०७ (७) भेदोज्जीवनम्

अपि च भेदो मिथ्या भेदत्वाच्चन्द्रभेदवत्

(७)भेदोज्जीवनम्

(७) अपि च भेदो मिथ्या भेदत्वाच्चन्द्रभेदवत् । मिथ्यात्वं चाधिष्ठानयाथात्म्यज्ञाननिवर्त्यत्वम् । ननु प्रामाणिकाप्रामाणिकयोरनुगतसामान्याभावादसिद्धो हेतुरिति चेन्न । भेदत्वेन प्रतीयमानत्वस्यैव हेतुत्वात् । एवञ्च नोक्तदोषावकाशः । प्रतीयमानत्वं हि प्रतीतिविषयत्वम् । तच्च प्रतीतिसम्बन्धित्वम् । प्रतीतिसम्बन्धश्च स्वरूपमेवेत्यत्र प्रामाणिकत्वानपेक्षणात् । ननु प्रतीयमाने चन्द्रे चन्द्रान्तरस्यारोपितत्वेनारोपितानारोपितचन्द्रयोर्भेदस्य सत्यत्वेन (सत्त्वेन) साध्यविकलो दृष्टान्त इति चेन्न । चन्द्रे भेदारोपमात्रेण (चन्द्रारोपमात्रेण) द्वित्वप्रतीत्युपपत्तौ चन्द्रान्तरस्यारोपाङ्गीकारे

गौरवात् । तर्हि शुक्तिकायां रजताभेदारोपमात्रेणेदं रजतमिति प्रतीत्युपपत्तौ रजतारोपाङ्गीकारो व्यर्थ इति चेन्न । तत्राधिष्ठानस्यारजतत्वेन रजतोपस्थित्यर्थं रजतारोपाङ्गीकारात् । रजतानुपस्थितौ रजताभेदारोपासम्भवात् । नैवं प्रकृते । अधिष्ठानस्य चन्द्रत्वात् ।

(७)भावप्रदीपः

अनुमानान्तरं चाह — अपि चेति ॥ विमतः सर्वोऽपि भेद इत्यर्थः । तथा च भेदाभेदयोर्विरुद्धत्वाभेदमात्रस्य मिथ्यात्वे सिद्धे जीवेश्वरादीनामभेद एव सिध्यति । ततश्चाभेदे प्रमाणोपन्यासं प्रतिज्ञाय भेदमिथ्यात्वे प्रमाणोपन्यासोऽसङ्गत इति शङ्कानवकाश इति ध्येयम् । नन्वत्र किन्नाम मिथ्यात्वम् । असत्त्वं चेदपसिद्धान्तः । अनिर्वाच्यत्वं चेदप्रसिद्धविशेषणता । दृष्टान्ते साध्यवैकल्यं चेत्यत आह — मिथ्यात्वं चेति ॥ इदं चन्द्रभेदे सम्प्रतिपन्नमेवेति नोक्तदोषावकाश इति भावः । नन्वात्मत्वशरीरत्वादिवन्नेदं भेदत्वं हेतूकर्तुं शक्यते । तत्र पक्षदृष्टान्तयोरुभयोरपि प्रामाणिकत्वेनानुगतसामान्यसम्भवात् । अत्र विमतभेदस्य व्यावहारिकत्वेन प्रामाणिकत्वेऽपि दृष्टान्तभूचन्द्रभेदस्य प्रातिभासिकतयाऽप्रामाणिकत्वेनोभयानुगत भेदत्वरूपसामान्यासम्भवादित्याशङ्क्य निषेधति — प्रामाणिकाप्रामाणिकयोरिति ॥ भेदत्वेन प्रतीयमानत्वस्येति ॥ भेदत्वादित्यस्य भेदत्वेन प्रतीयमानत्वादित्यर्थस्य लक्षणया विवक्षितत्वादित्यर्थः । कथमनेनापि कथितदोषनिरास इत्यत

आह — प्रतीयमानत्वं हीति । नन्वेवमप्युक्तदोषतादवस्थ्यमेव । प्रतीतिविषयतायाः प्रतीतिजनककरणसन्निकर्षाश्रयताऽसम्भवादित्यत आह — तच्चेति ॥ सम्बन्धश्च स्वरूपमेवेति ॥ नातिरिक्तः संयोगरूपः किन्तु प्रतीतिव्यावर्तकतामात्ररूपः प्रतीत्युल्लेख्यत्वलक्षण एव विवक्षित इत्यर्थः । एतच्च प्रामाणिकाप्रामाणिकयोः साधारण एवेति भावः । शङ्कते — प्रतीयमानस्येति ॥ आरोपितानारोपितचन्द्रयोः प्रातिभासिकव्यावहारिकचन्द्रयोः ॥ भेदस्य सत्त्वेनेति ॥ मिथ्यात्वे तयोरन्योन्यतादात्म्यापातादिति भावः । स्यादिदं साध्यवैकल्यं यदि चन्द्रान्तरमारोपितं पृथक् स्यात् । न चैवम् । चन्द्रान्तरारोपस्यैवाभावात् । इमौ चन्द्रावित्यादिद्वित्वप्रतीतिस्त्वेकस्मिन्नेव चन्द्रे भेदारोपमात्रेणोपपद्यते । चन्द्रान्तरारोपमङ्गीकुर्वताऽपि तयोर्भेदप्रतीतिरवश्यमङ्गीकरणीया । इमौ भिन्नाविति प्रतीतेरप्यनुभवसिद्धत्वात् । ततो वरमेकस्यैव भेदारोपस्य कल्पनम् । अन्यथा गौरवप्रसङ्गात् । तस्य च भेदस्य मिथ्यात्वात्क्वास्ति साध्यवैकल्यमिति परिहरति — चन्द्रे भेदारोपमात्रेणेति ॥ प्रतिबन्द्या शङ्कते — तर्हीति ॥ तथा च तत्र यथा रजताभेदवद्रजतस्याप्यारोपमङ्गीकृत्य प्रामाणिकत्वाद्गौरवं न दोषायेत्युच्यते । तद्वदत्राप्युभयारोपाङ्गीकार एवोचितः । तथा चारोपितानारोपितयोर्भेदस्य सत्यत्वात्साध्यवैकल्यं दुष्परिहरमिति भावः । न चैवं भेदाङ्गीकारे आरोपितस्य मिथ्यात्वनियमात्क्वास्ति साध्यवैकल्यमिति वाच्यम् । एकस्मिंश्चन्द्रे आरोपितभेदस्य मिथ्यात्वेऽप्यारोपितचन्द्रान्तरप्रतियोगिकानारोपितचन्द्रधर्मिकभेदस्य सत्यत्वात्तद्विवक्षयैवात्र साध्यवैकल्यकथनात् । चन्द्रे आरोपितभेदस्यैवात्र दृष्टान्तत्वेन विवक्षितत्वान्न तत्र साध्यवैकल्यशङ्कावकाश इति चेत् तर्हि माऽस्त्वारोपितभेदे साध्यवैकल्यम् । आरोपितानारोपितचन्द्रभेदे त्वनैकान्त्यं ब्रूम इत्याशयात् । नन्वेवं चन्द्रान्तरारोपाङ्गीकारे तस्याधिष्ठानादिकं वाच्यम् ।

