ननु किमत्र पक्षतावच्छेदकम्
(५)भेदोज्जीवनम्
(५) ननु किमत्र पक्षतावच्छेदकम् । न तावदात्मत्वम् । परमात्मनोऽपि पक्षत्वापत्त्या अंशे सिद्धसाधनात् । नापि परमात्मेतरत्वविशिष्टम् । साध्येन साकं पक्षतावच्छेदकस्य विरोधात् । नापि भ्रान्त्या परमात्मेतरतया प्रतीयमानत्वविशिष्टम् । परमात्मन्यपि तदितरत्वभ्रान्तिसम्भवेनाऽद्यपक्षोक्तदोषानिस्तारादिति चेन्न । परमात्मनो भिद्यन्ते न वेति विप्रतिपत्तिगोचरत्वस्यैव पक्षतावच्छेदकत्वात् । अन्यथा तवापि परमात्मनो भिद्यन्त इति भेदसाधनस्याप्यसम्भवात् । आत्मत्वं च न जातिः । किन्तर्हि स्वप्रकाशत्वम् । तेन हेतुसाध्ययोर्न विरोधः ।
(५)भावप्रदीपः
नन्वत्रात्मान इत्यनेनैव धर्मिविशेषसिद्धौ विमतपदग्रहणं व्यर्थमित्यतस्तत्कृत्यं वक्तुमाक्षिपति ॥ नन्विति ॥ अंशे सिद्धसाधनादिति ॥ पक्षैकदेशे परमात्मनि परमात्मप्रतियोगिकपारमार्थिकभेदाभावस्य सिद्धत्वादिति भावः ॥ परमात्मेतरत्वविशिष्टमिति ॥ आत्मत्वमिति वर्तते । तथा च परमात्मनि परमात्मेतरत्वस्याभावेन पक्षत्वानापत्त्या नोक्तदोष इति भावः ॥ साध्यपक्षतावच्छेदकयोरिति ॥ साध्यं परमात्माभिन्नत्वं पक्षतावच्छेदकं च तद्भिन्नात्मत्वं तद्विरोधादित्यर्थः ॥ भ्रान्त्येति ॥ परमात्मेतरत्वप्रकारकभ्रान्तिरूपप्रतीतिविषयत्वमित्यर्थः । तथा च साध्यस्य पारमार्थिकत्वात्परमात्मेतरत्वस्य भ्रान्तिकल्पितत्वान्न विरोध इति भावः ॥ आद्यपक्षोक्तदोषेति ॥ अंशे सिद्धसाधनतारूपदोषेत्यर्थः । यदर्थमित्थमाक्षेपस्तदिदानीं वक्ति – परमात्मन इति ॥नान्यत्पक्षतावच्छेदकमत्र गवेषणीयमित्येवशब्दः । इदं च परमात्मन्यस्तीति नांशे सिद्धसाधनत्वं नापि विरोध इति भावः । गौरवान्नेदं पक्षतावच्छेदकं युक्तमित्यत आह — अन्यथेति ॥ आत्मत्वस्य पक्षतावच्छेदकत्वेंऽशे परमात्मनि बाधात् । तदतिरिक्तत्वेन विशेषणे तस्य सिद्धौ सिद्धसाधनात् । असिद्धौ पक्षाप्रसिद्धेरित्यर्थः । केचित्तु नात्मत्वमंशे बाधात् । नापि परमात्मेरत्वविशिष्टम् । तस्याधुनाऽप्यसिद्धेः । नापि परमात्मेतरतया भ्रान्त्या प्रतीयमानत्वम् । परमात्मनि पूर्ववदंशे बाधादिति भावमाहुः । तच्चिन्त्यम् । परमात्मेतरतया भ्रान्त्या प्रतीयमानत्वस्य पक्षतावच्छेदकत्वे परमात्माभिन्नत्वप्रतीतेरेव प्रमात्वापत्त्या साध्यपक्षतावच्छेदकयोर्विरोधस्यैवापत्तेरिति । अत्र हेतूकृतस्यात्मत्वस्य जातित्वे आत्मत्वं नानाव्यक्तिनिष्ठं जातित्वादिति प्राक् शङ्कितानुमानेऽसिद्धिकथनायोगात्प्रकारान्तरेणात्मत्वं निर्वक्तुमाह — आत्मत्वं चेति ॥ स्वप्रकाशत्वमिति ॥ अवेद्यत्वे सत्यपरोक्षव्यवहारगोचत्वरूपमित्यर्थः । आत्मत्वस्य जातिरूपत्वाङ्गीकारे किं बाधकं येन स्वप्रकाशत्वं तदित्युच्यत इत्यत आह — तेनेति ॥ यद्यात्मत्वं जातिः स्यात् तर्हि जातेरनेकानुगतत्वे वाच्येऽनेकात्मव्यक्तीनामङ्गीकार्यतापत्याऽनेकत्वस्य भेदव्याप्तत्वेन हेतुसाध्ययोर्विरोधः स्यात् । अतो जातिरूपं नेदमात्मत्वमिति भावः । हेतुसाध्ययोर्न विरोध इत्युपलक्षणम् । प्राक् शङ्कितानुमाने जातित्वस्यासिद्धिकथनविरोधोऽपि नेत्यपि ग्राह्यम् ।
