०८ (८) भेदोज्जीवनम्

अपि च । विमतं (तत्त्वतः) तात्विकस्वान्तर्भेदहीनं मतत्वतः

(८)भेदोज्जीवनम्

(८) अपि च ।

विमतं (तत्त्वतः) तात्विकस्वान्तर्भेदहीनं मतत्वतः ।

यदित्थं तत्तथा यद्वत्खं तथेदं ततस्तथा ॥

यथा गगनमन्योन्यपारमार्थिकभेदशून्यैर्घटमठाद्याकाशैः परमार्थतो न भिद्यते । तथा जगदाख्यः पदार्थोऽप्यन्योन्यं पारमार्थिकभेदशून्यैः स्वैकदेशैर्घटादिभिः परमार्थतो न भिद्यत इति ।

ननु घटमठाद्याकाशानामन्योन्यं पारमर्थिकभेदाङ्गीकारात् साध्यविकलो दृष्टान्त इति चेन्न । तेषां स्वभावतो भिन्नत्वे घटादिसम्बन्धात्प्रागपि भेदप्रतीतिः स्यात् । घटग्रहणे दीपादीनामिव घटादीनां व्यञ्जकत्वाददोष इति चेन्न । दीपादिव्यञ्जकाभावेऽपि कदाचित्स्पार्शनेन घटप्रतीतिदर्शनात् । कुङ्कुमगन्धस्य घृतमिवैतद्व्यञ्जकम् । तथा च घटाद्यभावेऽपि न प्रतीयते भेद इति चेन्न । तत्र पृथिवीत्वेन गन्धसिद्धावनुद्भूतगन्धाङ्गीकारे गौरवाद् घृतमभिव्यञ्जकमङ्गीक्रियते । न चैवं प्रकृते । आकाशभेदे मानाभावात् ।

(८)भावप्रदीपः

अथाचेतनानां परस्परभेदाभावेऽनुमानं कारिकया सङ्गृह्णाति ॥ विमतमिति ॥ केचित्तु चेतनाचेतनजातं सर्वमपि विमतपदार्थ इत्याहुः । तच्चिन्त्यम् । पूर्वपक्षग्रन्थे वा सिद्धान्तग्रन्थे वाऽचेतनवाचकघटादिपदानामेव श्रवणेनोभयवाचकपदाश्रवणात् । असङ्गतिपरिहारस्य च सङ्गतत्वप्रदर्शनेन प्रागेव दर्शितत्वादिति कारिकां व्याचष्टे — यथा गगनमिति ॥ एतेन विमतं जकदाख्यवस्तु तात्त्विकस्वान्तर्भेदहीनम् । अन्योन्यं तात्त्विकभेदशून्यं स्वैकदेशिभूतघटादिमत् । मिथस्तात्त्विकभेदशून्यैः स्वैकदेशिभिर्घटादिभिः परमार्थतो न भिद्यत इति यावत् । कुतः ? मतत्वतो दृश्यत्वात् । यदित्थं दृश्यं तत्तथा तादृशं यद्वस्तु स्वम् । गगनमन्योन्यपारमार्थिकभेदशून्यैर्घटमठाद्याकाशैः परमार्थतो न भिद्यते । इदं च जगत्तथा दृश्यम् । ततो दृश्यत्वात्तथा तत्त्वतः स्वान्तर्भेदहीनमिति कारिकार्थः स्पष्टीकृतो भवति । तेषां स्वभावतो भिन्नत्वे । घटाद्युपाधिकत्वाभाव इति यावत् । न चाकाशांशानां स्वाभाविकत्वेऽपि घटादिसम्बन्धसत्त्व एव हि प्रतीतिः । तेषां प्रदीपवद्व्यञ्जकत्वाङ्गीकारादिति भावेन शङ्कते — घटादीनामिति ॥ दीपादिव्यञ्जकाभावेऽपीति । तथा च तद्वदेवात्रापि कदाचिद्धटाद्यभावेऽप्याकाशांशप्रतीतिः स्यात् । न चैवम् । अत एतेन व्यञ्जकाः किन्तूपाधय एवेति भावः । नन्वेते दीपादिवन्नानियतव्यञ्जकाः किन्तु कुङकुमगन्धादिव्यञ्जकघृतवन्नियतव्यञ्जका एव । अतस्तदभावे आकाशे विद्यमानोऽपि भेदो न प्रतीयत इत्याशङ्क्य निषेधति — कुङ्कुमगन्धस्येति ॥ युक्तं घृतस्य कुङ्कुमगन्धं प्रति नियताभिव्यञ्जकत्वकल्पनम् । तत्र गन्धस्य सत्त्वेन तदनुपलब्धेः कारणान्तरादर्शनात् । न च कुङ्कुमे गन्ध एव नास्ति । सत्त्वेऽपि पाषाणादाविवानुद्भूतोऽस्तु । अतो घृतसम्बन्धात्तन्निष्ठगन्ध एव कुङ्कुमेऽवभासत इति वाच्यम् । पृथिवीत्वेन हेतुना कुङ्कुमे गन्धस्य सिद्धत्वात् । तस्यानुद्भूतत्वकल्पने मानाभावात् । घृतसम्बन्धेन कुङ्कुमे उद्भूतगन्धस्यैवोपलभ्यमानत्वेन तस्य घृतमात्रनिष्ठत्वकल्पनत्वस्याप्यप्रामाणिकत्वात् । न चैवं प्रकृते । आकाशे स्वाभाविकभेदसद्भावे प्रमाणाभावात् । येन घृतवद्धटादेर्नियतव्यञ्जकत्वेन तदभावे भेदस्यानुपलब्धिः स्यादिति भावः ।