` अधिष्ठानं च सदृशतथ्यवस्तुद्वयं विना ।

न भ्रान्तिर्भवति क्वापि स्वप्नमायादिकेष्वपि'

इति वचनात् । न चात्राधिष्ठानं तावदस्ति । चन्द्रस्यारोप्याद्भिन्नतया दृश्यमानत्वात् । न ह्यारोप्याद्भिन्नतया दृश्यमानस्याधिष्ठानत्वं सम्भवति । न हि शुक्तिभ्रान्तौ रजताद्भिन्नतया दृश्यते । न च चन्द्रातिरिक्तमधिष्ठानं सम्भवति । नाप्यत्र प्रधानमस्ति । सत्यस्य चन्द्रान्तरस्याभावात् । परिदृश्यमानचन्द्रस्य च प्रधानत्वेऽधिष्ठानस्य पृथगवाच्यत्वात् । तस्य चाभावात् । अतः कथं चन्द्रान्तरारोपाङ्गीकार इति । मैवम् । तादात्म्यभ्रमस्यैवाधिष्ठानादिनियमेन भ्रमे तदभावात् । अनवष्टब्धनयनरश्मिभिर्गृहीत एव चन्द्रोऽवष्टब्धनयनरश्मिभिर्व्यत्यस्तैः स्थानव्यत्यासेन पुनर्गृहीतो भवति । एवं नयनद्वयेनैकचन्द्रविषय एव ज्ञानद्वये जाते प्रत्येतुः पुरुषस्येमौ चन्द्रावित्यादिभ्रान्तिर्जायते । तत्र का नामाधिष्ठानाद्यपेक्षा । न च ज्ञानद्वये विवदितव्यम् । अनवष्टब्धनयननिमीलने चन्द्रद्वयप्रतीत्यभावात् । तदनिमीलन एव तद्भावात् । न चैवं प्रतीतिद्वयस्यापि सत्यचन्द्रविषयत्वेन प्रमात्वात्कथं भ्रान्त्यवकाश इति वाच्यम् । उभयप्रतीतिप्रतिसन्धातुरविवेकेन जायमानाया अस्याः प्रतीतेस्ताभ्यां भिन्नत्वेन भ्रान्तित्वोपपत्तेः । अत एव तृतीयप्रतीतौ भिन्नतया भासमानस्यारोपितत्वं तत्प्रतियोगिकसत्यचन्द्रानुयोगिकभेदस्य सत्यत्वेन साध्यवैकल्याद्युक्तिरपि युज्यत इत्यलम् । प्रतिबन्दीं मोचयति — नेति ॥ तत्र इदं रजतमिति भ्रान्तिस्थले रजतारोपस्थितिरेव कुतोऽभ्युपेयेति चेत् । तदभावे इदं रजतमिति सामानाधिकरण्यप्रतीतिरेव न स्यादिति ब्रूमः । रजताभेदारोपेणैव तदुपपत्तिरित्युक्तमेवेति चेत्तत्राह — रजतानुपास्थिताविति ॥ अधिष्ठानस्य चन्द्रत्वादिति ॥ तथा चाधिष्ठानदर्शनेनैव चन्द्रोपस्थितिसम्भवेन तदर्थं चन्द्रान्तरारोपो नाङ्गीकार्यः । भेदमात्रारोपस्तु चन्द्रान्तरारोपं विनाऽप्यधिष्ठानत्वेनोपस्थिते चन्द्रे युज्यत एवेति कथं साध्यवैकल्यचोद्यावकाश इति भावः ।

(७)भेदचिन्तारत्नम्

॥ भेद इति ॥ किमत्र मिथ्यात्वम् । व्यावहारिकत्वं चेत्साध्यवैकल्यं दृष्टान्तस्याप्रातिभासिकत्वं चेद्बाध इत्यतोऽनुगतसाध्यं निर्वक्ति — मिथ्यात्वमिति ॥ हेतुश्च मिथ्याभेदत्वं चेदसिद्धिः सत्यभेदत्वं चेत्साधनवैकल्यम् । न च सामान्यं हेतुः । मिथ्यासत्ययोरनुगतसामान्याभावादित्याशङ्क्य समाधत्ते — प्रामाणिकेति ॥ ननु प्रतीयमानत्वं प्रतीतिकर्मकारकत्वम् । तदसतो न युक्तमित्यत आह — प्रतीयमानत्वं हीति । तदपि करणसन्निकर्षगोचरत्वं नासतो युक्तमित्यत आह — विषयत्वं

चेति ॥ सम्बन्धित्वं सम्बन्धाश्रयत्वम् । तदप्ययुक्तमित्यत आह — सम्बन्धश्चेति ॥ असतः सकलशक्तिवैधुर्येऽपि ज्ञानं स्वसामग्रीमहिमायत्तस्वरूपसम्बन्धेन तद्विषयतयोच्यते । तदेवासतः प्रतीयमानत्वमिति भावः ॥ आरोपितानारोपितचन्द्रयोरिति ॥ प्रातिभासिकव्यावहारिकयोरित्यर्थः ॥ सत्त्वेनेति ॥ अप्रातिभासिकत्वेनेत्यर्थः ॥ साध्यविकल इति ॥ व्यावहारिकभेदस्य सर्वस्य पक्षतावच्छेदकावच्छिन्नतया सन्दिग्धसाध्यक इत्यर्थः ॥ द्वित्वप्रतीत्युपपत्ताविति ॥ प्रतीतेर्द्वावित्याकारकत्वोपपत्तावित्यर्थः ।