(५)भेदचिन्तारत्नं
विमतग्रहणसाफल्यं वक्तुमाह — नन्विति ॥ अंशे सिद्धसाधनादिति ॥ अत्र केचित् परमात्मनः परमात्मत्वेन रूपेण परमात्माभेदसिद्धावप्यात्मत्वेनासिद्धत्वान्नायं दोषः । पक्षतावच्छेदकसामानाधिकरण्येन साध्यसिद्धेरेव दोषत्वात् । अन्यथा यत्र हेतुस्तत्र साध्यमिति व्याप्तिग्रहणदशायामेव पक्षीयसाध्यस्यापि सिद्धेरनुमानमात्रोच्छेदप्रसङ्गात् । अतः पक्षतावच्छेदकनानात्वस्थल एव स दोष
इत्याहुः । तन्न । पक्षतावच्छेदकवत्तद्व्याप्यव्यापकान्यतरधर्मपुरस्कारेण सिद्धिरपि दूषणमेव । वैय्यर्थ्यरूपदूषकताबीजसत्त्वात् । तत्र व्याप्यधर्मपुरस्कारेण चेदंशे सिद्धसाधनता । पर्वतत्वादिकं प्रति न धूमवत्त्वादिकं व्याप्यं व्यापकं वेति नातिप्रसङ्गः । पृथिवी इतरेभ्यो भिद्यत इत्यादौ तु घटादिषु घटत्वादिविशेषेण जलादिभेदसिद्धावपि धटत्वादेः पृथिवीत्वेन सह व्याप्यव्यापकभावाज्ञानदशायां पृथिवी जलादिभिन्ना न वेति विप्रतिपत्तिसत्त्वात्पृथिवीत्वेन पक्षीकारः सङ्गच्छते । तज्ज्ञाने तु घटादीतरस्थल एव विमतिरिति सामान्यतः पक्षीकारे दोष एव । इह च नात्मत्वविशेषेण विमतिः किन्तु जीवाः ॥ परमात्मनो भिद्यन्ते न वेति । एवेति । परमात्मनोऽपि प्रवेशे दोष एवेति विरोधादिति । तदितरत्वेन विशिष्य तदभेदसाधने विरोधादिति ज्ञेयम् ॥ आद्यपक्षोक्तदोष एवेति ॥ सिद्धसाध्यतेत्यर्थः ॥ विप्रतिपत्तीति । अत एवादौ विमतपदप्रयोग इति
नान्यत्पक्षतावच्छेदकमत्र गवेषणीयमित्येवशब्दः । इदं च परमात्मन्यस्तीति नांशे सिद्धसाधनत्वं नापि विरोध इति भावः । गौरवान्नेदं पक्षतावच्छेदकं युक्तमित्यत आह — अन्यथेति ॥ आत्मत्वस्य पक्षतावच्छेदकत्वेंऽशे परमात्मनि बाधात् । तदतिरिक्तत्वेन विशेषणे तस्य सिद्धौ सिद्धसाधनात् । असिद्धौ पक्षाप्रसिद्धेरित्यर्थः । केचित्तु नात्मत्वमंशे बाधात् । नापि परमात्मेरत्वविशिष्टम् । तस्याधुनाऽप्यसिद्धेः । नापि परमात्मेतरतया भ्रान्त्या प्रतीयमानत्वम् । परमात्मनि पूर्ववदंशे बाधादिति भावमाहुः । तच्चिन्त्यम् । परमात्मेतरतया भ्रान्त्या प्रतीयमानत्वस्य पक्षतावच्छेदकत्वे परमात्माभिन्नत्वप्रतीतेरेव प्रमात्वापत्त्या साध्यपक्षतावच्छेदकयोर्विरोधस्यैवापत्तेरिति । अत्र हेतूकृतस्यात्मत्वस्य जातित्वे आत्मत्वं नानाव्यक्तिनिष्ठं जातित्वादिति प्राक् शङ्कितानुमानेऽसिद्धिकथनायोगात्प्रकारान्तरेणात्मत्वं निर्वक्तुमाह — आत्मत्वं चेति ॥ स्वप्रकाशत्वमिति ॥ अवेद्यत्वे सत्यपरोक्षव्यवहारगोचत्वरूपमित्यर्थः । आत्मत्वस्य जातिरूपत्वाङ्गीकारे किं बाधकं येन स्वप्रकाशत्वं तदित्युच्यत इत्यत आह — तेनेति ॥ यद्यात्मत्वं जातिः स्यात् तर्हि जातेरनेकानुगतत्वे वाच्येऽनेकात्मव्यक्तीनामङ्गीकार्यतापत्याऽनेकत्वस्य भेदव्याप्तत्वेन हेतुसाध्ययोर्विरोधः स्यात् । अतो जातिरूपं नेदमात्मत्वमिति भावः । हेतुसाध्ययोर्न विरोध इत्युपलक्षणम् । प्राक् शङ्कितानुमाने जातित्वस्यासिद्धिकथनविरोधोऽपि नेत्यपि ग्राह्यम् ।
