किञ्च विमतानि शरीराणि देवदत्तस्यैव भोगायतनानि शरीरत्वाद्देवदत्तशरीरवत्
(६)भेदोज्जीवनम्
(६) किञ्च विमतानि शरीराणि देवदत्तस्यैव भोगायतनानि शरीरत्वाद्देवदत्तशरीरवत् । अत्र भोगायतनत्वात्यन्ताभावानधिकरणत्वं साध्यम् । तेन सुप्तमूर्च्छितमृतशरीरादिषु न बाधः । नापि व्यभिचारः । (न बाधो न व्यभिचारः) । ननु दैवदत्तस्यैवेत्यत्र भोक्तृत्वेनाप्रसक्तस्याचेतनस्यैवकारेण व्यवच्छेदायोगाच्चेतनान्तरं तद्व्यावर्त्यं
वाच्यम् । तेनात्मान्तरसिद्धिः । एवकारपरित्यागे च सर्वेषां शरीराणां प्रतिनियतभोक्तृकाणामपि देवदत्तभोगायतनत्वस्याप्युपपत्त्याऽर्थान्तरादिति चेन्न । परमतप्राप्तस्यैव भोक्त्रन्तरस्यैवकारेण
व्यावर्त्यत्वात् ।
(६)भावप्रदीपः
आत्माभेदेऽनुमानान्तरमप्याह — किञ्च विमतानीति ॥ अत्र देवदत्तशरीरे सिद्धसाधनातावारणाय विमतानीत्युक्तम् । तथा च देवदत्तशरीरातिरिक्तशरीराणीति लभ्यते । तेषां च देवदत्तमात्रभोगायतनत्वसाधने यज्ञदत्तादिसर्वात्मनां देवदत्तेनाभेदलाभ इति भावः । ननु सुप्तमूच्छ्रितमृतशरीराणां पक्षत्वे तत्र भोगायनत्वाभावेन बाधः पक्षातिरिक्तत्वे व्यभिचार इत्यत आह — भोगायतनत्वात्यन्ताभावेति ॥ सुप्त्यादिदशायां भोगायतनत्वाभावेऽपि तत्पूर्वं वा तदुत्तरं वा भोगायतनत्वसम्भवेन तदत्यन्ताभावानधिकरणतायास्तेष्वपि सद्भावेन पक्षकोटिप्रविष्टेष्वपि तेषु न बाधः । पक्षकोटिप्रविष्टत्वादेव व्यभिचारोऽपि नेत्यर्थः । नन्वात्मनामभेदसाधनार्थमिदमनुमानम् । तत्र देवदत्तस्यैवेत्येवकारेणैव तद्व्यावर्त्यं देवदत्तातिरिक्तचेतनसिद्धिर्भवति । अतः स्वव्याहतमेतदित्याशङ्कते — नन्विति ॥ अचेतनमेव तद्व्यावर्त्यं किन्न स्यादित्यत उक्तं भोक्तृत्वेनाप्रसक्तस्येति ॥ अचेतनस्येति शेषः । तर्ह्येवकारः परित्यज्यत इत्यत आह — एवकारेति ॥ प्रतिनियतभोक्तृकाणामपि भूतावेशन्यायेन देवदत्तभोगायतनत्वस्याप्युपपत्त्याऽर्थान्तरत्वमित्यर्थः ॥ परमतप्राप्तस्येति ॥ परमतप्रसक्तस्यैव चेतनान्तरस्य व्यावर्तनान्न स्वव्याघात इति भावः ।
(६)भेदचिन्तारत्नं
विमतानीति ॥ यज्ञदत्तादिशरीराणीत्यर्थः । पक्षधर्मताबलादभेदसिद्धिरिति भावः । देवदत्तस्य परकायप्रवेशेनार्थान्तरवारणायैवकारः ॥ न बाधो नापि व्यभिचार इति ॥ पक्षत्वे बाधो न चेद्व्यभिचारश्च नेत्यर्थः । एवकारप्रयोगेऽप्यनुमानं दूषयति — नन्विति ॥ आत्मान्तरसिद्धिरिति ॥ अन्यथा स्वतो व्यावृत्ततद्व्यावर्तकैवकारायोगादिति भावः । निषेधप्राप्तिरेव तन्त्रं न स्वरूपसत्त्वमिति भावः ।
(६)भेदचन्द्रिका
