ननु कथमाकाशभेदे प्रमाणाभावः
(९) भेदोज्जीवनम्
(९) ननु कथमाकाशभेदे प्रमाणाभावः । इह पक्षी नेह पक्षीति प्रतीतिरेव मानमिति चेन्न । आलोकमण्डलविषयत्वात्तस्याः । इहाऽलोक इत्यत्रालोकावयवानामिहेति निर्देशात् । नेहाऽलोक इत्यत्र गगनस्य निर्देशात् । इहाऽलोक इति प्रतीतिरिह गगनमिति प्रतीतिवदौपचारिकी वा ।
(९)भावप्रदीपः
॥ इह पक्षीति । तथाच पक्ष्याश्रय एको भागस्तदभावाश्रय एको भाग इति भागभेदः सिध्यतीति भावः ॥ आलोकमण्डलेति ॥ तथा चेहेति नाकाशभागप्रतीतिः किन्त्वालोकमण्डलमेवेहप्रतीतिविषय इति
भावः । एवं तर्हीहाऽलोक इत्यत्रेहप्रत्ययस्य का गतिः । नहि तत्राप्यालोकमण्डलमेवेहेति प्रतीयत इति वक्तुं शक्यम् । आत्माश्रयप्रसङ्गात् । अतस्तत्राकाशभाग एवेहप्रत्ययगोचर इति वाच्यम् । तद्वदिह पक्षीत्यत्रापि स एव विषयः किन्नाङ्गीक्रियत इत्याशङ्क्य तस्याप्यन्यथोपपत्तिमाह — नेहाऽलोक इतीति ॥ इह तन्तुषु पट इतिवदिहाऽलोकावयवेष्वालोक
इति प्रतीतिरुपपद्यत इति भावः । तर्हि नेहाऽलोक इत्यालोकाभावः प्रतीयते । न च तत्राप्यालोकावयवा इहप्रत्ययविषयः । आलोकावयवेषु भासमानेषु सत्सु नेहाऽलोक इति प्रतीत्यनुपपत्तेः । अतस्तत्राकाशभाग एवेहप्रत्ययविषय इत्यङ्गीकार्यमित्यत आह — नेहाऽलोक इति ॥ तत्र गगनमेवेहप्रत्ययविषयो न तद्भाग इत्यर्थः । नन्विहाऽलोक इत्यत्रालोकावयवानां विषयता । नेहाऽलोक इत्यत्र गगनस्य विषयतेति द्वैविध्यकल्पने न किञ्चिन्मूलम् । विना स्वदृष्टिपक्षपातादित्यस्वरसादाह — इहाऽलोक इति प्रतीतिरिति ॥ यथा गगनस्य गगनाश्रयताभावेऽपीह गगनमिति गगनाश्रयताप्रतीतिरौपचारिकी एवमालोकस्यालोकाश्रयत्वाभावेऽपीहाऽलोक इत्यालोकस्यैवालोकाश्रयत्वेन प्रतीतेरौपचारिकत्वोपपत्त्या नानया प्रतीत्या गगने भागभेदसिद्धिरिति भावः । अत्र प्रतीतेरौपचारिकत्वं नाम भेदाभावेऽप्याधाराधेयभावावगाहित्वेनामुख्यार्थविषयकत्वम् । आधाराधेयभावो हि भेदसमानाधिकरणो मुख्यः । तदसमानाधिकरणस्त्वमुख्यो विवक्षितः । एवञ्चोपचारस्य शब्दधर्मत्वेन प्रतीतेरौपचारिकत्वं कथमिति शङ्कानवकाशः । केचित्त्वौपचारिकशब्दप्रयोगजनकीभूता बुद्धिरौपचारिकीत्युपचर्यत इत्याहुः । तन्न प्रतीतिसमानाकारस्य प्रयोगस्यौपचारिकत्वायोगेन तज्जनकबुद्धेरौपचारिकतायाः सुतरामयोगात् ।
(९)भेदचिन्तारत्नम्