विमतग्रहणसाफल्यं वक्तुमाह — नन्विति ॥ अंशे सिद्धसाधनादिति ॥ अत्र केचित् परमात्मनः परमात्मत्वेन रूपेण परमात्माभेदसिद्धावप्यात्मत्वेनासिद्धत्वान्नायं दोषः । पक्षतावच्छेदकसामानाधिकरण्येन साध्यसिद्धेरेव दोषत्वात् । अन्यथा यत्र हेतुस्तत्र साध्यमिति व्याप्तिग्रहणदशायामेव पक्षीयसाध्यस्यापि सिद्धेरनुमानमात्रोच्छेदप्रसङ्गात् । अतः पक्षतावच्छेदकनानात्वस्थल एव स दोष इत्याहुः । तन्न । पक्षतावच्छेदकवत्तद्व्याप्यव्यापकान्यतरधर्मपुरस्कारेण सिद्धिरपि दूषणमेव । वैय्यर्थ्यरूपदूषकताबीजसत्त्वात् । तत्र व्याप्यधर्मपुरस्कारेण चेदंशे सिद्धसाधनता । पर्वतत्वादिकं प्रति न धूमवत्त्वादिकं व्याप्यं व्यापकं वेति नातिप्रसङ्गः । पृथिवी इतरेभ्यो भिद्यत इत्यादौ तु घटादिषु घटत्वादिविशेषेण जलादिभेदसिद्धावपि धटत्वादेः पृथिवीत्वेन सह व्याप्यव्यापकभावाज्ञानदशायां पृथिवी जलादिभिन्ना न वेति विप्रतिपत्तिसत्त्वात्पृथिवीत्वेन पक्षीकारः सङ्गच्छते । तज्ज्ञाने तु घटादीतरस्थल एव विमतिरिति सामान्यतः पक्षीकारे दोष एव । इह च नात्मत्वविशेषेण विमतिः किन्तु जीवाः ॥ परमात्मनो भिद्यन्ते न वेति । एवेति । परमात्मनोऽपि प्रवेशे दोष एवेति विरोधादिति । तदितरत्वेन विशिष्य तदभेदसाधने विरोधादिति ज्ञेयम् ॥ आद्यपक्षोक्तदोष एवेति ॥ सिद्धसाध्यतेत्यर्थः ॥ विप्रतिपत्तीति । अत एवादौ विमतपदप्रयोग इति ज्ञेयम् । ननु विमतिविषयतावच्छेदकं किमप्यस्ति न वा । आद्ये तदेव पक्षतावच्छेदकमस्तु । द्वितीये तदीयतानवगमेन सिद्धसाध्यताद्यापातात् । न चाननुगतावच्छेदिका तृणारणिमणिन्यानेनाननुगतधर्म्याश्रया विमतिः सा सुग्रहेति वाच्यम् । तर्हि पक्षतावच्छेदकस्य वैय्यर्थ्यात् । मैवम् । पक्षतावच्छेदकसामानाधिकरण्येन साध्यसिद्धेरुद्देश्यत्वे तदनुक्तावुद्देश्यासिद्धिप्रसङ्गेन तस्यावश्यं वाच्यत्वाद्विमत्यवच्छेदकानुक्तावपि परमात्मादेर्विमतिविषयत्वव्याहत्यादिप्राप्त्या तदितरत्रैव सा सुग्रहेति नातिप्रसङ्गः । ननु तथाऽपि न विमतिः पक्षतावच्छेदिका । तस्या एव पक्षतात्वात् । यथाऽऽहुः । `सन्दिग्धसाध्यवान्पक्ष’ इति । सन्दिग्धपदस्य विमतार्थतावश्यम्भावादिति । मैवम् । साध्यवत्तया सिषाधयिषितत्वस्येह पक्षत्वात् । आत्मत्वमिति हेतूकृतमिति शेषः ॥ न विरोध इति ॥ जातित्वेऽनेकानुगतत्वनियमेन तदभेदरूपसाध्यविपरीतव्याप्तत्वरूपविरोधो नेत्यर्थः । यद्यप्यत्रात्मत्वस्य न विशेषरूपेण साध्यात्यन्ताभावव्याप्तिरवसितेति कथं विरोध इति भवति शङ्का । तथाऽपि साधनतावच्छेदकधर्मपुरस्कारेण साधानसाध्यात्यन्ताभावव्याप्तेरपि विरोधपदार्थत्वेन यत्र जातिस्तत्र व्यक्त्यभेदाभाव इति सामान्यतो विरोधः स्यादिति भावः ।
