द्वा सुपर्णा’ `द्वे ब्रह्मणी’ इत्याद्यागमो लोकसिद्धभेदानुवादकः
(४)भेदोज्जीवनम्
(४) `द्वा सुपर्णा’ `द्वे ब्रह्मणी’ इत्याद्यागमो लोकसिद्धभेदानुवादकः । अनुवादश्च `नेह नानाऽस्ती’ति निषेधाय । एतेन घटपटादिभेदेऽपि प्रत्यक्षं प्रमाणं निरस्तं द्रष्टव्यम् । प्रत्यक्षस्य भ्रान्तित्वेनाप्रामाण्यात् । अत एव तन्मूलानुमानमपि न प्रमाणम् । अभेदे तु प्रत्यक्षं तावत्सुलभमेव । अहमित्येकाकारेणानुभवात् (आत्मनोऽनुभवात्) । अनुमानं च विमता आत्मानः परमार्थतः परमात्मनो न भिद्यन्ते आत्मत्वात् परमात्मवदिति ।
(४)भावप्रदीपः
एवं भेदे प्रत्यक्षानुमाने निराकृत्यागममपि प्रमाणत्वेनाशङ्क्य निराकरोति – द्वा सुपर्णेति ॥ जीवेश्वराख्यौ द्वौ सुपर्णावित्यर्थः ॥ द्वे ब्रह्मणी इति ॥ परापररूपे ईशजीवरूपे द्वे ब्रह्मणी ज्ञातव्य इत्यर्थः ॥ लोकसिद्धभेदानुवादक इति ॥ लोकव्यवहारसिद्धो यो जीवेश्वरभेदस्तस्यानुवादक एव न प्रतिपादको लोकव्यवहारस्तु अन्धपरम्पराप्राप्तो न प्रमाणमूलक इति भावः । नन्वधिकविधानाद्यमावेन वृथाऽनुवादायोगात् प्रतिपादकत्वमेवास्येत्यत आह – अनुवादश्चेति ॥ यथा कथायां वाद्युक्तस्य दूषणाय प्रतिवादिनोऽनुवाद इत्यर्थः । इदानीमचेतनानामपि परस्परभेदं प्रतिक्षिपति ॥ एतेनेति ॥ नेह नानेति श्रुत्या भेदमात्रस्य निराकृतत्वेने
त्यर्थः । केचित्तु जडानां परस्परभेदस्याप्रस्तुतत्वाद्धटादिभेद इत्येतद्धटपटादिभेदप्रतियोगिकेश्वरनिष्ठभेदे घटपटादिनिष्ठेश्वरप्रतियोगिकभेदे वेति व्याख्याय प्रसङ्गात्परस्परजडभेदप्रमाणनिरासोऽप्ययमिति वदन्ति । तच्चिन्त्यम् । जडानां परस्परभेदस्यापि प्रस्तुतत्वस्य प्राक् प्रदर्शितत्वादिति । घटपटादिभेद इत्युपलक्षणम् । चेतनाचेतनयोर्भेद इत्यपि द्रष्टव्यम् ॥ प्रत्यक्षस्येति ॥ घटः पटो नेति वा नाहं घट इत्यादेर्वा प्रत्यक्षस्येत्यर्थः ॥ भ्रान्तित्वादिति ॥ निर्दोषश्रुतिविरुद्धस्य प्रामाण्यायोगादिति भावः ॥ अत एवेति ॥ मूलभूतप्रत्यक्षस्यैव भ्रान्तित्वादित्यर्थः ॥ अनुमानादिरिति ॥ आदिपदेनागमग्रहः । तत्रानुमानं प्रत्यक्षसिद्धधर्म्यादिकत्वात्तन्मूलम् । आगमस्तु प्रत्यक्षसिद्धभेदानुवादित्वात्तन्मूल इति विवेकः । न केवलं विष्णोर्विश्वभिन्नत्वमुक्तरीत्याऽप्रामाणिकं किन्त्वभेदग्राहकप्रमाणविरुद्धं चेति भावेनाभेदे प्रमाणत्रयं क्रमेणाह – अभेदे त्विति ॥ जीवात्मपरमात्माभेदे त्वित्यर्थः । तावच्छब्दोऽत्रापि योज्यः । जडाभेदे प्रमाणस्य वक्ष्यमाणत्वात् ॥ अहमित्येकाकारेणेति ॥ सर्वेषामात्मा ह्यहमित्येकत्वेनानुभूयते । यदि परमात्माऽपि जीववत्प्रत्यक्त्वेन जीवेन सह विद्येत तर्ह्यावामित्यनुभवः