॥ किञ्च विमतानीति ॥ यद्यप्यनेनानुमानेन जीवानां परस्पराभेदसिद्धावपीश्वराभेदसिद्धौ न प्रकृतोपयोगः । तथाऽपि प्रसङ्गागतं बोध्यम् । यद्वा `शुभं पिबत्यसौ नित्यं नाशुभं स हरिः पिबेत्’ इत्युक्तेर्भगवतस्तच्छरीरावच्छिन्नसारभोक्तृत्वमात्मभेदवादिभिरङ्गीकार्यम् । अनेन चानुमानेन देवदत्तमात्रभोगायतनत्वसाधने ईश्वराभेदः सिध्यतीति भावः ॥ भोगायतनत्वात्यन्ताभावेति ॥ यद्यप्यत्र व्याप्तिर्दैशिकी । तथा च सुप्तमूर्छितमृतशरीरेषु पक्षीकृतेषु सपक्षीकृतेषु च तत्तदवस्थायां भोगाभावे कदाचिद्भोगायतनत्वस्य विद्यमानत्वान्न बाधो न व्यभिचारः । न च वाच्यं परिमाणभेदेन द्रव्यभेदात्सुप्तादिशरीराणां पूर्वोत्तरशरीरभेदात्तेषां कदाऽपि भोगायतनत्वाभावाद् भवति बाधो व्यभिचारश्चेति । तथात्वे विवक्षयाऽप्यनिस्तारात् । तेषां शरीराणां भोगतत्प्रागभावध्वंसाधिकरणत्वेन तदत्यन्ताभावानधिकरणत्वात् । तथाऽपि व्याप्तिद्वयेन प्रवृत्तमिदमनुमानमित्याशयेनेदम् ॥ नन्विति ॥ एवकारेण भोक्तृत्वेनाप्रसक्तस्य जडव्यावर्तनायोगेन भोक्तृत्वेन प्रसक्तचेतनान्तरमेव व्यावर्तनीयम् । तथा च देवदत्तातिरिक्तचेतनभोगानायतनत्वे सति देवदत्तभोगायतनत्वं साध्यार्थः फलितः । एवञ्च तादृशसाध्यस्य प्रसिद्धिसम्पादकेन प्रकृतानुमानेन वा देवदत्तातिरिक्तचेतनसिद्धिः स्यात् । एवकारपरित्यागे च प्रतिनियतभोक्तॄणामपि भूतावेशन्यायेन देवदत्तभोगायतनत्वसम्भवादभेदं विनाऽपि साध्यपर्यवासानादर्थान्तरतेत्यर्थः ॥ परमतेति ॥ तथा च देवदत्तातिरिक्तत्वेन पराभिमतचेतनान्तरभोगानायतनत्वे सति देवदत्तभोगायतनत्वं साध्यार्थ इति नोभाभ्यां देवदत्तातिरिक्तचेतनसिद्धिः । परमतावच्छेदकत्वेन साध्यकोटिनिवेशस्यायमेव वदतीत्यादेरिवार्थसत्तापर्यन्तत्वाभावादिति भावः ।
(६)भेदसञ्जीविनी
एवं परमात्मना सर्वजीवानामभेदं बहुजीववादेन प्रसाध्यैकजीववादमवलम्ब्य सर्वशरीरस्य जीवैक्यं साधयति — विमतानीति ॥ परिदृश्यमानदेवदत्तपिण्डव्यतिरिक्तनिखिलशरीराणीत्यर्थः । देवदत्तीयजन्मान्तरीयशरीरेषूक्तसाध्यस्य सिद्धत्वेऽप्यवच्छेदकावच्छेदेन साधने सिद्धसाधनता न दोष इत्याशयेनेदम् । अथवा देवदत्तसम्बन्धिपूर्वापरनिखिलशरीरव्यतिरिक्तान्यदीयसर्वशरीरसाधारणस्य रूपस्य ज्ञानिमुखादिना कथञ्चिदवगमे तद्रूपं वा तदवच्छिन्नधर्मिका विप्रतिपत्तिर्वा पक्षतावच्छेदिकाऽतो नांशे सिद्धसाधनताऽवकाशः । अज्ञानिनां तु न तादृशधर्मो बुद्धिपथमारोढुमर्हति । सर्वशरीरिणां देवदत्तशरीरत्वपक्षे देवदत्तकर्मानिर्मितत्वादिधर्माणां पक्षीभूतशरीरेष्वपि सम्भवात् । अथवैकजीववादपक्षे हिरण्यगर्भनामकशरीराभिमान्येक एव जीवः सर्वशरीराभिमान्यनादितोऽनुवर्तते । एतावत्कालपर्यन्तं न कस्यापि मुक्तिस्तस्य मुक्त्यनन्तरं न किमपि जगदवशिष्यत इत्येकजीववादस्थितिः । तथा च देवदत्तपदेन न शरीराभिमानी प्रकृते विवक्षितः। तथा च हिरण्यगर्भशरीररूपपिण्डमनादितः स्थितमिति शास्त्रसिद्धम् । तदन्यशरीरत्वावच्छेदेन हिरण्यगर्भस्यैव भोगायतनत्वं साध्यत इति नांशे सिद्धसाधनताऽवकाश इति ध्येम् । एतेनैतत्प्रकारेण पूर्वापरग्रन्थेष्ववच्छेदकावच्छेदेन साधनेऽप्यंशे सिद्धसाधनताया दोषत्वोपगमस्यैव सत्त्वान्मध्येऽत्रैव तदनङ्गीकारे सन्दर्भविरोध इति निरस्तम् ॥