(८)भेदचिन्तारत्नं

विमतमिति ॥ जगदित्यर्थः । बाधवारणाय तात्त्विकेति ॥ सर्वस्यापि जगत्त्वेन जगति जगद्भेदानधिकरणत्वस्य सिद्धत्वेन सिद्धसाधनत्वात् । तद्वारणाय स्वान्तरिति ॥ मतत्वतो ज्ञातत्वात् । यद्वत्खं यथाऽऽकाशस्तथेदमित्युपनयः । ततस्तथेति निगमनम् । दृष्टान्तं विवृणोति — यथेति ॥ भेदेति ॥ एकदेशिरीत्या तु भेदशब्दो विशेषपर इति ज्ञेयम् ॥ प्रागिति ॥ उपाध्यभावकालोपलक्षणमेतत् ॥ व्यञ्जकत्वादिति ॥ एवञ्च भेदप्रतीतेरुपाध्यन्वयव्यतिरेकानुसरणनियमेऽपि न भेदस्योपाधिजन्यत्वरूपौपाधिकत्वसिद्धिः । अन्वयव्यतिरेकयोरन्यथासिद्धत्वादिति भावः ॥ स्पार्शनेनेति ॥ तथा च दीपाद्यभावकालेऽपि घटसत्त्वं प्रमाणान्तरवशादङ्गीक्रियते । प्रकृते उपाध्यभावकालीनभेदे प्रमाणाभावादुपाधिना तदुत्पत्तिरेवेति भावः ॥ कुङ्कुमेति ॥ यथा स्वाभाविकोऽपि कुङ्कुमगन्धो न कदाऽपि घृताख्यव्यञ्जकं विनोपलभ्यते । तथा भेदोऽप्यस्तु । अन्यथा सोऽपि न स्वाभाविकः स्यादिति भावः ॥ पृथिवीत्वेनेति ॥ एवञ्च तद्व्यञ्जकाभावकालेऽपि गन्धस्य प्रत्यक्षानुपलम्भेऽप्युपलम्भोऽस्त्येवेति भावः । नन्वस्तु पृथिवीत्वेन गन्धः स च पाषाणादाविवानुद्भूत एवास्तु । घृतसम्बन्धात्प्रतीयमानस्त्वन्य एव तात्कालिकोपाधिजन्यः । एवञ्च तत्रापि न स्वाभाविकस्योपाध्यनुसरणापत्तिरित्येवं कुतो नाङ्गीक्रियत इत्यत उक्तमनुदभूतेति ॥ धर्मिकल्पनातो धर्मकल्पना वरेति न्यायेन स्थितस्यैव व्यक्तिमात्रतो गन्धान्तरोत्पत्तेर्गुरुत्वादिति भावः ।