॥ तस्या इहेति प्रतीतेरित्यर्थः । यद्यप्यौपाधिकविषयत्वादित्येव वक्तव्यम् । परेण पक्षितदभावोपलक्षितयोरुपाधित्वाङ्गीकारात् । तथाऽप्यप्रत्यक्षत्वस्यापि घटनाय केषाञ्चिदुत्प्रेक्षावादोऽयमित्यदोषः ॥ इहाऽलोक इति ॥ अत्र पूर्ववदालोकप्रवेशे आत्माश्रयादिति भावः । नन्विहाऽलोकावयव इत्यत्रानुपपत्तिरित्यस्वरसादाह — इहेति ॥ औपचारिकीति । इदं च स्वरीत्या वस्तुत’स्त्वीशो दिशश्च कालश्च स्वगता एव सर्वदे’ति वचनात्सा प्रतीतिर्मृख्यैवेति ज्ञातव्यम् ।
(९)भेदचन्द्रिका
आकाशभेदे मानमाशङ्कते — ननु कथमिति ॥ यद्यप्यनया प्रतीत्याऽऽकाशे पाक्षितदभावौ गृह्येते न तद्भेद इति कथमियं भेदे प्रमाणम् । तथाऽपि प्राचीनमते द्रव्यस्य स्वसमानाधिकरणात्यन्ताभावप्रतियोगित्वरूपाव्याप्यवृत्तित्वाभावात् । एकत्र पक्षितदभावाधारत्वासम्भवाद् अनुमानमुद्रयाऽनया भेदसिद्धिः । न चेयं पक्षिसंयोगतदभावविषयेति वक्तुं युक्तम् । शब्दस्येव प्रतीतेर्व्याख्यानायोगात् । इदं पक्षिमन्नेदं पक्षिमदिति भेदप्रतीतिरपि बोध्या ॥ आलोकमण्डलेति ॥ अधिकरणतयाऽऽलोकमण्डलविषयत्वादस्या नानया आकाशभेद इति भावः । नन्विहाऽलोको नेहाऽलोक इति प्रतीतिराकाशभेदसाधिका । न चात्रेहेत्यालोकनिर्देशः सम्भवति । आत्माश्रयादित्यत आह — इहाऽलोक इति ॥ अत्रापि न गगनमधिकरणतया विषयः । गगनस्य नीरूपत्वेन चाक्षुष्यामस्यां विषयताऽयोगात् । नियतोपनायकाभावेनोपनयकल्पनायोगात् । आलोकावयवानामेव विषयता युज्यत इति भावः ॥ औपचारिकीति । ननूपचारो गौणी वृत्तिर्लक्षणा तदतिरिक्ता तदन्तर्भूता वा । सा तु शब्दवृत्तिः कथं प्रतीतौ स्यादिति चेन्न । यत औपचारिकशब्दप्रयोजकीभूता बुद्धिरौपचारिकीत्युपचर्यते । एवं नेह पक्षीत्यादौ गगनस्याधिकरणत्वं वदत इह गगनमिति प्रतीतावत्माश्रयेण गगनस्य गगनाधिकरणत्वासम्भवेन यथाकथञ्चिद्भेदेऽप्याधाराधेयभावोऽमुख्यो वक्तव्यस्तद्वदेव प्रकृत इति
भावः ।
(९)भेदसञ्जीविनी
॥ इह पक्षीति । पक्षितदभावयोर्विरोधेनैकप्रतीतावेकदेशभानानुपपत्तेरियं प्रतीतिराकाशांशरूपदेशयोर्भेदं विषयीकृत्य तत्र भावाभावौ विषयीकरोतीत्यंशभेदे प्रत्यक्षमेव मानमिति भावः । ननूक्तप्रतीतेरंशभेदविषयकत्वेऽपि न स्वाभाविकांशभेदविषय(क)त्वं सिध्यति । पक्षिरूपोपाधिकृतांशे भेदस्यैव विषयीकरणसम्भवात् । मैवम् । पक्षिसम्बन्धभागे पक्षिरूपोपाधिकृतभेदभानाङ्गीकारेऽपि तद्रहितभागे मूर्तद्रव्यसम्बन्धाभावेन तत्रैतद्देशभेदस्य वक्तुमशक्यत्वात्तत्राविद्यमानस्य तद्भेदकत्वेऽतिप्रसङ्गात् । न च पक्ष्यभाव एव भेदकः । पूर्वमपि तत्र सत्त्वेन तदापि त्वन्मते भेदप्रसङ्गेन पूर्वमेव भिन्नतद्भानापत्तेः । न चेष्टापत्तिः । अनादितस्तत्सत्त्वे उपाधिकृतत्वकल्पने गौरवप्रसङ्गेन स्वाभाविकत्वसिद्धेरित्याशयात् ॥ आलोकमण्डलेति ॥ प्रतीतेश्चाक्षुषत्वानुभवेन चक्षुर्गोचरालोकविषयकत्वस्यैव युक्तत्वाद्गगनस्याचाक्षुषत्वात् । न चैतत्प्रतीत्याऽऽलोके स्वाभाविकांशसिद्धौ गगनेऽपि तन्न्यायेन तत्सिद्धिरिति वाच्यम् । आलोकमण्डलस्य तज्जन्यत्वेन तदंशानां पटांशानामिव स्वांश्यालोकमण्डलजनकाधीनत्वादिति भावः । नन्वेवमपीहाऽलोको नेहाऽलोक इत्यत्र गगनांशभेदभानं विना गत्यभावः । आलोके आलोकस्य वृत्तित्वाभावादालोकभेदमादाय तदुपपादनेनेहाऽलोक इति प्रतीत्यनुपपत्तिरित्याशङ्क्याधिकरणतया भासमानविषयभेदं दर्शयति — इहाऽलोक इत्यादि ॥ ननु आलोकावयवे आलोकस्य समवायेन भासमानत्वेनेत्यत्र गगनं निर्दिश्य तत्सम्बन्धावच्छिन्नाभावो भासत इति वाच्यम् । तथा चालोकमण्डलसम्बद्धगगनेऽप्युक्तसम्बन्धावच्छिन्नालोकाभावसत्त्वान्नेहाऽलोक इति प्रतीत्यापत्तिः । गगनस्याचाक्षुषत्वेनाधिकरणांशे चाक्षुषत्वानुभवविरोधश्चेत्यत आह — इह गगनमितिवदिति ॥ प्रतीतिस्तु शाब्दी वा मानसी वेति अन्यदेतत् । सर्वथा स्वस्य स्वाधिकरणताया आत्माश्रयप्रसङ्गेन बाधिततया तद्देशस्थमूर्तान्तरं सम्बन्धं विषयीकरोतीति वक्तव्यम् । तद्वदिहाऽलोक इति प्रतीतिरिति भावः । औपचारिकी मुख्याधिकरणत्वाविषयिणी घटे ज्ञानं वटे गाव इति शब्दोल्लेखिप्रतीतिवदमुख्यसम्बन्धान्तरविषयिणीत्यर्थः । तेनोपचारपदार्थभूतामुख्यवृत्त्योः शब्दाश्रितत्वेन प्रत्यक्षे तदसम्भवेऽपि न क्षतिः ॥
(९)काशीतिम्मण्णाचार्य
मानमित्यस्याकाशभेद इत्यादिः । यद्यपीह पक्षी, नेह पक्षीति प्रतीतेः पक्षितदभावयोराकाशवृत्तित्वावगाहितया नाकाशभेदे मानत्वम् । तथापि तादृशप्रतीतिर्विभिन्नदेशवृत्तित्वविषया, विरुद्धधर्मविषयत्वात् । इह घटत्वं नेह घटत्वमिति प्रतीतिवदित्यनुमानोत्थापकतया मानत्वं बोध्यम् । वस्तुतः पक्ष्यभावस्य पक्षिमद्देशभेदसमनियततया तदभिन्नत्वात्तदवगाहिप्रतीतेस्तत्र मानत्वमित्यवधेयम् ।
अत्र यद्यपि अविद्यमानमेवाकाशभेदमालोकाद्युपाधिर्भासयतीति वक्तुं शक्यम् । तथापि लाघवमनुसृत्याह — आलोकेति ॥ नन्वेवमपीहाऽलोको नेहाऽलोक इति प्रतीतिरेव मानान्तरमास्ताम् । स्वस्य स्वाधारत्वानुपपत्त्या तस्याः पूर्ववदालोकमण्डलविषयत्वासम्भवादित्यत आह — इहाऽलोक