॥देवदत्तस्यैवेति ॥ भोगायतनत्वं भोगावच्छेदकत्वम् । भोगोऽन्यः। सुखादिभूतावेशन्यायेन देवदत्तेतरभोगावच्छेदकेऽपि शरीरे देवदत्तभोगसम्भवेन नोद्देश्यसकलजीवैक्यसिद्धिरित्यर्थान्तरवारणायैवेति । देवदत्तेतरभोगायतनत्वाभावविशिष्टत्वं तदर्थः । ननु देवदत्तेतरचेतनाभावाज्जडकर्तृकभोगाप्रसिद्धेरितरकर्तृकभोगरूपप्रतियोग्यप्रसिद्ध्याऽनुमातृमते तदभावाप्रसिद्धिः । न च देवदत्तेतरचेतनत्वप्रकारकप्रतिवाद्यभिमतविषयीभूतचेतनत्वेन निवेश्य तत्कर्तृकभोगायतनत्वाभावो निवेश्यः । पराभिमत्यवच्छेदकतया साध्यकोटिनिवेशस्यायमिह वदतीतिवदर्थसत्तापर्यन्तत्वाभावादिति वाच्यम् । पराभिमतेर्भ्रमत्वेऽपि तद्विषयता चेतने वा जडे वा वाच्या । आद्ये देवदत्तचेतनस्यैव स्वातिरिक्तत्वभ्रमगोचरतया तद्भोगायतनत्वाभावसाधने बाधानिस्तारात् । द्वितीये जडकर्तकभोगाप्रसिद्धेरिति चेन्न । स्वकर्तृकभोगवत्त्वसम्बन्धावच्छिन्नप्रतियोगिताकेतराभाववैशिष्ट्यस्यैव निविष्टत्वात् । न च तस्य व्यधिकरणसम्बन्धावच्छिन्नप्रतियोगिताक(काभाव)तया केवलान्वयितयाऽव्यावर्तकत्वमिति वाच्यम् । परेषां देवदत्तेतरकर्तृकभोगमङ्गीकुर्वतां तस्य व्यधिकरणसम्बन्धत्वाभावेन तन्मतप्रसक्तार्थान्तरनिरासकतया सार्थक्यादित्यनुपदमेव ग्रन्थकृता वक्ष्यमाणत्वात् । लोकायतमतरीत्यैकजीववाद्येकदेशिमते एकस्यैव शरीरस्य सजीवत्वमन्येषां स्वप्नदृष्टशरीरवन्न जीवत्वमित्यङ्गीकारात्तद्रीत्या वा निश्चेतनत्वेन पर्यवसानवारणाय विशेष्यभागः सार्थकः । नन्वेवमप्यर्थान्तरवारणमशक्यमेव । देवदत्तेतरभोगावच्छेदकेऽपि शरीरे समयविशेषे तदभावेन तद्घटितसम्बन्धावच्छिन्नतदभावोऽपि वर्तत एवेति तद्विशिष्टभोगायतनत्वरूपसाध्यस्य तत्राबाधात् । न च वाच्यमुक्तसम्बन्धावच्छिन्नप्रतियोगिताकाभावोऽत्यन्ताभाव एव प्रागभावादीनां प्रतियोगितायाः सम्बन्धानवच्छिन्नत्वात् । तस्य प्रतियोगिवत्तत्प्रागभावध्वंसाभ्यामपि विरुद्धत्वस्याग्रे ग्रन्थ एव स्फुटतया कदाचिदन्यभोगावच्छेदकत्वसत्त्वेन(सत्त्वे) तदत्यन्ताभावासत्त्वेन तद्घटितसम्बन्धावच्छिन्नेतरात्यन्ताभावः कथं तत्र वर्तेतेति भोगात्यन्ताभावस्य तत्रासम्भवेऽपि भोगस्यैव सम्बन्धघटकतया तत्प्रागभावध्वंसयोः सम्बन्धाघटकत्वेन तद्घटितसम्बन्धावच्छिन्नात्यान्ताभावस्यापि भोगानधिकरणकालदेशावच्छेदेन सत्त्वात् । घटसंयोगप्रागभावध्वंसादिमत्यपि भूतले संयोगशून्य(ता)दशायां संयोगेन घटो नास्तीति प्रतीत्यनुरोधेन घटात्यन्ताभाववत्संयोगसम्बन्धावच्छिन्नेन्धनत्वाद्यवच्छिन्नप्रागभावस्यापि पूर्वपक्षग्रन्थादौ गदाधरप्रभृतिभिरुपपादितत्वेन प्रागभावध्वंसयोरपि धर्मसम्बन्धावच्छिन्नत्वसत्त्वाच्च । तथाचार्थान्तरता दुर्वारे(रैवे)ति चेन्न । यावत्स्वाधिकरणकालावच्छिन्नत्वस्य साध्ये विशेषणत्वाङ्गीकारेण वा कालानवच्छिन्नस्वरूपसम्बन्धेन साध्यताङ्गीकारेण वोक्तविशिष्टसाध्यस्य वोक्तसम्बन्धेन साध्यस्य वा यत्किञ्चित्काले विशेषणसत्त्वेऽसम्भवेनार्थान्तरप्रसक्तेरभावादित्याशयात् । तर्हि विशेष्यस्य सार्वकालिकत्वाभावाद्बाधो देवदत्तशरीरे व्यभिचारश्च । हिरण्यगर्भविवक्षायामपि तस्य प्रलये सुप्ततया भोगाभावाद्व्यभिचारश्चेत्यत आह — भोगायतनत्वेति ॥ भोगावच्छेदकत्वात्यन्ताभावस्य ध्वंसप्रागभावयोरत्यान्ताभावविरोधितामते कथमप्यसम्भवात्साध्यस्य तत्सम्बन्धस्य वा सार्वकालिकत्वेन न बाधव्यभिचारयोः प्रसक्तिः । उक्तविवक्षायामप्येवकारार्थरूपविशेषणं
देयमेव । अन्यथाऽन्यकर्तृकभोगदशायामप्युक्तविशेष्यभागस्या(प्य)क्षततयाऽर्थान्तरानिस्तरात् ।
यद्वा देवदत्तस्यैव भोगायतनत्वमित्यत्रैवकारार्थाप्रसिद्धिपरिहाराय स्वावच्छिन्नभोगत्वव्यापकदेवदत्तवृत्तिकत्वं साध्यार्थः । स्वावच्छिन्नत्वस्वावच्छिन्नभोगवृत्तिभेदप्रतियोगितानिरूपिताधेयतासम्बन्धावच्छिन्नावच्छेदकतासम्बन्धावच्छिन्नस्ववृत्तिप्रतियोगिताकाभाववद्देवदत्तकत्वैतदुभयसम्बन्धेन शरीरविशिष्टभोगोऽवच्छेदकतासम्बन्धेन साध्यमिति पर्यवसितम् । कदाचिदन्यभोगावच्छेदकत्वे तदीयभोगे तत्र देवदत्तवृत्तित्वाभावेन व्यापकताभङ्गापत्त्याऽर्थान्तरतानिरासः । ननु देवदत्तादिसुप्त्यादिदशायां तादृशशरीरावच्छिन्नभोगाभावेन तद्धटितसाध्याभावेन बाधव्यभिचारौ स्यातामित्याशङ्कां परिहरति — भोगायतनत्वेति ॥ तादृशभोगायतनत्वात्यन्ताभावानधिकरण(त्व)मेव तदर्थः । तच्चोक्तरीत्या कालिक(का)व्याप्यवृत्तीति न बाधव्यभिचाराविति भावः । यद्यपि पक्षे हेत्वधिकरणे च यदा कदा वा साध्यसत्त्वमात्रेण न बाधव्यभिचारयोः प्रसक्तिर्बाधशरीरे व्यभिचारशरीरे वा साध्याभावे प्रतियोगिवैय्यधिकरण्यस्य निविष्टत्वात् । अन्यथा कपिसंयोग्येतद्वृक्षत्वादित्यस्यापि दुष्टत्वापत्तेः । तथाऽपि प्रतियोगिवैय्यधिकरण्यादिप्रयोजनोक्तिपूर्वकं तच्छङ्कानिरासे गौरवं स्यादित्युक्तशङ्कामभ्युपेत्यैव व्याप्यवृत्तिसाध्ये पर्यवसानपूर्वकमुक्तशङ्कानिरासः कृत इत्यवधेयम् । अन्ये तु साध्यं साध्यतुल्यं साध्यसमनियतमित्यर्थः । तथा च गन्धवती पृथिवीत्वादित्यादेर्बाधितत्ववारणाय बाधव्यभिचारयोरत्यन्ताभावस्यैव निविष्टतया कदाचिदुक्तसाध्यरूपप्रतियोगिमति तदत्यन्ताभावसम्भवान्न बाधव्यभिचारौ । साध्यं तूक्तभोगायतनत्वरूपं यथाश्रुतमेवेति भाव इत्याहुः । केचिद् भोगायतनत्वात्यन्ताभावेति यद्यप्यत्र व्याप्तिर्दैशिकी । तथा च मूर्छितत्वादिदशायां भोगायतनत्वासत्त्वेऽपि कदाचित्पक्षसपक्षयोः