(८)भेदचन्द्रिका

॥ विमतमिति ॥ तात्त्विकस्वान्तर्भेदतदभावकोटिकसंशयविषयीभूतं सर्वचेतनाचेतनजातमित्यर्थः । अत्र गगनस्य पक्षान्तर्भावेऽपि पृथिवीत्वावच्छिन्नपक्षकेतरभेदानुमाने घटस्यैव दृष्टान्तत्वोपपत्तिः । तद्वदेवांशतः सिद्धसाधनत्वाभावोऽपि पञ्चावयवोपन्यासस्तु न्यायदिशा तथा जगदाख्यपदार्थ इति जगद्रूपसमुदायस्य समुदायिप्रतियोगिकभेदाभावः प्रसङ्गात्साधितः । समुदायिना विष्णुजीवजडानां तात्त्विकभेदाभावस्तु प्रकृतोपयुक्त इति बोध्यम् । अनियतं नियतं वा व्यञ्जकं घटमठादीति विकल्पं मनसि निधाय नाद्य इत्याह — दीपादीति ॥ तथेहापि व्यञ्जकाभावेऽपि कदाचिद्भेदप्रतीतिप्रसङ्गादिति शेष इति । द्वितीयमाशङ्कते — कुङ्कुमगन्धस्येति ॥ तत्र पृथिवीत्वेनेति ॥ इदमुपलक्षणम् । प्रकृते औपाधिकभेदप्रतीतिवत्कुङ्कुमगन्धप्रतीतिरौपाधिकी नाङ्गीकर्तुं शक्या । उपाधौ घृते तादृगन्धाभावादिति बोध्यम् ।

(८)भेदसञ्जीविनी

जगन्निष्ठभेदसामान्यमिथ्यात्वसाधनं प्रकारान्तरेणाह — विमतमिति ॥ सत्यताशून्यस्वघटकपदार्थप्रतियोग्यनुयोगिकभेदसामान्यकत्वतदभावाभ्यां विप्रतिपत्तिविषयीभूतचेतनाचेतनघटितजगत्समुदायः पक्षः । समुदायश्च समुदायिभ्यो भिन्नाभिन्नः कश्चिदपेक्षाबुद्धिविषयत्वविशिष्टः । अतो गगनस्य तादृशविशिष्टरूपत्वाभावेन पक्षबहिर्भावाद्दृष्टान्तत्वोपपत्तिः ॥ तात्त्विकेति ॥ पूर्वोक्तरीत्या परमार्थ इत्यर्थः । अनुमानस्य भास्कराभिमतत्वे तन्मते चापारमार्थिकभेदाभावेन तस्याव्यावृत्तत्वापत्त्याऽनौपाधिकत्वेनेत्यर्थः । मतद्वयेऽपि व्यधिकरणधर्मावच्छिन्नाभाव एव साध्यम् । भास्करमतेऽनौपाधिकभेदस्याप्रसिद्धेः ॥ स्वान्तरिति ॥ स्वांशप्रतियोग्यनुयोगिकभेदेत्यर्थः । घटं प्रति तन्तूनामिव जगद्रूपविशिष्टरूपसमुदायस्य समुदायिनां घटादीनामवयवस्थानीयानामंशत्वमेव महाकाशं प्रत्यौपाधिकघटाद्यवच्छिन्नाकाशानामेवेति हृदयम् । घटादिना भेदस्य गगने प्रतिवादिभिस्तात्त्विकस्य स्वीकाराद्दृष्टान्तासिद्धिवारणाय — स्वांशप्रतियोगिकेति ॥ समुदायरूपे विशिष्टैकदेशभेदानङ्गीकारात्सिद्धसाधनतावारणाय — स्वांशानुयोगिकेति ॥ स्वांशप्रतियोगिकस्वांशानुयोगिकभेदा यावन्तस्तत्तन्निष्ठतात्त्विकत्वावच्छिन्नभेदाभावकूटवदिति साध्यार्थः । उद्देश्यसर्वभेदमिथ्यात्वसिद्धये कूटस्य साध्यत्वानुसरणम् । घटे आरोपितस्य स्वभेदस्योक्तधर्मावच्छिन्नाभावस्य महारजनाद्युपाधिकभेदस्योक्तरूपाभावस्य च सिद्धत्वेन सिद्धसाधनं स्यात् । अतस्तद्वारणं वा (तत्)प्रयोजनम् । मतत्वत इति दृश्यत्वादित्यर्थः । ब्रह्मण्यप्युक्तसाध्यं वादिप्रतिवादिनोः सम्मतमिति नोक्तसाध्यं प्रति दृश्यत्वहेतौ(तोः) व्यभिचारप्रसक्तिः । विषयतया ज्ञानमेव हेतुरतो न ज्ञानविषयत्वरूपहेतुघटकज्ञानवैय्यर्थ्यशङ्का । यदित्थं तत्तथेत्युदाहरणम् । गगने उक्तसाध्यं साधयित्वा तद्दृष्टान्तीकरिष्यामीत्यर्थः । तथेदमित्युपनयः । ततस्तथेति निगमनम् । कारिकां विवृणोति — यथेत्यादिना ॥ भेदप्रतीतिप्रसङ्गादिति ॥ इन्द्रियसन्निकर्षसद्भावे तदप्रतीतौ बीजाभावादिति भावः । गगनस्य चक्षुरवेद्यत्वेऽपि साक्षिवेद्यत्वादापादनं युक्तमेव । पटादेश्चक्षुर्वेद्यत्वेन तुल्यन्यायेन तत्रापि पटांशानां स्वाभाविकत्वाङ्गीकारे चाक्षुषत्वापादनसम्भवस्तत्र द्रष्टव्यः । व्यञ्जकत्वात्तत्प्रत्यक्षसामग्रीघटकत्वाद् व्यञ्जकस्यानुगतस्याभावेन यत्किञ्चिद्व्यञ्जकाभावस्तत्प्रत्यक्षाभावं प्रति प्रयोजकतया तं प्रति व्याप्य उत स्वव्यञ्जकसामान्याभाव इति विकल्पौ हृदि निधायाद्यं दूषयति — दीपेति ॥ द्वितीयं शङ्कते — कुङ्कुमेति ॥ घृतमेव यद्व्यञ्चकं तद्विना तत्प्रत्यक्षाभाव इत्यन्ववव्यतिरेकसिद्धव्यञ्जकताकघृता