(५)भेदचन्द्रिका
विमतिविशेषास्फोरणे विमता इत्यव्यावर्तकमिति मन्वानः शङ्कते — ननु किमत्रेति ॥ अंशे विद्धसाधनादिति ॥ यद्यपि पक्षतावच्छेदकावच्छेदेन साध्यसिद्धेरुद्देश्यत्वे परमात्मनि परमात्मप्रतियोगिकभेदाभावसिद्धावप्यात्मत्वावच्छेदेन तदसिद्धेर्नांशे सिद्धसाधनता । पक्षतावच्छेदकसामानाधिकरण्येन साध्यसिद्धेरुद्देश्यत्वे तु सम्पूर्णैवेति नोभयथाऽप्यंशे सिद्धसाधनता । पक्षतावच्छेदकनानात्वे तु तदवकाशो न तु पक्षतावच्छेदकाभेद इति नेदं युज्यते । तथाऽपि यत्र पक्षतावच्छेदकव्यापकत्वं साध्यतावच्छेदकसम्बन्दश्च साध्यांशे संसर्गमर्यादया भासते सा पक्षतावच्छेदकावच्छेदेन साध्यसिद्धिः । यत्र च पक्षतावच्छेदकवति साध्यतावच्छेदकसम्बन्धेन साध्यं भासते पक्षतावच्छेदकवति सर्वत्र नोद्देश्यं सा पक्षतावच्छेदकसामानाधिकरण्येन साध्यसिद्धिः । एतदुभयभिन्ना या पक्षतावच्छेदकरूपेण सकलपक्षविशेष्यका साध्यतावच्छेदकसम्बन्धेन साध्यप्रकारिका सिद्धिर्यत्रोद्देश्या तत्रैकस्मिन्पक्षे साध्यसिद्धावप्यंशतः सिद्धसाधनता भवतीति प्राचीनाशयात् । एतादृशस्थलेऽप्यंशतः सिद्धसाधनता युज्यत एवेति भावः ॥ साध्येन साकं पक्षतावच्छेदकस्य विरोधादिति ॥ अभेदरूपसाध्यस्य भेदगर्भपक्षतावच्छेदकविरोधादित्यर्थः । साध्यो यः परमात्माभेदो यत्परमात्मेतरत्वं पक्षतावच्छेदकमनयोर्विरोधादित्यर्थः । क्वचित्तु साध्यभेदेन साकं पक्षतावच्छेदकस्य विरोधादिति पाठः । षण्णिग्रहादिपक्षे तु प्रतिज्ञाविरोधोऽयं विरोधान्तर्भूतः । परपक्षे तु बाध एवायम् । वचनदोषस्तु व्याघातः । विमता इति पदोक्तं विमतिं स्फोटयति — परमात्मनो भिद्यन्ते न वेति ॥ अन्यथेति ॥ आत्मत्वस्य पक्षतावच्छेदकत्वेंऽशे बाधात् । परमात्मेतरत्वविशिष्टस्य तत्त्वे विशेषणसिद्धौ सिद्धसाधनता । तदसिद्धौ पक्षाप्रसिद्धिरित्यर्थः । ननु हेतूकृतमात्मत्वं यदि जातिस्तदा तेनानेकाश्रयेण भवितव्यम् । तेन चाश्रयैक्यसाधने विरोध इत्यत आह — आत्मत्वं चेति ॥ स्वयंप्रकाशत्वमवेद्यत्वे सत्यपरोक्षव्यवहारविषयत्वादिरूपमित्यर्थः ।
(५)भेदसञ्जीविनी
॥ अंशे सिद्धसाधनादिति ॥ अवच्छेदकावच्छेदेन साध्यसिद्धेरुद्देश्यत्वेऽपि अंशे सिद्धसाधनता दोष एव । पक्षसाध्याद्यंशेऽधिकावगाहिन्याऽनुमितेर्न्यूनावगाहिसिद्ध्यप्रतिबद्धत्वं न तु यत्किञ्चिदधिकपदार्थावगाहित्वमात्रे । तथात्वे सिद्ध्यात्मकधूमपरामर्शबलाद्घटपरामर्शकाले घटवह्न्युभयानुमानापत्तेः । तथा च पक्षतावच्छेदकावच्छेदेनानुमितौ पक्षतावच्छेदकाश्रयनिखिलव्यक्तयो भासन्ते न तु (साध्यांशे) पक्षतावच्छेदकव्यापकत्वादिकं भासते । सामानाधिकरण्येनानुमितौ (तु) कतिपयव्यक्तय एव भासन्ते । एतावता तयोर्वैलक्षण्यमिति प्राचीनमताभिप्रायेणेदम् । नव्यमते तु साध्यकोटावधिकभानात्स न दोष इति ध्येयम् ॥ साध्याभेदेति ॥ साध्यभूतोऽभेदः साध्याभेदः स च पक्षतावच्छेदकं चेत्यनयोर्विरोधादित्यर्थः । व्यावहारिकभेदादेरद्याप्यप्रसिद्ध्या परमात्मेतर इत्युक्ते परमात्मप्रतियोगिकापारमार्थिकभेदस्यैव प्राप्त्या विरोध इत्यर्थः ॥ विप्रतिपत्तिगोचरत्वस्यैवेति ॥ अनतिप्रसक्ततयाऽनिर्वचनेनेति शेषः । पक्षतावच्छेदकत्वात् पक्षतावच्छेदकताया वक्तुं शक्यत्वात् ।
ननु विप्रतिपत्तेः पक्षतावच्छेदकत्वं न परमात्मभेदाभेदप्रकारकविप्रतिपत्तित्वेन । परमात्मन्यपीदन्त्वादिविशिष्टे उक्तोभयप्रकारकविप्रतिपत्तिसम्भवेनोक्तदोषानिस्तारात् । नापि तद्व्यक्तित्वेन । इतरव्यावृत्तत्वेन तद्वृत्तेः परिचयायोगात् । तथा च तस्याः पक्षतावच्छेदकत्वोक्तिरयुक्तैवेत्यत आह — अन्यथेति ॥ एतादृशदूषणेन तस्याः पक्षतावच्छेदकत्वखण्डने ॥ तवापीति ॥ अपिशब्दो न केवलं ममाभेदसाधनसम्भव इत्यर्थं वक्ष्यमाणसम्भवे समुच्चिनोति —भेदसाधनस्यापीति ॥ अभेदसाधनसमुच्चायकोऽपिशब्दः । तथा हि । आत्मत्वस्य भेदसाधने पक्षतावच्छेदकत्वे तत्सामानाधिकरण्येन साध्यसाधने सर्वजीवेषु परमात्मभेदासिद्ध्योद्देश्यासिद्धिः । अवच्छेदकावच्छेदेन तत्साधने परमात्मनि परमात्मभेदाभावादंशे बाधः । परमात्मेतरत्वस्य पक्षतावच्छेदकघटकत्वे उक्तानुमानात्प्राक् तदसिद्ध्या पक्षतावच्छेदकविशिष्टपक्षाप्रसिद्धिरन्यथाऽनुमानवैयर्थ्यापत्तेः । परमात्मभिन्नत्वेन प्रतीयमानत्वं भ्रान्त्या परमात्मन्यपीति पुनरंशे बाधः स्यात् । अतस्त्वया दुःखिबद्धत्वाद्युपलक्षितचेतनत्वावच्छिन्नधर्मिकोक्तभेदप्रकारकविमतेरनुगतोक्तरूपेण वा तद्व्यतिरिक्तत्वेन वा पक्षतावच्छेदकत्वमुपगन्तव्यम् । तत्तुल्यं ममापीति भावः । यद्यपि तादृशदुःखित्वादेरेव पक्षतावच्छेदकत्वसम्भवः । तथाऽप्यनुमानप्रवृत्तेस्तदवच्छिन्ने अन्यतरकोटिनिश्चयदशायामयोगात्तादृशविप्रतिपत्तिसाध्यसंशयस्य नियमेनावश्यकत्वे लाधवात्तस्यैव तद्व्यक्तित्वेन पक्षतावच्छेदकत्वमुचितमिति हृदयम् ॥ स्वप्रकाशत्वमिति ॥ अवेद्यत्वे सत्यपरोक्षव्यवहारगोचरत्वरूपम् । यद्वा स्वातिरिक्तसंविदनधीनस्वविषयकयत्किञ्चिद्व्यवहारकत्वं मतद्वयेऽपि सुषुप्त्युत्तरकालीनव्यवहारमादाय सिद्धमित्यभिमानस्तेन पूर्वपक्षवादिमते आत्मनः स्वविषयकज्ञानरूपत्वाभावादसिद्धिरिति निरस्तम् ॥ न विरोध इति ॥ अन्यथाऽऽत्मत्वं जातिरित्यङ्गीकारेण हेतूकरणे व्यक्त्यैक्येन साध्येन तस्य विरुद्धत्वं स्यादिति भावः ।
(५)काशीतिम्मण्णाचार्य