स्यात् । न चैवमस्ति । तस्मादात्मनां परमात्मनो भेदाभावरूपाभेदसिद्धिरिति भावः ॥ अनुमानं चेति ॥ अभेद इति वर्तते । व्यावहारिकभेदस्य स्वेनाप्यङ्गीकृतत्वाद्बाधादिवारणाय परमार्थत इत्युक्तम् ।
(४)भेदचिन्तारत्नम्
॥ अनुवादक इति ॥ निषेध्यकोटिसमर्पक इत्यर्थः । अप्राप्तनिषेधायोगाल्लोकसिद्धेत्युक्तम् । भ्रान्तप्रत्यक्षादिभिः सिद्धेत्यर्थः । यद्वा भेदवाक्यस्यापूर्वताराहित्यज्ञापनायैतत् ॥ एतेनेति ॥ पूर्ववद्दोषग्रासेनेति सामान्यतः परामर्शः । घटादिभेद इतीश्वराज्जीवात्परस्परं चेति ज्ञेयम् । यद्यपि जडे धर्मिसत्तासमानसत्ताककृतो भेदोऽङ्गीक्रियते । तथाऽपि धर्मधर्मिणोरुभयोः पारमार्थ्यनिरासे तात्पर्यमिति ज्ञेयम् ॥ भ्रान्तित्वेनेति ॥ एकत्र व्यभिचरितत्वेनाविश्वविषयत्वेनेत्यर्थः । प्रबलागमविरुद्धत्वेनेति वा । ॥ अत एवेति ॥ मूलप्रत्यक्षस्य भ्रान्तित्वादित्यर्थः ॥ अनुमानमपीति ॥ घटः पटप्रतियोगिकभेदाधिकरणं पटावृत्तिधर्माधिकरणत्वाद् व्यतिरेकेण पटवदित्यनुमानम् । `भिन्ना प्रकृतिरष्टधे’त्यागमश्चेत्यर्थः । ऐक्ये प्रमाणाभावादिति द्वितीयं पक्षं निराह – अभेदे त्विति ॥ एकेति ॥ सर्वेषामहमित्येवोल्लेखेन वैचित्र्यानुपलम्भादिति भावः ॥ विमता इति ॥ व्यावहारिकभेदेन वा पररीत्या वा ग्राह्यसन्देहस्यादूषणत्वात्सन्दिग्धेन वा भेदेन वा बहुवचनं पक्षदृष्टान्तादिभावश्चेति ज्ञेयम् । बाधापसिद्धान्तवारणाय परमार्थत इति ।
(४)भेदचन्द्रिका
ननु –
`विरोधे गुणवादः स्यादनुवादोऽधारिते ।
भूतार्थवादस्तत्त्वानामनुवादस्त्रिधा मतः'
इत्युक्तेरधिकविधानार्थानुवादस्थले अर्थाबाधरूपप्रामाण्यदर्शनाच्चानुवादत्वेऽप्यर्थाबाधः किन्न स्यादित्यत आह – अनुवादश्चेति ॥ तथा च निषेधार्थानुवादेनार्थाबाध इत्याशयः । एवं चेतनरूपविश्वभिन्नत्वं निरस्याचेतनभिन्नत्वं निरस्यति ॥ एतेनेति ॥ घटपटादिभेदे घटपटादिप्रतियोगिकेश्वरनिष्ठभेदे घटपटादिनिष्ठेश्वरप्रतियोगिकभेदे वा प्रसङ्गात्परस्परप्रतियोगिकपरस्परनिष्ठभेदप्रमाणनिरासोऽप्ययम् ॥ प्रत्यक्षस्येति ॥ अहं घटो नेति घटोऽयं नेति घटः पटो नेति च प्रत्यक्षस्येत्यर्थः ॥ अत एवेति ॥ प्रत्यक्षस्याप्रमाणत्वाद्व्याप्तिग्राहकत्वेन पक्षग्राहकत्वे चैतन्मूलानुमानस्य शब्दस्वरूपादिग्राहक्त्वेन तन्मूलशब्दस्य च न मानतेत्यर्थः । ननु भेदो नाम तादात्म्यनिषेधः । तादात्म्यं चाभेदस्तत्र प्रमाणाभाव एव भेदे प्रमाणं भविष्यति । न प्रमाणान्तरं वक्तव्यमित्यत आह – अभेदे त्विति ॥ एवञ्च न तत्र प्रमाणाभाव इति भावः । एतेन विश्वभेदाक्षेपस्य तत्र प्रमाणाभावसमर्थनेन सिद्धत्वादभेदे प्रमाणानां कथनमसङ्गतमिति शङ्का परास्ता वेदितव्या । ननु घटो घटोऽयमित्येकाकारेणानुभूतानामपि घटानां भेदवदहमित्येकाकारेणानुभूतानामात्मनामपि भेदः स्यात् । आकारमात्रस्याहन्त्वस्य घटत्ववत्परमैक्यं स्यात् । तत्र घटत्वावच्छिन्नप्रतियोगिताकभेदाभाववदिहाप्यात्मत्वावच्छिन्नप्रतियोगिताकभेदाभावेऽपि तत्तदात्मत्वेन भेदस्तु स्यादित्यरुचेराह – अनुमानमिति ॥ व्यावहारिकभेदाङ्गीकारेण बाधवारणाय परमार्थत इति ।
(४)भेदसञ्जीविनी
॥ द्वा सुपर्णेति ॥ ननु कथमस्य भेदे प्रमाणत्वम् । द्वित्वस्योक्तावपि भेदस्यानुक्तत्वात् । न च द्वित्वं भेदव्याप्तमिति तदुक्त्या भेदः सिध्यतीति वाच्यम् । तथात्वेऽस्यानुमानोत्थापकत्वापत्त्याऽऽगमतया प्रमाणत्वेनोपन्यासायोगात् । न च तयोरन्य इत्यंशेन भेदः शाब्दविषयो भवतीति वाच्यम् । तर्हि तदंशस्यैवोदाहरणीयत्वेनानुपयुक्तांशोदाहरणासङ्गतिः । द्वे ब्रह्मणीत्युदाहरणस्य सर्वथाऽसङ्गतिरिति चेन्न । अत्र द्वौ द्वे इति शब्दस्यैव (परस्पर)भेदविशिष्टबोधकत्वमन्यथा सुपर्णाविति ब्रह्मणीति द्विवचनेनैतत्पदयोरन्यतरवैयर्थ्यापत्तेः । अन्यतरस्यानुवादकत्वाश्रयणस्यागतिकागतित्वादित्यभिप्रायेणैतदुदाहरणसङ्गतेः । न च कया वृत्या द्विशब्दस्य भेदविशिष्टबोधकत्वमिति चेन्न निरूढलक्षणया शक्त्या वा । शक्तिस्तु `द्विशब्दो द्वित्वसङ्खयायां भेदे चापि प्रयुज्यत’ इति नानार्थरत्नमालोक्तेरिति ब्रूमः । तत्कथमिति चेत् । द्वैतशब्दघटकद्विशब्दस्य भेदवदर्थकतयैवानादिव्यवहारात् । अन्यथा द्विशब्दस्य भावप्रधानतया द्वीतिशब्दस्य भेदविशिष्टार्थकत्वेन तदुत्तरभावार्थकाण्प्रत्ययेन भेदबोधानुपपत्तेः । भावप्रत्ययस्य प्रकृत्यर्थतावचछेदकबोधकत्वनियमेन द्वित्वबोधकत्वस्यैवापत्तेः । व्याख्यातश्चायंशब्दो `यत्र द्वैतमिव भवति’ इति श्रुतिव्याख्यावसरे विष्णुतत्त्वविनिर्णयटीकादावुक्तरीत्या भेदपरतयैवेति न किञ्चिदत्रासमञ्जसम् ॥ नेह नानेति ॥ इह ब्रह्मणि नाना भेदविशिष्टं किमपि नास्तीति निषेधः भेदसामान्यनिषेधपर्यवसायी सन् प्रपञ्चस्य ब्रह्मण्यध्यस्तत्वरूपं तदात्मकत्वं गमयतीति भावः ॥ एतेनेति ॥ निर्दोषागमेन समस्तभेदस्य निषिद्धत्वेनेत्यर्थः । ननु कथं प्रमाणनिरासः ? प्रत्यक्षस्य, तन्मूलकविरुद्धधर्माधिकरणत्वरूपानुमानानां च सत्त्वात्प्रत्युत तद्विरोधेन श्रुतिरेव न स्वार्थपरेत्यत आह – प्रत्यक्षस्येति ॥ प्रत्यक्षरूपज्ञानस्येत्यर्थः ॥ भ्रान्तित्वेनेति ॥ भ्रान्तत्वेनेति पाठे भावे क्तः । भ्रान्तत्वसम्भावनाविषयत्वेनाप्रमाणत्वात् प्रमाणत्वेन निश्चेतुमशक्यत्वात् । तथा च शुक्तिरजतादिप्रत्यक्षस्य करणदोषादिमूलत्वेन भ्रान्तित्वस्य दृष्टत्वादन्यत्रापि दोषसम्भावनया प्रमाणत्वेन निश्चयायोगात् । आगमस्यापौरुषेयत्वेन निर्दोषत्वेन निश्चितप्रामाण्यकत्वात्तेन प्रत्यक्षस्यैव बाधस्तन्मूलभूतानुमानस्य तु सुतरामेवेति भावः । एतेनेत्यस्योक्तार्थकत्वानङ्गीकारे वक्ष्यमाणस्यैव तद्विवरणरूपत्वाङ्गीकारे प्रमाणसामान्यनिरासं प्रतिज्ञाय प्रत्यक्षानुमानयोरुभयोरेव निराकरणे न्यूनताप्रसङ्गा(ङ्गता)पत्तेरिति ध्येयम् । घटपटभेदादौ प्रमाणनिराकरणं च प्रासङ्गिकतया वा परस्परं घटपटादीनामत्यन्तभेदे (तादृश)जगता सह कथं ब्रह्मणो भेदाभावः परस्परमत्यन्तभिन्नयोरेकवस्तुरूपत्वस्यानुभवविरुद्धत्वादिति शङ्कानिरासाय वेति बोध्यम् ।
ननु विश्वस्माद्ब्रह्मणो भेदे कथं प्रमाणाभावः । तयोरभेदे प्रमाणाभावरूपहेतुबलादेव भेदसिद्धेरित्याशङ्कामपाकर्तुमभेदे प्रमाणान्याह ॥ अभेदे त्विति ॥ यद्वा पूर्वपक्षी परपक्षे प्रमाणानि निराकृत्य स्वमते प्रमाणान्याह – अभेदे त्विति ॥ चैतन्यैक्यादावित्यर्थः ॥ अहमित्येकाकारेणेति ॥ अनुगतप्रतीतेरेकविषयकत्वं विनाऽनुपपत्तेः सर्वत्र तादृशप्रतीतौ भासमानचैतन्यैक्यं युक्तं विशेष्यांशे बाध एव । घट इत्यादिप्रतीतीनामिव प्रकारैक्यमादायानुगताकारत्वं वक्तव्यम् । प्रकृते च न तथा । प्रत्यक्षादीनां भेदविषये निरस्तत्वादिति भावः । (ब्रह्मणोऽपि) ‘तदात्मानमेवावेदाहं ब्रह्मास्मी’त्यादिश्रुतिभिः ‘यस्मात्क्षरमतीतोऽहमि’त्यादिस्मृतिभिश्चाहमिति प्रतीतेः सिद्धत्वात्तच्चेतनैक्यमतेऽपि प्रत्यक्षम् (एव) प्रमाणमिति भावः ॥ विमता इति ॥ व्यावहारिकभेदस्याङ्गीकृतत्वात् तदभावसाधने बाधवारणाय तत्त्वत इति पारमार्थिकत्वेनेत्यर्थः । न च व्यावहरिकभेदसत्त्वेऽपि तस्य मिथ्यात्वानुरोधेन तदभावस्याप्यङ्गीकृतत्वात् कथं बाध इति वाच्यम् । अव्याप्यवृत्तित्वमादायार्थान्तरतासिद्धसाधनतावारणाय भेदाभावे प्रतियोगिवैय्यधिकरण्यस्यावश्यमेव निवेशनीयतया बाधानिस्तारात् । यद्वा मिथ्यात्वशरीरनिविष्टोऽभावो न प्रतियोगिनो व्यावहारिक(सत्व)ज्ञानविरोधी । तस्येदानीमव्यावृत्तत्वान्न तमादाय लोके विप्रतिपत्त्यादिप्रसक्तिः । इत्थं च परमात्मप्रतियोगिकभेदतदभावकोटिकविप्रतिपत्तेर्लोकसिद्धभेदविरोध्यभावावलम्बनत्वात् तादृशभेदाभावस्य