिकरण्ये प्रमाणाभावादित्यर्थः । न चात्र भिन्नाधिकरणत्वमेव दृश्यत इति वाच्यम् । आकाशः संयोगी आकाशो न संयोगीत्युभयत्राकाशस्य विशेष्यतया भानात् । अत्र तत्रेत्यवच्छेदकमात्रत्वादिति ॥ प्रमाणमेव विरोधंशमयिष्यतीति । वैय्यधिकरण्यप्रमाणेन किल विरोधो ग्राह्यः । यदि तदेव सामानाधिकरण्यग्राहि तदा कथं विरोध इति भावः ।
(१०)भेदचन्द्रिका
गगनमात्रं कृत्स्त्रगगनम् ॥ स्वाभाविकांशसिद्धिरितीति । तथा च दृष्टान्ते साध्यवैकल्यमिति भावः ॥ सर्वोऽपि घटाकाशो महाकाशः स्यादिति वेति ॥ सर्वोऽपि महाकाशो घटाकाशो घटाकाशपदवाच्यः स्यादिति योजना । क्वचित्तथैव पाठः ॥ उपाधेः प्रतिबिम्बपक्षपातित्वेति ॥ दर्पणाद्युपाधेः स्वगतमालिन्यादेः प्रतिमुख एवोन्मज्जनदर्शनेन तथा स्वभावकल्पनमिति भावः । स्वधर्मोपरञ्जको घट उपाधिरिति विभक्तिविपरिणामेनावृत्त्याऽन्वयः । ननु परिच्छिन्नाकाशमहाकाशयोर्न मुखप्रतिमुखन्यायेन बिम्बप्रतिबिम्बभावः । घटस्यास्वच्छद्रव्यत्वेनाकाशस्य च नीरूपत्वेन तत्र तस्य प्रतिबिम्बत्वायोगात् । योगे वा दर्पणस्थमालिन्यं यथा समस्तमुखप्रतिबिम्बे भासते न तु तदेकदेशे कर्णादौ तथाऽत्रापीति सर्वं मुखं मलिनमितिवत्सर्वाकाशो घटपरिमाण इति बुद्धिः स्यात् । तस्माद्धटसम्बन्ध आकाशैकदेशवृत्तिरिति वक्तव्यम् । तस्याप्येकदेशस्यौपाधिकत्वेऽनवस्थानात् स्वाभाविक इति वक्तव्यम् । तथा च दृष्टान्ते साध्यवैकल्यमित्यत आह — संयोगस्येति ।
(१०)भेदसञ्जीविनी
॥ गगनमात्रमिति ॥ क्लृप्तं गगनमित्यर्थः ॥ घटपरिमाणेति ॥ महाकाश इत्यादिः । महाकाशे घटपरिमाणसमानपरिमाणत्वप्राप्तौ तस्य महत्त्वाभावाद्धटातिरिक्ते तत्प्रतीत्यभावापात इति भावः ॥ महाकाशः स्यादिति वेति ॥ घटावच्छिन्नाकाश एव महत्त्वबुद्ध्यापात इति भावः । स्वनिमित्तकाकाशांश एव स्वधर्माधायकत्वेन घटपरिमाणस्य महाकाशे प्राप्तौ बीजाभावः । तयोर्भेदस्यैवोपाधिना कृतत्वादिति समाधिं दृष्टान्तप्रदर्शनपूर्वकं वक्ति ॥ उपाधेरिति ॥ प्रतिबिम्बेति ॥ बिम्बप्रतिबिम्बयोरैक्येऽप्युपाधिना तत्र भेदावभासपूर्वकं प्रतिबिम्ब एव स्वकीयमालिन्यादिधर्मावभासकत्वदर्शनेनोपाधेः प्रतिबिम्बपक्षपातित्वस्वाभाव्येनेत्यर्थः । भवतु प्रकृते किमायातम् । महाकाशघटाकाशयोर्बिम्बप्रतिबिम्बभावाभावाद्घटादेरस्वच्छत्वादित्यत आह — प्रतिबिम्बस्थानीयेति ॥ स्वनिमित्तकभेदवत्त्वादिना प्रतिबिम्बसदृश इत्यर्थः । तथा चोपाधेर्भेदवत्त्वेन स्वकल्पितत्वावच्छेदेन स्वधर्माधायकत्वं लाघवात्स्वीक्रियते न तु तद्विशिष्टप्रतिबिम्बत्वावच्छेदेन गौरवात् । न तु प्रतिबिम्बत्वावच्छेदेन स्वकल्पितप्रतिबिम्बेष्वपि तथात्वापातादिति भावः ॥ स्वाधर्मोपरञ्जक इति ॥ उपाधेरित्यतः प्रथमान्ततयाऽनुवर्तते ॥ उपरञ्जितघटधर्मत्वस्येति ॥ घटेनोपरञ्जित उपरञ्जितघटः । राजदन्तादिवत्तृत्तीयातत्पुरुषेऽपि परनिपातः । स चासौ धर्मश्चेति विग्रहः । अथवोपञ्जितघटको घटो यस्मिन्धर्मे घटाकाशत्वादौ स उपरञ्जितघटः स चासौ धर्मश्चेति विग्रहः । तथा च घटरूपोपाध्युपरागात्प्रतीयमानस्य घटाकाशपदार्थतावच्छेदकीभूतघटवृत्तित्व(घटित)घटाकाशत्वरूपधर्मस्य महाकाशेऽभावेन घटाकाशत्वमहत्त्वयोः सामानाधिकरण्याभावेन घटाकाशो महान्स्यादित्यापादनमयुक्तमिति भावः । कुतो महाकाशे तदभावः । उपाधेः प्रतिबिम्बपक्षपातित्वेन बिम्बे स्वधर्मानाधायकत्वस्योक्तत्वात् ॥ तत्र तदव्यवहारादिति ॥ घटाकाशे महत्त्वव्यवहाराभावादित्यर्थः । अ(त)त्रैव पूर्ववाक्योपपादितो महत्त्वघटाकाशत्वयोः सामानाधिकरण्याभावो हेतुः। पूर्ववाक्यैतावत्पर्यन्ताभिप्रायो वक्तव्यः । महाकाशे घटाकाशत्वं कुतो न स्वीक्रियत इत्यत आह — तत्रेति ॥ महाकाशे घटाकाशत्वव्यवहाराभावादित्यर्थः । व्यवहारपदं व्यवहारतन्मूलप्रतीत्यादिप्रमाणोपलक्षणम् । स्वाभाविकांशानङ्गीकारे आकाशे घटासंयोगदशायामेव प्रतीयमानतदभावो न घटेत । एकत्र भावाभावयोर्विरोधादंशभेदस्य स्वाभाविकस्याङ्गीकारे व्यवस्थया तदुभयसत्त्वसम्भवादित्यत आह — संयोगस्येति ॥ केचित्तु परिच्छिन्नाकाशमहाकाशयोर्न मुखप्रतिमुखन्यायेन बिम्बप्रतिबिम्बभावः । आकाशस्य नीरूपत्वाद्घटस्यास्वच्छत्वात् । योगे वा सर्वं मुखं मलिनमितिवत्सर्वाकाशे घटपरिमाणधीः स्यादतो घटस्याकाशसम्बन्धित्वमेव वक्तव्यम् । तस्य चांशवृत्तित्वासिद्ध्यर्थं स्वाभाविकांशोऽपेक्षित इत्यत आह — संयोगस्येति ॥ (तथा च) संयोगस्य प्रदेशवृत्तित्वानङ्गीकारान्नांशापेक्षेति भाव इत्याहुः । प्रथमपक्षमाशङ्क्येष्टापत्तेरिति । घटसंयोगाङ्गीकारे त्वेतद्दूषणेन तद्व्यवस्थापनमप्रयोजनम् । प्रतिबिम्बस्थानीयत्वस्य तल्लक्षणस्यैवोक्तत्वेन प्रतिबिम्बत्वानुक्त्या तद्दूषणासङ्गतिः । अङ्गीकृत्योपाघेर्दूषणपक्षे च प्रतिबिम्ब एव सर्वमुखं मलिनमिति व्यवहारादिजनकत्ववदत्रापि घटाकाशे तत्परिमाणप्रतीतिजनकत्वं वर्तत एव महाकाशे तदापादकं तु नास्त्येव । आलोकस्थदर्पणे आलोकत्वप्रतिबिम्बदर्शनेन तत्प्रतिबिम्बकत्वस्य तत्सम्बन्धाविरोधितया तत्सम्बन्धव्यवस्थापनाय तत्प्रतिबिम्बकत्वनिराकरणं चानुपयुक्तमित्यादिकमत्र कथं परिहर्तव्यमिति चिन्त्यम् । स्वात्यन्ताभावेत्याद्यंशभेदं विनाऽपीत्यादिर्विरुद्धद्वयं कथं प्रमाणबलादङ्गीक्रियते । स्वविषयीभूतार्थविरुद्धार्थावगाहिनः प्रमाणत्वस्यैव दुर्घटत्वादित्यत आह — प्रमाणमेवेति ॥ शमयिष्यति निराकरिष्यति । विरोधो नामैकाधिकरणावृत्तित्वं तच्च न सिध्यति । एकज्ञाने उभयोः सामानाधिकरण्याभानात् । तथा च तयोर्विरुद्धत्वमेव नास्तीत्यर्थः । तर्हि निर्वह्निर्वह्निमानित्येकज्ञाने भानादेतत्प्रतीत्या सर्वाभावयोर्विरोधोच्छेदापत्तिरित्यत आह — संविदेव हि भगवतीति । अबाधितसंविदित्यर्थः । तथा चाबाधितबुद्धिरेव वस्तुव्यवस्थापिका न बुद्धिमात्रम् । निर्वह्निर्वह्निमानित्यादेरुत्तरत्रैकतरबाधप्रमादर्शनेन नाविरोधोपपादकत्वमत्र तूभयांशेऽप्युत्तरत्र बाधादर्शनादविरोध एवेति भावः ।
(१०)काशीतिम्मण्णाचार्य
स्यादेतत् । घटादेर्घटाकाशादिव्यवहारहेतुत्वान्यथानुपपत्त्यैवाकाशभेदः सेत्स्यति । तथाहि — आकाशासम्बद्धस्य सर्वाकाशसम्बद्धस्य वा घटादेर्घटाकाशादिव्यवहारहेतुत्वे सर्वाकाशस्य घटाकाशत्वापत्तेरेकदेश सम्बद्धस्यैव तथात्वं वाच्यम् । एकदेशस्यौपाधिकत्वे चैवमेवानवस्थानात् स्वाभाविकत्वस्यैव वाच्यतया तन्निर्वाहकस्वाभाविकभेदसिद्धिरित्याशङ्कते — नन्विति ॥ अथापि उक्तप्रतीत्यापि भेदसिद्ध्यनङ्गीकारेऽपि । उपाधिर्घटाकाशादिव्यवहारहेतुः ।
गगनमात्रं स्पृशतीत्यस्य किमखिलं गगनं स्पृशतीत्यर्थः किं वा निखिलावयवेषु गगनमित्युत निखिलोपाध्यवच्छेदेन गगनमित्याहोस्विदुपाध्यनवच्छिन्नं गगनमिति ? नाद्यः । गगनस्यैकत्वात् । न
द्वितीयः । निरवयवत्वात् । न तृतीयः । अनुभवविरोधात् । चतुर्थस्तावदङ्गीक्रियते । तत्र च नोक्तदोष इत्यत आह — नेति ॥ धटपरिमाणसमानपरिमाणः स्यादिति ॥ तादृशपरिमाणवत्त्वेन व्यवहर्तव्यः स्यादित्यर्थः । उपाधेः स्वोपहिते स्वधर्मव्यवहारहेतुत्वादिति भावः ॥ महाकाशो घटाकाशः स्यादिति ॥ उपाध्यनवच्छिन्नोऽपि घटाकाशत्वेन व्यवहर्तव्यः स्यादित्यर्थः । व्यवहारनिमित्तस्योपाधिसम्बन्धस्य महाकाश एव प्राप्तेरिति भावः । ननु बिम्बप्रतिबिम्बभावस्थले ह्युपाधेः प्रतिबिम्बपक्षपातित्वम् । दर्पणादिना प्रतिमुख एव स्वगतमालिन्याधानदर्शनात् । प्रकृते च तदभावान् महाकाशेऽपि घटपरिमाणाधानापत्तिरित्याशङ्क्योक्तम् – प्रतिबिम्बस्थानीयेति ॥ उपाधेः काल्पितभागमात्रपक्षपातित्वस्वाभाव्यादिति भावः ॥ अत एवेति ॥ घटाद्युपाधेः स्वोपहित एव स्वधर्माधायकत्वादित्यर्थः । एतदेव विवृणोति ॥ उपरञ्जितेति ॥ तथाच तत्पदप्रवृत्तिनिमित्ताभावादेव तदव्यवहार इति भावः ॥