अत्रानुमाने पक्षतावच्छेदकं दुर्निरूपमित्याशङ्कते — नन्विति ॥ आत्मत्वस्य वक्ष्यमाणरीत्या पक्षतावच्छेदकत्वे दूषिते तद्व्यापकस्य सामान्यतो विवादविषयत्वरूपविमतत्वस्य तद्विशिष्टात्मत्वस्य च तद्दूषितप्रायमित्यभिप्रायेणात्मत्वस्यैव तद्दूषयति — न तावदिति ॥ पक्षत्वापत्त्या पक्षतावच्छेदकाक्रान्तत्वापत्त्या ॥ अंशे सिद्धसाधनादिति ॥ यद्यप्यवच्छेदकावच्छेदेन साध्यसिद्धेरुद्देश्यतायामंशतः सिद्धसाधनं न दोषः । न्यूनविषयकसिद्धेरनुमित्यविरोधित्वात् । न चावच्छेदकावच्छेदेन साध्यतदभावकोटिकसन्देहलक्षणपक्षताविघटकत्वेन तस्य दोषत्वम् । अंशतः सिद्धिसत्त्वेऽप्यवच्छेदकावच्छेदेन साध्यं सामानाधिकरण्येन तदभावं चावगाहमानसन्देहसम्भवेन तस्यैव तत्र पक्षतात्वात् । न चैवमनित्ये वाङ्मनसे इत्यादौ वाङ्मात्रे साध्यसिद्धेरविरोधित्वप्रसङ्ग इति वाच्यम् । पक्षतावच्छेदकावच्छेदेन सिद्धेस्तदवच्छेदेनानुमितिविरोधितया वाक्त्वावचछेदेन सिद्धेस्तदवच्छेदेनानुमितिविरोधित्वसम्भवात् । अत एवाऽह मणिकारः `पक्षतावच्छेदकनानात्वे ह्यंशतः सिद्धसाधनं दोष’ इति । तथापि तद्विषयकानुमितौ तद्विषयकसिद्धिसामान्यस्य विरोधित्वमिति मतमनुसृत्येदमुक्तम् ।
अस्तु तर्हि परमात्मव्यावृत्तं तदन्यत्वविशिष्टात्मत्वमेव पक्षतावच्छेदकमित्याशङ्कां निरस्यति — नापीति ॥ विरोधादिति ॥ भेदाभेदायोर्विरोधान्न पक्षतावच्छेदकसाध्यभावसम्भवः । स्वविरोधिधर्मधर्मितावच्छेदककस्वप्रकारकपरोक्षज्ञानानभ्युपगमादिति भावः । यद्यपि तन्मते भेदसामान्यस्य न पारमार्थिकभेदाभावेन विरोधः । तथापि प्रातिभासिकभेदस्याव्यावर्तकत्वाद्व्यावहारिकभेदस्य च परं प्रत्यसिद्धेः पारमार्थिकभेदस्यैव पक्षकुक्षौ निवेश्यतया ध्रुवो विरोधः । वस्तुतः सिद्धान्ते सत्तात्रैविध्यानभ्युपगमेन भेदमात्रस्यैवाभेदविरोधितया तद्रीत्यैतदभिधानमिति ध्येयम् ।
विमतपदेन विमतिविशेषविषयत्वस्यैव विवक्षिततया तावन्मात्रस्य पक्षतावच्छेदकत्वं नानुपपन्नमित्याह — परमात्मन इति ॥ चैत्राद्या इत्यादिः । अत्र चैत्रत्वादीनामननुगतत्वात्तदवच्छिन्नधर्मिकसमूहालम्बनविमतिविषयत्वस्य पक्षतावच्छेदकत्वानुसरणम् । नन्वेवमात्मत्वादिकमेव पक्षतावच्छेदकीकृत्य परमात्मभेदवादिनं प्रति तदन्यधर्मावच्छिन्ने तदभेदसाधनमसङ्गतमत आह — अन्यथेति ॥ भेदवादिनाऽऽत्मत्वादिपक्षतावच्छेदकीकरण इत्यर्थः ॥ असम्भवादिति ॥ परमात्मभेदस्यात्मत्वसामानाधिकरण्येन साधने यावज्जीवेषु तदसिद्धेस्तदवच्छेदेन साधने परमात्मनि बाधात्तदितरत्वेन पक्षविशेषणे च परं प्रत्यसिद्धेस्तदितरत्वेन प्रतीयमानत्वोक्तौ पुनरुक्तबाधप्रसङ्गाद्भेदवादिनाऽप्युक्तविमतिविषयत्वमेव पक्षतावच्छेदकीकर्तव्यमिति भावः ।
नन्वात्मत्वजातेर्व्यक्तिभेदनियतत्वेन व्यक्त्यभेदपर्यवसितनिरुक्तसाध्यव्याप्यत्वासम्भव इत्यत आह — आत्मत्वमिति ॥ स्वप्रकाशत्वमित्यवेद्यत्वमभिमतम् । न तु स्वविषयप्रकाशत्वम् । स्वस्यैवासिद्धेः । परस्यासिद्धिस्तु वक्ष्यते । नन्वीदृशानुमानेन जीवपरमात्माभेदसिद्धावपि कथं मिथो जीवाभेदसिद्धिरिति चेन्न । सर्वेष्वेकाभेदस्य सर्वैक्यपर्यवसायित्वात् । एतच्चोपलक्षणम् । ‘विमता आत्मानश्चैत्रात्मनो न भिद्यन्ते आत्मत्वाच्चैत्रात्मवदि’त्याद्यनुमानमपि ग्राह्यम् ।