साध्यत्वेन तद्विरोधिव्यावहारिकभेदसत्त्वाद्बाधो भवत्येव । अन्यथा वह्निरनुष्ण इत्यादीनामबाधितत्वप्राप्त्याऽभावसाध्यकबाधितहेतुमात्रोच्छेदप्रसङ्गात् । अतस्तत्परास इति वक्तव्यमेव । न च पारमार्थिकत्वविशिष्टभेदरूपप्रतियोग्यप्रसिद्ध्या तदभावकोटेरप्रसिद्धिरेव । तार्किकादिवत्स्वमतेऽपि प्रतियोगिसत्त्व एवाभावसत्त्वमित्यद्वैतसिद्धितट्टीकादावुक्तत्वादतः कथं तस्य विप्रतिपत्तिविषयता साध्यता चेति वाच्यम् । व्यधिकरणधर्मावच्छिन्नाभावस्यैवाभ्युपगमेन पारमार्थिकत्वावच्छिन्नभेदवृत्तिप्रतियोगिताकाभावस्य विप्रतिपत्तिविषयतायाः साध्यतायाश्च सम्भवात् । एतत्पक्षे (स्व)प्रतियोगितावच्छेदकावच्छिन्नस्वप्रतियोगिवृत्त्यवच्छेदकताकभेदवद्वृत्तित्वमेव प्रतियोगिवैय्यधिकरण्यं व्यधिकरणधर्मवच्छिन्नावच्छेदकताकभेदोऽभ्युपगम्यत इति ज्ञातव्यम् । तदनङ्गीकारे तु वक्ष्यमाणविप्रतिपत्तिविषयतावच्छेदकाक्रान्तेषु जीवात्मसु पारमार्थिकनिरूपितत्वपरमात्मप्रतियोगिकभेदनिरूपितत्वोभयाभाववत् स्ववृत्त्यधिकरण(ता)सामान्यकत्वं तदभावकोटिका विप्रतिपत्तिः । प्रथमकोटिरद्वैतिनां जीवनिष्ठाधिकरण(ता)सामान्यस्योभयाभाववत्त्वे जीवे परमात्मप्रतियोगिक(पारमार्थिक)भेदो निराकृत एव भवति । घटाभावादिनिरूपितजीवनिष्ठयत्किञ्चिदधिकरणतामादाय सिद्धसाधनतावारणाय सामान्यनिवेशः । पारमार्थिकनिरूपितत्वं ब्रह्मधर्मशुद्धत्वादिनिष्ठाधेयतादिष्वद्वैतमते प्रसिद्धम् । अभावकोटिर्भेदवादिनां तादृशाधिकरणतासामान्यकत्वाभावस्य जीवे परमात्मप्रतियोगिकपारमार्थिकभेदाधिकरणतां विना पर्यवसानायोगात् । तथा चोक्तसामान्यकत्वमेव साध्यमिति न कश्चिद्दोषः । यदि चात्र स्वत्वस्याननुगतत्वात्साध्यस्याननुगम इति विभाव्यते तदा परमार्थत्वनिरूपितत्वपरमात्मप्रतियोगिकभेदनिरूपितत्वोभयस्य स्वावच्छिन्ननिरूपकताधिकरणतानधिकरणत्वसम्बन्धावच्छिन्नप्रतियोगिताकाभावः साध्यः । जीवे परमात्मप्रतियोगिकपारमार्थिकभेदसत्त्वे तादृशोभयत्वावच्छिन्ननिरूपकताकाधिकरणता तदुभयनिरूपिततादृशभेदाधिकरणतानिष्ठाधिकरणता तद्वदधिकरणता जीवनिष्ठतादृशभेदाधिकरणता भवति । तत्सम्बन्धेनोभयत्वसत्त्वात्तत्सम्बन्धावच्छिन्नप्रतियोगिताकतादृशोभयत्वाभावरूपसाध्यं पक्षे दुरुपपादं स्यादतस्तस्मिंस्तादृशभेदनिराससिद्धिः । सम्बन्धकोटौ स्वत्वस्य परिचायकत्वान्नाननुगमः । उक्तसम्बन्धो द्वैतिनां मते उक्तोभयत्वस्य व्यधिकरण एव । घटनिरूपितत्वपटनिरूपितत्वोभयत्वादेर्भूतलादौ सम्बन्धतया