नन्वेवमाकाशे घटादिसंयोगस्याव्याप्यवृत्तित्वं न स्यात् । तस्य स्वात्यन्ताभावसमानाधिकरणत्वरूपस्य प्रदेशभेदनिर्वाह्यत्वादित्यत आह — संयोगस्येति ॥ प्रमाणबलादिति ॥ इह घटसंयोगो, नेहेति प्रतीतिबलाद्धटगगनसंयोगः स्वाधिकरणयावन्निष्ठाभावप्रतियोगी संयोगत्वात्, वृक्षवानरसंयोगवदित्यनुमानबलाच्चेत्यर्थः ।
एवमुपाधिर्गगनमात्रं स्पृशतीत्याद्यपक्षाङ्गीकारेण समाधाय गगनैकदेशमिति द्वितीयपक्षाङ्गीकारेण तद्विवरणमेव स्वात्यन्ताभावेत्यादिना कृतमिति तूपचिन्त्यम् । गगनावयवसम्बन्धित्वरूपमुख्यार्थाभिप्रायेण गगनैकदेशं स्पृशतीति विकल्पितत्वात् । निरुक्तगौणार्थाङ्गीकारमात्रेण तत्पक्षाङ्गीकारायोगात् । प्रथमपक्षेऽप्येतदङ्गीकारेणैतस्य पक्षान्तरत्वासम्भवाच्च । नन्वेवं सति यो यत्प्रतियोगी स तद्विरोधीति सामान्यतः प्रतियोग्यभावयोर्विरोधग्राहकमानविरोध इत्यत आह — प्रमाणमेवेति ॥ विरोधं शमयिष्यति ॥ तद्ग्रहं निवर्तयतीत्यर्थः । विशेषप्रमाणेन सामान्यव्याप्तेराभासीकरणादिति भावः । इममेव वृद्धसम्मत्या द्रढयति — संविदेव हीति ॥ भगवतीत्यबाधितत्वेनादरणीयत्वमाह । शरणं हेतुः ।
(१०)शर्कराश्रीनिवासाचार्य
प्रकारान्तरेणाऽकाशभेदं शङ्कते — नन्विति ॥ अथापि उक्तरीत्याऽऽकाशभेदासिद्धावपि वक्ष्यमाणप्रकारेण सिध्यतीत्यर्थः । कोऽयं वक्ष्यमाणप्रकार इत्यत आह — घटेत्यादि ॥ असम्बद्धस्य भेदकत्वे पटासम्बद्धमहारजनस्यापि तथात्वापत्त्या सम्बद्धस्यैव भेदकत्वं वाच्यम् । तथाच घटाख्योपाधियोगः किं सर्वाकाशवृत्तिर् उतैकदेशवृत्तिरित्यर्थः ॥ सर्वोऽपीति ॥ उक्तमहारजनस्य सर्वपटसम्बन्धित्वे सर्वस्यापि रक्तपटत्वदर्शनादिति भावः ॥ स्वाभाविकांशसिद्धिरिति ॥ ननु मास्तु गगने स्वाभाविकांशः नच तथात्वे घटस्य गगनैकदेशं सम्बध्य भेदकत्वायोगः । औपाधिकांशाङ्गीकारेण तं सम्बध्य भेदकत्वोपपत्तेरिति चेन्न । औपाधिकांशाङ्गीकारेऽनवस्थाप्रसङ्गात् । तथाहि । उपाधिकृतो ह्यंश औपाधिकः । तत्र प्रष्टव्यं किमयमुपाधिः सर्वाकाशं स्पृशत्युतैकदेशमिति । नाद्यः । सर्वस्याप्याकाशस्यौपाधिकत्वप्रसङ्गात् । द्वितीये प्रष्टव्यं स चैकदेशः स्वाभाविक उतौपाधिकः । नाद्यः । अनङ्गीकारात् । द्वितीये सोऽप्युपाधिस्सर्वमुतैकदेशमिति विकल्पदूषणपरम्परापर्यवसानादिति भावः । प्रथमविकल्पमङ्गीकृत्य तत्रोक्तदूषणं निराकर्तुं पृच्छति ॥ सर्वोऽपीति ॥ घटाकाश इति आकाशो घटाकाशपदेन व्यवहर्तव्यः स्यादित्यर्थः ॥ इष्टापत्तेरिति ॥ आकाशे एकदेशानङ्गीकाराद् घटसम्बन्धः सर्वाकाशवृत्तिरिति भावः ॥ उपाधेः प्रतिबिम्बेति ॥ प्रतिबिम्ब एव स्वधर्मासञ्जकत्वं ह्युपाधेः स्वभावः । यथा दर्पणरूपोपाधिः प्रतिबिम्बे प्रतिमुखे स्वगतमलिनत्वादिधर्ममासञ्जयति । दर्पणस्य मलिनत्वे प्रतिमुखेऽपि मलिनतत्वप्रतीतेः । दर्पणस्य मलिनत्वेऽपि मुखे स्वच्छत्वप्रतीतेः । तथात्रापि घटोपाधिः प्रतिबिम्बे घटाकाशे स्वगतपरिमाणमासञ्जयति । नतु बिम्बे महाकाशे । अतो न तस्य घटसमानपरिमाणत्वमिति भावः । आधानाद् आसञ्जनात् । तत्र महाकाशे ॥ अत एवेति ॥ घटस्योपाधेर्महाकाशे स्वगतपरिमाणासञ्जकत्वाभावादेवेत्यर्थः । ननु घटेनोपाधिना महाकाशे स्वगतपरिमाणानासञ्जनेऽपि महाकाशपदव्यवहारः किं न स्यादित्यत आह — उपरञ्जितघटधर्मत्वस्येति ॥ उपरञ्जित आहितः घटधर्मः परिमाणरूपो यस्य स तथा तस्य भावस्तत्वम् । तस्येत्यर्थः । परिच्छिन्नाकाशे घटाकाशे । तत्र महाकाशे । तद्व्यवहाराद् घटाकाशपदव्यवहाराभावात् । अयमर्थः । पदव्यवहारो हि पदप्रवृत्तिर्निमित्तं
कारणम् । यथा हि परिच्छिन्नाकाशे घटाकाशपदप्रवृत्तिनिमित्तस्य घटाहितपरिमाणाख्यधर्मस्य सत्त्वेन तत्र घटाकाशशब्दव्यवहारः । नच महाकाशे आहितघटधर्मरूपं घटाकाशपदप्रवृत्तिनिमित्तमस्ति । येन महाकाशे घटाकाशपदप्रयोगः स्यादिति । एवमाद्यपक्षमङ्गीकृत्य समाधायेदानीं घटसंयोगस्याकाशैकदेशवृत्तित्वमिति द्वितीयपक्षमङ्गीकृत्य नैयायिकरीत्या समाधत्ते ॥ संयोगस्येति ॥ धटसंयोगस्यैकदेशवृत्तित्वं हि नैकदेशे विद्यमानत्वम् । किन्तु स्वात्यन्ताभावसमानाधिकरणत्वम् । अस्यार्थः । स्वः संयोगस् तत्प्रतियोगिको योऽत्यन्ताभावः संयोगात्यन्ताभावः । तेन समानमेकमधिकरणं यस्य स तथोक्तस् तस्य भावस्तत्वमिति । समानपदस्यैकार्थकत्वं `समानं वृक्ष’मित्यत्र दृष्टम् । ननु प्रतियोगितदत्यन्ताभावयोरेकत्र विरोधात्कथमेतदित्यत उक्तं प्रमाणबलादिति । इह घटाकाशसंयोगो नेह मूले कपिसंयोगो नाग्रे इत्यादिप्रतीतिरूपप्रमाणबलादित्यर्थः । प्रमाणप्रमितेविरोधाप्रसरादिति भावः । अत्र नैयायिकन्यायसम्मतिमाह — संविदेव हीति ॥ नोऽस्माकम् । विषयसत्त्वोपगमे पदार्थसत्वाङ्गीकारे । भगवती पूज्या । संविदेव प्रतीति
रेव । शरणं रक्षकम् । प्रमाणमिति यावदिति न्यायार्थः । एवमाकाशभेदे मानाभावान्न घटस्याकाशभेदव्यञ्जकत्वमिति स्थितम् ।