एवञ्च भेदस्यैवारोप्यत्वात्तस्यैव प्रातिभासिकत्वान्नोक्तदोष इति भावः ॥ गौरवादिति ॥ धर्मधर्मिणोर्धर्मिकल्पनस्य गुरुत्वादिति भावः । यद्वा द्वित्वप्रतीत्युपपत्तौ द्वित्वमात्रस्य तन्त्रत्वोपपत्तौ द्वित्वविशिष्टधर्मिद्वयस्य तन्त्रत्वे गौरवादित्यर्थः ॥ इदं रजतमिति प्रतीत्युपपत्ताविति ॥ प्रतीतेरिदं रजतमित्याकारकत्वोपपत्ताविति व्याख्येयम् । तेनाभेदारोपस्यैवेदं रजतमिति प्रतीतित्वेन तदुपपत्तावित्युक्तिः कथमिति शङ्कानवकाशः ॥ उपस्थित्यर्थमिति ॥ आरोपोपस्थित्योरेकत्वेऽपि तदर्थाङ्गीकारादित्युक्तिः सामान्यविशेषाभिप्रायेणेति ध्येयम् । ननु स्मृत्युपस्थापितरजतस्य तादात्म्यारोपः किन्न स्यादिति चेन्न । तादात्म्यापरोक्षे प्रतियोग्यपरोक्षस्यैव तन्त्रत्वात् ।

(७)भेदचन्द्रिका

॥ अपि चेति ॥ भेदमात्रस्य मिथ्यात्वे विश्वविष्णुभेदस्यापि मिथ्यात्वसिद्ध्या प्रकृतोपयोगः । ननु मिथ्यात्वमसत्त्वं प्रातिभासिकत्वं वा यदि तदा बाधः । विमतभेदस्य व्यावहारिकत्वाङ्गीकारात् । आद्ये दृष्टान्ते साध्यवैकल्यं चेत्यत आह — मिथ्यात्वं चेति ॥ इदं च प्रातिभासिकव्यावहारिकसाधारणमिति नोक्तदोषावकाश इति भावः । प्रामाणिकाप्रामाणिकयोर्व्यावहारिकप्रातिभासिकयोर्भेदत्वेन प्रतीयमानत्वमपि कथमुभयानुगतमित्यत आह — प्रतीयमानत्वं हीति । भेदत्वेन प्रतीतिस्तत्सम्बन्धित्वं वा व्यावहारिक इव प्रातिभासिके सम्भवतीति भावः ॥ प्रतीयमान इति ॥ इमौ चन्द्रावित्यादौ प्रतीयमानस्य व्यावहारिकचन्द्रान्यचन्द्रस्य प्रातिभासिकत्वेन प्रातिभासिकव्यावहारिकयोः प्रतिवादिमते भेदस्य सत्त्वाद्दृष्टान्तः साध्यविकल इत्यर्थः ॥ चन्द्राभेदारोपमात्रेणेति ॥ इमौ चन्द्रावित्यत्र चन्द्रान्तरारोपं विनैव परिदृश्यमानचन्द्रे भेदारोपमात्रेण द्वित्वप्रतीत्युपपत्तौ न तत्कल्पना । तथा प्रतिवादिमतेऽपि तत्र भेदो मिथ्येति न तद्दृष्टान्तः साध्यविकलः । इदमत्र बोध्यम् । अङ्गुल्यवष्टम्भादिनेमौ चन्द्रावयं चन्द्रो नेति स्थले चन्द्रत्वावच्छिन्नप्रतियोगिताको भेदस्तु

नारोप्यते । चन्द्रो नेत्यप्रतीतेः । तादृशभेदारोपेणेमौ चन्द्राविति द्वित्वारोपोपपादानायोगाच्च । किन्तु तत्तच्चन्द्रत्वावच्छिन्नप्रतियोगिताकस्तत्र तत्र प्रदेशविशेषवृत्तिचन्द्रवृत्तिव्यावहारिकचन्द्रांशे चन्द्रोपस्थितिसद्भावेऽपि प्रदेशान्तरवृत्तिचन्द्रांशे चन्द्रोपस्थित्यर्थं चन्द्रान्तरारोपोऽङ्गीकर्तव्य एव । व्यर्थश्चायं चन्द्रान्तरारोपनिरासप्रयासः । विरुद्धोत्पादे चन्द्रभेदारोपादेः प्रसिद्धत्वेन चन्द्रभेदे मिथ्यात्वस्य प्रतिवादिनः सम्प्रतिपत्तेः । न हि प्रतिवादी कस्मिन्नपि भेदे मिथ्यात्वं नाङ्गीकरोतीति युज्यते ॥ तर्हीति । इदमापाततः । यतो द्वैतवादिनस्तत्त्ववादिनश्च रजताभेदस्य रजतात्मकत्वेन तदारोपाङ्गीकारे रजतारोपो दुर्वारः । नैय्यायिकस्य तु रजताभेदो रजतभेदाभावो वा रजतत्वं तदारोपेण रजतारोपस्य नान्यथासिद्धिः । रजतत्वप्रकारकरजतोपस्थितिसमवहितभ्रमसामग्र्या रजतत्वारोपः । रजतत्ववृत्तिधर्मप्रकारकरजतोपस्थितिसमवहिततत्तत्सामग्र्या रजतत्वारोपः । उभयसत्त्वे उभयारोप इत्यङ्गीकारात् । तेनारोपितानारोपितयोर्भेदस्य सत्यत्वानङ्गीकारेण तस्यैतद् ग्रन्थप्रवेशायोगाच्च ॥ तत्राधिष्ठानस्येति ॥ इदमपि पूर्वन्यायेनापाततः ॥ रजतानुपस्थिताविति ॥ इदमपि स्थवीयः । व्यावहारिकरजतोपस्थित्यैव रजताभेदारोपसम्भवेन तदर्थं प्रातिभासिकरजतारोपानपेक्षणात् ।

(७)भेदसञ्जीविनी

भेदसामान्यमिथ्यात्वसाधकैकानुमानेनैव सर्वस्वाभिमतसिद्धिर्भवतीत्याशयेनाह — भेद इति ॥ अत्र चन्द्रभेदादिकमादायांशे सिद्धसाधनतावारणाय विमत इति पूरणीयम् । पक्षतावच्छेदकं तु ब्रह्मज्ञानेतराबाध्यभेदत्वं बोध्यम् । अवच्छेदकावच्छेदेन तस्यादोषत्वे तु भेदत्वमात्रं पक्षतावच्छेदकं बोध्यम् । ननु मिथ्यात्वमसत्त्वं चेदपसिद्धान्तोऽर्थक्रियाकारित्वाद्बाधश्चेत्यत आह — मिथ्यात्वं चेति ॥ अधिष्ठानेति ॥ याथात्म्यस्वनिवर्तकज्ञानविषयोऽ(या)साधारणाकारो ब्रह्मणि स्वरूपमेव तादृशमन्यत्र शुक्तित्वादिः(दि) । तथा च ज्ञानत्वघटितधर्मावच्छिन्नकारणताकध्वंसप्रतियोगित्वं मिथ्यात्वमन्यत्स्वरूपकथनम् । शुक्तिज्ञानाद्रजतमुत्सन्नमित्यादिप्रतीतिबलाद्रजतस्य नाशस्वीकारान्नासम्भवः । मुद्गरपातादिना घटादेः कारणात्मनाऽवस्थानरूपतिरोभाव एव न ध्वंसः । स तु ब्रह्मज्ञानेनैवेत्यङ्गीकारान्न तत्राव्याप्तिः । आत्मविशेषगुणत्वेनोत्तरज्ञाननिवर्त्यपूर्वेच्छादौ मिथ्यात्वव्यवहारवारणाय ज्ञानत्वेत्यादि । अधिकं तु द्वैतद्युमणिनामकतत्त्वोद्योतटिप्पण्यां मत्कृतायामनुसन्धेयम् ॥ भेदत्वेन प्रतीयमानत्वस्यैवेति ॥