(५)शर्कराश्रीनिवासाचार्य
विमतपदप्रयोगप्रयोजनं वक्तुमाक्षिपति — नन्विति ॥ अंशे सिद्धसाधनादिति ॥ ननु यत्रानित्ये वाङ्मनसे इत्यत्र पक्षतावच्छेदकनानात्वं तत्रानित्या वागिति बुद्धेरुद्देश्यायाः सिद्धेरंशतः सिद्धसाधनमिति मणिकारेणोक्तत्वादत्रात्मत्वमेकमेव पक्षतावच्छेदकमिति कथमंशतः सिद्धसाधनमिति चेद् अत्र प्रष्टव्यम् । किं पक्षतावच्छेदकनानात्वमेवांशे सिद्धसाधने प्रयोजकमुतोद्देश्यप्रतीतिसिद्धिरपीति । नाद्यः । अन्वयतो व्यतिरेकतश्च व्यभिचारात् । तथाहि । न तावद् यत्र पक्षतावच्छेकनानात्वं तत्रांशे सिद्धसाधनमिति नियमः । वनपर्वतौ वह्निमन्तौ धूमादित्यत्र वनपर्वतत्वरूपपक्षतावच्छेदकनानात्वेऽप्यंशतः सिद्धसाधनाभावात् । नापि यत्र पक्षतावच्छेदकनानात्वाभावस् तत्रांशे सिद्धसाधनाभाव इति नियमः । द्रव्याण्यनित्यानि गुणाश्रयभावात् । नापि यत्र पक्षतावच्छेदकनानात्वाभावस् तत्रांशे सिद्धसाधनाभाव इति नियमः । द्रव्याण्यनित्यानि गुणाश्रयत्वाद् घटवदित्यत्र पक्षतावच्छेकस्य द्रव्यत्वस्यैकत्वेऽपि पृथिव्यादिकार्यद्रव्ये अनित्यत्वस्य सिद्धत्वेनांशतः सिद्धसाधनसद्भावात् । द्वितीये तूद्देश्यप्रतीतिसिद्धेरेव प्रयोजकत्वमस्तु । आवश्यकत्वाल्लाघवाद्व्यभिचाराभावाच्च । नतु पक्षतावच्छेदकनानात्वस्यापि । अनावश्यकत्वाद्गौरवाद्व्यभिचाराच्च । नन्वत्रोद्देश्यप्रतीतिसिद्धिरपि नास्ति । तथाहि । किमत्रात्मत्वसामानाधिकरण्येन सर्वत्रात्माभेदविषया समूहालम्बनरूपैका बुद्धिरुद्देश्या उत सार्वत्रिकत्वाद्युदासीना । द्वितीये परमात्मनि तदभेदसिद्धौ सिद्धसाधनमेव । नांशतः सिद्धसाधनं सार्वत्रिकत्वाद्युदासीनाया एव बुद्धेरुद्देश्यत्वेन तस्या एकदेशसिद्धावपि सिद्ध(साधन)त्वात् । आद्ये कथमंशतः सिद्धसाधनम् । एकदेशसिद्धावप्युद्देश्यायाः सर्वत्र समूहालम्बनबुद्धेरसिद्धेरिति चेद् उच्यते । उद्देश्यप्रतीतिसिद्धिरपि हि न स्वरूपेण सिद्धसाधनप्रयोजिका । किन्तु पक्षताविघटनद्वाराऽनुमितिप्रतिबन्धकत्वेनैव । तच्च क्वचित्साध्यसिद्धेरप्यस्ति । क्वचित्साध्यनिश्चये तदंशे सन्देहसिध्यभावयोरसम्भवेन तदुभयघटितपक्षताविरहात् । अत्र च परमात्मनि साध्यसिद्धौ तदंशे पक्षताविरहेण न सर्वात्मविशेष्यका परमात्माभेदविशेषणका एका समूहालम्बनरूपाऽनुमितिरित्यनुमितिप्रतिबन्धकतया भवत्येवांशे सिद्धसाधनं दोषः । न च सिषाधयिषादशायां साध्यसिद्धेरनुमित्यप्रतिबन्धकत्वान्न तदंशेऽनुमितिप्रतिबन्ध इति वाच्यम् । सिषाधयिषाभावदशायामेतदनवतारात् । अन्यथोक्तरीत्या सिद्धसाधनस्यापि दोषत्वं न स्यात् । नच परमात्मनि परमात्मत्वरूपेण परमात्माभेदे निश्चितेऽप्यात्मत्वेन तत्सन्देहादिः सम्भवतीति वाच्यम् । विशेषनिश्चयस्य सामान्यतः संशयादिविरोधित्वेन तादृशनिश्चयेसतितथाविधसन्देहाद्ययोगात् । अन्यथैतत्पर्वतत्वेन वह्निमत्तया निश्चिते पर्वतत्वेन तत्सन्देहापत्त्या तत्र वह्न्यर्थिनो निःशङ्कप्रवृत्तिर्न स्यात् । व्यक्तमेतत्सर्वं तर्कताण्डव इति सङ्क्षेपः ।