भावे स्वव्यञ्जकसामान्याभावप्राप्त्या तदभावकाले यथा न गन्धप्रत्यक्षं तथेहापि परिमाणविशेषवद्द्रव्यत्वेनांशविशेषप्रत्यक्षत्वावच्छिन्नं प्रति नियमेन हेतुत्वाङ्गीकाराद्धटाद्यभावे स्वव्यञ्जकत्वावच्छिन्नाभावसत्त्वात्प्रत्यक्षाभावो युक्त एवेति भावः । प्रत्यक्षकारणीभूतपदार्थप्राक्काले तस्य पूर्वं सत्त्वेन दृढतरप्रमाणसत्त्वे व्यञ्जकसमवधानात्प्रत्यक्षव्यञ्जकस्य तदुत्पत्तिप्रयोजकत्वबाधाद्व्यञ्जकस्य तत्प्रत्यक्षजनकत्वं कल्पयति । तदभावे तु तज्जनकत्वमेव कल्पयति । अन्यथा दण्डादिसामग्र्या घटप्रत्यक्षोत्पत्तिहेतुत्वमेव स्यान्न घटोत्पादकत्वम् । तथा च घटादिसम्बन्धात्पूर्वमंशसत्त्वे प्रमाणाभावाद्धटादिसम्बन्धकालेंऽशप्रत्यक्षम् । अंशस्य घटादिजन्यत्वमेव कल्पयतीत्याह — तत्रेत्यादिना ।

(८)काशीतिम्मण्णाचार्य

सर्वाभेदसाधकानुमानान्तरं प्रदर्शयंस्तत्प्रयोगप्रकारज्ञापनाय तार्किकरीत्या पञ्चावयवप्रयोगरूपां प्राचीनकारिकामुदाहरति — विमतमिति ॥ तां विवृणोति — यथेति ॥ तथाच विमतं जगत् परस्परप्रतियोगिकपारमार्थिकभेदशून्यस्वैकदेशप्रतियोगिकपारमार्थिकभेदशून्यं दृश्यत्वात् । यद् दृश्यं तत्तादृशसाध्यवत् । यथा भूताकाशम् । दृश्यं च जगत् । तस्मात्तादृशसाध्यवदिति प्रयोगार्थ उक्तो भवति । अत्र सामान्यतो भेदशून्यत्वमप्रसिद्धम् । अतः स्वैकदेशप्रतियोगिकेति । तादृशव्यावहारिकभेदसत्त्वाद्बाधवारणाय पारमार्थिकेति । मिथो विभिन्नैकदेशैरभेदसिद्ध्याऽर्थान्तरवारणाय शून्यान्तमेकदेशविशेषणम् । पूर्ववदप्रसिद्धिवारणाय परस्परेत्यादि । न च पारमार्थिकभेदाप्रसिद्ध्या साध्याप्रसिद्धिः । प्रतियोगिनः परप्रसिद्धिमात्रेण निषेधसाधनस्योक्तत्वात् । यदि तु मिथः स्वैकदेशभेदस्य यः पारमार्थिकत्वेनाभावस्तद्विशिष्टस्वैकदेशभेदस्य पारमार्थिकत्वेनाभावः साध्यस्तदा नाप्रसिद्धिशङ्काऽपि । व्यधिकरणधर्मावच्छिन्नभेदाभावप्रसिद्धेः । न च निरंशे गुणादौ व्यभिचारः । निरंशपदार्थस्यैवानभ्युपगमात् । अभ्युपगमे वा सांशत्वेन मतत्वस्यैव हेतुत्वात् ।

नन्वाकाशांशानां घटादिसम्बन्धात् पूर्वं भेदरूपविषयसत्त्वेऽपि कारणान्तराभावादेव न भेदप्रतीतिप्रसङ्ग इत्याशङ्कते — घटग्रहणे दीपादीनामिवेति ॥ दीपादिव्यञ्जकाभावेऽपीति ॥ एककारणाभावेऽपि कारणान्तरेण कार्योत्पत्तिदर्शनाद्धटादिव्यञ्जकाभावेऽपि कदाचिद्भेदप्रतीतिः स्यादिति भावः ।

व्यञ्जकत्वपदेन न प्रतीतिविशेषकारणत्वमात्रं विवक्षितम् । किन्तु तत्सामान्यकारणत्वम् । अतो नोक्तदोष इत्याशयेन शङ्कते — कुङ्कुमेति ॥ स्यादेवं बाधकपरिहारो यदि कुङ्कुमगन्धादाविव भेदे प्रमाणं स्यात् । तदेव तु नास्तीत्याह — तत्रेति ॥ यद्यपि पृथिवीत्वं सुरभ्यसुरभ्यवयवारब्धावयविनि गन्धं व्यभिचरति । तथापि गन्धप्रतिबन्धकशून्यत्वे सति पृथिवीत्वस्य हेतुत्वं बोध्यम् । दर्शितस्थले च विरुद्धगन्धरूपप्रतिबन्धकसत्वान्न व्यभिचारः । नन्वेवं गन्धमात्रसिद्धावपि घृताभिव्यङ्ग्योद्भूतगन्धस्य कथं प्रमाणसिद्धत्वमत आह — अनुद्भूतेति ॥ गौरवादिति ॥ घृतसम्बन्धे सति पूर्वगन्धविनाशस्योद्भूतगन्धोत्पादस्य च कल्पनीयतया गौरवादित्यर्थः । न चाविद्यमान एवोद्भूतगन्धो घृतोपाधिसम्बन्धात् प्रतीयतामिति वाच्यम् । बाधकं विना प्रतीतेर्भ्रमत्वायोगात् । अत्र `परिशेषेणोद्भूतगन्धस्यैव सिद्ध्या घृतसम्बन्धात् प्रागपि तत्प्रतीतिवारणाये’ति पूरणीयम् ॥ मानाभावादिति ॥ न च घटमठाद्याकाशभेदप्रतीतिरेव तत्र मानमिति वाच्यम् । तस्य भ्रमत्वेनाप्युपपत्तेर्वस्त्वन्तरकल्पने गौरवादिति भावः ।