ननु प्रतीयमानत्वं (प्रतीतिकर्मत्वं ) कथमप्रामाणिकस्य घटते ? तस्य सकलसामर्थ्यरहितस्य कारकत्वगर्भोक्तकर्मत्वायोगादित्यत आह — प्रतीयमानत्वमिति ॥ भेदत्वप्रकारकप्रतीतेर्विषयतया हेतुत्वाङ्गीकारादित्यर्थः । असतो भानाङ्गीकारान्नासिद्धिरिति भावः । ननु प्रागभावादिषु भेदत्वभ्रमसम्भवात्तत्र व्यभिचारः । न च तत्रापि मिथ्यात्वसत्त्वान्न व्यभिचार इति वाच्यम् । तथात्वे प्रतीतिविषयत्वादित्येतावता पूर्तेरिति वैयर्थ्यादिति चेन्न । तादात्म्यसंसर्गावच्छिन्नभेदत्वप्रकारतानिरूपितविषयताशालित्वस्य विवक्षितत्वात् । भेदत्वेन प्रागभावादेरन्यत्रारोपमादाय व्यभिचारस्तदवस्थ इति न शङ्क्यम् । तत्राप्यारोप्यमाणोऽयं भेद इति व्यवहारनिर्वाहाय तत्र भेदत्वेन तादत्म्येन भेदभ्रमस्तत्रैव भेदत्वभानस्य स्वीकारात् । तत्र चारोप्यमाणभेदस्य मिथ्यात्वेन व्यभिचारप्रसक्तेः । यत्र प्रागभावो मुख्यविशेष एव भासते तत्र तादात्म्येन भेदत्वं भेद एव भासते । तादृशभ्रमेऽपि भेदानवगाहित्वं न स्वीक्रियते किन्त्वयं भेद इति व्यवहारबलाद्भेदस्य(स्यैव) प्रागभावे भ्रमः । तत्रैव भेदत्वं भासत इत्याद्यभ्युपगमान्न कथमपि व्यभिचारशङ्का कालिकविषयत्वादिना भेदत्वेन ध्वंसज्ञानादिभेदमादाय व्यभिचारवारणाय तादात्म्यसंसर्गावच्छिन्नेति भेदत्वप्रकारतायां निवेशः । विषयत्वं च ज्ञानासाधारणकारणकरणसन्निकर्षाश्रयत्वं कथमसतस्तद्युज्यत इत्यत आह — तच्चेति ॥ एतदपि तादृगेवेत्यत आह — स्वरूपमेवेति ॥ ज्ञानस्वरूपमेवेत्यर्थः । अप्रामाणिकस्य स्वरूपायोगाद्विषयताज्ञानस्वरूपमेव तन्निरूपकत्वमेव विषयस्यायं विषय इति व्यवहारहेतुरिति मतेनेदम् । तत्रेति बुद्धिस्थतन्निरूपकत्वपरामर्शः प्रामाणिकत्वानपेक्षणादित्याकरे तथा व्यवस्थापितत्वादिति भावः । अप्रामाणिकत्वं च परमतेऽनिर्वचनीयस्यापीति न तस्यापसिद्धान्त इति भावः ॥ भेदस्य सत्त्वेनेति ॥ अन्यथाऽऽरोपितानारोपितयोरभेदापत्तेरित्यर्थः । आरोपिते प्रतीयमानानारोपितभेदस्तदतिरिक्तोऽतः सत्य एवेत्यन्यत्र व्यवस्थापितम् ॥ चन्द्रभेदारोपमात्रेणेति ॥ चन्द्रस्वरूपमात्रसम्बन्धितया प्रतीयमानभेदमात्रारोपेण चन्द्रस्वरूपप्रतियोगिकभेदमात्रारोपेण चेत्यर्थः । भेदो व्यासज्यवृत्तिरुभयधर्मो भवत्युभयत्र प्रतियोग्यनुयोगिभावोऽपीति पक्षे चन्द्रस्वरूप एव व्यासज्यवृत्तिभेदरूपधर्मस्य तत्प्रतियोगिकत्वानुयोगिकत्वयोरारोपे इमौ चन्द्रावयमस्माद्भिन्न इति प्रतीत्युपपत्तिश्चन्द्रान्तरारोपं विनैव घटते । अव्यासज्यवृत्तितया भेदभाव(भान)पक्षेऽपि दोषवशात्प्रतियोगिकभेदव्यक्तेरन्यत्रानुभूयमानायास् तच्चन्द्रसंसृष्टतयाऽऽरोपितत्वमात्रेण तादृशव्यवहाराद्युपपत्तेर्न प्रदेशान्तरे चन्द्रस्यारोप इति भावः ।

नन्वेतस्मिन्नेवैतद्भेदस्यारोपेऽयमेतस्माद्भिन्न इति प्रतीत्यापत्तिर्न चन्द्रतद्व्यक्तिकत्वेऽपि तदानीं दोषवशाद्भेदस्य भासमानत्वेन रूपद्वयस्य प्रतियोगितावच्छेदकत्वानुयोगितावच्छेदकत्वाभ्यां पृथगुल्लेखाच् चन्द्रस्वरूपधर्मस्य (उक्त)प्रतियोगितावच्छेदकत्वेनाभानान्नायं चन्द्र इति न चन्द्रश्चन्द्र इति प्रतीत्यापत्तिः । न च चन्द्रान्तरस्यारोपः प्रदेशविशेषे कुतो न स्वीक्रियत इति वाच्यम् । तथात्वेऽनुभूयमानचन्द्रस्यारोपो वा स्मर्यमाणस्यारोपो वा । नाद्यः । अत्र भासमानचन्द्रस्य देशान्तरे संसर्गारोप एव वाच्यः । अनुभूयमानस्थले संसर्गारोपेण सर्वव्यवहारसम्भवे उभयारोपकल्पने गौरवात् । तत्र चात्र चैकचन्द्रस्यैव दीर्घतया भानप्रसङ्गाच्च । समीपस्थयोराम्रपनसयोरेक एवायं महाचूत इतिवत् । किञ्च नेमौ चूतौ किन्त्वनयोरन्यतरश्चूतोऽयं तु पनस एवेति प्रकारे बाधाभावस्य चूततादात्म्यमात्रे बाधस्य ग्रहवन् न तत्र चन्द्रः किन्त्वत्रैवेति बाधोदयापत्तिर्नत्वेक एवायं चन्द्रो न द्वाविति भेदमात्रस्य बाधोत्पत्तिः । स्मर्यमाणारोपोऽपि संयोगेन न घटते । चन्द्रानुभवसामाग्र्या बलवत्यास्तत्र सत्त्वे तत्र स्मृतिरूपारोपहेतोरेव दुर्घटत्वात् । स्मृतिरूपसन्निकर्षाधीनारोपस्थले आरोप्यविषयताया(याम्) इमं साक्षात्करोमीत्यनुव्यवसायनिर्वाहकत्वादर्शनेन चन्द्रौ साक्षात्करोमीति प्रतीत्यनिर्वाहप्रसङ्गश्च । स्मर्यमाणरजतारोपस्थले तत्तादात्म्येन प्रतीयमाने विद्यमाना लौकिकविषयतयैव रजतं साक्षात्करोमीति प्रतीतेर्निर्वाहिका । न चात्र स्मर्यमाणचन्द्रतादात्म्येन प्रतीयमानं चाक्षुषविषयभूतं किञ्चिद्वर्तते । शुद्धप्रदेशविशेष एव चन्द्रान्तरभानात् । तस्य चन्द्रभिन्नत्वेनानुभवात् । तदुपपत्तिश्चन्द्राधिकरणप्रदेशेऽप्यङ्गुल्यवष्टम्भेन भेदभ्रमात् । एतेन दोषविशेषबलादेव तादृशप्रतीतिनिर्वाहकविषयता कल्प्यते । अन्यथा भेदस्वरूपमिथ्यात्वसिद्धये स्मर्यमाणारोपस्यैव वक्तव्यतया तवाप्यगतेरिति निरस्तम् । तादात्म्येन चन्द्रान्तराभानेऽधिष्ठानानिरूपणात् प्रदेशान्तरे चन्द्रप्रतीतेरुक्तरीत्यैवोपपत्तौ तदारोपे बीजाभावाच्च पूर्वोक्तबाधानुपपत्तिश्च । तस्माद्भेदारोपमात्रादेव सम्भवे चन्द्रान्तरारोपकल्पना वृथैव । अत्र यद्यप्येतच्चन्द्रभेदस्य चन्द्रभिन्नेष्वनुभूयमानस्य चन्द्रे संसर्गारोप एव वाच्यः । इत्थं च तस्य सत्यतया दृष्टान्तत्वायोगेन कथं तत्पक्षोत्कीर्तनमिति भाति । तथाऽपि संसृष्टरूपेण तस्य मिथ्यात्वदृष्टान्ततोपपत्तिः । वस्तुतस्तु व्यासज्यवृत्तिभेदमात्रमारोप्यते । स च दोषविशेषवशात्साक्षात्कारित्वप्रतीतिनिर्वाहकविषयतावान्स्वरूपतो मिथ्या च भवतीत्यत्रैव ग्रन्थकृतो निर्भर इति द्रष्टव्यम् । यद्यपि पूर्वदृष्टचैत्रे कालान्तरे नायं चैत्र इति भेदभ्रमाणां निर्विवादतया तद्विषयाणां दृष्टान्तत्वसम्भवादुक्तप्रयासवैफल्यं भाति । तथाऽपि सति सम्भवे कण्ठोक्तपरित्यागे बीजाभावाच्छिष्यव्युत्पादनार्थत्वाच्च न प्रयासवैफल्यम् । विरहिणश्चन्द्रे चन्द्रभेदभ्रमे निर्विवाद इत्युक्तप्रयासवैफल्यमित्येके ॥ तर्हीति ॥