॥ विशिष्टमिति ॥ आत्मत्वमिति वर्तते । अत्र तु न पूर्वोक्तदोष इति भावः ॥ साध्येनेति ॥ साध्येनाभेदेन सह पक्षतावच्छेदकीभूतपरमात्मेतरत्वे सत्यात्मत्वस्य विरोधादित्यर्थः । तथाच वह्न्यादिसमानाधिकरणस्यैव पर्वतत्वादेः पक्षतावच्छेदकत्वदर्शनेन परमात्माभेदासमानाधिकरणस्य परमात्मेतरत्वे सत्यात्मत्वस्य न पक्षतावच्छेदकत्वमिति भावः ॥ भ्रान्त्येति ॥ तथाच परमात्मेतरत्वस्यावास्तवत्वान्न तस्य वास्तवाभेदेन विरोध इति भावः ॥ भ्रान्तिसम्भवेनेति ॥ उक्तभ्रान्तिकारणस्य परमात्मनः सकाशात्पृथगुपलभ्यमानत्वस्य तद्रूपेषु मत्स्यादिष्वपि साम्यादिति भावः । विमतपदप्रयोगलब्धमाह — परमात्मन इति ॥ ननु परमात्मनो भिद्यन्ते न वेति विप्रतिपत्तिगोचरत्वं न पक्षतावच्छेदकं गौरवादिति चेन्न । लघुभूतावच्छेदकान्तरे सत्येव गौरवस्य दोषत्वात् । यथा धूमत्वे लघुभूते सति गुरूभूतं नीलघूमत्वं न हेतुतावच्छेदकम् । न चात्रावच्छेदकान्तरं लघुभूतमस्ति येनास्य गौरवेण परित्याग इति भावः । इदमेव विपक्षे बाधकेन द्रढयति — अन्यथेति ॥ उक्तपक्षतावच्छेदकानङ्गीकार इत्यर्थः । तत्ववादिना हि विमता आत्मानः परमार्थतो भिद्यन्ते तद्विरुद्धधर्मवत्त्वादिति साधनीयम् । तत्र प्रष्टव्यं किमत्रपक्षतावच्छेदकमिति । यद्यात्मत्वं तर्हि तदवच्छिन्नपरमात्मनोऽपि पक्षत्वापत्तौ तत्र परमात्मभेदाभावेनांशे बाधः । नापि परमात्मेतरत्वविशिष्टम् । परमात्मेतरत्वस्याधुनाप्यसिद्धेः । नापि भ्रान्त्या परमात्मेतरतया प्रतीयमानत्वम् । परमात्मन्यपि परमात्मेतरत्वभ्रान्तिसम्भवेन तस्यापि पक्षत्वेनाद्यपक्षोक्तदोषतादवस्थ्यात् । तस्मात्तेनापि परमात्मनो भिद्यन्ते न वेति विप्रतिपत्तिगोचरत्वस्यैव पक्षतावच्छेदकत्वमभ्युपेत्य उक्तरीत्या तत्र प्राप्तदोषः परिहरणीयः । एवमत्रापीति दोषपरिहारयोरुभयत्र साम्ये एकत्र पक्षपातायोगात् । यथाहुः
`यत्रोभयोः समो दोषः परिहारोऽपि वा समः ।
नैकः पर्यनुयोक्तव्यस्तादृगर्थविचारण’
इति । नन्वात्मत्वजातेरनेकसमवेतत्वनिर्वाहायात्मनामनेकत्वमङ्गीकार्यम् । अनेकत्वाभावश्च साध्यते । अतो हेतुसाध्ययोरन्योन्यविरोधेन व्याप्तिग्रहोऽनुपपन्न इत्याशङ्कां परिहर्तुमाह — आत्मत्वेति ॥ जातिर्न चेत् तर्हि किमिति पृच्छति — किन्तर्हीति ॥ उत्तरमाह — स्वप्रकाशत्वमिति ॥ आत्मनः स्वप्रकाशत्वमवेद्यत्वरूपमभिमतम् । नतु स्वविषयप्रकात्वरूपम् । कर्तृकर्मविरोधेन मायावादिभिरात्मनः स्वविषयप्रकाशत्वानङ्गीकारादिति ध्येयम् । ततः किमित्यत आह — तेनेति ॥ आत्मत्वस्य जातित्वानङ्गीकारेणेत्यर्थः ।