(८)शर्कराश्रीनिवासाचार्य

इदानीमनात्मभेदसाधकं पञ्चावयवोपेतानुमानं बुद्ध्यारोहाय कारिकया सङ्गृह्णाति — विमतमिति ॥ आत्माकाशाभ्यामन्यदित्यर्थः । तत्वतः स्वान्तर्भेदहीनं परमार्थतोऽन्योन्यभेदरहितैकदेशैः परमार्थतो भेदरहितम् । मतत्वतो दृश्यत्वात् । यदित्थं यद्दृश्यम् । तत्तथा तत्वतः स्वान्तर्भेदरहितम् । यद्वत्खं यथाऽऽकाशम् । तथेदम् आकाशवदिदं दृश्यम् । ततो दृश्यत्वात्तथा तत्वतः स्वान्तर्भेदहीनम् । कारिकां विवृणोति — यथेति ॥अङ्गीकाराद् भेदवादिना मया । घटमठाकाशयोः परमार्थतो भिन्नत्वे परमार्थतोऽन्योन्यभेदशून्यस्वैकदेशैः परमार्थतो भेदराहित्यरूपसाध्यस्याकाशेऽभावात्साध्यविकलो दृष्टान्त इत्यर्थः ॥ घटादिसम्बन्धात्प्रागिति ॥ घटाकाशभेदस्य घटौपाधिकत्वे खलु घटाख्योपाधिसम्बन्धः प्रतीयते तदभावे तु नेति वक्तुं शक्यते । स्वाभाविकत्वे तूपाधिसम्बन्धानपेक्षणात्तदभावेऽपि प्रतीतिरनिवार्येति भावः ।

ननु घटाकाशभेदस्य घटौपाधिकत्वाभावेऽपि घटाधीनप्रतीतिकत्वं युज्यते । घटस्य तद्व्यञ्जकत्वात् । व्यङ्ग्यप्रतीतेर् व्यञ्जकाधीनत्वात् । यथा घटस्य प्रदीपोपाधिकत्वाभावेऽपि प्रदीपाद्यभिव्यङ्ग्यत्वेन तदधीनप्रतीतिकत्वमिति शङ्कते — घटादीनामिति ॥ अदोष इति ॥ तदभावेऽपि प्रतीतिप्रसङ्गाख्यदोषो नेत्यर्थः । अस्तु घटस्याकाशभेदव्यञ्जकत्वम् । तथापि घटाभावेऽपि तत्प्रतीतिः स्यादेव । नच व्यञ्जकाभावे कथं व्यङ्ग्यप्रतीतिरिति वाच्यम् । प्रदीपाख्यव्यञ्जकाभावेऽप्यन्धकारे त्वगिन्द्रियेण घटाख्यव्यङ्ग्यप्रतीतिदर्शनेन तादृशनियमाभावादिति परिहरति — नेति ॥ ननु द्विविधं व्यजकं नियतमनियतञ्च । व्यङ्ग्यप्रतीतौ यन्नियमेन वर्तते तन्नियतम् । यथा कुङ्कुमगन्धप्रतीतौ नियमेन स्थितं गोघृतम् ।

व्यङ्ग्यप्रतीतौ यन्नियमेन न वर्तते तदनियतम् । यथा घटस्य प्रदीपादिकम् । तत्र कुङ्कुमगन्धस्य गोघृतमिव घटकाशभेदस्य घटो नियतव्यञ्जकत्वेनाङ्गीक्रियते । अतस्तदभावेऽपि न तत्प्रतीतिप्रसङ्ग इति शङ्कते — कुङ्कुमगन्धस्येति ॥ भेदः घटाकाशभेदः । परिहरति — नेति ॥ सम्भवत्येव घृतस्य कुङ्कुमगन्धनियताभिव्यञ्जकत्वं तदभावे तस्यानुपलब्धेः । नच न घृताभावात्कुङ्कुमगन्धानुपलब्धिः किन्तु कुङ्कुमे गन्धस्यैवाभावादिति वाच्यम् । कुङ्कुमं गन्धवत् पृथिवीत्वादित्यनुमानेन तत्र गन्धस्य सिद्धत्वेन गन्धाभावाद्गन्धानुपलब्धिरिति वक्तुमयुक्तत्वात् । नच कुङ्कुमगन्धस्यानु

मानसिद्धत्वेऽपि तस्य पाषाणगन्धवदनुद्भूतत्वेन तदनुपलब्धिरपि सम्भवतीति वाच्यम् । घृतसम्बन्धेन गन्धप्रतीतेरनुभवसिद्धत्वेन गन्धस्यानुद्भूतत्वाङ्गीकारे प्रामाणिकपरित्यागाप्रामाणिककल्पनाख्यगौरवप्रसङ्गादित्यर्थः । नन्वत्राकाशभेदस्य प्रमाणसिद्धत्वेन घटस्याभिव्यञ्जकत्वं कल्प्यत इत्यत आह नचेति ॥ येन घटस्य व्यञ्जकत्वं स्यादिति भावः ।