ननु द्वैताद्वैतवादिनोर्मते रजताभेदस्य रजतस्वरूपत्वेन तदारोपे तदारोपः प्राप्त एवेति निर्दलेयं शङ्केति वाच्यम् । रजतस्याभेद इत्यादिप्रतीतिनिर्वाहाय कल्पितभेदस्य विशेषस्य वा यथामतं स्वीकृत्वेनोक्तशङ्कोपपत्तेः । तत्राप्यारोप्यस्य रजतस्याधिष्ठानत्वेनेति, तत्र रजतस्याधिष्ठानत्वेनेत्यपि क्वचित्पाठः । तत्रायमर्थः । इदं रजतं रजतमिदमित्याकारद्वयोल्लोखाच्छुक्तिकायां रजततादात्म्यस्येव रजते शुक्तितादात्म्याध्यासोऽप्यावश्यकः । तथा चोक्तं सङ्क्षेपशारीरके `इदमर्थवस्त्वपि भवेद्रजते परिकल्पितं रजतं वस्त्विद’मिति ॥ तथा च शुक्तितादात्म्याधिष्ठानतया रजतभानार्थं भ्रमे रजतस्यापि शुक्त्यंशे आरोप इत्यर्थः । उपस्थितिपदार्थो भानम् । रजतस्यानधिष्ठानत्वेति, तत्रारजतस्याधिष्ठानत्वेऽपीति च पाठो युक्तः । तथात्वे चायमर्थो युक्तः । चन्द्रान्तरारोपानङ्गीकारस्तत्र चन्द्रस्यैवाधिष्ठानत्वेन तत्रोक्तरीत्या भेदारोपादिना द्वौ चन्द्रावित्यादिप्रतीतिसम्भवात् । प्रकृते च रजतस्यानधिष्ठानत्वेन शुक्तेरेवाधिष्ठानतया लौकिकसन्निकर्षेण तज्ज्ञानायोगात् । इदं रजतमिति व्यवहारानिर्वाहकज्ञानस्य तत्काले सिद्ध्यर्थं तत्काले रजतारोपाङ्गीकारस्य आवश्यकत्वान्न तत्प्रतिबन्दिरिति भावः । रजतारोपानङ्गीकारे न केवलमिदं रजतमिति व्यवहारानुपपत्तिः किन्तु भवदभिमतरजततादात्म्यत्वावच्छिन्नारोपोऽपि न सिद्ध्यतीत्याह — रजतानुपस्थिताविति ॥ उक्तभ्रमस्थले रजतविषयकज्ञानाभावेऽङ्गीक्रियमाणे भ्रमस्य रजताविषयकत्वेति यावत् ॥ रजताभेदेति ॥ रजतप्रतियोगिकाभेदत्वेन तज्ज्ञानासम्भवादित्यर्थः । न चेष्टापत्तिः । केवलतादात्म्यादिज्ञानेन रजतार्थिप्रवृत्त्यनुपपत्तिः(त्तेः) । न च तर्ह्यभेदांश एव प्रतियोगितया भासते(तां) शुक्तिकायां तदारोपो निष्फल इति वाच्यम् । भ्रमे रजतभानस्यावश्यकत्वे शुक्तिकायामेवाभेदसंसर्गेण भानकल्पन एव लाघवमधिकविषयत्वाकल्पनात् । लाघवेन तस्य (एव) रजतार्थं प्रवृत्तौ हेतुत्वाच्च । न तादात्म्यस्य शुक्त्यंशे प्रकारत्वमङ्गीकृत्य तत्र रजतस्य प्रकारत्वकल्पने लाघवम् । रजततदभेदयोरभेदशुक्तिकयोश्च संसर्गभानावश्यकतयाऽधिकविषयताकल्पनाप्रयुक्तगौरवं तादृशस्य प्रवृत्तकत्वानुपपत्तिश्चेति भावः । एतद्वाक्यस्य पूर्वं रजतानुपस्थितौ रजताभेदारोपासम्भवात्पूर्वं रजतारोपावश्यक इत्यर्थभ्रान्त्या पूर्वं रजतारोपाभावेऽपि व्यावहारिकरजतोपस्थितिमात्रेण तादृशतादात्म्यभानसम्भवान्न रजतारोप आवश्यक इति दूषणभ्रमेण मनःखेदो न कार्यः । अस्मदुक्तवाक्यार्थे उक्तदूषणासंस्पर्शात् । रजतार्थिप्रवृत्त्यादिहेत्वारोपे रजतप्रतीतिर्नास्तीति वदन्तं प्रति तत्पूर्वं रजतारोपोपपादनस्याकिञ्चित्करत्वादप्रसक्तत्वाच्चोक्तवाक्यस्य तादृशार्थकत्वतात्पर्यभ्रमस्यैवातिसाहसिकत्वादिति दिक् ।

(७)काशीतिम्मण्णाचार्य

सर्वाभेदसिद्धये भेदमात्रमिथ्यात्वानुमानमाह — भेद इति ॥ विमत इत्यादिः । तेन न पूर्ववदंशतश्चन्द्रभेदे सिद्धसाधनम् । नन्वत्र मिथ्यात्वमसत्त्वं चेदपसिद्धान्तः, जगतः सदसद्विलक्षणत्वाङ्गीकारादथ आह — मिथ्यात्वं चेति ॥ यद्वा सदसद्विलक्षणत्वरूपमिथ्यात्वसाधने परं प्रति साध्याप्रसिद्धिरत आह — मिथ्यात्वं चेति ॥ यद्वा यदि सत्त्वानधिकरणत्वं मिथ्यात्वं तदा निर्धर्मकब्रह्मवत् सद्रूपस्यापि भेदस्य सत्त्वाधिकरणत्वनिषेधसम्भवादर्थान्तरमित्यत आह — मिथ्यात्वं चेति ॥ यद्वा बाध्यत्वमेव हि मिथ्यात्वम् । तच्चान्यथा विज्ञातस्य सम्यग्विज्ञातत्वमेवेति सिद्ध

साधनम् । क्षणिकत्वादिना विज्ञातस्य जगतः स्थायित्वादिना विज्ञातत्वाभ्युपगमादत आह — मिथ्यात्वं चेति ॥

यद्वा, अज्ञानतत्कार्यान्यतरत्वरूपमिथ्यात्वे साध्ये परं प्रति दृष्टान्तस्य साध्यवैकल्यं, तन्मतेऽत्यन्तासतश्चन्द्रभेदादेरज्ञानतत्कार्यान्तर्भावाभावादत आह मिथ्यात्वं चेति ॥ निवर्त्यत्वमात्रस्य मुद्ररप्रहारदिना घटादेरिव सत्त्वपक्षेऽप्युपपत्तेर्ज्ञाननिवर्त्यत्वमिति । एतदप्युत्तरज्ञाननिवर्त्यपूर्वज्ञानवत् सत्त्वाविरोधीत्यधिष्ठानपदम् । अधिष्ठानयाथात्म्यज्ञाननिवर्त्यस्य शुक्तिरजतादेः सत्त्वादर्शनेऽपि तद्भ्रमनिवर्त्यस्य सत्त्वसम्भवादर्थान्तरमित्यतो याथात्म्येति । न च मायिमते चन्द्रभेदादेः प्रातिभासिकत्वेन निवृत्तिसम्भवेऽपि सिद्धान्तिमते तुच्छत्वेन तस्य निवृत्त्ययोगाद्दृष्टान्तवैकल्यमिति वाच्यम् । यतस्तन्निवर्त्यत्वं तदधीनसिद्धिकाभावप्रतियोगित्वम् । चन्द्रभेदादेरभावश्चन्द्रैकत्वज्ञानाधीनसिद्धिक इत्यदोषः ॥ प्रामाणिकेति ॥ सिद्धान्ते सदसत्साधारणभेदत्वधर्मस्याप्रसिद्धत्वेनेत्यर्थः ॥ असिद्धो हेतुरिति ॥ उभयानुगतभेदत्वस्य हेतुत्वे हेत्वप्रसिद्धिः । सन्मात्रवृत्तिभेदत्वस्य हेतुत्वे दृष्टान्तासिद्धिः । दृष्टान्तवृत्तिभेदभ्रमविषयत्वरूपभेदत्वस्य हेतुत्वे च स्वरूपासिद्धिरित्यर्थः ।