प्रसिद्धिः । न च परमात्मप्रतियोगिकपारमार्थिकभेदस्य जीवे सत्त्वेऽप्युक्तसाध्योपपत्तिः । भेदस्यैव परमार्थत्वेन निरूपितत्वद्वयस्य भेदाधिकरणतायामभावेन तादृशोभयत्वाभावस्य पक्षे सम्भवादिति वाच्यम् । पारमार्थिकत्वावच्छिन्नभेदत्वावच्छिन्ननिरूपकताकत्वयोर्भेदात् । अभेदे वा पारमार्थिकत्वावच्छेद्यत्वतादृशभेदत्वावच्छेद्यत्वैतदुभयत्वस्यैव स्वविशिष्टाधिकरणतावन्निरूपकतानिरूपिता(पका)धिकरणतासम्बन्धावच्छिन्नप्रतियोगिताकाभाव एव साध्यमित्यदोषः । यद्वा जीववृत्त्यधिकरणतावच्छेदेन पारमार्थिकत्वावच्छिन्ननिरूपकताकत्वपरमात्मप्रतियोगिकभेदत्वावच्छिन्ननिरूपकताकत्वैतदुभयाभावसाधनेऽस्य तात्पर्यम् । तदनुसारेण हेत्वादिकमूह्यम् । एवमन्यत्रापि द्रष्टव्यम् ।
(४)काशीतिम्मण्णाचार्य
अस्तु तर्हि द्वा सुपर्णेत्याद्यागम एवाऽत्मभेदे प्रमाणम् । तत्र जीवेश्वराख्यपक्षिणोर्द्वे ब्रह्मणीत्यत्र परापरब्रह्मतया उक्तयोस् तयोरेव भेदव्याप्तद्वित्वश्रवणात् । तयोरन्यः, अनश्नन्नन्य इति साक्षादपि तयोर्भेदाभिधानात् । बह्वीः प्रजाः पुरुषात् सम्प्रसूता इति जीवानामपि नानात्वावगमादित्याशङ्क्याह – द्वा सुपर्णेति ॥ द्वौ सुपर्णावित्यौकारस्याकारादेशः । ननु भेदस्य मानान्तरासिद्धताया उक्तत्वात् कथमागमस्य तदनुवादकत्वमित्यतो लोकसिद्धेत्युक्तम् । लोकव्यवहारसिद्धेत्यर्थः । स च वक्ष्यमाणप्रमाणविरोधादप्रमाणमेवेति भावः । नन्वनुवादमात्रेण कथं भेदस्य निरासः । अन्यथा दध्यादिरूपगुणविधानाय दध्ना जुहोतीत्यनूद्यमानयागादेरपि निरासप्रसङ्गादत आह – अनुवादश्चेति ॥ निषेधायेति ॥ ब्रह्मणि पारमार्थिकत्वाकारेण भेदनिषेधायेत्यर्थः । तथाच भेदानुवादस्य तन्निषेध एव तात्पर्यान्न तत्रागमस्य प्रामाण्यमिति भावः ।
एवमात्मभेदं निरस्य भेदमात्रस्यापारमार्थिकत्वसिद्ध्यर्थमात्मानात्मनोरनात्मनां च मिथो भेदं दूषयति – एतेनेति ॥ भेदमात्रस्य नेह नानास्तीति निषिद्धत्वेनेत्यर्थः ॥ घटपटादिभेद इति ॥ घटपटादिभिरात्मनस्तेषां च मिथो भेद इत्यर्थः । तर्हि घटपटौ भिन्नवित्यादिप्रत्यक्षस्य का गतिरत आह – प्रत्यक्षस्येति ॥ सम्भावितदोषस्य प्रत्यक्षस्य निर्दुष्टागमविरोधे सत्यप्रामाण्यस्यैव युक्तत्वादिति भावः ॥ अत एव ॥ भेदग्राहिप्रत्यक्षस्य भ्रान्तित्वादेव ॥ तन्मूलकेति ॥ तादृशप्रत्यक्षसंवादसापेक्षेत्यर्थः । अनुमानादिरित्यादिना पौरुषेयागमपरिग्रहः । केवलस्यानुमानादेः शङ्किताप्रामाण्यकत्वेनासाधकत्वात्, प्रत्यक्षादिप्रमाणसंवादेनैव प्रामाण्यं वाच्यम् । तस्य च प्रत्यक्षादेरप्रामाण्ये तत्समानविषयानुमानादिप्रामाण्यस्य दुर्लभत्वादिति भावः ।