सत्त्वादेव न बाधो न व्यभिचारश्च । न चावयवपरिमाणभेददर्शनादिना पूर्वापरशरीरभेदमङ्गीकृत्येदमिति वाच्यम् । तादृशेष्वेव कतिपयशरीरेषु भोगतत्प्रागभावतद्ध्वंसानां त्रयाणामप्यभावेनात्यन्ताभावस्यावश्यकतयोक्तसाध्यविवक्षायामप्येतद्दोषतादवस्थ्यात् । तथाऽपि व्याप्तिद्वयेन प्रवृत्तमिदमनुमानमित्याशयेनेदमित्याहुः । अत्रेदं विवेचनीयम् । द्वितीयव्याप्तिर्न कालिकी । अत्र शरीरत्वभोगायतनत्वयोः कालिकसम्बन्धेन हेतुसाध्यभावानापन्नतया तत्सम्बन्धेन व्याप्तेः प्रकृतानुपयोगात् । न च कालिकेन साध्यहेतुभावोऽप्यस्तीति वाच्यम् । शरीरे कालत्वाभावेन तत्र हेतुसाध्ययोः कालिकेनाभावात् । यथाकथञ्चित्तत्र कालोपाधित्वमङ्गीकृत्य तस्यापि कालिकसम्बन्धेन किञ्चिदधिकरणत्वमाश्रित्य तत्र कालिकसम्बन्धेन साध्यहेत्वङ्गीकारे घटादेरपि पक्षतासम्भवेन तत्परित्यागे बीजाभावः । कालिकसम्बन्धेन शरीरत्वस्य हेतुत्वे भोगतत्प्रागभावतद्ध्वंसानधिकरणत्वेन तदत्यन्ताभावाधिकरणे घटादिरूप(काले)निष्कृष्टसाध्यस्यापि व्यभिचारः । संसारस्यानादितयाऽनादिकालतः प्राप्तदेवदत्तभोगध्वंसादेः कालिकसम्बन्धेन सत्त्वेन न तदत्यन्ताभावस्तत्रेत्युच्यते तदा शरीररूपकाले देवदत्तेतरकर्तृकभोगसत्त्वेऽप्युक्तसाध्याबाधाच्चेतनैक्यासिद्ध्याऽर्थान्तरतैव । देवदत्तेतरभोगतद्ध्वंसादेः सत्त्वे तदत्यन्ताभावस्य कालेऽयोगेनैवकारार्थतया तदितरकर्तृकभोगात्यन्ताभावस्य साध्यकोटौ निवेशादेवार्थान्तरवारणमित्यङ्गीकारेऽपि तावतैवेष्टसिद्धौ विशेष्यभागवैय्यर्थ्यं निश्चेतनवादिनाऽप्यनुभवसिद्धभोगस्य कालेऽपलापस्य कर्तुमशक्यत्वेन भोगसामान्याभावमादाय पर्यवसानायोगात् । किञ्च शरीरस्य कालत्वाङ्गीकारेणानुमानप्रवृत्तौ कालरूपेषु सर्वशरीरेषु चेतनैक्यवादिनां यदा कदाचित्कालिकसम्बन्धेन देवदत्तभोगस्य सत्त्वात्कथं बाधप्रसक्तिः ।
ननु भोगसामान्यानधिकरणकालमात्रवृत्ति शरीरं प्रसिद्धं येन तत्र बाधप्रसक्तिः । सुप्तमूर्च्छादिदशापन्नतच्छशीरेषु बाधोद्भावनं ग्रन्थकृतामत्यन्तासमञ्जसं च स्यात् । अपि च काले ध्वंसप्रागभावाभ्यां सहात्यन्ताभावस्य विरोधेन सत्त्वेऽनित्यवस्तुप्रतियोगिताकात्यन्ताभावसामान्यस्य कालासंस्पर्शप्राप्त्या तेषामलीकत्वप्राप्त्या तादृशमतस्य विचारासहत्वेन साध्यपरिष्कारायोगः । न हि ‘विमतानि शरीराणी’ति न्यायवाक्ये कालिकसम्बन्धेन हेतुसाध्यभावज्ञापकं किमप्यस्ति । नापि परकीयैः स्वग्रन्थेषु तथोक्तमपि (।) येन ग्रन्थकृतां तदनुसारेण शङ्कासमाधानयोः प्रसक्तिरित्यपि वक्तुं शक्येत । अत एव यद्यत्कालावच्छेदेन शरीरत्वाधिकरणत्वं यत्र तत्कालावच्छेदेन देवदत्तस्यैव भोगायतनत्वं तत्रेति बलात्सेत्स्यमाने सर्वकालावच्छेदेनोक्तभोगायतनत्वरूपसाध्ये बाधोद्भावनं व्याप्तौ व्यभिचारोद्भावनं (च) युक्तमिति परास्तम् । हेतुसाध्यशरीरे कालाप्रवेशेन तद्घटितसामान्यव्याप्तेर्वक्तुमशक्यत्वात् । अस्मदुक्तरीत्याऽर्थान्तरवारणाय साध्यस्य कालघटितत्वेऽपि हेतौ तन्निवेशे प्रयोजनाभाव एव । हेतौ तन्निवेशे वैकस्या एव दैशिकव्याप्तेरनुमानाङ्गत्वप्राप्त्या व्याप्तिद्वयेन प्रवृत्तमिदमनुमानमित्यादेरसङ्गतिरेव । तस्मादेतदाशयं वयं न विजानीमः किन्तु महान्तः प्रष्टव्या इति । अत्रेदं प्रतिभाति । प्रतियोगिवैय्यधिकरण्यधटिताघटितव्याप्तिद्वयेनेत्यर्थः । साध्यस्य व्याप्यवृत्तित्वे व्याप्तिद्वयमपि घटत इति प्रतियोगिवैय्यधिकरण्याघटितव्याप्तौ व्यभिचारशङ्काबाधोक्तिरपि साध्याभावमात्रं पक्षे बाधो न तु तल्लक्षणे प्रतियोगिवैयधिकरण्यं निवेशनीयमित्याशयेनेति स्वरीत्यैवकारवैय्यर्थ्यमाशङ्क्य वादिप्रतिवादिनोरन्यतरमते प्रयोजनसद्भावमात्रेण तस्य प्रयोजनत्वमित्याशयेन प्रतिवादिमतरीत्याऽर्थान्तरवारणरूपं प्रयोजनं दर्शयति — नन्वित्यादिना ॥ चेतनैक्यसाधना(का)नुमानेन चेतनभेदस्यैव सिद्धावत्यन्तानभिमतपदार्थस्यैव सिद्ध्याऽभिमतासिद्ध्याऽर्थान्तरतैवेति भावः । यद्यप्येतदनुमानं जीवैक्यसाधकत्वाज्जीवेश्वरयोरैक्यासाधकत्वात्प्रकृताननुगुणमिव प्रतिभाति । तथाऽपि रामकृष्णादिशरीराणां लीलागृहीतेश्वरशरीराणामपि पक्षकोटिप्रविष्टत्वादभिमतार्थसिद्ध्या प्रकृतोपयोग इति हृदयम् ।
(६)काशीतिम्मण्णाचार्य
अत्रैवानुमानान्तरमाह — किं चेति ॥ भोगोऽनुभवः । आयतनमवच्छेदकम् । तथाच देवदत्तभिन्नभोगानवच्छेदकत्वे सति देवदत्तभोगावच्छेदकानीत्यर्थः । सत्यन्तव्यावृत्तिः स्वयमेव वक्ष्यते । भोक्तुर्देवदत्तत्वसिद्धये विशेष्यभागः । अथैवं भोक्त्रैक्यसिद्धावपि कथमभोक्तुरीश्वरस्य जीवाभेदसिद्धिरिति चेदत्राह । ईश्वरस्यापि तत्तच्छरीरावच्छिन्नरसभोक्तृत्वात्तदैक्यसिद्धिरिति । तच्चिन्त्यम् । अस्मदादिशरीरस्येश्वरभोगं प्रति साधनविशेषत्वरूपावच्छेदकत्वासम्भवात् । अन्यथा देवदत्तशरीरस्याप्युभयभोक्तृकत्वेन दृष्टान्तत्वानुपपत्तेः । वस्तुतश् चैतनैक्ये लाघवरूपानुकूलतर्कबलात् सकलचेतनैक्यसिद्धावुद्धेश्यसिद्धिर्बोध्या । जीवैक्यसिद्धिमात्रमत्रोद्देश्यमित्यप्याहुः ।
नन्वत्र विमतत्वावच्छेदकचैत्रादिशरीरत्वं विमतत्वमात्रं वा पक्षतावच्छेदकम् । आद्ये सुप्तिमूर्च्छावस्थाविशिष्टशरीरे बाधः । तत्काले साक्ष्यधीनसुखदुःखानुभवाङ्गीकारेऽपि शरीरस्य तदवच्छेदकत्वे प्रमाणाभावात् । मृतशरीरे बाधतादवस्थ्याच्च । एवं देवदत्तीयमृतशरीरे व्यभिचारः । न च विशिष्टस्य विशेष्यानतिरिक्ततया विशेष्यीभूतशरीरे च कदाचित् साध्यसत्त्वान्नोक्तदोष इति वाच्यम् । विशिष्टस्यौपाधिकत्वेन केवलविशेष्यानतिरिक्तत्वायोगात् । न चैवं वृक्षः कपिसंयोगी एतत्वादित्यादावपि मूलावच्छिन्नवृक्षादौ साध्याभावसत्त्वाद्बाधादिप्रसङ्ग इति वाच्यम् । वृक्षत्वावच्छेदेन साध्यतायामिष्टापत्तेः । सामानाधिकरण्येन साधने तस्यादोषत्वात् । द्वितीये तु विशिष्टस्य विमत्यविषयत्वेन पक्षबहिर्भूततया बाधानवकाशेऽपि तत्रैव व्यभिचारः । न च मृतशरीरादौ चेष्टावत्त्वरूपशरीरत्वाभावादेव न व्यभिचार इति वाच्यम् । चेष्टाशून्यसुप्तादिशरीरेऽसिद्धिवारणाय पूर्ववज्जातिरूपस्य चेष्टात्यन्ताभावानधिकरणत्वरूपस्य वा शरीरत्वस्य हेतुत्वावश्यकत्वादित्यत आह — भोगायतनत्वेति ॥ न बाध इति ॥ सुप्तादिशरीराणां भोगायतनत्वध्वंसाधिकरणत्वेन तदत्यन्ताभावानधिकरणत्वादिति भावः ।
स्यादेतत् । देवदत्तयज्ञदत्तादीनां मिथो व्यावहारिकभेदाभ्युपगमेन यज्ञदत्तादिशरीराणां देवदत्तादिभिन्नभोगानवच्छेदकत्वाभावाद्बाधः । न च पारमार्थिकत्वेन भेदो विशेषणीयः । तथासति परमार्थतो देवदत्तभिन्नयज्ञदत्तादिसिद्धिप्रसङ्गेनापसिद्धान्तात् । न च वस्तुतो देवदत्तभिन्नघटादिभोगानवच्छेदकत्वेनापि साध्यपर्यवसानान्न जीवभेदसिद्धिप्रसङ्ग इति वाच्यम् । घटादिभोगस्य केनाप्यनभ्युपगतत्वेन तदवच्छेदकत्वस्याप्रसक्ततया तत्प्रतिषेधपर्यवसानानुपपत्तेरित्याशङ्कते — नन्विति ॥ ननूक्तसाध्ये सत्यन्तानुपादानान्नैतद्दोषावकाश इत्यत आह — एवकारेति ॥ प्रतिनियतभोक्तृकाणां मिथो विभिन्नभोक्तृकाणाम् । तथाचैकैकशरीरे भोक्तृद्वयसिद्ध्याऽप्यनुमानपर्यवसानान्न तदैक्यसिद्धिरित्यर्थः । न च सत्यन्तोपादानेऽपि शरीरानवच्छिन्नसौषुप्तिकभोगभोक्तुर्देवदत्ताभिन्नत्वासिद्ध्याऽर्थान्तरतादवस्थ्यमिति वाच्यम् । सुप्तोत्थितस्य सुखमहमस्वाप्समित्यैक्यानुसन्धानविरोधेन तद्भेदासिद्धेरिति भावः ॥ परमतप्राप्तस्येति ॥ अयमाशयः । सत्यन्तघटकभेदस्य पारमार्थिकत्वेन विशेषणेऽपि न जीवान्तरसिद्धिप्रसङ्गः । निषेध्यत्वात् । पारमार्थिकशुक्तिरजतं नास्तीतिवत् । न च भोगावच्छेदकत्वमात्रमत्र निषिध्यते, न तु भोक्त्रन्तरमिति वाच्यम् । भोगावच्छेदकत्ववति विशिष्टनिषेधस्य भोक्त्रन्तरनिषेध एव पर्यवसानात् । निषेधश्च परमतप्राप्तभोक्त्रन्तरप्रतीतिनिरासार्थमिति ॥ यत्तु देवदत्तातिरिक्तत्वेन पराभिमतचेतनभोगानायतनत्वे सति देवदत्तभोगायतनत्वमिह साध्यार्थ इति । तन्न । देवदत्तचेतनस्यैव तदतिरिक्तत्वेन पराभिमतत्वमङ्गीकर्तुर्मायावादिनो बाधप्रसङ्गात् । उक्तरीत्यैवोपपत्तौ पराभिमतत्वपर्यन्तनिवेशवैयर्थ्याच्च ॥
(६)शर्कराश्रीनिवासाचार्य