ननु प्रतीयमानत्वं हि प्रतीतिकर्मत्वम् । तस्य च प्रतीतिजन्यफलाश्रयत्वरूपस्य न सदसत्साधारण्यमत आह प्रतीतिविषयत्वमिति ॥ एतदेव प्रतीतिकर्मत्वं, न तूक्तरूपम् । ज्ञाततारूपफलस्य निरस्तत्वेनासम्भवादिति भावः । ननु प्रतीतिजनकसन्निकर्षादिमत्त्वरूपं तद्विषयत्वमपि न सदसत्साधारणमित्याशङ्क्याह — तच्चेति ॥ ननु सम्बन्धस्य सम्बन्धिसत्तासापेक्षत्वात् कथमसतश्चन्द्रभेदादेः प्रतीतिसम्बन्धित्वमत आह — सम्बन्धश्चेति ॥ स्यादेवं यद्यन्यः सम्बन्धः स्यात् । अयं तु प्रतीतेः स्वरूपमेव । तस्य तु विषयसत्तानिरपेक्षत्वान्न दोष इति भावः ।

स्यादेतत् । परमते चन्द्रभेदस्य पारमार्थिकत्वाद्दृष्टान्तस्य साध्यवैकल्यम् । न चैवं चन्द्रभेदप्रतीतेः प्रमात्वप्रसङ्गः । चन्द्रभिन्नत्वेन भासमानचन्द्रस्यारोपितत्वेन विशिष्टविषयबाधात् । चन्द्रभेदस्यैवारोपितत्वे चन्द्रद्वित्वप्रतीतेरनुपपत्तेः । तस्या विभिन्नवस्तुविषयकापेक्षाबुद्धिसापेक्षत्वादित्याशङ्कते — नन्विति ॥ सत्यत्वेनेति ॥ अन्यथाऽरोपितानारोपितयोरैक्यप्रसङ्ग इति भावः । द्वित्वप्रतीतिं प्रति न वस्तुतो विभिन्नवस्तुविषयकबुद्धिर्हेतुः । दूरस्थवृक्षयोर्भेदाग्रहेऽपि द्वित्वप्रतीत्यापत्तेः । अपि तु भेदग्रह एवेति चन्द्रे चन्द्रभेदारोपाङ्गीकारे नानुपपत्तिः । न च चन्द्रान्तरस्यारोपाङ्गीकारेऽपि बाधकाभावः । चन्द्रश्चन्द्रसिन्न इत्यादौ चन्द्रभेदस्यैव साक्षाद्धर्मिविशेषणत्वापेक्षया तादात्म्येन चन्द्रभिन्नस्य तथात्वे विषयताधिक्येन गौरवादित्याशयेन समाधत्ते — चन्द्रभेदारोपमात्रेणेति ॥ अत्र प्रतिबन्दीमाशङ्कते — नन्विति ॥ यद्यपि रजतारोपापेक्षया विषयताधिक्येन रजताभेदारोप एव गौरवान्नैतत्प्रतिबन्द्यवकाशः । न च धर्मिकल्पनातो धर्मकल्पना लघीयसीति शङ्क्यम् । धर्मिघटितधर्मकल्पनाया लघुत्वायोगात् । तथापि रजताभेदस्य रजतत्वरूपत्वेन तद्विशिष्टारोपात् तदारोपे लाघवमित्यभिप्रायः । रजतत्वस्य च न स्वरूपेणारोप्यत्वम् । मिथ्यैव रजतं प्रत्यभादित्यनुस्मृतिविरोधात् । रजताभेदत्वेनारोपे च रजतारेपस्यावश्यकतेत्याह — तत्रेत्यादिना ॥ रजताभेदारोपाङ्गीकारेऽपि तत्कारणीभूतप्रतियोग्युपस्थित्यर्थं रजतारोपोऽवश्यमङ्गीकार्यः । न चैवं चन्द्रान्तरारोपस्याप्यावश्यकता । अधिष्ठानभूतचन्द्रप्रतीतेरेव प्रतियोगिज्ञानत्वात् । न चैवमिहाप्यापणस्थरजतोपस्थित्यैव निर्वाहः । तथासति तदभेदस्यैवारोप्यत्वापत्त्या दर्शितानुस्मृतिविरोधात् । तथाचावश्यकरजतारोपेणैवोपपत्तौ तदभेदारोपाङ्गीकारे वैयर्थ्यं गौरवं चेत्याशयः ।

(७)शर्कराश्रीनिवासाचार्य

अपिचेत्येतत्किञ्चेतिवद् व्याख्येयम् ॥ भेद इति ॥ विमतभेद इत्यर्थः । अन्यथा चन्द्रभेदस्यापिपक्षत्वापत्त्यांशे सिद्धसाधनात् । अत्र भेदस्य मिथ्यात्वे सिद्धे तद्विरुद्धोऽभेद एव सिध्यतीति ध्येयम् । ननु किमिदं मिथ्यात्वम् । असत्त्वमनिर्वचनीयत्वं वा । नाद्यः । अपसिद्धान्तात् । नद्वितीयः । तस्य कुत्राप्यप्रसिद्धत्वेनाप्रसिद्धविशेषणत्वादित्यत आह मिथ्यात्वं चाधिष्ठानेति ॥ आरोपाधिष्ठानशुक्तिविषययथार्थज्ञाननिवर्त्यत्वं शुक्तिरजते प्रसिद्धमिति भावः । नन्वत्र विमतभेदत्वं हेतुश्चन्द्रभेदत्वं वा । नाद्यः । दृष्टान्ते विमतभेदत्वाभावेन साधनवैकल्यापातात् । न द्वितीयः । हेतोः पक्षे अभावेन स्वरूपासिद्धेः । ननु यथा पर्वतीयधूमस्य हेतुत्वे साधनवैकल्यं महानसीयधूमस्य हेतुत्वे स्वरूपासिद्धिरिति शङ्कापरिहरायोभयधूमानुगतं धूमत्वसामान्यं हेतूक्रियते तथेहापि विमतभेदचन्द्रभेदानुगतं भेदत्वसामान्यं हेतुरिति चेन्न । तत्रोभयोरपि धूमयोः प्रामाणिकत्वेनोभयधूमानुगतसामान्यसम्भवात् । प्रकृते च विमतभेदस्य प्रामाणिकत्वेन चन्द्रभेदस्याप्रामाणिकत्वेन प्रामाणिकाप्रामाणिकानुगतभेदत्वसामान्याभावेनासिद्धिप्रसङ्गादित्याशङ्क्य निराकरोति ॥ नन्विति ॥ व्यावहारिकत्वेन वा तत्ववादिरीत्या वा विमतभेदस्याप्रामाणिकत्वोक्तिः ॥ एवं चेति ॥ भेदत्वेन प्रतीमानत्वस्योभयसाधारण्यादिति भावः । ननु प्रतीयमानत्वं नामप्रमारूपप्रतीतिगोचरत्वम् इदमेव प्रामाणिकत्वमित्यप्रामाणिकचन्द्रभेदेकथमेतत्सम्भवतीत्यत आह प्रतीयमानत्वं हीति ॥ प्रतीतिविषयत्वं नतु प्रमारूपप्रतीतिविषयत्वम् । येनोक्तदोष इति भावः । ननु यत्सन्निकृष्टकरणेन यज्ज्ञानं जायते स तस्य विषयो भवति । तथाचात्र प्रतीतिविषयत्वं प्रतीतिजनककरणसन्निकृष्टत्वं वाच्यम् । करणसन्निकर्षश्च संयोगादिरूपः । स च प्रामाणिकस्यैवेत्यप्रामाणिकेकथमेतत्सम्भवतीत्यत आह — तच्चेति ॥ प्रतीतिसम्बन्धित्वं नतु प्रतीतिजनककरणसन्निकृष्टत्वम् । येनोक्तदोष इति भावः ।