व्याप्तिग्राहकसहचारप्रत्यक्षस्य भ्रमत्वान्न तन्मूलकानुमानादिः प्रमाणमित्यपि व्याचक्षते । तत्र यद्यपि वह्निवारिणोः सहचारभ्रमेऽपि पर्वतादौ वारिलिङ्गकवह्न्यनुमानस्य प्रामाण्यमस्ति । तथापि व्याप्तिपक्षधर्मताविरहे प्रामाण्यं दुरवधारणमित्याशयः ।
एवमभेदे बाधकप्रमाणं निरस्य दार्ढ्याय त्रिविधमपि साधकप्रमाणं दर्शयति – अभेदे त्विति ॥ यत्त्वभेदे प्रमाणाभाव एव भेदे प्रमाणं भविष्यतीत्यत आह – अभेदे त्वितीति ॥ तच्चिन्त्यम् । तुल्यन्यायेन भेदे प्रमाणाभाव एवाभेदे प्रमाणमिति वक्तुं शक्यत्वात् । अभेदे प्रमाणाभावस्यानुमानविधयैव भेदसाधकतया तन्निरासावसर एव निरसनीयत्वाच्च ।
नन्वात्मान्तरप्रतियोगिकभेदस्य प्रतियोग्यप्रत्यक्षेणाप्रत्यक्षत्वस्योक्तत्वात् कथं तदभावरूपाभेदस्य प्रत्यक्षत्वमित्यत आह – एकाकारेणेति ॥ एकवस्तुतादात्म्येनेत्यर्थः । अयं भावः । भेदाभावो हि प्रतियोगितादात्म्यम् । तथाचाहमित्येकाकारानुभवानामेकवस्तुविषयकत्वे लाघवेनैकचित्तादात्म्यावगाहिनोऽहमिति प्रत्यक्षस्य कथमभेदे प्रामाण्यासम्भव
इति ॥ विमता आत्मान इति ॥ बहुवचनमवच्छेदकावच्छेदेन साध्यसिद्धेरुद्देश्यत्वसूचनाय । अन्यथा सर्वात्मनामैक्यासिद्धेः । जीवपरमात्मनोर्व्यावहारिकभेदाभ्युपगमात् सामान्यतो भेदनिषेधे बाधः स्यादतः – परमार्थत इति ॥ न चैवं पारमार्थिकभेदाप्रसिद्ध्या साध्याप्रसिद्धिरिति
वाच्यम् । पारमार्थिकत्वेन भेदाभावस्य साध्यत्वात् । तन्मते व्यधिकरणधर्मावच्छिन्नाभावसत्त्वेन साध्यप्रसिद्धेः ।
एतेन पारमार्थिकत्वमभेदविशेषणमित्यपास्तम् । उक्तबाधानिस्तारात् ।
न च प्रतिभासिकाभेदसिद्ध्याऽर्थान्तरमिति वाच्यम् । पारमार्थिकाभेदस्यैव साध्यत्वात् ।
परमार्थतो न भिद्यन्त इत्यनेन पारमार्थिकतादात्म्यस्यैव साध्यत्वं विवक्षितमिति तु न सत् । व्यवहारतोऽपि न भिद्यन्त इति वक्ष्यमाणाभाससाम्याननुगुणत्वात् । तत्र व्यावहारिकस्य परमात्मतादात्म्यस्य दृष्टान्ते परमात्मन्यसत्त्वेन साध्यत्वासम्भवात् ।
सामान्यतः पारमार्थिकभेदाभावस्य सिद्धान्तिनं प्रत्यसिद्धिरतः परमात्मप्रतियोगिकत्वं भेदविशेषणम् ।
(४)शर्कराश्रीनिवासाचार्य