अभेदसाधकानुमानान्तरं प्रतिजानीते — किञ्चेति ॥ अन्यच्चाभेदसाधकानुमानमुच्यत इत्यर्थः । किं तदनुमानमित्यत आह — विमतानीति ॥ अत्र शरीरमात्रस्य पक्षत्वेदेवदत्तशरीरस्यापि पक्षत्वापत्त्यांऽशे सिद्धसाधनम् । अतो विमतानीति । अत्र विमतानां शरीराणां देवदत्तभोगसाधनत्वं देवदत्तस्य विमतशरीरगतत्वं विनानोपपन्नम् । तच्चैकस्मिन् शरीरे भोक्तृजीवद्वयायोगेन तच्छरीरगतात्मैक्यं विना नोपपद्यत इति तत्सिद्धिः । ननु सुप्तमूर्छितमृतशरीराणां पक्षत्वं वा न वा । आद्ये तेषां भोगायतनत्वाभावेनांशे बाधः । द्वितीये साध्याभाववत्सुतेषु हेतुवृत्त्या व्यभिचार इत्याशङ्कां परिहर्तुमाह — अत्रेति ॥ न बाधो न व्यभिचार इति ॥ पक्षत्वे बाधोऽपक्षत्वे व्यभिचार इति विवेकः । तेषां तदानीं भोगायतनत्वाभावेऽपि कालान्तरे तत्सत्त्वेन तेषु भोगायतनत्वा भावाभावेन तदनधिकरणत्वरूपसाध्यस्य सत्त्वादिति भावः ।
ननु सुखदुःखान्यतरसाक्षात्कारो भोगः । स च मृतशरीरेऽनुपपन्नोऽपि सुप्तमूर्छितयोरुपपन्न एव । एतावन्तं कालं सुखमहमस्वाप्समिति परामर्शेन सुप्तौ सुखसाक्षात्कारावगमात् । `मोहस्तु परिशेषतः । अर्धप्राप्तिरिति ज्ञेयो दुःखमात्रप्रतिस्मृते’रिति मोहे दुःखसाक्षात्कारावगमादिति चेन्न । मुक्तियोग्यसौषुप्तिकसुखस्यात्मस्वरूपतया अन्यस्य प्राज्ञालिङ्गनमात्रजन्यत्वेन शरीरस्य तत्र हेतुत्वाभावात् । एवं मौर्छिकदुःखस्य प्राक्तनताडनादिजन्यत्वेन मूर्छावस्थापन्नशरीरस्य तत्राहेतुत्वात् । नन्वथाप्यंशे बाधस्य कथं दोषत्वम् । वृक्षः कपिसंयोगीद्रव्यत्वादित्यत्र बाधितांशमूलभागमविहायाबाधितांशेऽग्रभागेऽनुमित्युत्पत्तिदर्शनादिति चेन्न । तत्र वृक्षत्वसामानाधिकरण्येन क्वचिद्वृक्षांशे संयोगबुद्धेरुद्देश्यतया तदविघटकत्वेनांशे बाधस्यादोषत्वेऽपि प्रकृते विमतशरीरत्वसामानाधिकरण्येन सर्वशरीरेषु देवदत्तभोगसाधनत्वबुद्धेरुद्देश्यतया मृतादौ बाधस्य तदंशेऽनुमितिप्रतिबन्धकत्वेनोद्देश्यविघटकतया दोषत्वादिति ध्येयम् । देवदत्तस्यैवेत्यत्रैवकारस्यावश्यकत्वमुतानावश्यकत्वम् । आद्ये आह —नन्विति ॥ एवकारोहिदेवदत्तान्यस्य भोक्तृत्वं व्यावर्तयति । तत्रान्यो नाचेतनः । तस्य सर्वथाऽभोक्तृत्वेनाप्रसक्तत्वात् । अप्रसक्तस्य प्रतिषेधायोगात् । अतश्चेतन एवदेवदत्तान्य एवकारेण व्यावर्त्यो वाच्यः । नच तद्युक्तम् । अपसिद्धान्तादित्यर्थः । इत्यत्र विद्यमानैवकारेण । तद्व्यावर्त्यम् एवकारव्यावर्त्यम् । तेन एवकारव्यावर्त्यचेतनान्तरकथनेन । द्वितीये त्वाह — एवकारेति ॥ एवकारपरित्यागे चार्थान्तरादित्यन्वयः । तदुपपादनाय सर्वेषामित्यादि । तत्तच्छरीराणां तत्तदात्मभोगसाधनत्वेऽपि देवदत्तभोगसाधनत्वमप्युपपद्यते । स्त्रीशरीराणां पुरुषभोगसाधनत्वस्य अश्वादिशरीणाणां साद्यादिभोगसाधनत्वस्य च दर्शनादिति भावः ॥ प्रतिनियतभोक्तृकाणामिति ॥ प्रतिशरीरं भोक्तृत्वेन नियता य आत्मानस्तद्वतामपीत्यर्थः ॥ परमतप्राप्तस्यैवेति ॥ तत्ववादिमतेप्राप्तं यद्विमतभोक्तृशरीराणां भोक्त्रन्तरं देवदत्तान्योभोक्ताचेतनस्तद्व्यावर्तना
दित्यर्थः । चेतनान्तरस्य मयाऽनङ्गीकारान्नापसिद्धान्त इति भावः ।