ननु प्रतीत्यासाकं सम्बन्धस्य संयोगसमवाययोरन्यतरत्वावश्यंभावादुक्तदोषतादवस्थ्यमित्यत आह — सम्बन्धश्चेति ॥ स्वरूपमेव नातिरिक्तः संयोगादिः । अतिरिक्तसम्बन्धमनपेक्ष्य विशिष्टधीनियामकत्वं स्वरूपसम्बन्धत्वम् । नन्वप्रामाणिकत्वेऽसत्त्वापत्त्या स्वरूपसम्बन्धोऽपि कथमिति चेन्न । प्रतीयमानचन्द्रभेदस्य प्रातिभासिकत्वाङ्गीकारेणासत्त्वानङ्गीकारादिति भावः ॥ इत्यत्रेति ॥ एवं निरुक्तभेदत्वेन प्रतीयमानत्वे उक्तरीत्या प्रामाणिकत्वानपेक्षणादित्यर्थः । चन्द्रयोर्भेदस्य सत्यत्वं कुत इत्यत आह — आरोपितानारोपितेति ॥ आरोपितानारोपितचन्द्रयोर्भेदस्य मिथ्यात्वे तयोरन्योन्यं तादात्म्यं स्यात् । नचैतद्विरुद्धधर्माधिकरणयोः सम्भवतीति भावः । उभयोरप्यारोपितत्वं किं नाङ्गीक्रियत इत्यत उक्तम् ॥ प्रतीयमाने चन्द्रे चन्द्रान्तरस्यारोपितत्वेनेति ॥ चन्द्रान्तरस्यानारोपितत्वेऽङ्गुल्यवष्टम्भाभावेऽपि प्रतीतिः स्यादिति भावः । स्यादिदं यदि चन्द्रान्तरस्यारोपितत्वं स्यात् । नचैतदस्ति । नच तथात्वे इमौचन्द्राविति द्वित्वप्रतीत्यनुपपत्तिः । चन्द्रान्तरस्यारोपितस्यैवानङ्गीकारादिति वाच्यम् । एकस्मिन्नेव चन्द्रे भेदारोपमात्रेण द्वित्वप्रतीत्युपपत्तेः । नच चन्द्रान्तरस्यैवारोपः किं नस्यादिति वाच्यम् । धर्मिकल्पनातोवरं धर्मकल्पनमिति न्यायेन सिद्धेचन्द्रे भेदरूपधर्ममात्रारोपाङ्गीकारेण द्वित्वप्रतीत्युपपत्तौ चन्द्रान्तराख्यधर्म्यारोपे गौरवादिति परिहरति ॥ चन्द्रे भेदारोपमात्रेणेति ॥ चन्द्रे चन्द्रप्रतियोगिकभेदारोपमात्रेणेत्यर्थः । प्रतिबन्द्या शङ्कते — तर्हीति ॥ यदि चन्द्रे भेदारोपमात्रेण द्वित्वप्रतीत्युपपत्त्या चन्द्रान्तरारोपो नाङ्गीक्रियते तर्हि शुक्तिकायां रजतारोपो न स्यात् । नच तथात्वे इदं रजतमिति प्रतीत्यनुपपत्तिः । शुक्तिकायां रजताभेदारोपमात्रेण तदुपपत्तेः । नच रजतस्यैवारोपः किं नस्यादिति वाच्यम् । धर्मिकल्पनातो वरं धर्मकल्पनमिति न्यायेन सिद्धे शुक्तिकाशकले रजताभेदाख्यधर्मारोपमात्रेण तादृशप्रतीत्युपपत्तौ रजताख्यधर्म्यारोपाङ्गीकारे गौरवात् । यदि तत्र प्रामाणिकत्वेन गौरवस्यादोषत्वमङ्गीकृत्य रजतारोपोऽङ्गीक्रियते तर्ह्यत्रापि तथैवाङ्गीकृत्य चन्द्रे चन्द्रान्तरस्यैवारोपोऽङ्गीकार्य इति भावः । प्रतिबन्दीं मोचयति — नेति ॥ तत्र उदाहृतस्थले । अधिष्ठानज्ञानेनैवरजतोपस्थितिः किं न स्यादित्यत उक्तमधिष्ठानस्यारजतत्वेनेति । आरोपाधिष्ठानस्य शुक्तित्वेन तद्दर्शने रजतोपस्थित्ययोगादित्यर्थः । रजतोपस्थितिरेव कुत इत्यत आह — रजतानुपस्थिताविति ॥ सप्रतियोगिकपदार्थज्ञानेप्रतियोगिकज्ञानस्य कारणत्वेन रजतरूपप्रतियोगिज्ञानाभावेतत्प्रतियोगिकाभेदारोपासम्भवादित्यर्थः । यद्यभेदस्य सप्रतियोगिकपदार्थत्वेन प्रतियोग्युपस्थित्यर्थं रजतारोपोऽङ्गीक्रियते । तर्हि भेदस्यापि तथात्वेन प्रतियोग्युपस्थित्यर्थं चन्द्रान्तरारोपोऽङ्गीकार्य इत्यत आह — नैवमिति ॥ यथा रजतोपस्थित्यर्थं रजतारोपोऽङ्गीकार्यस् तथा चन्द्रोपस्थित्यर्थं चन्द्रान्तरारोपोऽङ्गीकार्यो नेत्यर्थः । कुत इत्यत आह अधिष्ठानस्येति ॥ तत्र ह्यधिष्ठानस्य शुक्तित्वेन तद्दर्शने रजतोपस्थितेरसम्भवाद्रजतारोपोऽङ्गीक्रियते । अत्र तु भेदारोपाधिष्ठानस्य चन्द्रत्वेन तद्दर्शने चन्द्रस्योपस्थितत्वेन तदर्थं चन्द्रातरारोपो व्यर्थ इति भावः ।