इति ॥ गगनस्यालोकाधारत्वाभावेन तद्विषयत्वासम्भवादिति भावः ॥ गगनस्येति ॥ आलोकावयवानाम् आलोकाभावाधारत्वासम्भवेन तद्विषयत्वायोगादिति भावः । नन्वेवमिहाऽलोक इति संयोगसंसर्गावगाहिप्रत्ययो न स्यात् । अवयवावयविनोस्तदभावात् । न च गगनस्यैव तद्विषयत्वम् । गगनालोकयोः संयोगसत्त्वेऽपि संयोगेनाधाराधेयभावाभावादत आह — औपचारिकी वेति ॥ गगनसम्बन्धित्वरूपेह शब्दगौणार्थविषयणीत्यर्थः । प्रयोजनाभावे कथमोपचारिकप्रयोग इत्यत उक्तम् — इह गगनमिति प्रतीतिवदिति ॥ यथा तत्रेदमित्यर्थ इहेति प्रयोगो रूढोपचारत्वान्न प्रयोजनविशेषमपेक्षते तथेहापीत्यर्थः । यद्वा, नन्ववयवावयविनोराधाराधेयभावव्यवहारोऽनुभवविरुद्धः । कपाले घट इत्यादिप्रतीतेरसिद्धेः । अतः कथमालोकावयवानामिहेति निर्देश इत्यत आह — औपचारिकी वेति ॥ अस्याप्ययमालोक इत्येवार्थ इति भावः ।
(९)शर्कराश्रीनिवासाचार्य
कथमित्याक्षेपे । आकाशभेदे मानाभावः कथं न
कथमपि । किं त्वस्त्येवेत्यर्थः । किं तन्मानमित्यत आह — इह पक्षीति ॥ इयं हि प्रतीतिरिहेति निर्दिष्टाकाशे पक्षितदभावौ गृह्णाति । नह्येकस्मिन्नाकाशे तयोः सत्त्वं युक्तम् । प्रतियोगितदभावयोरेकत्र विरोधात् । अत आकाशप्रदेशे भेदसिद्धिरिति भावः । इयं प्रतीतिरालोकमण्डले पक्षितदभावौ गृह्णात्यतो नाकाशभेदे मानमित्याह — आलोकेति ॥ नन्विहाऽलोको नेहाऽलोक इति प्रतीतिरिहेति निर्दिष्टाकाशे आलोकतदभावौ गृह्णाति । न चात्रापीहेत्यालोकमण्डलनिर्देश इति वाच्यम् । तथात्वे आलोके आलोक इत्यापत्त्याऽऽत्माश्रयात् । अतोऽनया प्रतीत्याऽऽकाशभेदसिद्धिरित्यत आह — इहाऽलोक इति ॥ गगनस्येत्यनन्तरमिहेतीत्यनुवर्तते । ननूभयत्रापीहेत्येकनिर्देशस्यानुभवसिद्धत्वेनोक्तरीत्या व्यावस्थाभ्युपगमेऽनुभवविरोध इत्यपरितोषादाह — इहाऽलोक इति ॥ नेहाऽलोक इतिवदिहाऽलोक इत्यत्रापीहेति गगनस्यैव निर्देशः । नच प्रतियोगितदभावयोरेकाधिरणत्वानुपपत्तिः । गगनस्यालोकाधिकरणत्वानङ्गीकारात् । नचेहाऽलोक इति प्रतीत्यनुपपत्तिः । गगने गगनाभावेऽपीह गगनमितिवद्गगने आलोकाभावेऽपीहालोक इत्यौपचारिकप्रतीत्यङ्गीकारे बाधकाभावादिति भावः । यद्वेहाऽलोक इति प्रतीताविहेत्यालोकावयवनिर्देश इति वक्तुं न शक्यते । लौकिकानामवयवाश्रिततयाऽवयविबुद्धेरभावात् । नहि लोका हस्तादिषु शरीरमिति व्यवहरन्ति । किन्तु तदात्मतामेवेत्यत आह — इहाऽलोक इति ॥ इहाऽलोक इत्यत्रापीहेत्यालोकस्यैव निर्देशः । नचात्माश्रयः । अस्याः प्रतीतेरौपचारिकत्वाङ्गीकारात् । उपचारप्रयोजनं वाच्यमित्यत उक्तमिह गगनमिति प्रतीतिवदिति । गगने गगनाभावेऽपि यथेह गगने गगनमिति प्रतीतिस्तथेत्यर्थः । रूढोपचारत्वान्न प्रयोजनापेक्षेति भावः ।