तृतीयं पक्षं निराकरोति ॥ द्वा सुपर्णेति ॥ `सुपां सुलुक्पूर्वसवर्णाच्छेयाडाड्यायाजाल’ छन्दसि विषये सुपां स्थाने सुश्च लुक्च पूर्वसवर्णश्च आ च आच् च शे च या च डा च ड्या च याज्च आल्च इत्येते आदेशाः स्युरिति सूत्रार्थः । उदाहरणन्तु । `ऋजवः सन्तु पन्था’ इत्यादि । अत्र द्वावित्यौकारस्याकारादेशे द्वा इत्यादिभवति । ततश्चायमर्थः । सयुजौ संयुक्तौ । सखायौ मित्रे । द्वौसुपर्णौ वृक्षाश्रितत्वेन पक्षिरूपौ जीवेशौ । समानम् एकम् । वृक्षं देहाख्यमश्वत्थम् । परिषस्वजाते आलिलिङ्गगतुः । तयोः सुपर्णयोर्मध्ये । अन्यो जीवः । पिप्पलरूपं देहजनितकर्मफलम् अस्वाद्वेव स्वादुत्वेनात्ति । अन्य ईश्वरः । तदनश्नन् । अभि अभितः । चाकशीति प्रकाशते । नतु स्वस्थित्यै तदपेक्षत इति । `द्वे ब्रह्मणी वेदितव्ये’ इत्यस्य परापरब्रह्मशब्दावाच्ये ज्ञातव्ये इत्यर्थः । भेदानुवादको नतु भेदप्रतिपादकः । येनास्यागमस्य भेदेप्रामाण्यं स्यादिति भावः । ननु सिद्धस्यानुवादः सम्भवति । अत आगमस्यानुवादकत्वसिद्धये भेदस्य यत्प्रमाणसिद्धत्वमङ्गीक्रियतेतदेवास्माकं भेदसाधकप्रमाणमित्यत आह – लोकसिद्धेति ॥ लोकव्यवहारसिद्धेत्यर्थः । लोकव्यवहारस्तु न प्रमाणमिति भावः । नन्वधिकविधानार्थमनुवादः क्रियते यथा दध्नाजहोतीत्यत्राग्निहोत्रं जुहुयादित्यनेन प्राप्तयागं जुहोतीत्यनूद्य दध्नेति दधिलक्षणगुणो विधीयते । यज्जुहोति तद्दध्नेति नचात्राधिकविधानमस्ति येनागमस्य भेदानुवादकत्वं युज्यत इत्यत आह – अनुवादश्चेति ॥ चशब्दस्तुशब्दार्थः निषेधार्थमपि क्वचिदनुवादः क्रियते यथा नास्तीति निषेधाय इह भूतले घट इत्यनुवादः । तथाचेहापि नेहनानेत्यनेनेह जगति ब्रह्मणि वा किञ्चन किञ्चित् पदार्थप्रतियोगिकोऽपि नाना भेदो नास्तीत्येवं निषेधाय द्वासुपर्णेत्यागमेन लोकसिद्धभेदानुवादः क्रियत इत्यर्थः । एवमात्मभेदे प्रमाणं निराकृत्यानात्मभेदे तन्निराकरोति ॥ एतेनेति ॥ नेहनानेति वाक्यस्य भेदनिषेधकत्वकथनेनेत्यर्थः । कथमित्यत आह – प्रत्यक्षस्येति ॥ यत्प्राप्तं प्रमाणेन बाध्यते तज्ज्ञानं भ्रान्तिः । यथेदं रजतमित्यनेन प्राप्तरजतस्य रजतमित्याप्तवाक्येन बाधितत्वात्तस्य भ्रान्तित्वम् । प्रकृते च घटः पटो नेत्यनेन प्राप्तस्य घटपटादिभेदस्य नेह नानेत्यनेन बाधितत्वात्तस्य भ्रान्तित्वं दुर्वारमिति भावः । भ्रान्तत्वेनेति पाठे भावे क्तः । भ्रान्तित्वेनेत्यर्थः ॥ अत एवेति ॥ उपजीव्यप्रत्यक्षस्याप्रामाण्यादेवेत्यर्थः । न केवलमप्रामाणिकत्वेन भेदाभावः किन्तु प्रामाणिकतयाऽभेद एवाभ्युपगम्यत इत्याशयेनाभेदे प्रमाणत्रयमाह अभेदे त्विति ॥ एकाकारेण एकत्वेन । भेदे आवां वयमिति वाप्रत्ययः स्यादिति भावः । परमात्मनः सकाशात्व्यावहारिकभेदस्य स्वेनाङ्गीकृतत्वेन परमार्थत इत्युक्तम् ।